०१

विश्वास-प्रस्तुतिः

अ᳘थ हैनम्विदग्धः शा᳘कल्यः पप्प्रच्छ॥
क᳘ति देवा᳘ याज्ञवल्क्ये᳘ति स᳘ हैत᳘यैव᳘ निवि᳘दा प्प्र᳘तिपेदे या᳘वन्तो व्वैश्वदेव᳘स्य निवि᳘द्युच्य᳘न्ते त्र᳘यश्च त्री᳘ च शता त्र᳘यश्च त्री᳘ च सहस्रेत्योमि᳘ति होवाच॥

मूलम् - श्रीधरादि

अ᳘थ हैनम्विदग्धः शा᳘कल्यः पप्प्रच्छ॥
क᳘ति देवा᳘ याज्ञवल्क्ये᳘ति स᳘ हैत᳘यैव᳘ निवि᳘दा प्प्र᳘तिपेदे या᳘वन्तो व्वैश्वदेव᳘स्य निवि᳘द्युच्य᳘न्ते त्र᳘यश्च त्री᳘ च शता त्र᳘यश्च त्री᳘ च सहस्रेत्योमि᳘ति होवाच॥

मूलम् - Weber

अ᳘थ हैनं विदग्धः शा᳘कल्यः पप्रछ॥
क᳘ति देवा᳘ याज्ञवल्क्ये᳘ति स᳘ हैत᳘यैव᳘ निवि᳘दा प्र᳘तिपेदे या᳘वन्तो वैश्वदेव᳘स्य निवि᳘द्युच्य᳘न्ते त्र᳘यश्च त्री᳘ च शता त्र᳘यश्च त्री᳘ च सहस्रेत्योमि᳘ति होवाच॥

मूलम् - विस्वरम्

शाकल्यब्राह्मणग्रन्थो वा शाकल्यब्राह्मणम् ।

अथ ह एनं विदग्धः शाकल्यः पप्रच्छ । कति देवा याज्ञवल्क्येति । स हैतयैव निविदा प्रतिपेदे । यावन्तो वैश्वदेवस्य निविद्युच्यन्ते । त्रयश्च त्री च शता । त्रयश्च त्री च सहस्रेति ३३०६ ॐ इति होवाच ॥ १ ॥

सायणः

एवं यत्साक्षादित्यादि प्रस्तुत्य सर्वान्तरत्वनिरूपणद्वारा साक्षात्त्वादिकर्मार्थिकं कहोडब्राह्मणत्रयेण निर्द्धारितम् । ततः अन्तर्यामिब्राह्मणे “यः पृथिव्यां तिष्ठन्” इत्यादिश्रुत्या ऽव्याकृतविषये सूत्र-भेदेषु पृथिव्यादिषु नियम्येषु तस्य नियन्तृत्वमुक्तम् । इदानीं नियन्तव्यानां देवताभेदानां प्राणान्तसङ्कोचानन्त्यर्यन्तं वस्तुनिर्द्देश इत्येतदर्थं शाकल्यब्राह्मणमारभ्यते- अथ हैनं व्विदग्धः शाकल्यः इति । ‘अथ’ गार्गीप्रश्ननिर्णयानन्तरं ‘एनं’ याज्ञवल्क्यं शाकल्यापत्यं ‘शाकल्यः’ ‘विदग्धः’ इत्य् एवंनामा ‘पप्रच्छ’ । हे ‘याज्ञवल्क्य’ ! ‘कति’ कियत्सङ्ख्याकाः ‘देवाः’ इत्य् एवं पृष्टः ‘सः’ याज्ञवल्क्यः ‘यावन्तः’ यावत्सङ्ख्याका देवाः ‘वैश्वदेवस्य’ शस्त्रस्य ‘निविदि’ ‘उच्यन्ते’ श्रूयन्ते । तावतो देवान् ‘ह’ किल वक्ष्यमाणया ‘निविदा प्रतिपेदे’ । यां सङ्ख्यां शाकल्यः पृष्टवान् तां सङ्ख्यां निविद्द्वारा ज्ञातवानित्य् अर्थः । निविन्नाम देवतासङ्ख्यावाचकानि मन्त्रपदानि कानिचिद्वैश्वदेवे शस्त्रे शस्यन्ते । तान्य् एव निवित्संज्ञकानि मन्त्रपदानि दर्शयति- त्रयश्च त्री च शतेति । ‘त्रयश्च’ देवाः । देवानां त्रीणि च शतानि । पुनर्प्य् एवं ‘त्रयश्च त्री च सहस्रेति’ त्रीणि सहस्राणि त्र्यधिकानि । इयं त्वेषां मध्यमा सङ्ख्या बहुवचनात् उत्तमा अनन्तसङ्ख्या उक्तैव वेदितव्या । “अनन्ता वै विश्वे देवाः”- ( ) इति पूर्वमुक्तत्वात् । उक्तां सङ्ख्यां शाकल्यो ऽङ्गीकरोतीत्य् आह- ओमिति होवाचेति । ॐ इत्य् अङ्गीकारे। एवमेषां षडधिकत्रिंशताधिकत्रिसहस्रलक्षणा मध्यमा सङ्ख्या सम्यक् त्वया ज्ञातव्येत्य् अर्थः ॥ १ ॥

०२

विश्वास-प्रस्तुतिः

क᳘त्येव᳘ देवा᳘ याज्ञवल्क्ये᳘ति॥
त्र᳘यस्त्रिᳫँ᳭शदित्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्ये᳘ति षडित्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्ये᳘ति त्र᳘य ऽइत्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्ये᳘ति द्वावित्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्येत्य᳘ध्यर्द्ध ऽइत्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्येत्ये᳘क ऽइत्योमि᳘ति होवाच कतमे ते त्र᳘यश्च त्री᳘ च शता त्र᳘यश्च त्री᳘ च सहस्रे᳘ति॥

मूलम् - श्रीधरादि

क᳘त्येव᳘ देवा᳘ याज्ञवल्क्ये᳘ति॥
त्र᳘यस्त्रिᳫँ᳭शदित्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्ये᳘ति षडित्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्ये᳘ति त्र᳘य ऽइत्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्ये᳘ति द्वावित्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्येत्य᳘ध्यर्द्ध ऽइत्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्येत्ये᳘क ऽइत्योमि᳘ति होवाच कतमे ते त्र᳘यश्च त्री᳘ च शता त्र᳘यश्च त्री᳘ च सहस्रे᳘ति॥

मूलम् - Weber

क᳘त्येव᳘ देवा᳘ याज्ञवल्क्ये᳘ति॥
त्र᳘यस्त्रिंशदित्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्ये᳘ति षडित्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्ये᳘ति त्र᳘य इत्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्ये᳘ति द्वावित्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्येत्य᳘ध्यर्ध इत्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्येत्ये᳘क इत्योमि᳘ति होवाच कतमे ते त्र᳘यश्च त्री᳘ च शता त्र᳘यश्च त्री᳘ च सहस्रे᳘ति॥

मूलम् - विस्वरम्

कत्य् एव देवा याज्ञवल्क्येति । त्रयस्त्रिंशदिति । ॐ इति होवाच । कत्य् एव देवा याज्ञवल्क्येति । षडिति । ॐ इति होवाच । कत्य् एव देवा याज्ञवल्क्येति । त्रय इति । ॐ इति होवाच । कत्य् एव देवा याज्ञवल्क्येति । द्वाविति । ॐ इति होवाच । कत्य् एव देवा याज्ञवल्क्येति । अध्यर्द्ध इति । ॐ इति होवाच । कत्य् एव देवा याज्ञवल्क्येति । एक इति । ॐ इति होवाच । कतमे ते त्रयश्च त्री च शता । त्रयश्च त्री च सहस्रेति ॥ २ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

पुनस्तेषामेव देवानां सङ्कोचविषयां सङ्ख्यां पृच्छति- कत्य् एव देवा याज्ञवल्क्येति । त्रयस्त्रिंशत्षट् त्रयो द्वावध्यर्द्ध एक इति देवतासङ्कोचविकासविषयां सङ्ख्यां पृष्ट्वा पुनः सङ्ख्येयस्वरूपं पृच्छति- कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति । व्याख्यातार्थम् ॥ २ ॥

०३

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
महिमा᳘न ऽए᳘वैषामेते त्र᳘यस्त्रिᳫँ᳭श᳘त्त्वेव᳘ देवा ऽइ᳘ति कतमे ते त्र᳘यस्त्रिᳫँ᳭शदि᳘त्यष्टौ व्व᳘सव ऽए᳘कादश रुद्रा द्वा᳘दशादित्यास्त ऽए᳘कत्रिᳫँ᳭शदि᳘न्द्द्रश्चैव᳘ प्प्रजा᳘पतिश्च त्रयस्त्रिᳫँ᳭शावि᳘ति॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
महिमा᳘न ऽए᳘वैषामेते त्र᳘यस्त्रिᳫँ᳭श᳘त्त्वेव᳘ देवा ऽइ᳘ति कतमे ते त्र᳘यस्त्रिᳫँ᳭शदि᳘त्यष्टौ व्व᳘सव ऽए᳘कादश रुद्रा द्वा᳘दशादित्यास्त ऽए᳘कत्रिᳫँ᳭शदि᳘न्द्द्रश्चैव᳘ प्प्रजा᳘पतिश्च त्रयस्त्रिᳫँ᳭शावि᳘ति॥

मूलम् - Weber

स᳘ होवाच॥
महिमा᳘न एॗवैषामेते त्र᳘यस्त्रिंशॗत्त्वेव᳘ देवा इ᳘ति कतमे ते त्र᳘यस्त्रिंशदि᳘त्यष्टौ व᳘सव ए᳘कादश रुद्रा द्वा᳘दशादित्यास्त ए᳘कत्रिंशदि᳘न्द्रश्चैव᳘ प्रजा᳘पतिश्च त्रयस्त्रिंशावि᳘ति॥

मूलम् - विस्वरम्

स होवाच । महिमान एवैषामेते । त्रयस्त्रिंशत्त्व् एव देवा इति । कतमे ते त्रयस्त्रिंशदिति । अष्टौ वसवः । एकादश रुद्राः । द्वादशादित्याः । त एकत्रिंशत् । ८-११-१२=३१ । इन्द्रश्चैव प्रजापतिश्च । त्रयस्त्रिंशाविति ॥ ३१-१-१=३३ ॥ ३ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘सः’ एवं पृष्टो याज्ञवल्क्यः ‘ह उवाच’ । ‘एषां’ त्रयस्त्रिंशतो देवानां ‘एते’ त्रयश्च त्री च शतेत्यादयो ‘महिमानः’ विभूतयः । परमार्थतस्तु ‘त्रयस्त्रिंशदेव देवा इति’ । ‘कतमे’ के ‘त्रयस्त्रिंशदिति’ शाकल्येन पृष्ट इतर आह- ‘अष्टौ वसव एकादश रुद्रा द्वादशादित्याः’ । ‘ते’ एते एकत्रिंशत् । इन्द्रश्चैव प्रजापतिश्चेति ‘त्रयस्त्रिंशौ’ त्रयस्त्रिंशतः पूरणाविति ॥ ३ ॥

०४

विश्वास-प्रस्तुतिः

कतमे व्व᳘सव ऽइ᳘ति॥
(त्य) अग्नि᳘श्च प्पृथिवी᳘ च व्वायुश्चान्त᳘रिक्षाञ्चादित्य᳘श्च द्यौ᳘श्च चन्द्र᳘माश्च न᳘क्षत्राणि चैते व्व᳘सव ऽएते᳘षु हीदᳫँ᳭ स᳘र्व्वम्व᳘सु हितमेते᳘[[!!]] हीदᳫँ᳭ स᳘र्व्वम्वास᳘यन्ते तद्य᳘दिदᳫँ᳭ स᳘र्व्वम्वास᳘यन्ते त᳘स्माद्व᳘सव ऽइ᳘ति॥

मूलम् - श्रीधरादि

कतमे व्व᳘सव ऽइ᳘ति॥
(त्य) अग्नि᳘श्च प्पृथिवी᳘ च व्वायुश्चान्त᳘रिक्षाञ्चादित्य᳘श्च द्यौ᳘श्च चन्द्र᳘माश्च न᳘क्षत्राणि चैते व्व᳘सव ऽएते᳘षु हीदᳫँ᳭ स᳘र्व्वम्व᳘सु हितमेते᳘[[!!]] हीदᳫँ᳭ स᳘र्व्वम्वास᳘यन्ते तद्य᳘दिदᳫँ᳭ स᳘र्व्वम्वास᳘यन्ते त᳘स्माद्व᳘सव ऽइ᳘ति॥

मूलम् - Weber

कतमे व᳘सव इ᳘ति॥
अग्नि᳘श्च पृथिवी᳘ च वायु᳘श्चान्त᳘रिक्षं चादित्य᳘श्च द्यौ᳘श्च न᳘क्षत्राणि चैते व᳘सव एते᳘षु हीदᳫं स᳘र्वं व᳘सु हित᳘मेतेॗ हीदᳫं स᳘र्वं वास᳘यन्ते तद्य᳘दिदᳫं स᳘र्वं वास᳘यन्ते त᳘स्माद्व᳘सव इ᳘ति॥

मूलम् - विस्वरम्

कतमे वसव इति । अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि चैते वसवः । एतेषु हीदं सर्वं वसु हितम् । एते हीदं सर्वं वासयन्ते । तद्यदिदं सर्वं वासयन्ते । तस्माद्वसव इति ॥ ४ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवं सङ्कोचादिभूतसङ्ख्यानिर्णये कृते सङ्ख्येयान् देवान् क्रमेण पृच्छति- कतमे वसव इति । उत्तरमाह- अग्निश्च पृथिवी चेति । अग्न्याद्या नक्षत्रान्ता ‘एते वसवः’ । कथं ? ‘हि’ यस्मात् ‘एतेषु’ अग्न्यादिषु कर्म्मफलसाधनात्मकं ‘सर्वं’ ‘वसु हितं’ स्थितं ‘तस्माद्वसवः’ । ‘हि’ यस्माच्च एते अग्न्यादयः प्राणिनां कर्मफलाश्रयत्वेन कार्यकारणसङ्घातरूपेण तन्निवासत्वेन च विपरिणमन्तो जगदिदं ‘सर्वं वासयन्ते’ । यस्माद्वासयन्ते तस्माद्युक्तं तेषां वसुत्वमित्य् अर्थः ॥ ४ ॥

०५

विश्वास-प्रस्तुतिः

कतमे᳘ रुद्रा ऽइ᳘ति॥
द᳘शेमे पु᳘रुषे प्प्राणा᳘ ऽआ᳘त्मैकादशस्ते᳘ य᳘दा ऽस्मान्म᳘र्त्याच्छ᳘रीरादुत्क्रा᳘मन्त्य᳘थ रोदयन्ति तद्य᳘द्रोद᳘यन्ति त᳘स्माद्रुद्रा ऽइ᳘ति॥

मूलम् - श्रीधरादि

कतमे᳘ रुद्रा ऽइ᳘ति॥
द᳘शेमे पु᳘रुषे प्प्राणा᳘ ऽआ᳘त्मैकादशस्ते᳘ य᳘दा ऽस्मान्म᳘र्त्याच्छ᳘रीरादुत्क्रा᳘मन्त्य᳘थ रोदयन्ति तद्य᳘द्रोद᳘यन्ति त᳘स्माद्रुद्रा ऽइ᳘ति॥

मूलम् - Weber

कतमे᳘ रुद्रा इ᳘ति॥
द᳘शेमे पु᳘रुषे प्राणा᳘ आॗत्मैकादशस्ते᳘ यॗदास्मान्म᳘र्त्याछ᳘रीरादुत्क्रा᳘मन्त्य᳘थ रोदयन्ति तद्य᳘द्रोद᳘यन्ति त᳘स्माद्रुद्रा इ᳘ति॥

मूलम् - विस्वरम्

कतमे रुद्रा इति । दशेमे पुरुषे प्राणाः । आत्मैकादशः । ते यदा ऽस्मान्मर्त्याच्छरीरादुत्क्रामन्ति । अथ रोदयन्ति । तद्यद्रोदयन्ति । तस्माद्रुद्रा इति ॥ ५ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

तथा- कतमे रुद्रा इति । पुरुषशरीरिणः ‘इमे’ प्रसिद्धाः ‘दश प्राणाः’ ज्ञानेन्द्रियकर्मेन्द्रियरूपाः । ‘आत्मा’ मनश्च एकादशसङ्ख्यापूरणः । कथमेषां रुद्रत्वमित्यत आह- ते यदेति । ‘ते’ प्राणाः ‘यदा’ यस्मिन् काले ‘मर्त्यात्’ म्रियमाणाच्छरीरात् ‘उत्क्रामन्ति’ । ‘अथ’ तदा सम्बन्धिभूतान् प्राणिनः ‘रोदयन्ति’ । तत्तस्मिन्नुत्क्रान्तिकाले यस्माद्रोदयन्ति सम्बन्धिनः, ‘तस्मात् रुद्राः’ इति सिद्धं निर्वचनम् ॥ ५ ॥

