०१

विश्वास-प्रस्तुतिः

अ᳘थ ह व्वाचक्न᳘व्व्युवाच॥
ब्ब्रा᳘ह्मणा भगवन्तो ह᳘न्ताह᳘मिमं या᳘ज्ञवल्क्यं द्वौ᳘ प्प्रश्नौ᳘ प्प्रक्ष्या᳘मि तौ चे᳘न्मे व्विवक्ष्य᳘ति न वै जा᳘तु युष्मा᳘कमिमङ्क᳘श्चिद्ब्रह्मो᳘द्यञ्जेते᳘ति तौ᳘ चेन्मे[[!!]] न᳘ व्विवक्ष्य᳘ति मूर्द्धा᳘ ऽस्य व्वि᳘पतिष्यती᳘ति प्पृ᳘च्छ गार्ग्गी᳘ति॥

मूलम् - श्रीधरादि

अ᳘थ ह व्वाचक्न᳘व्व्युवाच॥
ब्ब्रा᳘ह्मणा भगवन्तो ह᳘न्ताह᳘मिमं या᳘ज्ञवल्क्यं द्वौ᳘ प्प्रश्नौ᳘ प्प्रक्ष्या᳘मि तौ चे᳘न्मे व्विवक्ष्य᳘ति न वै जा᳘तु युष्मा᳘कमिमङ्क᳘श्चिद्ब्रह्मो᳘द्यञ्जेते᳘ति तौ᳘ चेन्मे[[!!]] न᳘ व्विवक्ष्य᳘ति मूर्द्धा᳘ ऽस्य व्वि᳘पतिष्यती᳘ति प्पृ᳘च्छ गार्ग्गी᳘ति॥

मूलम् - Weber

अ᳘थ ह वाचक्नॗव्युवाच॥
ब्रा᳘ह्मणा भगवन्तो ह᳘न्ताह᳘मिमं या᳘ज्ञवल्क्यं द्वौ᳘ प्रश्नौ᳘ प्रक्ष्या᳘मि तौ चे᳘न्मे विवक्ष्य᳘ति न वै जा᳘तु 1 युष्मा᳘कमिमं क᳘श्चिद्ब्रह्मो᳘द्यं जेते᳘ति तौ चे᳘न्मे न᳘ विवक्ष्य᳘ति मू᳘र्धास्य वि᳘पतिष्यतीति पृ᳘छ गार्गी᳘ति॥

मूलम् - विस्वरम्

वाचक्नवीब्राह्मणं, अक्षरब्राह्मणं वा सृष्टिप्रवेशब्राह्मणम् ।

अथ ह वाचक्नवी उवाच ! ब्राह्मणा भगवन्तः ! हन्त ! अहमिमं याज्ञवल्क्यं द्वौ प्रश्नौ प्रक्ष्यामि । तौ चेन्मे विवक्ष्यति, न वै जातु युष्माकमिमं कश्चित् ब्रह्मोद्यं जेतेति । तौ चेन्मे न विवक्ष्यति । मूर्द्धा ऽस्य विपतिष्यतीति । पृच्छ गार्गीति ॥ १ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

पूर्वस्मिन् ब्राह्मणे सूत्रान्तर्यामिणौ प्रश्न-प्रत्युक्तिभ्यां निर्धारितौ । सम्प्रति अशनायादि-विनिर्मुक्तं निरुपाधिकं साक्षाद्-अपरोक्षात्-सर्वान्तरं ब्रह्म वक्तुम् अक्षर-ब्राह्मणं प्रवर्तते- अथ ह वाचक्नव्युवाचेति । ‘अथ’ सोपाधिक-वस्तु- निर्द्धारणानन्तरं पूर्वं याज्ञवल्क्येन निषिद्धा मूर्द्ध-पात-भयादुपरता सती पुनः प्रष्टुं ब्राह्मणानुज्ञां प्रार्थयन्ती ‘ह’ किल वचक्नोर्दुहिता ‘वाचक्नवी’ पुनरुवाच । किं ? हे ‘ब्राह्मणा भगवन्तः’ पूजावन्तः मम वचः शृणुतेति शेषः । ‘हन्त’ यद्यनुमतिर्भवतामस्ति, तर्हि- ‘अहमिमं याज्ञवल्क्यं’ पुनर्द्वौ ‘प्रश्नौ प्रक्ष्यामि’ । ‘तौ’ प्रश्नौ चेद्यदि कथञ्चिन्मे मह्यं ‘विवक्ष्यति’ विस्पष्टं कथयिष्यति । तर्हि ‘जातु’ कदाचित् ‘युष्माकं’ मध्ये ‘कश्चित्’ को ऽप्यन्यतमः ‘इमं’ याज्ञवल्क्यं ‘ब्रह्मोद्यं’ ब्रह्म-वदनं प्रति ‘नवै’ नैव ‘जेता’ जय-कर्ता भवेदिति शेषः । अन्यच्च शृणुत । ‘तौ’ प्रश्नौ चेद्यदि ‘मे’ मह्यं ‘न विवक्ष्यति’ विस्पष्टं वक्तुं समर्थो न भविष्यति । तर्हि- ‘अस्य’ याज्ञवल्क्यस्यैव ‘मूर्द्धा’ शिरः ‘विपतिष्यति’ विस्पष्टं पतिष्यतीत्य् एवमुक्ता ब्राह्मणा अनुज्ञां प्रददुः । ‘पृच्छ गार्गि !’ प्रश्नं कुर्विति ॥ १ ॥

०२

विश्वास-प्रस्तुतिः

सा᳘ होवाच॥
(चा) अहम्वै᳘ त्वा याज्ञवल्क्य य᳘था का᳘श्यो वा व्वै᳘देहो वोग्ग्रपुत्र᳘ ऽउद्यन्ध᳘नुर᳘धिज्यङ्कृत्वा द्वौ बा᳘णवन्तौ सपत्नातिव्याधि᳘नौ ह᳘स्ते कृ᳘त्वोपोत्ति᳘ष्ठेदेव᳘मे᳘वाहन्त्वान्द्वा᳘भ्याम्प्रश्ना᳘भ्यामुपो᳘दस्थान्तौ᳘ मे ब्ब्रूही᳘ति प्पृ᳘च्छ गार्ग्गी᳘ति॥

मूलम् - श्रीधरादि

सा᳘ होवाच॥
(चा) अहम्वै᳘ त्वा याज्ञवल्क्य य᳘था का᳘श्यो वा व्वै᳘देहो वोग्ग्रपुत्र᳘ ऽउद्यन्ध᳘नुर᳘धिज्यङ्कृत्वा द्वौ बा᳘णवन्तौ सपत्नातिव्याधि᳘नौ ह᳘स्ते कृ᳘त्वोपोत्ति᳘ष्ठेदेव᳘मे᳘वाहन्त्वान्द्वा᳘भ्याम्प्रश्ना᳘भ्यामुपो᳘दस्थान्तौ᳘ मे ब्ब्रूही᳘ति प्पृ᳘च्छ गार्ग्गी᳘ति॥

