०१
विश्वास-प्रस्तुतिः
जनक᳘ᳫँ᳘ ह व्वै᳘देहं या᳘ज्ञवल्क्यो जगाम॥
स᳘ मेने न व्वदिष्य ऽइत्य᳘थ ह य᳘ज्जनक᳘श्च व्वै᳘देहो या᳘ज्ञवल्क्यश्चाग्निहोत्रे᳘ समूद᳘तुस्त᳘स्मै ह या᳘ज्ञवल्क्यो व्व᳘रन्ददौ स᳘ ह कामप्रश्न᳘मेव᳘ व्वव्व्रे त᳘ᳫँ᳘ हास्मै ददौ त᳘ᳫँ᳘ ह सम्म्रा᳘डेव पू᳘र्व्वः पप्प्रच्छ॥
मूलम् - श्रीधरादि
जनक᳘ᳫँ᳘ ह व्वै᳘देहं या᳘ज्ञवल्क्यो जगाम॥
स᳘ मेने न व्वदिष्य ऽइत्य᳘थ ह य᳘ज्जनक᳘श्च व्वै᳘देहो या᳘ज्ञवल्क्यश्चाग्निहोत्रे᳘ समूद᳘तुस्त᳘स्मै ह या᳘ज्ञवल्क्यो व्व᳘रन्ददौ स᳘ ह कामप्रश्न᳘मेव᳘ व्वव्व्रे त᳘ᳫँ᳘ हास्मै ददौ त᳘ᳫँ᳘ ह सम्म्रा᳘डेव पू᳘र्व्वः पप्प्रच्छ॥
मूलम् - Weber
जनक᳘ᳫं᳘ ह वै᳘देहं या᳘ज्ञवल्क्यो जगाम॥
स᳘मेनेन वदिष्य 1 इत्य᳘थ ह य᳘ज्जनक᳘श्च वै᳘देहो या᳘ज्ञवल्क्यश्चाग्निहोत्रे᳘ समूद᳘तुस्त᳘स्मै ह या᳘ज्ञवल्क्यो व᳘रं ददौ स᳘ ह कामप्रश्न᳘मेव᳘ वव्रे त᳘ᳫं᳘ हास्मै ददौ त᳘ᳫं᳘ ह सम्रा᳘डेव पू᳘र्वः पप्रछ॥
मूलम् - विस्वरम्
ज्योतिर्ब्राह्मणम् ।
जनकं ह वैदेहं याज्ञवल्क्यो जगाम । स मेने । न वदिष्य इति । अथ ह यज्जनकश्च वैदेहो याज्ञवल्क्यश्चाग्निहोत्रे समूदतुः । तस्मै ह याज्ञवल्क्यो वरं ददौ । स ह कामप्रश्नमेव वव्रे । तं हास्मै ददौ । तं ह सम्राडेव पूर्वः पप्रच्छ ॥ १ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
मधु-काण्डे तावत् बुद्ध्यनुप्रविष्ट ईश्वरः अविद्यया अकृत्स्नत्वमापन्न इति “तन्न पश्यन्त्यकृत्स्नो हि सः” (श. प. बृ. १४ । १ ।२ । १६) इत्यादिनोक्तम् । पुनस्तस्यैवाविद्या-निरासेन स्वरूपावस्थानं चागम-प्राधान्येन निर्द्धारितम् । एवं मधु-काण्डे निरूपित आत्मा यत्साक्षादपरोक्षादित्यादिलक्षणो जल्पन्यायमवलम्ब्य अखण्डप्रत्यक्त्वेन निरूपितः । तस्यैव वाद-न्यायेन स्वरूप-निर्णयाय वागादि-देवतासु ब्रह्म-दृष्टि-द्वारा “इन्धो ह वै” (श. प. बृ. १४ । ३ । ११ । २) इत्यादिना जागराद्यवस्थवैश्वादिप्रदर्शनेन तुरीयं “नेति नेति” इत्यादिलक्षणं ब्रह्मात्मतत्त्वमुपदिष्टम् । इदानीं पूर्वोक्त जागराद्यवस्थां अनुसृत्य महता तर्केण अनेक-विप्रतिपत्ति-निरास-द्वारेण देहादि-व्यतिरिक्त-शुद्ध-स्वयं-प्रकाश-अतिशयान्न्द-स्वभाव-लक्षणं पूर्वोक्तमेवात्मानं अधिगमयितुं ज्योतिर्ब्राह्मणमारभ्यते जनकं ह वैदेहं याज्ञवल्क्यो जगामेति । विद्या-ग्रहणे शिष्यस्य श्रद्धादि-लक्षणाचार-विधि-प्रकाशनार्था ब्रह्म-विद्या-स्तुत्य्-अर्था च इयमाख्यायिका । ऐतिह्य-द्योतको ह-शब्दः । ‘जनकं वैदेहं’ प्रति ‘याज्ञवल्क्यः’ योग-क्षेमार्थं ‘जगाम’ गतवान् । ‘सः’ गच्छन् याज्ञवल्क्यो राज्ञे अहं किञ्चिदपि ‘न वदिष्य इति मेने’ विचारयामास । यद्वा- ‘सम् एनेन’ इति छेदः । तथा च ‘एनेन’ राज्ञा अहं ‘संवदिष्ये’ इत्य् अभिप्रायवान् ‘वैदेहं जनकं’ जगामेत्य् अर्थः । ननु- ‘न वदिष्ये’ इति सङ्कल्पे ऽपि राज-कृतेषु प्रश्नेषु उत्तर-दानेन मुनेः स्व-प्रतिज्ञा-हानौ को हेतुरिति अपेक्षायां संवदिष्य इति च व्याख्याया वर-दानमेव हेतुरिति कथयितुं कर्म-काण्ड-वृत्तामाख्यायिकामाह- अथ ह यज्जनकश्च वैदेह इत्यादिना । ‘ह’ किल यद्यत्र कर्म-काण्डे (श. प. ११ । ६ । २ ।१०) ‘वैदेहो जनकः’ ‘याज्ञवल्क्यश्च’ परस्परं ‘अग्निहोत्रे’ निमित्ते ‘समूदतुः’ सम्वादं कृतवन्तौ । तत्र जनकस्याग्निहोत्र-विषयं विज्ञानं विशदमुपलभ्य परितुष्टो याज्ञवल्क्यः ‘तस्मै’ जनकाय किल ‘वरं ददौ’ वरं वृणीष्वेत्य् उक्तवानित्य् अर्थः । ‘सः’ जनकः ‘ह’ किल, ‘काम-प्रश्नमेव’ इच्छा-प्रश्नमेव ‘वव्रे’ वरं वृतवान् । ‘तं’ च वरं याज्ञवल्क्यः ‘ह’ ‘अस्मै’ राज्ञे ‘ददौ’ दत्तवान् । एवं प्राप्त-वरो राजा किं कृतवानित्य् आह- तं ह सम्राडेवेति । ‘पूर्वः’ इत्यत्र लिङ्गमविवक्षितम् । ‘न वदिष्ये’ इत्यागतं तूष्णीम्भूतं ‘तं सम्म्राडेव’ ‘पूर्वः’ पूर्वं ‘पप्रच्छ’ लब्धवरत्वात्पृष्टवानिति भावः ॥ १ ॥
०२
विश्वास-प्रस्तुतिः
या᳘ज्ञवल्क्य कि᳘ञ्ज्योतिरयम्पु᳘रुष ऽइ᳘ति॥
(त्या) आदित्य᳘ज्योतिः सम्म्राडि᳘ति होवाचादित्ये᳘नै᳘वायञ्ज्यो᳘तिषा ऽऽस्ते प᳘ल्ययते क᳘र्म्म कु᳘रुते व्विप᳘र्य्येती᳘त्येव᳘मे᳘वैत᳘द्याज्ञवल्क्य॥
मूलम् - श्रीधरादि
या᳘ज्ञवल्क्य कि᳘ञ्ज्योतिरयम्पु᳘रुष ऽइ᳘ति॥
(त्या) आदित्य᳘ज्योतिः सम्म्राडि᳘ति होवाचादित्ये᳘नै᳘वायञ्ज्यो᳘तिषा ऽऽस्ते प᳘ल्ययते क᳘र्म्म कु᳘रुते व्विप᳘र्य्येती᳘त्येव᳘मे᳘वैत᳘द्याज्ञवल्क्य॥
मूलम् - Weber
या᳘ज्ञवल्क्य किं᳘ज्योतिरयम् 2 पु᳘रुष इ᳘ति॥
आदित्य᳘ज्योतिः सम्राडि᳘ति होवाचादित्ये᳘नैॗवायं ज्यो᳘तिषास्ते प᳘ल्ययते क᳘र्म कुरुते उइप᳘र्येती᳘त्येव᳘मेॗवैत᳘द्याज्ञवल्क्य॥
मूलम् - विस्वरम्
याज्ञवल्क्य किञ्ज्योतिरयं पुरुष इति । आदित्यज्योतिः सम्राट् इति होवाच । आदित्येनैवायं ज्योतिषा ऽऽस्ते पल्ययते कर्म कुरुते विपर्येतीति । एवमेवैतद्याज्ञवल्क्य ॥ २ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
किं पप्रच्छेत्यपेक्षायां प्रत्यगात्म-चैतन्य-स्वरूपं जिज्ञासमानः कार्य-करण-सङ्घातात्मा पुरुषो ज्योतिर्निर्वर्त्यमासनगमनादिकार्यं स्वाभिन्नेनैव ज्योतिषा अनुगृहीतो निर्वर्तयति, किं वा- स्वव्यतिरिक्तेनेति सन्दिहानः पृच्छति- याज्ञवल्क्य किञ्ज्योतिरयं पुरुष इतीति । हे ‘याज्ञवल्क्य !’ ‘अयं पुरुषः’ कार्य-करण-सङ्घात-रूपः शिरःपाण्यादिमान् पण्डः ‘किञ्ज्योतिः’ किं ज्योतिरस्य विद्यते स किञ्ज्योतिः । येन ज्योतिषा अनुगृहीतो ऽयमासनादि-व्यवहारं करोति इति पप्रच्छ इत्य् अर्थः । तत्किं देहादि तद्व्यतिरिक्तं वा इति प्रष्टुरभिप्रायज्ञो मुनिः अयं हि राजा व्यतिरिक्तं ज्योतिरेव पृच्छति इति तथाविधमेव इतर-सर्व-ज्योतीरहितस्वप्नाद्यवस्थायां विविक्ततया बोधयितुकामो जागरिते तावत् दृष्टान्त-भूतानि आदित्यादीनि वागन्तानि ज्योतींषी उपन्यस्यतीति दर्शयति- आदित्य-ज्योतिः सम्राडिति होवाचेत्य् आदिना । आदित्यो ज्योतिर्यस्यासावादित्यज्योतिः पुरुष इति होवाचेत्य् अर्थः । तदेवोपपादयति- आदित्येनैवायं ज्योतिषा ऽऽस्ते इति । ‘आदित्येनैव’ चक्षुषो ऽनुग्राहकेण देह-करणाद्य्-अतिरिक्तेनैवायं प्राकृतः ‘पुरुष आस्ते’ उपविशति ‘पल्ययते’ पर्येति गच्छतीति यावत् । “उपसर्गस्यायतौ” (पा. सू. ८ । २ । १९) इति परे रस्य लत्वम् । गत्वा क्षेत्रमरण्यं वा तत्र ‘कर्म कुरुते’ पश्चाद्विपर्येति भूयो निवर्तते इत्य् अर्थः । सङ्घातादिव्यतिरिक्तमेव ज्योतिरासनादिकारणमित्य् उक्तं राजा अङ्गीकरोति- एवमेवैतद्याज्ञवल्क्येति ॥ २ ॥
०३
विश्वास-प्रस्तुतिः
(ल्क्या᳘) अ᳘स्तमित ऽआदित्ये᳘ याज्ञवल्क्य॥
कि᳘ञ्ज्योतिरे᳘वायम्पु᳘रुष ऽइ᳘ति चन्द्द्र᳘ज्योतिः सम्म्राडि᳘ति होवाच चन्द्द्रे᳘णै᳘वायञ्ज्यो᳘तिषा ऽऽस्ते प᳘ल्ययते क᳘र्म्म कु᳘रुते व्विप᳘र्य्येती᳘त्येव᳘मे᳘वैत᳘द्याज्ञवल्क्य॥
मूलम् - श्रीधरादि
(ल्क्या᳘) अ᳘स्तमित ऽआदित्ये᳘ याज्ञवल्क्य॥
कि᳘ञ्ज्योतिरे᳘वायम्पु᳘रुष ऽइ᳘ति चन्द्द्र᳘ज्योतिः सम्म्राडि᳘ति होवाच चन्द्द्रे᳘णै᳘वायञ्ज्यो᳘तिषा ऽऽस्ते प᳘ल्ययते क᳘र्म्म कु᳘रुते व्विप᳘र्य्येती᳘त्येव᳘मे᳘वैत᳘द्याज्ञवल्क्य॥
मूलम् - Weber
अ᳘स्तमित आदित्ये᳘ याज्ञवल्क्य॥
किं᳘ज्योतिरेॗवायम् 3 पु᳘रुष इ᳘ति चन्द्र᳘ज्योतिः सम्राडि᳘ति होवाच चन्द्रे᳘णैॗवायं ज्यो᳘तिषास्ते प᳘ल्ययते क᳘र्म कुरुते विप᳘र्येती᳘त्येव᳘मेॗवैत᳘द्याज्ञवल्क्य॥
मूलम् - विस्वरम्
अस्तमित आदित्ये याज्ञवल्क्य किञ्ज्योतिरेवायं पुरुष इति । चन्द्र-ज्योतिः सम्राट् इति होवाच । चन्द्रेणैवायं ज्योतिषा ऽऽस्ते पल्ययते कर्म कुरुते विपर्येतीति । एवमेवैतद्याज्ञवल्क्य ॥ ३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
यद्यपि एकेनैवादित्य-पर्यायेण व्याप्ति-ग्रह-सम्भवः । तथा ऽपि बहवो दृष्टान्ताः व्याप्तिं द्रढयन्ति, इति मत्वा प्रश्नप्रतिवचनाभ्यां ज्योतिःपर्यायान्तराणि दर्शयति- अस्तमित आदित्य इत्यादिकण्डिकाचतुष्टयेन “कतम आत्मा” इत्य् अतः प्राक्तनेन । पद-विशेषो ऽत्र व्याख्यायते- किञ्ज्योतिरेवायं पुरुष इति । प्रश्नं दृढीकर्तुं सर्वत्र एवकारः । चन्द्रो ज्योतिरस्य स चन्द्र-ज्योतिः ॥ ३ ॥
०४
विश्वास-प्रस्तुतिः
(ल्क्या᳘) अ᳘स्तमित ऽआदित्ये᳘ याज्ञवल्क्य॥
चन्द्द्र᳘मस्य᳘स्तमिते कि᳘ञ्ज्योतिरे᳘वायम्पु᳘रुष ऽइ᳘त्यग्नि᳘ज्योतिः सम्म्राडि᳘ति होवाचाग्नि᳘नै᳘वायञ्ज्यो᳘तिषा ऽऽस्ते प᳘ल्ययते क᳘र्म्म कु᳘रुते व्विप᳘र्य्येती᳘त्येव᳘मे᳘वैत᳘द्याज्ञवल्क्य॥
मूलम् - श्रीधरादि
(ल्क्या᳘) अ᳘स्तमित ऽआदित्ये᳘ याज्ञवल्क्य॥
चन्द्द्र᳘मस्य᳘स्तमिते कि᳘ञ्ज्योतिरे᳘वायम्पु᳘रुष ऽइ᳘त्यग्नि᳘ज्योतिः सम्म्राडि᳘ति होवाचाग्नि᳘नै᳘वायञ्ज्यो᳘तिषा ऽऽस्ते प᳘ल्ययते क᳘र्म्म कु᳘रुते व्विप᳘र्य्येती᳘त्येव᳘मे᳘वैत᳘द्याज्ञवल्क्य॥
मूलम् - Weber
अ᳘स्तमित आदित्ये᳘ याज्ञवल्क्य॥
चन्द्र᳘मस्य᳘स्तमिते किं᳘ज्योतिरेॗवायम् 4 पु᳘रुष इ᳘त्यग्नि᳘ज्योतिः सम्राडि᳘ति होवाचाग्नि᳘नैॗवायं ज्यो᳘तिषास्ते प᳘ल्ययते क᳘र्म कुरुते विप᳘र्येती᳘त्येव᳘मेॗवैत᳘द्याज्ञवल्क्य॥
मूलम् - विस्वरम्
अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते किञ्ज्योतिरेवायं पुरुष इति । अग्नि-ज्योतिः सम्राट् इति होवाच । अग्निनैवायं ज्योतिषा ऽऽस्ते पल्ययते कर्म कुरुते विपर्येतीति । एवमेवैतद्याज्ञवल्क्य ॥ ४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं अग्निर्ज्योतिरस्य सः ‘अग्नि-ज्योतिः’ इत्य् एवं सर्वत्र बोद्धव्यम् । अग्निनैवायमित्य् एतत् प्रभावन्मण्यादीनामप्य् उपलक्षणम् । ततो ऽपि पुरुष-प्रवृत्ति-दर्शनादित्य् अर्थः ॥ ४ ॥
०५
विश्वास-प्रस्तुतिः
(ल्क्या᳘) अ᳘स्तमित ऽआदित्ये᳘ याज्ञवल्क्य॥
चन्द्द्र᳘मस्य᳘स्तमिते शा᳘न्ते ऽग्नौ कि᳘ञ्ज्योतिरे᳘वायम्पु᳘रुष ऽइ᳘ति व्वा᳘ग्ज्योतिः सम्म्राडि᳘ति होवाच व्वा᳘चै᳘वायञ्ज्यो᳘तिषा ऽऽस्ते प᳘ल्ययते क᳘र्म्म कु᳘रुते व्विप᳘र्य्येती᳘ति त᳘स्माद्वै᳘ सम्म्राड᳘पि य᳘त्र स्वः᳘ पाणिर्न्न᳘ व्विनिर्ज्ञा᳘यते᳘ ऽथ य᳘त्र व्वा᳘गुच्च᳘रत्युपैव[[!!]] त᳘त्र᳘ न्येती᳘त्येव᳘मे᳘वैत᳘द्याज्ञवल्क्य॥
मूलम् - श्रीधरादि
(ल्क्या᳘) अ᳘स्तमित ऽआदित्ये᳘ याज्ञवल्क्य॥
चन्द्द्र᳘मस्य᳘स्तमिते शा᳘न्ते ऽग्नौ कि᳘ञ्ज्योतिरे᳘वायम्पु᳘रुष ऽइ᳘ति व्वा᳘ग्ज्योतिः सम्म्राडि᳘ति होवाच व्वा᳘चै᳘वायञ्ज्यो᳘तिषा ऽऽस्ते प᳘ल्ययते क᳘र्म्म कु᳘रुते व्विप᳘र्य्येती᳘ति त᳘स्माद्वै᳘ सम्म्राड᳘पि य᳘त्र स्वः᳘ पाणिर्न्न᳘ व्विनिर्ज्ञा᳘यते᳘ ऽथ य᳘त्र व्वा᳘गुच्च᳘रत्युपैव[[!!]] त᳘त्र᳘ न्येती᳘त्येव᳘मे᳘वैत᳘द्याज्ञवल्क्य॥
मूलम् - Weber
अ᳘स्तमित आदित्ये᳘ याज्ञवल्क्य॥
चन्द्र᳘मस्य᳘स्तमिते शाॗन्तेऽग्नौ किं᳘ज्योतिरेॗवायम् 5 पु᳘रुष इ᳘ति वा᳘ग्ज्योतिः सम्राडि᳘ति होवाच वाॗचैॗवायं ज्यो᳘तिषास्ते प᳘ल्ययते क᳘र्म कुरुते विप᳘र्येती᳘ति त᳘स्माद्वै᳘ सम्राड᳘पि य᳘त्र स्वः᳘ पाणिर्न᳘ विनिर्ज्ञा᳘यते᳘ऽथ य᳘त्र वा᳘गुच्च᳘रत्यु᳘पैव त᳘त्रॗ ण्येती᳘त्येव᳘मेॗवैत᳘द्याज्ञवल्क्य॥
मूलम् - विस्वरम्
अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्ते ऽग्नौ किञ्ज्योतिरेवायं पुरुष इति । वाग्ज्योतिः सम्राट् इति होवाच । वाचैवायं ज्योतिषा ऽऽस्ते पल्ययते कर्म कुरुते विपर्येतीति । तस्माद्वै सम्राडपि यत्र स्वः पाणिर्न विनिर्ज्ञायते; अथ यत्र वागुच्चरति; उपैव तत्र न्येतीति । एवमेवैतद्याज्ञवल्क्य ॥ ५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
वाचैवायमित्यत्र वाक्-पदेन शब्दः परिगृह्यते, नेन्द्रियम् । तस्मिन् शब्दाख्ये विषये श्रोत्र-सम्बद्धे ऽप्यासनादिज्योतिःकार्य-दर्शनात् । ननु- शब्दस्यादित्यवत् ज्योतिष्ट्वस्याप्रसिद्धेः कथं ? तस्य ज्योतिष्ट्वेनासनादि-कार्य-हेतुतेति चेत्; उच्यते । प्रथमं तावत् श्रोत्र-सम्बद्धे शब्दाख्ये विषये श्रोत्रेन्द्रियं दीप्यते । दीप्ते च तस्मिन् मनसि विवेक उपजायते । तेन च मनसा पुरुषो बाह्यां चेष्टां प्रतिपद्यते । “मनसा ह्य् एव पश्यति मनसा शृणोति”- (श. प. बृ. १ । ३ ।८) इति श्रुतेः । इत्य् एतत्सर्वमभिप्रेत्य् आह- तस्माद्वै सम्राडपि यत्र स्वः पाणिरिति । यस्मात् शब्दाख्यया वाचा ज्योतिषा अयं व्यवहरति । तस्मात्प्रसिद्धं वाचो ज्योतिष्ट्वम् । कथं? ‘यत्र’ यस्मिन् काले प्रावृड्-रात्र्यादौ ‘स्वः’ स्वकीयो ऽपि पाणिर्हस्तः ‘न विनिर्ज्ञायते’ विस्पष्टं न दृश्यते । अथ तस्मिन् काले बाह्यज्योतिषः अभावेन सर्व-चेष्टा-निरोधे प्राप्ते ‘यत्र’ यस्मिन्प्रदेशे ‘वागुच्चरति’ कश्चित् श्वा भषति गर्द्दभो वा रौति । तेन शब्देन ज्योतिषा ‘तत्र’ तस्मिन्प्रदेशे ‘उपन्येति’ उपगच्छत्य् एव सन्निहितो भवति । मार्ग् गृहं वा प्रतिपद्यत इति यावत् । एतद्वाग्-ज्योतिर्ग्रहणं गन्धादेरप्य् उपलक्षणम् । परं तेषामपि शब्दवत्प्रवृत्तिहेतुत्वात् इति भावः ॥ ५ ॥
०६
विश्वास-प्रस्तुतिः
(ल्क्या᳘) अ᳘स्तमित ऽआदित्ये᳘ याज्ञवल्क्य॥
चन्द्र᳘मस्य᳘स्तमिते शा᳘न्ते ऽग्नौ᳘ शान्ता᳘याम्वाचि कि᳘ञ्ज्योतिरे᳘वायम्पु᳘रुष ऽइ᳘त्यात्म᳘ज्योतिः सम्म्राडि᳘ति होवाचात्म᳘नै᳘वायञ्ज्यो᳘तिषा ऽऽस्ते प᳘ल्ययते क᳘र्म्म कुरुते व्विप᳘र्य्येती᳘ति॥ शतम् ७४००॥
मूलम् - श्रीधरादि
(ल्क्या᳘) अ᳘स्तमित ऽआदित्ये᳘ याज्ञवल्क्य॥
चन्द्र᳘मस्य᳘स्तमिते शा᳘न्ते ऽग्नौ᳘ शान्ता᳘याम्वाचि कि᳘ञ्ज्योतिरे᳘वायम्पु᳘रुष ऽइ᳘त्यात्म᳘ज्योतिः सम्म्राडि᳘ति होवाचात्म᳘नै᳘वायञ्ज्यो᳘तिषा ऽऽस्ते प᳘ल्ययते क᳘र्म्म कुरुते व्विप᳘र्य्येती᳘ति॥ शतम् ७४००॥
मूलम् - Weber
अ᳘स्तमित आदित्ये᳘ याज्ञवल्क्य॥
चन्द्र᳘मस्य᳘स्तमिते शाॗन्तेऽग्नौ᳘ शान्ता᳘यां 6 वाचि किं᳘ज्योतिरेॗवायम् 7 पु᳘रुष इ᳘त्यात्म᳘ज्योतिः सम्राडि᳘ति होवाचात्म᳘नैॗवायं ज्यो᳘तिषास्ते प᳘ल्ययते क᳘र्म कुरुते विप᳘र्येती᳘ति॥
मूलम् - विस्वरम्
अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्ते ऽग्नौ शन्तायां वाचि किञ्ज्योतिरेवायं पुरुष इति । आत्म-ज्योतिः सम्राट् इति होवाच । आत्मनैवायं ज्योतिषा ऽऽस्ते पल्ययते कर्म कुरुते विपर्येतीति ॥ ६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एतावता यो व्यवहारः स व्यवहर्तृदेहेन्द्रियाद्यतिरिक्तज्योतिःसाध्यः । यथा आदित्यादि-साध्यो जाग्रद्-व्यवहारः, इति व्याप्तिः सिद्धा । एवं सिद्धायां व्याप्तौ स्वप्नसुषुप्त्योरपि बन्धुसङ्गमवियोगदेशान्तरगमनादेः उत्थानस्य च ज्योतिःकार्यस्य दर्शनाद्भवितव्यं तत्राप्यतिरिक्तेन केनचित् ज्योतिषा, इत्यनुमानतो ज्योतिर्मात्रे सिद्धे उपन्यस्तानां ज्योतिषां तत्र योग्यानुपलब्धि-बाधितत्वात् केन ज्योतिषा तदा असौ व्यवहारं करोतीति तद्विशेषं राजा पृच्छतीति दर्शयति- अस्तमित आदित्य इत्यादिना । उत्तरमाह- आत्मज्योतिः सम्राडिति होवाचेति । आत्मैव ज्योतिरस्य स तथा । आत्मेति कार्यकरणातिरिक्तं तदवभासकं अपराधीन-प्रकाशं ज्योतिरभिधीयते । तस्यात्मनो ज्योतिषः अर्थात् अन्तःस्थस्य सूर्यादिविलक्षणस्य कार्येणान्वयमाह- आत्मनैवायं ज्योतिषा ऽऽस्त इत्यादिना ॥ ६ ॥
०७
विश्वास-प्रस्तुतिः
कतम᳘ ऽआत्मे᳘ति᳘॥
यो ऽय᳘म्विज्ञानम᳘यः पु᳘रुषः प्प्राणे᳘षु हृ᳘द्यन्त᳘र्ज्ज्योतिः[[!!]] स᳘ समानः स᳘न्नुभौ᳘ लोकौ स᳘ञ्चरति ध्या᳘यतीव लेला᳘यतीव स᳘धीः स्व᳘प्नो भू᳘त्वेमं᳘ लोकम᳘तिक्रामति॥
मूलम् - श्रीधरादि
कतम᳘ ऽआत्मे᳘ति᳘॥
यो ऽय᳘म्विज्ञानम᳘यः पु᳘रुषः प्प्राणे᳘षु हृ᳘द्यन्त᳘र्ज्ज्योतिः[[!!]] स᳘ समानः स᳘न्नुभौ᳘ लोकौ स᳘ञ्चरति ध्या᳘यतीव लेला᳘यतीव स᳘धीः स्व᳘प्नो भू᳘त्वेमं᳘ लोकम᳘तिक्रामति॥
मूलम् - Weber
कतम᳘ आत्मे᳘ति॥
योऽयं᳘ विज्ञानम᳘यः पु᳘रुषः प्राणे᳘षु हृद्य᳘न्त᳘र्ज्योतिः स᳘ समानः स᳘न्नुभौ᳘ लोकौ सं᳘चरति ध्या᳘यतीव लेला᳘यतीव स᳘धीः स्व᳘प्नो भूॗत्वेमं᳘ लोकम᳘तिक्रामति 8 ॥