०६

विश्वास-प्रस्तुतिः

कतम᳘ ऽआदित्या ऽइ᳘ति॥
द्वा᳘दश मा᳘साः सम्वत्सर᳘स्यैत᳘ ऽआदित्या᳘ ऽएते᳘ हीदᳫँ᳭ स᳘र्व्वमाद᳘दाना य᳘न्ति तद्य᳘दिदᳫँ᳭ स᳘र्व्वमाद᳘दाना य᳘न्ति त᳘स्मादादित्या ऽइ᳘ति॥

मूलम् - श्रीधरादि

कतम᳘ ऽआदित्या ऽइ᳘ति॥
द्वा᳘दश मा᳘साः सम्वत्सर᳘स्यैत᳘ ऽआदित्या᳘ ऽएते᳘ हीदᳫँ᳭ स᳘र्व्वमाद᳘दाना य᳘न्ति तद्य᳘दिदᳫँ᳭ स᳘र्व्वमाद᳘दाना य᳘न्ति त᳘स्मादादित्या ऽइ᳘ति॥

मूलम् - Weber

कतम᳘ आदित्या इ᳘ति॥
द्वा᳘दश मा᳘साः संवत्सर᳘स्यैत᳘ आदित्या᳘ एतेॗ हीदᳫं स᳘र्वमाद᳘दाना यन्ति तद्य᳘दिदᳫं स᳘र्वमाद᳘दाना य᳘न्ति त᳘स्मादादित्या इ᳘ति॥

मूलम् - विस्वरम्

कतम आदित्या इति । द्वादश मासाः संवत्सरस्य । एत आदित्याः । एते हीदं सर्वमाददाना यन्ति । तद्यदिदं सर्वमाददाना यन्ति । तस्मादादित्या इति ॥ ६ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

कतम आदित्या इति । संवत्सरात्मकस्य कालस्य ये अवयवाः ‘द्वादश मासाः’ त्वाभिमानिदेवताविशिष्टाः ‘एते आदित्याः’ । कथं ? ‘हि’ यस्मात् । ‘एते’ मासाभिमानिनो देवाः पुनः पुनः परिवर्तमानाः प्राणिनामायूंषि कर्म्मफलं चेतीदं ‘सर्वमाददानाः’ गृह्णन्त उपाददत एव ‘यन्ति’ गच्छन्ति । यस्मादिदं ‘सर्वमाददाना यन्ति’ ‘तस्मादादित्या इति’ ॥ ६ ॥

०७

विश्वास-प्रस्तुतिः

कतम ऽइ᳘न्द्रः कतम᳘श्च प्प्रजा᳘पतिरि᳘ति॥
स्तनयित्नु᳘रेवे᳘न्द्रो यज्ञः᳘ प्प्रजा᳘पतिरि᳘ति कतम᳘ स्तनयित्नुरि᳘त्यश᳘निरि᳘ति कतमो᳘ यज्ञ ऽइ᳘ति पश᳘व ऽइ᳘ति॥

मूलम् - श्रीधरादि

कतम ऽइ᳘न्द्रः कतम᳘श्च प्प्रजा᳘पतिरि᳘ति॥
स्तनयित्नु᳘रेवे᳘न्द्रो यज्ञः᳘ प्प्रजा᳘पतिरि᳘ति कतम᳘ स्तनयित्नुरि᳘त्यश᳘निरि᳘ति कतमो᳘ यज्ञ ऽइ᳘ति पश᳘व ऽइ᳘ति॥

मूलम् - Weber

कतम इ᳘न्द्रः कतमः᳘ प्रजा᳘पतिरि᳘ति॥
स्तनयित्नु᳘रेवे᳘न्द्रो यज्ञः᳘ प्रजा᳘पतिरि᳘ति कतम᳘ स्तनयित्नुरि᳘त्यश᳘निरि᳘ति कतमो᳘ यज्ञ इ᳘ति पश᳘व इ᳘ति॥

मूलम् - विस्वरम्

कतम इन्द्रः । कतमः प्रजापतिरिति । स्तनयित्नुरेवेन्द्रः । यज्ञः प्रजापतिः इति । कतमः स्तनयित्नुरिति । अशनिरिति । कतमो यज्ञ इति । पशव इति ॥ ७ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

कतम इन्द्रः कतमः प्रजापतिरिति । स्तनयित्नुर्मेघनादाभिमानिनी देवतैवेन्द्रः । ‘यज्ञः प्रजापतिः’ । ‘कतमः स्तनयित्नुरिति‘ । ‘अशनिरिति’ । अशनिर्वज्रापरपर्यायं वीर्यं बलम् । तस्य मेघनादाभिमानीन्द्रनिष्ठत्वेन इन्द्रत्वम् । ‘कतमो यज्ञ इति’ । ‘पशव इति’ । पशूनां हि यज्ञसाधनाश्रयत्वात् यज्ञस्यारूपत्वाच्च पशवो यज्ञ इत्य् उच्यन्ते ॥ ७ ॥

०८

विश्वास-प्रस्तुतिः

कतमे षडि᳘ति॥
(त्य) अग्नि᳘श्च प्पृथिवी᳘ च व्वायु᳘श्चान्त᳘रिक्षञ्चादित्य᳘श्च द्यौ᳘श्चैते[[!!]] षडि᳘त्येते᳘ ह्येवेदᳫँ᳭ स᳘र्व्वᳫँ᳭ षडि᳘ति॥

मूलम् - श्रीधरादि

कतमे षडि᳘ति॥
(त्य) अग्नि᳘श्च प्पृथिवी᳘ च व्वायु᳘श्चान्त᳘रिक्षञ्चादित्य᳘श्च द्यौ᳘श्चैते[[!!]] षडि᳘त्येते᳘ ह्येवेदᳫँ᳭ स᳘र्व्वᳫँ᳭ षडि᳘ति॥

मूलम् - Weber

कतमे षडि᳘ति॥
अग्नि᳘श्च पृथिवी᳘ च वायु᳘श्चान्त᳘रिक्षं चादित्य᳘श्च द्यौ᳘श्चैतेॗ ह्येवेदᳫं स᳘र्वं षडि᳘ति॥

मूलम् - विस्वरम्

कतमे षडिति । अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौश्चैते षडिति । एते ह्येवेदं सर्वं षडिति ॥ ८ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

कतमे षडिति । ‘अग्निश्च पृथिवी चेति’ । चन्द्रमसं नक्षत्राणि वर्जयित्वा वसुत्वेन पठिता अग्न्यादय एव षट् भवन्ति । ‘हि’ यस्मात् त्रयस्त्रिंशदादि यदुक्तं ‘इदं सर्वं’ देवजातं ‘एते’ अग्न्यादयः ‘एव षट्’ भवन्ति । सर्वो हि वस्वादिविस्तारः एतेष्वेव वसुषु अन्तर्भवतीत्यर्थः ॥ ८ ॥

०९

विश्वास-प्रस्तुतिः

कतमे ते त्र᳘यो देवा ऽइ᳘ति॥ (ती) इम᳘ ऽएव त्र᳘यो लोका᳘ ऽएषु᳘ हीमे स᳘र्व्वे देवा ऽइ᳘ति कतमौ द्वौ᳘ देवावित्य᳘न्नञ्चैव᳘ प्प्राणश्चे᳘ति कतमो᳘ ऽध्यर्द्ध ऽइ᳘ति᳘ यो ऽयम्प᳘वत ऽइ᳘ति॥

मूलम् - श्रीधरादि

कतमे ते त्र᳘यो देवा ऽइ᳘ति॥ (ती) इम᳘ ऽएव त्र᳘यो लोका᳘ ऽएषु᳘ हीमे स᳘र्व्वे देवा ऽइ᳘ति कतमौ द्वौ᳘ देवावित्य᳘न्नञ्चैव᳘ प्प्राणश्चे᳘ति कतमो᳘ ऽध्यर्द्ध ऽइ᳘ति᳘ यो ऽयम्प᳘वत ऽइ᳘ति॥

मूलम् - Weber

कतमे ते त्र᳘यो देवा इ᳘तीम᳘ एव त्र᳘यो लोका᳘ एषुॗ हीमे स᳘र्वे देवा इ᳘ति कतमौ द्वौ᳘ देवावित्य᳘न्नं चैव᳘ प्राणश्चे᳘ति कतमो᳘ऽध्यर्ध इ᳘तिॗ योऽयम् प᳘वत इ᳘ति॥

मूलम् - विस्वरम्

कतमे ते त्रयो देवा इति । इम एव त्रयो लोकाः । एषु हीमे सर्वे देवा इति । कतमौ तौ द्वौ देवाविति । अन्नं चैव प्राणश्चेति । कतमो ऽध्यर्द्ध इति । यो ऽयं पवत इति ॥ ९ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

कतमे ते त्रयो देवा इति । ‘इम एव त्रयो लोकाः’ इति । पृथिवीमग्निं चैकीकृत्य एको देवः । अन्तरिक्षं वायुं चैकीकृत्य द्वितीयः । दिवमादित्यं चैकीकृत्य तृतीयः । ‘एवमेते एव त्रयो देवाः’ । ‘हि’ यस्मात् । ‘एषु’ अग्न्याद्याः ‘सर्वे देवाः’ अन्तर्भवन्ति । तेन एत एव त्रयो देवा इत्युक्तम् । ‘कतमौ तौ द्वौ देवाविति‘ । ‘अन्नं चैव प्राणश्चेति’ । एतौ द्वावेव देवौ । अनयोः सर्वषामुक्तानां देवानामन्तर्भावः । ‘कतमो ऽध्यर्द्ध इति‘ । ‘यः अयं’ बाह्यो वायुः ‘पवते’ । सः अध्यर्द्ध इति शेषः ॥ ९ ॥

१०

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र्य्य᳘) य᳘दयमे᳘क ऽएव पवते᳘ ऽथ[[!!]] कथम᳘ध्यर्द्ध ऽइ᳘ति य᳘दस्मिन्निदᳫँ᳭ स᳘र्व्वमध्या᳘र्ध्नोत्तेना᳘ध्यर्द्ध ऽइ᳘ति कतम ऽए᳘को देव ऽइ᳘ति स ब्ब्र᳘ह्म त्यदित्या᳘चक्षते॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र्य्य᳘) य᳘दयमे᳘क ऽएव पवते᳘ ऽथ[[!!]] कथम᳘ध्यर्द्ध ऽइ᳘ति य᳘दस्मिन्निदᳫँ᳭ स᳘र्व्वमध्या᳘र्ध्नोत्तेना᳘ध्यर्द्ध ऽइ᳘ति कतम ऽए᳘को देव ऽइ᳘ति स ब्ब्र᳘ह्म त्यदित्या᳘चक्षते॥

मूलम् - Weber

त᳘दाहुः॥
य᳘दयमे᳘क एव प᳘वते᳘ऽथ कथम᳘ध्यर्ध इ᳘ति य᳘दस्मिन्निदᳫं स᳘र्वमध्या᳘र्ध्नोत्तेना᳘ध्यर्ध इ᳘ति कतम ए᳘को देव इ᳘ति स ब्र᳘ह्म त्यदित्या᳘चक्षते॥

मूलम् - विस्वरम्

तदाहुः । यदयमेक एव पवते । अथ कथमध्यर्द्ध इति । यदस्मिन्निदं सर्वमध्यार्ध्नोत् । तेनाध्यर्द्ध इति । कतम एको देव इति । स ब्रह्म । त्यदित्याचक्षते ॥ १० ॥

श्रीमद्वासुदेवब्रह्मभगवान्

तदाहुरिति । तत्र अध्यर्द्धशब्दस्य वायु-विषये उक्ते सति शाकल्यादयो वादिनः आहुश्चोदयन्ति । यद्यतः ‘अयं’ वायुरेकः ‘एव पवते’ वाति । अतः कथं ‘अध्यर्द्धः’ इत्याक्षेपः । योगमाश्रित्य परिहरति- यदस्मिन्निति । यद्यस्मात् ‘अस्मिन्’ वायौ सति ‘इदं सर्वं’ चराचरं ‘अध्यार्ध्नोत्’ अधिकामृ द्धिं प्राप्तम्। ‘तेन’ हेतुना ‘अध्यर्द्धः’ वायुरित्य् अर्थः । ‘कतम एको देव इति’ । ‘स ब्रह्मेति’ । ‘सः’ इति प्राणः परामृश्यते । अष्टाध्याय्यां (श. प. ११ । ६ । ३ । १०) तथा दर्शनात् । ‘सः’ प्राणः ‘ब्रह्म’ सर्वदेवात्मकत्वात् सूत्रात्मरूपेण सर्वकार्याणां भरणाच्च कारण-भूतो महद्-ब्रह्मेत्य् उच्यते । तस्मात्तं प्राणं ‘त्यदिति’ परो ऽक्षाभिधायकेन शब्देनाचक्षते तद्ब्रह्मेति । कथयन्ति । प्राणविद इति शेषः । साक्षान्निर्द्देष्टुमशक्यत्वादिति भावः ॥ १० ॥

११

विश्वास-प्रस्तुतिः

प्पृथि᳘व्येव य᳘स्याय᳘तनम्॥
(ञ्च᳘) च᳘क्षुर्ल्लोको म᳘नो ज्योतिर्य्यो वै तम्पु᳘रुषम्विद्यात्स᳘र्व्वस्यात्म᳘नः परा᳘यणᳫँ᳭ स वै᳘ व्वेदिता᳘ स्याद्याज्ञवल्क्य व्वे᳘द वा᳘ ऽअहन्तम्पु᳘रुषᳫँ᳭ स᳘र्व्वस्यात्म᳘नः परा᳘यणं यमा᳘त्थ य᳘ ऽए᳘वाय᳘ᳫँ᳘ शारीरः पु᳘रुषः स᳘ ऽएष व्व᳘दैव᳘ शाकल्य त᳘स्य का᳘ देवते᳘ति स्त्रि᳘य ऽइ᳘ति होवाच॥

मूलम् - श्रीधरादि

प्पृथि᳘व्येव य᳘स्याय᳘तनम्॥
(ञ्च᳘) च᳘क्षुर्ल्लोको म᳘नो ज्योतिर्य्यो वै तम्पु᳘रुषम्विद्यात्स᳘र्व्वस्यात्म᳘नः परा᳘यणᳫँ᳭ स वै᳘ व्वेदिता᳘ स्याद्याज्ञवल्क्य व्वे᳘द वा᳘ ऽअहन्तम्पु᳘रुषᳫँ᳭ स᳘र्व्वस्यात्म᳘नः परा᳘यणं यमा᳘त्थ य᳘ ऽए᳘वाय᳘ᳫँ᳘ शारीरः पु᳘रुषः स᳘ ऽएष व्व᳘दैव᳘ शाकल्य त᳘स्य का᳘ देवते᳘ति स्त्रि᳘य ऽइ᳘ति होवाच॥

मूलम् - Weber

पृथिॗव्येव य᳘स्याय᳘तनम्॥
च᳘क्षुर्लोको म᳘नोज्योतिर्यो वै तम् पु᳘रुषं विद्यात्स᳘र्वस्यात्म᳘नः परा᳘यणᳫं स वै᳘ वेदिता᳘ स्याद्याज्ञवल्क्य वे᳘द वा᳘ अहं तम् पु᳘रुषᳫं स᳘र्वस्यात्म᳘नः परा᳘यणं यमा᳘त्थ य᳘ एवायं᳘ शारीरः पु᳘रुषः स᳘ एष व᳘दैव᳘ शाकल्य त᳘स्य का᳘ देवते᳘ति स्त्रि᳘य इ᳘ति होवाच॥

मूलम् - विस्वरम्

पृथिव्येव यस्यायतनम् । चक्षुर्लोकः । मनो ज्योतिः । यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणम् । स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ । य एवायं शारीरः पुरुषः स एषः । वदैव शाकल्य । तस्य का देवतेति । स्त्रिय इति होवाच ॥ ११ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