मूलम् - Weber

सा᳘ होवाच॥
अहं वै᳘ त्वा याज्ञवल्क्य य᳘था का᳘श्यो वा वै᳘देहो ओग्रपुत्र᳘ उद्यं ध᳘नुर᳘धिज्यं कृत्वा द्वौ वा᳘णवन्तौ सपत्नाधिव्याधि᳘नौ ह᳘स्ते कृॗत्वोपोत्ति᳘ष्ठेदेव᳘मेॗवाहं᳘ त्वा द्वा᳘भ्याम् प्रश्ना᳘भ्यामुपो᳘दस्थां तौ᳘ मे ब्रूही᳘ति पृ᳘छ गार्गी᳘ति॥

मूलम् - विस्वरम्

सा होवाच । अहं वै त्वा याज्ञवल्क्य ! यथा काश्यो वा वैदेहो वोग्रपुत्र उद्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नाति-व्याधिनौ हस्ते कृत्वोपोत्तिष्ठेत् । एवमेव अहं त्वां द्वाभ्यां प्रश्नाभ्यामुपोदस्थाम् । तौ मे ब्रूहीति । पृच्छ गार्गीति ॥ २ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

सैवं लब्धानुज्ञा गार्गी ‘ह’ याज्ञवल्क्यं प्रति ‘उवाच’ । हे ‘याज्ञवल्क्य !’ ‘त्वा’ त्वां ‘अहं’ ‘द्वौ प्रश्नौ प्रक्ष्यामि’ इत्यनुषज्यते । कौ ताविति जिज्ञासायां तयोर्दुस्तरत्वं द्योतयितुं दृष्टान्त-पूर्वकं तौ प्रश्नौ आह- यथा काश्यो वेति । ‘काश्यो वा’ काशिषु भवः काश्यः लोके शूरत्वेन प्रसिद्धः । ‘वैदेहो वा’ । विदेहानां राजा ‘उग्र-पुत्रः’ शूरान्वय इत्य् अर्थः । उद्यमिति । उत् ऊर्ध्वं याति गच्छति विस्तृतं भवति इत्य् उद्यं अवतारितज्याकं धनुश्चापं पुनरधिज्यं ‘कृत्वा’ आरोपित-ज्याकं विधाय ‘द्वौ बाणवन्तौ’ बाण-शब्देन शराग्रे यो वंश-खण्डः सन्धीयते, स उच्यते । तेन विना ऽपि शरो भवति । अतो बाण-वन्ताविति विशिनष्टि । सपत्नाति-व्याधिनाविति तयोरेव विशेषणम् । सपत्नं शत्रुम् अतिशयेन वेद्धुं शीलं ययोस्तौ शत्रोरतिशयेन पीडाकरौ । ईदृशौ द्वौ शरौ ‘हस्ते कृत्वा’ ‘उपोत्तिष्ठेत्’ शत्रोः समीपत आत्मानं दर्शयेत् । एवमेवाहं ‘त्वां’ शर-स्थानीयाभ्यां प्रश्नाभ्यां ‘उपोदस्थां’ त्वत्-समीपे उत्थितवत्यस्मि । ततस्त्वं ब्रह्मविच्चेत्तर्हि ‘तौ’ प्रश्नौ तयोर्मया क्रियमाणयोः प्रश्नयोरुत्तरं ‘मे’ मह्यं ‘ब्रूहि’ । एवमुक्तो याज्ञवल्क्यो हे ‘गार्गि ! पृच्छ’ यथेष्टं प्रश्नं कुरु । इत्युक्तवानिति शेषः ॥ २ ॥

०३

विश्वास-प्रस्तुतिः

सा᳘ होवाच॥
य᳘दूर्ध्वं᳘ याज्ञवल्क्य दिवो य᳘दवा᳘क्पृथिव्या य᳘दन्तरा द्या᳘वापृथिवी᳘ ऽइमे य᳘द्भूतञ्च[[!!]] भ᳘वच्च भ᳘विष्यच्चे᳘त्याच᳘क्षते क᳘स्मिँस्तदो᳘तञ्च प्प्रो᳘तञ्चे᳘ति॥

मूलम् - श्रीधरादि

सा᳘ होवाच॥
य᳘दूर्ध्वं᳘ याज्ञवल्क्य दिवो य᳘दवा᳘क्पृथिव्या य᳘दन्तरा द्या᳘वापृथिवी᳘ ऽइमे य᳘द्भूतञ्च[[!!]] भ᳘वच्च भ᳘विष्यच्चे᳘त्याच᳘क्षते क᳘स्मिँस्तदो᳘तञ्च प्प्रो᳘तञ्चे᳘ति॥

मूलम् - Weber

सा᳘ होवाच॥
य᳘दूर्ध्वं᳘ याज्ञवल्क्य दिवो य᳘दवा᳘क्पृथिव्या य᳘दन्तरा द्या᳘वापृथिवी᳘ इमे य᳘द्भूतं᳘ च भ᳘वच्च भविष्यच्चे᳘त्याच᳘क्षते 2 क᳘स्मिंस्तदो᳘तं च प्रो᳘तं चे᳘ति॥

मूलम् - विस्वरम्

सा होवाच- यदूर्ध्वं याज्ञवल्क्य दिवः, यदवाक्पृथिव्याः, यदन्तरा द्यावापृथिवी इमे, यद्भूतं च, भवच्च, भविष्यच्च इत्याचक्षते, कस्मिँस्तदोतं च प्रोतं च इति ॥ ३ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘सा’ एवमुक्ता गार्गी ‘ह उवाच’ अपृच्छत् । हे याज्ञवल्क्य ! ‘यत् दिवः‘ द्युसंज्ञितात् उपरितनाण्डकपालात् ऊर्ध्वमुपरि अस्ति । यच्च ‘पृथिव्याः’ अधस्तनाण्डकपालादवाक् अधो वर्तते । यच्च ‘द्यावापृथिवी अन्तरा’ द्यावापृथिव्योरण्डकपालयोर्मध्ये अस्ति । ये च ‘इमे’ प्रसिद्धद्यावापृथिवी स्तः । यद्भूतमतीतं च यद्भवद्वर्तमानं स्वव्यापारस्थं च भविष्यद्वर्तमानकालादूर्ध्वभावि लिङ्गाम्यं च । यत्सर्वदा एवमाचक्षते कथयन्त्यागमतः । तत्सर्वं द्वैत-जातं जगत् यस्मिन्नेकं भवतीत्यर्थः तत्-सूत्र-संज्ञं पूर्वोक्तं ‘कस्मिन्नोतं प्रोतं च’ उत्पत्तौ स्थितौ लये चेत्येवं त्रिष्वपि कालेषु पृथिवी-धातुरप्स्विव वर्तत इत्य् अर्थः ॥ ३ ॥

०४

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
य᳘दूर्ध्व᳘ङ्गार्ग्गि दिवो य᳘दवा᳘क्पृथिव्या य᳘दन्तरा द्या᳘वापृथिवी᳘ ऽइमे यद्भू᳘तञ्च भ᳘वच्च भ᳘विष्यच्चे᳘त्याच᳘क्षत ऽआकाशे तदो᳘तञ्च प्प्रो᳘तञ्चेति[[!!]]॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
य᳘दूर्ध्व᳘ङ्गार्ग्गि दिवो य᳘दवा᳘क्पृथिव्या य᳘दन्तरा द्या᳘वापृथिवी᳘ ऽइमे यद्भू᳘तञ्च भ᳘वच्च भ᳘विष्यच्चे᳘त्याच᳘क्षत ऽआकाशे तदो᳘तञ्च प्प्रो᳘तञ्चेति[[!!]]॥