मूलम् - विस्वरम्
कतम आत्मेति । यो ऽयं विज्ञानमयः पुरुषः प्राणेषु हृद्यन्तर्ज्योतिः । स समानः सन्नुभौ लोकौ सञ्चरति । ध्यायतीव लेलायतीव । सधीः स्वप्नो भूत्वा इमं लोकमतिक्रामति ॥ ७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
यद्यपि सङ्घातानुग्राहकमात्मज्योतिः सङ्घातातिरिक्तं तद्विजातीयं चेति न्यायतो निर्णीतम् । तथा ऽपि सूक्ष्म-न्यायस्य दुर्विज्ञेयत्वादनुग्राहकादित्यादेरनुग्राह्यसङ्घातसमानजातीयत्वदर्शनाच्च बुद्ध्यादिव्यतिरिक्तत्वनिश्चयाभावात् सन्दिहानो राजा पृच्छति- कतम आत्मेतीति । को ऽसावात्मा किंस्वरूप इति प्रश्नार्थः । बुद्ध्यवभासकः स्वयमनवभासमान आत्मेति प्रतिवचनमाह- यो ऽयं विज्ञानमयः पुरुषः प्राणेष्विति । हे राजन् ! ‘यः’ आत्मा त्वया पृष्टः । ‘सो ऽयं’ ‘विज्ञानमयः’ विज्ञायते अनेनेति व्युत्पत्तेर्विज्ञानं बुद्धिः तन्मयस्तत्प्रायो विज्ञानमयः ‘पुरुषः’ नित्यपूर्ण इत्य् अर्थः । “पुरुष एवेदं सर्वम्” (वा. सं. ३१ ।२) इति श्रुतेः । प्राणेष्विति सामीप्यलक्षणा सप्तमी । विज्ञानमयस्य तद्व्यतिरेकप्रदर्शनार्था । यो हि येषु भवति स तद्व्यतिरिक्त एव भवति । अतः ‘प्राणेष्विति’ प्राणेभ्यो व्यतिरिक्त इत्य् अर्थः । एवं प्राण-समीपस्थो विज्ञानमय इत्य् उक्ते प्राण-साजात्यं तस्य स्यात् । अतो विशिनष्टि- हृद्यन्तर्ज्योतिरिति । हृच्छब्दो मांस-पिण्ड-विषयः । तात्स्थ्यात् अत्र हृच्छब्देन लक्षणया बुद्धिरुच्यते ‘हृदि’ बुद्धौ अन्तर्वर्तमानं ज्योतिरात्मा । “आत्मनैवायं ज्योतिषा ऽऽस्ते” इत्यादौ तस्यैव ज्योतिष्ट्वेन प्रकृतत्वात् पूर्णो बुद्धि-दर्पणाभिव्यक्तः सर्वावभासकः शुभ्रो निरतिशय-स्वप्रकाश-स्वभाव आत्मेति वाक्यार्थः । एवमात्मनो नित्य-मुक्तस्य अविद्यया बुद्ध्यादि-तादात्म्याध्यासादेव संसारित्वं इति दर्शयितुं सूक्ष्म-देहादि-व्यतिरिक्ततया आत्मनः शुद्धत्व-दर्शनाय वा स्वप्नं प्रक्रमते- स समानः सन्निति । यो हृद्यन्तर्ज्योतिः पुरुष आत्मा ‘स समानः’ सन् हृच्-छब्द-वाच्याया बुद्धेः प्रकृतत्वात् सन्निहितत्वाच्च तथा समानः सदृशः अन्यो ऽन्य-धर्माध्यासेन तप्तायःपिण्डवत् तादात्म्यमापन्नः सन् ‘उभौ लोकौ’ प्रतिपन्न-प्रतिपत्तव्यौ इह-लोक-पर-लोकावनुक्रमेण उपात्त-देहेन्द्रिय-सङ्घातं त्यजन् अन्यं चोपाददत् ‘सञ्चरति’ परिभ्रमति । आत्मा सञ्चरतीति भ्रमः । न तस्य स्वतः सञ्चरणमित्य् अर्थः । एतदेव प्रत्यक्षेणाभिनीय दर्शयति- ध्यायतीव लेलायतीवेति । यतो ध्यान-व्यापारवतीं बुद्धिं तत्-स्थेन चित्-स्वभाव-ज्योती-रूपेणावभासयन् तत्-सदृश आत्मा ‘ध्यायतीव’ ध्यानं करोतीव यथा चतुष्-कोणं लोह-पिण्डं अवभासकत्वेनानुगतो वह्निश्चतुष्कोण इव प्रतीयते तद्वत् । तथा ‘लेलायतीव’ चलतीव बुद्ध्यादिषु करणेषु प्राणादिषु वायुषु चलत्सु तद्-अवभासकतया तत्-समान आत्मा ऽपि चलतीवेति प्रतीयते । यथा चलन्त्यां नावि तत्-स्थेन वृक्षाश्चलन्तीवेति प्रतीयते तद्वत् । न तु ज्योतिरूपस्यात्मनः परमार्थतो ध्यानं चलनं वेत्य् अर्थः । कुतो हेतोरेतदवगम्यते, इत्य् अत आह- सधीः स्वप्न इति । प्रकृत आत्मा यस्मात्सधीः बुद्ध्यैक्यमापन्नः ‘स्वप्नो भूत्वा’ स्वप्नाकार-परिणत-धी-वृत्त्य्-अवभासकत्वेन तद्-आकारो भूत्वा इमं लोकं जागरित-लक्षणं लौकिकशास्त्रीय-व्यवहारास्पद-कार्य-करण-सङ्घातं ‘अतिक्रामति’ अतीत्य क्रामति । तदभिमानं त्यजतीत्य् अर्थः ॥ ७ ॥
०८
विश्वास-प्रस्तुतिः
स वा᳘ ऽअयम्पु᳘रुषः॥
(षो) जा᳘यमानः श᳘रीरमभिसम्प᳘द्यमानः पाप्म᳘भिः स᳘ᳫँ᳭सृज्यते स᳘ ऽउत्क्रा᳘मन्म्रिय᳘माणः पाप्म᳘नो व्वि᳘जहाति मृत्यो᳘ रूपाणि[[!!]]॥
मूलम् - श्रीधरादि
स वा᳘ ऽअयम्पु᳘रुषः॥
(षो) जा᳘यमानः श᳘रीरमभिसम्प᳘द्यमानः पाप्म᳘भिः स᳘ᳫँ᳭सृज्यते स᳘ ऽउत्क्रा᳘मन्म्रिय᳘माणः पाप्म᳘नो व्वि᳘जहाति मृत्यो᳘ रूपाणि[[!!]]॥
मूलम् - Weber
स वा᳘ अयम् पु᳘रुषो जा᳘यमानः॥
श᳘रीरमभिसम्प᳘द्यमानः पाप्म᳘भिः स᳘ᳫं᳘सृज्यते स᳘ उत्क्रा᳘मन्म्रिय᳘माणः पाप्म᳘नो॥
वि᳘जहाति मृत्यो᳘ रूपा᳘णि॥
मूलम् - विस्वरम्
स वा अयं पुरुषः जायमानः शरीरमभिसम्पद्यमानः पाप्मभिः संसृज्यते । स उत्क्रामन्म्रियमाणः पाप्मनो विजहाति मृत्योः रूपाणि ॥ ८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
यथा एकस्मिन् देहे स्वप्न-जागरिते सञ्चरत आत्मनो देहाद्व्यतिरेकः । तथा इह-लोक-पर-लोकयोः सञ्चारोक्त्या ऽपि तस्य तद्व्यतिरेक उच्यते इति दर्शयति- स वा अयं पुरुषो जायमान इति । ‘सो ऽयं’ प्रकृतः ‘पुरुषो जायमानः’ ‘पाप्मभिः संसृज्यते’ इत्य् अन्वयः । नात्मनो जायमानत्वं घटादिवत् । स्वरूपेणानिष्पद्यमानत्वात् । किं तु- शरीरं देहेन्द्रियादि-सङ्घातमभिसम्पद्यमानः तत्रात्म-भावं प्रतिपद्यमान इत्य् अर्थः । जायमाने शरीरे आत्माभिमान एव जायते इत्य् उक्तं भवति । वै-शब्दो ऽवधारणार्थः, अभिसम्पद्यमान एवेत्यत्र सम्बध्यते । पाप्म-शब्दो धर्मस्याप्युपलक्षकः । पाप्म-शब्देन देह-सम्बन्ध-हेतु-मात्रं विवक्षितम् । “न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति” ( ) इति श्रुत्य्-अन्तरात् । तथा च- पाप्मभिर्धर्माधर्माश्रयैः करणैः ‘संसृज्यते’ संयुज्यते । शरीरमात्मत्वेनाभिमन्यमानः पुरुष इत्य् अर्थः । स एव पुनर्देहाद्यारंम्भकी-भूत-कर्म-क्षये सति ‘म्रियमाणः’ सन् ‘उत्क्रामन्’ शरीरान्तरं प्रति ऊर्ध्वं क्रामन् तानेव संसृष्टान् ‘पाप्मनः’ कार्य-करण-लक्षणान् ‘विजहाति’ परित्यजति । तत्राभिमान-परित्याग-मात्रेणैव तैर्वियुज्यत इत्य् अर्थः । ‘म्रियमाणः’ इत्यस्य व्याख्या उत्क्रामन्निति । तथा ‘मृत्योः’ ‘रूपाणि’ च विजहातीत्य् अन्वयः । मृत्युर्अज्ञानं तस्य रूपाणि अहङ्कार-आदि-कार्य-करणानि रूप्यन्ते प्रतीयन्ते न प्रमीयन्त इति रूपाणि । अतः सञ्चरणादिकं नात्मनः स्वाभाविकम् । वह्नेरिवौष्ण्य-स्वभावः । स्वाभाविके सति परित्यागायोगादिति ज्ञेयम् ॥ ८ ॥
०९
विश्वास-प्रस्तुतिः
त᳘स्य वा᳘ ऽएत᳘स्य पु᳘रुषस्य॥
द्वे᳘ ऽएव स्था᳘ने भ᳘वत ऽइद᳘ञ्च परलोकस्था᳘नञ्च स᳘न्ध्यन्तृती᳘यᳫँ᳭ स्वप्नस्था᳘नन्त᳘स्मिन्त्स᳘न्ध्ये स्था᳘ने ति᳘ष्ठन्नुभे स्था᳘ने प᳘श्यतीद᳘ञ्च परलोकस्था᳘नञ्च॥
मूलम् - श्रीधरादि
त᳘स्य वा᳘ ऽएत᳘स्य पु᳘रुषस्य॥
द्वे᳘ ऽएव स्था᳘ने भ᳘वत ऽइद᳘ञ्च परलोकस्था᳘नञ्च स᳘न्ध्यन्तृती᳘यᳫँ᳭ स्वप्नस्था᳘नन्त᳘स्मिन्त्स᳘न्ध्ये स्था᳘ने ति᳘ष्ठन्नुभे स्था᳘ने प᳘श्यतीद᳘ञ्च परलोकस्था᳘नञ्च॥
मूलम् - Weber
त᳘स्य वा᳘ एत᳘स्य पु᳘रुषस्य॥
द्वे᳘ एव स्था᳘ने भ᳘वत इदं᳘ च परलोकस्था᳘नं च सं᳘ध्यं तृती᳘यᳫं स्वप्नस्था᳘नं त᳘स्मिन्त्सं᳘ध्ये स्था᳘ने ति᳘ष्ठन्नुभे स्था᳘ने प᳘श्यतीदं᳘ च परलोकस्था᳘नं च॥
मूलम् - विस्वरम्
तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवतः । इदं च परलोक-स्थानं च । सन्ध्यं तृतीयं स्वप्न-स्थानम् । तस्मिन् सन्ध्ये स्थाने तिष्ठन्नुभे स्थाने पश्यति, इदं च परलोक-स्थानं च ॥ ९ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवमुत्क्रामन् म्रियमाणः शरीरमभिसम्पद्यमान इत्य्-आगम-वशात्परलोक-अस्तित्वे सिद्धे ऽपि प्रत्यक्षेण न तत्सिद्धम् । परलोक-विषयं च प्रत्यक्षं नास्ति । अतो नास्ति परलोक इत्याशङ्क्य, अस्ति परलोकः प्रत्यक्ष-सिद्ध इति प्रतिपादनाय “तस्मिन् सन्ध्ये स्थाने” इत्यारभ्य “स यत्रायं प्रस्वपिति” (कं. ९-१०) इत्य् अतः प्राक्तनो ग्रन्थः प्रवर्तिष्यते । प्रथमं तद्-उपोद्घातत्वेन स्थान-भेदं दर्शयति- तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इति । ‘वै’ प्रसिद्धौ । तस्यैतस्य प्रकृतस्य ‘पुरुषस्य’ ‘द्वे एव स्थाने भवतः’ । न तृतीयं चतुर्थं वा स्थानमस्तीति यावत् । के ते द्वे स्थाने । ‘इदं च’ यद्वर्तमानं प्रतिपन्न-जन्म-शरीरेन्द्रिय-विषय-सम्बन्धि सुखादि-वेदना-विशिष्टं प्रत्यक्षतो ऽनुभूयमानं, परलोक एव स्थानं ‘परलोक-स्थानम्’ तदेतच्छरीरादि-वियोगोत्तर-कालानुभाव्यं द्वितीयम् । देहद्वय-व्यतिरिक्त-स्वप्न-देहस्यापि विद्यमानत्वात् कथं द्वे इवेत्यवधार्यते इत्यस्योत्तरं- सन्ध्यं तृतीयमिति । यत् ‘तृतीयं’ स्वप्न-स्थानं तत्सन्ध्यम् । इह-लोक-पर-लोकयोः सन्धौ भवं सन्ध्यं न स्थानान्तरम् । यद्वा स्वप्नस्तृतीयमेव स्थानाम् । त्रयाणां पूरणं तृतीयम्, इति पूरण-प्रत्यय-श्रवणात् । इदानीं यदर्थमुपोद्घातः कृतः, तद्दर्शयति- तस्मिन्त्सन्ध्ये स्थाने तिष्ठन्नुभे स्थाने इति । ‘सन्ध्ये स्थाने’ स्वप्न-भूमौ ‘तिष्ठन्’ वर्तमानः सन् ‘इदं च’ ‘परलोक-स्थानं’ चेत्य् उभे स्थाने पश्यति । एतदुक्तं भवति आद्ये वयसि यं स्वप्नं पश्यति तं पूर्व-जन्मानुभूत-विषयमेव तद्-वासना-वासितः सन् पश्यति, तदानीं बालस्य ऐहिक-पुत्राद्य्-अनुभवाभावात् । मध्यमे तु वयसि इन्द्रियाणां स्थूलार्थग्रहणसामर्थ्यात् इह जन्मनि अनुभूत-विषयकमेव स्वप्नं प्रायः पश्यति । अन्ते वयसि पुनः परलोकं यियासुः विद्या-कर्मादि-सम्भृतो भावि-जन्म-विषयकं स्वप्नं प्रायः पश्यति । तस्मात् अन्ते वयस्यादौ चेह जन्मनि असम्भाव्यमानस्य दर्शने परलोक-सद्भावे प्रत्यक्षं प्रमाणमिति ॥ ९ ॥
१०
विश्वास-प्रस्तुतिः
(ञ्चा᳘) अ᳘थ य᳘था ऽऽक्र᳘मो ऽय᳘म्परलोकस्था᳘ने भ᳘वति॥
त᳘माक्र᳘ममाक्र᳘म्योभ᳘यान्पाप्म᳘न ऽआनन्दां᳘श्च प᳘श्यति स य᳘त्राय᳘म्प्रस्व᳘पितीत्यस्य᳘ लोक᳘स्य सर्व्वा᳘वतो मा᳘त्रामपादा᳘य स्वय᳘म्विह᳘त्य स्वय᳘न्निर्म्मा᳘य स्वे᳘न भासा स्वे᳘न ज्ज्योतिषा[[!!]] प्प्र᳘स्वपित्य᳘त्रायम्पु᳘रुषः स्वय᳘ञ्ज्योतिर्भ्भवति॥
मूलम् - श्रीधरादि
(ञ्चा᳘) अ᳘थ य᳘था ऽऽक्र᳘मो ऽय᳘म्परलोकस्था᳘ने भ᳘वति॥
त᳘माक्र᳘ममाक्र᳘म्योभ᳘यान्पाप्म᳘न ऽआनन्दां᳘श्च प᳘श्यति स य᳘त्राय᳘म्प्रस्व᳘पितीत्यस्य᳘ लोक᳘स्य सर्व्वा᳘वतो मा᳘त्रामपादा᳘य स्वय᳘म्विह᳘त्य स्वय᳘न्निर्म्मा᳘य स्वे᳘न भासा स्वे᳘न ज्ज्योतिषा[[!!]] प्प्र᳘स्वपित्य᳘त्रायम्पु᳘रुषः स्वय᳘ञ्ज्योतिर्भ्भवति॥
मूलम् - Weber
अ᳘थ य᳘थाक्र᳘मोऽय᳘म् परलोकस्था᳘ने भ᳘वति॥
त᳘माक्र᳘ममाक्र᳘म्योभ᳘यान्पाप्म᳘न आनन्दां᳘श्च प᳘श्यति स य᳘त्राय᳘म् प्रस्व᳘पित्यस्य᳘ लोक᳘स्य सर्वा᳘वतो मा᳘त्रामपादा᳘य स्वयं᳘ विह᳘त्य स्वयं᳘ निर्मा᳘य स्वे᳘न भासा स्वे᳘न ज्यो᳘तिषा प्र᳘स्वपित्य᳘त्रायम् पु᳘रुषः स्वयं᳘ज्योतिर्भवति॥
मूलम् - विस्वरम्
अथ यथा ऽऽक्रमो ऽयं परलोक-स्थाने भवति । तमाक्रममाक्रम्य उभयान् पाप्मन आनन्दांश्च पश्यति । स यत्रायं प्रस्वपितीति । अस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति । अत्रायं पुरुषः स्वयञ्ज्योतिर्भवति ॥ १० ॥
श्रीमद्वासुदेवब्रह्मभगवान्
ननु- स्वप्न-स्थानं गत आत्मा किमाश्रितः सन् केन विधिना परलोकं पश्यतीत्यपेक्षायामाह- अथ यथा ऽऽक्रमो ऽयं परलोक-स्थाने भवतीति । अथेति वाक्योपक्रमार्थः । आक्रमत्यनेनेति आक्रम आश्रयो ऽवष्टम्भः विद्या-कर्म-पूर्व-प्रज्ञा-लक्षणो यादृश आक्रमो यस्य सो ऽयं ‘यथा ऽऽक्रमो ऽयं पुरुषः’ । ‘परलोक-स्थाने’ प्रतिपत्तव्ये निमित्ते यथा ऽऽक्रमो भवति । यादृशेन परलोक-प्रतिपत्ति-साधनेन विद्या-कर्म-पूर्व-प्रज्ञा-लक्षणेन युक्तो भवति । ‘तमाक्रमं’ परलोक-स्थानाय उन्मुखी-भूतं बीज-भूतं आक्रम्यावष्टभ्य ‘उभयान्पाप्मनः’ पापफलानि दुःखानि ‘आनन्दान्’ धर्म-फल-भूतान् सुख-विशेषांश्च पश्यतीत्य् अर्थः ।
पूर्वं आदित्यादि-ज्योतिरभावे ऽपि आसनादिज्योतिःकार्यदर्शनात् ‘अयं’ पुमान् आत्म-ज्योतिषैव व्यवहरतीत्युक्तम् । इदानीं आदित्यादि-ज्योतिर्भिः असंस्पृष्टश्चिदात्मा यथा साक्षादेव प्रत्यग्भावेन स्व-प्रकाश इत्य् अवगन्तुं शक्यते, तथा प्रदर्शनायाह- स यत्रायं प्रस्वपितीति । ‘सः’ प्रकृतः आत्मा ‘यत्र’ यस्मिन् काले ‘प्रस्वपिति’ प्रकर्षेण स्वापं स्वप्नमनुभवतीत्य् अर्थः । स च सन्ध्याख्यं स्वप्नं प्रतिपद्यमानः किमाश्रयः केन विधिना प्रतिपद्यत इत्य् आकाङ्क्षायामाह- अस्य लोकस्य सर्वावत इति । ‘अस्य’ दृष्टस्य ‘लोकस्य’ जागरित-लक्षणस्य स्थूल-देहस्य कथम्भूतस्य ‘सर्वावतः’ सर्वमवतीति सर्वावान् तस्य सर्वावतः । सर्वावत्त्वं चास्य “अथो अयं वा आत्मा सर्वेषां भूतानां लोकः”- (श. प. बृ. १४ । ४ । २ । २८) इत्यादौ व्याख्यातम् । यद्वा सर्वाः भूत-भौतिक-मात्रा अध्यात्मादि-विभाग-युक्ताः संसर्ग-कारणभूता अस्य विद्यन्त इति सर्ववानेव सर्वावान् । दैर्घ्यं छान्दसम् । तस्य ‘सर्वावतः’ मात्रामेकदेशमवयवं अपादायापच्छिद्य गृहीत्वा जाग्रद्दृष्ट-वासना-वासितः सन्नित्यर्थः । इदानीं केन विधिना स्वप्नं प्रपद्यत इत्याह- स्वयं विहत्येत्यादिना । स्वप्नं प्रतिपद्यमान आत्मा ‘स्वयं’ स्वेनैव स्वरूपेण न तु करणतदेवतादिना ‘विहत्य’ देहं पातयित्वा निश्रेष्टं कृत्वा । तथा ‘स्वयमेव’ स्वकर्मानुसारिस्वप्नदेहं प्रातिभासिकं ‘निर्माय’ निष्पाद्य । ‘स्वेन भासा’ इति इत्थम्भावे तृतीया । स्वेनात्मीयेन मात्रोपादानलक्षणेन ‘भासा’ दीप्त्या सर्ववासनात्मकेन अन्तःकरण-वृत्ति-प्रकाश-रूपेणेति यावत् । ‘स्वेन ज्योतिषा’ इति कर्तरि तृतीया । स्वेनात्म-ज्योतिषा अलुप्तदृक् स्व-भावेन निमित्तं वस्तु विषयी-कुर्वन् ‘प्रस्वपितीति’ प्रस्वाप-प्रकार उक्त इत्य् अर्थः । फलितमाह- अत्रायं पुरुष इति । ‘अत्र’ एतस्यां स्वापावस्थायां ‘अयं पुरुषः’ आत्मा स्वयमेव ज्योतिर्भवति । आदित्यादेस्तदानीमभावात् इन्द्रियाणां चोपसंहृतत्वात् मनसश्च विषयाकारेणैवोपक्षयात् परिशेषादात्मा स्वयञ्ज्योतिरित्य् अर्थः ॥ १० ॥
११
विश्वास-प्रस्तुतिः
न त᳘त्र र᳘था न र᳘थयोगा न प᳘न्थानो भवन्ति॥
(न्त्य᳘) अ᳘थ र᳘थान्र᳘थयोगान्प᳘थः सृजते न त᳘त्रानन्दा मु᳘दः प्प्रमु᳘दो भवन्त्य᳘थानन्दान्मु᳘दः प्प्रमु᳘दः सृजते न त᳘त्र व्वेशा᳘न्ताः स्र᳘वन्त्यः पुष्करि᳘ण्यो भवन्त्य᳘थ व्वेशा᳘न्ताः * स्र᳘वन्तीः पुष्करि᳘णीः सृजते स हि᳘ कर्त्ता᳘॥
मूलम् - श्रीधरादि
न त᳘त्र र᳘था न र᳘थयोगा न प᳘न्थानो भवन्ति॥
(न्त्य᳘) अ᳘थ र᳘थान्र᳘थयोगान्प᳘थः सृजते न त᳘त्रानन्दा मु᳘दः प्प्रमु᳘दो भवन्त्य᳘थानन्दान्मु᳘दः प्प्रमु᳘दः सृजते न त᳘त्र व्वेशा᳘न्ताः स्र᳘वन्त्यः पुष्करि᳘ण्यो भवन्त्य᳘थ व्वेशा᳘न्ताः * 9 स्र᳘वन्तीः पुष्करि᳘णीः सृजते स हि᳘ कर्त्ता᳘॥
मूलम् - Weber
न त᳘त्र र᳘था न र᳘थयोगा न प᳘न्थानो भवन्ति॥
अ᳘थ र᳘थान्र᳘थयोगान्प᳘थः 10 सृजते न त᳘त्रानन्दा मु᳘दः प्रमु᳘दो भवन्त्य᳘थानन्दान्मु᳘दः प्रमु᳘दः सृजते न त᳘त्र वेशा᳘न्ताः स्र᳘वन्त्यः पुष्करि᳘ण्यो भवन्त्य᳘थ वेशा᳘न्ताः स्र᳘वन्तीः पुष्करि᳘णीः सृजते स हि᳘ कर्ता᳟॥
मूलम् - विस्वरम्
न तत्र रथा न रथ-योगा न पन्थानो भवन्ति । अथ रथान् रथ-योगान् पथः सृजते । न तत्रानन्दा मुदः प्रमुदो भवन्ति । अथानन्दान् मुदः प्रमुदः सृजते । न तत्र वेशान्ताः स्रवन्त्यः पुष्करिण्यो भवन्ति । अथ वेशान्ताः स्रवन्तीः पुष्करिणीः सृजते । स हि कर्ता ॥ ११ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