तदेवं सङ्कोचविस्ताराभ्यां प्राणस्वरूपमुक्तम् । इदानीं तस्यैव प्राणस्य ब्रह्मणः पुनरष्टधा भेदो ध्यानार्थमुपदिश्यते- पृथिव्येव यस्यायतनमित्यादिना । ‘यस्य’ देवस्य ‘पृथिव्येवायतनं’ आश्रयः शरीरम् । ‘चक्षुर्लोकः’ लोकयत्यनेनेति लोकः आलोकनसाधनम् । चक्षुषा लोकयति पश्यति सो ऽयं ‘चक्षुर्लोकः’ । ‘मनो ज्योतिः’ । मनसो ज्योतिष सङ्कल्पविकल्पादिकार्यं करोति यः । सो ऽयं ‘मनोज्योतिः’ । पृथिवीशरीरश्चक्षुर्दर्शनो मनसा सङ्कल्पयिता पृथिव्यभिमानी कार्यकारणसङ्घातवान् देव इत्य् अर्थः । ‘यो वै’ एवं विशिष्टं ‘तं पुरुषं’ ‘सर्वस्यात्मनः’ आध्यात्मिकस्य कार्यकारणसङ्घातस्यात्मतः परमयनं पर आश्रयः तं ‘परायणम्’ मातृजेन त्वङ्मांसरुधिररूपेण क्षेत्रस्थानीयेन बीजस्थानीस्य पितृजस्यास्थिमज्जाशुक्ररूपस्य करणात्मनश्च परमयनं ‘विद्यात्’ विजानीयात् । ‘स वै’ स एव ‘वेदिता स्यात्’ य एतदेवं वेत्ति । स एव पण्डितः स्यात् इत्य् अभिप्रायः । हे ‘याज्ञवल्क्य’ ! त्वमजानन्नेव पण्डिताभिमानीत्याशयेन सम्बोधयति । हे शाकल्य ! ‘वै’ निश्चितमहं ‘तं पुरुषं’ ‘वेद’ जानामि । त्वं ‘यं सर्वस्यात्मनः’ ‘परायणमात्थ’ कथयसि । इत्य् उक्ते शाकल्यस्य वचनं द्रष्टव्यम्- “यदि त्वं वेत्थ तं पुरुषं तर्हि ब्रूहि किंविशेषणः असौ ?” शृणु, यद्विशेषणः सः इत्याह- य एवायं शारीरः इति । पार्थिवे ऽशे शरीरे भवः शारीरः मातृकोशत्रयरूप इत्य् अर्थः । ‘स एषः’ देवो यस्त्वया पृष्टः । हे ‘शाकल्य’ ! किंत्वत्र वक्तव्यमस्ति चेत्; विशेषणान्तरं तद्वदैव पृच्छैवेत्यर्थः । एवं प्रक्षोभितः स शाकल्यो ऽमर्षवशग आतोत्रार्द्दितो गज इव आह- ‘तस्य’ शारीरस्य देवस्य ‘का देवता’ किमुत्पत्तिकारणमेव विवक्षितम् । शाकल्यं प्रति मुनिरुत्तरमाह- इति श्रुतिरस्मान् प्रत्याह- स्त्रिय इति होवाचेति । स्त्रीभिर्भुक्तस्यान्नस्य रसो हि मातृजस्य लोहितस्य निष्पत्तिहेतुः । तस्मात् यदन्नरसाल्लोहितं निष्पद्यते स्त्रीणाम् । लोहिताच्च त्वङ्मांसरुधिररूपं बीजस्यास्थिमज्जाशुक्रात्मकस्याश्रयभूतं शरीरं भवति । इति स्त्रीभ्यो निष्पत्तिरिति भावः ॥ ११ ॥

१२

विश्वास-प्रस्तुतिः

रूपा᳘ण्येव य᳘स्याय᳘तनम्॥
(ञ्च᳘) च᳘क्षुर्ल्लोको म᳘नो ज्योतिर्य्यो वै तम्पु᳘रुषम्विद्यात्स᳘र्व्वस्यात्म᳘नः परा᳘यणᳫँ᳭ स वै᳘ व्वेदिता᳘ स्याद्याज्ञवल्क्य व्वे᳘द वा᳘ ऽअहन्तम्पु᳘रुषᳫँ᳭ स᳘र्व्वस्यात्म᳘नः परा᳘यणं यमा᳘त्थ य᳘ ऽए᳘वासा᳘वादित्ये पु᳘रुषः स᳘ ऽएष व्व᳘दैव᳘ शाकल्य त᳘स्य का᳘ देवते᳘ति च᳘क्षुरि᳘ति होवाच॥

मूलम् - श्रीधरादि

रूपा᳘ण्येव य᳘स्याय᳘तनम्॥
(ञ्च᳘) च᳘क्षुर्ल्लोको म᳘नो ज्योतिर्य्यो वै तम्पु᳘रुषम्विद्यात्स᳘र्व्वस्यात्म᳘नः परा᳘यणᳫँ᳭ स वै᳘ व्वेदिता᳘ स्याद्याज्ञवल्क्य व्वे᳘द वा᳘ ऽअहन्तम्पु᳘रुषᳫँ᳭ स᳘र्व्वस्यात्म᳘नः परा᳘यणं यमा᳘त्थ य᳘ ऽए᳘वासा᳘वादित्ये पु᳘रुषः स᳘ ऽएष व्व᳘दैव᳘ शाकल्य त᳘स्य का᳘ देवते᳘ति च᳘क्षुरि᳘ति होवाच॥

मूलम् - Weber

रूपा᳘ण्येव य᳘स्याय᳘तनम्॥
च᳘क्षुर्लोको म᳘नोज्योतिर्यो वै तम् पु᳘रुषं विद्यात्स᳘र्वस्यात्म᳘नः परा᳘यणᳫं स वै᳘ वेदिता᳘ स्याद्याज्ञवल्क्य वे᳘द वा᳘ अहं तम् पु᳘रुषᳫं स᳘र्वस्यात्म᳘नः परा᳘यणं यमा᳘त्थ य᳘ एॗवासा᳘वादित्ये पु᳘रुषः स᳘ एष व᳘दैव᳘ शाकल्य त᳘स्य का देवते᳘ति च᳘क्षुरि᳘ति होवाच॥

मूलम् - विस्वरम्

रूपाण्येव यस्यायतनम् । चक्षुर्लोकः । मनो ज्योतिः । यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणम् । स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषम् । सर्वस्यात्मनः परायणं यमात्थ । य एवासावादित्ये पुरुषः स एषः । वदैव शाकल्य । तस्य का देवतेति । चक्षुरिति होवाच ॥ १२ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवं पर्यायसप्तकं आद्यपर्यायेण तुल्यार्थत्वान्न पृथग्व्याख्यानापेक्षम् इति उत्तर-पर्यायेषु येषां पदानामर्थभेदः तान्य् एव पदानि व्याख्यायन्ते- रूपाण्येव यस्यायतनमिति । ‘रूपाणि’ शुक्लकृष्णादीनि । “चक्षुर्लोकः” इत्यादि सर्वं पूर्ववत् । ‘य एवासावादित्ये पुरुषः इति’ । सर्वेषां हि रूपाणां विशिष्टं कार्यमादित्ये पुरुषः । ‘तस्य का देवतेति’ । ‘चक्षुरिति होवाचेति’ चक्षुषो हि अध्यात्मनः आदित्यस्य अधिदैवतस्य निष्पत्तिः ॥ १२ ॥

१३

विश्वास-प्रस्तुतिः

(चा) आकाश᳘ ऽएव य᳘स्याय᳘तनम्॥
(ञ्च᳘) च᳘क्षुर्ल्लोको म᳘नो ज्योतिर्य्यो वै तम्पु᳘रुषम्विद्यात्स᳘र्व्वस्यात्म᳘नः परा᳘यणᳫँ᳭ स वै᳘ व्वेदिता᳘ स्याद्याज्ञवल्क्य व्वे᳘द वा᳘ ऽअहन्तम्पु᳘रुषᳫँ᳭ स᳘र्व्वस्यात्म᳘नः परा᳘यणं यमा᳘त्थ य᳘ ऽए᳘वाय᳘म्वायौ पु᳘रुषः स᳘ ऽएष व्व᳘दैव᳘ शाकल्य त᳘स्य का᳘ देवते᳘ति प्प्राण ऽइ᳘ति होवाच॥

मूलम् - श्रीधरादि

(चा) आकाश᳘ ऽएव य᳘स्याय᳘तनम्॥
(ञ्च᳘) च᳘क्षुर्ल्लोको म᳘नो ज्योतिर्य्यो वै तम्पु᳘रुषम्विद्यात्स᳘र्व्वस्यात्म᳘नः परा᳘यणᳫँ᳭ स वै᳘ व्वेदिता᳘ स्याद्याज्ञवल्क्य व्वे᳘द वा᳘ ऽअहन्तम्पु᳘रुषᳫँ᳭ स᳘र्व्वस्यात्म᳘नः परा᳘यणं यमा᳘त्थ य᳘ ऽए᳘वाय᳘म्वायौ पु᳘रुषः स᳘ ऽएष व्व᳘दैव᳘ शाकल्य त᳘स्य का᳘ देवते᳘ति प्प्राण ऽइ᳘ति होवाच॥

मूलम् - Weber

आकाश᳘ एव य᳘स्याय᳘तनम्॥
च᳘क्षुर्लोको म᳘नोज्योतिर्यो वै तम् पु᳘रुषं विद्यात्स᳘र्वस्यात्म᳘नः परा᳘यणᳫं स वै᳘ वेदिता᳘ स्याद्याज्ञवल्क्य वे᳘द वा᳘ अहं तम् पु᳘रुषᳫं स᳘र्वस्यात्म᳘नः परा᳘यणं यमा᳘त्थ ॥
य᳘ एॗवायं᳘ वायौ पु᳘रुषः स᳘ एष व᳘दैव शाकल्य त᳘स्य का᳘ देवते᳘ति प्राण इ᳘ति होवाच॥

मूलम् - विस्वरम्

आकाश एव यस्यायतनम् । चक्षुर्लोकः । मनो ज्योतिः । यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणम् । स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषम् । सर्वस्यात्मनः परायणं यमात्थ । य एवायं वायौ पुरुषः स एषः । वदैव शाकल्य । तस्य का देवतेति । प्राण इति होवाच ॥ १३ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘आकाश एव यस्य आयतनम्’ । ‘य एवायं वायौ पुरुष इति’ । आकाशायतनस्य हि पुरुषस्य विशिष्टमायतनं बाह्यो वायुः । ‘तस्य का देवता’ इति । ‘प्राण इति होवाच’ प्राणाद्धि अध्यात्मनो वायुरपि अधिदैवतस्य निष्पत्तिः ॥ १३ ॥

१४

विश्वास-प्रस्तुतिः

का᳘म ऽएव य᳘स्याय᳘तनम्॥
(ञ्च᳘) च᳘क्षुर्ल्लोको म᳘नो ज्योतिर्य्यो वै तम्पु᳘रुषम्विद्यात्स᳘र्व्वस्यात्म᳘नः परा᳘यणᳫँ᳭ स वै᳘ व्वेदिता᳘ स्याद्याज्ञवल्क्य व्वे᳘द वा᳘ ऽअहन्तम्पु᳘रुषᳫँ᳭ स᳘र्व्वस्यात्म᳘नः परा᳘यणं यमा᳘त्थ य᳘ ऽए᳘वासौ᳘ चन्द्द्रे पु᳘रुषः स᳘ ऽएष व्व᳘दैव᳘ शाकल्य त᳘स्य का᳘ देवते᳘ति म᳘न ऽइ᳘ति होवाच॥

मूलम् - श्रीधरादि

का᳘म ऽएव य᳘स्याय᳘तनम्॥
(ञ्च᳘) च᳘क्षुर्ल्लोको म᳘नो ज्योतिर्य्यो वै तम्पु᳘रुषम्विद्यात्स᳘र्व्वस्यात्म᳘नः परा᳘यणᳫँ᳭ स वै᳘ व्वेदिता᳘ स्याद्याज्ञवल्क्य व्वे᳘द वा᳘ ऽअहन्तम्पु᳘रुषᳫँ᳭ स᳘र्व्वस्यात्म᳘नः परा᳘यणं यमा᳘त्थ य᳘ ऽए᳘वासौ᳘ चन्द्द्रे पु᳘रुषः स᳘ ऽएष व्व᳘दैव᳘ शाकल्य त᳘स्य का᳘ देवते᳘ति म᳘न ऽइ᳘ति होवाच॥

मूलम् - Weber

का᳘म एव य᳘स्याय᳘तनम्॥
च᳘क्षुर्लोको म᳘नोज्योतिर्यो वै तम् पु᳘रुषं विद्यात्स᳘र्वस्यात्म᳘नः परा᳘यणᳫं स वै᳘ वेदिता᳘ स्याद्याज्ञवल्क्य वे᳘द वा᳘ अहं तम् पु᳘रुषᳫं स᳘र्वस्यात्म᳘नः परा᳘यणं यमा᳘त्थ ॥
य᳘ एॗवासौ᳘ चन्द्रे पु᳘रुषः स᳘ एष व᳘दैव᳘ शाकल्य त᳘स्य का᳘ देवते᳘ति म᳘न इ᳘ति होवाच॥

मूलम् - विस्वरम्

काम एव यस्यायतनम् । चक्षुर्लोकः । मनो ज्योतिः । यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणम् । स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषम् । सर्वस्यात्मनः परायणं यमात्थ । य एवासौ चन्द्रे पुरुषः स एषः । वदैव शाकल्य । तस्य का देवतेति । मन इति होवाच ॥ १४ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘काम एव यस्यायतनं’ स्त्रीव्यतिकराभिलाषः ‘कामः’ काम-शरीरः पुरुष इत्य् अर्थः । ‘य एवासौ चन्द्रे पुरुषः’ इति । कामायतनस्य हि देवस्य चन्द्रो विशिष्टं कार्यम् । कामिनां हि चन्द्रे प्रीति-विशेषो जायते । ‘तस्य का देवतेति’ । ‘मन इति होवाच’ । मनसो हि अध्यात्मनः चन्द्रस्याधिदैवतस्य निष्पत्तिः ॥ १४ ॥

१५

विश्वास-प्रस्तुतिः

ते᳘ज ऽएव य᳘स्याय᳘तनम्॥
(ञ्च᳘) च᳘क्षुर्ल्लोको म᳘नो ज्योतिर्य्यो वै तम्पु᳘रुषम्विद्यात्स᳘र्व्वस्यात्म᳘नः परा᳘यणᳫँ᳭ स वै᳘ व्वेदिता᳘ स्याद्याज्ञवल्क्य व्वे᳘द वा᳘ ऽअहन्तम्पु᳘रुषᳫँ᳭ स᳘र्व्वस्यात्म᳘नः परा᳘यणं यमा᳘त्थ य᳘ ऽए᳘वाय᳘मग्नौ पु᳘रुषः स᳘ ऽएष व्व᳘दैव᳘ शाकल्य त᳘स्य का᳘ देवते᳘ति व्वागि᳘ति होवाच॥

मूलम् - श्रीधरादि

ते᳘ज ऽएव य᳘स्याय᳘तनम्॥
(ञ्च᳘) च᳘क्षुर्ल्लोको म᳘नो ज्योतिर्य्यो वै तम्पु᳘रुषम्विद्यात्स᳘र्व्वस्यात्म᳘नः परा᳘यणᳫँ᳭ स वै᳘ व्वेदिता᳘ स्याद्याज्ञवल्क्य व्वे᳘द वा᳘ ऽअहन्तम्पु᳘रुषᳫँ᳭ स᳘र्व्वस्यात्म᳘नः परा᳘यणं यमा᳘त्थ य᳘ ऽए᳘वाय᳘मग्नौ पु᳘रुषः स᳘ ऽएष व्व᳘दैव᳘ शाकल्य त᳘स्य का᳘ देवते᳘ति व्वागि᳘ति होवाच॥

मूलम् - Weber

ते᳘ज एव य᳘स्याय᳘तनम्॥
च᳘क्षुर्लोको म᳘नोज्योतिर्यो वै तम् पु᳘रुषं विद्यात्स᳘र्वस्यात्म᳘नः परा᳘यणᳫं स वै᳘ वेदिता᳘ स्याद्याज्ञवल्क्य वे᳘द वा᳘ अहं तम् पु᳘रुषᳫं स᳘र्वस्यात्म᳘नः परा᳘यणं यमा᳘त्थ ॥
य᳘ एॗवाय᳘मग्नौ पु᳘रुषः स᳘ एष व᳘दैव᳘ शाकल्य त᳘स्य का᳘ देवते᳘ति वागि᳘ति होवाच॥

मूलम् - विस्वरम्

तेज एव यस्यायतनम् । चक्षुर्लोकः । मनो ज्योतिः । यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणम् । स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषम् । सर्वस्यात्मनः परायणं यमात्थ । य एवायमग्नौ पुरुषः स एषः । वदैव शाकल्य । तस्य का देवतेति । वागिति होवाच ॥ १५ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘तेज एव यस्यायतनं’ । ‘य एवायमग्नौ पुरुषः’ इति । तेज-आयतनस्य हि देवस्याग्नौ विशेषावस्थानाम् । ‘तस्य का देवतेति’ । ‘वागिति होवाच’ । वाचो हि आध्यात्मिक्या अग्नेरधिदैवतस्य निष्पत्तिः ॥ १५ ॥

१६

विश्वास-प्रस्तुतिः

त᳘म ऽएव य᳘स्याय᳘तनम्॥
(ञ्च᳘) च᳘क्षुर्ल्लोको म᳘नो ज्योतिर्य्यो वै तम्पु᳘रुषम्विद्यात्स᳘र्व्वस्यात्म᳘नः परा᳘यणᳫँ᳭ स वै᳘ व्वेदिता᳘ स्याद्याज्ञवल्क्य व्वे᳘द वा᳘ ऽअहन्तम्पु᳘रुषᳫँ᳭ स᳘र्व्वस्यात्म᳘नः परा᳘यणं यमा᳘त्थ य᳘ ऽए᳘वाय᳘ञ्छायाम᳘यः पु᳘रुषः स᳘ ऽएष व्व᳘दैव᳘ शाकल्य त᳘स्य का᳘ देवते᳘ति मृत्युरि᳘ति होवाच॥