मूलम् - Weber

स᳘ होवाच॥
य᳘दूर्ध्वं᳘ गार्गी दिवो य᳘दवा᳘क्पृथिव्या य᳘दन्तरा द्या᳘वापृथिवी᳘ इमे य᳘द्भूतं च भ᳘वच्च भविष्यच्चे᳘त्याच᳘क्षत 3 आकाशे तदो᳘तं च प्रो᳘तं चे᳘ति॥

मूलम् - विस्वरम्

स होवाच- यदूर्ध्वं गार्गि दिवः, यदवाक्पृथिव्याः, यदन्तरा द्यावा-पृथिवी इमे, यद्भूतं च, भवच्च, भविष्यच्च इत्याचक्षते, आकाशे तदोतं च प्रोतं च इति ॥ ४ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘सः’ याज्ञवल्क्यः ‘उवाच’ । हे ‘गार्गि’ ! ‘यत्’ त्वयोक्तं ‘ऊर्ध्वं दिवः’ इत्यादि तत्सर्वं यत्सूत्रमचक्षते । ‘तत्’ व्याकृतं जगदात्मकं सूत्रं अव्याकृत-शब्द-वाच्ये नारायणाख्ये अन्तर्यामिणि ‘ओतं च प्रोतं च’ उत्पत्तौ स्थितौ लये चेत्येवं त्रिष्वपि कालेषु पृथिवी-धातुरप्स्विव वर्तत इत्य् अर्थः ॥ ४ ॥

०५

विश्वास-प्रस्तुतिः

सा᳘ होवाच॥
न᳘मस्ते याज्ञवल्क्य यो᳘ म ऽएतम्व्य᳘वोचो᳘ ऽपरस्मै धार᳘यस्वे᳘ति प्पृ᳘च्छ गार्ग्गी᳘ति॥

मूलम् - श्रीधरादि

सा᳘ होवाच॥
न᳘मस्ते याज्ञवल्क्य यो᳘ म ऽएतम्व्य᳘वोचो᳘ ऽपरस्मै धार᳘यस्वे᳘ति प्पृ᳘च्छ गार्ग्गी᳘ति॥

मूलम् - Weber

सा᳘ होवाच॥
न᳘मस्ते याज्ञवल्क्य यो᳘ म एतं व्य᳘वोचो᳘ऽपरस्मै धार᳘यस्वे᳘ति 4 पृ᳘छ गार्गी᳘ति॥

मूलम् - विस्वरम्

सा होवाच । नमस्ते याज्ञवल्क्य । यो म एतं व्यवोचः । अपरस्मै धारयस्वेति । पृच्छ गार्गीति ॥ ५ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘सा’ एवं अपाकृत-प्रथम-प्रश्ना गार्गी ‘उवाच’ ‘ह’ हे ’याज्ञवल्क्य’ यस्त्वं ‘मे’ मम ‘एतं’ दुर्वचं प्रश्नं ‘व्यवोचः’ विशेषेणापकृतवान् असि । अतस्ते तुभ्यं नमो ऽस्तु । ‘अपरस्मै’ द्वितीयाय प्रश्नाय ‘धारयस्व’ दृढीकुरु । आत्मानमित्य् अर्थः । इतरः आह- ’पृच्छ गार्गीति’ ॥ ५ ॥

०६

विश्वास-प्रस्तुतिः

सा᳘ होवाच॥
य᳘दूर्ध्वं᳘ याज्ञवल्क्य दिवो य᳘दवा᳘क्पृथिव्या य᳘दन्तरा द्या᳘वापृथिवी᳘ ऽइमे यद्भू᳘तञ्च[[!!]] भ᳘वच्च भ᳘विष्यच्चेत्याच᳘क्षते[[!!]] क᳘स्मिन्नेव तदो᳘तञ्च प्रो᳘तञ्चे᳘ति॥

मूलम् - श्रीधरादि

सा᳘ होवाच॥
य᳘दूर्ध्वं᳘ याज्ञवल्क्य दिवो य᳘दवा᳘क्पृथिव्या य᳘दन्तरा द्या᳘वापृथिवी᳘ ऽइमे यद्भू᳘तञ्च[[!!]] भ᳘वच्च भ᳘विष्यच्चेत्याच᳘क्षते[[!!]] क᳘स्मिन्नेव तदो᳘तञ्च प्रो᳘तञ्चे᳘ति॥

मूलम् - Weber

सा᳘ होवाच॥
य᳘दूर्ध्वं᳘ याज्ञवल्क्य दिवो य᳘दवा᳘क्पृथिव्या य᳘दन्तरा द्या᳘वापृथिवी᳘ इमे य᳘द्भूतं᳘ च भ᳘वच्च भविष्यच्चे᳘त्याच᳘क्षते 5 क᳘स्मिन्नेव तदो᳘तं च प्रो᳘तं चेति॥

मूलम् - विस्वरम्

सा होवाच- यदूर्ध्वं याज्ञवल्क्य दिवः, यदवाक्पृथिव्याः, यदन्तरा द्यावापृथिवी इमे, यद्भूतं च, भवच्च, भविष्यच्च इत्याचक्षते, कस्मिन्नेव तदोतं च प्रोतं च इति ॥ ६ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“सा होवाच यदूर्ध्वं याज्ञवल्क्य” इत्यादिप्रश्नः प्रतिवचनं चेत्युक्तस्यैवार्थस्यावधारणार्थं पुनरुच्यते- न किञ्चिदपूर्वमर्थान्तरमित्य् अर्थः । गार्ग्या सर्वं यथोक्तं प्रत्युच्चार्य “कस्मिन्नेव तदोतं च प्रोतं च” इत्य् उक्तार्थेन वाक्येन पुनरधिकरणमेव पृष्टमित्य् अर्थः ॥ ६ ॥

०७

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
य᳘दूर्ध्व᳘ङ्गार्ग्गि दिवो य᳘दवा᳘क्पृथिव्या य᳘दन्तरा द्या᳘वापृथिवी᳘ ऽइमे यद्भू᳘तञ्च[[!!]] भ᳘वच्च भ᳘विष्यच्चेत्याच᳘क्षत ऽआकाश᳘ ऽएव[[!!]] तदो᳘तञ्च प्प्रो᳘तञ्चे᳘ति क᳘स्मि᳘न्न्वाकाश ऽओ᳘तश्च प्प्रो᳘तश्चेति[[!!]]॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
य᳘दूर्ध्व᳘ङ्गार्ग्गि दिवो य᳘दवा᳘क्पृथिव्या य᳘दन्तरा द्या᳘वापृथिवी᳘ ऽइमे यद्भू᳘तञ्च[[!!]] भ᳘वच्च भ᳘विष्यच्चेत्याच᳘क्षत ऽआकाश᳘ ऽएव[[!!]] तदो᳘तञ्च प्प्रो᳘तञ्चे᳘ति क᳘स्मि᳘न्न्वाकाश ऽओ᳘तश्च प्प्रो᳘तश्चेति[[!!]]॥

