०१

विश्वास-प्रस्तुतिः

अ᳘थ हैनमुद्दा᳘लक ऽआ᳘रुणिः पप्प्रच्छ॥
या᳘ज्ञवल्क्ये᳘ति होवाच मद्द्रेष्ववसाम पतञ्चल᳘स्य काप्य᳘स्य[[!!]] ग्गृहे᳘षु यज्ञ᳘मधीयानास्त᳘स्यासीद्भा᳘र्य्या गन्धर्व्व᳘गृहीता त᳘मपृच्छाम᳘ को ऽसी᳘ति᳘ सो ऽब्ब्रवीत्कब᳘न्ध ऽआथर्व्वण ऽइ᳘ति᳘॥

मूलम् - श्रीधरादि

अ᳘थ हैनमुद्दा᳘लक ऽआ᳘रुणिः पप्प्रच्छ॥
या᳘ज्ञवल्क्ये᳘ति होवाच मद्द्रेष्ववसाम पतञ्चल᳘स्य काप्य᳘स्य[[!!]] ग्गृहे᳘षु यज्ञ᳘मधीयानास्त᳘स्यासीद्भा᳘र्य्या गन्धर्व्व᳘गृहीता त᳘मपृच्छाम᳘ को ऽसी᳘ति᳘ सो ऽब्ब्रवीत्कब᳘न्ध ऽआथर्व्वण ऽइ᳘ति᳘॥

मूलम् - Weber

अ᳘थ हैनमुद्दा᳘लक आ᳘रुणिः पप्रछ॥
या᳘ज्ञवल्क्ये᳘ति होवाच मद्रे᳘ष्ववसाम पतञ्चल᳘स्य का᳘प्यस्य 1 गृहे᳘षु यज्ञ᳘मधीयानास्त᳘स्यासीद्भाॗर्या गन्धर्व᳘गृहीता त᳘मपृछामॗ कोऽसी᳘तिॗ सोऽब्रवीत्कब᳘न्ध आथर्वण इ᳘ति॥

मूलम् - विस्वरम्

उद्दालकब्राह्मणं, अन्तर्यामिब्राह्मणं वा सृष्टिप्रवेशब्राह्मणम् ।

अथ हैनमुद्दालक आरुणिः पप्रच्छ । याज्ञवल्क्येति होवाच । मद्रेष्ववसाम पतञ्चलस्य काप्यस्य गृहेषु यज्ञमधीयानाः । तस्यासीद्भार्या गन्धर्वगृहीता । तमपृच्छाम । को ऽसीति । सो ऽब्रवीत् । कबन्ध आथर्वण इति ॥ १ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवं गार्गी-ब्राह्मणे सूत्रादर्वाक्तनं व्यापकमुक्तम् । इदानीम् आगमैकगम्यं सूत्रं तदन्तर्गतमतर्यामिणं च निर्वक्तुम् अन्तर्यामि-ब्राह्मणमारभ्यते- अथ हैनमुद्दालक आरुणिरिति । ‘अथ’ गार्ग्या मूर्द्धपातभयादुपरतेरनन्तरं ‘उद्दालकः’ नामतः अरुणस्यापत्यमारुणिर्ह ‘एनं’ याज्ञवल्क्यं पप्रच्छेति पूर्ववत् । स्वस्य सूत्रादि-विद्ययाः आचार्योपदेशपूर्वकत्वेनागमविषयत्वं ज्ञापयितुमाख्यायिकामाह- मद्रेष्ववसामेति । ‘मद्रेषु’ देशेषु ‘पतञ्चलस्य’ पतञ्चल-नाम्नः ‘काप्यस्य’ कपि-गोत्रस्य ‘गृहेषु यज्ञमधीयानाः’ यज्ञ-शास्त्राध्ययनं कुर्वाणाः शिष्याः सन्तो वयं ‘अवसाम’ उषितवन्तः । ‘तस्य’ पतञ्चलस्य ‘भार्या’ ‘गन्धर्व-गृहीता’ गन्धर्वेण अमानुषेण सत्त्व-विशेषेण गृहीता आविष्टा ‘आसीत्’ । ‘तं’ गन्धर्वं पतञ्चल-सहिता वयं याज्ञिकाः त्वं को ऽसीत्य् अपृच्छाम । एवं पृष्टः ‘सः’ गन्धर्वः अस्मभ्यमब्रवीत् । किं ? अहं नाम्ना ‘कबन्धः’ अथर्वणो ऽपत्यमाथर्वण इति ॥ १ ॥

०२

विश्वास-प्रस्तुतिः

सो ऽब्ब्रवीत्॥
(त्प) पतञ्चलङ्का᳘प्यं याज्ञिकां᳘श्च व्वे᳘त्थ नु त्व᳘ङ्काप्य तत्सू᳘त्रं य᳘स्मिन्नय᳘ञ्च लोकः प᳘रश्च लोकः स᳘र्व्वाणि च भूता᳘नि स᳘न्दृब्धानि भवन्ती᳘ति᳘ सो ऽब्ब्रवीत्पतञ्चलः का᳘प्यो᳘ नाहत᳘द्भगवन्वेदे᳘ति᳘॥

मूलम् - श्रीधरादि

सो ऽब्ब्रवीत्॥
(त्प) पतञ्चलङ्का᳘प्यं याज्ञिकां᳘श्च व्वे᳘त्थ नु त्व᳘ङ्काप्य तत्सू᳘त्रं य᳘स्मिन्नय᳘ञ्च लोकः प᳘रश्च लोकः स᳘र्व्वाणि च भूता᳘नि स᳘न्दृब्धानि भवन्ती᳘ति᳘ सो ऽब्ब्रवीत्पतञ्चलः का᳘प्यो᳘ नाहत᳘द्भगवन्वेदे᳘ति᳘॥

मूलम् - Weber

सोऽब्रवीत्॥
पतञ्चलं का᳘प्यं याज्ञिकां᳘श्च वे᳘त्थ नु त्वं᳘ काप्य तत्सू᳘त्रं य᳘स्मिन्नयं᳘ च लोकः प᳘रश्च लोकः स᳘र्वाणि च भूता᳘नि सं᳘दृब्धानि भवन्ती᳘तिॗ सोऽब्रवीत्पतञ्चलः का᳘प्योॗ नाहं त᳘द्भगवन्वेदे᳘ति॥

मूलम् - विस्वरम्

सो ऽब्रवीत्पतञ्चलं काप्यं याज्ञिकांश्च । वेत्थ नु त्वं काप्य तत्सूत्रम् । यस्मिन्नयं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्तीति । सो ऽब्रवीत्पतञ्चलः काप्यः । नाहं तद्भगवन्वेदेति ॥ २ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘सः’ गन्धर्वः ‘पतञ्चलं काप्यं’ याज्ञिकाँश्च तच्छिष्यानस्मान् प्रत्य् अब्रवीत् । किं ? हे काप्य! ‘नु’ वितर्के ‘त्वं’ तत्सूत्रं ‘वेत्थ’ जानीषे । किं तत्सूत्रमित्य् आकाङ्क्षायां तद्विशिनष्टि- यस्मिन्नयं चेति । ‘यस्मिन्’ सूत्रे ‘अयं च लोकः’ इदं च जन्म ‘परश्च लोकः’ परं च प्रतिपत्तव्यं जन्म ‘सर्वाणि च भूतानि’ ब्रह्मादि-स्तम्ब-पर्यन्तानि ‘सन्दृब्धानि’ सङ्ग्रथितानि स्रगिव सूत्रे विष्टब्धानि भवति । इति पृष्टः ‘सः’ पतञ्चलः काप्यः ‘अब्रवीत्’ । किं ? हे ‘भगवन्’ ! इति सम्पूजयन् ‘अहं’ तत्सूत्रं ‘न वेद’ न जानामि इति ॥ २ ॥

०३

विश्वास-प्रस्तुतिः

सो ऽब्ब्रवीत्॥
(त्प) पतञ्चलङ्का᳘प्यं याज्ञिकां᳘श्च व्वे᳘त्थ नु त्व᳘ङ्काप्य त᳘मन्तर्य्यामि᳘णं य᳘ ऽइम᳘ञ्च लोकं प᳘रञ्च लोकᳫँ᳭ स᳘र्व्वाणि च भूतान्य᳘न्तरो यम᳘यती᳘ति᳘ सो ऽब्ब्रवीत्पतञ्चलः का᳘प्यो᳘ नाहन्त᳘म्भगवन्वे᳘देति[[!!]]॥

मूलम् - श्रीधरादि

सो ऽब्ब्रवीत्॥
(त्प) पतञ्चलङ्का᳘प्यं याज्ञिकां᳘श्च व्वे᳘त्थ नु त्व᳘ङ्काप्य त᳘मन्तर्य्यामि᳘णं य᳘ ऽइम᳘ञ्च लोकं प᳘रञ्च लोकᳫँ᳭ स᳘र्व्वाणि च भूतान्य᳘न्तरो यम᳘यती᳘ति᳘ सो ऽब्ब्रवीत्पतञ्चलः का᳘प्यो᳘ नाहन्त᳘म्भगवन्वे᳘देति[[!!]]॥