ननु- स्वप्ने ऽपि सर्वस्यादित्यादेः दृश्यमानत्वात् कथं परिशेषात् स्वयञ्ज्योतिष्ट्वसिद्धिरित्य् आशङ्कायां तस्य सर्वस्य वासना-मात्र-निर्मितत्वात् तत्रात्मा विविक्तः स्वयञ्ज्योतिरिति निश्चेतुं स्वप्ने बाह्य-रथाद्यभावं तावदाह- न तत्र रथा न रथ-योगा न पन्थानो भवन्तीति । ‘तत्र’ स्वप्ने ‘रथाः’ प्रसिद्धाः । रथैर्युज्यन्त इति ‘रथयोगाः’ अश्वादयः । ‘पन्थानाः’ रथ-मार्गाः । एते प्रत्येकं ‘न भवन्तीति’ सर्वत्राभिसम्बध्यते न सन्त्येवेत्य् अर्थः । रथाद्यभावोक्तिस्तदनुग्राहकेन्द्रियालोकादेरप्युपलक्षणार्था । ननु- स्वप्ने रथादीनामभावश्चेत् कथं भासन्ते ? इत्याशङ्क्य, रथादि-साधनानां वृक्षादीनामभावे ऽपि वासना-मात्र-निर्मिता भासन्ते इत्य् आह- अथ रथान् रथ-योगान्पथः सृजते इति । अथापि सर्वानेव रथादीन् वासनात्मकान् ‘सृजते’ । एतच्च ‘सर्ववतो मात्राम्’ इत्यादिना उक्तस्य प्रपञ्च इत्य् अर्थः । एवमन्यस्यापि स्वप्ने दृश्यमानस्य बाह्यत्वभावदर्शनपुरःसरं वासनात्मत्वं दर्शयति- न तत्रानन्दा मुदः प्रमुद इति । ‘तत्र’ स्वप्ने ‘आनन्दाः’ सुख-सामान्यानि ‘मुदः’ पुत्रादि-सम्बन्ध-निमित्ता हर्षाः, मुद एव प्रकर्षोपेताः ‘प्रमुदः’ ‘वेशान्ताः’ शुद्धसरांसि ‘स्रवन्त्यः’ नद्यः ‘पुष्करिण्यः’ तडागाः । आनन्दादयो वेशान्तादयश्च स्वप्ने न भवन्तीति । अथ तु ‘तत्सर्वं सृजते” इति पूर्ववत् व्याख्या । इदं तु “आत्मनैवायं ज्योतिषा ऽऽस्ते” इत्यादेः प्रपञ्चः । कथमेतत्सर्वमात्मा सृजतीत्याशङ्क्याह- स हि कर्तेति । ‘हि’ यस्मात् ‘सः’ आत्मा ‘कर्ता’ । तस्मात् सृजतीति योजना । न हि अत्र कर्तृत्वं वास्तवं आत्मनो ऽभिप्रेतम्, किं तु परिणममानवासनासाक्षितामात्रमेवेत्य् अर्थः ॥ ११ ॥
१२
विश्वास-प्रस्तुतिः
तद᳘प्येते श्लो᳘काः॥
स्व᳘प्नेन शारीर᳘मभिप्रहत्या᳘सुप्तः सुप्ता᳘नभि᳘चाकशीति। शु᳘क्रमादा᳘य पुनरै᳘ति[[!!]] स्था᳘नᳫँ᳭ हिरण्म᳘यः पौरुष᳘ ऽएकहᳫँ᳭सः᳘॥
मूलम् - श्रीधरादि
तद᳘प्येते श्लो᳘काः॥
स्व᳘प्नेन शारीर᳘मभिप्रहत्या᳘सुप्तः सुप्ता᳘नभि᳘चाकशीति। शु᳘क्रमादा᳘य पुनरै᳘ति[[!!]] स्था᳘नᳫँ᳭ हिरण्म᳘यः पौरुष᳘ ऽएकहᳫँ᳭सः᳘॥
मूलम् - Weber
तद᳘प्येते श्लो᳘काः॥
स्व᳘प्नेन शारीर᳘मभिप्रहत्या᳘सुप्तः 11 सुप्ता᳘नभि᳘चाकशीति॥
शु᳘क्रमादा᳘य पु᳘नरै᳘ति स्था᳘नᳫं हिरण्म᳘यः पौरुष᳘ एकहंसः᳟॥
मूलम् - विस्वरम्
तदप्य् एते श्लोकाः- “स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति । शुक्रमादाय पुनरैति स्थानं हिरण्मयः पौरुष एकहंसः ॥ १२ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
इदानीं उक्ते ऽर्थे मन्त्राणामपि सम्मतिरस्तीत्य् आह- तदप्येते श्लोका इति । ‘तत्’ तस्मिन्नुक्ते ऽर्थे स्वयञ्ज्योतिष्ट्वादिलक्षणे ‘एते’ वक्ष्यमाणाः ‘श्लोकाः’ मन्त्राः सन्तीति शेषः । तत्र स्वप्न-प्रवेश-तत्-साक्षित्व-प्रकाशकं मन्त्रार्द्धं पठति- स्वप्नेन शारीरमिति । स आत्मा ‘स्वप्नेन’ स्वप्न-भावेन वासना-मात्रोपग्रहेण । शारीरमिति स्वार्थे वृद्धिः । ‘शरीरं’ ‘अभिप्रहत्य’ निश्चेष्टमापाद्य अलुप्त-दृक्-शक्ति-स्वाभाव्यात् स्वयमसुप्तः सन् सुप्तान् वासनाकारेणोद्भूतान् अन्तःकरण-वृत्त्याश्रयान् बाह्याध्यात्मिकान् सर्वानेव भावान् स्वेन रूपेण प्रत्यस्तमितान् ‘अभिचाकशीति’ अलुप्तया आत्म-दृष्ट्या अभितः सर्वात्मना पश्यति अवभासयतीत्य् अर्थः । स्वप्न-भोग-क्षये पुनर्जागरितमेतीति द्वितीयार्द्धेन दर्शयति- शुक्रमादायेति । ‘शुक्रं’ शुद्धं ज्योतिष्मत् इन्द्रियादि-मात्रा-रूपं ‘आदाय’ गृहीत्वा ‘पुन’ स्वप्न-हेतु-कर्म्मोपरमणानन्तरं जाग्रद्-भोग-हेतु-कर्मणा जागरितं ‘स्थानमेति’ । ‘आ एति’ आगच्छति । ‘हिरण्मयः’ चैतन्य-ज्योतिः-स्वभावः । ‘पौरुषः’ पुरुषः स्वार्थे वृद्धिः । ‘एक-हंसः’ एकश्चासौ हंसश्चेति एक-हंसः । “हन हिंसागत्योः”- (धा. पा. अ. प. २) इत्यस्य रूपम् । हंसः एक एव जाग्रत्-स्वप्नः इहलोकपरलोकौ च हन्ति गच्छति हिनस्तीति वा एक-हंसः इत्य् अर्थः ॥ १२ ॥
१३
विश्वास-प्रस्तुतिः
प्प्राणे᳘न र᳘क्षन्न᳘परङ्कुलाय᳘म्॥ (म्ब) बहि᳘ष्कुलाया᳘दमृ᳘तश्चरित्वा᳘। स᳘ ऽईयते ऽअमृ᳘तो यत्रका᳘मᳫँ᳭ हिरण्म᳘यः पौरुष᳘ ऽएकहᳫँ᳭सः᳘॥
मूलम् - श्रीधरादि
प्प्राणे᳘न र᳘क्षन्न᳘परङ्कुलाय᳘म्॥ (म्ब) बहि᳘ष्कुलाया᳘दमृ᳘तश्चरित्वा᳘। स᳘ ऽईयते ऽअमृ᳘तो यत्रका᳘मᳫँ᳭ हिरण्म᳘यः पौरुष᳘ ऽएकहᳫँ᳭सः᳘॥
मूलम् - Weber
प्राणे᳘न र᳘क्षन्न᳘परं कुलाय᳘म् 12 बहि᳘ष्कुलाया᳘दमृ᳘तश्चरित्वा᳟॥
स᳘ ईयते अमृ᳘तो यत्रका᳘मᳫं हिरण्म᳘यः पौरुष᳘ एकहंसः᳟॥
मूलम् - विस्वरम्
प्राणेन रक्षन्नपरं कुलायं बहिष्कुलायादमृतश्चरित्वा । स ईयते अमृतो यत्रकामं हिरण्मयः पौरुष एक-हंसः ॥ १३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
पुनरपि स्वप्न-गतं विशेषं वक्तुं मन्त्रान्तरं पठति- प्राणेन रक्षन्निति । ‘प्राणेन’ पञ्च-वृत्तिकेन ‘अपरं’ निकृष्टं अनेकाशुचिसङ्घत्वात् अत्यन्त-बीभत्सं कौ पृथिव्यां लीयत इति ‘कुलायं’ नीडं शरीरमिति यावत् । ‘रक्षन्’ पालयन् अन्यथा मृत-भ्रान्तिः स्यात् सा मा ऽभूदिति रक्षन् । स्वयं चामृतः असङ्गः सन् तस्मात् ‘कुलायात् बहिश्चरित्वा’ यद्यपि शरीरस्य एव स्वप्नं पश्यति तथा ऽपि तस्यात्मनो देहस्याकाशस्येव तत्-सम्बन्धाभावात् बहिश्चरणमिव कृत्वेत्य् उच्यते । बुद्धिसञ्चरणात्तदनुकुर्वन् सञ्चरणमिव कृत्वा । ‘यत्रकामं’ यत्र यत्र विषयेषु उद्भूत-वृत्तिः कामो भवति तं ‘कामं’ ‘अमृतः’ अमरण-धर्मा सन् ‘ईयते’ गच्छति प्राप्नोतीत्य् अर्थः ॥ १३ ॥
१४
विश्वास-प्रस्तुतिः
स्वप्नान्त᳘ ऽउच्चावच᳘मीय᳘मानः॥ (नो) रूपा᳘णि देवः᳘ कुरुते बहू᳘नि। उ᳘तेव स्त्रीभिः᳘ सह मो᳘दमानो ज᳘क्षदु᳘तेवा᳘ ऽपि भ᳘यानि प᳘श्यन्॥
मूलम् - श्रीधरादि
स्वप्नान्त᳘ ऽउच्चावच᳘मीय᳘मानः॥ (नो) रूपा᳘णि देवः᳘ कुरुते बहू᳘नि। उ᳘तेव स्त्रीभिः᳘ सह मो᳘दमानो ज᳘क्षदु᳘तेवा᳘ ऽपि भ᳘यानि प᳘श्यन्॥
मूलम् - Weber
स्वप्नान्त᳘ उच्चावच᳘मीय᳘मानो रूपा᳘णि देवः᳘ कुरुते बहू᳘निउॗतेव स्त्रीभिः᳘ सह 13 मो᳘दमानो ज᳘क्षदुॗतेवा᳘पि भ᳘यानि प᳘श्यन्॥
मूलम् - विस्वरम्
स्वप्नान्त उच्चावचमीयमानो रूपाणि देवः कुरुते बहूनि । उतेव स्त्रीभिः सह मोदमानो जक्षदुतेवा ऽपि भयानि पश्यन् ॥ १४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
पुनरपि स्वप्नस्य विशेषान्तरमाह- स्वप्नान्त इति । ‘स्वप्नान्ते’ स्वप्न-स्थाने ‘उच्चं’ देवादि-भावं ‘अवचं’ तिर्यगादि-भावं च, उच्चं चावचं च्चेत्युच्चावचम्, इति समाहार-द्वन्द्वः । स्व-कर्मोद्भासितं वासनामयं उत्कृष्टं निकृष्टं च स्वेनैवात्मना स्वयं ‘ईयमानः’ गम्यमानः प्राप्नुवन् ‘देवः’ द्योतनात्मकः ‘रूपाणि’ वासनामयानि शरीर-जातानि ‘बहूनि’ असङ्ख्येयानि ‘कुरुते’ । तत्स[[??]]र्तिप्रदत्वेनानुवर्तते । उतापि ‘स्त्रीभिः सह मोदमानः इव’ क्रीडमान इव । उतापि ‘जक्षदिव’ वयस्यादिभिः सह हसन्निव । ‘अपि भयानि’ बिभेति एभ्य इति भयानि सिंह-व्याघ्रादीनि ‘पश्यन्निव’ भवतीत्य् अर्थः । तथा च- इव-शब्द-प्रयोगात् वास्तव-हेत्वभावाच्च स्वप्ने सुखाद्यनुभवः अविद्यामयो मृषेति भावः ॥ १४ ॥
१५
विश्वास-प्रस्तुतिः
आराम᳘मस्य पश्यन्ति॥
न तङ्क᳘श्चन᳘ पश्यती᳘ति तन्ना᳘यतम्बोधयेदि᳘त्याहुर्द्दुर्भ्भिषज्ज्यᳫँ᳭ हास्मै᳘ भवति य᳘मेष न᳘ प्प्रतिपद्यते[[!!]]॥
मूलम् - श्रीधरादि
आराम᳘मस्य पश्यन्ति॥
न तङ्क᳘श्चन᳘ पश्यती᳘ति तन्ना᳘यतम्बोधयेदि᳘त्याहुर्द्दुर्भ्भिषज्ज्यᳫँ᳭ हास्मै᳘ भवति य᳘मेष न᳘ प्प्रतिपद्यते[[!!]]॥
मूलम् - Weber
आराम᳘मस्य 14 पश्यन्ति॥
न तं क᳘श्चन᳘ पश्यती᳘ति तं ना᳘यतम् बोधयेदि᳘त्याहुर्दु᳘र्भिषज्यᳫं हास्मै᳘ भवति य᳘मेष न᳘ प्रतिप᳘द्यते॥
मूलम् - विस्वरम्
”आराममस्य पश्यन्ति न तं कश्चन पश्यति”- इति । तं नायतं बोधयेदित्याहुः । दुर्भिषज्यं हास्मै भवति । यमेष न प्रतिपद्यते ॥ १५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं स्वप्ने निरूपिते किं पर्यवसितं इत्यपेक्षायां तत्रात्मा विविक्तः स्वयञ्ज्योतिः पर्यवसित इति प्रदर्शनाय मन्त्र-शेषं पठति- आराममस्य पश्यन्तीति । अस्यात्मनः ‘आरामं’ आक्रीडनं ग्राम-नगरयोषिदन्नाद्ययानमार्गादिलक्षणं वासना-निर्मितमेव पश्यन्ति, सर्वे जना इति शेषः । ‘न’ तु तमात्मानं तत्र विविक्त-दृग्रूपत्वेनावभासकं कश्चन को ऽपि ‘पश्यति’ । तस्मादात्मा स्वप्ने अदृश्य एव सन् अवभासते इति सिद्धम् । आत्मनः स्वयं-ज्योतिष्ट्वमित्य् अर्थः । इति-शब्दो मन्त्रोदाहरण-समाप्त्यर्थः । अहो भाग्य-हीनता लोकस्य ! यच्छक्यदर्शनमपि अहरहर्विविक्ततया अनुभूयमानमपि आत्मानं “अयमहमस्मीति” ‘न पश्यतीति’ लोकं प्रति शिरस्ताडं अनुक्रोशति मन्त्रात्मिकेवं श्रुतिरित्यभिप्रायः । किं च- स्वप्नं गत आत्मा विविक्त एवेत्यत्र लोक-प्रसिद्धिरप्यस्तीत्य् आह- तत्रायतमिति । तमात्मानं सुप्तं ‘आयतं’ भृशं न बोधयेदित्याहुश्चिकित्सका जनाः लोके कथयन्तीत्य् अर्थः । जाग्रद्देहगतेन्द्रियद्वारलक्षणाः प्रबोधननाडीः परित्यज्य आत्मा स्वप्न-नाडीः प्रविष्टो विविक्त एव स्वप्ने वर्तते इति लोकः प्रायः पश्यतीति । अत एव नाडीव्यत्यासगमनशङ्कयैव सुप्तं न बोधयेद्भृशं इत्य् अनुज्ञा ऽस्ति लौकिकी इत्य् अभिप्रायः । भवत्वेवं स्वप्ने विविक्तः । तथा ऽपि भृशमप्रबोधने को हेतुरित्यत आह- दुर्भिषज्यं हास्मा इति । यस्माद्देशाच्छुक्रमादायापसृतः । तं यं इन्द्रिय-देशं ‘एषः’ आत्मा पुनर्न प्रतिपद्यते । सहसा प्रबोधितः कदाचित् व्यत्यासेन इन्द्रिय-मात्राः प्रवेशयति । ततश्चांध्यबाधिर्यादिदोषप्राप्तौ ‘अस्मै’ देहाय स्फुटं ‘दुर्भिषज्यं’ दुःखेन भिषक्कर्म भवति कष्टेन चिकित्सनीयो देहो भवतीत्य् अर्थः ॥ १५ ॥
१६
विश्वास-प्रस्तुतिः
(ते᳘ ऽथो) अ᳘थो ख᳘ल्वाहुः॥
(र्ज्जा) जागरितदेश᳘ ऽए᳘वास्यैष या᳘नि᳘ ह्येव जा᳘ग्ग्रत्प᳘श्यति ता᳘नि सुप्त ऽइत्य᳘त्रायम्पु᳘रुषः स्वय᳘ञ्ज्योतिर्भ्भवती᳘त्येव᳘मे᳘वैतद्याज्ञवल्क्य᳘[[!!]] सो ऽहम्भ᳘गवते सह᳘स्रन्ददाम्य᳘त ऽऊर्ध्व᳘म्विमोक्षा᳘यैव᳘ ब्ब्रूही᳘ति॥
मूलम् - श्रीधरादि
(ते᳘ ऽथो) अ᳘थो ख᳘ल्वाहुः॥
(र्ज्जा) जागरितदेश᳘ ऽए᳘वास्यैष या᳘नि᳘ ह्येव जा᳘ग्ग्रत्प᳘श्यति ता᳘नि सुप्त ऽइत्य᳘त्रायम्पु᳘रुषः स्वय᳘ञ्ज्योतिर्भ्भवती᳘त्येव᳘मे᳘वैतद्याज्ञवल्क्य᳘[[!!]] सो ऽहम्भ᳘गवते सह᳘स्रन्ददाम्य᳘त ऽऊर्ध्व᳘म्विमोक्षा᳘यैव᳘ ब्ब्रूही᳘ति॥
मूलम् - Weber
अ᳘थो ख᳘ल्वाहुः॥
जागरितदेश᳘ एॗवास्यैष या᳘निॗ ह्येव जा᳘ग्रत्प᳘श्यति ता᳘नि सुप्त इत्य᳘त्रायम् पु᳘रुषः स्वयं᳘ज्योतिर्भवती᳘त्येव᳘मेॗवैत᳘द्याज्ञवल्क्यॗ सोऽहम् भ᳘गवते सह᳘स्रं ददाम्य᳘त ऊर्ध्वं᳘ विमोक्षा᳘यैव᳘ ब्रूही᳘ति॥
मूलम् - विस्वरम्
अथो खल्वाहुः । जागरित-देश एवास्य एषः । यानि ह्य् एव जाग्रत्पश्यति । तानि सुप्त इति । अत्रायं पुरुषः स्वयञ्ज्योतिर्भवतीति । एवमेवैतद्याज्ञवल्क्य । सो ऽहं भगवते सहस्रं ददामि । अत ऊर्ध्वं विमोक्षायैव ब्रूहि इति ॥ १६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
इदानीं अन्यदीयं मतं स्वयञ्ज्योतिष्ट्वविघातकं दुष्टं इति अस्मान् बोधयितुं स्वमत-परिशुद्धये च तदुपन्यस्यति- अथो खल्वाहुर्जागरित-देश एवास्यैष इत्यादिना । ‘अथो’ अपि ‘खलु’ अन्ये ‘आहुः’ । किं ? ‘एषः’ प्रसिद्धः ‘जागरित-देशः’ एवास्य विषयः, न तु सन्ध्यमिदं स्थानान्तरं इह-लोक-पर-लोकाभ्यां व्यतिरिक्तमित्य् अर्थः । जागरित-देशस्यैव स्वप्न-विषयत्वे हेतुमप्य् आचक्षत इत्याह- यानि ह्य् एव जाग्रदिति । ‘हि’ यस्मात् हस्त्य्-आदीनि पदार्थ-जातानि ‘यानि’ जाग्रज्जागरितदेशे ‘पश्यति’ लौकिकः । तान्येव सुप्तो ऽपि पश्यतीत्य् अर्थः । इति-शब्दो मतान्तरोप-न्यास-समाप्त्यर्थः । ननु- कथमेतत् स्वयञ्ज्योतिष्ट्वविघातकमिति चेत्; शृणु, यदि जागरित-देश एवायं स्वप्नो जातः । तदा जागरित इव स्वप्ने ऽपि कार्य-करण-सङ्घात-मिश्रितत्वेन न ततो व्यतिरिक्तं स्वयञ्ज्योतिः सिध्येत् इति स्वयञ्ज्योतिष्ट्वं बाधितं स्यादिति । अयं च पूर्वः पक्षः, “अग्निहोत्रं जुहोति” “यवागूं पचति” ( )इति न्यायेनार्थक्रमपरिग्रहेण “स यत्रायं प्रस्वपिति” इत्य् अतः प्रागेवावगन्तव्यः । पूर्व-पक्षस्य प्राथम्यं इत्यस्यैव क्रमस्य न्याय्यत्वात् सन्ध्य-स्थानस्य तृतीयत्वाक्षेपकत्वेन तत्रोचितत्वाच्चेति द्रष्टव्यम् । नैतत्सारम्, “सयत्र” इत्यादिना युक्तितः प्रमाणेन स्वप्नस्य मृषात्व-निरूपणं कृतम् इत्य् एतत्सूचयन्ती श्रुतिरुत्तरमाह- अत्रायं पुरुषः स्वयञ्ज्योतिर्भवतीति । अक्षरार्थः पूर्ववत् । एवं मुनिना “स्वयञ्ज्योतिरात्मेति” सपरिकरमुपसंहारे कृते मुनि-वचनं राजा अङ्गीकरोति- एवमेवैतद्याज्ञवल्क्येति । हे ‘याज्ञवल्क्य !’ एतद्भगवतोक्तं स्वप्नादावात्मनः स्वयञ्ज्योतिष्ट्वमेवमेव । ततः किं कृतवान् राजा इत्य् आह- सो ऽहं भगवते सहस्रं ददामीति । यस्त्वया एवं बोधितः ‘सो ऽहं’ जनकः ‘भगवते’ गुरवे तुभ्यं विद्यानिष्क्रयार्थं ‘सहस्रं ददामि’ । अर्थात् गवामिति सम्बध्यते इत्य् अर्थः । “कतम आत्मा” इति पृष्टे “यो ऽयं विज्ञानमयः” इत्यादिना देहेन्द्रिय-मनो-बुद्धि-प्राणाहङ्कृतिविलक्षणः “स्वयञ्ज्योतिरात्मेति” प्रतिवचनेन निर्णीय मुनिरुपरतः । राजा तु कामप्रश्नवरप्राप्त्यवष्टम्भेन काम-कर्मादि-सकल-संसार-धर्मातीत-स्वरूपस्याङ्गिभूतस्य विजिज्ञासितस्य मोक्षस्यानिर्द्धारितत्वात् तन्निश्चयाय मुनिमपृच्छदिति दर्शयति- अत ऊर्ध्वं विमोक्षायैव ब्रूहीति । विशिष्टो मोक्षो भवत्यनेनेति विमोक्षः सम्यक् ज्ञानम् । यतः स्वयञ्ज्योतिष्ट्वरूपं मोक्षाङ्गमात्रमेव निर्णीतम् । अतः कारणादूर्ध्वमङ्गनिर्णयादनन्तरं ‘विमोक्षायैव’ मोक्ष-साधन-भूताद्वितीय-ब्रह्मात्म-ज्ञानायैव ‘ब्रूहि’ । यथा मोह-त्रासादि-जनको मृत्युरात्मनः स्वभावो न भवति तथा मामुपदिशेत्य् अर्थः ॥ १६ ॥
१७
विश्वास-प्रस्तुतिः
स वा᳘ ऽएष᳘ ऽएत᳘स्मिन्त्स्वप्नान्ते᳘॥
रत्वा᳘ चरित्वा᳘ दृ᳘ष्ट्वैव पु᳘ण्यञ्च पा᳘पञ्च पु᳘नः प्प्रतिन्याय᳘म्प्रतियोन्या᳘द्रवति बुद्धान्ता᳘यैव स यद᳘त्र कि᳘ञ्चित्प᳘श्यत्य᳘नन्वागतस्ते᳘न भवत्य᳘सङ्गो᳘ ह्ययम्पु᳘रुष ऽइ᳘त्येव᳘मे᳘वैत᳘द्याज्ञवल्क्य᳘[[!!]] सो ऽहम्भ᳘गवते सह᳘स्रन्ददाम्य᳘त ऽऊर्ध्व᳘म्विमोक्षा᳘यैव᳘ ब्ब्रूही᳘ति॥
मूलम् - श्रीधरादि
स वा᳘ ऽएष᳘ ऽएत᳘स्मिन्त्स्वप्नान्ते᳘॥
रत्वा᳘ चरित्वा᳘ दृ᳘ष्ट्वैव पु᳘ण्यञ्च पा᳘पञ्च पु᳘नः प्प्रतिन्याय᳘म्प्रतियोन्या᳘द्रवति बुद्धान्ता᳘यैव स यद᳘त्र कि᳘ञ्चित्प᳘श्यत्य᳘नन्वागतस्ते᳘न भवत्य᳘सङ्गो᳘ ह्ययम्पु᳘रुष ऽइ᳘त्येव᳘मे᳘वैत᳘द्याज्ञवल्क्य᳘[[!!]] सो ऽहम्भ᳘गवते सह᳘स्रन्ददाम्य᳘त ऽऊर्ध्व᳘म्विमोक्षा᳘यैव᳘ ब्ब्रूही᳘ति॥
मूलम् - Weber
स वा एष᳘ एत᳘स्मिन्त्स्वप्नान्ते᳟॥
रत्वा᳘ चरित्वा᳘ दृॗष्ट्वैव पु᳘ण्यं च पा᳘पं च पु᳘नः प्रतिन्याय᳘म् प्रतियोन्या᳘द्रवति बुद्धान्ता᳘यैव स यद᳘त्र किं᳘चित्प᳘श्यत्य᳘नन्वागतस्ते᳘न भवत्य᳘सङ्गो ह्य᳘यम् पु᳘रुष इ᳘त्येव᳘मेॗवैत᳘द्याज्ञवल्क्यॗ सोऽहम् भ᳘गवते सहस्रं ददाम्य᳘त ऊर्ध्वं᳘ विमोक्षा᳘यैव᳘ ब्रूही᳘ति॥
मूलम् - विस्वरम्