मूलम् - श्रीधरादि

त᳘म ऽएव य᳘स्याय᳘तनम्॥
(ञ्च᳘) च᳘क्षुर्ल्लोको म᳘नो ज्योतिर्य्यो वै तम्पु᳘रुषम्विद्यात्स᳘र्व्वस्यात्म᳘नः परा᳘यणᳫँ᳭ स वै᳘ व्वेदिता᳘ स्याद्याज्ञवल्क्य व्वे᳘द वा᳘ ऽअहन्तम्पु᳘रुषᳫँ᳭ स᳘र्व्वस्यात्म᳘नः परा᳘यणं यमा᳘त्थ य᳘ ऽए᳘वाय᳘ञ्छायाम᳘यः पु᳘रुषः स᳘ ऽएष व्व᳘दैव᳘ शाकल्य त᳘स्य का᳘ देवते᳘ति मृत्युरि᳘ति होवाच॥

मूलम् - Weber

त᳘म एव य᳘स्याय᳘तनम्॥
च᳘क्षुर्लोको म᳘नोज्योतिर्यो वै तम् पु᳘रुषं विद्यात्स᳘र्वस्यात्म᳘नः परा᳘यणᳫं स वै᳘ वेदिता᳘ स्याद्याज्ञवल्क्य वे᳘द वा᳘ अहं तम् पु᳘रुषᳫं स᳘र्वस्यात्म᳘नः परा᳘यणं यमा᳘त्थ ॥
य᳘ एॗवायं᳘ छायाम᳘यः पु᳘रुषः स᳘ एष व᳘दैव᳘ शाकल्य त᳘स्य का᳘ देवते᳘ति मृत्युरि᳘ति होवाच॥

मूलम् - विस्वरम्

तम एव यस्यायतनम् । चक्षुर्लोकः । मनो ज्योतिः । यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणम् । स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषम् । सर्वस्यात्मनः परायणं यमात्थ । य एवायं छायामयः पुरुषः स एषः । वदैव शाकल्य । तस्य का देवतेति । मृत्युरिति होवाच ॥ १६ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘तम एव यस्यायतनम्’ तम इति शार्वरो ऽन्धकारः प्रगृह्यते । अध्यात्मं ‘छायामयः’ अज्ञानमयः ‘पुरुषः’ । ‘तस्य का देवतेति’ । ‘मृत्युरिति होवाच’ । मृत्युरधिदैवतं तस्य निष्पत्तिकारणम् । “मृत्युनैवेदमावृतमासीत्” (श. प. १० । ६ । ५ । १) इति श्रुतेः ॥ १६ ॥

१७

विश्वास-प्रस्तुतिः

(चा᳘) आ᳘प ऽएव य᳘स्याय᳘तनम्॥
(ञ्च᳘) च᳘क्षुर्ल्लोको म᳘नो ज्योतिर्य्यो वै तम्पु᳘रुषम्विद्यात्स᳘र्व्वस्यात्म᳘नः परा᳘यणᳫँ᳭ स वै᳘ व्वेदिता᳘ स्याद्याज्ञवल्क्य व्वे᳘द वा᳘ ऽअहन्तम्पु᳘रुषᳫँ᳭ स᳘र्व्वस्यात्म᳘नः परा᳘यणं यमा᳘त्थ य᳘ ऽए᳘वाय᳘मप्सु पु᳘रुषः स᳘ ऽएष व्व᳘दैव᳘ शाकल्य त᳘स्य का᳘ देवते᳘ति व्व᳘रुण ऽइ᳘ति होवाच॥

मूलम् - श्रीधरादि

(चा᳘) आ᳘प ऽएव य᳘स्याय᳘तनम्॥
(ञ्च᳘) च᳘क्षुर्ल्लोको म᳘नो ज्योतिर्य्यो वै तम्पु᳘रुषम्विद्यात्स᳘र्व्वस्यात्म᳘नः परा᳘यणᳫँ᳭ स वै᳘ व्वेदिता᳘ स्याद्याज्ञवल्क्य व्वे᳘द वा᳘ ऽअहन्तम्पु᳘रुषᳫँ᳭ स᳘र्व्वस्यात्म᳘नः परा᳘यणं यमा᳘त्थ य᳘ ऽए᳘वाय᳘मप्सु पु᳘रुषः स᳘ ऽएष व्व᳘दैव᳘ शाकल्य त᳘स्य का᳘ देवते᳘ति व्व᳘रुण ऽइ᳘ति होवाच॥

मूलम् - Weber

आ᳘प एव य᳘स्याय᳘तनम्॥
च᳘क्षुर्लोको म᳘नोज्योतिर्यो वै तम् पु᳘रुषं विद्यात्स᳘र्वस्यात्म᳘नः परा᳘यणᳫं स वै᳘ वेदिता᳘ स्याद्याज्ञवल्क्य वे᳘द वा᳘ अहं तम् पु᳘रुषᳫं स᳘र्वस्यात्म᳘नः परा᳘यणं यमा᳘त्थ ॥
य᳘ एॗवाय᳘मप्सु पु᳘रुषः स᳘ एष व᳘दैव᳘ शाकल्य त᳘स्य का᳘ देवते᳘ति व᳘रुण इ᳘ति होवाच॥

मूलम् - विस्वरम्

आप एव यस्यायतनम् । चक्षुर्लोकः । मनो ज्योतिः । यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणम् । स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषम् । सर्वस्यात्मनः परायणं यमात्थ । य एवायमप्सु पुरुषः स एषः । वदैव शाकल्य । तस्य का देवतेति । वरुण इति होवाच ॥ १७ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘आप एव यस्यायतनं’ साधारणाः सर्वा आपः प्रगृह्यन्ते । ‘य एवायमप्सु पुरुषः’ इति । वापी-कूप-तडागाद्याश्रयास्वप्सु विशेषावस्थानम् । ‘तस्य का देवतेति’ । ‘वरुण इति होवाच’ वरुणाद्धि व्याप्याद्यपां निष्पत्तिः ॥ १७ ॥

१८

विश्वास-प्रस्तुतिः

रे᳘त ऽएव य᳘स्याय᳘तनम्॥
(ञ्च᳘) च᳘क्षुर्ल्लोको म᳘नो ज्योतिर्य्यो वै तम्पु᳘रुषम्विद्यात्स᳘र्व्वस्यात्म᳘नः परा᳘यणᳫँ᳭ स वै᳘ व्वेदिता᳘ स्याद्याज्ञवल्क्य व्वे᳘द वा᳘ ऽअहन्तम्पु᳘रुषᳫँ᳭ स᳘र्व्वस्यात्म᳘नः परा᳘यणं यमा᳘त्थ य᳘ ऽए᳘वाय᳘म्पुत्रम᳘यः पु᳘रुषः स᳘ ऽएष व्व᳘दैव᳘ शाकल्य त᳘स्य का᳘ देवते᳘ति प्प्रजा᳘पतिरि᳘ति होवाच॥

मूलम् - श्रीधरादि

रे᳘त ऽएव य᳘स्याय᳘तनम्॥
(ञ्च᳘) च᳘क्षुर्ल्लोको म᳘नो ज्योतिर्य्यो वै तम्पु᳘रुषम्विद्यात्स᳘र्व्वस्यात्म᳘नः परा᳘यणᳫँ᳭ स वै᳘ व्वेदिता᳘ स्याद्याज्ञवल्क्य व्वे᳘द वा᳘ ऽअहन्तम्पु᳘रुषᳫँ᳭ स᳘र्व्वस्यात्म᳘नः परा᳘यणं यमा᳘त्थ य᳘ ऽए᳘वाय᳘म्पुत्रम᳘यः पु᳘रुषः स᳘ ऽएष व्व᳘दैव᳘ शाकल्य त᳘स्य का᳘ देवते᳘ति प्प्रजा᳘पतिरि᳘ति होवाच॥

मूलम् - Weber

रे᳘त एव य᳘स्याय᳘तनम्॥
च᳘क्षुर्लोको म᳘नोज्योतिर्यो वै तम् पु᳘रुषं विद्यात्स᳘र्वस्यात्म᳘नः परा᳘यणᳫं स वै᳘ वेदिता᳘ स्याद्याज्ञवल्क्य वे᳘द वा᳘ अहं तम् पु᳘रुषᳫं स᳘र्वस्यात्म᳘नः परा᳘यणं यमा᳘त्थ ॥
य᳘ एॗवाय᳘म् पुत्रम᳘यः पु᳘रुषः स᳘ एष व᳘दैव᳘ शाकल्य त᳘स्य का᳘ देवते᳘ति प्रजा᳘पतिरि᳘ति होवाच॥

मूलम् - विस्वरम्

रेत एव यस्यायतनम् । चक्षुर्लोकः । मनो ज्योतिः । यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणम् । स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषम् । सर्वस्यात्मनः परायणं यमात्थ । य एवायं पुत्रमयः पुरुषः स एषः । वदैव शाकल्य । तस्य का देवतेति । प्रजापतिरिति होवाच ॥ १८ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘रेत एव यस्यायतनम्’ । ‘य एवायं पुत्रमयः पुरुषः’ इति । रेत-आयतनस्य हि विशेषायतनं पुत्रः । पुत्रमय इति चास्थि-मज्जा-शुक्राण्य् अपि तज्जातानि प्रगृह्यन्ते । ‘तस्य का देवतेति’ । ‘प्रजापतिरिति होवाच’ । ‘प्रजापतिः’ पितोच्यते । पितृतो हि पुत्रस्योत्पत्तिः ॥ १८ ॥

१९

विश्वास-प्रस्तुतिः

शा᳘कल्ये᳘ति होवाच या᳘ज्ञवल्क्यः॥
(स्त्वा᳘) त्वा᳘ᳫँ᳘ स्विदिमे᳘ ब्ब्राह्मणा᳘ ऽअङ्गारावक्ष᳘यणमक्रता३ ऽइ᳘ति॥

मूलम् - श्रीधरादि

शा᳘कल्ये᳘ति होवाच या᳘ज्ञवल्क्यः॥
(स्त्वा᳘) त्वा᳘ᳫँ᳘ स्विदिमे᳘ ब्ब्राह्मणा᳘ ऽअङ्गारावक्ष᳘यणमक्रता३ ऽइ᳘ति॥

मूलम् - Weber

शा᳘कल्ये᳘ति होवाच या᳘ज्ञवल्क्यः॥
त्वा᳘ᳫं᳘ स्विदिमे᳘ ब्राह्मणा᳘ अङ्गारावक्ष᳘यणमक्रता३ इ᳘ति॥

मूलम् - विस्वरम्

शाकल्येति होवाच याज्ञवल्क्यः । त्वां स्विदिमे ब्राह्मणा अङ्गारावक्षयणमक्रता ३ इति ॥ १९ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवमष्टधा देव-लोक-पुरुष-भेदेन त्रिधा त्रिधा ऽऽत्मानं विभज्यावस्थित एकैको देवः प्राणभेद एव उपासनार्थमुपदिष्टः । अधुना दिग्विभागेन पञ्चधा विभक्तस्य सर्वस्य जगतो हृदयात्मनि उपसंहारार्थं श्रुतिः प्रवर्तते, तत्र याज्ञवल्क्यो यदपि अस्यावशिष्टं तन्मां पृच्छतु इति चेतसि निधाय, तूष्णींभूतं शाकल्यं ग्रहेणेवावेशयन्नाह- शाकल्येति होवाच याज्ञवल्क्य इति । हे ‘शाकल्य !’ । ‘स्विदिति वितर्के । नूनमिमे ब्राह्मणास्त्वामङ्गारावक्षयणं अङ्गारा अवक्षीयन्ते निरुध्यन्ते यस्मिन् सन्दंशादौ तदङ्गारावक्षयणं सन्दंशादि । तत् ‘अक्रता ३’ इति प्लुतिर्विचारणार्था । ‘अक्रत’ कृतवन्तः इति ‘याज्ञवल्क्यः’ ‘उवाच’ । त्वमङ्गारस्थानीयेन मया दह्यमानमात्मानं न बुध्यसे इत्य् अभिप्रायः ॥ १९ ॥

२०

विश्वास-प्रस्तुतिः

या᳘ज्ञवल्क्ये᳘ति होवाच शा᳘कल्यः॥
(ल्यो᳘) य᳘दिद᳘ङ्कुरुपञ्चाला᳘नाम्ब्राह्मणा᳘नत्य᳘वादीः किम्ब्र᳘ह्म व्विद्वानि᳘ति दि᳘शो व्वेद स᳘देवाः स᳘प्रतिष्ठा ऽइ᳘ति यद्दि᳘शो व्वे᳘त्थ स᳘देवाः स᳘प्रतिष्ठाः॥

मूलम् - श्रीधरादि

या᳘ज्ञवल्क्ये᳘ति होवाच शा᳘कल्यः॥
(ल्यो᳘) य᳘दिद᳘ङ्कुरुपञ्चाला᳘नाम्ब्राह्मणा᳘नत्य᳘वादीः किम्ब्र᳘ह्म व्विद्वानि᳘ति दि᳘शो व्वेद स᳘देवाः स᳘प्रतिष्ठा ऽइ᳘ति यद्दि᳘शो व्वे᳘त्थ स᳘देवाः स᳘प्रतिष्ठाः॥

मूलम् - Weber

या᳘ज्ञवल्क्ये᳘ति होवाच शा᳘कल्यो॥
य᳘दिदं᳘ कुरुपञ्चाला᳘नाम् ब्राह्मणा᳘नत्य᳘वादीः किम् ब्र᳘ह्म विद्वानि᳘ति दि᳘शो वेद 1 स᳘देवाः स᳘प्रतिष्ठा इ᳘ति यद्दि᳘शो वे᳘त्थ स᳘देवाः स᳘प्रतितिष्ठाः॥

मूलम् - विस्वरम्

याज्ञवल्क्येति होवाच शाकल्यः । यदिदं कुरुपञ्चालानां ब्राह्मणानत्यवादीः । किं ब्रह्म विद्वानिति । दिशो वेद सदेवाः सप्रतिष्ठाः इति । यद्दिशो वेत्थ सदेवाः सप्रतिष्ठाः ॥ २० ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवमुक्तं हितोपदेशं शाकल्यो विपरीतार्थं गृहीत्वा चोदयतीत्य् आह- याज्ञवल्क्येति होवाच शाकल्य इति । हे ‘याज्ञवल्क्य’ त्वं ‘यत्’ ‘इदं कुरुपञ्चालानां’ ‘ब्राह्मणान् अत्यवादीः’ उक्तवानसि स्वयं भीतास्त्वामङ्गारावक्षयणं कृतवन्त इति । तत्किं ‘ब्रह्म विद्वान्’ जानन् सन् एवं ब्राह्मणानधिक्षिपसि ‘इति शाकल्य उवाच’ । एवमुक्तो याज्ञवल्क्यो मम दिग्विषयं ब्रह्म-विज्ञानं तावदस्तीत्य् आह- दिशो वेदेति । अहं ‘दिशो वेद’ जाने । दिग्विषये विज्ञानं ममास्तीत्य् अर्थः । तच्च न केवलं दिङ्मात्रं जाने । अपि तु- ‘सदेवाः’ देवैर्दिगधिष्ठातृभिः सह वर्तमानाः । किंच- ‘सप्रतिष्ठाः’ दिशः ‘वेद’ जानामीति पुनः पृच्छति शाकल्यः- सकलं दिग्विज्ञानं यदि त्वया प्रतिज्ञातम् ॥ २० ॥

२१

विश्वास-प्रस्तुतिः

कि᳘न्देवतो ऽस्याम्प्रा᳘च्यान्दि᳘श्यसी᳘ति[[!!]]॥
(त्या) आदित्य᳘देवत ऽइ᳘ति स ऽआदित्यः क᳘स्मिन्प्र᳘तिष्ठित ऽइ᳘ति च᳘क्षुषी᳘ति क᳘स्मिन्नु च᳘क्षुः प्प्र᳘तिष्ठितम्भवती᳘ति रूपेष्वि᳘ति च᳘क्षुषा हि᳘ रूपा᳘णि प᳘श्यति क᳘स्मिन्नु᳘ रूपा᳘णि प्प्र᳘तिष्ठितानि भवन्ती᳘ति हृ᳘दय ऽइ᳘ति हृ᳘दयेन हि[[!!]] रूपा᳘णि जाना᳘ति हृ᳘दये᳘[[!!]] ह्येव᳘ रूपा᳘णि प्प्र᳘तिष्ठितानि भवन्ती᳘त्येव᳘मे᳘वैत᳘द्याज्ञवल्क्य॥