मूलम् - Weber

सोऽब्रवीत्॥
पतञ्चलं का᳘प्यं याज्ञिकां᳘श्च वे᳘त्थ नु त्वं᳘ काप्य त᳘मन्तर्यामि᳘णं य᳘ इमं᳘ च लोकम् प᳘रं च लोकᳫं स᳘र्वाणि च भूतान्य᳘न्तरो यम᳘यती᳘तिॗ सोऽब्रवीत्पतञ्चलः का᳘प्योॗ नाहं त᳘म् भगवन्वेदे᳘ति॥

मूलम् - विस्वरम्

सो ऽब्रवीत्पतञ्चलं काप्यं याज्ञिकांश्च । वेत्थ नु त्वं काप्य तमन्तर्यामिणम् । य इमं च लोकं परं च लोकं सर्वाणि च भूतान्यन्तरतो यमयतीति । सो ऽब्रवीत्पतञ्चलः काप्यः । नाहं तं भगवन्वेदेति ॥ ३ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवमुक्तः ‘सः’ गन्धर्वः पुनरुपाध्यायं ‘पतञ्चलं काप्यं’ याज्ञिकांश्चास्मान् प्रत्यब्रवीत् । किं ? हे काप्य ! ‘त्वं’ ‘नु’ वितर्के, सूत्रान्तर्गतमन्तर्यामिणं ‘वेत्थ’ । को ऽसावन्तर्यामीत्याकाङ्क्षायां तं विशिनष्टि- य ऽइमं च लोकमिति ’य इमं च लोकं’ इत्येतदुक्तार्थम् । यो ऽन्तरो ऽभ्यन्तरः सन् ‘यमयति’ दारुयन्त्रमिव भ्रमयति । स्वं स्वमुचितं व्यापारं कारयतीति यावत् । एवमुक्तः ‘सः’ पतञ्चलः काप्यः हे भगवन्निति’ सम्पूजयन् विनयेनाब्रवीत् । ‘नाहं तं’ सूत्रान्तर्गतमन्तर्यामिणं वेदेति ॥ ३ ॥

०४

विश्वास-प्रस्तुतिः

सो ऽब्ब्रवीत्॥
(त्प) पतञ्चलङ्का᳘प्यं याज्ञिकां᳘श्च यो वै त᳘त्काप्य सू᳘त्रम्विद्यात्त᳘ञ्चान्तर्य्यामि᳘णᳫँ᳭ स᳘ ब्ब्रह्मवित्स᳘ लोकवित्स᳘ देववित्स᳘ व्वेदवित्स᳘ यज्ञवित्स᳘भूतवित्स᳘ ऽआत्मवित्स᳘ सर्व्वविदि᳘ति ते᳘भ्यो ऽब्ब्रवीत्त᳘दह᳘म्वेद त᳘च्चेत्त्वं᳘ याज्ञवल्क्य सू᳘त्रम᳘विद्वांस्त᳘ञ्चान्तर्य्यामि᳘णम्ब्रह्मगवीरु᳘दजसे[[!!]] मूर्द्धा᳘[[!!]] ते व्वि᳘पतिष्यती᳘ति॥

मूलम् - श्रीधरादि

सो ऽब्ब्रवीत्॥
(त्प) पतञ्चलङ्का᳘प्यं याज्ञिकां᳘श्च यो वै त᳘त्काप्य सू᳘त्रम्विद्यात्त᳘ञ्चान्तर्य्यामि᳘णᳫँ᳭ स᳘ ब्ब्रह्मवित्स᳘ लोकवित्स᳘ देववित्स᳘ व्वेदवित्स᳘ यज्ञवित्स᳘भूतवित्स᳘ ऽआत्मवित्स᳘ सर्व्वविदि᳘ति ते᳘भ्यो ऽब्ब्रवीत्त᳘दह᳘म्वेद त᳘च्चेत्त्वं᳘ याज्ञवल्क्य सू᳘त्रम᳘विद्वांस्त᳘ञ्चान्तर्य्यामि᳘णम्ब्रह्मगवीरु᳘दजसे[[!!]] मूर्द्धा᳘[[!!]] ते व्वि᳘पतिष्यती᳘ति॥

मूलम् - Weber

सोऽब्रवीत्॥
पतञ्चलं का᳘प्यं याज्ञिकां᳘श्च यो वै त᳘त्काप्य सू᳘त्रं विद्यात्तं᳘ चान्तर्यामि᳘णᳫं स᳘ ब्रह्मवित्स᳘ लोकवित्स᳘ देववित्स᳘ वेदवित्स᳘ यज्ञवित्स᳘ भूतवित्स᳘ आत्मवित्स᳘ सर्वविदि᳘ति ते᳘भ्योऽब्रवीत्त᳘दहं᳘ वेद तच्चेत्त्वं᳘ याज्ञवल्क्य सू᳘त्रम᳘विद्वांस्तं᳘ चान्तर्यामि᳘णम् ब्रह्मगवी᳘रुद᳘जसे 2 मू᳘र्धा ते वि᳘पतिष्यती᳘ति॥

मूलम् - विस्वरम्

सो ऽब्रवीत् पतञ्चलं काप्यं याज्ञिकांश्च । यो वै तत् काप्य सूत्रं विद्यात् तं चान्तर्यामिणम् । स ब्रह्म-वित् । स लोक-वित् । स देव-वित् । स वेद-वित् । स यज्ञ-वित् । स भूत-वित् । स आत्म-वित् । स सर्व-वित् । इति तेभ्यो ऽब्रवीत् । तदहं वेद । तच्चेत्त्वं याज्ञवल्क्य सूत्रमविद्वांस्तं चान्तर्यामिणम् । ब्रह्म-गवीरुदजसे, मूर्धा ते विपतिष्यति इति ॥ ४ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवं विनयं दृष्ट्वा ‘सः’ गन्धर्वः स्वस्याचार्यत्व-कामः सन् फलेन प्रलोभयितुं ‘पतञ्चलं काप्यं’ याज्ञिकांश्चाब्रवीत् । हे ‘काप्य !’ ‘तत्सूत्रं’ तस्यैव सूत्रस्य नियन्तारं सूत्रान्तर्गतमन्तर्यामिणं च ‘वै’ निश्चितं यः कश्चित् विद्याद्विजानीयात् । ‘स ब्रह्म-वित्’ स परमात्म-वित्, ‘स लोक-वित्’ स लोकांश्च भूरादीन् अन्तर्यामिणा नियम्यमानान् वेत्ति । ‘स देव-वित्’ स देवांश्चाग्न्यादीन् लोकिनस्तेन नियम्यमानान् वेत्ति। ‘स वेद-वित्’ स वेदांश्च सर्व-प्रमाण-भूतान् वेत्ति । ‘स यज्ञ-वित्’ स यज्ञान् वेद-विहितान् ज्योतिष्टोमादीन् वेत्ति । ‘स भूत-वित्’ स भूतानि ब्रह्मादीनि सूत्रेण ध्रियमाणानि तदन्तर्गतेनान्तर्यामिणा नियम्यमानानि वेत्ति । ‘स आत्म-वित्’ स आत्मानं कर्तृत्व-भोक्तृत्व-विशिष्टं तेनैवान्तर्यामिणा नियम्यमानं वेत्ति । ‘स सर्व-वित्’ स सर्वं च जगत् तथाभूतं वेत्ति इति । एवं सूत्र-तदन्तर्गतान्तर्यामिणोर्विज्ञाने स्तुते प्रलुब्धेभ्यो ऽभिमुखेभ्यो ऽस्मभ्यमाचार्य-मुखेभ्यो गन्धर्वः सूत्रान्तर्यामिणोः स्वरूपमब्रवीत् । तत्सर्वरूपमहं ‘वेद‘ गन्धर्वाल्लब्धागमः सन् जानामि । किमेतावता इत्यत आह- तच्चेत्त्वमिति । हे याज्ञवल्क्य ! ‘त्वं’ चेद्यदि ‘तत्’ उक्त-विशेषण-विशिष्टं ‘सूत्रं’ ‘तमन्तर्यामिणं च’ ‘अविद्वान्’ अजानन् अब्रह्मवित्संश्चेत् ‘ब्रह्म-गवीः’ ब्रह्म-विदां स्व-भूता गाः अन्यायेन ‘उदजसे’ उन्नयसि । तर्हि मच्छापदग्धस्य ‘ते’ तव ‘मूर्द्धा’ मस्तकः ‘विपतिष्यति’ विस्पष्टं पतिष्यतीति ॥ ४ ॥

०५

विश्वास-प्रस्तुतिः

व्वे᳘द वा᳘ ऽअह᳘ङ्गौतम तत्सू᳘त्रम्॥
(न्त᳘) त᳘ञ्चान्तर्य्यामि᳘णमि᳘ति यो वा᳘ ऽइदङ्क᳘श्च ब्ब्रूयाद्वे᳘द व्वेदे᳘ति य᳘था व्वे᳘त्थ त᳘था ब्ब्रूही᳘ति॥

मूलम् - श्रीधरादि

व्वे᳘द वा᳘ ऽअह᳘ङ्गौतम तत्सू᳘त्रम्॥
(न्त᳘) त᳘ञ्चान्तर्य्यामि᳘णमि᳘ति यो वा᳘ ऽइदङ्क᳘श्च ब्ब्रूयाद्वे᳘द व्वेदे᳘ति य᳘था व्वे᳘त्थ त᳘था ब्ब्रूही᳘ति॥