स वा एष एतस्मिन् स्वप्नान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति । बुद्धान्तायैव । स यदत्र किञ्चित्पश्यति, अनन्वागतस्तेन भवति । असङ्गो ह्य् अयं पुरुष इति । एवमेवैतद्याज्ञवल्क्य । सो ऽहं भगवते सहस्रं ददामि । अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ १७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं राज्ञा नियुक्तो मुनिः मोहत्रासाद्यभावप्रदर्शनपुरःसरं तत्कारणभूतः कर्म-लक्षणो मृत्युर्नात्मनः स्वभाव इति दर्शयितुं प्रवर्तमानस्तावत् स्वप्नस्थानाज्जागरित-देश-गमनमाह- स वा एष एतस्मिन्त्स्वप्नान्त इति । ‘यः’ ‘एषः’ स्वप्ने दर्शितः स्वयञ्ज्योतिः ‘सः’ प्रकृत आत्मा ‘वै’ प्रसिद्धः ‘स्वप्नान्ते’ स्वप्न-स्थाने ‘रत्वा’ स्त्री-पुत्रादि-सापेक्षं मनो-वाक्-काय-चेष्टा-लक्षणं रमणं कृत्वा वासना-मात्र-साधनः सन् ‘चरित्वा’ इतस्ततः अनेकधा आचरणं कृत्वा ‘दृष्ट्वैव’ ‘पुण्यं च पापं चेति’ पुण्यं पुण्य-फलं सुखं च पापं च पाप-फलं दुःखं च अनुभूयैव ‘पुनः’ स्वप्नादूर्ध्वं प्रति पूर्वस्माद्गमनात् प्रतिलोम्येन न्यायेन निश्चयेनागमनं यथा स्यात् तथा, ‘प्रति[[??]]नि’ जागरित-सर्गाय पूर्व-गृहीत-वासनामयं स्थानं प्रति ‘आद्रवति’ आगच्छतीत्य् अर्थः । किमर्थमित्य् अत आह- ’बुद्धान्तायैव’ जागरणायैव जागरणानुभवायैवेत्य् अर्थः । अत्र दृष्ट्वैवेत्येवकारादात्मनः स्वप्ने पुण्य-पापकर्तृत्वं व्यावर्तते । स्थानात् स्थानान्तर-प्राप्तौ अभ्यासं दर्शयितुं पुनः-शब्द-प्रयोगः । प्रति-शब्दः प्रतिलोम्य-वाची । जागरितात्स्वापं स्वप्नात्सुषुप्तमित्य् आनुलोम्यं तद्विपरीतं प्रतिलोम्यम् । निश्-शब्दो निश्चय-वाची । अयने आयः गमनम् । इणो धातोर्गत्यर्थात् भावे ऽर्थे घञि विहिते आय इति रूपम् । योनि-शब्दो वासना-वाचनः । ननु- स्वप्ने आत्मा रत्यादिकं करोति चेत्; तत्फलेनापि सम्बध्यते । यथा जागरिते कर्म कुर्वंस्तत्फलेन सम्बध्यते इत्य् आशङ्कां वारयति- स यदत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवतीति । ‘सः’ आत्मा ‘अत्र’ स्वप्ने ‘यत्’ किमपि पुण्य-पाप-फलं ‘पश्यति’ । ‘तेन’ दृष्टेनान्वागतः अननुबद्धो भवतीत्य् अक्षरार्थः । स्वप्ने तावदात्मनः कर्तृत्वं न वास्तवमित्य् उक्तम् । अतो न स्वप्न-कृतेन कर्मणा आत्मा बध्यते । यदि वस्तुतः कर्ता सन् बध्येत । तर्हि स्वप्न-कृतेन अपेयपानादिना स्वप्नात्मानं पाप-कारिणं मन्येत लोकः । न च कश्चिदपि तथा मन्यते । न वा स्वप्ने अहमपेयपानमकार्षमित्युक्तवन्तं प्रामाणिका गर्हयन्तः तत्-संसर्गं परिहरन्ति । ननु- “स्वप्ने चेन्द्रियदौर्बल्यात् दृष्ट्वा क्षरेद्यदि । प्रायश्चित्तं तु तस्योक्तं प्राणायामास्तु षोडश” ( ) इति वचनेन स्वप्ने रेतःस्खलननिमित्तप्रायश्चित्तविधानामात्मनः स्वप्ने कर्म-सम्बन्धाभावे नोपपद्यत इति चेत्; शृणु, नैतत्स्वप्नसम्भोगनिमित्तं प्रायश्चित्तम् । किं तु सत्यादेव इन्द्रियलक्षणादाधारात् रेतसः क्षरणनिमित्तं तस्य जागरिते प्रपन्नत्वनिमित्तं च । अन्यथा परनारीसङ्गमनिमित्तमपि प्रायश्चित्तं विदध्यात्, न स्कन्ननिमित्तमात्रम् । तस्मान्न स्वप्न-कृतेन कर्मणा तत्-फलेन चात्मा सम्बध्यत इति तात्पर्यार्थः । कथं स्वप्न-दृष्टेनात्मा अनन्वागत इत्य् अपेक्षायां हेतुमाह- असङ्गो ह्य् अयं पुरुष इतीति । ‘हि’ यस्मात् ‘अयं पुरुषः’ ‘असङ्गः’ तस्मादनन्वागत इत्य् अर्थः । मुनिनोक्तम् आत्मनः कर्मासम्बन्धं राजा अङ्गीकरोति- एवमेवैतद्याज्ञवल्क्येति । हे ‘याज्ञवल्क्य !’ ‘एतत्’ ‘भगवता’ उक्तं स्वप्ने आत्मनः कर्मासम्बद्धत्वं ‘एवमेव’ इत्य् अङ्गीकृतं राज्ञा इत्य् अर्थः । मुनिनिरूपिते ऽर्थे स्वात्मनो दार्ढ्यं सूचयन् राजा दक्षिणां प्रतिजानीते- सो ऽहं भगवते सहस्रं ददामीति । उक्तार्थमेतत् । राजा मुनेः स्वस्मिन्नैराकाङ्क्ष्यशङ्कां वारयति- अत ऊर्ध्वं विमोक्षायैव ब्रूहीतीति । कर्मप्रविवेकस्यापि मोक्षैकहेतुत्वात् ‘विमोक्षायैव ब्रूहीति’ पृष्टवानित्य् अर्थः ॥ १७ ॥
१८
विश्वास-प्रस्तुतिः
तद्य᳘था महामत्स्यः᳘॥
(ऽ) उभे कू᳘ले ऽअनुसञ्च᳘रति पू᳘र्व्वञ्चा᳘परञ्चैव᳘मे᳘वायम्पु᳘रुष ऽएता᳘ ऽउभाव᳘न्तावनुस᳘ञ्चरति स्वप्नान्त᳘ञ्च बुद्धान्त᳘ञ्च॥
मूलम् - श्रीधरादि
तद्य᳘था महामत्स्यः᳘॥
(ऽ) उभे कू᳘ले ऽअनुसञ्च᳘रति पू᳘र्व्वञ्चा᳘परञ्चैव᳘मे᳘वायम्पु᳘रुष ऽएता᳘ ऽउभाव᳘न्तावनुस᳘ञ्चरति स्वप्नान्त᳘ञ्च बुद्धान्त᳘ञ्च॥
मूलम् - Weber
तद्य᳘था महामत्स्यः᳟॥
उभे कू᳘ले अनुसंच᳘रति 15 पू᳘र्वं चा᳘परं चैव᳘मेॗवायम् पु᳘रुष एता᳘ उभाव᳘न्तावनुसं᳘चरति स्वप्नान्तं᳘ च बुद्धान्तं᳘ च॥
मूलम् - विस्वरम्
तद्यथा महामत्स्य उभे कूले अनुसञ्चरति, पूर्वं चापरं च । एवमेवायं पुरुष एता उभावन्तावनुसञ्चरति, स्वप्नान्तं च बुद्धान्तं च ॥ १८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं “स वा ऽएष ऽएतस्मिन् स्वप्नान्ते- (श. प. १४ । ४ । १ । १७) इत्य् अनया कण्डिकया स्वतन्त्रः ज्योतिरात्मा अवस्थाद्वये ऽपि कामकर्मप्रयुक्तस्थानद्वयसञ्चरणसंसारधर्मैरसंस्पृष्टो ऽवशीकृतो ऽसङ्गत्वादिति प्रतिपादितम् । तत्र सञ्चरन्नपि कथं तेन न वशीक्रियते ? इत्यत्र दृष्टान्त उच्यते । यद्वा स्वप्नान्तबुद्धान्तात्मकावस्थाद्वयस्य मिथो व्यभिचारात् तदनुस्यूतस्यात्मनः तद्विलक्षणत्वं तद्गतकामकर्मात्मकात् असङ्गान्मृत्योर्विविक्तत्वं च यद्दर्शितम्, तत्रेदानीं दृष्टान्तमाह- तद्यथा महामत्स्य इति । तत्तत्र एतस्मिन्नुक्ते ‘तद्यत्’ प्रसिद्धमिति वा ‘यथा’ लोके ‘महामत्स्यः’ महांश्चासौ मत्स्यश्चेति महामत्स्यो नादेयस्रोतसा अप्रकम्प्यः अवशीकृतो मत्स्यो ऽत्र दृष्टान्तः । महच्छब्दविशेषणेन तादृग्रूपस्य विवक्षितत्वात् । तथा च यथा स मत्स्यः नद्याः ‘पूर्वमपरं’ चेत्य् उभे ‘कूले’ तीरे तटो ‘अनु’ क्रमेण ‘सञ्चरति’ । स्रोतश्च विष्टम्भयन् स्वच्छन्दचारी तटाभ्यां भिन्न एव सन् सञ्चरतीत्य् अर्थः ॥
उक्ते दृष्टान्ते दार्ष्टान्तिकं योजयति- एवमेवायं पुरुष एता उभावन्तावनुसञ्चरतीति । यथा अयं दृष्टान्तः ‘एवमेवायं पुरुषः’ ‘स्वप्नान्तं च’ स्वप्नं ‘बुद्धान्तं च’ जागरितं च इत्य् एतौ ‘उभावन्तौ’ ‘अनु’ क्रमेण ‘सञ्चरति’ । अतः अवस्थाद्वये ऽपि उक्तरूप एवात्मेत्य् अर्थः । अतः अस्यात्मनः संसारित्वमाविद्यकमेव न स्वतः । तस्यां निवृत्तायां तु स्वतःसिद्धैव तस्य मुक्तिरिति “स वा अयं पुरुषो जायमानः”- (श. प. १४ । ४ । १ । ८) इत्यारभ्य महा-मत्स्य-वाक्यान्तस्य ग्रन्थस्य समुदायार्थः ॥ १८ ॥
१९
विश्वास-प्रस्तुतिः
तद्य᳘था ऽस्मि᳘न्नाकाशे᳘॥
श्येनो᳘ वा सुपर्ण्णो᳘ वा व्विप᳘रिपत्य[[!!]] श्रान्तः᳘ सᳫँ᳭ह᳘त्य पक्षौ᳘ सल्ँलया᳘यैव᳘ ध्रिय᳘त ऽएव᳘मे᳘वायम्पु᳘रुष ऽएत᳘स्मा ऽअ᳘न्ताय धावति य᳘त्र सुप्तो न क᳘ञ्चन का᳘मङ्काम᳘यते न क᳘ञ्चन स्व᳘प्नम्प᳘श्यति॥
मूलम् - श्रीधरादि
तद्य᳘था ऽस्मि᳘न्नाकाशे᳘॥
श्येनो᳘ वा सुपर्ण्णो᳘ वा व्विप᳘रिपत्य[[!!]] श्रान्तः᳘ सᳫँ᳭ह᳘त्य पक्षौ᳘ सल्ँलया᳘यैव᳘ ध्रिय᳘त ऽएव᳘मे᳘वायम्पु᳘रुष ऽएत᳘स्मा ऽअ᳘न्ताय धावति य᳘त्र सुप्तो न क᳘ञ्चन का᳘मङ्काम᳘यते न क᳘ञ्चन स्व᳘प्नम्प᳘श्यति॥
मूलम् - Weber
तद्य᳘थास्मि᳘न्नाकाशे᳟॥
श्येनो᳘ वा सुपर्णो᳘ वा विपरिप᳘त्य श्रान्तः᳘ संह᳘त्य पक्षौ᳘ सल्लया᳘यैव᳘ 16 ध्रिय᳘त एव᳘मेॗवायम् पु᳘रुष एत᳘स्मा अ᳘न्ताय धावति य᳘त्र सुप्तो न कं᳘ चन का᳘मं काम᳘यते न कं᳘ चन स्व᳘प्नम् प᳘श्यति॥
मूलम् - विस्वरम्
तद्यथा अस्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहत्य पक्षौ सँल्लयायैव ध्रियते । एवमेवायं पुरुष एतस्मा अन्ताय धावति । यत्र सुप्तो न कञ्चन कामं कामयते । न कञ्चन स्वप्नं पश्यति ॥ १९ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं महा-मत्स्य-दृष्टान्तोप-न्यासेना ऽवस्था-द्वये ऽपि यद्यपि कार्य-करणादिभ्यो व्यतिरिक्तं शुद्ध-बुद्ध-मुक्त-स्वभावं आत्म-स्वरूपं दर्शितम्, तथा ऽपि एकैकस्मिन् वाक्ये एकैक-व्यतिरेकस्यैव प्रदर्शनात् न पुञ्जीकृत्य तथाविधमात्म- स्वरूपं दर्शितम् । अतः सुषुप्तौ तथाविधमात्म-स्वरूपं सकृदेव सुखं प्रतिपत्तुं शक्यमिति “तद्वा अस्यैतदात्म-कामम्”- इत्यादिना तथा दर्शयितुं तथाविध-सुषुप्ति-प्राप्तौ दृष्टान्तत्वेन श्येनवाक्यं प्रवर्तत इति श्रीमतां शङ्कराचार्याणां अवतारिका । वार्तिककृदवतारिका तु एवं स्वप्न-बुद्धान्तयोः सञ्चरत आत्मनः संसार-विलक्षणत्वेन महा-मत्स्य-दृष्टान्त उक्तः । इदानीं सुषुप्तावपि तद्विलक्षणत्वं दर्शयितुं श्येनादिदृष्टान्तमाह- तद्यथा ऽस्मिन्नाकाशे श्येनो वा सुपर्णो वेति । ‘श्येनः’ महा-कायो मन्द-वेगः पक्षि-विशेषः । ‘सुपर्णस्तु’ वेगवत्तरः अल्प-विग्रहः । तथा च तत्प्रसिद्धं निदर्शनम् । ‘यथा’ लोके ऽस्मिन् प्रसिद्धे भौतिके ‘आकाशे’ ‘श्येनो वा सुपर्णो वा’ पक्षी ‘विपरिपत्य’ विविधं परिपतनं कृत्वा भक्षणादानार्थमनेकशो भ्रान्त्वा ‘श्रान्तः’ परिपतन-लक्षणेन कर्मणा खिन्नः सन् ‘पक्षौ संहत्य’ सङ्गमय्य सम्प्रसार्य पक्षयोः स्व-नीड-गमनाभिमुख्यमापाद्य ‘संल्लयायैव’ नीडायैव ‘ध्रियते’ स्वात्मनैव स्वयं धार्यत इत्य् अर्थः । सम्यक् लीयते अस्मिन्निति सल्लयो नीडः तस्मै । दार्ष्टान्तिकमाह- एवमेवायं पुरुष इति । यथा अयं दृष्टान्तः ‘एवमेवायं पुरुषः’ आत्मा जाग्रत्-स्वप्नयोः परिभ्रमणेन श्रान्तः सन् तच्छ्रमस्य हानार्थं ‘एतस्मै’ प्रसिद्धायान्ताय जाग्रत्-स्वप्नयोरन्तो ऽवसानं यस्मिन् ज्ञाते ब्रह्मणि सो ऽन्तः तस्मै ‘अन्ताय’ अज्ञात-ब्रह्म-लक्षण-स्व-नीडाय धावतीत्य् अर्थः । अन्त-शब्दस्य यथोक्त-ब्रह्म-विषयत्वं परिशेषयितुं विशेषण-द्वयमाह- यत्र सुप्तो न कञ्चन कामं कामयत इति । ‘यत्र’ यस्मिन् अन्ते ‘सुप्तः’ पुमान् ‘कञ्चन’ कमपि काममभिलाष-गोचरं ‘न कामयते’ ‘न कञ्चन स्वप्नं’ च ‘पश्यति’ । सो ऽन्त-शब्द-वाच्यः । तस्मै अन्ताय धावतीत्य् अन्वयः ॥ १९ ॥
२०
विश्वास-प्रस्तुतिः
ता वा᳘ ऽअस्यैताः᳘॥
(०) हिता ना᳘म ना᳘ड्यो य᳘था के᳘शः सहस्रधा᳘ भिन्नस्ता᳘वता ऽणिम्ना᳘ तिष्ठन्ति शुक्ल᳘स्य नील᳘स्य पिङ्गल᳘स्य ह᳘रितस्य लो᳘हितस्य पूर्ण्णा ऽअ᳘थ य᳘त्रैनङ्घ्न᳘न्तीव जिन᳘न्तीव ह᳘स्तीव व्विच्छाय᳘यति ग᳘र्त्तमिव प᳘तति य᳘देव जा᳘ग्ग्रद्भ᳘यम्प᳘श्यति तदत्रा᳘विद्यया भ᳘यम्मन्यते᳘ ऽथ य᳘त्र रा᳘जेव देव᳘ ऽइवाह᳘मे᳘वेदᳫँ᳭ स᳘र्व्वमस्मी᳘ति म᳘न्यते᳘ सो ऽस्य परमो᳘ लोको᳘ ऽथ य᳘त्र सुप्तो न क᳘ञ्चन का᳘मङ्काम᳘यते न क᳘ञ्चन स्व᳘प्नम्प᳘श्यति॥
मूलम् - श्रीधरादि
ता वा᳘ ऽअस्यैताः᳘॥
(०) हिता ना᳘म ना᳘ड्यो य᳘था के᳘शः सहस्रधा᳘ भिन्नस्ता᳘वता ऽणिम्ना᳘ तिष्ठन्ति शुक्ल᳘स्य नील᳘स्य पिङ्गल᳘स्य ह᳘रितस्य लो᳘हितस्य पूर्ण्णा ऽअ᳘थ य᳘त्रैनङ्घ्न᳘न्तीव जिन᳘न्तीव ह᳘स्तीव व्विच्छाय᳘यति ग᳘र्त्तमिव प᳘तति य᳘देव जा᳘ग्ग्रद्भ᳘यम्प᳘श्यति तदत्रा᳘विद्यया भ᳘यम्मन्यते᳘ ऽथ य᳘त्र रा᳘जेव देव᳘ ऽइवाह᳘मे᳘वेदᳫँ᳭ स᳘र्व्वमस्मी᳘ति म᳘न्यते᳘ सो ऽस्य परमो᳘ लोको᳘ ऽथ य᳘त्र सुप्तो न क᳘ञ्चन का᳘मङ्काम᳘यते न क᳘ञ्चन स्व᳘प्नम्प᳘श्यति॥
मूलम् - Weber
ता वा᳘ अस्यैता᳟॥
हिता ना᳘म नाॗड्यो य᳘था के᳘शः सहस्रधा᳘ भिन्नस्ता᳘वताणिम्ना᳘ तिष्ठन्ति शुक्ल᳘स्य नील᳘स्य 17 पिङ्गल᳘स्य ह᳘रितस्य लो᳘हितस्य पूर्णा अ᳘थ य᳘त्रैनं घ्न᳘न्तीव जिन᳘न्तीव हॗस्तीव विछाय᳘यति ग᳘र्तमिव प᳘तति य᳘देव जा᳘ग्रद्भ᳘यम् प᳘श्यति तदत्रा᳘विद्यया भ᳘यम् 18 मन्यते᳘ऽथ य᳘त्र रा᳘जेव देव᳘-इवाह᳘मेॗवेदᳫं स᳘र्वमस्मी᳘ति म᳘न्यतेॗ सोऽस्य परमो᳘ लोको᳘ऽथ य᳘त्र सुप्तो न कं᳘ चन का᳘मं काम᳘यते न कं᳘ चन स्व᳘प्नम् प᳘श्यति॥
मूलम् - विस्वरम्
ता वा अस्यैता हिता नाम नाड्यः । यथा केशः सहस्रधा भिन्नः तावता ऽणिम्ना तिष्ठन्ति । शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णाः । अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छाययति गर्तमिव पतति । यदेव जाग्रद्भयं पश्यति । तदत्राविद्यया भयं मन्यते । अथ यत्र राजेव देव इवाहमेवेदं सर्वमस्मीति मन्यते । सो ऽस्य परमो लोकः । अथ यत्र सुप्तो न कञ्चन कामं कामयते । न कञ्चन स्वप्नं पश्यति ॥ २० ॥
श्रीमद्वासुदेवब्रह्मभगवान्
ननु- जाग्रत्-स्वप्नोपाध्य्-अपगमेन सुषुप्ति-गतस्याप्यात्मनो न ब्रह्मैकत्वं तत्रापि भेद-हेतोरविद्यायाः सत्त्वात् इत्याशङ्क्य न तावदविद्या आत्मनः स्वभावः, तथा सति चैतन्यवत् तदनिवृत्तेरमोक्षापत्तेः । अस्वभावत्वे तु काम-कर्मादिवत् तन्निवृत्तेर्मोक्षम् उपपद्यते, इति विचार-पुरःसरं अस्वभावत्व-कथन-द्वारा विद्या-काम-कर्मादि-हीनतया निरूपितात्म-स्वरूपस्य प्रत्यक्षेण प्रदर्शनेच्छया उत्तरा कण्डिका प्रवर्तते- ता वा ऽअस्यैता हिता नाम नाड्य इति । याः पूर्वं प्रकृताः ‘ताः’ ‘वै’ प्रसिद्धाः ‘अस्य’ शिरः-पाण्यादि-लक्षणस्य सङ्घातस्य ‘हिताः’ इत्य् एवं नामवत्यः ‘नाड्यः’ शिराः । ‘यथा’ लोके ‘केशः’ बालः ‘सहस्रधा’ भिन्नः सन् यावत्-परिमाणो भवति। ‘तावता’ तावत्-परिमाणेन ‘अणिम्ना’ अणुत्वेन तिष्ठन्ति । अर्थात् हृदये इति गम्यते । “हृदयात् ऊर्ध्वा नाड्युच्चरति” (श. प. १४ । ६ । ११ । ३) इति नाडीनां हृदयात् विप्रसृतत्व-श्रवणादित्य् अर्थः । एताश्च सूक्ष्मा नाड्यो धातु-वैषम्य-वशात् भुक्तान्न-रसस्य नानाविधैः परिणामैः पूर्यन्ते । तासु चैवंविधासु सकल-देह-व्यापिनीषु प्रत्यगात्मोपाधि-भूतं जाग्रद्दृ-पदार्थ-वासनाश्रयं स्फटिक-मणिवत्स्वच्छं लिङ्गं तिष्ठतीत्य् अभिप्रेत्याह- शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णा इति । षष्ठ्यस्तृतीयार्थे । शुक्लेन पूर्णा इत्य् एवं प्रत्येकं सम्बध्यते । श्लेष्म-बाहुल्ये वात-पित्तयोर्गुणत्वेन संसर्गात् भुक्तान्नरसो नाडीस्थः श्वेतो भवति । वात-भूयस्त्वे सति इतरयोर्गुणत्वात् नाडीस्थो ऽन्नरसो नीलो भवति । पित्त-बाहुल्यादितरयोः उपसर्जनत्वे सति नाडीस्थो रसः पिङ्गलो भवति । वात-श्लेष्माधिक्येन पित्ते मन्दे सति नाडीस्थो ऽन्नरसो हरितो भवति । तेषां च धातूनां साम्ये नाडीस्थो ऽन्नरसः अत्यन्तं लोहितो भवति । एवंविधान्नरसव्याप्तानां नाडीनामपि तादृशा वर्णा जायन्ते । तदुक्तं सुश्रुते- “अरुणाः शिरा वात-वहा नीलाः पित्त-वहाः शिराः । असृग्वहास्तु रोहिण्यो गौर्यः श्लेष्म-वहाः स्मृताः” ( ) इत्यादि । तथा च- तासु नाडीषु पुरुषस्य स्वाप-काले धर्मादि-निमित्त-वशात् पूर्वोक्तं लिङ्गं स्वगत-चिदाभास-सहितं मिथ्यैव नानाकारं अवभासत इति भावः । भवत्य् एवं, यथोक्तासु नाडीषु यथोक्तस्य लिङ्गस्यावस्थितिः, कथमेतावता कार्यद्वारा अविद्या-सिद्धिरित्याकाङ्क्षायामाह- अथ यत्रैनं घ्नन्तीव जिनन्तीवेति । ‘अथ’ मूल-अविद्या-कार्यत्वात् अविद्यात्मके पूर्वोक्ते लिङ्गे प्रागुक्त-नाडीषु व्यवतिष्ठमाने सति ‘यत्र’ यस्मिन् स्वप्न-काले ‘एनं’ स्वप्न-दृशं केचन शत्रवः अन्ये वा तस्करादयः ‘घ्नन्तीव’ अन्ये केचित् ‘जिनन्तीव’ वशीकुर्वन्तीव दासादि-रूपेण । कदाचिदेनं ‘हस्ती’ ‘विच्छाययतीव’ विद्रावयतीवेति यावत् । “विच्छ गतौ”- (धा. पा. तु. प. १४२) । “गुपूधूपविच्छपणिपनिभ्य आयः”- (पा. सू. ३ । १ । २८) इति स्वार्थे आयः प्रत्ययः । तथा ‘गर्तं’ जीर्ण-कूपादिकं प्रति ‘पततीव’ । वस्तुतो हननादि-कारक-अभावे ऽपि मृषैव स्वप्न-द्रष्टुः सर्वत्र इव-शब्द-प्रयोगादित्य् अर्थः । निकृष्टाधर्मोद्भासितान्तःकरण-वृत्त्याश्रयवासनावशाद्दुःखात्मक एवंविधः प्रतिभासो भवतीति भावः । एवं स्वप्नस्य मिथ्यात्व-वर्णने को हेतुरित्य् अपेक्षायामाह- यदेव जाग्रद्रूपं पश्यतीति । ‘यदेव’ जागरितः ‘भयं’ भय-हेतुं हस्त्यादिकं ‘पश्यति’ । ‘तदेव’ भय-कारणं अत्रास्मिन् स्वप्ने ‘अविद्यया’ वासनात्मिकया मृषैवोद्भूतया आत्मा मन्यते ‘पश्यति’ । अतो मृषैव स्वप्न इत्य् अर्थः । एतेन वाक्येन कार्यद्वारा अधर्म-सहकारिका अनात्म-स्वभावा अविद्या दर्शिता । यतो यदा कदाचित् विद्यायां तिरोधीयमानायां अविद्यायां चोत्कृष्यमानायामेव घ्नन्तीवेत्य्-आदिनोक्तं प्रत्यक्षत उपलभ्यत इति । इदानीं धर्म-सहकारिकां च तां शुभ-वासनात्मिकां अनात्म-भूतामविद्यां तत्-कार्य-प्रदर्शन-द्वारा निरूपयति- अथ यत्र राजेव देव इवेति । ‘अथ’ अविद्यायामपकृष्यमाणायां विद्यायां उत्कृष्यमाणायां सत्यां ‘यत्र’ स्वप्न-काले ‘राजेव’ ‘देव इव’ स्वात्मानं ‘मन्यते’ पश्यतीत्य् अन्वयः । यदा जागरे राज्ये अभिषिक्तो राजा ऽस्मीत्य् अभिमानवान् भवति । तदा तद्-वासना-वासितः स्वप्ने ऽपि राजा ऽहमस्मीति स्वात्मानं मन्यते । तथा जागरे देवादि-विषयोपास्ति-रूपा अविद्या अस्य द्रष्टुर्जाता । तदा तद्-वासना-वासिततया देवो ऽहमस्मीति स्वप्न-हेतु-कर्मोद्भवे मन्यत इत्य् अर्थः । एतदपि दर्शनं मृषैव । इव-शब्द-प्रयोगादित्य् अवगन्तव्यम् । इदानीं सत्ये एवात्मनि विद्योत्कर्षक-वशात् अविद्याया विनश्यमानवादपि तस्या अनात्म-स्वभावतेत्य्-अभिप्रेत्य आत्म-विद्योत्कर्ष-वता सर्वात्म-भाव-लक्षणं मोक्ष-फलं आत्म-स्वरूपमपि स्वप्ने प्रत्यक्षतः अनुभूयत इत्याह- अहमेवेदं सर्वमस्मीति मन्यत इति । ‘अहमेव’ ‘इदं सर्वं’ सर्वात्मकं ब्रह्म । न मत्तः अन्यदिति दर्शनेन यदा जागरे आत्मा ध्वस्त-आत्म-मोह-तत्-कार्यो भवति । तदा स्वप्ने ऽपीदं सर्वमहमेव चिन्-मात्रम् । न तु मद्-अतिरेकेण अस्ति किञ्चिदिति ‘मन्यते’ जानाति । ‘सः’ सर्वात्म-भावः अस्यात्मनः पूर्वोक्तान् लोकानपेक्ष्य ‘परमः’ पूर्णः ‘लोकः’ विद्यया सम्पादितः । इदं तु दर्शनं परमार्थ-विषयमेव, न तु आविद्यकम् । पूर्ववदत्र इव-शब्द-प्रयोगाभावात् । अन्यत्सर्वमाविद्यकम् । तत्र इव-शब्द-प्रयोगादित्य् अर्थः । उक्तस्य लोकस्य यथोक्त-विषयत्वं दर्शयितुं विशेषण-द्वयमाह- अथ यत्र सुप्तो न कञ्चन कामं कामयत इत्यादिना । अक्षरार्थः पूर्ववत् ॥ २० ॥