मूलम् - श्रीधरादि

कि᳘न्देवतो ऽस्याम्प्रा᳘च्यान्दि᳘श्यसी᳘ति[[!!]]॥
(त्या) आदित्य᳘देवत ऽइ᳘ति स ऽआदित्यः क᳘स्मिन्प्र᳘तिष्ठित ऽइ᳘ति च᳘क्षुषी᳘ति क᳘स्मिन्नु च᳘क्षुः प्प्र᳘तिष्ठितम्भवती᳘ति रूपेष्वि᳘ति च᳘क्षुषा हि᳘ रूपा᳘णि प᳘श्यति क᳘स्मिन्नु᳘ रूपा᳘णि प्प्र᳘तिष्ठितानि भवन्ती᳘ति हृ᳘दय ऽइ᳘ति हृ᳘दयेन हि[[!!]] रूपा᳘णि जाना᳘ति हृ᳘दये᳘[[!!]] ह्येव᳘ रूपा᳘णि प्प्र᳘तिष्ठितानि भवन्ती᳘त्येव᳘मे᳘वैत᳘द्याज्ञवल्क्य॥

मूलम् - Weber

किं᳘देवतोऽस्याम् प्रा᳘च्यां दिश्य᳘सी᳘ति॥
आदित्य᳘देवत इ᳘ति स आदित्यः क᳘स्मिन्प्र᳘तिष्ठित इ᳘ति च᳘क्षुषी᳘ति क᳘स्मिन्नु च᳘क्षुः प्र᳘तिष्ठितम् भवती᳘ति रूपेष्वि᳘ति च᳘क्षुषा हि᳘ रूपा᳘णि प᳘श्यति क᳘स्मिन्नु᳘ रूपा᳘णि प्र᳘तिष्ठितानि भवन्ती᳘ति हृ᳘दय इ᳘ति हृ᳘दयेन हि᳘ रूपा᳘णि जाना᳘ति हृ᳘दयेॗ ह्येव᳘ 2 रूपा᳘णि प्र᳘तिष्ठितानि भवन्ती᳘त्येव᳘मेॗवैत᳘द्याज्ञवल्क्य॥

मूलम् - विस्वरम्

किंदेवतो ऽस्यां प्राच्यां दिश्यसीति । आदित्यदेवत इति । स आदित्यः कस्मिन्प्रतिष्ठित इति । चक्षुषीति । कस्मिन्नु चक्षुः प्रतिष्ठितं भवतीति । रूपेष्विति । चक्षुषा हि रूपाणि पश्यति । कस्मिन्नु रूपाणि प्रतिष्ठितानि भवन्तीति । हृदय इति । हृदयेन हि रूपाणि जानाति । हृदये ह्य् एव रूपाणि प्रतिष्ठितानि भवन्तीति । एवमेवैतद्याज्ञवल्क्य ॥ २१ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

तर्हि हे याज्ञवल्क्य ! त्वं ‘अस्यां प्राच्यां दिशि’ ‘किंदेवतो ऽसि’ का देवता यस्यासौ किंदेवतः । कया देवतया त्वं प्राचीदिग्रूपेण सम्पन्न इत्य् अर्थः । अस्या दिशः का देवतेति प्रष्टव्ये ‘किंदेवतः’ इति प्रश्नकरणं मुनेर्दिगुपासनात् तादात्म्यसम्पत्तिर्जातेति बोधयितुम् । स हि याज्ञवल्क्यो दिक्षु पञ्चधा विभक्तं दिगात्मभूतं हृदयात्मानं तद्द्वारेण सर्वजगदात्मत्वेनोपगम्याहमस्मि दिगात्मेति पूर्वाभिमुखो व्यवस्थित आह- आदित्यदेवत इति । प्राच्यां दिशि आदित्यो देवता यस्य मम सो ऽहमादित्यदेवतः । तथा देवतया प्राचीदिग्रूपमापन्न इत्य् अर्थः । “सदेवाः” इत्य् उक्तम् । “सप्रतिष्ठाः” इति तु वक्तव्यमित्य् अत आह- स आदित्यः कस्मिन् प्रतिष्ठित इति । स्वोत्पत्तिकारणे एव प्रतिष्ठितत्वमाह- चक्षुषीति । “चक्षोः सूर्यो अजायत”- (वा. सं. ३१-१२) इति मन्त्रवर्णात् । कार्यं हि कारणे प्रतिष्ठितं भवति । पुनश्चक्षुरुत्पादकं पृच्छति- कस्मिन्नु चक्षुः प्रतिष्ठितं भवतीति । उत्तरमाह- रूपेष्विति । अत्र हेतुमाह- चक्षुषा हि रूपाणि पश्यतीति । अतो रूपारब्धं चक्षुः व्यञ्जकस्य व्यङ्ग्यसमानजातीयत्वात् । रूपोत्पादकं पृच्छति- कस्मिन्नु रूपाणि प्रतिष्ठितानि भवन्तीति । उत्तरमाह- हृदये इति । हृदयमिति बुद्धिमनसी एकीकृत्य निर्द्देशः । न तु मांस-खण्ड-विषयः । हृदयारब्धानि रूपाणि रूपाकारेण हृदये परिणतानि । अत्र हेतुः- ‘हि’ यस्मात् ‘हृदयेन’ हृदय-स्थ-बुद्ध्या सर्वो लोकः ‘रूपाणि’ सर्वाणि ‘जानाति’ । बुद्ध्यभिन्नमनोमात्रकल्पितानीति स्मरतीत्य् अर्थः । तस्मात् ‘हृदये ह्य् एव’ सर्वाणि वासनात्मकानि ‘रूपाणि’ ‘प्रतिष्ठितानि’ भवन्तीत्य् उपसंहृते शाकल्यो ऽङ्गीकरोति- एवमेवैतदिति । हे ‘याज्ञवल्क्य’ ! ‘एतत्’ त्वदुक्तं ‘एवमेव’ । मया ऽप्य् एवं ज्ञायत इत्य् अर्थः ॥ २१ ॥

२२

विश्वास-प्रस्तुतिः

कि᳘न्देवतो ऽस्यान्द᳘क्षिणायान्दि᳘श्यसी᳘ति[[!!]]॥
यम᳘देवत ऽइ᳘ति स᳘ यमः क᳘स्मिन्प्र᳘तिष्ठित ऽइ᳘ति द᳘क्षिणायामि᳘ति क᳘स्मिन्नु द᳘क्षिणा प्प्र᳘तिष्ठिता भवती᳘ति श्रद्धा᳘यामि᳘ति यदा᳘ ह्येव᳘ श्रद्धत्ते᳘ ऽथ द᳘क्षिणान्ददाति श्रद्धा᳘या᳘ᳫँ᳘ ह्येव द᳘क्षिणा प्प्र᳘तिष्ठिता भवती᳘ति क᳘स्मिन्नु᳘ श्रद्धा प्प्र᳘तिष्ठिता भवती᳘ति हृ᳘दय ऽइ᳘ति हृ᳘दयेन हि᳘ श्रद्धत्ते हृ᳘दये᳘ ह्येव᳘ श्रद्धा प्प्र᳘तिष्ठिता भ᳘वती᳘त्येव᳘मे᳘वैत᳘द्याज्ञवल्क्य॥

मूलम् - श्रीधरादि

कि᳘न्देवतो ऽस्यान्द᳘क्षिणायान्दि᳘श्यसी᳘ति[[!!]]॥
यम᳘देवत ऽइ᳘ति स᳘ यमः क᳘स्मिन्प्र᳘तिष्ठित ऽइ᳘ति द᳘क्षिणायामि᳘ति क᳘स्मिन्नु द᳘क्षिणा प्प्र᳘तिष्ठिता भवती᳘ति श्रद्धा᳘यामि᳘ति यदा᳘ ह्येव᳘ श्रद्धत्ते᳘ ऽथ द᳘क्षिणान्ददाति श्रद्धा᳘या᳘ᳫँ᳘ ह्येव द᳘क्षिणा प्प्र᳘तिष्ठिता भवती᳘ति क᳘स्मिन्नु᳘ श्रद्धा प्प्र᳘तिष्ठिता भवती᳘ति हृ᳘दय ऽइ᳘ति हृ᳘दयेन हि᳘ श्रद्धत्ते हृ᳘दये᳘ ह्येव᳘ श्रद्धा प्प्र᳘तिष्ठिता भ᳘वती᳘त्येव᳘मे᳘वैत᳘द्याज्ञवल्क्य॥

मूलम् - Weber

किं᳘देवतोऽस्यां द᳘क्षिणायां 3 दिश्य᳘सी᳘ति॥
यम᳘देवत इ᳘ति स᳘ यमः क᳘स्मिन्प्र᳘तिष्ठित इ᳘ति द᳘क्षिणायामि᳘ति क᳘स्मिन्नु द᳘क्षिणा प्र᳘तिष्ठिता भवती᳘ति श्रद्धा᳘यामि᳘ति यदाॗ ह्येव᳘ श्रद्धत्ते᳘ऽथ द᳘क्षिणां ददाति श्रद्धा᳘याॗᳫंॗ ह्येव द᳘क्षिणा प्र᳘तिष्ठिता भवती᳘ति क᳘स्मिन्नु᳘ श्रद्धा प्र᳘तिष्ठिता भवती᳘ति हृ᳘दय इ᳘ति हृ᳘दयेन हि᳘ श्रद्धत्ते हृ᳘दयेॗ ह्येव᳘ 4 श्रद्धा प्र᳘तिष्ठिता भ᳘वती᳘त्येव᳘मेॗवैत᳘द्याज्ञवल्क्य॥

मूलम् - विस्वरम्

किंदेवतो ऽस्यां दक्षिणायां दिश्यसीति । यमदेवत इति । स यमः कस्मिन्प्रतिष्ठित इति । दक्षिणायामिति । कस्मिन्नु दक्षिणा प्रतिष्ठिता भवतीति । श्रद्धायामिति । यदा ह्य् एव श्रद्धत्ते । अथ दक्षिणां ददाति । श्रद्धायां ह्य् एव दक्षिणा प्रतिष्ठिता भवतीति । कस्मिन्नु श्रद्धा प्रतिष्ठिता भवतीति । हृदय इति । हृदयेन हि श्रद्धत्ते हृदये ह्य् एव श्रद्धा प्रतिष्ठिता भवति । एवमेवैतद्याज्ञवल्क्य ॥ २२ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“किंदेवतो ऽस्यां दक्षिणायां दिश्यसीति” । पूर्ववत्सामान्यतो ऽर्थो बोद्धव्यः । विशेषस्तु कथ्यते । तव दक्षिणायां दिशि का देवता । ‘यमदेवत इति’ । मम दक्षिणादिग्भूतस्य यमो देवता । ‘स यमः’ धर्मराजः ‘कस्मिन्प्रतिष्ठित इति’ । ‘दक्षिणायामिति’ । सयमा हि दक्षिणा दिक् । यमस्य तत्राधिपत्यात् । ‘कस्मिन्नु दक्षिणा प्रतिष्ठिता भवतीति’ पृष्टो मुनिः- “दक्षिणा दक्षतेः समर्द्धयतिकर्मणो व्यृद्धं समर्द्धयति”- (निरु. १ । ३-७) इति निरुक्तमाश्रित्योत्तरमाह- श्रद्धयामिति । श्रद्धा नाम भक्तिसहिता आस्तिक्यबुद्धिर्दित्सुत्वलक्षणा । तस्यां कथं प्रतिष्ठिता दक्षिणेति । ‘हि’ यस्मात् ‘यदेव श्रद्धत्ते’ श्रद्धां करोति । ‘अथ’ तदा ‘दक्षिणां ददाति’ नाश्रद्दधद्दक्षिणां ददाति । तस्मात् ‘श्रद्धायां ह्य् एव दक्षिणा प्रतिष्ठितेति’ । ‘कस्मिन्नु श्रद्धा प्रतिष्ठितेति’ । ‘हृदय इति’ हृदयस्य हि वृत्तिः श्रद्धा । ‘हि’ यस्मात् ‘हृदयेन श्रद्धत्ते’ । वृत्तिश्च वृत्तिमति प्रतिष्ठिता भवति । तस्मात् ‘हृदये ह्य् एव श्रद्धा प्रतिष्ठिता भवति’ । ‘इत्य् एवमेवैतद्याज्ञवल्क्य’ इति । पूर्ववत् ॥ २२ ॥

२३

विश्वास-प्रस्तुतिः

कि᳘न्देवतो ऽस्या᳘म्प्रती᳘च्यान्दि᳘श्यसी᳘ति[[!!]]॥
व्व᳘रुणदेवत ऽइ᳘ति स व्व᳘रुणः क᳘स्मिन्प्र᳘तिष्ठित ऽइ᳘त्यप्स्वि᳘ति क᳘स्मिन्न्वा᳘पः प्प्र᳘तिष्ठिता भवन्ती᳘ति रे᳘तसी᳘ति क᳘स्मिन्नु रे᳘तः प्प्र᳘तिष्ठितम्भवती᳘ति हृ᳘दय ऽइ᳘ति त᳘स्माद᳘पि प्प्र᳘तिरूपञ्जात᳘माहुहृ᳘दयादिव सृ᳘प्तो हृ᳘दयादिव नि᳘र्म्मित ऽइ᳘ति हृ᳘दये᳘ ह्येव रे᳘तः प्प्र᳘तिष्ठितम्भवती᳘त्येव᳘मे᳘वैत᳘द्याज्ञवल्क्य॥

मूलम् - श्रीधरादि

कि᳘न्देवतो ऽस्या᳘म्प्रती᳘च्यान्दि᳘श्यसी᳘ति[[!!]]॥
व्व᳘रुणदेवत ऽइ᳘ति स व्व᳘रुणः क᳘स्मिन्प्र᳘तिष्ठित ऽइ᳘त्यप्स्वि᳘ति क᳘स्मिन्न्वा᳘पः प्प्र᳘तिष्ठिता भवन्ती᳘ति रे᳘तसी᳘ति क᳘स्मिन्नु रे᳘तः प्प्र᳘तिष्ठितम्भवती᳘ति हृ᳘दय ऽइ᳘ति त᳘स्माद᳘पि प्प्र᳘तिरूपञ्जात᳘माहुहृ᳘दयादिव सृ᳘प्तो हृ᳘दयादिव नि᳘र्म्मित ऽइ᳘ति हृ᳘दये᳘ ह्येव रे᳘तः प्प्र᳘तिष्ठितम्भवती᳘त्येव᳘मे᳘वैत᳘द्याज्ञवल्क्य॥

मूलम् - Weber

किं᳘देवतोऽस्या᳘म् प्रती᳘च्यां दिश्य᳘सी᳘ति॥
व᳘रुणदेवत इ᳘ति स व᳘रुणः क᳘स्मिन्प्र᳘तिष्ठित इ᳘त्यप्स्वि᳘ति क᳘स्मिन्न्वा᳘पः प्र᳘तिष्ठिता भवन्ती᳘ति रे᳘तसी᳘ति क᳘स्मिन्नु रे᳘तः प्र᳘तिष्ठितम् भवती᳘ति हृ᳘दय इ᳘ति त᳘स्माद᳘पि प्र᳘तिरूपं 5 जात᳘माहुर्हृ᳘दयादिव सृ᳘प्तो हृ᳘दयादिव नि᳘र्मित इ᳘ति हृ᳘दयेॗ ह्येव 6 रे᳘तः प्र᳘तिष्ठितम् भवती᳘त्येव᳘मेॗवैत᳘द्याज्ञवल्क्य॥

मूलम् - विस्वरम्

किंदेवतो ऽस्यां प्रतीच्यां दिश्यसीति । वरुणदेवत इति । स वरुणः कस्मिन्प्रतिष्ठित इति । अप्स्विति । कस्मिन्नु आपः प्रतिष्ठिता भवन्तीति । रेतसीति । कस्मिन्नु रेतः प्रतिष्ठितं भवतीति । हृदय इति । तस्मादपि प्रतिरूपं जातमाहुः- हृदयादिव सृप्तो हृदयादिव निर्मित इति । हृदये ह्य् एव रेतः प्रतिष्ठितं भवतीति । एवम् एवैतद्याज्ञवल्क्य ॥ २३ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘किंदेवतो ऽस्यां प्रतीच्यां दिश्यसीति’ । तस्यां वरुणो ऽधिदेवता । मम प्रतीची-दिग्-भूतस्य स वरुणो देवता । ‘स वरुणः कस्मिन्प्रतिष्ठित इति’ । ‘अप्स्विति’ । अपां हि वरुणः कार्यम् । “श्रद्धा वा आपः” । “श्रद्धातो वरुणमसृजत” इति श्रुत्य् अन्तरात् । ‘आपश्च रेतसि प्रतिष्ठिता इति’ । “रेतसो ह्य् आपः सृष्टाः” इति श्रुत्य् अन्तरात् । तच्च रेतो हृदये । यस्मात् हृदयस्य कार्यं रेतः कामो हृदयस्य वृत्तिः । कामिनां हि हृदयाद्रेतः अवस्कन्दति । अत्रैव लोकप्रसिद्धिमाह- तस्मादपीति । ‘तस्मादपि’ प्रतिरूपमनुरूपं पुत्रं ‘जातं’ आहुर्लौकिकाः । अस्य पितुर्हृदयादिवायं पुत्रः ‘सृप्तः’ विनिःसृतः । ‘हृदयादिव निर्मितः’ । यथा सुवर्णेन निर्मितः कुण्डलः, एवमित्य् अर्थः ॥ २३ ॥