मूलम् - Weber

वे᳘द वा᳘ अहं᳘ गौतम॥
तत्सू᳘त्रं तं᳘ चान्तर्यामि᳘णमि᳘ति यो वा᳘ इदं क᳘श्च ब्रूयाद्वे᳘द-वेदे᳘ति य᳘था वे᳘त्थ त᳘था ब्रूही᳘ति॥

मूलम् - विस्वरम्

वेद वा अहं गौतम तत्सूत्रं तं चान्तर्यामिणमिति । यो वा इदं कश्च ब्रूयात् । वेद वेदेति । यथा वेत्थ । तथा ब्रूहि इति ॥ ५ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवमुक्तो याज्ञवल्क्य आह- वेद वा अहमिति । ‘गौतम’ इति गोत्रं यस्योद्दालकस्यैव स गौतमः तत्सम्बोधनं हे गौतम ! ‘अहं’ याज्ञवल्क्यो ऽपि गन्धर्वोदितं ‘तत्सूत्रं’ ‘तमन्तर्यामिणं वेद’ जानामि । इत्य् एवमुक्तो गौतमः प्रत्याह- यो वा इदमिति । यः कश्चित्प्राकृतो ऽपि ‘यत्’ त्वयोक्तं वेदेति । ‘इदं वै’ निश्चितं आत्मानं श्लाघयन् ‘ब्रूयात्’ किं तेन गर्जितेन । कार्येण दर्शय । ‘यथा वेत्थ’ जानासि ‘तथा ब्रूहीति’ ॥ ५ ॥

०६

विश्वास-प्रस्तुतिः

व्वायुर्व्वै᳘ गौतम तत्सू᳘त्रम्॥
(म्वा) व्वायु᳘ना वै᳘ गौतम सूत्रेणाय᳘ञ्च[[!!]] लोकः प᳘रश्च लोकः स᳘र्व्वाणि च भूता᳘नि स᳘न्दृब्धानि भवन्ति त᳘स्माद्वै᳘ गौतम पु᳘रुषम्प्रे᳘तमाहुर्व्व्य᳘स्रᳫँ᳭सिषतास्या᳘ङ्गानी᳘ति व्वायु᳘ना हि᳘ गौतम सूत्रेण[[!!]] स᳘न्दृब्धानि भवन्ती᳘त्येव᳘मे᳘वैत᳘द्याज्ञवल्क्यान्तर्य्यामि᳘णम्ब्रूही᳘ति॥

मूलम् - श्रीधरादि

व्वायुर्व्वै᳘ गौतम तत्सू᳘त्रम्॥
(म्वा) व्वायु᳘ना वै᳘ गौतम सूत्रेणाय᳘ञ्च[[!!]] लोकः प᳘रश्च लोकः स᳘र्व्वाणि च भूता᳘नि स᳘न्दृब्धानि भवन्ति त᳘स्माद्वै᳘ गौतम पु᳘रुषम्प्रे᳘तमाहुर्व्व्य᳘स्रᳫँ᳭सिषतास्या᳘ङ्गानी᳘ति व्वायु᳘ना हि᳘ गौतम सूत्रेण[[!!]] स᳘न्दृब्धानि भवन्ती᳘त्येव᳘मे᳘वैत᳘द्याज्ञवल्क्यान्तर्य्यामि᳘णम्ब्रूही᳘ति॥

मूलम् - Weber

वायुर्वै᳘ गौतम तत्सू᳘त्रम्॥
वायु᳘ना वै᳘ गौतम सू᳘त्रेणायं᳘ च लोकः प᳘रश्च लोकः स᳘र्वाणि च भूता᳘नि सं᳘दृब्धानि भवन्ति त᳘स्माद्वै᳘ गौतम पु᳘रुषम् प्रे᳘तमाहुर्व्य᳘स्रंसिषतास्या᳘ङ्गानी᳘ति 3 वायु᳘ना हि᳘ गौतम सू᳘त्रेण सं᳘दृब्धानि भवन्ती᳘त्येव᳘मेॗवैत᳘द्याज्ञवल्क्यान्तर्यामि᳘णम् ब्रूही᳘ति॥

मूलम् - विस्वरम्

वायुर्वै गौतम तत्सूत्रम् । वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति । तस्माद्वै गौतम पुरुषं प्रेतमाहुः । व्यस्रंसिषतास्याङ्गानि इति । वायुना हि गौतम सूत्रेण सन्दृब्धानि भवन्ति इति । एवमेवैतद्याज्ञवल्क्य ! अन्तर्यामिणं ब्रूहीति ॥ ६ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवमुक्तो याज्ञवल्क्यो ब्रह्मलोका यस्मिन्नोताश्च प्रोताश्च वर्तमाने काले यथा पृथिव्यप्सु तत्सूत्रमागमगम्यं वक्तव्यमिति तदर्थं प्रत्याह- वायुर्वै गौतमेति । हे ‘गौतम’ ! ‘तत्’ गन्धर्वोक्तं ‘सूत्रं’ ‘वायुर्वै’ वायुरेव नान्यत् । तथा च- यदात्मकं पञ्च भूतानि दश बाह्यानीन्द्रियाणि पञ्चवृत्तिः प्राण एकः चतुर्विधमन्तःकरणं इत्य् एवं सप्तदश-विधं लिङ्गं प्राणिनां कर्म-समवायि-समष्टि-व्यष्ट्यात्मकं सूक्ष्मं पृथिव्यादीनामाकाशवत् विष्टम्भकं यस्य सप्त सप्त मरुद्गणा बाह्या भेदाः समुद्रस्येवोर्मयः तदेतत् वायव्यं तत्त्वं सूत्रमित्यभिधीयते । न तु वायु-मात्रम् । तस्य विधारणे स्वातन्त्र्याभावात् । उक्तस्य वायु-तत्त्वस्य सूत्रत्वं विद्वत्-प्रसिद्धा साधयति- वायुना वै गौतमेत्यादिनोक्तार्थकेन । प्रसिद्धमेतत्सूत्रविदामित्य् अर्थः । पुनर्लोकप्रसिद्ध्या ऽपि तत्साधयति- तस्मा द्वै गौतमेति । हे ‘गौतम !’ यस्मात् सूत्र-आत्मकेन ‘वायुना’ सर्वं विश्वं तस्मात् ‘प्रेतं’ मृतं ‘पुरुषं’ शरीरं मृत-लक्षण-ज्ञा ’आहुः’ कथयन्ति । ‘अस्य’ मृतस्याङ्गानि करादीनि ‘व्यस्रंसिषत’ विस्रस्तानि अभवन् । सूत्रापगमे हि मण्यादीनां प्रोतानामवस्रंसनं दृष्टमेव । वायुः सूत्रम् । अतो ‘वायुना हि गौतम ! सूत्रेण सन्दृब्धानि’ सङ्ग्रथितान्यङ्गानि भवन्तीति’ निगमयति । एवं निरूपितं सूत्र-स्वरूपमङ्गीकृत्य उद्दालक अन्तर्यामि-स्वरूपं पृच्छति- एवमेवैतदिति । हे ‘याज्ञवल्क्य !’ एतत्सूत्रमेव सम्यगुक्तम् । इदानीं तु तत्रान्तर्गतं ‘अन्तर्यामिणं ब्रूहीति’ ॥ ६ ॥

०७

विश्वास-प्रस्तुतिः

यः᳘ प्पृथिव्व्यान्ति᳘ष्ठन्॥
(न्पृ) प्पृथिव्व्या ऽअ᳘न्तरो य᳘म्पृथिवी᳘ न व्वे᳘द य᳘स्य प्पृथिवी श᳘रीरं यः᳘ प्पृथिवीम᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्य᳘मृ᳘तः॥

मूलम् - श्रीधरादि

यः᳘ प्पृथिव्व्यान्ति᳘ष्ठन्॥
(न्पृ) प्पृथिव्व्या ऽअ᳘न्तरो य᳘म्पृथिवी᳘ न व्वे᳘द य᳘स्य प्पृथिवी श᳘रीरं यः᳘ प्पृथिवीम᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्य᳘मृ᳘तः॥

मूलम् - Weber

यः᳘ पृथिव्यां ति᳘ष्ठन्॥
पृथिव्या अ᳘न्तरो य᳘म् पृथिवी न वे᳘द य᳘स्य पृथिवी श᳘रीरं यः᳘ पृथिवीम᳘न्तरो यम᳘यति स᳘ त आॗत्मान्तर्याम्य᳘मृ᳘तः 4 5