मूलम् - Weber

स᳘ होवाच॥
य᳘दूर्ध्वं᳘ गार्गी दिवो य᳘दवा᳘क्पृथिव्या य᳘दन्तरा द्या᳘वापृथिवी᳘ इमे य᳘द्भूतं᳘ च भ᳘वच्च भविष्यच्चे᳘त्याच᳘क्षत 6 आकाश᳘ एव तदो᳘तं च प्रो᳘तं चे᳘ति क᳘स्मिॗन्न्वाकाश ओ᳘तश्च प्रो᳘तश्चे᳘ति॥

मूलम् - विस्वरम्

स होवाच- यदूर्ध्वं गार्गि दिवः, यदवाक्पृथिव्याः, यदन्तरा द्यावापृथिवी इमे, यद्भूतं च, भवच्च, भविष्यच्च इत्य् आचक्षते, आकाश एव तदोतं च प्रोतं च । इति कस्मिन्नु आकाश ओतश्च प्रोतश्चेति ॥ ७ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवं पृष्टः ‘सः’ याज्ञवल्क्यः ‘ह उवाच’ हे ‘गार्गि !’ यत्त्वं ‘ऊर्ध्वं दिवः’ इत्यादि पृष्टवत्यसि ‘तदाकाश एव’ ‘ओत-प्रोत-भावेन वर्तत इत्य् अवधारितवान् याज्ञवल्क्यः । द्वितीयं प्रश्नमाह- **कस्मिन्न्वाकाश इति । ‘कस्मिन्नु’ खलु ‘आकाशः ओतश्च प्रोतश्चेति’ । आकाशः एव तावत् कालत्रयातीतत्वाद्दुर्वाच्यः । ततो ऽपि कष्टतरमक्षरं यास्मिन् ‘आकाश ओतश्च प्रोतश्चेति’ । अतः अवाच्यमिति कृत्वा न प्रतिपद्यते सा । अप्रतिपत्तिर्नाम निग्रह-स्थानं तार्किक-समये । अथावाच्यमपि वदति । विप्रतिपत्तिर्नाम निग्रह-स्थानं यदवाच्यस्य वदनम् । सा हि विरुद्धा प्रतिपत्तिः । अतो दुर्वचं प्रश्नं मन्यते गार्गीति भावः ॥ ७ ॥

०८

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
(चै) एतद्वै त᳘दक्ष᳘रङ्गार्ग्गि ब्ब्राह्मणा᳘ ऽअभि᳘वदन्त्य᳘स्थूल᳘मनण्व᳘ह्रस्व᳘मदीर्ग्घ᳘मलो᳘हितमस्नेह᳘मच्छाय᳘मत᳘मो ऽवा᳘य्वनाकाश᳘मसङ्ग᳘मस्पर्श᳘मगन्ध᳘मरस᳘मचक्षु᳘ष्कमश्रोत्र᳘मवा᳘गम᳘नो ऽतेज᳘स्कमप्प्राणम᳘मुखम᳘नामा᳘गोत्रमज᳘रमम᳘रमभ᳘यममृ᳘तमर᳘जो ऽशब्दम᳘विवृतमस᳘म्वृतमपूर्व्व᳘मनपर᳘मनन्तर᳘मबाह्यन्न᳘[[!!]] तदश्नोति[[!!]] क᳘ञ्चन न᳘ तदश्नोति[[!!]] क᳘श्चन॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
(चै) एतद्वै त᳘दक्ष᳘रङ्गार्ग्गि ब्ब्राह्मणा᳘ ऽअभि᳘वदन्त्य᳘स्थूल᳘मनण्व᳘ह्रस्व᳘मदीर्ग्घ᳘मलो᳘हितमस्नेह᳘मच्छाय᳘मत᳘मो ऽवा᳘य्वनाकाश᳘मसङ्ग᳘मस्पर्श᳘मगन्ध᳘मरस᳘मचक्षु᳘ष्कमश्रोत्र᳘मवा᳘गम᳘नो ऽतेज᳘स्कमप्प्राणम᳘मुखम᳘नामा᳘गोत्रमज᳘रमम᳘रमभ᳘यममृ᳘तमर᳘जो ऽशब्दम᳘विवृतमस᳘म्वृतमपूर्व्व᳘मनपर᳘मनन्तर᳘मबाह्यन्न᳘[[!!]] तदश्नोति[[!!]] क᳘ञ्चन न᳘ तदश्नोति[[!!]] क᳘श्चन॥

मूलम् - Weber

स᳘ होवाच॥
एतद्वै त᳘दक्ष᳘रं गार्गी ब्राह्मणा᳘ अभि᳘वदन्त्य᳘स्थूलम᳘नण्व᳘ह्रस्वम᳘दीर्घमलो᳘हितमस्नेह᳘मछाय᳘मतॗमोऽवाय्व᳘नाकाश᳘मसङ्ग᳘मस्पर्श᳘मगन्ध᳘मरस᳘मचक्षु᳘ष्कमश्रोत्र᳘मवा᳘गमॗनोऽतेज᳘स्कमप्राणम᳘मुखम᳘नामा᳘गोत्रमज᳘रमम᳘रमभ᳘यममृ᳘तमरॗजोऽशब्दम᳘विवृतम᳘संवृतमपूर्व᳘मनपर᳘मनन्तर᳘मबाह्यं 7 न त᳘दश्नोति कं᳘ चन न त᳘दश्नोति क᳘श्चन॥

मूलम् - विस्वरम्

स होवाच । एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति । अस्थूलम् । अनणु । अह्रस्वम् । अदीर्घम् । अलोहितम् । अस्नेहम् । अच्छायम् । अतमः । अवायु । अनाकाशम् । असङ्गम् । अस्पर्शम् । अगन्धम् । अरसम् । अचक्षुष्कम् । अश्रोत्रम् । अवाक् । अमनः । अतेजस्कम् । अप्राणम् । अमुखम् । अनाम । अगोत्रम् । अजरम् । अमरम् । अभयम् । अमृतम् । अरजः । अशब्दम् । अविवृतम् । असंवृतम् । अपूर्वम् । अनपरम् । अनन्तरम् । अबाह्यम् । न तदश्नोति कञ्चन । न तदश्नोति कश्चन ॥ ८ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