२४

विश्वास-प्रस्तुतिः

कि᳘न्देवतो ऽस्या᳘मुदी᳘च्यान्दि᳘श्यसी᳘ति[[!!]]॥
सो᳘मदेवत ऽइ᳘ति स सो᳘मः क᳘स्मिन्प्र᳘तिष्ठित ऽइ᳘ति दीक्षा᳘यामि᳘ति क᳘स्मिन्नु᳘ दीक्षा प्प्र᳘तिष्ठिता भवती᳘ति सत्य ऽइ᳘ति त᳘स्माद᳘पि दीक्षित᳘माहुः सत्य᳘म्वदे᳘ति सत्ये᳘ ह्येव᳘ दीक्षा प्प्र᳘तिष्ठिता भवती᳘ति क᳘स्मिन्नु᳘ सत्यम्प्र᳘तिष्ठितम्भवती᳘ति हृ᳘दय ऽइ᳘ति हृ᳘दयेन हि᳘ सत्य᳘ञ्जाना᳘ति हृ᳘दये᳘ ह्येव᳘ सत्यम्प्र᳘तिष्ठितम्भवती᳘त्येव᳘मे᳘वैत᳘द्याज्ञवल्क्य॥

मूलम् - श्रीधरादि

कि᳘न्देवतो ऽस्या᳘मुदी᳘च्यान्दि᳘श्यसी᳘ति[[!!]]॥
सो᳘मदेवत ऽइ᳘ति स सो᳘मः क᳘स्मिन्प्र᳘तिष्ठित ऽइ᳘ति दीक्षा᳘यामि᳘ति क᳘स्मिन्नु᳘ दीक्षा प्प्र᳘तिष्ठिता भवती᳘ति सत्य ऽइ᳘ति त᳘स्माद᳘पि दीक्षित᳘माहुः सत्य᳘म्वदे᳘ति सत्ये᳘ ह्येव᳘ दीक्षा प्प्र᳘तिष्ठिता भवती᳘ति क᳘स्मिन्नु᳘ सत्यम्प्र᳘तिष्ठितम्भवती᳘ति हृ᳘दय ऽइ᳘ति हृ᳘दयेन हि᳘ सत्य᳘ञ्जाना᳘ति हृ᳘दये᳘ ह्येव᳘ सत्यम्प्र᳘तिष्ठितम्भवती᳘त्येव᳘मे᳘वैत᳘द्याज्ञवल्क्य॥

मूलम् - Weber

किं᳘देवतोऽस्या᳘मुदी᳘च्यां दिश्य᳘सी᳘ति॥
सो᳘मदेवत इ᳘ति स सो᳘मः क᳘स्मिन्प्र᳘तिष्ठित इ᳘ति दीक्षा᳘यामि᳘ति क᳘स्मिन्नु᳘ दीक्षा प्र᳘तिष्ठिता भवती᳘ति सत्य इ᳘ति त᳘स्माद᳘पि दीक्षित᳘माहुः सत्यं᳘ वदे᳘ति सत्येॗ ह्येव᳘ दीक्षा प्र᳘तिष्ठिता भवती᳘ति क᳘स्मिन्नु᳘ सत्यम् प्र᳘तिष्ठितम् भवती᳘ति हृ᳘दय इ᳘ति हृ᳘दयेन हि᳘ सत्यं᳘ जाना᳘ति हृ᳘दयेॗ ह्येव᳘ 7 सत्यम् प्र᳘तिष्ठितम् भवती᳘त्येव᳘मेॗवैत᳘द्याज्ञवल्क्य॥

मूलम् - विस्वरम्

किंदेवतो ऽस्यामुदीच्यां दिश्यसीति । सोम-देवत इति । स सोमः कस्मिन्प्रतिष्ठित इति। दीक्षायामिति । कस्मिन्नु दीक्षा प्रतिष्ठिता भवतीति । सत्य इति । तस्मादपि दीक्षितमाहुः- सत्यं वदेति । सत्ये ह्य् एव दीक्षा प्रतिष्ठिता भवतीति । कस्मिन्नु सत्यं प्रतिष्ठितं भवतीति । हृदय इति । हृदयेन हि सत्यं जानाति । हृदये ह्य् एव सत्यं प्रतिष्ठितं भवतीति । एवमेवैतद्याज्ञवल्क्य ॥ २४ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘किंदेवतो ऽस्यामुदीच्यां दिश्यसीति’ । ‘सोम-देवत इति’ । अत्र सोम-लतां सोम-देवतां चैकीकृत्य निर्द्देशः । ‘स सोमो दीक्षायां प्रतिष्ठित इति’। दीक्षितो हि यजमानः सोमं क्रीणाति । क्रीतेन सोमेनेष्ट्वा ज्ञानवान् सोम-देवता ऽधिष्ठितां सौम्यामुत्तरां दिशं प्रतिपद्यत इति भावः । सा च दीक्षा सत्ये यस्मात्प्रतिष्ठिता । ‘तस्मादपि’ तस्मादेव ‘दीक्षितं सत्यं वदेत्य् आहुः’ । कारण-नाशो कार्य-नाशो मा भूत्, इत्य् अभिप्रायवन्तः पण्डिता इति शेषः ॥ २४ ॥

२५

विश्वास-प्रस्तुतिः

कि᳘न्देवतो ऽस्या᳘न्द्ध्रु᳘वा᳘यान्दि᳘श्यसी᳘ति[[!!]]॥
(त्य᳘) अग्नि᳘देवत ऽइ᳘ति᳘ सो ऽग्निः क᳘स्मिन्प्र᳘तिष्ठित ऽइ᳘ति व्वाची᳘ति क᳘स्मिन्नु व्वाक्प्र᳘तिष्ठिता भवती᳘ति म᳘नसी᳘ति क᳘स्मिन्नु म᳘नः प्प्र᳘तिष्ठितम्भवती᳘ति हृ᳘दय ऽइ᳘ति क᳘स्मिन्नु हृ᳘दयम्प्र᳘तिष्ठितम्भवती᳘ति॥

मूलम् - श्रीधरादि

कि᳘न्देवतो ऽस्या᳘न्द्ध्रु᳘वा᳘यान्दि᳘श्यसी᳘ति[[!!]]॥
(त्य᳘) अग्नि᳘देवत ऽइ᳘ति᳘ सो ऽग्निः क᳘स्मिन्प्र᳘तिष्ठित ऽइ᳘ति व्वाची᳘ति क᳘स्मिन्नु व्वाक्प्र᳘तिष्ठिता भवती᳘ति म᳘नसी᳘ति क᳘स्मिन्नु म᳘नः प्प्र᳘तिष्ठितम्भवती᳘ति हृ᳘दय ऽइ᳘ति क᳘स्मिन्नु हृ᳘दयम्प्र᳘तिष्ठितम्भवती᳘ति॥

मूलम् - Weber

किं᳘देवतोऽस्यां᳘ 8 ध्रुवा᳘या+ दिश्य᳘सी᳘ति॥
अग्नि᳘देवत इ᳘तिॗ सोऽग्निः क᳘स्मिन्प्र᳘तिष्ठित इ᳘ति वाची᳘ति क᳘स्मिन्नु वाक्प्र᳘तिष्ठिता भवती᳘ति म᳘नसी᳘ति क᳘स्मिन्नु म᳘नः प्र᳘तिष्ठितम् भवती᳘ति हृ᳘दय इ᳘ति क᳘स्मिन्नु हृ᳘दयम् प्र᳘तिष्ठितम् भवती᳘ति 9

मूलम् - विस्वरम्

किंदेवतो ऽस्यां ध्रुवायां दिश्यसीति । अग्नि-देवत इति । सो ऽग्निः कस्मिन्प्रतिष्ठित इति । वाचीति। कस्मिन्नु वाक् प्रतिष्ठिता भवतीति । मनसीति । कस्मिन्नु मनःप्रतिष्ठितं भवतीति । हृदय इति । कस्मिन्नु हृदयं प्रतिष्ठितं भवतीति ॥ २५ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘किंदेवतो ऽस्यां ध्रुवायां दिश्यसीति’ । मेरोः समन्ततो वसताम् अव्यभिचारात् ऊर्ध्वा दिक् ध्रुवेत्य् उच्यते । ऊर्ध्वायां हि प्रकाश-भूयस्त्वादग्निर्देवता । स चाग्निर्वाचि प्रतिष्ठितः । सा च वाङ्-मनसि प्रतिष्ठिता । “मनसा वा इयं वाग् धृता मनो वा इदं पुरस्ताद्वाच इत्थं वद मैतद्वादीरित्यलग्लमिव ह वै वाग् वदेद्यन्मनो न स्यात्तस्मादाह धृता मनसेति” (श. प. ३ । २ । ४ ।११) इत्य् अध्वरे श्रुतत्वात् वाचो मनसि प्रतिष्ठितत्वं युक्तम् । तस्य च मनसोविलासरूपत्वात् अर्थान्मनोद्वारा हृदये उपसंहार उक्तः । तच्च सर्वात्मकं हृदयं पृच्छति- -कस्मिन्नु हृदयं प्रतिष्ठितं भवतीति ॥ २५ ॥

२६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘हल्ँलिके᳘ति होवाच या᳘ज्ञवल्क्यः॥
(ल्क्यो) य᳘त्रैत᳘दन्य᳘त्रास्म᳘न्मन्या᳘सै य᳘त्रैत᳘दन्य᳘त्रास्म᳘त्स्याच्छ्वा᳘नो वैन᳘दद्युर्व्व᳘याᳫँ᳭सि वैनद्वि᳘मथ्नीरन्नि᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘हल्ँलिके᳘ति होवाच या᳘ज्ञवल्क्यः॥
(ल्क्यो) य᳘त्रैत᳘दन्य᳘त्रास्म᳘न्मन्या᳘सै य᳘त्रैत᳘दन्य᳘त्रास्म᳘त्स्याच्छ्वा᳘नो वैन᳘दद्युर्व्व᳘याᳫँ᳭सि वैनद्वि᳘मथ्नीरन्नि᳘ति॥

मूलम् - Weber

अ᳘हल्लिके᳘ति 10 होवाच या᳘ज्ञवल्क्यो॥
य᳘त्रैत᳘दन्य᳘त्रास्म᳘न्मन्या᳘सै य᳘त्रैत᳘दन्य᳘त्रास्म᳘त्स्याछ्वा᳘नो वैन᳘दद्युर्व᳘यांसि 11 वैनद्वि᳘मथ्नीरन्नि᳘ति॥

मूलम् - विस्वरम्

अहल्ँलिकेति होवाच याज्ञवल्क्यः । यत्रैतदन्यत्रास्मन्मन्यासै । यत्रैतदन्यत्रास्मत्स्यात् । श्वानो वैनदद्युः । वयांसि वा एनद्विमथ्नीरन्निति ॥ २६ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवं पृष्टः ‘याज्ञवल्क्यः’ उत्तरमाह- अँहल्लिकेति । अहनि लीयते इति व्युत्पत्तेः नूनं त्वं प्रेत-भूतो ऽसीति लक्ष्यते । यतो यत्किञ्चित्प्रेतवद्भाषसे इति प्रेतनाम्ना शाकल्यं सम्बोधयन् ‘ह याज्ञवल्क्य उवाच’ । ‘यत्र’ यस्मिन् काले ‘एतत्’ हृदयं अस्य शरीरस्य आत्मभूतम् अस्मद्स्मत्तः एतस्माच्छरीरादन्यत्र क्वचिद्देशान्तरे वर्तते इति यदि ‘मन्यासै’ मन्यसे । ‘यत्र’ यदा ‘एतत्’ हृदयं अस्मदस्मत्तः अस्माच्छरीरादन्यत्र देशान्तरे स्याद्भवेत् । तदा ‘श्वानो वा’ एनच्छरीरम् अद्युर्भक्षयेयुः । ‘वयांसि वा’ पक्षिणो गृध्रादय एनच्छरीरं ‘विमथ्नीरन्’ विलोडयेयुः विकर्षेरन्निति । तस्मान्मयि शरीरे एव हृदयं प्रतिष्ठितम् । तच्छरीरमपि नाम-कर्म-रूपात्मकत्वात् हृदये प्रतिष्ठितमिति अर्थादुक्तमित्य् अर्थः ॥ २६ ॥

२७

विश्वास-प्रस्तुतिः

क᳘स्मिन्नु त्व᳘ञ्चात्मा᳘ च प्प्र᳘तिष्ठितौ स्थ ऽइ᳘ति॥
प्प्राण ऽइ᳘ति[[!!]] क᳘स्मिन्नु᳘ प्प्राणः प्प्र᳘तिष्ठित ऽइ᳘त्यपान ऽइ᳘ति क᳘स्मि᳘न्न्वपानः[[!!]] प्प्र᳘तिष्ठित ऽइ᳘ति व्व्यान ऽइ᳘ति क᳘स्मिन्नु᳘ व्व्यानः प्प्र᳘तिष्ठित ऽइ᳘त्युदान ऽइ᳘ति क᳘स्मि᳘न्नूदानः प्प्र᳘तिष्ठित ऽइ᳘ति समान ऽइ᳘ति॥

मूलम् - श्रीधरादि

क᳘स्मिन्नु त्व᳘ञ्चात्मा᳘ च प्प्र᳘तिष्ठितौ स्थ ऽइ᳘ति॥
प्प्राण ऽइ᳘ति[[!!]] क᳘स्मिन्नु᳘ प्प्राणः प्प्र᳘तिष्ठित ऽइ᳘त्यपान ऽइ᳘ति क᳘स्मि᳘न्न्वपानः[[!!]] प्प्र᳘तिष्ठित ऽइ᳘ति व्व्यान ऽइ᳘ति क᳘स्मिन्नु᳘ व्व्यानः प्प्र᳘तिष्ठित ऽइ᳘त्युदान ऽइ᳘ति क᳘स्मि᳘न्नूदानः प्प्र᳘तिष्ठित ऽइ᳘ति समान ऽइ᳘ति॥

मूलम् - Weber

क᳘स्मिन्नु त्वं᳘ चात्मा च प्र᳘तिष्ठितौ स्थ इ᳘ति॥
प्रा᳘ण इ᳘ति क᳘स्मिन्नु᳘ प्राणः प्र᳘तिष्ठित इ᳘त्यपान इ᳘ति क᳘स्मिन्न्व᳘पानः प्र᳘तिष्ठित इ᳘ति व्यान इ᳘ति क᳘स्मिन्नु᳘ व्यानः प्र᳘तिष्ठित इ᳘त्युदान इ᳘ति क᳘स्मिॗन्नूदानः प्र᳘तिष्ठित इ᳘ति समान इ᳘ति॥

मूलम् - विस्वरम्

कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति । प्राण इति । कस्मिन्नु प्राणः प्रतिष्ठित इति । अपान इति । कस्मिन्न्वपानः प्रतिष्ठित इति । व्यान इति । कस्मिन्नु व्यानः प्रतिष्ठित इति । उदान इति । कस्मिन्नूदानः प्रतिष्ठित इति । समान इति ॥ २७ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवं कार्यकारणयोर्हृदयशरीरयोरन्यो ऽन्यप्रतिष्ठा उक्ता । अतस्ते अपि कुत्र प्रतिष्ठिते इति पृच्छति- कस्मिन्न्विति । देहात्मानौ ऊर्ध्ववृत्त्यात्मके प्राणे ‘प्रतिष्ठितौ’ । ‘कस्मिन्नु प्राणः प्रतिष्ठित इति’ । ‘अपाने इति’ सा ऽपि प्राण-वृत्तिः अपान-वृत्त्या चेन्न् निगृह्यते । तर्हि प्रागेव गच्छेत् । स चापानः ‘व्याने’ मध्यस्थ-वृत्ति-रूपे । अन्यथा उभयोरूर्ध्वाधोगमनमेव भवेत् । स च व्यानः ‘उदाने’ नाभिस्थ-वृत्ति-रूपे कीलक-स्थानीये । तिस्रो ऽपि वृत्तयस्तत्र चेन्न निबद्धाः । तर्हि नानागतयो भवेयुः । स चोदानः ‘समाने’ सूत्रात्म-शब्द-वाच्ये । समप्रतिष्ठा ह्येताः सर्वा वृत्तय इत्य् अर्थः ॥ २७ ॥

२८

विश्वास-प्रस्तुतिः

स᳘ ऽएष ने᳘ति ने᳘त्यास्मा[[!!]]॥
(त्मा᳘ ऽग्गृ) अ᳘ग्गृह्यो न हि᳘ ग्गृह्यते᳘ ऽशीर्य्यो न हि᳘ शी᳘र्य्यते᳘ ऽसङ्गो᳘ ऽसितो न᳘ सज्यते᳘ न व्व्य᳘थत ऽइ᳘त्येता᳘न्यष्टा᳘वाय᳘तनान्यष्टौ᳘ लोका᳘ ऽअष्टौ पु᳘रुषाः स यस्तान्पु᳘रुषान्व्युदु᳘ह्य प्प्रत्यु᳘ह्यात्य᳘क्रामी त्त᳘न्त्वौपनिषदम्पु᳘रुषम्पृच्छामि तञ्चे᳘न्मे न᳘ व्विवक्ष्य᳘सि मू᳘र्द्धा ते व्वि᳘पतिष्यतीति[[!!]] त᳘ᳫँ᳘ ह शाकल्यो न᳘ मेने त᳘स्य ह मू᳘र्द्धा व्वि᳘पपात त᳘स्य हा᳘प्यन्यन्म᳘न्यमानाः परिमोषिणो᳘ ऽस्थीन्य᳘पजह्रुः॥