मूलम् - विस्वरम्

यः पृथिव्यां तिष्ठन् । पृथिव्या अन्तरः । यं पृथिवी न वेद । यस्य पृथिवी शरीरम् । यः पृथिवीमन्तरो यमयति । स त आत्मा ऽन्तर्याम्यमृतः ॥ ७ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवमुक्तो याज्ञवल्क्यो आह- यः पृथिव्यामिति । ‘यः पृथिव्यां तिष्ठन्’ वर्तमानो भवति सः अन्तर्यामी । एवमुक्ते सर्वः पृथिव्यां तिष्ठतीति सर्वत्र प्रसङ्गो मा भूदिति विशिनष्टि- ‘पृथिव्या अन्तरः’ अभ्यन्तर इति । तत्र पृथिव्यभिमानिनी देवतैवान्तर्यामिनी स्यादित्य् अत आह- यं पृथिवीति । ‘पृथिवी’ पृथिव्यभिमानिनी देवता अपि यमन्तर्यामिणं न ‘वेद’ मय्यन्यः कश्चिद्वर्त्तते इति न जानाति । नियन्तुरीश्वरस्य लौकिक-नियन्तृवत् कार्यकारणत्वमाशङ्क्याह- यस्येति । यस्यान्तर्यामिणः ‘पृथिव्येव शरीरं’ नान्यत् । पृथिवी-देवताया यच्छरीरं तदेव शरीरं यस्येति । शरीर-ग्रहणं करणोपलक्षणार्थम् । तस्याः पृथिवी-देवतायाः स्व-कर्म-प्रयुक्तं हि कार्यंकरणं च । अस्यान्तर्यामिणस्तु स्व-कर्म-अभावात् नित्य-मुक्तत्वात् परमार्थ-कर्त्तव्यतास्वभावत्वात् परस्य यत् तु कार्य-करणं तदेवास्य न स्वत इत्य् अर्थः । देवता-कार्य-करणस्य ईश्वर-साक्षि-मात्र-सान्निध्येन हि नियमेन प्रवृत्तिः स्यात् ताभित्य् अत आह- यः पृथिवीमिति । ‘यः’ नियम्य-पृथिवी-देवता-कार्य-करणाभ्यामेव कार्य-करणाद्यानि ईश्वरो नारायणाख्यो ऽन्तरो ऽभ्यन्तरः सन् पृथिवी-देवतां ‘यमयति’ साक्षितया स्व-व्यापारे नियमेन प्रवर्तयति । एषः ‘ते’ तव कार्य-कारण-सङ्घातस्य सर्वभूतानां चेत्य् उपलक्षणार्थमेतत् । सर्वेषामात्मा यस्त्वया अन्तर्यामी पृष्टः एषः ‘अमृतः’ सर्व-संसार-धर्म-वर्जित इत्य् अर्थः ॥ ७ ॥

०८

विश्वास-प्रस्तुतिः

(तो) सो ऽप्सु ति᳘ष्ठन्॥
(न्न) अद्भ्यो᳘ ऽन्तरो यमा᳘पो न᳘ व्विदुर्य्य᳘स्यापः[[!!]] श᳘रीरं[[!!]] यो ऽपो᳘ ऽन्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - श्रीधरादि

(तो) सो ऽप्सु ति᳘ष्ठन्॥
(न्न) अद्भ्यो᳘ ऽन्तरो यमा᳘पो न᳘ व्विदुर्य्य᳘स्यापः[[!!]] श᳘रीरं[[!!]] यो ऽपो᳘ ऽन्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - Weber

सोऽप्सु ति᳘ष्ठन्॥
अद्भ्यो᳘ऽन्तरो यमा᳘पो न᳘ विदुर्यस्या᳘पः श᳘रीॗरं योऽपो᳘ऽन्तरो यम᳘यति स᳘ त आॗत्मान्तर्याम्य᳘मृ᳘तः 6

मूलम् - विस्वरम्

यो ऽप्सु तिष्ठन् । अद्भ्यो ऽन्तरः । यमापो न विदुः । यस्यापः शरीरम् । यो ऽपो ऽन्तरा यमयति । स त आत्मा ऽन्तर्याम्यमृतः ॥ ८ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवमेव “यो ऽप्सु तिष्ठन्” इत्यादयः कण्डिका व्याख्येयाः ॥ ८ ॥

०९

विश्वास-प्रस्तुतिः

(तो) यो ऽग्नौ ति᳘ष्ठन्॥
(न्न) अग्नेर᳘न्तरो य᳘मग्निर्न्न व्वे᳘द य᳘स्याग्निः श᳘री᳘रं यो ऽग्निम᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - श्रीधरादि

(तो) यो ऽग्नौ ति᳘ष्ठन्॥
(न्न) अग्नेर᳘न्तरो य᳘मग्निर्न्न व्वे᳘द य᳘स्याग्निः श᳘री᳘रं यो ऽग्निम᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - Weber

योऽग्नौ ति᳘ष्ठन्॥
अग्नेर᳘न्तरो य᳘मग्निर्न वे᳘द य᳘स्याग्निः श᳘रीॗरं योऽग्निम᳘न्तरो यम᳘यति स᳘ त आॗत्मान्तर्याम्य᳘मृ᳘तः 7

मूलम् - विस्वरम्

यो ऽग्नौ तिष्ठन् । अग्नेरन्तरः । यमग्निर्न वेद । यस्याग्निः शरीरम् । यो ऽग्निमन्तरो यमयति । स त आत्मा ऽन्तर्याम्यमृतः ॥ ९ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“यो ऽग्नौ” ॥ ९ ॥

१०

विश्वास-प्रस्तुतिः

(तो) य᳘ ऽआकाशे तिष्ठन्[[!!]]॥
(न्ना) आकाशाद᳘न्तरो᳘ य᳘माकाशो न व्वे᳘द य᳘स्याकाशः श᳘रीरं य᳘ ऽआकाशम᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - श्रीधरादि

(तो) य᳘ ऽआकाशे तिष्ठन्[[!!]]॥
(न्ना) आकाशाद᳘न्तरो᳘ य᳘माकाशो न व्वे᳘द य᳘स्याकाशः श᳘रीरं य᳘ ऽआकाशम᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - Weber

य᳘ आकाशे ति᳘ष्ठन्॥
आकाशाद᳘न्तरो य᳘माकाशो न वे᳘द य᳘स्याकाशः श᳘रीरं य᳘ आकाशम᳘न्तरो यम᳘यति स᳘ त आॗत्मान्तर्याम्य᳘मृ᳘तः 8

मूलम् - विस्वरम्

य आकाशे तिष्ठन् । आकाशादन्तरः । यमाकाशो न वेद । यस्याकाशः शरीरम् । य आकाशमन्तरो यमयति । स त आत्मा ऽन्तर्याम्यमृतः ॥ १० ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“य ऽआकाशे” ॥ १० ॥

११

विश्वास-प्रस्तुतिः

(तो) यो᳘ व्वायौ तिष्ठन्[[!!]]॥
(न्वा) व्वायोर᳘न्तरो य᳘म्वायुर्न्न र्व्वे᳘द य᳘स्य व्वायुः श᳘रीरं यो᳘ व्वायुम᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - श्रीधरादि

(तो) यो᳘ व्वायौ तिष्ठन्[[!!]]॥
(न्वा) व्वायोर᳘न्तरो य᳘म्वायुर्न्न र्व्वे᳘द य᳘स्य व्वायुः श᳘रीरं यो᳘ व्वायुम᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - Weber

यो᳘ वायौ ति᳘ष्ठन्॥
वायोर᳘न्तरो यं᳘ वायुर्न वे᳘द य᳘स्य वायुः श᳘रीरं यो᳘ वायुम᳘न्तरो यम᳘यति स᳘ त आॗत्मान्तर्याम्य᳘मृ᳘तः 9

मूलम् - विस्वरम्

यो वायौ तिष्ठन् । वायोरन्तरः । यं वायुर्न वेद । यस्य वायुः शरीरम् । यो वायुमन्तरो यमयति । स त आत्मा ऽन्तर्याम्यमृतः ॥ ११ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“यो व्वायौ” ॥ ११ ॥

१२

विश्वास-प्रस्तुतिः

(तो) य᳘ ऽआदित्ये ति᳘ष्ठन्॥
(न्ना) आदित्याद᳘न्तरो य᳘मादित्यो न व्वे᳘द य᳘स्यादित्यः श᳘रीरं य᳘ ऽआदित्यम᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - श्रीधरादि

(तो) य᳘ ऽआदित्ये ति᳘ष्ठन्॥
(न्ना) आदित्याद᳘न्तरो य᳘मादित्यो न व्वे᳘द य᳘स्यादित्यः श᳘रीरं य᳘ ऽआदित्यम᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - Weber

य᳘ आदित्ये ति᳘ष्ठन्॥
आदित्याद᳘न्तरो य᳘मादित्यो न वे᳘द य᳘स्यादित्यः श᳘रीरं य᳘ आदित्यम᳘न्तरो यम᳘यति स᳘ त आॗत्मान्तर्याम्य᳘मृ᳘तः 10

मूलम् - विस्वरम्

य आदित्ये तिष्ठन् । आदित्यादन्तरः । यमादित्यो न वेद । यस्यादित्यः शरीरम् । य आदित्यमन्तरो यमयति । स त आत्मा ऽन्तर्याम्यमृतः ॥ १२ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“य ऽआदित्ये” ॥ १२ ॥

१३

विश्वास-प्रस्तुतिः

(तो) य᳘श्चन्द्रतारके ति᳘ष्ठन्॥
(ष्ठंश्च) चन्द्रतारकाद᳘न्तरो य᳘ञ्चन्द्रतारकन्न व्वे᳘द य᳘स्य चन्द्रतारकᳫँ᳭ श᳘रीरं य᳘श्चन्द्रतारकम᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - श्रीधरादि