२१
विश्वास-प्रस्तुतिः
तद्वा᳘ ऽअस्यैत᳘त्॥
(दा) आत्म᳘काममाप्त᳘काममकाम᳘ᳫँ᳘ रूपन्तद्य᳘था प्प्रिय᳘या स्त्रिया᳘ सम्परिष्वक्तो[[!!]] न बा᳘ह्यङ्कि᳘ञ्चन व्वे᳘द ना᳘न्तरमेव᳘मे᳘वाय᳘ᳫँ᳘ शारीर᳘ ऽआत्मा᳘ प्प्राज्ञे᳘नात्म᳘ना सम्प᳘रिष्वक्तो न बा᳘ह्यङ्कि᳘ञ्चन व्वे᳘द ना᳘न्तरम्॥
मूलम् - श्रीधरादि
तद्वा᳘ ऽअस्यैत᳘त्॥
(दा) आत्म᳘काममाप्त᳘काममकाम᳘ᳫँ᳘ रूपन्तद्य᳘था प्प्रिय᳘या स्त्रिया᳘ सम्परिष्वक्तो[[!!]] न बा᳘ह्यङ्कि᳘ञ्चन व्वे᳘द ना᳘न्तरमेव᳘मे᳘वाय᳘ᳫँ᳘ शारीर᳘ ऽआत्मा᳘ प्प्राज्ञे᳘नात्म᳘ना सम्प᳘रिष्वक्तो न बा᳘ह्यङ्कि᳘ञ्चन व्वे᳘द ना᳘न्तरम्॥
मूलम् - Weber
तद्वा᳘ अस्यैत᳘त्॥
आत्म᳘काममाप्त᳘काममकामं᳘ रूपं तद्य᳘था प्रिय᳘या स्त्रिया᳘ सम्प᳘रिष्वक्तो न बा᳘ह्यं किं᳘ चन वे᳘द ना᳘न्तरमेव᳘मेॗवायं᳘ शारीर᳘ आत्मा᳘ प्राज्ञे᳘नात्म᳘ना सम्प᳘रिष्वक्तो न बा᳘ह्यं किं᳘ चन वे᳘द ना᳘न्तरम्॥
मूलम् - विस्वरम्
तद्वा अस्यैतदात्म-काममाप्त-काममकामं रूपम् । तत् यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम् । एवमेव अयं शारीर आत्मा प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम् ॥ २१ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं अविद्या आत्म-स्वभावो न भवतीति निर्णीतम् । यः पुनरेकत्र पुञ्जीकृत्य नित्यशुद्धत्वादिलक्षण आत्मा दर्शयितुमिष्टः स पूर्वकण्डिकामध्ये “अहमेवेदं सर्वमस्मीति मन्यते सो ऽस्य परमो लोकः” इत्यन्तेन सङ्गृहीतः । स एवेदानीं व्यक्ताविद्या-विहीनां सुषुप्त्य्-अवस्थां अवलम्ब्य कण्डिका-द्वयेन प्रकटीकुर्वन्नाह- तद्वा अस्यैतदात्म-काममाप्त-काममकामं रूपमिति । ‘तदेतत्’ प्रसिद्धं ‘अस्य’ सर्वात्म-भावमापन्नस्य आत्मनः ‘रूपं’ स्व-रूपमित्य् अन्वयः । किं तदित्य् अपेक्षायामाह- आत्म-काममिति । आत्मैव कामो यस्मिन् रूपे ‘तदात्म-कामं’ सुख-साक्षात्कारो हि काम्यत इति कामः, स चात्मैव, “विज्ञानमानन्दं ब्रह्म” इति श्रुतेः (श. प. १४ बृ. उ. ३ । ७) । अनेन पदेनात्म-रूपं समस्त-व्यस्तभावरहितं सच्चिदानन्दात्मकमित्य् उक्तमित्य् अर्थः । तत एव ‘आप्त-काम’ काम्यन्त इति कामाः सुखादयः । ते आप्ता यस्मिन् रूपे तदाप्त-कामम् । परमानन्द-रूप-ब्रह्मैकत्व-सम्पत्तौ जागरादाविव स्वात्म-व्यतिरिक्तस्य काम्यमान-पदार्थ-जातस्याभावात् सुषुप्तावाप्त-कामरूपमित्य् अर्थः । यत एवाप्त-काममेतद्रूपं, अत एवाकामम्, काम-आश्रयत्व-रहितम् । कामः सङ्कल्प इत्यत्र मनस एव तदाश्रयत्वावधारणात् नात्म-आश्रयत्वं कामस्येत्य् अर्थः । सुषुप्तौ भेद-अभावादेव विशेष-विज्ञानाभावः, न तु आत्मनः स्वयञ्ज्योतिष्ट्वाभावात् । तस्मात् स्वयञ्ज्योतीरूपस्यात्मनः सुषुप्तौ सर्वैकत्वमेव विशेष-विज्ञानाभावे हेतुरिति वक्तुं तावत् दृष्टान्तमाह- तद्यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरमिति । तत्तत्र सुषुप्तौ एकत्वे सति विशेष-विज्ञानाभावे अयं दृष्टान्तः । ‘यथा’ लोके ‘स्त्रिया’ स्त्री-गुणोपेतया ‘प्रियया’ मनोहरणसमर्थया कामुक्या ‘सम्परिष्वक्तः’ सम्यक् परिष्वक्तः । परिष्वङ्गफलं स्त्रीचिह्ने पुरुषचिह्नस्यानुप्रवेशलक्षणं व्याप्तिश्रीभावमापन्न इति यावत् । एवं-विध-सम्भोग-फलं एकत्व-प्राप्ति-लक्षणं अनुभवन् पुमान् स्वस्मात् ‘बाह्यं’ बहिर्भूतं ‘किञ्चन’ किञ्चिदपि ‘न वेद’ । इदं मतः अन्यद्वस्त्विति न जानाति । ‘न’ वा ‘आन्तरं’ अहं सुखी दुःखी वा इत्य् एवं-लक्षणं ‘वेद’ जानाति । परिष्वङ्गात्पूर्वं यथा बाह्यमान्तरं च स्फुटं वेद । तथा ‘परिष्वक्तो न वेद’ । सम्भोग-फल-प्राप्ति-लक्षणैकत्वापत्ति-वशादित्य् अर्थः । अत्र स्त्री-पुरुषयोः परिष्वङ्गे तत्-फल-रूपे अवाच्य-कर्मणि तत्-फलैकत्वाधीनबाह्याभ्यन्तर-विज्ञानाभावे च समाने ऽपि पुंसः प्राधान्यात् परिष्वक्तो न वेदेति तस्य निर्द्देशः कृत इति भावः । दार्ष्टान्तिकमाह- एवमेवायं शारीर आत्मा प्राज्ञेनात्मना सम्परिष्वक्त इति । यथा अयं दृष्टान्तः । ‘एवमेव’ ‘अयं शारीर आत्मा’ यो भूत-मात्रा-संसर्गात् सैन्धव-खिल्यवत् प्रविभक्तः सन् जलादौ चन्द्र-प्रतिबिम्बवत् इह कार्य-करणे प्रविष्ट इवासीत् । सो ऽयं शारीरः क्षेत्रज्ञ आत्मा जलाशयापगमे चन्द्र-प्रतिबिम्बस्य चन्द्रैकत्ववत् कार्य-करणेषु स्व-कारणेषु विलीनेषु सत्सु भूत-मात्रा-संसर्ग-रहितः प्राज्ञेन निरतिशय-परिपूर्ण-ज्ञान-रूपेण परमार्थेन स्वाभाविकेन स्वेनात्मना परज्योतीरूपेणाविद्या-साक्षिणा सम्परिष्वक्तः अत्यन्तमेकी-भूतः सन् सर्वात्मा ‘न बाह्यं किञ्चन’ वस्त्वन्तरं स्व-विलक्षणं किञ्चिद्वेद । ‘नाप्य्-अन्तरं’ अयमहं देवदत्तो ब्राह्मणः सुखी दुःखी वेति ‘न वेद’ । न विशेषतः किमपि जानातीत्य् अर्थः ॥ २१ ॥
२२
विश्वास-प्रस्तुतिः
(न्त) तद्वा᳘ ऽअस्यैत᳘त्॥
(द᳘) अ᳘तिच्छन्दो᳘ ऽपहतपाप्मा ऽभय᳘ᳫँ᳘ रूपम् अ᳘शोकान्तरम् -
अ᳘त्र पिता᳘ ऽपिता भ᳘वति
माता᳘ ऽमाता, लोका ऽअ᳘लोका, देवा ऽअ᳘देवा, व्वेदा ऽअ᳘वेदा, यज्ञा ऽअ᳘यज्ञा, ऽअ᳘त्र स्तेनो᳘ ऽस्तेनो᳘ भ᳘वति भ्भ्रूणहा᳘ ऽभ्भ्रूणहा पौल्कसो᳘ ऽपौल्कसश्चाण्डालो᳘ ऽचाण्डालः श्रमणो᳘ ऽश्रमणस्तापसो᳘ ऽतापसो᳘ ऽनन्वागतम्पु᳘ण्येना᳘नन्वागतम्पा᳘पेन तीर्ण्णो हि᳘ तदा स᳘र्व्वाञ्छो᳘कान्हृ᳘दयस्य भ᳘वति॥
मूलम् - श्रीधरादि
(न्त) तद्वा᳘ ऽअस्यैत᳘त्॥
(द᳘) अ᳘तिच्छन्दो᳘ ऽपहतपाप्मा ऽभय᳘ᳫँ᳘ रूपम᳘शोकान्तरम᳘त्र पिता᳘ ऽपिता भ᳘वति माता᳘ ऽमाता लोका ऽअ᳘लोका देवा ऽअ᳘देवा व्वेदा ऽअ᳘वेदा यज्ञा ऽअ᳘यज्ञा ऽअ᳘त्र स्तेनो᳘ ऽस्तेनो᳘ भ᳘वति भ्भ्रूणहा᳘ ऽभ्भ्रूणहा पौल्कसो᳘ ऽपौल्कसश्चाण्डालो᳘ ऽचाण्डालः श्रमणो᳘ ऽश्रमणस्तापसो᳘ ऽतापसो᳘ ऽनन्वागतम्पु᳘ण्येना᳘नन्वागतम्पा᳘पेन तीर्ण्णो हि᳘ तदा स᳘र्व्वाञ्छो᳘कान्हृ᳘दयस्य भ᳘वति॥
मूलम् - Weber
तद्वा᳘ अस्यैत᳘त्॥
अ᳘तिछन्दो᳘ऽपहतपाप्माभयं᳘ रूपम᳘शोकान्तरम᳘त्र पिता᳘पिता भ᳘वति माता᳘माता लोका अ᳘लोका देवा अ᳘देवा वेदा अ᳘वेदा यज्ञा अ᳘यज्ञा अ᳘त्र स्तेनो᳘ऽस्तेनो भ᳘वति भ्रूणहा᳘भ्रूणहा पौल्कसो᳘ऽपौल्कसश्चाण्डालो᳘ चाण्डालः श्रमणो᳘ऽश्रमणस्तापसो᳘ तापसो᳘ऽनन्वागतः पु᳘ण्येना᳘न्वागतः पा᳘पेन तीर्णो हि᳘ तदा स᳘र्वाञ्छो᳘कान्हृ᳘दयस्य भवति॥
मूलम् - विस्वरम्
तद्वा अस्यैतदतिच्छन्दो ऽपहतपाप्मा ऽभयं रूपमशोकान्तरम् । अत्र पिता अपिता भवति । माता अमाता । लोका अलोकाः । देवा अदेवाः । वेदा अवेदाः । यज्ञ अयज्ञाः । अत्र स्तेनः अस्तेनो भवति । भ्रूणहा ऽभ्रूणहा । पौल्कसो ऽपौल्कसः । चाण्डालः अचाण्डालः । श्रमणः अश्रमणः । तापसः अतापसः । अनन्वागतं पुण्येन । अनन्वागतं पापेन । तीर्णो हि तदा सर्वान् शोकान् हृदयस्य भवति ॥ २२ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं सुषुप्तिमुपेयुषः पुरुषस्य विशेषविज्ञानाभावे स्वाभाविकात्मैकत्वमेव हेतुः, न स्वयञ्ज्योतिष्ट्वाभावः, इति दृष्टान्तेनोपपादनात् नात्मनः कामादिवत् स्वयञ्ज्योतिष्ट्वमस्वभाव इति प्रासङ्गिकं परिसमाप्य इदानीं प्रकृति-रूपं स्पष्टीकरोति- तद्वा अस्यैतदतिच्छन्दो ऽपहतपाप्माभयं रूपमशोकान्तरमिति । यस्मादयं सुषुप्तौ परमात्मना सहैक्यापत्या सर्वात्मा संवृत्तः । तस्मात् अस्यात्मनः तदेतत् पूर्व-प्रकृतं ‘रूपं’ स्वरूपं ‘वै’ प्रसिद्धं वक्ष्यमाण-लक्षण इत्य् अन्वयः । कीदृशं तत् ? इत्य् अपेक्षायां काम-कर्म-भय-शोक-हीनमिति विशेषण-चतुष्टयेन विशिनष्टि- अतिच्छन्द इति । छन्दः कामः अतिक्रान्तः अस्मादतिच्छन्दः काम-वर्जितमिति यावत् । छन्दःशब्दस्य गायत्र्यादि-छन्दो-विषयत्वे ऽपि अत्र काम-वाचित्वं छन्दःशब्दस्य बोध्यम् । “स्वच्छन्दः” इत्यादौ दर्शनात् । “न कञ्चन कामं कामयते” (१९ कं.) इति कामस्य प्रकृतत्वात् तत्प्रयोज्य-कर्म-वाचि-पाप्म-पदेन सह पाठाच्च काम-विषय एव छन्दःशब्दो विवक्षितः । तस्य रूप-विशेषणत्वादतिच्छन्द इति भवति । तथा ‘अपहत-पाप्म’ अपहतः पाप्मा धर्माधर्म-लक्षणो यस्मिन् रूपे तत् ‘अपहत-पाप्म’ धर्माधर्म-विवर्जितमिति यावत् । “पाप्मभिः संसृज्यते- पाप्मनो विजहाति”- (कं. ८) इत्य् उपक्रमानुसारेण पाप्म-शब्दो धर्माधर्म-विषय इति बोध्यम् । तथा ‘अभयं’ न विद्यते भयं यत्र रूपे तदभयम् । तथा ‘अशोकान्तरमिति’ न विद्यते शोकः अन्तरे मध्ये यस्य तदशोकान्तरम् । शोक-शून्यमिति यावत् । सुषुप्तौ विक्षेषकाज्ञानाभावात् कूटस्थमेवात्मरूपं अवतिष्ठत इत्य् अर्थः । एवमाविद्यक-कामादि-रहितमात्म-स्वरूपं प्रत्यक्षतः प्रदर्श्य, इदानीं तद्धेतु-भूत-कर्माख्याविद्या-सम्बन्ध-रहितत्वमप्यात्मनः सुषुप्तौ प्रत्यक्षमित्य् आह- अत्र पिता ऽपिता भवतीत्यादिना । “अतिच्छन्दो ऽपहत-पाप्माभयं रूपम्” इत्य् आद्युक्तस्यात्म-रूपस्यात्र सुषुप्ति-स्थाने ‘पिता’ जनयिता ऽप्य् अपिता ‘भवति’ । तस्य हि पितृत्वं पुत्रं प्रति जनयितृत्व-सम्बन्ध-हेतु-कर्म-निमित्तम् । तेन च पुत्र-सम्बन्ध-निमित्त-कर्मणा अयमस्मिन् काले असम्बद्ध एव । तस्मात्पितुरपि तत्रापितृत्वमेव । सामर्थ्यात् पुत्रो ऽपि तत्रापुत्र इति गम्यते । उभयोर्जन्य-जनकता-लक्षण-सम्बन्ध-निमित्त-कर्म-हेतुकं हि पितृत्वं पुत्रत्वं च । तत्कर्मातिक्रमश्च “अपहत-पाप्म” इत्य् अत्रोक्तः । अतः पुत्रो ऽपि तत्र अपुत्रो भवतीति । तथैव ‘माता ऽमाता’ । ‘लोकाः’ कर्म-विद्याभ्यां जिताः अजिताश्च ‘अलोकाः’ अस्य तत्-कर्म-सम्बन्धाभावात् । ‘देवाः’ कर्माङ्ग-भूताः ‘अदेवाः’ तत्-कर्म-सम्बन्धाभावात् । ‘वेदाः’ प्रमाणत्वेन प्रमेयत्वेन च साध्य-साधन-सम्बन्धाभिधायका मन्त्र-ब्राह्मण-लक्षणा अधीता अध्येतव्याश्चापि ‘अवेदाः’ सम्पद्यन्ते तस्मिन् काले । ‘यज्ञाः’ अग्निष्टोमादि-कर्म-रूपाः कृताः कर्तव्याश्च ‘अयज्ञाः’ । ते हि पुरुषेण सह कर्म-निमित्तमेव सम्बन्ध्यन्ते । कर्म तु परमात्मैकत्वमापन्ने सुषुप्ते पुरुषे नास्ति तदतिकमस्य तत्रोक्तत्वादित्य् अर्थः । न केवल-शुभ-कर्म-सम्बन्ध-अतीतो आत्मा । किं तर्हि अशुभैरपि अत्यन्त-घोरैः कर्म-भिरसम्बद्ध एव सुषुप्तौ वर्तते इत्य् आह- अत्र स्तेनो ऽस्तेनो भवतीत्यादिना । ‘अत्र’ सुषुप्ति-स्थाने परमात्मना एकी-भूतः अयमात्मा ‘स्तेनो ऽप्य् अस्तेनो भवति’ । अत्र स्तेन-शब्देन ब्राह्मण-सुवर्ण-हर्ता उच्यते महा-पातकी । भ्रूणघ्ना सह पाठात् । षोडश-माष-परिमितं काञ्चनं सुवर्णं तावत् ततो ऽधिकं वा ब्राह्मणस्यापहर्ता स्तेन इति यावत् । स तेन महा-पातकेन तस्मिन् काले विनिर्मुक्तो भवतीत्य् अर्थः । तथा मुख्यब्रह्महा भ्रूणहा, न प्रेरयित्रनुमन्त्रादि-साधारणः । तदुक्तं- “वरिष्ठो ब्रह्महा चैव भ्रूणहेत्य् अभिधीयते” ( ) इति । स ‘भ्रूणहा’ तदा ‘अभ्रूणहा’ भवतीत्य् अर्थः । न खल्व् एवं केवलं आगन्तुकेन घोर-कर्मणा विनिर्मुक्तः । किं तर्हि- अत्यन्त-निकृष्ट-जाति-प्रापकेण सहजेनापि कर्मणा विनिर्मुक्त एवायमित्य् आह- पौल्कसो ऽपौल्कसश्चाण्डालो ऽचाण्डाल इति । शूद्रायां ब्राह्मणा-ज्जातो निषादः । तस्मात् क्षत्रियायां जातः पुल्कसः । पुल्कस एव पौल्कसः । स्वार्थे ऽण् । तथा ब्राह्मण्यां शूद्राज्जातो जात्या चण्डालः । चण्डाल एव चाण्डालः । एतौ ‘पौल्कस-चाण्डालौ’ तदानीं जाति-निमित्त-कर्मणा असम्बन्धात् ‘अपौल्कसः अचाण्डालश्च’ भवेतामित्य् अर्थः । तथा श्रमण-हेतुभूतैरपि कर्मभिस्तदा मुक्त इत्य् आह- श्रमणो ऽश्रमणस्तापसो ऽतापस इति । ‘श्रमणः’ परिव्राट् । स यत्-कर्म-निमित्तो भवति । तेन विनिर्मुक्तत्वात् ‘अश्रमणः’ । तथा ‘तापसः’ वानप्रस्थः ‘अतापसः’ इत्य् अर्थः । अत्र परिव्राड्-वानप्रस्थ-ग्रहणं वर्णाश्रम-हेतूनां सर्वेषामपि कर्मणामुपलक्षणार्थम् । इदानीं मोहोत्थानां सम्बन्धानां अनन्तत्वेन तेषां कल्प-कोटिभिरपि सङ्ख्यातुमशक्यत्वात् तत्-प्रापकाणां कर्मणां द्वैविध्येनोपसंहार-पूर्वकं सर्व-कर्मातीतत्वमाह- अनन्वागतं पुण्येनानन्वागतं पापेनेति । “अपहत-पाप्माभयं रूपम्” इत्य् अनेनोपक्रान्तस्यानुवर्तमानत्वात् अनन्वागतमिति रूप-विषयो नपुंसक-निर्द्देशः । तथा च- तदात्म-रूपं ‘पुण्येन’ शास्त्र-विहितेन कर्मणा अनन्वागतमसम्बद्धम् । तथा ‘पापेन’ विहित-अकरण-प्रतिषिद्ध-क्रिया-लक्षणेनापि अनन्वागतमात्मरूपमित्यर्थः । ननु- तत्र सर्व-पुण्य-पापा-सम्बद्धत्वे को हेतुरित्य् अपेक्षायां तद्धेतु-भूत-कामात्यय एवेत्य् आह- तीर्ण्णो हि तदा सर्वान् शोकान् हृदयस्य भवतीति । ‘हृदयं’ पुण्डरीकाकारो मांस-पिण्डः । तात्स्थ्यात् इह हृदय-शब्दो बुद्धि-वचनः । शोक-शब्द इह काम-वाची । कामः खलु इष्ट-प्रार्थना-लक्षणः । अप्राप्तं वियुक्तं वा इष्ट-वस्तु उद्दिश्य सन्तप्यमाने पुंसि शोकत्वं प्रतिपद्यते । अतो युक्तं शोक-शब्दस्य काम-वाचित्वम् । “न कञ्चन कामं कामयते अतिच्छन्दः” इत्यादिना सह पाठाच्च । तथा च- ‘हि’ यस्मात् “अतिच्छन्दः” इत्यादि-वाक्योक्तरूपः अयमात्मा ‘तदा’ तस्मिन् सुषुप्ति-काले ‘हृदयस्य’ हृदयस्थाया बुद्धेः सम्बन्धिनः ‘सर्वान् शोकान्’ कामान् ‘तीर्णः’ अतिक्रान्तो भवति । “सता सौम्य तदा सम्पन्नो भवति” ( ) इति छान्दोग्ये सुषुप्तौ परमात्मैक्यापत्तेरित्य् उक्तत्वात् कामाश्रयाया बुद्धेः सुषुप्तावभावाच्चेत्य् अर्थः । ततश्च सुषुप्तौ काम-निवृत्त्या तत्-कार्य-भूत-सकल-कर्म-निवृत्तेः युक्तं तत्रात्मनः पुण्य-पापाभ्यामनन्वागतत्वमित्य् अर्थः ॥ २२ ॥
२३
विश्वास-प्रस्तुतिः
यद्वै तन्न प᳘श्यति॥
प᳘श्यन्वै त᳘द्द्रष्ट᳘व्यन्न᳘ पश्यति न हि᳘ द्रष्टुर्द्दृ᳘ष्टेर्व्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्त यत्प᳘श्येत्॥
मूलम् - श्रीधरादि
यद्वै तन्न प᳘श्यति॥
प᳘श्यन्वै त᳘द्द्रष्ट᳘व्यन्न᳘ पश्यति न हि᳘ द्रष्टुर्द्दृ᳘ष्टेर्व्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्त यत्प᳘श्येत्॥
मूलम् - Weber
यद्वै तन्न प᳘श्यति॥
प᳘श्यन्वै त᳘द्द्रष्ट᳘व्यं न᳘ पश्यति न हि᳘ द्रष्टुर्दृ᳘ष्टेर्विपरिलोपो᳘ विद्यते᳘ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति 19 त᳘तोऽन्यद्वि᳘भक्तं यत्प᳘श्येत् 20 ॥
मूलम् - विस्वरम्
यद्वै तन्न पश्यति । पश्यन्वै तद्द्रष्टव्यं न पश्यति । न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते, अविनाशित्वात् । न तु तत् द्वितीयमस्ति ततः अन्यद्विभक्तं यत् पश्येत् ॥ २३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