मूलम् - श्रीधरादि

स᳘ ऽएष ने᳘ति ने᳘त्यास्मा[[!!]]॥
(त्मा᳘ ऽग्गृ) अ᳘ग्गृह्यो न हि᳘ ग्गृह्यते᳘ ऽशीर्य्यो न हि᳘ शी᳘र्य्यते᳘ ऽसङ्गो᳘ ऽसितो न᳘ सज्यते᳘ न व्व्य᳘थत ऽइ᳘त्येता᳘न्यष्टा᳘वाय᳘तनान्यष्टौ᳘ लोका᳘ ऽअष्टौ पु᳘रुषाः स यस्तान्पु᳘रुषान्व्युदु᳘ह्य प्प्रत्यु᳘ह्यात्य᳘क्रामी त्त᳘न्त्वौपनिषदम्पु᳘रुषम्पृच्छामि तञ्चे᳘न्मे न᳘ व्विवक्ष्य᳘सि मू᳘र्द्धा ते व्वि᳘पतिष्यतीति[[!!]] त᳘ᳫँ᳘ ह शाकल्यो न᳘ मेने त᳘स्य ह मू᳘र्द्धा व्वि᳘पपात त᳘स्य हा᳘प्यन्यन्म᳘न्यमानाः परिमोषिणो᳘ ऽस्थीन्य᳘पजह्रुः॥

मूलम् - Weber

स᳘ एष ते᳘ति ने᳘त्यास्मा᳟॥
अ᳘गृह्यो न हि᳘ गृह्यते᳘ऽशीर्यो 12 न हि शी᳘र्यते᳘ऽसङ्गो᳘ऽसितो न᳘ सज्यते᳘ न व्य᳘थत इ᳘त्येता᳘न्यष्टा᳘वाय᳘तनान्यष्टौ᳘ लोका᳘ अष्टौ पु᳘रुषाः स यस्तान्पु᳘रुषान्व्युदु᳘ह्य प्रत्यु᳘ह्यात्य᳘क्रामीत्तं᳘ त्वौपनिषदम् पु᳘रुषम् पृछामि तं चे᳘न्मे न᳘ विवक्ष्य᳘सि मू᳘र्धा ते वि᳘पतिष्यती᳘ति त᳘ᳫं᳘ ह शाकल्यो न᳘ मेने त᳘स्य ह मू᳘र्धा वि᳘पपात त᳘स्य हा᳘प्यन्यन्म᳘न्यमानाः परिमोषिणो᳘ऽस्थीन्य᳘पजह्रुः॥

मूलम् - विस्वरम्

स एष नेति नेत्य् आत्मा । अगृह्यो, न हि गृह्यते । अशीर्यो, न हि शीर्यते । असङ्गो ऽसितो न सज्यते न व्यथते । इत्य् एतान्य् अष्टावायतनानि । अष्टौ लोकाः । अष्टौ पुरुषाः । स यस्तान्पुरुषान् व्युदुह्य प्रत्युह्यात्यक्रामीत् । तं त्वौपनिषदं पुरुषं पृच्छामि । तं चेन्मे न विवक्ष्यसि, मूर्द्धा ते विपतिष्यतीति । तं ह शाकल्यो न मेने । तस्य ह मूर्द्धा विपपात । तस्य हाप्यन्यन्मन्यमानाः परिमोषिणो ऽस्थीन्यपजह्रुः ॥ २८ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

सो ऽपि समानः अन्तर्यामिणि । सो ऽप्य् अक्षरे कूटस्थे ब्रह्मणि इति अर्थाद्दर्शितमेवेति मत्वा श्रुतिः स्वयमेव ब्रह्मणः स्वरूपमाह- स एष इति । यः सूत्रान्तर्यामित्वकल्पनाधिष्ठानभूतः ‘सः’ परमात्मा ‘एषः’ प्रत्यगात्मैव मूर्तामूर्तब्राह्मणे “नेति नेति”- ( श. प. बृ. उ. १४ । ५ । ३ । ११ ) इत्य् एवं सङ्कल्पोपाधिनिषेधेन निर्द्दिष्ट आत्मा । निषेध-द्वारा निर्दिष्टमेव स्पष्टयति- अगृह्य इत्यादिना । सो ऽयमात्मा न गृह्यः ‘अगृह्यः’ । यस्मात् सर्व-कार्य-धर्मातीतः तस्मादगृह्यः । कुतः ? यस्मान्न हि गृह्यते । विकरण-गोचरं व्याकृतं वस्तु तत् ग्रहण-गोचरम्, इदं तु तद्-विपरीतमात्म-तत्त्वम् । तथा ‘अशीर्यः’ यद्धि मूर्तं संहतं शरीरादि तच्छीर्यते । अयं तु तद्विपरीतः । अतः ‘न हि शीर्यते’ । तथा ‘असङ्गः’ अमूर्तः । ‘असितः’ अबद्धः । बद्धो मूर्तान्तरेण सम्बध्यमानः सज्यते । अयं च तद्-विपरीतः । अतः न सज्यते । तथा अबद्धत्वान्न व्यथते इति । अथ पुनः पूर्वामेवाख्यायिकामनुसृत्य अयं प्रतिभूतः अब्रह्मवित्सन्नेव मां ब्रह्म पृच्छतीति सा ऽपराधत्वं सम्पादयितुं याज्ञवल्क्यः पृच्छति- एतान्यष्टावायतनानीत्यादिना । ‘एतानि’ उक्तानि पृथिव्यादीनि ‘अष्टावायतनानि’ । ‘अष्टौ लोकाः’ “चक्षुर्लोको मनो ज्योतिः”- इत्य् एवंरूपाः । ‘अष्टौ पुरुषाः’ “शारीरः पुरुषः” इत्यादयः । ‘तान्’ शारीरप्रभृतीनष्टौ पुरुषान् ‘स यः’ कश्चित् ब्रह्मज्ञः आयतनलोकपुरुषैतत्त्रिकभेदेन ‘व्युदुह्य’ विक्षिप्य लोकस्थितिमुपपाद्य पुनः प्राचीदिगादिद्वारेण हृदयात्मनि ‘प्रत्युह्य’ उपसंहृत्य पश्चात् हृदयाद्यात्मविलक्षणमपि समानान्तमुपाधिधर्ममत्यक्रामीदतिक्रान्तवान् स्वेनैवात्मना व्यवस्थितः ‘तमौपनिषदं’ उपनिषत्स्वेव विज्ञेयं नान्यप्रमाणगम्यं ‘पुरुषं’ अशनायादिधर्मवर्जितं हे शाकल्य ! ‘त्वां’ त्वां ब्रह्मविद्याभिमानिनं ‘पृच्छामि’ । ‘तं चेत्’ पुरुषं ‘मे’ मह्यं ‘न विवक्ष्यसि’ विस्पष्टं न कथयिष्यसि तर्हि ‘ते’ तव अब्रह्मविदः ब्रह्मवित्त्वाभिमानिनः ‘मूर्द्धा’ शिरः ‘विपतिष्यति’ विस्पष्टं पतिष्यतीति । इतिशब्दआख्यायिकासमाप्तिद्योतकः ।

एवं शापे दत्ते किं वृत्तमिति जिज्ञासायां श्रुतिरेवाह- तं ह शाकल्य इति । तमौपनिषदं पुरुषं ‘शाकल्यो न मेने ह’ न विज्ञातवान् । किंतु- ‘तस्य ह’ शाकल्यस्य ‘मूर्द्धा विपपात’ विपतितः । ब्रह्मविद्विद्वेषे परलोकविरोधो ऽपि स्यादिति दर्शयितुं अष्टाध्याय्यां (श. प. ११ । ६ । ३ । ११) निर्वृत्तामाख्यायिकां सूचयति- तस्य हाप्यन्यदिति । न केवलमसौ मृत एव । किंच- ‘तस्य’ शाकल्यस्याग्निहोत्रेण संस्कारार्थं शिष्यैर्वस्त्रखण्डेन बद्ध्वा गृहान्प्रति नीयमानानि ‘अस्थीन्य् अपि’ परिमोषिणस्तस्कराः अन्यद्धनमेतैर्नीयत इति ‘मन्यमानाः’ सन्तो ऽपजह्रुः अपहृतवन्त इत्य् अर्थः । इति पूर्ववृत्ताख्यायिका इह सूचिता । अष्टाध्याय्यां किल शाकल्येन सह याज्ञवल्क्यस्य समानान्त एव संवादो निवृत्तः । तत्र याज्ञवल्क्येन शापो दत्तः । “पुरेत्तिथ्यै मरिष्यसि न ते ऽस्थीनि चन गृहान् प्राप्स्यन्तीति । स ह तथैव ममार । तस्य हाप्यन्यन्मन्यमानाः परिमोषिणो ऽस्थीन्यपजह्रुस्तस्मान्नोपवादी स्यादुत ह्येवंवित्परो भवति” (श. प. ११ । ६ । ३ । ११) इति । पुरेत्तिथ्यै इति पञ्चम्यर्थे चतुर्थी । आगामिन्यास्तिथेः पुरस्तादेवेति । अस्थीनि चनेत्यत्र चन-शब्दो ऽप्य्-अर्थः । ‘उपवादी’ परिभव-कर्ता इति समितिश्रुतेर् अर्थः । ब्रह्मविदि विनीतेन भवितव्यमिति आचारार्थं महती हीयं ब्रह्मविद्यायुतनिष्ठावज्ञायां ऐहिकामुष्मिकविरोधः स्यात् इति विद्यास्तुतये च इह सा एषा आख्यायिका सूचितेति भावः ॥ २८ ॥

२९

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ ह या᳘ज्ञवल्क्य ऽउवाच॥
ब्ब्रा᳘ह्मणा भगवन्तो यो᳘ वः काम᳘यते स᳘ मा प्पृच्छतु स᳘र्व्वे वा मा प्पृच्छत यो᳘ वः काम᳘यते त᳘म्वः प्पृच्छानि स᳘र्व्वान्वा वः प्पृच्छानी᳘ति ते᳘ ह ब्ब्राह्मणा न᳘ दधृषुः॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ ह या᳘ज्ञवल्क्य ऽउवाच॥
ब्ब्रा᳘ह्मणा भगवन्तो यो᳘ वः काम᳘यते स᳘ मा प्पृच्छतु स᳘र्व्वे वा मा प्पृच्छत यो᳘ वः काम᳘यते त᳘म्वः प्पृच्छानि स᳘र्व्वान्वा वः प्पृच्छानी᳘ति ते᳘ ह ब्ब्राह्मणा न᳘ दधृषुः॥

मूलम् - Weber

अ᳘थ ह या᳘ज्ञवल्क्य उवाच॥
ब्रा᳘ह्मणा भगवन्तो यो᳘ वः काम᳘यते स᳘ मा पृछतु स᳘र्वे वा मा पृछत 13 यो᳘ वः काम᳘यते तं᳘ वः पृछानि स᳘र्वान्वा वः पृछानी᳘ति ते᳘ह ब्राह्मणा न᳘ दधृषुः॥

मूलम् - विस्वरम्

अथ ह याज्ञवल्क्य उवाच । ब्राह्मणा भगवन्तो यो वः कामयते स मा पृच्छतु । सर्वे वा मा पृच्छत । यो वः कामयते । तं वः पृच्छानि । सर्वान् वा वः पृच्छानीति । ते ह ब्राह्मण न दधृषुः ॥ २९ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

यस्य ब्रह्मणो नेति नेतीति अन्य-प्रतिषेध-द्वारेण निर्देशः कृतः तस्यैव इदानीं विधि-मुखेन निर्द्देशः कर्तव्यः, जगतो मूलं च वक्तव्यं, इत्य् एतदर्थं श्रुतिराख्यायिकामेव पुनरनुसृत्य ब्राह्मणानुमतिमनापाद्य ब्रह्मस्वं नीयमानमनर्थाय स्यादिति न्यायं दर्शयितुं ब्राह्मणानुमति-सम्प्रति-हेतु-भूतं पराजयं कर्तुं याज्ञवल्क्यो ब्राह्मणान् पृष्टवान् इत्य् आह- अथ हेति । ‘ह उवाच’ ‘वः’ युष्माकं मध्ये ‘यः’ याज्ञवल्क्यं पृच्छामीति ‘कामयते’ इच्छति । ‘सः’ ‘मा’ मां पृच्छतु । ‘सर्वे वा’ यूयं ‘मा’ मां ‘पृच्छत’ । यद्वा ‘वः’ युष्माकं मध्ये याज्ञवल्क्यो मां पृच्छत्विति ‘यः कामयते’ ‘तं’ पुरुषं ‘वः’ युष्माकं मध्ये वर्तमानं अहं ‘पृच्छानि’ । ‘सर्वान् वा’ ‘वः’ युष्मान् अहं ‘पृच्छानि’ । इत्य् एवमुक्ता अपि ‘ते ब्राह्मणा ह’ ‘न दधृषुः’ । किञ्चिदपि प्रत्युत्तरं दातुं न प्रगल्भाः संवृत्ता इत्य् अर्थः ॥ २९ ॥

३०

विश्वास-प्रस्तुतिः

(स्ता᳘) ता᳘न्हैतैः श्लो᳘कैः पप्प्रच्छ॥
य᳘था व्वृक्षो व्व᳘नस्प᳘तिस्त᳘थैव पुरुषो ऽमृषा[[!!]]। त᳘स्य पर्ण्णा᳘नि लो᳘मानि त्व᳘गस्योत्पा᳘टिका बहिः᳘॥

मूलम् - श्रीधरादि

(स्ता᳘) ता᳘न्हैतैः श्लो᳘कैः पप्प्रच्छ॥
य᳘था व्वृक्षो व्व᳘नस्प᳘तिस्त᳘थैव पुरुषो ऽमृषा[[!!]]। त᳘स्य पर्ण्णा᳘नि लो᳘मानि त्व᳘गस्योत्पा᳘टिका बहिः᳘॥

मूलम् - Weber

ता᳘न्हैतैः श्लो᳘कैः पप्रछ॥
य᳘था वृक्षो व᳘नस्प᳘तिस्त᳘थैव 14 पु᳘रुषोऽमृषा᳟॥
त᳘स्य पर्णा᳘नि लो᳘मानि त्व᳘गस्योत्पा᳘टिका बहिः᳟॥

मूलम् - विस्वरम्

तान् हैतैः श्लोकैः पप्रच्छ- “यथा वृक्षो वनस्पतिस्तथैव पुरुषो ऽमृषा । तस्य पर्णानि लोमानि त्वगस्योत्पाटिका बहिः“ ॥ ३० ॥

श्रीमद्वासुदेवब्रह्मभगवान्

जगत्-कारणं प्रष्टुं तावत् पुरुष-वृक्षयोः साधर्म्यं श्लोक-त्रयेणाह- तान् हैतैः श्लोकैरिति । ‘तान्’ अप्रगल्भानपि ब्राह्मणान् एतैर्वक्ष्यमाणैः ‘श्लोकैः’ ‘ह’ किल ‘पप्रच्छ’। ‘यथा’ लोके ‘वृक्षः’ । तस्य विशेषणं वनस्पतिरिति । तच्च वृक्षस्य महत्त्वमिति अपुनरुक्तितेति भावः । “अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः“ इति । यथा अश्वत्थः । ‘तथैव’ तत्-सधर्मैव ‘पुरुषः’ इत्य् एतत् ‘अमृषा’ न मिथ्या, सत्यमेवैतत् । यतस्तस्य पुरुषस्य ‘लोमानि’ तत्स्थानीयानि वनस्पतेः ‘पर्णानि’ । ‘त्वक्’ ‘अस्य’ पुरुषस्य वृक्षस्य तु तत्स्थानीया ‘बहिरुत्पाटिका’ बहिर्भूता नीरसा त्वक् ॥ ३० ॥

३१

विश्वास-प्रस्तुतिः

त्वच᳘ ऽए᳘वास्य॥ रु᳘धिरम्प्रस्य᳘न्दि त्वच ऽउ᳘त्पटः। त᳘स्मात्तदा᳘तुन्नात्प्रै᳘ति र᳘सो व्वृक्षा᳘दिवा᳘हतात्॥

मूलम् - श्रीधरादि

त्वच᳘ ऽए᳘वास्य॥ रु᳘धिरम्प्रस्य᳘न्दि त्वच ऽउ᳘त्पटः। त᳘स्मात्तदा᳘तुन्नात्प्रै᳘ति र᳘सो व्वृक्षा᳘दिवा᳘हतात्॥