(तो) य᳘श्चन्द्रतारके ति᳘ष्ठन्॥
(ष्ठंश्च) चन्द्रतारकाद᳘न्तरो य᳘ञ्चन्द्रतारकन्न व्वे᳘द य᳘स्य चन्द्रतारकᳫँ᳭ श᳘रीरं य᳘श्चन्द्रतारकम᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - Weber

य᳘श्चन्द्रतारके ति᳘ष्ठन्॥
चन्द्रतारकाद᳘न्तरो यं᳘ चन्द्रतारकं न वे᳘द य᳘स्य चन्द्रतारकं श᳘रीरं य᳘श्चन्द्रतारकम᳘न्तरो यम᳘यति स᳘ त आॗत्मान्तर्याम्य᳘मृ᳘तः 11

मूलम् - विस्वरम्

यश्चन्द्रतारके तिष्ठन् । चन्द्रतारकादन्तरः । यं चन्द्रतारकं न वेद । यस्य चन्द्रतारकं शरीरम् । यश्चन्द्रतारकमन्तरो यमयति । स त आत्मा ऽन्तर्याम्यमृतः ॥ १३ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“यश्चन्द्रतारके” इति द्वन्द्वैकवद्भावः ॥ १३ ॥

१४

विश्वास-प्रस्तुतिः

(तो) यो[[!!]] दि᳘क्षु ति᳘ष्ठन्॥
(न्दि) दिग्भ्यो᳘ ऽन्तरो यन्दि᳘शो न᳘ व्विदुर्य्य᳘स्य दि᳘शः श᳘रीरं यो᳘ दिशो᳘ ऽन्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - श्रीधरादि

(तो) यो[[!!]] दि᳘क्षु ति᳘ष्ठन्॥
(न्दि) दिग्भ्यो᳘ ऽन्तरो यन्दि᳘शो न᳘ व्विदुर्य्य᳘स्य दि᳘शः श᳘रीरं यो᳘ दिशो᳘ ऽन्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - Weber

यो᳘ दिक्षु ति᳘ष्ठन्॥
दिग्भ्यो᳘ऽन्तरो यं दि᳘शो न᳘ विदुर्य᳘स्य दि᳘शः श᳘रीरं यो᳘ दिशो᳘ऽन्तरो यम᳘यति स᳘ त आॗत्मान्तर्याम्य᳘मृ᳘तः 12

मूलम् - विस्वरम्

यो दिक्षु तिष्ठन् । दिग्भ्यो ऽन्तरः । यं दिशो न विदुः । यस्य दिशः शरीरम् । यो दिशो ऽन्तरो यमयति । स त आत्मा ऽन्तर्याम्यमृतः ॥ १४ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“यो दिक्षु” ॥ १४ ॥

१५

विश्वास-प्रस्तुतिः

(तो) यो᳘ व्विद्यु᳘ति ति᳘ष्ठन्॥
(न्वि) व्विद्युतो᳘ ऽन्तरो य᳘म्विद्युन्न व्वे᳘द य᳘स्य व्विद्युच्छ᳘रीरं यो᳘ व्विद्यु᳘तम᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - श्रीधरादि

(तो) यो᳘ व्विद्यु᳘ति ति᳘ष्ठन्॥
(न्वि) व्विद्युतो᳘ ऽन्तरो य᳘म्विद्युन्न व्वे᳘द य᳘स्य व्विद्युच्छ᳘रीरं यो᳘ व्विद्यु᳘तम᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - Weber

यो᳘ विद्यु᳘ति ति᳘ष्ठन्॥
विद्युतो᳘ऽन्तरो यं᳘ विद्युन्न वे᳘द य᳘स्य विद्युछ᳘रीरं यो᳘ विद्यु᳘तम᳘न्तरो यम᳘यति स᳘ त आॗत्मान्तर्याम्य᳘मृ᳘तः 13

मूलम् - विस्वरम्

यो विद्युति तिष्ठन् । विद्युतो ऽन्तरः । यं विद्युन्न वेद । यस्य विद्युच्छरीरम् । यो विद्युतमन्तरो यमयति स त आत्मा ऽन्तर्याम्यमृतः ॥ १५ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“यो विद्युति” ॥ १५ ॥

१६

विश्वास-प्रस्तुतिः

(तो) य᳘ स्तनयित्नौ ति᳘ष्ठन्॥
(न्त्स्त) स्तनयित्नोर᳘न्तरो य᳘ᳫँ᳘ स्तनयित्नुर्न्न व्वे᳘द य᳘स्य स्तनयित्नुः श᳘रीरं य᳘ स्तनयित्नुम᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘त ऽइ᳘त्यधिदेवतम᳘थाधिलोकम्[[!!]]॥

मूलम् - श्रीधरादि

(तो) य᳘ स्तनयित्नौ ति᳘ष्ठन्॥
(न्त्स्त) स्तनयित्नोर᳘न्तरो य᳘ᳫँ᳘ स्तनयित्नुर्न्न व्वे᳘द य᳘स्य स्तनयित्नुः श᳘रीरं य᳘ स्तनयित्नुम᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘त ऽइ᳘त्यधिदेवतम᳘थाधिलोकम्[[!!]]॥

मूलम् - Weber

य᳘ स्तनयित्नौ ति᳘ष्ठन्॥
स्तनयित्नोर᳘न्तरो य᳘ᳫं᳘ स्तनयित्नुर्न वे᳘द 14 य᳘स्य स्तनयित्नुः श᳘रीरं य᳘ स्तनयित्नुम᳘न्तरो यम᳘यति स᳘ त आॗत्मान्तर्याम्य᳘मृ᳘त इ᳘त्यधिदेवतम᳘थाधिलोक᳘म्॥

मूलम् - विस्वरम्

यः स्तनयित्नौ तिष्ठन् । स्तनयित्नोरन्तरः । यं स्तनयित्नुर्न वेद । यस्य स्तनयित्नुः शरीरम् । यः स्तनयित्नुमन्तरो यमयति । स त आत्मा ऽन्तर्याम्यमृतः । इत्यधिदेवतम् । अथाधिलोकम् ॥ १६ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“यः स्तनयित्नौ” इत्यधिदेवतमन्तर्यामिविषयं दर्शनं देवतासूक्तम् । अथानन्तरमधिलोकेषु अन्तर्यामिदर्शनमुच्यत इत्य् अर्थः ॥ १६ ॥

१७

विश्वास-प्रस्तुतिः

(कं यः) यः स᳘र्व्वेषु लोके᳘षु ति᳘ष्ठन्॥
(न्त्स᳘) स᳘र्व्वेभ्यो लोकेभ्यो᳘ ऽन्तरो यᳫँ᳭ स᳘र्व्वे लोका न᳘ व्विदुर्य्य᳘स्य स᳘र्व्वे लोकाः श᳘रीरं यः स᳘र्व्वांल्लोकान᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘त ऽइ᳘त्यु ऽए᳘वाधिलोकम᳘थाधिवेद᳘म्[[!!]]॥

मूलम् - श्रीधरादि

(कं यः) यः स᳘र्व्वेषु लोके᳘षु ति᳘ष्ठन्॥
(न्त्स᳘) स᳘र्व्वेभ्यो लोकेभ्यो᳘ ऽन्तरो यᳫँ᳭ स᳘र्व्वे लोका न᳘ व्विदुर्य्य᳘स्य स᳘र्व्वे लोकाः श᳘रीरं यः स᳘र्व्वांल्लोकान᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘त ऽइ᳘त्यु ऽए᳘वाधिलोकम᳘थाधिवेद᳘म्[[!!]]॥

मूलम् - Weber

यः स᳘र्वेषु लोके᳘षु ति᳘ष्ठन्॥
स᳘र्वेभ्यो लोकेभ्यो᳘ऽन्तरो यᳫं स᳘र्वे लोका न᳘ विदुर्य᳘स्य स᳘र्वे लोकाः श᳘रीरं यः स᳘र्वांलोकान᳘न्तरो यम᳘यति स᳘ त आॗत्मान्तर्याम्य᳘मृ᳘त इ᳘त्यु एॗवाधिलोकम᳘थाधिवेद᳘म्॥

मूलम् - विस्वरम्

यः सर्वेषु लोकेषु तिष्ठन् । सर्वेभ्यो लोकेभ्यो ऽन्तरः । यं सर्वे लोका न विदुः । यस्य सर्वे लोकाः शरीरम् । यः सर्वांल्लोकानन्तरो यमयति । स त आत्मा ऽन्तर्याम्यमृतः । इत्यु एवाधिलोकम् । अथाधिवेदम् ॥ १७ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘सर्वेषु लोकेषु‘ लोकाः भोग-स्थानानि तेषु, ‘इत्यु एव अधिलोकं अथाधिवेदं’ इति पूर्ववत् व्याख्येयम् ॥ १७ ॥