काम-कर्मादि-वत् सुषुप्तौ विशेष-ज्ञानाभावात् न स्वयञ्ज्योतिष्ट्वमात्मनः स्वभाव इति चोदिते स्त्री-पुंस-परिष्वङ्ग-दृष्टान्तेनैकत्वापत्ति-वशाद्विज्ञानाभावो न स्वयं ज्योतिष्ट्वाभावादिति समाधिरुक्तः । तत्र चार्थात् विशेष-अभावादेव विशेष-विज्ञानाभाव इत्य् अपि सूचितम् । तदानीं चोद्यानुवाद-पूर्वकमतितरां स्पष्टीकर्तुं प्रवर्तते- यद्वै तन्न पश्यति पश्यन्वै तद्द्रष्टव्यं न पश्यतीत्य् आदिना । ‘वै’ इत्य् अवधारणार्थः । तत्र सुषुप्तौ आत्मानैव पश्यतीति यज्जानीषे तत्तथा मा ऽमंस्थाः । यतः तत्तत्र स्वरूप-चैतन्येन सर्व-साक्षित्वात् पश्यन्नेव सन् द्रष्टव्यं पदार्थ-जातं ‘न पश्यतीति’ अभिसम्भवतीति स्वरूप-दर्शनं विशेषादर्शनं च प्रतिज्ञायत इत्य् अर्थः । ‘पश्यन्नेवास्ते’ इत्यस्यां प्राथमिक-प्रतिज्ञायां तावत् हेतुमाह- न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यत इति । ‘हि’ हेतौ । द्रष्टुर्या सर्व-साक्षि-भूता ‘दृष्टिः’ । यद्वा, ‘द्रष्टुः’ कूटस्थ-चिन्-मात्रस्य स्वरूप-भूता या दृष्टिस्तस्याः ‘हि’ यस्मात् ‘विपरिलोपः’ विनाशौ नैव ‘विद्यते’ । अग्निस्वभाव-भूतौष्ण्यस्येव । तस्मात् तत् जाग्रत्स्वप्नवत् सुषुप्तावपि आत्मा स्वयञ्ज्योतिरेवेत्य् अर्थः । ननु- दृष्टेः कर्ता हि द्रष्टा । यतः अनित्य-क्रिया-कर्तृ-विषय एव तृच्प्रत्ययान्तस्य शब्दस्य प्रयोगो दृष्टः । यथा छेत्ता भेत्ता गन्तेति । तथा अत्रापि अनित्य-क्रिया-कर्तृ-विषय एव तृजन्त-शब्द-प्रयोगः । अतो न नित्य-दृष्टि-स्वरूपो द्रष्टेति चेत्; नैष दोषः । सविता प्रकाशयितेत्यादौ प्रकाश-रूपे ऽपि सवितरि तृचो दर्शनात् । तस्मान्नित्य-दृष्टि-स्वरूप एवात्मेति सिद्धम् । आत्म-दृष्टेर्नित्यत्वं साधयति- अविनाशित्वादिति । अविनाशित्वमविपरिणामित्वम् । तस्माद्विनाशहेतु-भूत-विपरिणाम-हीनत्वादित्य् अर्थः । विशेष-विज्ञान-अभाव-प्रतिज्ञायां हेतुमाह- न तु तद्द्वितीयमस्ति ततो ऽन्यद्विभक्तं यत्पश्येदिति । तत्तत्र द्वितीयं प्रमातृ-स्वरूपं सामासान्तःकरण-लक्षणं न त्वस्ति । तत आत्म-स्वरूपादन्यच्चक्षुरादि-लक्षणं न त्व् अस्ति । ‘ततो विभक्तं’ रूपादि-लक्षणं च न त्व् अस्ति । यत्पश्येत्प्रमाता प्रमाणेनेति योजना । तत् इत्य् उपादानं सर्वत्रानुषञ्जनीयम् । तथा च स्वरूप-चैतन्यस्य सत्त्वे ऽपि प्रमातृ-करण-विषय-कृतत्वात् विशेष-दृष्टेः तेषां च सुषुप्तावभावात् तत्-कार्य-विशेष-दृष्टेरपि अभावः । अतो विशेष-विज्ञानाभावो न आत्मनः प्रकाश-अभाव-कृत इति स्वयञ्ज्योतिष्ट्वं तस्यावधार्यत इत्य् अर्थः ॥ २३ ॥
२४
विश्वास-प्रस्तुतिः
(द्य) यद्वै तन्न जि᳘घ्घ्रति॥
जि᳘घ्घ्रन्वै त᳘द्घ्रात᳘व्यन्न᳘ जिघ्घ्रति न हि᳘ घ्घ्रातुर्घ्घ्रा᳘णाद्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं यज्जि᳘घ्घ्रेत्॥
मूलम् - श्रीधरादि
(द्य) यद्वै तन्न जि᳘घ्घ्रति॥
जि᳘घ्घ्रन्वै त᳘द्घ्रात᳘व्यन्न᳘ जिघ्घ्रति न हि᳘ घ्घ्रातुर्घ्घ्रा᳘णाद्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं यज्जि᳘घ्घ्रेत्॥
मूलम् - Weber
यद्वै तन्न जि᳘घ्रति॥
जि᳘घ्रन्वै त᳘द्घ्रात᳘व्यं न᳘ जिघ्रति न हि᳘ घ्रातुर्घ्रा᳘णाद्विपरिलोपो᳘ विद्यते᳘ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति 21 त᳘तोऽन्यद्वि᳘भक्तं यज्जि᳘घ्रेत् 22 ॥
मूलम् - विस्वरम्
यद्वै तन्न जिघ्रति । जिघ्रन्वै तत् घ्रातव्यं न जिघ्रति । न हि घ्रातुर्घ्राणात् विपरिलोपो विद्यते, अविनाशित्वात् । न तु तत् द्वितीयमस्ति ततः अन्यत् विभक्तं यज्जिघ्रेत् ॥ २४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
यद्वै तन्न जिघ्रति ॥ २४ ॥
२५
विश्वास-प्रस्तुतिः
(द्य) यद्वै तन्न᳘ रस᳘यति॥
व्विजानन्वै तद्र᳘सन्न᳘ रसयति न हि᳘ रसयितू र᳘साद्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं य᳘द्रस᳘येत्॥
मूलम् - श्रीधरादि
(द्य) यद्वै तन्न᳘ रस᳘यति॥
व्विजानन्वै तद्र᳘सन्न᳘ रसयति न हि᳘ रसयितू र᳘साद्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं य᳘द्रस᳘येत्॥
मूलम् - Weber
यद्वै तन्न᳘ रस᳘यति 23 ॥
विजानन्वै तद्र᳘सं न᳘ रसयति न हि᳘ रसयितू र᳘साद्विपरिलोपो᳘ विद्यते᳘ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति 24 त᳘तोऽन्यद्वि᳘भक्तं य᳘द्रस᳘येत् 25 ॥
मूलम् - विस्वरम्
यद्वै तन्न रसयति । विजानन्वै तद्रसं न रसयति । न हि रसयितू रसाद्विपरिलोपो विद्यते, अविनाशित्वात् । न तु तत् द्वितीयमस्ति ततः अन्यद्विभक्तं यत् रसयेत् ॥ २५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
यद्वै तन्न रसयति ॥ २५ ॥
२६
विश्वास-प्रस्तुतिः
(द्य) यद्वै तन्न व्व᳘दति॥
व्व᳘दन्वै त᳘द्वक्त᳘व्यन्न᳘ व्वदति न हि᳘ र्व्वक्तु र्व्व᳘क्तेर्व्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं यद्व᳘देत्॥
मूलम् - श्रीधरादि
(द्य) यद्वै तन्न व्व᳘दति॥
व्व᳘दन्वै त᳘द्वक्त᳘व्यन्न᳘ व्वदति न हि᳘ र्व्वक्तु र्व्व᳘क्तेर्व्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं यद्व᳘देत्॥
मूलम् - Weber
यद्वै तन्न व᳘दति 26 ॥
व᳘दन्वै त᳘द्वक्त᳘व्यं न᳘ वदति न हि᳘ वक्तुर्व᳘चो विपरिलोपो᳘ विद्यते᳘ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति 27 त᳘तोऽन्यद्वि᳘भक्तं यद्व᳘देत् 28 ॥
मूलम् - विस्वरम्
यद्वै तन्न वदति । वदन् वै तत् वक्तव्यं न वदति । न हि वक्तुर्वक्तेः विपरिलोपो विद्यते, अविनाशित्वात् । न तु तत् द्वितीयमस्ति ततः अन्यद्विभक्तं यद्वदेत् ॥ २६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
यद्वै तन्न वदति ॥ २६ ॥
२७
विश्वास-प्रस्तुतिः
(द्य) यद्वै तन्न᳘ शृणो᳘ति॥
शृण्वन्वै त᳘च्छ्रोत᳘व्यन्न᳘ शृणोति न हि᳘ श्रोतुः श्रु᳘तेर्व्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं य᳘च्छृणुया᳘त्॥
मूलम् - श्रीधरादि
(द्य) यद्वै तन्न᳘ शृणो᳘ति॥
शृण्वन्वै त᳘च्छ्रोत᳘व्यन्न᳘ शृणोति न हि᳘ श्रोतुः श्रु᳘तेर्व्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं य᳘च्छृणुया᳘त्॥
मूलम् - Weber
यद्वै तन्न᳘ शृणो᳘ति 29 ॥
शृण्वन्वै त᳘छ्रोत᳘व्यं न᳘ शृणोति न हि᳘ श्रोतुः श्रु᳘तेर्विपरिलोपो᳘ विद्यते᳘ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति 30 त᳘तोऽन्यद्वि᳘भक्तं य᳘छृणुया᳘त्॥
मूलम् - विस्वरम्
यद्वै तन्न शृणोति । शृण्वन्वै तत् श्रोतव्यं न शृणोति । न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यते, अविनाशित्वात् । न तु तत् द्वितीयमस्ति ततः अन्यत् विभक्तं यत् शृणुयात् ॥ २७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
यद्वै तन्न शृणोति ॥ २७ ॥
२८
विश्वास-प्रस्तुतिः
(द्य) यद्वै तन्न᳘ मनुते᳘॥
मन्वानो वै त᳘न्मन्त᳘व्यन्न᳘ मनुते न हि᳘ मन्तुर्म्म᳘तेर्व्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं य᳘न्मन्वीत᳘॥
मूलम् - श्रीधरादि
(द्य) यद्वै तन्न᳘ मनुते᳘॥
मन्वानो वै त᳘न्मन्त᳘व्यन्न᳘ मनुते न हि᳘ मन्तुर्म्म᳘तेर्व्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं य᳘न्मन्वीत᳘॥
मूलम् - Weber
यद्वै तन्न᳘ मनुते᳟ 31 ॥
मन्वानो वै त᳘न्मन्त᳘व्यं न᳘ मनुते न हि᳘ मन्तुर्म᳘तेर्विपरिलोपो᳘ विद्यते᳘ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्तित᳘तोऽन्यद्वि᳘भक्तं 32 य᳘न्मन्वीत᳟॥
मूलम् - विस्वरम्
यद्वै तन्न मनुते । मन्वानो वै तन्मन्तव्यं न मनुते । न हि मन्तुर्मतेर्विपरिलोपो विद्यते, अविनाशित्वात् । न तु तत् द्वितीयमस्ति ततः अन्यद्विभक्तं यत् मन्वीत ॥ २८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
यद्वै तन्न मनुते ॥ २८ ॥
२९
विश्वास-प्रस्तुतिः
यद्वै तन्न᳘ स्पृशति[[!!]]॥
स्पृशन्वै त᳘त्स्प्रष्ट᳘व्यन्न᳘ स्पृशति न हि᳘ स्प्रष्टु स्पृ᳘ष्टेर्व्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं य᳘त्स्पृशे᳘त्॥
मूलम् - श्रीधरादि
यद्वै तन्न᳘ स्पृशति[[!!]]॥
स्पृशन्वै त᳘त्स्प्रष्ट᳘व्यन्न᳘ स्पृशति न हि᳘ स्प्रष्टु स्पृ᳘ष्टेर्व्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं य᳘त्स्पृशे᳘त्॥
मूलम् - Weber
यद्वै तन्न᳘ स्पृश᳘ति 33 ॥
स्पृशन्वै त᳘त्स्प्रष्ट᳘व्यं न᳘ स्पृशति न हि᳘ स्प्रष्टु स्पृ᳘ष्टेर्विपरिलोपो᳘ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति 34 त᳘तोऽन्यद्वि᳘भक्तं य᳘त्स्पृशे᳘त्॥
मूलम् - विस्वरम्
यत् वै तन्न स्पृशति । स्पृशन् वै तत् स्प्रष्टव्यं न स्पृशति । न हि स्प्रष्टुः स्पृष्टेर्विपरिलोपो विद्यते, अविनाशित्वात् । न तु तत् द्वितीयमस्ति ततः अन्यद्विभक्तं यत् स्पृशेत् ॥ २९ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
यद्वै तन्न स्पृशति ॥ २९ ॥
३०
विश्वास-प्रस्तुतिः
(द्य) यद्वै तन्न᳘ व्विजाना᳘ति॥
व्विजानन्वै त᳘द्विज्ञे᳘यन्न व्वि᳘जानाति न हि᳘ व्विज्ञातु᳘र्व्विज्ञा᳘नाद्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं य᳘द्विजानीया᳘त्॥
मूलम् - श्रीधरादि
(द्य) यद्वै तन्न᳘ व्विजाना᳘ति॥
व्विजानन्वै त᳘द्विज्ञे᳘यन्न व्वि᳘जानाति न हि᳘ व्विज्ञातु᳘र्व्विज्ञा᳘नाद्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं य᳘द्विजानीया᳘त्॥
मूलम् - Weber
यद्वै तन्न᳘ विजाना᳘ति 35 ॥
विजानन्वै त᳘द्विज्ञे᳘यं न वि᳘जानाति न हि᳘ विज्ञातु᳘र्विज्ञा᳘नाद्विपरिलोपो᳘ विद्यते᳘ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति 36 त᳘तोऽन्यद्वि᳘भक्तं य᳘द्विजानीया᳘त्॥
मूलम् - विस्वरम्
यत् वै तत् न विजानाति । विजानन् वै तत् विज्ञेयं न विजानाति । न हि विज्ञातुर्विज्ञानात् विपरिलोपो विद्यते, अविनाशित्वात् । न तु तत् द्वितीयमस्ति ततः अन्यत् विभक्तं यद्विजानीयात् ॥ ३० ॥
श्रीमद्वासुदेवब्रह्मभगवान्
यद्वै तन्न विजानाति । इत्य् एते पर्यायाः पूर्वेण समानार्थाः । यद्यपि मननविज्ञानयोश्चक्षुरादिसहकारित्वात् ततो न पृथक् ग्रहणार्हता । तथा ऽपि चक्षुरादिनिरपेक्षतया ऽपि भूत-भविष्यद्-वर्तमान-विषय-व्यापारः स्मरणादि-रूपो दृष्ट इति तयोः पृथग्ग्रहणमिति बोध्यम् ॥ ३० ॥
३१
विश्वास-प्रस्तुतिः
(त्य) सलिल ऽए᳘को * द्रष्टा᳘ ऽद्वैतो भ᳘वति॥
(त्ये) एष᳘ ब्ब्रह्मलोकः᳘ सम्म्राडि᳘ति हैनमुवाचै᳘षा ऽस्य परमो᳘ लोक᳘ ऽए᳘षो ऽस्य परम᳘ ऽआनन्द᳘ ऽएत᳘स्यै᳘वानन्द᳘स्यान्या᳘नि भूता᳘नि मा᳘त्रामुपजीवन्ति[[!!]]॥
मूलम् - श्रीधरादि
(त्य) सलिल ऽए᳘को * द्रष्टा᳘ ऽद्वैतो भ᳘वति॥
(त्ये) एष᳘ ब्ब्रह्मलोकः᳘ सम्म्राडि᳘ति हैनमुवाचै᳘षा ऽस्य परमो᳘ लोक᳘ ऽए᳘षो ऽस्य परम᳘ ऽआनन्द᳘ ऽएत᳘स्यै᳘वानन्द᳘स्यान्या᳘नि भूता᳘नि मा᳘त्रामुपजीवन्ति[[!!]]॥
मूलम् - Weber
सलिल ए᳘को द्रष्टा᳘द्वैतो भ᳘वति 37 ॥
एष᳘ ब्रह्मलोकः᳘ सम्राडि᳘ति हैनमुवाचैॗषास्य परमो᳘ लोक᳘ एॗषोऽस्य परम᳘ आनन्द᳘ एत᳘स्यैॗवानन्द᳘स्यान्या᳘नि भूता᳘नि मा᳘त्रामु᳘पजीवन्ति॥
मूलम् - विस्वरम्
सलिल एको 38 द्रष्टा अद्वैतो भवति । एष ब्रह्म-लोकः सम्राट्, इति हैनमुवाच । एषा अस्य परमा सम्पत् । एषो ऽस्य परमो लोकः । एषो ऽस्य परम आनन्दः । एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ॥ ३१ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं “यद्वै तन्न पश्यति” इत्यादि-विस्तरेण उक्त-रूपस्य प्राज्ञेनात्मना सम्परिष्वक्तस्यात्मनः स्वरूपोपसंहारार्थमाह- सलिल एको द्रष्टा ऽद्वैतो भवतीति । सलिलम् इव सलिलः सलिलवच्छुद्ध इति यावत् । अनेन विजातीय-सम्बन्ध-शून्यत्वमुक्तम् । सजातीय-भेद-व्युदासायैक इति विशेषणम् । न तु एक-सङ्ख्या-वैशिष्ट्यार्थम् । “साक्षी चेता केवलो निर्गुणश्च” ( )इति अणुत्व-श्रुति-विरोधात् । यस्मात्सजातीय-विजातीय-भावस्य द्रष्टव्यस्याभावः, तस्मादकारक-स्वभावत्वात् अद्रष्टेति पूर्णात्मकज्योतिरभिधीयते । द्रष्टेति पदच्छेदे उक्त-विशेषण-द्वयोपलक्षित-स्यात्मनो जडत्व-शङ्का-वारणार्थं ‘द्रष्टेति’ विशेषणम् । सजातीय-विजातीय-भेद-रहितत्वे ऽपि धर्म-धर्मि-भाव-लक्षणः स्वगतो भेदः स्यात् इत्याशङ्क्य तन्निवृत्यर्थं ‘अद्वैतः’ इति विशेषणम् । द्विधा इत्तं द्वीतं द्वीतस्य भावो द्वैतं तन्न विद्यते यस्मिन् स ‘अद्वैतः’ एकरस इत्य् अर्थः । एतेनात्मनो भिन्नाभिन्नत्वसम्भावना ऽपि अप्रामाणिकीति दर्शितम् । इदानीमत ऊर्ध्वं विमोक्षायैव ब्रूहीति यत्पुनः पुनः पृष्टं, तस्योत्तरमुक्तवान्मुनिः, इति श्रुतिरस्मान्प्रत्याह- एष ब्रह्म-लोकः सम्राडिति हैनमुवाचेति । आत्मनः अत्यन्तं सन्निहितत्वात् ‘एषः’ इति निर्द्देशः । ‘एषः’ सुषुप्त्यवस्थामापन्नः प्रत्यगात्मा ‘ब्रह्म-लोकः’ । लोकनं लोकः ब्रह्मैव लोको ‘ब्रह्म-लोकः’ । स्वयञ्ज्योतीरूपं ब्रह्मैवेति यावत् । अत्र षष्ठी-तत्-पुरुष-विग्रहे अद्वैत-श्रुति-विरोध इति द्रष्टव्यम् । हे ‘सम्राट्’ ! राजन्निति सम्बोध्य ‘इति’ एवमुक्तप्रकारेण ‘ह’ किल ‘एनं’ राजानं जनकं उवाचोपदिष्टवान्, याज्ञवल्क्य इति शेषः । कथं पुनरुवाचेत्य् अपेक्षायामाह- एषा ऽस्य परमा सम्पदिति । ‘एषा अस्य’ विज्ञानमयस्य ‘परमा’ उत्कृष्टा ‘सम्पत्’ विभूतिः अकृतकत्वात् । अन्यास्तु विपरीताः हेया इत्य् अर्थः । ‘एषः’ एव यथोक्तः ‘अस्य’ विज्ञानमयस्य सुषुप्तौ परमात्मैक्यमापन्नस्य ‘परमः’ मोक्ष-लक्षणो लोकः । स्वयञ्ज्योतिःस्वभावाल्लोकशब्दस्य मुख्य-वृत्ति-विषयः स्वाभाविकः । अन्यस्तु साध्यत्वात्क्षयिष्णुः । लोक-शब्दस्यामुख्य-वृत्ति-विषयो गौणो हेय इत्य् अर्थः । ‘एषः’ एव यथोक्तः ‘अस्य’ सुषुप्तस्य ‘परमः’ स्वरूपानुभव-लक्षणो मुख्यो निरतिशयः ‘आनन्दः’ पूर्णानन्दः विषयेन्द्रियसम्बन्धजनिता आनन्दाः परिच्छिन्ना अमुख्यः अपरमाः हेया इत्य् अर्थः । किं च- वस्तुतो नास्त्य् एव आत्म-सुखातिरिक्तं वैषयिकमपि सुखं इत्य् आह- एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति । ‘एतस्यैव’ ब्रह्मानन्दस्य ‘मात्रां’ कलां पूर्णस्याप्यानन्दस्य अविद्योत्थानेकबुद्धिवृत्त्यवच्छेदवशात् मात्रा-शब्दार्हां विषयेन्द्रिय-सम्बन्ध-काले विभाव्यमानां ‘अन्यानि’ अविद्यया ब्रह्मणो ऽन्यत्वेन परिकल्पितानि ब्रह्मादि-स्तम्ब-पर्यन्तानि ‘भूतानि’ ‘उपजीवन्ति’ उपभुञ्जते । तावन्मात्रेणैव आनन्दीनि भवन्तीत्य् अर्थः ॥ ३१ ॥
३२
विश्वास-प्रस्तुतिः
स यो᳘ मनुष्याणाᳫँ᳭[[!!]] राद्धः स᳘मृद्धो भ᳘वति॥
(त्य) अन्ये᳘षाम᳘धिपतिः स᳘र्व्वैर्म्मा᳘नुष्यकैः का᳘मैः स᳘म्पन्नतमः स᳘ मनु᳘ष्याणाम्परम᳘ ऽआनन्दः᳘॥
मूलम् - श्रीधरादि
स यो᳘ मनुष्याणाᳫँ᳭[[!!]] राद्धः स᳘मृद्धो भ᳘वति॥
(त्य) अन्ये᳘षाम᳘धिपतिः स᳘र्व्वैर्म्मा᳘नुष्यकैः का᳘मैः स᳘म्पन्नतमः स᳘ मनु᳘ष्याणाम्परम᳘ ऽआनन्दः᳘॥
मूलम् - Weber
स यो᳘ मनुॗष्याणां रुद्धः स᳘मृद्धो भ᳘वति॥
अन्ये᳘षाम᳘धिपतिः स᳘र्वैर्मा᳘नुष्यकैः का᳘मैः स᳘म्पन्नतमः 39 स᳘ मनुॗष्याणाम् परम᳘ आनन्दः᳟॥
मूलम् - विस्वरम्
स यो मनुष्याणां राद्धः समृद्धो भवति, अन्येषामधिपतिः सर्वैर्मानुष्यकैः कामैः सम्पन्नतमः । स मनुष्याणां परम आनन्दः ॥ ३२ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
यथा लोके लवणावयवैर्लवणाब्धिं लोको बोधयति । तथा मानुषानन्दमारभ्य ब्रह्मानन्द-पर्यन्तं उत्तरोत्तर-शत-गुणितातिशय-शालिनां पर-ब्रह्मानन्दावयवानां प्रतिपादन-द्वारेण अवयविनं निवृत्त-गुणित-भेदं अनतिशयं ब्रह्मानन्दं दर्शयितुं उत्तर-श्रुतिः प्रवर्तते । तत्र तावत् परम-काष्ठां गतस्य मानुषानन्दस्य स्वरूपमाह- स यो मनुष्याणां राद्धः समृद्धो भवतीति । ‘मनुष्याणां’ मध्ये ‘सः यः’ कश्चित् भोग-क्षमावयवैः आध्यात्मिकैः ‘राद्धः’ संसिद्धः इति अन्तः-साधन-सम्पत्तिरुच्यते । संसिद्धा ऽप्यन्तःसाधन-सम्पत् बाह्य-साधन-सम्पदभावे भोगासम्भवान्नफलवतीत्य् अत उच्यते- समृद्ध इति । ‘समृद्धः’ बाह्योपभोग-साधनैः स्रक्-चन्दनालङ्कारादिभिः सम्पन्न इति यावत् । एतदुभय-साधन-सम्पन्नत्वे ऽपि आधिपत्यं विना न निरङ्कुशो भोगः स्यात् इत्य् अतो विशेषणम्- अन्येषामधिपतिरिति । ‘अन्येषां’ समानजातीयानां स्वतन्त्रः ‘अधिपतिः’ । न माण्डलिक इति यावत् । ननु- बाह्य-साधन-सम्पत्तिं वदन् समृद्ध-पदं दैव-साधनस्यापि बाह्यत्वाविशेषात् तत्-सम्पत्तिमपि वदत्य् एव सङ्कोचकाभावात् । अतो मानुषानन्दस्यापि गन्धर्वानन्दादिष्वन्तर्भावोपपत्तेः अस्य पृथग्-ग्रहणं अनर्थकमितीमामाशङ्कां मानुष्यकैरित्य् अनेन परिहरन्ती श्रुतिः पूर्वोक्त-विशेषण-सम्पत्तिं स्पष्टयति- सर्वैर्मानुष्यकैः कामैः सम्पन्नतम इति । मनुष्येषु भवैः ‘मानुष्यकैः’ कामैर्भोगोपकरणैः सर्वैरसङ्कुचितैः ‘सम्पन्नतमः’ अतिशयेन सम्पन्नः सम्पन्नतमः युधिष्ठिरादि-सदृशः । ‘सः’ ‘मनुष्याणां परम आनन्दः’ । आनन्दानन्दिनोरभेदात् एवंविधः पुमान् आनन्द इति निर्द्देश इत्य् अर्थः ॥ ३२ ॥