मूलम् - Weber

त्वच᳘ एॗवास्य रु᳘धिरम् प्रस्य᳘न्दि त्वच उ᳘त्पटः 15
त᳘स्मात्तदा᳘तुन्नात्प्रै᳘ति र᳘सो वृक्षा᳘दिवा᳘हतात्॥

मूलम् - विस्वरम्

त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः । तस्मात्तदातुन्नात्प्रैति रसो वृक्षादिवाहतात् ॥ ३१ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘त्वचः’ एव सकाशात् ‘अस्य’ पुरुषस्य ‘रुधिरं प्रस्यन्दि’ निःसरतीति शेषः । प्रस्यन्दते निःसरतीति प्रस्यन्दि । वृक्षस्यापि ‘त्वचः’ सकाशाद् एव ‘उत्पटः’ वृक्ष-निर्यासः प्रस्यन्दी निःसरतीति शेषः । एवमुक्तं साधर्म्यं अनुभवेन गमयति- तस्मात्तदिति । यस्मात् वनस्पतेः पुरुषस्य च सर्वमेवं समानम् ‘तस्मात् तत् आतुन्नात्’ हिंसितात् पुरुषात् ‘तत्’ रुधिरं ‘प्रैति’ निर्गच्छति । ‘आहतात्’ छिन्नात् ‘वृक्षात्’ वनस्पतेः ‘रस इव’ निर्यासो यथा प्रैतीति शेषः ॥ ३१ ॥

३२

विश्वास-प्रस्तुतिः

माᳫँ᳭सा᳘न्यस्य श᳘कराणि॥ कि᳘नाटᳫँ᳭ स्ना᳘व त᳘त्स्थिर᳘म्। अ᳘स्थीन्य᳘न्तरतो दा᳘रूणि मज्जा᳘ मज्जोपमा᳘ कृता᳘॥

मूलम् - श्रीधरादि

माᳫँ᳭सा᳘न्यस्य श᳘कराणि॥ कि᳘नाटᳫँ᳭ स्ना᳘व त᳘त्स्थिर᳘म्। अ᳘स्थीन्य᳘न्तरतो दा᳘रूणि मज्जा᳘ मज्जोपमा᳘ कृता᳘॥

मूलम् - Weber

मांसा᳘न्यस्य श᳘कराणि कि᳘नाटᳫं स्ना᳘व त᳘त्स्थिर᳘म्॥
अ᳘स्थीन्य᳘न्तरतो दा᳘रूणि मज्जा᳘ मज्जोपमा᳘ कृता᳟ 16

मूलम् - विस्वरम्

मांसान्यस्य शकराणि किनाटं स्नाव तत्स्थिरम् । अस्थीन्यन्तरतो दारूणि मज्जा मज्जोपमा कृता ॥ ३२ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

किंच- ‘अस्य’ पुरुषस्य । ‘मांसानि’ वनस्पतेस्तु तत्स्थानीयानि ‘शकराणि’ शकलानीत्यर्थः । ‘किनाटं’ नाम वृक्षस्य शकलेभ्य आभ्यन्तरं काष्ठ-संलग्नं वल्कलरूपं उच्यते । ‘तत्’ तत्स्थानीयं पुरुषस्य ‘स्नाव’ अस्थि-संलग्नो धातु-विशेषः । तदुभयं किनाटं स्नाव च ‘स्थिरं’ दृढम् । पुरुषस्य स्नावभ्यो ऽभ्यन्तरतः ‘अस्थीनि’ भवन्ति । तथा वृक्षस्य किनाटस्याभ्यन्तरतः ‘दारूणि’ काष्ठानि । ‘मज्जा’ मज्जैव वनस्पतेः पुरुषस्य च मज्जोपमा कृता’ मज्जाया उपमा मज्जोपमा । नान्यो विशेषो ऽस्तीत्य् अर्थः । मज्जा-शब्देनोभयत्र अस्थिकाष्ठगतः सार उच्यते ॥ ३२ ॥

३३

विश्वास-प्रस्तुतिः

य᳘द्वृक्षो᳘ व्वृक्णो रो᳘हति॥ मू᳘लान्न᳘वतरः पु᳘नः। म᳘र्त्यः स्विन्मृत्यु᳘ना व्वृक्णः क᳘स्मान्मू᳘लात्प्र᳘रोहति॥

मूलम् - श्रीधरादि

य᳘द्वृक्षो᳘ व्वृक्णो रो᳘हति॥ मू᳘लान्न᳘वतरः पु᳘नः। म᳘र्त्यः स्विन्मृत्यु᳘ना व्वृक्णः क᳘स्मान्मू᳘लात्प्र᳘रोहति॥

मूलम् - Weber

य᳘द्वृक्षो᳘ 17 वृक्णो रो᳘हति मू᳘लान्न᳘वतरः पु᳘नः॥
म᳘र्त्यः स्विन्मृत्यु᳘ना वृक्णः क᳘स्मान्मू᳘लात्प्र᳘रोहति॥

मूलम् - विस्वरम्

यद्वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः । मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ ३३ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

अथ वृक्षपुरुषयोर्वैधर्म्यकथनपुरःसरं जगत्कारणं पृच्छति- **यद्वृक्ष इत्यादिना । यद्यदि वृक्षो वृक्णश्छिन्नः ‘पुनः’ पुनरपि मूलान्नवतरः पूर्वस्मात् अभिनवतरः ‘रोहति’ प्ररोहति प्रादुर्भवति । स्विदिति वितर्के । ‘मर्त्यः’ मनुष्यः ‘मृत्युना’ यमेन ‘वृक्णः’ मारितः कस्मान्मूलात्कारणात् ‘प्ररोहति’ पुनर्जायते । यत् एतस्माद्विशेषणात् प्राक् वृक्ष-पुरुषयोः सर्वं सामान्यमवगतम् । अयं तु वनस्पतौ विशेषो दृश्यते यत् छिन्नस्य प्ररोहणम् । न तु पुरुषे मृत्युना वृक्णे पुनः प्ररोहणं दृश्यते । भवितव्यं तु कुतश्चित् प्ररोहणेन । तस्मान्मृतस्य पुरुषस्य कुतः प्ररोहणमिति युष्मानहं पृच्छामीत्य् अर्थः ॥ ३३ ॥

३४

विश्वास-प्रस्तुतिः

रे᳘तस ऽइ᳘ति मा᳘ वोचत॥ जी᳘वतस्तत्प्र᳘जायते। जात᳘ ऽएव न᳘ जायते को᳘ न्वेनञ्जनयेत्पु᳘नः॥ धाना᳘रुह ऽउ वै᳘ व्वृ᳘क्षो ऽन्य᳘तः प्प्रे᳘त्य स᳘म्भवः। यत्स᳘मूलमुद्वृहे᳘युर्व्वृक्षन्न पु᳘नरा᳘भवेत्। म᳘र्त्यः स्विन्मृत्यु᳘ना व्वृक्णः क᳘स्मान्मू᳘लात्प्र᳘रोहति॥ व्विज्ञा᳘नमानन्दं ब्ब्र᳘ह्म रातेर्द्दा᳘तुः परा᳘यणम्॥ ति᳘ष्ठमानस्य तद्वि᳘द ऽइ᳘ति॥

मूलम् - श्रीधरादि

रे᳘तस ऽइ᳘ति मा᳘ वोचत॥ जी᳘वतस्तत्प्र᳘जायते। जात᳘ ऽएव न᳘ जायते को᳘ न्वेनञ्जनयेत्पु᳘नः॥ धाना᳘रुह ऽउ वै᳘ व्वृ᳘क्षो ऽन्य᳘तः प्प्रे᳘त्य स᳘म्भवः। यत्स᳘मूलमुद्वृहे᳘युर्व्वृक्षन्न पु᳘नरा᳘भवेत्। म᳘र्त्यः स्विन्मृत्यु᳘ना व्वृक्णः क᳘स्मान्मू᳘लात्प्र᳘रोहति॥ व्विज्ञा᳘नमानन्दं ब्ब्र᳘ह्म रातेर्द्दा᳘तुः परा᳘यणम्॥ ति᳘ष्ठमानस्य तद्वि᳘द ऽइ᳘ति॥

मूलम् - Weber

रे᳘तस इ᳘ति मा᳘ वोचत 18 जी᳘वतस्तत्प्र᳘जायते॥
जात᳘ एव न᳘ जायते कोॗ न्वेनं जनयेत्पु᳘नः॥
धाना᳘रुह उ वै᳘ वृॗक्षोऽन्य᳘तः प्रे᳘त्य स᳘म्भवः॥
यत्स᳘मूलमुद्वृहे᳘युर्वृक्षं न पु᳘नरा᳘भवेत्म᳘र्त्यः स्विन्मृत्यु᳘ना वृक्णः क᳘स्मान्मू᳘लात्प्र᳘रोहति विज्ञा᳘नमानन्दम् ब्र᳘ह्म रातेर्दा᳘तुः परा᳘यणम्॥
ति᳘ष्ठमानस्य तद्वि᳘द इ᳘ति॥

मूलम् - विस्वरम्

रेतस इति मा वोचत जीवतस्तत्प्रजायते । जात एव न जायते को न्वेनं जनयेत्पुनः । धानारूह उ वै वृक्षोन्यतः प्रेत्य सम्भवः । यत्समूलमुद्वृहेयुर्वृक्षं न पुनराभवेत् । मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ विज्ञानमानन्दं ब्रह्म रातेर्दातुः परायणम् । तिष्ठमानस्य तद्विदः” इति ॥ ३४ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

तत्र शङ्कामुद्भाव्य निराचष्टे- रेतस इति । हे ब्राह्मणाः ! ‘रेतसः’ सकाशात्पुरुषः प्ररोहतीति ‘मा वोचत’ मैवं वक्तुमर्हथ । कस्मात् ? यस्माज्जीवतः पुरुषात्तद्रेतः ‘प्रजायते’ न मृतात् । अतो न रेतः कारणमित्य् अर्थः । अयं भावः- न चात्र मृत-पुरुष-शब्देन एकः शरीरी अभिधीयते । किन्तु प्रलय-काले विलीनं सर्वमेव शरीर-जातं जगत् अभिधीयते । तदा च तदानीं जीवतः कस्यापि पुरुषस्याभावात् मृतस्य च रेतसः असद्भावात् न रेतः कारणमिति । इदानीं स्वभाववादमवलम्ब्य नोदयति- जात एवेति । यस्तु मृतः स पुनर्नैव जायते जातत्वादेवेति । जनिष्यतो हि सम्भवः प्रष्टव्यः न जातस्य । अयं तु जात एव । अतः अस्मिन् विषये प्रश्न एव नोपपद्यत इति चेत् तत्न, नेति पृथक् वाक्यम् । यन्मतं जात एवेति । तन्न, किं तर्हि मृतः पुनरपि जायत एव । अन्यथा अकृताभ्यागमनकृतनाशप्रसङ्गः स्यात् । अतो वः पृच्छामि । ‘एनं’ पुरुषं मृतं ‘नु’ वितर्के । ‘पुनः को जनयेत्’ उत्पादयेत् । अपि च ‘धानारुह उ वै वृक्षः’ । धाना बीजं वटकणिकादि । तस्याः सकाशात् रोहतीति धानारुहः । उ-शब्दः अप्यर्थः । न केवलं काण्डरुह एव, किन्तु बीज-रुहो वृक्षो भवति । वै-शब्दः प्रसिद्ध-द्योतकः । तथा च यथा यथा वै वृक्षः काण्डरुहो धानारुहश्च ‘प्रेत्य’ मृत्वा ‘अन्यतः सम्भवः’ काण्डात् धानातो ऽपि प्रेत्य सम्भवो भवेत् इति प्रसिद्धम् । न तथा मृतस्य पुरुषस्य पुनरुत्पत्तौ किञ्चिदपि कारणं दृश्यते, भवितव्यं च तेनेति भावः । यद्यदि ‘वृक्षं समूलं’ सह मूलेन धानया वा उद्वृहेयुरुच्छेयुरुत्पाटयेयुः । तदा ‘न पुनराभवेत्’ पुनरागत्य न भवेत् । तस्मात् वः पृच्छामि सर्वस्यैव जगतो मूलम् । “मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहतीति” । अनन्तरमेव व्याख्यातार्थम् । तत्र विजिज्ञुर्ब्राह्मणाः यतो मृतः पुनः प्ररोहतीति । ब्राह्मणैर्जगतो मूलं न विज्ञातम् । अतो ब्रह्मिष्ठत्वात् याज्ञवल्क्येन गावो हृताः, ब्राह्मणाश्च जिताः । समाप्ता आख्यायिका । यज्जगतो मूलं येन च शब्देन साक्षात् व्यपदिश्यते ब्रह्म यद्याज्ञवल्क्यो ब्राह्मणान् पृष्टवान् । तत् स्वेन रूपेण श्रुतिरस्मभ्यमाह- विज्ञानमानन्दमिति । विज्ञप्तिर्विज्ञानं कूटस्थचिन्मात्ररूपं, तच्चानन्दं, न विषय-विज्ञानवत् दुःखानुविद्धम् । किं तर्हि प्रसन्नं शिवमतुलमनायासं नित्यतृप्तमेकरसमित्य् अर्थः । किं तत् उभय-विशेषणवत् ‘ब्रह्म’ अक्षरम् । रातेर्धनस्य दक्षिणारूपस्य ‘दातुः’ कर्मकृतो यजमानस्य ‘परायणं’ परागतिः । कर्म-फलस्य प्रदातृब्रह्मणः सर्व-फल-दातृत्वं भाष्यकृद्भिः समर्थितम् “फलमत उपपत्तेः” (वे. ब्र. सू. ३ । २ । ८ । ३८) इत्य् अस्मिन्नधिकरणे । अधिकरणार्थस्तत 19 एवावसेयः । किं च एषणाभ्यो व्युत्थाय तस्मिन्नेव मोहातीते ब्रह्मणि तिष्ठत्यकर्मकृदिति ‘तिष्ठमानः’ तस्य तदेव ब्रह्म वेत्तीति तद्धि तस्य ब्रह्मणि तिष्ठमानस्य ‘तद्-विदः’ ब्रह्मविदश्च ’परायणं’ परा गतिरिति । इति-शब्दः समाप्ति-द्योतकः ॥ ३४ ॥

“कर्मैव फलदं यद्वा कर्माराधित ईश्वरः ।
अपूर्वावान्तरद्वारा कर्मणः फलदातृता ॥ १ ॥

अचेतनात्फलासूतेः शास्त्रीयात्पूजितेश्वरात् ।
कालान्तरे फलोत्पत्तेर्नापूर्वपरिकल्पना” ॥ २ ॥ (वै. न्या. ३ । २ । ८) इति ।

इति श्री-हृषीकेश-ब्रह्म-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठक-अनिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-टीकायां वासुदेव-प्रकाशिकायां तृतीये ऽध्याये नवमं शाकल्य-ब्राह्मणं शाकल्य-ब्राह्मण-ग्रन्थो वा परिसमाप्तः ॥ १४ । (६) ३।९ ॥


  1. दि᳘शो वे᳘द AM. ↩︎

  2. हृ᳘दये᳘ ह्येव᳘ - - भव AM. Read: भ᳘व. - ibid. ↩︎

  3. ऽस्यां द᳘क्षिणा᳘यां AM. - ibid. इ᳘ति द᳘क्षिणा᳘या AM. - ibid. ह्येव᳘ दक्षिणा AM. ↩︎

  4. हृ᳘दये᳘ ह्येव᳘ - - भव AM. Read: भ᳘व. - ibid. ↩︎

  5. प्र᳘तिरूपं᳘ AM. - ibid. सृप्तो parox.! ↩︎

  6. हृ᳘दये᳘ ह्येव᳘ - - भव AM. Read: भ᳘व. - ibid. ↩︎

  7. हृ᳘दये᳘ ह्येव᳘ - - भव AM. Read: भ᳘व. - ibid. ↩︎

  8. किं᳘देव᳘तो AM. ↩︎

  9. भवती᳘ति ↩︎

  10. अहल्लि AM. ↩︎

  11. एन᳘द् acc. AM. ↩︎

  12. न हि गृ᳘ह्यते᳘ - - न स᳘ज्यते (स᳘ज्जते A.) AM.: thus also at ११, ६ and ७, २, २७. - ibid. त्वौपनिष᳘दं AM. ↩︎

  13. मा पृछथ AM. D. पृछत is my conjecture. ↩︎

  14. वृ᳘क्षो, ऽमृषा, प᳘र्णाणि, वहिः AM. ↩︎

  15. त्व᳘च उ᳘त्पटः AM. ↩︎

  16. मज्जो᳘पमा᳘ कृता ॥ ३२॥ ↩︎

  17. यद्वृ᳘क्षो वृ᳘क्णो - पुनः AM. ↩︎

  18. मा वो᳘चत, जा᳘त एव, जनये᳘त्पुनः, धाना᳘रुह᳘, प्रेत्य स᳘म्भवः AM. ↩︎

  19. अधिकरणार्थ-सङ्ग्रहस्तु- ↩︎