१८

विश्वास-प्रस्तुतिः

(दं यः) यः स᳘र्व्वेषु व्वेदे᳘षु ति᳘ष्ठन्॥
(न्त्स᳘) स᳘र्व्वेभ्यो व्वेदेभ्यो᳘ ऽन्तरो यᳫँ᳭ स᳘र्व्वे व्वेदा न᳘ व्विदुर्य्य᳘स्य स᳘र्व्वे व्वेदाः श᳘रीरं यः स᳘र्व्वान्वेदान᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘त ऽइ᳘त्यु ऽए᳘वाधिलोकम᳘थाधियज्ञम्[[!!]]॥

मूलम् - श्रीधरादि

(दं यः) यः स᳘र्व्वेषु व्वेदे᳘षु ति᳘ष्ठन्॥
(न्त्स᳘) स᳘र्व्वेभ्यो व्वेदेभ्यो᳘ ऽन्तरो यᳫँ᳭ स᳘र्व्वे व्वेदा न᳘ व्विदुर्य्य᳘स्य स᳘र्व्वे व्वेदाः श᳘रीरं यः स᳘र्व्वान्वेदान᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘त ऽइ᳘त्यु ऽए᳘वाधिलोकम᳘थाधियज्ञम्[[!!]]॥

मूलम् - Weber

यः स᳘र्वेषु वेदे᳘षु ति᳘ष्ठन्॥
स᳘र्वेभ्यो वेदेभ्यो᳘ऽन्तरो इ᳘त्यु एॗवाधिवेदम᳘थाधियज्ञ᳘म्॥

मूलम् - विस्वरम्

यः सर्वेषु वेदेषु तिष्ठन् । सर्वेभ्यो वेदेभ्यो ऽन्तरः । यं सर्वे वेदा न विदुः । यस्य सर्वे वेदाः शरीरम् । यः सर्वान्वेदानन्तरो यमयति । स त आत्मा ऽन्तर्याम्यमृतः । इत्यु एवाधिवेदम् । अथाधियज्ञम् ॥ १८ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“यः सर्वेषु वेदेषु” “इत्यु एवाधिवेदमथाधियज्ञम्” इति पूर्ववत् ॥ १८ ॥

१९

विश्वास-प्रस्तुतिः

(ज्ञं यः) स᳘र्व्वेषु यज्ञे᳘षु ति᳘ष्ठन्॥
(न्त्स᳘) स᳘र्व्वेभ्यो य᳘ज्ञेभ्यो᳘ ऽन्तरो यᳫँ᳭ स᳘र्व्वे यज्ञा न᳘ व्विदुर्य्य᳘स्य स᳘र्व्वे यज्ञाः श᳘रीरं यः स᳘र्व्वान्यज्ञान᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘त ऽइ᳘त्यु ऽए᳘वाधिलोकम᳘थाधिभूतम्[[!!]]॥

मूलम् - श्रीधरादि

(ज्ञं यः) स᳘र्व्वेषु यज्ञे᳘षु ति᳘ष्ठन्॥
(न्त्स᳘) स᳘र्व्वेभ्यो य᳘ज्ञेभ्यो᳘ ऽन्तरो यᳫँ᳭ स᳘र्व्वे यज्ञा न᳘ व्विदुर्य्य᳘स्य स᳘र्व्वे यज्ञाः श᳘रीरं यः स᳘र्व्वान्यज्ञान᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘त ऽइ᳘त्यु ऽए᳘वाधिलोकम᳘थाधिभूतम्[[!!]]॥

मूलम् - Weber

स᳘र्वेषु यज्ञे᳘षु ति᳘ष्ठन्॥
स᳘र्वेभ्यो यज्ञेभ्यो᳘ऽन्तरो इ᳘त्यु एॗवाधियज्ञम᳘थाधिभूत᳘म्॥

मूलम् - विस्वरम्

यः सर्वेषु यज्ञेषु तिष्ठन् । सर्वेभ्यो यज्ञेभ्यो ऽन्तरः । यं सर्वे यज्ञा न विदुः । यस्य सर्वे यज्ञाः शरीरम् । यः सर्वान्यज्ञानन्तरो यमयति । स त आत्मा ऽन्तर्याम्यमृतः । इत्यु एवाधियज्ञम् । अथाधिभूतम् ॥ १९ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“यः सर्वेषु यज्ञेषु” इति सामान्यतत्कर्म्माणि निर्द्दिश्यन्ते । “इत्यु एवाधियज्ञमथाधिभूतम्” इति । पूर्ववत् ॥ १९ ॥

२०

विश्वास-प्रस्तुतिः

(तं यः) यः स᳘र्व्वेषु भूते᳘षु ति᳘ष्ठन्॥
(न्त्स᳘) स᳘र्व्वेभ्यो भूतेभ्यो᳘ ऽन्तरो यᳫँ᳭ स᳘र्व्वाणि भूता᳘नि न᳘ व्विदुर्य्य᳘स्य स᳘र्व्वाणि भूता᳘नि श᳘रीरं यः स᳘र्व्वाणि भूतान्य᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘त ऽइ᳘त्यु ऽए᳘वाधिभूतम᳘थाध्यात्मम्[[!!]]॥

मूलम् - श्रीधरादि

(तं यः) यः स᳘र्व्वेषु भूते᳘षु ति᳘ष्ठन्॥
(न्त्स᳘) स᳘र्व्वेभ्यो भूतेभ्यो᳘ ऽन्तरो यᳫँ᳭ स᳘र्व्वाणि भूता᳘नि न᳘ व्विदुर्य्य᳘स्य स᳘र्व्वाणि भूता᳘नि श᳘रीरं यः स᳘र्व्वाणि भूतान्य᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘त ऽइ᳘त्यु ऽए᳘वाधिभूतम᳘थाध्यात्मम्[[!!]]॥

मूलम् - Weber

यः स᳘र्वेषु भूते᳘षु ति᳘ष्ठन्॥
स᳘र्वेभ्यो भूतेभ्यो᳘ऽन्तरो यᳫं स᳘र्वाणि भूता᳘नि न᳘ विदुर्य᳘स्य स᳘र्वाणि भूता᳘नि श᳘रीरं यः स᳘र्वाणि भूतान्य᳘न्तरो यम᳘यति स᳘ त आॗत्मान्तर्याम्य᳘मृ᳘त इ᳘त्यु एॗवाधिभूतम᳘थाध्यात्मम्॥

मूलम् - विस्वरम्

यः सर्वेषु भूतेषु तिष्ठन् । सर्वेभ्यो भूतेभ्यो ऽन्तरः । यं सर्वाणि भूतानि न विदुः । यस्य सर्वाणि भूतानि शरीरम् । यः सर्वाणि भूतान्यन्तरो यमयति । स त आत्मा ऽन्तर्याम्यमृतः । इत्यु एवाधिभूतम् । अथाध्यात्मम् ॥ २० ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“यः सर्वेषु भूतेषु” इत्यु एवाधिभूतमथाध्यात्मम्” इति पूर्ववत् ॥ २० ॥

२१

विश्वास-प्रस्तुतिः

(त्मं यः᳘) यः᳘ प्प्राणे ति᳘ष्ठन्॥
(न्प्रा) प्प्राणाद᳘न्तरो य᳘म्प्राणो न व्वे᳘द य᳘स्य प्प्राणः श᳘रीरं यः᳘ प्प्राणम᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - श्रीधरादि

(त्मं यः᳘) यः᳘ प्प्राणे ति᳘ष्ठन्॥
(न्प्रा) प्प्राणाद᳘न्तरो य᳘म्प्राणो न व्वे᳘द य᳘स्य प्प्राणः श᳘रीरं यः᳘ प्प्राणम᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - Weber

यः᳘ प्राणे ति᳘ष्ठन्॥
प्राणाद᳘न्तरो य᳘म् प्राणो न वे᳘द य᳘स्य प्राणः श᳘रीरं यः᳘ प्राणम᳘न्तरो यम᳘यति स᳘ त आॗत्मान्तर्याम्य᳘मृ᳘तः॥

मूलम् - विस्वरम्

यः प्राणे तिष्ठन् । प्राणादन्तरः । यं प्राणो न वेद । यस्य प्राणः शरीरम् । यः प्राणमन्तरो यमयति । स त आत्मा ऽन्तर्याम्यमृतः ॥ २१ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“यः प्राणे” घ्राणाख्ये वायुसहिते ॥ २१ ॥

२२

विश्वास-प्रस्तुतिः

(तो) यो᳘ व्वाचि ति᳘ष्ठन्॥
(न्वा) व्वाचो᳘ ऽन्तरो य᳘म्वाङ्न न व्वे᳘द य᳘स्य व्वाक्छ᳘रीरं यो᳘ व्वाचम᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - श्रीधरादि

(तो) यो᳘ व्वाचि ति᳘ष्ठन्॥
(न्वा) व्वाचो᳘ ऽन्तरो य᳘म्वाङ्न न व्वे᳘द य᳘स्य व्वाक्छ᳘रीरं यो᳘ व्वाचम᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - Weber

यो᳘ वाचि ति᳘ष्ठन्॥
वाचो᳘ऽन्तरो य᳘म् प्राणो न वे᳘द य᳘स्य प्राणः श᳘रीरं यः᳘ प्राणम᳘न्तरो यम᳘यति स᳘ त आॗत्मान्तर्याम्य᳘मृ᳘तः ॥