तद्दोषद्वयमपि परिजिहीर्षन्नाह- स होवाचेति । ‘सः’ याज्ञवल्क्यः ‘ह उवाच’ । हे ‘गार्गि !’ ‘यत्’ त्वं “कस्मिन्न्वाकाशः” इत्यादिना अव्याकृताधिष्ठानं पृष्टवत्य् असि । ‘एतदक्षरं वै’ न क्षरति न क्षीयते वा तदक्षरं शुद्धं ब्रह्म ‘ब्राह्मणाः’ ब्रह्मविदः ‘अभिवदन्ति’ कथयन्ति । ब्राह्मणाभि-वदन-कथनेन नाहमवाच्यं वक्ष्यामि । न च- न प्रतिपद्येय, इत्य् एवं दोषाद्वयं परिहरति । एवमपाकृते प्रश्ने पुनर्गार्ग्याः प्रतिवचनं तु प्रष्टव्यं ब्रूहि किं तदक्षरं यद्ब्राह्मणा अभिवदन्तीत्य् उक्तौ याज्ञवल्क्य आह- अस्थूलमित्यादि । स्थूलादन्यदस्थूलं तत् । एवं तर्हि अणु ? अणोरन्यत् ‘अनणु’ । अस्तु तर्हि ह्रस्वं ? ह्रस्वादन्यदह्रस्वम् । एवं तर्हि दीर्घं ? नापि दीर्घमदीर्घम् । एवमेतैश्चतुर्भिः परिमाण-प्रतिषेधैर्द्रव्यधर्मप्रतिषेधे न द्रव्यं तदक्षरमिति भावः । अस्तु तर्हि आग्नेयो गुणो लोहितः ? ततो ऽपि अन्यदलोहितम् । तर्हि अस्तु अपां गुणः स्नेहः ? ततो ऽप्यन्यदस्नेहम् । अस्तु तर्हि छाया दीप्तिः तमो ध्वान्तं ? सर्वथा ऽपि अन्यत् । ‘अवायु’ । अस्तु तर्ह्याकाशं ? ‘अनाकाशम्’ । अस्तु तर्हि जतुवत्सङ्गात्मकं ? ‘असङ्गम्’ । तर्हि स्पर्शो ऽस्तु ? ‘अस्पर्शम्’ । तर्हि गन्धो ऽस्तु ? ‘अगन्धम्’ । तर्हि रसो ऽस्तु ? ‘अरसम्’ । तथा ‘अचक्षुष्कं’ । न हि चक्षुरस्य करणं विद्यते । अतः ‘अचक्षुष्कम्’ । तथा ‘अश्रोत्रं’ । “पश्यत्यचक्षुः स श‍ृणोत्यकर्णः”- ( ) इति मन्त्र-वर्णात् । तथा ‘अवाक्’ । तथा ‘अमनः’ । तथा ‘अतेजस्कम्’ । अविद्यमानम् अग्न्यादि-प्रकाशवत् तेजो ऽस्य तदतेजस्कम् । तथा ‘अप्राणं’ आध्यात्मिको वायुः प्रतिषेध्यः । अतः अप्राणमिति । तर्हि मुखं द्वारमस्तु ? न विद्यते मुखं प्रसिद्धं यस्य तदमुखम् । ‘अनाम’ नाम-रहितम् । ‘अगोत्रं’ न विद्यते गोत्रं यस्य तदगोत्रम् । गोत्रादन्यद्वा । ‘अजरं’ वृद्धत्व-धर्म-रहितम् । ‘अमरं’ मरण-धर्म-रहितम् । तर्हि आपेक्षिकं अमरत्वं इन्द्रादिवद्भविष्यति अतः ‘अभयं’ सर्वथा भीतिवर्जम् । अत एवामृतं अभिकामत्ववर्जितमित्य् अर्थः । ‘अरजः’ न विद्यते रजो यस्मिंस्तदरजः रजसो ऽन्यद्वा । ‘अशब्दं’ न विद्यते शब्दो यस्मिँस्तदशब्दं शब्दादन्यद्वा । ‘अविवृतं’ न विवृतमिति ‘अविवृतम्’ । ‘असंवृतं’ न संवृतमाकारो यस्य तदसंवृतम् । ‘अपूर्वं’ अविद्यमानं पूर्वं यस्य तदपूर्वम् । ‘अनपरं’ अविद्यमानमपरं यस्य तदनपरम् । ‘अनन्तरं’ अविद्यमानमन्तरं छिद्रं यस्य तदनन्तरम् । ‘अबाह्यं’ न विद्यते बाह्यं यस्येति ‘अबाह्यम्’ । अपरिच्छिन्नमित्य् अर्थः । अनात्मव्यक्तीनामानन्त्येन प्रत्येकं निषेधाशक्तेर्भोक्तृभोग्यात्माना एकी-कृत्य निषेधति- न तदश्नोति कञ्चनेत्यादिना । ‘तदक्षरं’ ‘कञ्चन’ कञ्चिदपि विषयं ‘नाश्नोति’ नाश्नाति न भुङ्क्ते इत्य् अर्थः । ‘कश्चन’ को ऽपि लोकः तदक्षरं ‘नाश्नोति’ नाश्नातीत्य् अर्थः । “अश भोजने”- (धा. पा. क्र्या. प. ५१) इति धातोः क्र्यादिगणस्थात् “व्यत्ययो बहुलम्”- (पा. सू. ३ । १ । ८५) इति व्यत्ययेन श्नुः प्रत्ययो बोद्धव्यः । अत एव परस्मैपदमप्युपपन्नम् ॥ ८ ॥

०९

विश्वास-प्रस्तुतिः

(नै) एत᳘स्य वा᳘ ऽअक्ष᳘रस्य॥
प्प्रशा᳘सने गार्ग्गि द्या᳘वापृथिवी व्वि᳘धृते ति᳘ष्ठत ऽएत᳘स्य वा᳘ ऽअक्ष᳘रस्य प्प्रशा᳘सने गार्गि सूर्य्याचन्द्द्रम᳘सौ व्वि᳘धृतौ ति᳘ष्ठत ऽएत᳘स्य वा᳘ ऽअक्ष᳘रस्य प्प्रशा᳘सने गार्ग्ग्यहोरात्रा᳘ण्यर्द्धमासा मा᳘सा ऽऋत᳘वः सम्वत्सरा व्वि᳘धृतास्ति᳘ष्ठन्त्येत᳘स्य वा᳘ ऽअक्ष᳘रस्य प्प्रशा᳘सने गार्ग्गि प्प्रा᳘च्यो ऽन्या न᳘द्यः स्य᳘न्दन्ते श्वेते᳘भ्यः प᳘र्व्वतेभ्यः प्प्रती᳘च्यो ऽन्या यां᳘ याञ्च दि᳘शमेत᳘स्य वा᳘ ऽअक्ष᳘रस्य प्प्रशा᳘सने गार्ग्गि द᳘दतम्मनुष्याः[[!!]] प्प्र᳘शᳫँ᳭सन्ति य᳘जमानन्देवा द᳘र्व्व्यम्पित᳘रो ऽन्वा᳘यत्ताः॥

मूलम् - श्रीधरादि

(नै) एत᳘स्य वा᳘ ऽअक्ष᳘रस्य॥
प्प्रशा᳘सने गार्ग्गि द्या᳘वापृथिवी व्वि᳘धृते ति᳘ष्ठत ऽएत᳘स्य वा᳘ ऽअक्ष᳘रस्य प्प्रशा᳘सने गार्गि सूर्य्याचन्द्द्रम᳘सौ व्वि᳘धृतौ ति᳘ष्ठत ऽएत᳘स्य वा᳘ ऽअक्ष᳘रस्य प्प्रशा᳘सने गार्ग्ग्यहोरात्रा᳘ण्यर्द्धमासा मा᳘सा ऽऋत᳘वः सम्वत्सरा व्वि᳘धृतास्ति᳘ष्ठन्त्येत᳘स्य वा᳘ ऽअक्ष᳘रस्य प्प्रशा᳘सने गार्ग्गि प्प्रा᳘च्यो ऽन्या न᳘द्यः स्य᳘न्दन्ते श्वेते᳘भ्यः प᳘र्व्वतेभ्यः प्प्रती᳘च्यो ऽन्या यां᳘ याञ्च दि᳘शमेत᳘स्य वा᳘ ऽअक्ष᳘रस्य प्प्रशा᳘सने गार्ग्गि द᳘दतम्मनुष्याः[[!!]] प्प्र᳘शᳫँ᳭सन्ति य᳘जमानन्देवा द᳘र्व्व्यम्पित᳘रो ऽन्वा᳘यत्ताः॥