३३
विश्वास-प्रस्तुतिः
(न्दो᳘ ऽथ) अ᳘थ ये᳘ शत᳘म्मनु᳘ष्याणामानन्दाः᳘॥
स ऽए᳘कः पितॄणा᳘ञ्जित᳘लोकानामानन्दः᳘॥
मूलम् - श्रीधरादि
(न्दो᳘ ऽथ) अ᳘थ ये᳘ शत᳘म्मनु᳘ष्याणामानन्दाः᳘॥
स ऽए᳘कः पितॄणा᳘ञ्जित᳘लोकानामानन्दः᳘॥
मूलम् - Weber
अ᳘थ ये᳘ शत᳘म् मनुॗष्याणामानन्दाः᳟॥
स ए᳘कः पितॄणां᳘ जित᳘लोकानामानन्दः᳟॥
मूलम् - विस्वरम्
अथ ये शतं मनुष्याणामानन्दाः, स एकः पितॄणां जित-लोकानामानन्दः ॥ ३३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं-विध-मनुष्यानन्दैः शत-गुणितैः समानः पितृ-लोक-वासिनाम् एक आनन्द इत्य् आह- अथ ये शतं मनुष्याणामानन्दा इति । आनन्दान्तरोपक्रमार्थः अथ-शब्दः । ‘मनुष्याणां’ ‘ये’ उक्त-प्रकाराः ‘शतं’ शत-गुणिताः आनन्द-भेदाः ‘स एकः’ एवानन्दः ‘पितॄणां’ दक्षिण-मार्गानुयायिनां इत्य् अन्वयः । के ते पितर इत्य् अतस्तान्विशिनष्टि- जित-लोकानामिति । श्राद्ध-पिण्ड-पितृ-यज्ञादि-कर्मभिः पितृ-तोषण-द्वारा जितो लोको यैः ते । यद्वा जिता लोका येषामिति जित-लोकाः, तेषां पितॄणामित्य् अर्थः ॥ ३३ ॥
३४
विश्वास-प्रस्तुतिः
(न्दो᳘ ऽथ) अ᳘थ ये᳘ शत᳘म्पितॄणा᳘ञ्जित᳘लोकानामानन्दाः᳘॥
स ऽए᳘कः क᳘र्म्मदेवानामानन्दो ये क᳘र्म्मणा देवत्व᳘मभिसम्प᳘द्यन्ते॥
मूलम् - श्रीधरादि
(न्दो᳘ ऽथ) अ᳘थ ये᳘ शत᳘म्पितॄणा᳘ञ्जित᳘लोकानामानन्दाः᳘॥
स ऽए᳘कः क᳘र्म्मदेवानामानन्दो ये क᳘र्म्मणा देवत्व᳘मभिसम्प᳘द्यन्ते॥
मूलम् - Weber
अ᳘थ ये᳘ शत᳘म् पितॄणां᳘ जित᳘लोकानामानन्दाः᳟॥
स ए᳘कः क᳘र्मदेवानामानन्दो ये क᳘र्मणा देवत्व᳘मभिसम्प᳘द्यन्ते॥
मूलम् - विस्वरम्
अथ ये शतं पितॄणां जित-लोकानामानन्दाः, स एकः कर्म-देवानामानन्दः । ये कर्मणा देवत्वमभिसम्पद्यन्ते ॥ ३४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तथा पितृ-लोकानन्दो ऽपि शत-गुणीकृत एक एव कर्म-देवानन्द इत्य् आह- अथ ये शतं पितॄणां जित-लोकानामानन्दा इति । व्याख्यानं प्राग्वत् । के कर्म-देवा इत्य् अपेक्षायामाह- ये कर्मणा देवत्वमभिसम्पद्यन्त इति । ‘ये’ अग्निहोत्रादि-श्रौतेन ‘कर्मणा’ ‘देवत्वमभिसम्पद्यन्ते’ देव-लोकं प्राप्नुवन्ति ते कर्म-देवा इत्य् अर्थः ॥ ३४ ॥
३५
विश्वास-प्रस्तुतिः
(न्ते᳘ ऽथ) अ᳘थ ये᳘ शतङ्क᳘र्म्मदेवानामानन्दाः᳘॥
स ऽए᳘क ऽआजा᳘नदेवानामानन्दो य᳘श्च श्रोत्रियो᳘ ऽव्वृजिनो᳘ ऽकामहतः॥
मूलम् - श्रीधरादि
(न्ते᳘ ऽथ) अ᳘थ ये᳘ शतङ्क᳘र्म्मदेवानामानन्दाः᳘॥
स ऽए᳘क ऽआजा᳘नदेवानामानन्दो य᳘श्च श्रोत्रियो᳘ ऽव्वृजिनो᳘ ऽकामहतः॥
मूलम् - Weber
अ᳘थ ये᳘ शतं क᳘र्मदेवानामानन्दाः᳟॥
स ए᳘क आजा᳘नदेवानामानन्दो य᳘श्च श्रोत्रियो᳘ऽवृजिनो᳘ऽकामहतः 40 ॥
मूलम् - विस्वरम्
अथ ये शतं कर्म-देवानामानन्दाः, स एक आजान-देवानामानन्दः । यश्च श्रोत्रियः अवृजिनः अकामहतः ॥ ३५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तथा कर्म-देवानामानन्दः शत-गुणीकृतः सन् स्वाभाविक-देवानामेक आनन्द इत्य् आह- अथ ये शतं कर्म-देवानामानन्दा इति । मनुष्यादि-सर्गस्य प्रकृतेः प्रागेव देवत्वं प्राप्ताः ‘ते’ आजान-देवा उच्यन्ते । ते तु सूक्ष्म-व्यापिशरीर-वारिणा महात्मान इत्य् अर्थः । इदानीमाजानदेवेषूक्त आनन्दः तदुपास्त्यधिकारिण आजानदेवानन्दात् प्राक्तनानन्देषु जात-वैराग्यस्य आजान-देवाद्यानन्देषु सतृष्णस्य मनुष्य-देह एव जीवतः श्रोत्रियस्यापि समान एवेत्य् आह- यश्च श्रोत्रियो ऽवृजिनो ऽकामहत इति । अर्थ-ज्ञानान्तं एक-शाखा-विषयमध्ययनं यस्यास्ति स श्रोत्रिय-शब्देनोच्यते । “श्रोत्रियंश्छन्दो ऽधीते” (पा. सू. ५ । २ । ८४) इति पाणिनीनोक्तत्वात् । वृजिनं पापं तन्न विद्यते यस्य सः ‘अवृजिनः’ पापरहितः कृत्स्नवेदोक्तकारित्वात् । ‘अकामहतः’ । आजानदेवावधिपूर्वानन्देषु वितृष्ण इति यावत् । चकारादेवंविधस्य पूर्वानन्देषु विरक्तस्य आजान-देवानन्दसमान एवानन्द इति प्रदर्शितमित्य् अर्थः । एवमुत्तरत्रापि श्रोत्रियाणां पूर्व-पूर्वानन्देषु वैराग्यं उत्तरोत्तरानन्देष्वभिलाषश्चेत्युभयं तत्तदानन्द-साम्य-प्रयोजनं तत्तदुपासकानामिति द्रष्टव्यम् । श्रोत्रियस्य चेहानन्दोपदेश उपास्योपासकयोस्तुल्यानन्द-प्रदर्शन-द्वारा परब्रह्म-विदः तदानन्द-लाभ-प्रदर्शनार्थमित्य् अभिप्रायः ॥ ३५ ॥
३६
विश्वास-प्रस्तुतिः
(तो᳘ ऽथ) अ᳘थ ये᳘ शत᳘माजा᳘नदेवानामानन्दाः᳘॥
स ऽए᳘को देवलोक᳘ ऽआनन्दो य᳘श्च श्रोत्रियो᳘ ऽव्वृजिनो᳘ ऽकामहतः॥
मूलम् - श्रीधरादि
(तो᳘ ऽथ) अ᳘थ ये᳘ शत᳘माजा᳘नदेवानामानन्दाः᳘॥
स ऽए᳘को देवलोक᳘ ऽआनन्दो य᳘श्च श्रोत्रियो᳘ ऽव्वृजिनो᳘ ऽकामहतः॥
मूलम् - Weber
अ᳘थ ये᳘ शत᳘माजा᳘नदेवानामानन्दाः᳟॥
स ए᳘को देवलोक᳘ आनन्दो य᳘श्च श्रोत्रियो᳘ऽवृजिनो᳘ऽकामहतः 41 ॥
मूलम् - विस्वरम्
अथ ये शतमाजानदेवानामानन्दाः, स एको देव-लोक आनन्दः । यश्च श्रोत्रियः अवृजिनः अकामहतः ॥ ३६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
आजान-देवानन्दः शत-गुणितः सन् उपास्येन्द्रादीनां वसति-भूमौ तदुपासके च एक आनन्द इत्य् आह- अथ ये शतमाजान-देवानामानन्दा इति । ‘देवानां’ सृष्ट्यादि-भूतानां यष्टव्यानां निसर्ग-सिद्धदेवापेक्षया ऽपि उत्कृष्टानां ‘लोकः’ स्थानं तस्मिन् । शेषं पूर्ववत् ॥ ३६ ॥
३७
विश्वास-प्रस्तुतिः
(तो᳘ ऽथ) अ᳘थ ये᳘ शत᳘न्देवलोक᳘ ऽआनन्दाः᳘॥
स ऽए᳘को गन्धर्व्वलोक᳘ ऽआनन्दो य᳘श्च श्रोत्रियो᳘ ऽव्वृजिनो᳘ ऽकामहतः॥
मूलम् - श्रीधरादि
(तो᳘ ऽथ) अ᳘थ ये᳘ शत᳘न्देवलोक᳘ ऽआनन्दाः᳘॥
स ऽए᳘को गन्धर्व्वलोक᳘ ऽआनन्दो य᳘श्च श्रोत्रियो᳘ ऽव्वृजिनो᳘ ऽकामहतः॥
मूलम् - Weber
अ᳘थ ये᳘ शतं᳘ देवलोक᳘ आनन्दाः᳟॥
स ए᳘को गन्धर्वलोक᳘ आनन्दो य᳘श्च श्रोत्रियो᳘ऽवृजिनो᳘ऽकामहतः 42 ॥
मूलम् - विस्वरम्
अथ ये शतं देव-लोक आनन्दाः, स एको गन्धर्वलोक आनन्दः । यश्च श्रोत्रियः अवृजिनः अकामहतः ॥ ३७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
देव-लोकानन्दः शत-गुणितः एक एवानन्दो गन्धर्व-लोके तदुपासके च भवतीत्य् आह- अथ ये शतं देव-लोक आनन्दा इति । व्याख्यानं पूर्ववत् । गार्गी-ब्राह्मणे ऽपि देव-लोकानां गन्धर्व-लोकेष्व् एव ओत-प्रोत-भाव उक्तः । तथैवात्रापि देव-लोकानन्तर्यं गन्धर्व-लोकस्य युक्तम् ॥ ३७ ॥
३८
विश्वास-प्रस्तुतिः
(तो᳘ ऽथ) अ᳘थ ये᳘ शत᳘ङ्गन्धर्व्वलोक᳘ ऽआनन्दाः᳘॥
स ऽए᳘कः प्प्रजापतिलोक᳘ ऽआनन्दो य᳘श्च श्रोत्रियो᳘ ऽव्वृजिनो᳘ ऽकामहतः॥
मूलम् - श्रीधरादि
(तो᳘ ऽथ) अ᳘थ ये᳘ शत᳘ङ्गन्धर्व्वलोक᳘ ऽआनन्दाः᳘॥
स ऽए᳘कः प्प्रजापतिलोक᳘ ऽआनन्दो य᳘श्च श्रोत्रियो᳘ ऽव्वृजिनो᳘ ऽकामहतः॥
मूलम् - Weber
अ᳘थ ये᳘ शतं᳘ गन्धर्वलोक᳘ऽआनन्दाः᳟॥
स ए᳘कः प्रजापतिलोक᳘ऽआनन्दो 43 य᳘श्च श्रोत्रियो᳘ऽवृजिनो᳘ऽकामहत 44 ॥
मूलम् - विस्वरम्
अथ ये शतं गंधर्व-लोक आनन्दाः, स एकः प्रजापतिलोक आनन्दः । यश्च श्रोत्रियः अवृजिनः अकामहतः ॥ ३८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
गन्धर्व-लोकानन्दः शत-गुणित एक एवानन्दो विराट्-शरीरे तदुपासके च भवतीत्य् आह- अथ ये शतं गन्धर्व-लोक आनन्दा इति । ‘प्रजापतिलोकः’ विराट्-शरीरम् । शेषं पूर्ववत् ॥ ३८ ॥
३९
विश्वास-प्रस्तुतिः
(तो᳘ ऽथ) अ᳘थ ये᳘ शत᳘म्प्रजापतिलोक᳘ ऽआनन्दाः᳘॥
स ए᳘को ब्ब्रह्मलोक᳘ ऽआनन्दो य᳘श्च श्रोत्रियो᳘ ऽव्वृजिनो᳘ ऽकामहत ऽएष᳘ ब्ब्रह्मलोकः᳘ सम्म्राडि᳘ति हैनम᳘नुशशासैत᳘दमृ᳘त᳘ᳫँ᳘ सो ऽहम्भ᳘गवते सह᳘स्रन्ददाम्य᳘त ऽऊर्ध्व᳘म्विमोक्षा᳘यैव᳘ ब्ब्रूही᳘ति॥
मूलम् - श्रीधरादि
(तो᳘ ऽथ) अ᳘थ ये᳘ शत᳘म्प्रजापतिलोक᳘ ऽआनन्दाः᳘॥
स ए᳘को ब्ब्रह्मलोक᳘ ऽआनन्दो य᳘श्च श्रोत्रियो᳘ ऽव्वृजिनो᳘ ऽकामहत ऽएष᳘ ब्ब्रह्मलोकः᳘ सम्म्राडि᳘ति हैनम᳘नुशशासैत᳘दमृ᳘त᳘ᳫँ᳘ सो ऽहम्भ᳘गवते सह᳘स्रन्ददाम्य᳘त ऽऊर्ध्व᳘म्विमोक्षा᳘यैव᳘ ब्ब्रूही᳘ति॥
मूलम् - Weber
अ᳘थ ये᳘ शतं᳘ प्रजापतिलोक᳘ऽआनन्दाः᳟ 45 । स ए᳘को ब्रह्मलोक᳘ऽआनन्दो य᳘श्च श्रोत्रियो᳘ऽवृजिनो᳘ऽकामहत 46 एष᳘ ब्रह्मलोकः᳘ सम्राडि᳘ति हैनम᳘नुशशासैत᳘दमृ᳘तॗᳫ सोऽहं भ᳘गवते सह᳘स्रं ददाम्य᳘त ऊर्ध्वं᳘ विमोक्षा᳘यैव᳘ ब्रूही᳘ति॥
मूलम् - विस्वरम्
अथ ये शतं प्रजापति-लोक आनन्दाः, स एको ब्रह्म-लोक आनन्दः । यश्च श्रोत्रियः अवृजिनः अकामहतः । एष ब्रह्म-लोकः सम्म्राट् इति हैनमनुशशास । एतदमृतम् । सो ऽहं भगवते सहस्रं ददामि, अत ऊर्ध्वं विमोक्षायैव ब्रूहि इति ॥ ३९ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
विराडानन्दः शत-गुणीकृतो हिरण्य-गर्भस्य तदुपासकस्य च एक आनन्द इत्य् आह- अथ ये शतं प्रजापतिलोक आनन्द इति । ‘ब्रह्म-लोकः’ हिरण्य-गर्भात्मा तस्मिन्नित्य् अर्थः । गन्धर्वादिषु आनन्दोत्कर्षापकर्षौ तत्र तत्र सत्वशुद्धितारतम्यात् ब्रह्मानन्द-मात्राविर्भाव-तारतम्यपेक्ष्य निर्द्दिश्येते । “यश्च श्रोत्रियः” इत्यादि मानुषादि-पर्यायेष्व् अपि योज्यम् । यतः श्रोत्रियत्वादिषु न सार्वभौमत्वादि-सुखमनुभवति । अतः पूर्वष्व् अपि योजयितुं युक्तम् । पूर्वं सलिल एको ऽद्रष्टेत्य् उपक्रम्य- “मात्रामुपजीवन्तीत्य्-अन्तेन” कार्य-करण-विनिर्मुक्तो यः प्रत्यगात्मा निरतिशयानन्दः परिपूर्णः प्रतिज्ञातः । स एव “स यो मनुष्याणाम्” इत्यारभ्य “स एको ब्रह्म-लोक आनन्दः” इत्य्-अन्तेन प्रतिपादितः । तस्येदानीमुपसंहारमाह- एष ब्रह्म-लोकः सम्राडिति हैनमनुशशासैतदमृतमिति । ‘एषः’ वितृष्णः श्रोत्रियः प्रत्यक्ष्यो निरतिशयानन्दः ‘ब्रह्म-लोकः’ ‘एतदमृतं’ मुख्यं मोक्ष-स्वरूपमिति ‘एनं’ जनकं ‘ह’ किल अनुशशासानुशासितवान् उपदिष्टवानित्य् अर्थः । एवं मुनिकृतमुपसंहारं श्रुत्वा राजोवाचेत्य् आह- सो ऽहं भगवते सहस्रं ददाम्य् अत ऊर्ध्वं विमोक्षायैव ब्रूहीति । यथोक्तरीत्या सम्यक् ज्ञाने निर्द्धारिते ऽपि तन्निर्द्धारणात्प्रागेव यन्मुक्तये परं साधनं तस्मादूर्ध्वमपि मह्यं ‘ब्रूहीति’ विद्या-निष्क्रयार्थं सहस्र-दान-प्रतिज्ञा-पूर्वकं राजा मुनिं पप्रच्छेत्य् अर्थः ॥ ३९ ॥
४०
विश्वास-प्रस्तुतिः
स वा᳘ एषः᳘॥ (ऽ) एत᳘स्मिन्त्सम्प्रसा᳘दे रत्वा᳘ चरित्वा᳘ दृ᳘ष्ट्वैव पु᳘ण्यञ्च पा᳘पञ्च पु᳘नः प्प्रतिन्याय᳘म्प्रतियोन्या᳘द्रवति बुद्धान्ता᳘यैव स यद᳘त्र कि᳘ञ्चित्प᳘श्यत्य᳘नन्वागतस्ते᳘न भवत्य᳘सङ्गो᳘ ह्ययम्पु᳘रुष ऽइ᳘त्येव᳘मे᳘वैत᳘द्याज्ञवल्क्य᳘[[!!]] सो ऽहम्भ᳘गवते सह᳘स्रन्ददाम्य᳘त ऽऊर्ध्व᳘म्विमोक्षा᳘यैव᳘ ब्ब्रूही᳘ति॥
मूलम् - श्रीधरादि
स वा᳘ एषः᳘॥ (ऽ) एत᳘स्मिन्त्सम्प्रसा᳘दे रत्वा᳘ चरित्वा᳘ दृ᳘ष्ट्वैव पु᳘ण्यञ्च पा᳘पञ्च पु᳘नः प्प्रतिन्याय᳘म्प्रतियोन्या᳘द्रवति बुद्धान्ता᳘यैव स यद᳘त्र कि᳘ञ्चित्प᳘श्यत्य᳘नन्वागतस्ते᳘न भवत्य᳘सङ्गो᳘ ह्ययम्पु᳘रुष ऽइ᳘त्येव᳘मे᳘वैत᳘द्याज्ञवल्क्य᳘[[!!]] सो ऽहम्भ᳘गवते सह᳘स्रन्ददाम्य᳘त ऽऊर्ध्व᳘म्विमोक्षा᳘यैव᳘ ब्ब्रूही᳘ति॥
मूलम् - Weber
स वा᳘ एष᳘ एत᳘स्मिन्त्सम्प्रसा᳘दे॥
रत्वा᳘ चरित्वा᳘ दृॗष्ट्वैव पु᳘ण्यं च पा᳘पं च पु᳘नः प्रतिन्याय᳘म् प्रतियोन्या᳘द्रवति बुद्धान्ता᳘यैव स यद᳘त्र किं᳘चित्प᳘श्यत्य᳘नन्वागतस्ते᳘न भवत्य᳘सङ्गो ह्य᳘यम् पु᳘रुष इ᳘त्येव᳘मेॗवैत᳘द्याज्ञवल्क्यॗ सोऽहम् भ᳘गवते सह᳘स्रं ददाम्य᳘त ऊर्ध्वं᳘ विमोक्षा᳘यैव᳘ ब्रूही᳘ति॥
मूलम् - विस्वरम्
स वा एष एतस्मिन् सम्प्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव । स यदत्र किञ्चित् पश्यति । अनन्वागतस्तेन भवति । असङ्गो हि अयं पुरुष इति । एवमेवैतत् याज्ञवल्क्य । सः अहं भगवते सहस्रं ददामि, अत ऊर्ध्वं विमोक्षायैव ब्रूहि इति ॥ ४० ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तत्र “तद्यथा ऽस्मिन्नाकाशे” इति वाक्यमारभ्य “एष ब्रह्म-लोकः सम्राडिति हैनमनुशशासैतदमृतं” इत्यन्तं वाक्य-जातं सुषुप्ति-विषयम् । तथा च सुषुप्ति-विषय-प्रविष्ट आत्मा स इदानीं संसाररूपदार्ष्टान्तिकप्रदर्शनार्थं जाग्रद्भूमिं प्रापयितव्यः । सुषुप्तौ दार्ष्टान्तिकसम्बन्धस्य अत्यन्तं स्फष्टयितुमशक्यत्वात् यदभिप्रेत्यात्मनः सुषुप्ति-स्थानाज्जागरित-स्थान-प्राप्तिमाह- स वा एष एतस्मिन् सम्प्रसादे रत्वा चरित्वेत्य् आदिना । सम्यक् प्रसीदत्यस्मिन्निति सम्प्रसादः सुषुप्ति-स्थानं तस्मिन् ‘सम्प्रसादे’ । “तीर्णो हि तदा सर्वाञ्छोकान् हृदयस्य भवति” “सलिल एको ऽद्रष्टा ऽद्वैतो भवति” इति चोक्तत्वात् अवस्थान्तरापेक्षया सुषुप्तौ प्रसादातिशयो ऽच्चेति भावः । ‘बुद्धान्ताय’ जागरणायेत्य् अर्थः । अक्षरार्थः पूर्ववत् । अत्रापि राजा विद्या-निष्क्रयार्थं सहस्र-दान-प्रतिज्ञा-पूर्वकं मुनिं पुनः पप्रच्छेत्य् अर्थः ॥ ४० ॥
४१
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘त्र ह या᳘ज्ञवल्क्यो बिभया᳘ञ्चकार॥
मेधा᳘वी रा᳘जा स᳘र्व्वेभ्यो मा᳘ ऽन्तेभ्य ऽउ᳘दरौत्सीदि᳘ति स य᳘त्राणिमा᳘नं न्ये᳘ति जर᳘या वोपत᳘पता वा ऽणिमा᳘नन्निग᳘च्छति य᳘था ऽऽम्म्र᳘म्वोदुम्बरम्वा[[!!]] पि᳘प्पलम्वा ब᳘न्द्धनात्प्रमुच्ये᳘तैव᳘मे᳘वाय᳘ᳫँ᳘ शारीर᳘ ऽआ᳘त्मैभ्यो᳘ ऽङ्गेभ्यः सम्प्रमु᳘च्य पु᳘नः प्प्रतिन्याय᳘म्प्रतियोन्या᳘द्रवति प्प्राणा᳘यैव[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘त्र ह या᳘ज्ञवल्क्यो बिभया᳘ञ्चकार॥
मेधा᳘वी रा᳘जा स᳘र्व्वेभ्यो मा᳘ ऽन्तेभ्य ऽउ᳘दरौत्सीदि᳘ति स य᳘त्राणिमा᳘नं न्ये᳘ति जर᳘या वोपत᳘पता वा ऽणिमा᳘नन्निग᳘च्छति य᳘था ऽऽम्म्र᳘म्वोदुम्बरम्वा[[!!]] पि᳘प्पलम्वा ब᳘न्द्धनात्प्रमुच्ये᳘तैव᳘मे᳘वाय᳘ᳫँ᳘ शारीर᳘ ऽआ᳘त्मैभ्यो᳘ ऽङ्गेभ्यः सम्प्रमु᳘च्य पु᳘नः प्प्रतिन्याय᳘म्प्रतियोन्या᳘द्रवति प्प्राणा᳘यैव[[!!]]॥
मूलम् - Weber
अ᳘त्र ह या᳘ज्ञवल्क्यो बिभयां᳘ चकार॥
मेधा᳘वी रा᳘जा स᳘र्वेभ्यो मा᳘न्तेभ्य उ᳘दरौत्सीदि᳘ति 47 स य᳘त्राणिमा᳘नं न्ये᳘ति जर᳘या वोपत᳘पता वाणिमा᳘नं निग᳘छति य᳘थाम्रं᳘ वोदु᳘म्बरं वा पि᳘प्पलं वा ब᳘न्धनात्प्रमुच्ये᳘तैव᳘मेॗवायं᳘ शारीर᳘ आॗत्मैभ्यो᳘ऽङ्गेभ्यः सम्प्रमु᳘च्य पु᳘नः प्रतिन्याय᳘म् प्रतियोन्या᳘द्रवति प्राणा᳘यैव᳟॥
मूलम् - विस्वरम्
अत्र ह याज्ञवल्क्यो बिभयाञ्चकार । मेधावी राजा सर्वेभ्यो मा अन्तेभ्यः उदरौत्सीत् इति । स यत्राणिमानं न्येति जरया वा उपतपता वा अणिमानं निगच्छति । यथा आम्रं वा उदुम्बरं वा पिप्पलं वा बन्धनात्प्रमुच्येत । एवमेव अयं शारीर आत्मा एभ्यः अङ्गेभ्यः सम्प्रमुच्य पुनः प्रतिन्यायं प्रतियोनि आद्रवति प्राणायैव ॥ ४१ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