मूलम् - विस्वरम्

यो वाचि तिष्ठन् । वाचो ऽन्तरः । यं वाक् न वेद । यस्य वाक् शरीरम् । यो वाचमन्तरो यमयति । स त आत्मा ऽन्तर्याम्यमृतः ॥ २२ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“यो वाचि” ॥ २२ ॥

२३

विश्वास-प्रस्तुतिः

(तो) यश्च᳘क्षुषि ति᳘ष्ठन्॥
(ष्ठंश्च᳘) च᳘क्षुषो᳘ ऽन्तरो य᳘ञ्चक्षुर्न्न न व्वे᳘द य᳘स्य चक्षुः श᳘रीरं यश्च᳘क्षुर᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - श्रीधरादि

(तो) यश्च᳘क्षुषि ति᳘ष्ठन्॥
(ष्ठंश्च᳘) च᳘क्षुषो᳘ ऽन्तरो य᳘ञ्चक्षुर्न्न न व्वे᳘द य᳘स्य चक्षुः श᳘रीरं यश्च᳘क्षुर᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - Weber

यश्च᳘क्षुषि ति᳘ष्ठन्॥
च᳘क्षुषो᳘ऽन्तरो य᳘म् प्राणो न वे᳘द य᳘स्य प्राणः श᳘रीरं यः᳘ प्राणम᳘न्तरो यम᳘यति स᳘ त आॗत्मान्तर्याम्य᳘मृ᳘तः ॥

मूलम् - विस्वरम्

यश्चक्षुषि तिष्ठन् । चक्षुषो ऽन्तरः । यं चक्षुर्न वेद । यस्य चक्षुः शरीरम् । यश्चक्षुरन्तरो यमयति । स त आत्मा ऽन्तर्याम्यमृतः ॥ २३ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“यश्चक्षुषि” ॥ २३ ॥

२४

विश्वास-प्रस्तुतिः

(तो) यः श्रोत्रे[[!!]] ति᳘ष्ठन्॥
(ञ्छ्रो) श्रोत्राद᳘न्तरो[[!!]] य᳘ᳫं᳘ श्रोत्रन्न व्वे᳘द य᳘स्य श्रोत्रᳫँ᳭ श᳘रीरं यः᳘ श्रोत्रम᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - श्रीधरादि

(तो) यः श्रोत्रे[[!!]] ति᳘ष्ठन्॥
(ञ्छ्रो) श्रोत्राद᳘न्तरो[[!!]] य᳘ᳫं᳘ श्रोत्रन्न व्वे᳘द य᳘स्य श्रोत्रᳫँ᳭ श᳘रीरं यः᳘ श्रोत्रम᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - Weber

यः श्रो᳘त्रे ति᳘ष्ठन्॥
श्रो᳘त्राद᳘न्तरो य᳘म् प्राणो न वे᳘द य᳘स्य प्राणः श᳘रीरं यः᳘ प्राणम᳘न्तरो यम᳘यति स᳘ त आॗत्मान्तर्याम्य᳘मृ᳘तः ॥

मूलम् - विस्वरम्

यः श्रोत्रे तिष्ठन् । श्रोत्रादन्तरः । यं श्रोत्रं न वेद । यस्य श्रोत्रं शरीरम् । यः श्रोत्रमन्तरो यमयति । स त आत्मा ऽन्तर्याम्यमृतः ॥ २४ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“यः श्रोत्रे” ॥ २४ ॥

२५

विश्वास-प्रस्तुतिः

(तो) यो म᳘नसि ति᳘ष्ठन्॥
(न्म᳘) म᳘नसो᳘ ऽन्तरो य᳘म्म᳘नो न व्वे᳘द य᳘स्य मनः श᳘रीरं यो म᳘नो ऽन्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - श्रीधरादि

(तो) यो म᳘नसि ति᳘ष्ठन्॥
(न्म᳘) म᳘नसो᳘ ऽन्तरो य᳘म्म᳘नो न व्वे᳘द य᳘स्य मनः श᳘रीरं यो म᳘नो ऽन्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - Weber

यो म᳘नसि ति᳘ष्ठन्॥
म᳘नसो᳘ऽन्तरो य᳘म् प्राणो न वे᳘द य᳘स्य प्राणः श᳘रीरं यः᳘ प्राणम᳘न्तरो यम᳘यति स᳘ त आॗत्मान्तर्याम्य᳘मृ᳘तः ॥

मूलम् - विस्वरम्

यो मनसि तिष्ठन् । मनसो ऽन्तरः । यं मनो न वेद । यस्य मनः शरीरम् । यो मनो ऽन्तरो यमयति । स त आत्मा ऽन्तर्याम्यमृतः ॥ २५ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“यो मनसि” ॥ २५ ॥

२६

विश्वास-प्रस्तुतिः

(तो) यस्त्व᳘चि[[!!]] ति᳘ष्ठन्॥
(ष्ठंस्त्व) त्वचो᳘ ऽन्तरो य᳘न्त्वङ्न व्वे᳘द य᳘स्य त्वक्छ᳘रीरं यस्त्व᳘चम᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - श्रीधरादि

(तो) यस्त्व᳘चि[[!!]] ति᳘ष्ठन्॥
(ष्ठंस्त्व) त्वचो᳘ ऽन्तरो य᳘न्त्वङ्न व्वे᳘द य᳘स्य त्वक्छ᳘रीरं यस्त्व᳘चम᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - Weber

य᳘स्त्वचि ति᳘ष्ठन् 15
त्वचो᳘ऽन्तरो य᳘म् प्राणो न वे᳘द य᳘स्य प्राणः श᳘रीरं यः᳘ प्राणम᳘न्तरो यम᳘यति स᳘ त आॗत्मान्तर्याम्य᳘मृ᳘तः ॥

मूलम् - विस्वरम्

यस्त्वचि तिष्ठन् । त्वचो ऽन्तरः । यं त्वक् न वेद । यस्य त्वक् शरीरम् । यस्त्वचमन्तरो यमयति । स त आत्मा ऽन्तर्याम्यमृतः ॥ २६ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“यस्त्वचि” ॥ २६ ॥

२७

विश्वास-प्रस्तुतिः

(तो) यस्ते᳘जसि ति᳘ष्ठन्॥
(ष्ठंस्ते᳘) ते᳘जसो᳘ ऽन्तरो य᳘न्तेजो न व्वे᳘द य᳘स्य तेजः श᳘रीरं यस्तेजो᳘ ऽन्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - श्रीधरादि

(तो) यस्ते᳘जसि ति᳘ष्ठन्॥
(ष्ठंस्ते᳘) ते᳘जसो᳘ ऽन्तरो य᳘न्तेजो न व्वे᳘द य᳘स्य तेजः श᳘रीरं यस्तेजो᳘ ऽन्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - Weber

यस्ते᳘जसि ति᳘ष्ठन्॥
ते᳘जसो᳘ऽन्तरो य᳘म् प्राणो न वे᳘द य᳘स्य प्राणः श᳘रीरं यः᳘ प्राणम᳘न्तरो यम᳘यति स᳘ त आॗत्मान्तर्याम्य᳘मृ᳘तः ॥

मूलम् - विस्वरम्

यस्तेजसि तिष्ठन् । तेजसो ऽन्तरः । यं तेजो न वेद । यस्य तेजः शरीरम् । यस्तेजो ऽन्तरो यमयति । स त आत्मा ऽन्तर्याम्यमृतः ॥ २७ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“यस्तेजसि” । तेजः प्रकाशः शास्त्रीयज्ञानम् ॥ २७ ॥

२८

विश्वास-प्रस्तुतिः

(तो) यस्त᳘मसि ति᳘ष्ठन्॥
(ष्ठंस्त᳘) त᳘मसो᳘ ऽन्तरो यन्त᳘मो[[!!]] न व्वे᳘द य᳘स्य तमः श᳘रीरं यस्तमो᳘ ऽन्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - श्रीधरादि

(तो) यस्त᳘मसि ति᳘ष्ठन्॥
(ष्ठंस्त᳘) त᳘मसो᳘ ऽन्तरो यन्त᳘मो[[!!]] न व्वे᳘द य᳘स्य तमः श᳘रीरं यस्तमो᳘ ऽन्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - Weber

यस्त᳘मसि ति᳘ष्ठन्॥
त᳘मसो᳘ऽन्तरो य᳘म् प्राणो न वे᳘द य᳘स्य प्राणः श᳘रीरं यः᳘ प्राणम᳘न्तरो यम᳘यति स᳘ त आॗत्मान्तर्याम्य᳘मृ᳘तः ॥

मूलम् - विस्वरम्

यस्तमसि तिष्ठन् । तमसो ऽन्तरः । यं तमो न वेद । यस्य तमः शरीरम् । यस्तमो ऽन्तरो यमयति । स त आत्मा ऽन्तर्याम्यमृतः ॥ २८ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“यस्तमसि” । बाह्ये आवरणात्मके ॥ २८ ॥

२९

विश्वास-प्रस्तुतिः

(तो) यो रे᳘तसि ति᳘ष्ठन्॥
(न्न्रे᳘) रे᳘तसो᳘ ऽन्तरो य᳘ᳫँ᳘ रेतो न व्वे᳘द य᳘स्य रेतः श᳘रीरं यः᳘ रेतो᳘ ऽन्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - श्रीधरादि