मूलम् - Weber

एत᳘स्य वा᳘ अक्ष᳘रस्य॥
प्रशा᳘सने गार्गी द्या᳘वापृथिवी वि᳘धृते ति᳘ष्ठत एत᳘स्य वा᳘ अक्ष᳘रस्य प्रशा᳘सने गार्गि सूर्याचन्द्रम᳘सौ वि᳘धृतौ ति᳘ष्ठत एत᳘स्य वा अक्ष᳘रस्य प्रशा᳘सने गार्ग्यहोरात्रा᳘ण्यर्धमासा मा᳘सा ऋत᳘वः संवत्सरा वि᳘धृतास्ति᳘ष्ठन्त्येत᳘स्य वा᳘ अक्ष᳘रस्य प्रशा᳘सने गार्गि प्रा᳘च्योऽन्या न᳘द्यः स्य᳘न्दन्ते श्वेते᳘भ्यः प᳘र्वतेभ्यः प्रती᳘च्योऽन्या यां᳘ यां च दि᳘शमेत᳘स्य वा᳘ अक्ष᳘रस्य प्रशा᳘सने गार्गि द᳘दतम् मनुॗष्याः प्र᳘शंसन्ति य᳘जमानं देवा द᳘र्व्यम् पित᳘रोऽन्वा᳘यत्ताः॥

मूलम् - विस्वरम्

एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिवी विधृते तिष्ठतः । एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः । एतस्य वा अक्षरस्य प्रशासने गार्गि अहोरात्राणि अर्धमासा मासा ऋतवः संवत्सरा विधृतास्तिष्ठन्ति । एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्यो ऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः । प्रतीच्यः अन्या यां यां च दिशम् । एतस्य वा अक्षरस्य प्रशासने गार्गि ददतं मनुष्याः प्रशंसन्ति । यजमानं देवाः । दर्व्यं पितरो ऽन्वायत्ताः ॥ ९ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवं अशेषविशेषणनिषेधावधित्वेन तत्साक्षित्वेन च अक्षर-अस्तित्वे सिद्धे ऽपि इदानीं तस्यैव अविद्यकैषितव्यसम्बन्धात्, ईश्वरात्मभूतस्यास्तित्वाय अनुमानप्रमाणमुपन्यस्यति- एतस्य वा अक्षरस्येति । यदेतत् अधिगतमक्षरं सर्वान्तरं साक्षादपरोक्षाद्ब्रह्म य आत्मा अशनाया ऽदिधर्मातीतः । ‘एतस्य वै’ ‘अक्षरस्य’ ‘प्रशासने’ आज्ञायां हे ‘गार्गि !’ ‘द्यावापृथिवी’ द्यौश्च पृथिवी च द्यावापृथिवी । द्विवचनलोपश्छान्दसः । ते ‘विधृते’ हस्तन्यस्तपाषाणादिवत् ‘तिष्ठतः’ वर्तेते । अतस्तदस्त्येव । “येन द्यौरुग्रा पृथिवी च दृढा येन स्वः स्तम्भितं येन नाकः” (वा. सं. अ. ३२ । ६) इति मन्त्रवर्णात् । तथा हे गार्गि ! एतस्योक्तरूपस्याक्षरस्य ‘प्रशासने’ आज्ञायां ‘सूर्याचन्द्रमसौ’ सूर्यश्च चन्द्रमाश्च ‘सूर्याचन्द्रमसौ’ ‘विधृतौ’ नियतौ ‘तिष्ठतः’ वर्तेते भृत्यादिवत् । तथा ‘अहोरात्राणि अर्द्धमासा मासा ऋतवः संवत्सराः’ इत्य् एते काल-अवयवाः सर्वस्यातीतानागतवर्तमानस्य जनिमतः कलयितारो विधृतास्तिष्ठन्ति नियता वर्तन्ते । यथा लोके प्रभुणा नियमितो गणकः सर्वं आयं व्ययं चाप्रमतो गणयति । तथा प्रभुस्थानीयं एषां काल-अवयवानां नियन्तृ तदक्षरमस्त्येव । तथा ‘प्राच्यः’ प्रागंमनाः प्राग्-दिग्-गमनाः ‘नद्यः’ गंगाद्याः ‘श्वेतेभ्यः’ हिमवदादिभ्यः ‘पर्वतेभ्यः’ गिरिभ्यः ‘स्यन्दन्ते’ अन्यथा ऽपि प्रसर्तुंमुत्सहन्त्यो यथा प्रवर्तिते एव नियताः प्रवर्तते । तदेतत्प्रशास्तुर्लिङ्गम् । तथा ‘प्रतीच्यः’ प्रतीची-दिग्-गमनाः सिन्ध्वाद्याः ‘नद्यः’ अन्याश्च नद्यः ‘यां यां च’ दिशमनुप्रवृत्तास्ता अक्षरप्रशासनादद्यापि तथैव प्रवर्तन्ते । तदपि लिङ्गम् । किञ्च- ‘ददतं’ दुःखार्ज्जितान् गो-हिरण्यादीन् प्रयच्छन्तं पुरुषं ‘मनुष्याः’ “हिरण्यदा अमृतत्वं भजन्ते” (ऋ. सं.) इत्यादि-प्रमाण-ज्ञा अपि ‘प्रशंसन्ति’ स्तुतिं कुर्वते । तथा च- एतस्य प्रशासनस्य फल-सम्बन्ध-फलकत्वेन तत्कर्तृ अक्षरं सिद्धम् । न च- स्वातन्त्र्येण देवादिकर्तृक एव फल-सम्बन्ध इति वाच्यं, तेषामपीश्वराधीनत्वादित्याह- यजमानं देवा इति । ‘देवाः’ इन्द्रादयः अन्यथा जीवितुं समर्था अपि जीवितं निमित्तीकृत्य च पुरोडाशाद्य्-उपजीवन-प्रयोजनेन अनीश्वरमपि ‘यजमानं अन्वायत्ताः’ अनुगताः । तथा ‘पितरः’ ‘अर्थमादयः’ ‘दर्व्यं’ दर्वीहोमं ‘अन्वायत्ताः’ अनुगता इत्य् अर्थः । यो न कस्यचित् प्रकृतित्वेन विकृतित्वेन वा वर्तते । स दर्वीहोमः । दर्वीसाध्यो होमो दर्व्यः तम् । तथा च- देवादीनामपि मनुष्याधीनत्वाख्यहीनवृत्तिभाक्त्वं नियन्तृकल्पकमित्य् अर्थः ॥ ९ ॥

१०

विश्वास-प्रस्तुतिः

(०) यो वा᳘ ऽएत᳘दक्ष᳘रम᳘विदित्वा गा᳘र्ग्गि॥
(र्ग्ग्य) अस्मिं᳘ल्लोके᳘ जुहो᳘ति ददा᳘ति[[!!]] त᳘पस्यत्य᳘पि बहू᳘नि व्वर्षसहस्राण्य᳘न्तवानेवास्य[[!!]] स᳘ लोको᳘ भवति यो वा᳘ ऽएत᳘दक्ष᳘रम᳘विदित्वा गार्ग्ग्यस्मा᳘ल्लोकात्प्रै᳘ति स᳘ कृपणो᳘ ऽथ य᳘ ऽएत᳘दक्ष᳘रङ्गार्ग्गि व्विदि᳘त्वा ऽस्मा᳘ल्लोकात्प्रै᳘ति स᳘ ब्ब्राह्मणः[[!!]]॥