ततः किं वृत्तमित्य् अपेक्षायामाह- अत्र ह याज्ञवल्क्यो बिभयाञ्चकारेति । ‘अत्र’ “विमोक्षायैव ब्रूहीति” अस्मिन् वाक्ये श्रुते सति ‘ह’ किल ‘याज्ञवल्क्यः’ ‘बिभयाञ्चकार’ भीतवानित्य् अर्थः । ननु- कुतो ऽस्य मुनेर्भयम् ? किं वक्तृत्वासामर्थ्यात् उत्तराज्ञानाद्वा, इत्याशङ्कायां नेतदुभयमस्य भयकारणं, सर्वज्ञत्वात् । किन्तु अयं राजा मेधावित्वात् कामप्रश्नव्याजेन मोक्षफलकज्ञानलक्षणं मदीयं सर्वस्वं ग्रहीष्यति इत्य् एतदेव भय-कारणम्, इत्य् एतदाह- मेधावी राजा सर्वेभ्यो मा ऽन्तेभ्य उदरौत्सीदितीति । यतः अयं ‘राजा मेधावी’ प्रज्ञाशाली । अतः ‘मा’ मां ‘अन्तेभ्यः’ प्रश्ननिर्णयावसानेभ्यः ‘उत् अरौत्सीत्’ आवृणोत् पुनः पुनरवरोधं कृतवानित्य् अर्थः । इति-शब्दो भय-हेतु-कथन-रूप-श्रुति-वचन-समाप्त्यर्थः । जनको हि काम-प्रश्नाङ्कुशेन मम सर्वस्वं ग्रहीष्यति, अतो हेतोर्भया अस्मात् भेतव्यमेव । न हि योग्ये ऽपि पात्रे मुक्ति-फलं ज्ञानं सहसोपदेष्टव्यमित्य् अभिप्रायः । ननु- “किञ्ज्योतिरेवायं” इत्याद्युक्ताः प्रश्नाः आदित्यज्योतिरित्यादिभिर्निर्णीताश्चेत् किमनिर्णीतमुद्दिश्य “अत ऊर्ध्वं विमोक्षायैव ब्रूहीति“ राज्ञः प्रश्न इति चेत् सत्यं, यद्यपि पूर्वं सहेतुकौ संसार-मोक्षौ मुनिना उक्तौ, तथा ऽपि तत्र या चात्मनः स्वप्न-जागरणयोः सञ्चरणोक्तिः सा सर्वा तस्य लोक-द्वय-सञ्चरण-रूप-संसार-दृष्टान्तायैवोक्ता । या पुनस्तस्य सम्प्रसादोक्तिः सा तु मोक्ष-दृष्टान्तार्था, इत्य् एवममन्यत राजा । अतो दार्ष्टान्तिक-जिज्ञासया “अत ऊर्ध्वमिति” प्रश्न उपपद्यते । तत्र “स यत्राणिमानं न्येति” इत्यारभ्य “इति नु कामयमानः” इत्य् अन्तो ग्रन्थः “उभावन्तावनुसञ्चरति” इत्यादौ सूचित-स-हेतु-संसार-रूप-दार्ष्टान्तिक-कथनपरो बोध्यः । “अथो कामयमानः” इत्यारभ्य आशारीरकब्राह्मण-समाप्तेः स-साधन-मोक्ष-रूप-दार्ष्टान्तिक-कथनमिति सामान्य-सङ्गतिः । इदानीं स्वप्नाज्जागरणप्राप्तिवल्लोकान्तरं गच्छत्य् आत्मा इत्य् अस्यार्थस्य सुख-प्रतिपत्त्य् अर्थं तावदाह- स यत्राणिमानं न्येतीति । ‘सः’ प्रकृतः शिरः-पाण्यादिमान् देहः ‘यत्र’ यस्मिन् काले ‘अणिमानं’ अणोर्भावं कार्श्यं ‘न्येति’ नितरामतिशयेन एति गच्छति प्राप्नोतीत्य् अर्थः । ननु- अयं अणिमानमपि कस्माद्धेतोर्गच्छतीत्यपेक्षायामाह- जरया वोपतपता वा ऽणिमानं निगच्छतीति । ‘जरया वा’ स्वयमेव काल-पक्व-फलवत् जीर्णः अणिमानं निगच्छति । ‘उपतपता वा’ उपतपतीत्य् उपतपन् ज्वरादि-रोगः, तेनोपतपता वा ‘अणिमानं निगच्छति’ । तेन हि उपतप्यमानो विषम-अग्नि-तया भुक्तान्न-जरणाभावात् अन्नरसेनानुपचीयमानः पिण्डः कार्श्यमापद्यत एवेत्य् अर्थः । जरा ऽभिभवो रोगादिपरिपीडनं कार्श्यापत्तिश्च इत्य् एते अनर्थाः शरीरवतः अवश्यं-भाविन इत्य् एतदपि लोक-प्रसिद्धं श्रुत्या वैराग्याद्यर्थमेवोच्यत इति भावः । ततः कथं शरीरं विमुञ्चतीत्य् अपेक्षायां दृष्टान्तमाह- यथा ऽऽम्रं वोदुम्बरं वेति । ‘यथा’ दृष्टान्तो लोके ‘आम्रं’ फलं ‘उदुम्बरं वा फलं’ ‘पिप्पलं वा’ फलं ‘बन्धनात्’ वृन्तेन सह फलं येन रसेन बध्यते स रसो बन्धन-हेतुत्वात् बन्धनम्, वृन्तमेव वा बन्धनं यस्मिन् फलं रसेन बध्यते तद्-बन्धनं, तस्माद् बन्धनात् ‘प्रमुच्येत’ वाताद्यनेकनिमित्तवशात् विच्छिद्येत इत्य् अर्थः । दार्ष्टान्तिकमाह- एवमेवायं शारीर आत्मैभ्यो ऽङ्गेभ्य इति । यथा अयं दृष्टान्तः ‘एवमेव’ ‘अयं शारीर आत्मा’ शरीरे स्थूले भवः शारीर आत्मा लिङ्गोपाधिको लिङ्ग-देह एव आत्म-प्रकाशितः ‘एभ्योङ्गेभ्यः’ देहावयवेभ्यः चक्षुरादीन्द्रिय-स्थानेभ्यः ‘सम्प्रमुच्य’ सम्यगेकी-भावेन प्रकर्षेण निर्लेपतया मुक्त्वा पुनर्वारंवारं ‘प्रतिन्यायं’ प्रतिगमनं यथागतं तथा ‘प्रति-योनि’ योनिं प्रति स्थान-विशेषं प्रति विद्या-कर्म-पूर्व-संस्कार-वशात् ‘आद्रवति’ गच्छतीत्य् अर्थः । यथा स्वप्नाज्जागरितं पुनः स्वप्नमिति पुनः पुनः पुमान् प्रतिपद्यते, तथैव पुनर्देहान्तरमिति प्रतिपादनार्थः पुनः-शब्दः । प्रतिन्यायमिति शब्दावयवार्थः पूर्ववत् । किमर्थमित्य् अपेक्षायामाह-प्राणायैवेति । ‘प्राणाय’ प्राणव्यूहायैव प्राणानां स्थान-विशेष-विन्यासेनावस्थानाय देहान्तर-ग्रहणायेत्य् अर्थः ॥ ४१ ॥
४२
विश्वास-प्रस्तुतिः
तद्यथा᳘ ऽनः सु᳘समाहितम्॥
(मु) उत्स᳘र्ज्जद्याया᳘देव᳘मे᳘वाय᳘ᳫँ᳘ शारीर᳘ ऽआत्मा᳘ प्प्राज्ञे᳘नात्म᳘ना ऽन्वा᳘रूढ ऽउत्स᳘र्ज्जद्याति *॥
मूलम् - श्रीधरादि
तद्यथा᳘ ऽनः सु᳘समाहितम्॥
(मु) उत्स᳘र्ज्जद्याया᳘देव᳘मे᳘वाय᳘ᳫँ᳘ शारीर᳘ ऽआत्मा᳘ प्प्राज्ञे᳘नात्म᳘ना ऽन्वा᳘रूढ ऽउत्स᳘र्ज्जद्याति * 48॥
मूलम् - Weber
तद्यथा᳘नः सु᳘समाहितम् 49 ॥
उत्स᳘र्जद्याया᳘देव᳘मेॗवायं᳘ शारीर᳘ आत्मा᳘ प्राज्ञे᳘नात्म᳘नान्वा᳘रूढ उत्स᳘र्जद्याति॥
मूलम् - विस्वरम्
तद्यथा ऽनः सुसमाहितमुत्सर्जद्यायात् । एवमेव अयं शारीर आत्मा प्राज्ञेनात्मना अन्वारूढः उत्सर्जद्याति ॥ ४२ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
इदानीं लोकाल्लोकान्तरं गच्छत्य् आत्मा इत्य् अस्यार्थस्य सुख-प्रतिपत्त्य्-अर्थं दृष्टान्तमाह- तद्यथा ऽनः सुसमाहितमुत्सर्जद्यायादिति । तत्र दृष्टान्तः- ‘यथा’ लोके ‘अनः’ शकटं ‘सु’ सुष्ठु भृशं वा ‘समाहितं’ उलूखल-मूसल-शूर्प-भाण्डादि-गृहोपकरणेनान्नाद्येन च सम्पन्नं भाराक्रान्तं सत् ‘उत्सर्जत्’ नानाविधं शब्दं कुर्वत् यायाद्गच्छेत् शाकटिकेनाधिष्ठितं सदित्य् अर्थः । दार्ष्टान्तिकमाह- एवमेवायं शारीर आत्मेति । यथा अयं दृष्टान्तः । ‘एवमेव’ ‘अयं शारीरः’ शरीरे स्थूले भवः आत्मा लिङ्गोपाधिकः स्वप्नबुद्धान्ताविव जन्म-मरणाभ्यां कार्य-करण-संयोग-लक्षणाभ्याम् इह-लोक-पर-लोकानुसञ्चारी सन् ‘प्राज्ञेन’ परेणात्मना स्वयञ्ज्योतिः-स्वभावेनान्वारूढोधिष्ठितोवभास्यमानः ‘उत्सर्जत्’ मरण-काले मर्म-कृन्तन-सम्भूत-वेदनापीडित-मानसो हिक्किका-लक्षणं शब्दं कुर्वन् ‘याति’ गच्छति । आत्म-ज्योतिषा अवभास्यमाने लिङ्गे प्राण-प्रधाने गच्छति सति तद्-उपाधिक आत्मा गच्छतीव, न तु परमार्थतो निरूपाधिक आत्मा गच्छति ॥ ४२ ॥
४३
विश्वास-प्रस्तुतिः
तद्य᳘था रा᳘जानमाय᳘न्तम्॥
(मु᳘) उ᳘ग्ग्राः प्प्र᳘त्येनसः सूतग्ग्रामण्यो᳘ ऽन्नैः पा᳘नैरावसथैः᳘ प्प्रतिक᳘ल्पन्ते ऽयमा᳘यात्ययमा᳘गच्छती᳘त्येव᳘ᳫँ᳘ हैवम्वि᳘दᳫँ᳭ स᳘र्व्वाणि भूता᳘नि प्प्र᳘तिकल्पन्त ऽइदम्ब्रह्मा᳘यातीदमा᳘गच्छती᳘ति॥
मूलम् - श्रीधरादि
तद्य᳘था रा᳘जानमाय᳘न्तम्॥
(मु᳘) उ᳘ग्ग्राः प्प्र᳘त्येनसः सूतग्ग्रामण्यो᳘ ऽन्नैः पा᳘नैरावसथैः᳘ प्प्रतिक᳘ल्पन्ते ऽयमा᳘यात्ययमा᳘गच्छती᳘त्येव᳘ᳫँ᳘ हैवम्वि᳘दᳫँ᳭ स᳘र्व्वाणि भूता᳘नि प्प्र᳘तिकल्पन्त ऽइदम्ब्रह्मा᳘यातीदमा᳘गच्छती᳘ति॥
मूलम् - Weber
तद्य᳘था रा᳘जानमाय᳘न्तम्॥
उ᳘ग्राः प्र᳘त्येनसः सूतग्रामण्यो᳘ऽन्नैः पा᳘नैरावसथैः᳘ प्रतिक᳘ल्पन्तेऽयमा᳘यात्ययमा᳘गछती᳘त्येव᳘ᳫं᳘ 50 हैवंवि᳘दᳫं स᳘र्वाणि भूता᳘नि प्र᳘तिकल्पन्त इदम् ब्रह्मा᳘यातीदमा᳘गछती᳘ति॥
मूलम् - विस्वरम्
तद्यथा राजानमायन्तमुग्राः 48 प्रत्येनसः सूत-ग्रामण्यो ऽन्नैः पानैरावसथैः प्रतिकल्पन्ते । अयमायाति । अयमागच्छतीति । एवं ह, एवं-विदं सर्वाणि भूतानि प्रतिकल्पन्ते । इदं ब्रह्मायाति । इदमागच्छतीति ॥ ४३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
ननु- अस्य मुमूर्षोः कुतो देहान्तरं यदसौ गच्छेत्, तत्कर्तुरभावात् । न तावत् स्वकृतं स्यात्, देहेन्द्रियवियुक्तस्य तन्निर्माणे असामर्थ्यात् । न चान्यकृतं राज्ञो गृहनिर्मातृकर्तृभृत्यादिवत् अस्य देहनिर्मात्रन्यस्यासम्भवात्, इति शङ्कायां स्व-कर्मोपार्जितान्य् एव भूतानि तत्-कर्म-प्रेरितानि तद्-विद्या-कर्म-पूर्व-प्रज्ञानुसारतः शुभमशुभं वा देहं कृत-कर्मोपभोगार्थं कृत्वा प्रतीक्षन्ते, इत्य् एवं समाधास्यमाने अर्थे दृष्टान्तमाह- तद्यथा राजानमायन्तमुग्राः प्रत्येनस इति । ‘उग्राः’ जाति-विशेषाः । यद्वा उग्रे हिंस्रे कर्मणि राज्ञा नियुक्ताः क्रूर-कर्माण उग्राः । ‘प्रत्येनसः’ एनः पापं तद्वान् इह एनः-शब्देनोच्यते तथा च- एनः एनः पापिनं पापिनं प्रति शासनार्थं नियुक्ताः क्रूर-कर्माणः ‘प्रत्येनस’ उग्रेभ्यो भिन्नाधिकारा इति यावत् । ‘सूताः’ ब्राह्मण्यां क्षत्रियाज्जाताः सङ्कर-जाति-विशेषाः रथ-वाहनकोविदाः । ‘ग्रामण्यः’ ग्राम-नेतारः । सूताश्च ग्रामण्यश्चेति द्वन्द्वः । तथा च- तत्तत्र दृष्टान्तः । यथा लोके राजानं राज्याभिषिक्तं आयन्तमागच्छन्तं ‘उग्राः प्रत्येनसः’ ‘सूत-ग्रामण्यः’ राजकीयाः । एते राज्ञः आगमनं बुद्ध्वा तदागमनात् पूर्वमेव अन्नैर्भक्ष्य-भोज्य-लेह्य-चोष्य-लक्षणैश्चतुर्विधैः ‘पानैः’ क्षीरोदकादिभिरावसथैश्च प्रासाद-गोपुर-तोरणादिभिः प्रतिकल्पन्ते निष्पन्नैरेव प्रतीक्षन्ते इत्य् अर्थः । किं कुर्वन्तः प्रतीक्षन्ते इत्यत आह- अयमायात्ययमागच्छतीति । अयं राजा ‘आयाति अयमागच्छति’ इत्य् एवं वदन्तः सन्तः प्रतीक्षन्ते । पुनरुक्तिरादरार्थेत्यर्थः । दार्ष्टान्तिकमाह- एवं हैवंविदं सर्वाणि भूतानि प्रतिकल्पन्त इति । यथा अयं दृष्टान्तः । ‘एवं ह’ किल ‘एवं-विदं’ कर्म-फल-वेदितारं संसारिणं सर्वाणि भूतानि पञ्च-भूतानि शरीर-कर्तॄणि करुणानुग्रहीतॄणि च आदित्यादीनि संसारि-कर्म-प्रयुक्तानि तैरेव कर्म-फलोपभोग-साधनैः शरीरादिभिः ‘प्रतिकल्पन्ते’ प्रतीक्षन्ते । स्वात्मनि देहाद्याकार-परिणते आत्माभिव्यक्तिं काङ्क्षन्ते इत्य् अर्थः । तानि भूतानि कथं प्रतीक्षन्ते इत्य् अपेक्षायामाह- इदं ब्रह्मायातीदमागच्छतीति । ‘इदं ब्रह्म’ भोक्तृ कर्तृ तु अस्माकं ‘आयाति’ आगच्छति इत्यादरेण वदन्ति प्रतीक्षन्तः इत्य् अर्थः । संसारिणि जीवे असंसारि-ब्रह्म-शब्द-प्रयोगस्तु तस्य वस्तुतो ब्रह्माभिन्नत्वज्ञापनार्थः, कथं वा अस्य “ब्रह्मास्मीति” मतिर्भवेत् इति तत्त्व-बोधनार्थं वा श्रुत्या कृत इति भावः । अत्र शरीरारम्भकत्वमात्मनो वर्तते इत्येतावानेवांशो विवक्षितः । न तु पूर्वं भूतानि राज-भृत्यवत् देहमारभ्य प्रतीक्षन्ते, पश्चादात्मा राजवत्तत्र गच्छतीत्यंशो ऽपि शरीरारम्भकभूतैः सहैवात्मनो गमनमिति सिद्धान्त-स्थितेः । प्रतीक्षणाद्युपन्यासस्तु एवंविदमित्य् उक्त-कर्म्म-फलोत्क्रान्तिवेदनस्तुत्यर्थो ज्ञातव्यः ॥ ४३ ॥
४४
विश्वास-प्रस्तुतिः
तद्य᳘था रा᳘जानम्प्रयियास᳘न्तम्॥
(मु᳘) उ᳘ग्ग्राः प्प्र᳘त्येनसः सूतग्ग्रामण्य᳘ ऽउपसमाय᳘न्त्येव᳘ᳫँ᳘ हैवम्वि᳘दᳫँ᳭ स᳘र्व्वे प्प्राणा᳘ ऽउपसमा᳘यन्ति य᳘त्रैत᳘दूर्ध्वोच्छ्वासी भ᳘वति॥
मूलम् - श्रीधरादि
तद्य᳘था रा᳘जानम्प्रयियास᳘न्तम्॥
(मु᳘) उ᳘ग्ग्राः प्प्र᳘त्येनसः सूतग्ग्रामण्य᳘ ऽउपसमाय᳘न्त्येव᳘ᳫँ᳘ हैवम्वि᳘दᳫँ᳭ स᳘र्व्वे प्प्राणा᳘ ऽउपसमा᳘यन्ति य᳘त्रैत᳘दूर्ध्वोच्छ्वासी भ᳘वति॥
मूलम् - Weber
तद्य᳘था रा᳘जानम् प्रयियास᳘न्तम्॥
उ᳘ग्राः 51 प्र᳘त्येनसः सूतग्रामण्य᳘ उपसमाय᳘न्त्येव᳘ᳫं᳘ 52 हैवंवि᳘दᳫं स᳘र्वे प्राणा᳘ उपसमा᳘यन्ति य᳘त्रैत᳘दूर्ध्वोछ्वासी भ᳘वति॥
मूलम् - विस्वरम्
तद्यथा राजानं प्रयियासन्तं उग्राः प्रत्येनसः सूत-ग्रामण्य उपसमायन्ति । एवं ह, एवं-विदं सर्वे प्राणा उपसमायन्ति । यत्रैतदूर्ध्वोच्छ्वासी भवति ॥ ४४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवमात्मनो वर्तमान-देहं हित्वा देहान्तरं जिगमिषतः तन्निर्माणे सहायसम्पत्तिरुक्ता । इदानीं गच्छन्तं संसारिणं के अनुगच्छन्ति । अनुगच्छन्तो ऽपि किं स्वातन्त्र्येण, संसारिकर्मप्रयुक्त्या वा अनुगच्छन्तीति जिज्ञासायां संसारिकर्मप्रेरिता एव वागादयो ऽनुगच्छन्तीति निर्णेतुं तावत् दृष्टान्तमाह- तद्यथा राजानं प्रयियासन्तमुग्राः प्रत्येनसः सूत-ग्रामण्य उपसमायन्तीति । तत्तत्र दृष्टान्तः । यथा- ‘प्रयियासन्तं’ प्रकर्षेण यातुमिच्छन्तं राजानं पूर्वोक्ताः उग्रादयः ‘उप’ समीपे सम्यग्-एकीभावेन ‘आयन्ति’ आगच्छन्ति । राज्ञा सहगमनार्थं अनाज्ञप्ता एव केवलं तज्जिगमिषाभिज्ञा इत्य् अर्थः । दार्ष्टान्तिकमाह- एवं हैवं-विदं सर्वे प्राणा उपसमायन्तीति । यथा अयं दृष्टान्तः ‘एवं ह’ किल ‘एवं-विदं’ कर्म्म-फल-वेदितारं संसारिणं ‘प्रयियासन्तं’ मरण-काले सर्वे प्राणाः वागादयः ‘उपसमायन्ति’ अनाकारिता एव सन्तस्ते तत्कर्म-प्रेरिताः सहगमनार्थं ‘उप’ समीपे ‘सम्’ एकीभावेन ‘आयन्ति’ आगच्छन्तीत्य् अर्थः । एवमात्मना सह गच्छन्तः प्राणाः स्वाश्रयेणापञ्चीकृतभूतपञ्चकेन शरीरारम्भकीभूतेन सहैव गच्छन्ति । आश्रयगमनमन्तरेण आश्रयिणो गमनासम्भवात् इति द्रष्टव्यम् । अचेतनानामपि रथादीनां चेतनाधिष्ठितानां प्रवृत्तिवत् वागादीनामपि भोक्तृ-कर्म-नियन्त्रितानां प्रवृत्तिः सम्भवतीति भावः । कस्मिन् काले इदं दुःखात्मकं गमनमित्य् अपेक्षायामाह- यत्रैतदूर्ध्वोछ्वासी भवतीति । एतदिति क्रियाविशेषणम् । तथा च- मृतावुपस्थितायां उदानाख्ये वायौ प्रबले सति ‘एतत्’ ऊर्ध्वोछ्वासित्वं यथा स्यात्तथा ‘यत्र’ यस्मिन् काले ‘ऊर्ध्वोछ्वासी’ ‘भवति’ तस्मिन् काले तद्गमनमित्य् अर्थः । मरणावसरे हि प्राणाः सर्वेषु प्राणिषु क्लेशमादधतीत्य् उत्सर्गः । शास्त्रोक्तोत्क्रान्तिवेदिनि तु पुरुषे न ते क्लेशाधायिनः, ज्ञानमाहात्म्यादिति भावः ॥ ४४ ॥
इति श्री-हृषीकेश-ब्रह्म-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठकानिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-टीकायां वासुदेव-प्रकाशिकायां चतुर्थे ऽध्याये प्रथमं ज्योतिर्ब्राह्मणं परिसमाप्तम् ॥ १४ । (७) ४ । १ ॥
-
स᳘मेनेन᳘ वदिष्य AM. This wrong accentuation is proved as ancient by the interpretation स᳘ मेने न᳘ given by शङ्कर (and D.) which appears to be produced by it. - ibid. ग्निहोत्रे स᳘मूदतु AM. ↩︎
-
किं᳘ज्योति᳘रयं AM. ↩︎
-
किं᳘ज्योति᳘रे᳘वायं AM. ↩︎
-
किं᳘ज्योति᳘रे᳘वायं AM. ↩︎
-
किं᳘ज्योति᳘रे᳘वायं AM. ↩︎
-
शा᳘न्ते ग्नौ शान्तायां᳘ AM. ↩︎
-
किं᳘ज्योति᳘रे᳘वायं AM. ↩︎
-
लोक᳘मतिक्रा᳘मति AM ↩︎
-
“वेशान्तान्” इति काण्वपाठः । ↩︎
-
रथान्रथयोगा᳘न्पथः᳘ AM. ↩︎
-
शारीर᳘मभिप्र᳘हत्या᳘सुप्तः᳘, पु᳘नरैति, एकहᳫसः AM. ↩︎
-
कुलायं᳘ oxyt.! - ibid. बहिष्कुलाया᳘दमृ᳘त, एकहᳫसः AM ↩︎
-
स्त्रीभिः स᳘ह AM. – ibid. ↩︎
-
आराम᳘मस्य पश्य᳘न्ति, बो᳘धयेदि᳘त्याहुर्दु᳘र्भिषज्य᳘ᳫ हास्मै᳘ भवति य᳘मेष न प्र᳘तिपद्यते AM. ↩︎
-
अनुसं᳘चरति पू᳘र्वं चापरं᳘ च AM. ↩︎
-
सल्लया᳘यैव᳘ AMD., see अहल्लिक ६, ९, २६. and the note at १.२.२३. ↩︎
-
नील᳘ oxyton.! see ७. २. १२. अ᳘तिछन्दोऽपहतपाप्माभय᳘ᳫ᳘ रूप AM. - ibid. भ्रूणहा᳘भ्रूणहा᳘ पौल्कसो᳘ऽपौल्कस᳘श्चाण्डालो᳘ऽचाण्डालः᳘ श्रमणो᳘ऽश्रमण᳘स्ता AM. ↩︎
-
भ᳘य parox.! ↩︎
-
ऽविनाशित्वान्न᳘ तु त᳘द्द्विती᳘ AM. ↩︎
-
य᳘त्पश्येत् ↩︎
-
ऽविनाशित्वान्न᳘ तु त᳘द्द्विती᳘ AM. ↩︎
-
य᳘ज्जिघ्रेत् ↩︎
-
यद्वै तन्न᳘ रसयति । विजानन्वै AM. ↩︎
-
ऽविनाशित्वान्न᳘ तु त᳘द्द्विती᳘ AM. ↩︎
-
य᳘द्रसयेत् ↩︎
-
यद्वै तन्न᳘ वदति AM. - ibid. न हि᳘ च कुर्व᳘तो विपरिलोपो᳘ A. first hand, न हि᳘ वक्तुर्व᳘चो विपरि A. sec. h. M. (and at ३. १९. AM.). I am at a loss to explain the व᳘चो otherwise than by the assumption of its standing instead of व᳘चसो. Perhaps also we are to read वक्तु᳘र्वाचो ? ↩︎
-
ऽविनाशित्वान्न᳘ तु त᳘द्द्विती᳘ AM. ↩︎
-
य᳘द्वदेत् AM. ↩︎
-
यद्वै तन्न᳘ शृणोति AM. ↩︎
-
ऽविनाशित्वान्न᳘ तु त᳘द्द्विती᳘ AM. ↩︎
-
यद्वै तन्न᳘ मनुते AM. ↩︎
-
ऽविनाशित्वान्न᳘ तु त᳘द्द्विती᳘ AM. ↩︎
-
यद्वै तन्न᳘ स्पृशति । स्पृ᳘शन्वै त᳘त्स्प्रष्ट᳘व्यं AM ↩︎
-
ऽविनाशित्वान्न᳘ तु त᳘द्द्विती᳘ AM. ↩︎
-
यद्वै तन्न᳘ विजानाति । वि᳘जानन्वै त᳘द्विज्ञे᳘यं न᳘ विजानाति AM ↩︎
-
ऽविनाशित्वान्न᳘ तु त᳘द्द्विती᳘ AM. ↩︎
-
भ᳘वति । ए᳘ष ब्रह्मलोकः᳘ सम्राडि᳘ति हैन᳘मुवा᳘चैॗषास्य AM ↩︎
-
अत्र “एको ऽद्रष्टा” इत्य् एवमपि पदच्छेदो मन्तव्यो भाष्यानुरोधात् । ↩︎
-
संपन्न᳘तमः AM ↩︎
-
श्रोत्रिय oxyt. or parox.! (instead of आद्युदात्त). ↩︎
-
श्रोत्रिय oxyt. or parox.! (instead of आद्युदात्त). ↩︎
-
श्रोत्रिय oxyt. or parox.! (instead of आद्युदात्त). ↩︎
-
प्रजा᳘पतिलोक᳘ AM. ↩︎
-
श्रोत्रिय oxyt. or parox.! (instead of आद्युदात्त). ↩︎
-
प्रजा᳘पतिलोक᳘ AM. ↩︎
-
श्रोत्रिय oxyt. or parox.! (instead of आद्युदात्त). ↩︎
-
उद᳘रौत्सी A. - ibid. उदु᳘म्बरं acc. ! ↩︎
-
सु᳘समा᳘हितम् AM. ↩︎
-
उ᳘ग्र acc.! - ibid. प्रतिक᳘ल्पन्ते᳘ऽयमायात्य᳘यमागछती᳘त्ये, इ᳘दं ब्रह्मायाती᳘दमागछती᳘ति AM ↩︎
-
उ᳘ग्र acc.! - ibid. प्रतिक᳘ल्पन्ते᳘ऽयमायात्य᳘यमागछती᳘त्ये, इ᳘दं ब्रह्मायाती᳘दमागछती᳘ति AM ↩︎
-
उपसमा᳘यन्त्येव᳘ᳫ AM ↩︎