(तो) यो रे᳘तसि ति᳘ष्ठन्॥
(न्न्रे᳘) रे᳘तसो᳘ ऽन्तरो य᳘ᳫँ᳘ रेतो न व्वे᳘द य᳘स्य रेतः श᳘रीरं यः᳘ रेतो᳘ ऽन्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - Weber

यो रे᳘तसि ति᳘ष्ठन्॥
रे᳘तसो᳘ऽन्तरो य᳘म् प्राणो न वे᳘द य᳘स्य प्राणः श᳘रीरं यः᳘ प्राणम᳘न्तरो यम᳘यति स᳘ त आॗत्मान्तर्याम्य᳘मृ᳘तः ॥

मूलम् - विस्वरम्

यो रेतसि तिष्ठन् । रेतसो ऽन्तरः । यं रेतो न वेद । यस्य रेतः शरीरम् । यो रेतो ऽन्तरो यमयति । स त आत्मा ऽन्तर्याम्यमृतः ॥ २९ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“यो रेतसि” प्रजनने ॥ २९ ॥

३०

विश्वास-प्रस्तुतिः

(तो) य᳘ ऽआत्म᳘नि ति᳘ष्ठन्॥
(न्ना) आत्मनो᳘ ऽन्तरो य᳘मात्मा न व्वे᳘द य᳘स्यात्मा श᳘रीरं य᳘ ऽआत्मा᳘नम᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - श्रीधरादि

(तो) य᳘ ऽआत्म᳘नि ति᳘ष्ठन्॥
(न्ना) आत्मनो᳘ ऽन्तरो य᳘मात्मा न व्वे᳘द य᳘स्यात्मा श᳘रीरं य᳘ ऽआत्मा᳘नम᳘न्तरो यम᳘यति स᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृ᳘तः[[!!]]॥

मूलम् - Weber

य᳘ आत्म᳘नि ति᳘ष्ठन्॥
आत्मनो᳘ऽन्तरो य᳘म् प्राणो न वे᳘द य᳘स्य प्राणः श᳘रीरं यः᳘ प्राणम᳘न्तरो यम᳘यति स᳘ त आॗत्मान्तर्याम्य᳘मृ᳘तः ॥

मूलम् - विस्वरम्

य आत्मनि तिष्ठन् । आत्मनो ऽन्तरः । यमात्मा न वेद । यस्यात्मा शरीरम् । य आत्मानमन्तरो यमयति । स त आत्मा ऽन्तर्याम्यमृतः ॥ ३० ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“य आत्मनि” जीवात्मनि ॥ ३० ॥

३१

विश्वास-प्रस्तुतिः

(तो᳘ ऽदृ) अ᳘दृष्टो द्रष्टा᳘॥
(ष्टा᳘ ऽश्रु) अ᳘श्रुतः श्रोता᳘ ऽमतो[[!!]] मन्ता᳘ ऽविज्ञातो व्विज्ञाता᳘ ना᳘न्यो ऽस्ति द्द्रष्टा᳘ नान्यो ऽस्ति[[!!]] श्रोता᳘ ना᳘न्यो ऽस्ति मन्ता᳘ ना᳘न्यो ऽस्ति व्विज्ञा᳘तैष᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृतो᳘ ऽतो ऽन्यदा᳘र्त्तन्त᳘तो[[!!]] होद्दा᳘लक ऽआ᳘रुणिरु᳘परराम॥

मूलम् - श्रीधरादि

(तो᳘ ऽदृ) अ᳘दृष्टो द्रष्टा᳘॥
(ष्टा᳘ ऽश्रु) अ᳘श्रुतः श्रोता᳘ ऽमतो[[!!]] मन्ता᳘ ऽविज्ञातो व्विज्ञाता᳘ ना᳘न्यो ऽस्ति द्द्रष्टा᳘ नान्यो ऽस्ति[[!!]] श्रोता᳘ ना᳘न्यो ऽस्ति मन्ता᳘ ना᳘न्यो ऽस्ति व्विज्ञा᳘तैष᳘ त ऽआ᳘त्मा ऽन्तर्य्याम्यमृतो᳘ ऽतो ऽन्यदा᳘र्त्तन्त᳘तो[[!!]] होद्दा᳘लक ऽआ᳘रुणिरु᳘परराम॥

मूलम् - Weber

अ᳘दृष्टो द्रष्टा᳘श्रुतः श्रोता᳟॥
अ᳘मतो मन्ता᳘विज्ञातो विज्ञाताॗ नाॗन्योऽस्ति द्रष्टाॗ नाॗन्योऽस्ति श्रोताॗ नाॗन्योऽस्ति मन्ताॗ नाॗन्योऽस्ति विज्ञाॗतैष᳘ त आॗत्मान्तर्याम्य᳘मृतो᳘ऽतोऽन्यदा᳘र्तं त᳘तो होद्दा᳘लक आ᳘रुणिरु᳘परराम॥

मूलम् - विस्वरम्

अदृष्टो द्रष्टा । अश्रुतः श्रोता । अमतो मन्ता । अविज्ञातो विज्ञाता । नान्यतो ऽस्ति द्रष्टा । नान्यो ऽस्ति श्रोता । नान्यो ऽस्ति मन्ता । नान्यो ऽस्ति विज्ञाता । एष त आत्मा ऽन्तर्याम्यमृतः । अतो ऽन्यदार्तम् । ततो ह उद्दालक आरुणिरुपरराम ॥ ३१ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

कस्मात् पुनः कारणात् महाभागाः पृथिव्यादि-देवताः मनुष्यादिवत् आत्मनि तिष्ठन्तमात्मानो नियन्तारमन्तर्यामिणं न विदुरित्य् अत आह- अदृष्टो द्रष्टेति । न दृष्टः ‘अदृष्टः’ । कस्यचित् चक्षुर्दर्शनस्य विषयत्वमनापन्नः सन् दृशिस्वरूपत्वात् चक्षुषि सन्निहितत्वाच्च स्वयं द्रष्टा । तद्वत् ‘अश्रुतः’ श्रोत्रविषयत्वमनापन्नः सन् स्वयमलुप्तश्रवणशक्तिः सकल-श्रोत्रेषु सन्निहितत्वात् ‘श्रोता’ । तथा ‘अमतः’ मनःसङ्कल्पविषयमनापन्नः । दृष्टे श्रुते एव हि सर्वः सङ्कल्पयति । अदृष्टत्वादश्रुतत्वादेवामतः । अलुप्त-मनन-शक्तित्वात् सर्वमनस्सु सन्निहितत्वाच्च ‘मन्ता’ । तथा ‘अविज्ञाता’ निश्चय-गोचरं रूपादिवत् सुखादिवद्वा अनापन्नः स्वयं तु अलुप्त-विज्ञान-शक्तित्वात् तत्सन्निहितत्वाच्च ‘विज्ञाता’ । ननु- तथाऽप्य् एवं नियन्तृ-नियन्तव्यादि-भेदेन द्रष्टृ-दृश्यादि-भेदेन च भेदः स्यात् इत्याशङ्कायामाह- नान्यो ऽस्ति द्रष्टेति । एतदन्तर्यामिणः ‘अन्यः’ अपरः ‘द्रष्टा’ ‘नास्ति’ । तथा ‘नान्यो ऽस्ति श्रोता” इत्यादि व्याख्येयम् । उपपादितमन्तर्यामि-स्वरूपमुपसंहरति- एष त आत्मेति । ‘अमृतः’ संसार-धर्म-वर्जितः सर्व-संसारिणां कर्म-फल-विभाग-कर्ता ‘एष ते’ तव ‘आत्मा ऽन्तर्यामी’ । अतः अस्मादीश्वरादात्मनः ‘अन्यदार्तम्’ । “ततो होद्दालक आरुणिरुपरराम” इति पूर्ववत् ॥ ३१ ॥

इति श्री-हृषीकेश-ब्रह्म-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठकानिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-टीकायां वासुदेव-प्रकाशिकायां तृतीये ऽध्याये सप्तमं उद्दालक-ब्राह्मणमन्तर्यामि-ब्राह्मणं सृष्टि-प्रवेश-ब्राह्मणं वा परिसमाप्तम् ॥ १४ (६) ३-७ ॥


  1. काप्य᳘स्य AM. ↩︎

  2. गवीरु᳘दजसे AM ↩︎

  3. हुर्व्यस्रंसिषता AM. ↩︎

  4. एष तऽआत्मा D. ↩︎

  5. न्तर्याम्य unacc. AM. ↩︎

  6. न्तर्याम्य unacc. AM. ↩︎

  7. न्तर्याम्य unacc. AM. ↩︎

  8. न्तर्याम्य unacc. AM. ↩︎

  9. न्तर्याम्य unacc. AM. ↩︎

  10. न्तर्याम्य unacc. AM. ↩︎

  11. न्तर्याम्य unacc. AM. ↩︎

  12. न्तर्याम्य unacc. AM. ↩︎

  13. न्तर्याम्य unacc. AM. ↩︎

  14. वेद᳘ oxytonon AM., see ७, ३, ६. ७. and ९, ४, १४.१५. ↩︎

  15. यस्त्व᳘चि ति᳘ष्ठन् AM. ↩︎