मूलम् - श्रीधरादि

(०) यो वा᳘ ऽएत᳘दक्ष᳘रम᳘विदित्वा गा᳘र्ग्गि॥
(र्ग्ग्य) अस्मिं᳘ल्लोके᳘ जुहो᳘ति ददा᳘ति[[!!]] त᳘पस्यत्य᳘पि बहू᳘नि व्वर्षसहस्राण्य᳘न्तवानेवास्य[[!!]] स᳘ लोको᳘ भवति यो वा᳘ ऽएत᳘दक्ष᳘रम᳘विदित्वा गार्ग्ग्यस्मा᳘ल्लोकात्प्रै᳘ति स᳘ कृपणो᳘ ऽथ य᳘ ऽएत᳘दक्ष᳘रङ्गार्ग्गि व्विदि᳘त्वा ऽस्मा᳘ल्लोकात्प्रै᳘ति स᳘ ब्ब्राह्मणः[[!!]]॥

मूलम् - Weber

यो वा᳘ एत᳘दक्ष᳘रम᳘विदित्वा गार्गि 8
अस्मिं᳘लोके᳘ जुहो᳘ति द᳘दाति त᳘पस्यत्य᳘पि बहू᳘नि वर्षसहस्राण्य᳘न्तवानेॗवास्य स᳘ लोको᳘ भवति यो वा᳘ एत᳘दक्ष᳘रम᳘विदित्वा गार्ग्यस्मा᳘ल्लोकात्प्रै᳘ति स᳘ कृपणो᳘ऽथ य᳘ एत᳘दक्ष᳘रं गार्गि विदिॗत्वास्मा᳘ल्लोकात्प्रै᳘ति स᳘ ब्राह्मणः᳟॥

मूलम् - विस्वरम्

यो वा एतदक्षरमविदित्वा गार्गि अस्मिल्ँ लोके जुहोति ददाति तपस्यत्यपि बहूनि वर्षसहस्राणि । अन्तवानेवास्य स लोको भवति । यो वा एतदक्षरमविदित्वा गार्ग्यस्माल्लोकात्प्रैति स कृपणः । अथ य एतदक्षरं गार्गि विदित्वा ऽस्माल्लोकात्प्रैति स ब्राह्मणः ॥ १० ॥

श्रीमद्वासुदेवब्रह्मभगवान्

किञ्च यस्य अज्ञानेन नियता संसारोपपत्तिः । यद्विज्ञानेन च संसारविच्छेदः । तदस्ति अक्षरमिति साधयितुं कर्मणामेव मोक्ष-हेतुत्वमिति पक्षं निराकरोति- यो वा ऽएतदक्षरमिति । हे ‘गार्गि’ ! ‘यो वै’ कश्चित्पुरुषः ‘एतदक्षरमविदित्वा’ अविज्ञाय ‘अस्मिन् लोके’ कर्म-लोके ‘जुहोति’ देवतोद्देशेन सङ्कल्पितं द्रव्यमग्नौ प्रक्षिपति । तथा ‘ददाति’ गोहिरण्यादिकं प्रयच्छति । यद्यपि ‘बहूनि’ अनेकानि ‘वर्ष-सहस्राणि तपस्यति’ तपश्चान्द्रायणादिकं आचरति । तथापि ‘अस्य’ कर्तुः ‘स लोक अन्तवानेव भवति’ । तत्साङ्गमपि क्रियमाणं कर्म तत्-फलोपभोगति क्षीयत एव । न नित्य-मोक्ष-फलकं भवतीत्य् अर्थः । तथा हे ‘गार्गि !’ ‘यो वै’ एतदक्षरमहं ब्रह्मास्मीत्यविदित्वा ‘अस्माल्लोकात्’ कर्म-लोकात् ‘प्रैति’ म्रियते । ‘स कृपणः’ अक्ष-पण-क्रीतो दासादिरिव दीनः कर्म-फलस्यैव भोक्ता न तु मोक्षस्येत्य् अर्थः । ‘अथ’ तु ‘य एतदक्षरं’ श्रुत्याचार्य-उपदेशाभ्यां “अहं ब्रह्मास्मि” इति ‘विदित्वा’ ‘अस्मात् लोकात्प्रैति’ ‘स ब्राह्मणः’ ब्रह्म-विमुक्त इत्य् अर्थः ॥ १० ॥

११

विश्वास-प्रस्तुतिः

(स्त) तद्वा᳘ ऽएत᳘दक्ष᳘रङ्गार्ग्गि᳘॥
(र्ग्ग्य᳘) अ᳘दृष्टन्द्द्र᳘ष्ट्रश्रुतᳫँ᳭[[!!]] श्रोत्र᳘मतम्मन्त्र᳘विज्ञातम्विज्ञातृ᳘ नान्य᳘दस्ति द्द्रष्टृ᳘ नान्य᳘दस्ति श्रोतृ᳘ नान्य᳘दस्ति मन्तृ᳘ नान्य᳘दस्ति व्विज्ञा᳘त्रेतद्वै त᳘दक्ष᳘रङ्गार्ग्गि य᳘स्मिन्नाकाश ऽओ᳘तश्च प्प्रो᳘तश्चे᳘ति॥

मूलम् - श्रीधरादि

(स्त) तद्वा᳘ ऽएत᳘दक्ष᳘रङ्गार्ग्गि᳘॥
(र्ग्ग्य᳘) अ᳘दृष्टन्द्द्र᳘ष्ट्रश्रुतᳫँ᳭[[!!]] श्रोत्र᳘मतम्मन्त्र᳘विज्ञातम्विज्ञातृ᳘ नान्य᳘दस्ति द्द्रष्टृ᳘ नान्य᳘दस्ति श्रोतृ᳘ नान्य᳘दस्ति मन्तृ᳘ नान्य᳘दस्ति व्विज्ञा᳘त्रेतद्वै त᳘दक्ष᳘रङ्गार्ग्गि य᳘स्मिन्नाकाश ऽओ᳘तश्च प्प्रो᳘तश्चे᳘ति॥

मूलम् - Weber

तद्वा᳘ एत᳘दक्ष᳘रं गार्गि॥
अ᳘दृष्टं द्रष्ट्र᳘श्रुतम् मन्त्र᳘!विज्ञातं विज्ञातृॗ नान्य᳘दस्ति द्रष्टृॗ नान्य᳘दस्ति श्रोतृॗ नान्य᳘दस्ति मन्तृॗ नान्य᳘दस्ति विज्ञाॗत्रेतद्वै त᳘दक्ष᳘रं गार्गि य᳘स्मिन्नाकाश ओ᳘तश्च प्रो᳘तश्चे᳘ति॥

मूलम् - विस्वरम्

तद्वा एतदक्षरं गार्गि अदृष्टं द्रष्टृ । अश्रुतं श्रोतृ । अमतं मन्तृ । अविज्ञातं विज्ञातृ । नान्यदस्ति द्रष्टृ । नान्यदस्ति श्रोतृ । नान्यदस्ति मन्तृ । नान्यदस्ति विज्ञातृ । एतद्वै तदक्षरं गार्गि । यस्मिन्नाकाश ओतश्च प्रोतश्चेति ॥ ११ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

अग्नेर्दहनप्रकाशकत्ववत् स्वाभाविकमस्याक्षरस्य प्रशास्तृत्वमित्य् आह- तद्वा एतदक्षरं गार्गीति । हे ‘गार्गि !’ ‘तद्वा एतदक्षरं’ “अस्थूलमनण्वादि” वाक्येनावगतम् । ‘अदृष्टं’ दृष्ट्यविषयं ‘स्वयं द्रष्टृ’ दृशिस्वरूपत्वात् । एवमश्रुतं श्रोत्राविषयत्वात् स्वयं च ‘श्रोतृ’ श्रुतिस्वरूपत्वात् । एवममतं मनसो ऽविषयत्वात् स्वयं ‘मन्तृ’ मतिस्वरूपत्वात् । एवमविज्ञातं बुद्धेरविषयत्वात् स्वयं ‘विज्ञातृ’ विज्ञानस्वरूपत्वात् । किञ्च एतस्य नानात्वशङ्कां निराकरोति- नान्यदस्ति द्रष्टृ इत्य् आदिना । प्रकृतादक्षरात् ‘अन्यत् द्रष्टृ’ दर्शन-क्रिया-कर्तृ नास्ति । एतदेव दर्शन-क्रिया-कर्तृ । एवं “नान्यदस्ति श्रोतृ” इत्यादि व्याख्येयम् । एवं सजातीय-स्वगत-नानात्वं निराकृत्य, इदानीं विजातीयानामनात्मनां रज्जुभुजङ्गादिवत् परिकल्पितत्वं प्रदर्श्यितुं उपसंहारव्याजेन तन्नानात्वं प्रतिषेधति- एतद्वै तदक्षरं गार्गीति । हे ‘गार्गि !’ “यस्मिन्नाकाश ओतश्च प्रोतश्च” यदेव साक्षादपरोक्षाद्ब्रह्म, य आत्मा सर्वान्तरो ऽशनायादि-संसार-धर्म-अतीतः । “एतद्वै तदक्षरं” इत्य् एतदक्षरं ब्रह्म । एतत्पृथिव्यादेराकाशान्तस्य सत्यस्य सत्यमित्यर्थः ॥ ११ ॥

१२

विश्वास-प्रस्तुतिः

सा᳘ होवाच॥
ब्ब्रा᳘ह्मणा भगवन्तस्त᳘देव᳘ बहु᳘ मन्यध्वं य᳘दस्मा᳘न्नमस्कारे᳘ण मुच्या᳘द्धै न वै जा᳘तु युष्मा᳘कमिमङ्क᳘श्चिद्ब्रह्मो᳘द्यञ्जेते᳘ति त᳘तो ह व्वाचक्नव्यु᳘परराम॥

मूलम् - श्रीधरादि

सा᳘ होवाच॥
ब्ब्रा᳘ह्मणा भगवन्तस्त᳘देव᳘ बहु᳘ मन्यध्वं य᳘दस्मा᳘न्नमस्कारे᳘ण मुच्या᳘द्धै न वै जा᳘तु युष्मा᳘कमिमङ्क᳘श्चिद्ब्रह्मो᳘द्यञ्जेते᳘ति त᳘तो ह व्वाचक्नव्यु᳘परराम॥

मूलम् - Weber

सा᳘ होवाच॥
ब्रा᳘ह्मणा भगवन्तस्त᳘देव᳘ बहु᳘ मन्यध्वं य᳘दस्मा᳘न्नमस्कारे᳘ण मुच्या᳘ध्वै न वै जा᳘तु 9 युष्मा᳘कमिमं क᳘श्चिद्ब्रह्मो᳘द्यं जेते᳘ति त᳘तो ह वाचक्नव्यु᳘परराम॥

मूलम् - विस्वरम्

सा होवाच । ब्राह्मणा भगवन्तः ! तदेव बहु मन्येध्वम् । यत् अस्मान्नमस्कारेण मुच्याध्वै । न वै जातु युष्माकमिमं कश्चित् ब्रह्मोद्यं जेतेति । ततो ह वाचक्नव्युपरराम ॥ १२ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘सा’ गार्गी उक्तप्रश्नद्वयनिर्णयश्रोत्री ‘उवाच’ । हे ब्राह्मणा भगवन्तः ! तदेव बहु मन्यध्वं बहुमानविषयं कुरुध्वं प्रमाणीकुरुध्वमित्य् अर्थः । किं तत् ? यदस्माद्याज्ञवल्क्यात् ‘नमस्कारेण मुच्याध्वै’ मुच्यध्वम् । अस्मै नमस्कारं कृत्वा अस्मादात्मनो यन्मोचनं तदेव बहु मन्यध्वमित्य् अर्थः । जयस्तु अस्य मनसा ऽपि नाशङ्कनीयः । किमुत कार्यतः ? कस्मात् ? ‘न वै जातु’ कदाचिदपि ‘युष्माकं’ मध्ये कश्चित्को ऽपि ‘इमं याज्ञवल्क्यं’ ‘ब्रह्मोद्यं’ ब्रह्मवदनं प्रति ‘नैव जेता’ । “प्रश्नौ चेन्मह्यं विवक्ष्यति न वै जेता भविता” इति पूर्वमेव प्रतिज्ञातम् । अद्यापि ममायमेव निश्चयः । ब्रह्मोद्यं प्रति एतत्तुल्यो न कश्चिद्विद्यते इति । ‘ततो ह’ एवं ब्राह्मणानां हितमुपदिश्य ‘वाचक्नवी उपरराम’ ॥ १२ ॥

इति श्री-हृषीकेश-ब्रह्म-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठकानिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-टीकायां वासुदेव-प्रकाशिकायां तृतीये ऽध्याये ऽष्टमं वाचक्नवी-ब्राह्मणम् अक्षर-ब्राह्मणं वा सृष्टि-प्रवेश-ब्राह्मणं वा परिसमाप्तम् ॥ १४ (६) । ३ । ८ ॥


  1. जा᳘तु parox. AM. (oxyt. २.२.२.२०.). ↩︎

  2. यद्भू᳘तं च भ᳘वच्च भविष्यच्चेत्याच᳘क्षते AM. ↩︎

  3. यद्भू᳘तं च भ᳘वच्च भविष्यच्चेत्याच᳘क्षते AM. ↩︎

  4. We expect धारयस्वे᳘ति. ↩︎

  5. यद्भू᳘तं च भ᳘वच्च भविष्यच्चेत्याच᳘क्षते AM. ↩︎

  6. यद्भू᳘तं च भ᳘वच्च भविष्यच्चेत्याच᳘क्षते AM. ↩︎

  7. न्त्य᳘स्थूल᳘मनण्व᳘हृस्व᳘मदीर्घ᳘म AM. - ibid. मभ᳘यम parox. AM. see ७, २, ३०.३१. - ibid. म᳘विवृतमसं᳘वृत AM. - ibid. न᳘ तदश्नोति AM. ↩︎

  8. गा᳘र्गि acc. throughout AM. - ibid. ददा᳘ति AM. ↩︎

  9. जा᳘तु parox. AM. (oxyt. २.२.२.२०.). ↩︎