०१

विश्वास-प्रस्तुतिः

अ᳘थ हैनङ्गा᳘र्ग्गी व्वाचक्नवी᳘ पप्प्रच्छ॥
या᳘ज्ञवल्क्ये᳘ति होवाच य᳘दिदᳫँ᳭ स᳘र्व्वमप्स्वो᳘तञ्च प्प्रो᳘तञ्च क᳘स्मि᳘न्न्वाप ऽओ᳘ताश्च[[!!]] प्प्रो᳘तश्चे᳘ति व्वायौ᳘ गार्ग्गी᳘ति क᳘स्मिन्नु[[!!]] व्वायुरो᳘तश्च प्प्रो᳘तश्चे᳘त्याकाश᳘ ऽएव᳘ गार्ग्गी᳘ति क᳘स्मि᳘न्न्वाकाश ऽओ᳘तश्च प्प्रो᳘तश्चे᳘त्यन्तरिक्षलोके᳘षु गार्ग्गी᳘ति क᳘स्मि᳘न्न्वन्तरिक्षलोका ऽओ᳘ताश्च प्प्रो᳘ताश्चेति[[!!]] द्यौर्ल्लोके᳘षु गार्ग्गी᳘ति क᳘स्मिन्नु᳘ द्यौर्ल्लोका ऽओ᳘ताश्च प्रो᳘ताश्चे᳘त्यादित्यलोके᳘षु गार्ग्गी᳘ति क᳘स्मि᳘न्न्वादित्यलोका ऽओ᳘ताश्च प्प्रो᳘ताश्चे᳘ति चन्द्द्रलोके᳘षु गार्ग्गी᳘ति क᳘स्मिन्नु᳘ चन्द्द्रलोका ऽओ᳘ताश्च प्प्रो᳘ताश्चे᳘ति नक्षत्रलोके᳘षु गार्ग्गी᳘ति क᳘स्मिन्नु[[!!]] नक्षत्रलोका ऽओ᳘ताश्च प्प्रो᳘ताश्चे᳘ति देवलोके᳘षु गार्ग्गी᳘ति क᳘स्मिन्नु᳘ देवलोका ऽओ᳘ताश्च प्प्रो᳘ताश्चे᳘ति गन्धर्व्वलोके᳘षु गार्ग्गी᳘ति क᳘स्मिन्नु᳘ गन्धर्व्वलोका ऽओ᳘ताश्च प्प्रो᳘ताश्चे᳘ति प्प्रजा᳘पतिलोके᳘षु गार्ग्गी᳘ति क᳘स्मिन्नु प्प्रजापतिलोका ऽओ᳘ताश्च प्प्रो᳘ताश्चे᳘ति ब्ब्रह्मलोके᳘षु गार्ग्गी᳘ति क᳘स्मिन्नु᳘ ब्ब्रह्मलोका ऽओ᳘ताश्च प्प्रो᳘ताश्चे᳘ति स᳘ होवाच गा᳘र्ग्गि मा᳘ ऽतिप्प्राक्षीर्म्मा᳘ ते मूर्द्धा[[!!]] व्य᳘पप्तदनतिप्प्रश्न्या वै᳘ देव᳘ता ऽअ᳘तिपृच्छसि गा᳘र्ग्गि मा᳘ ऽतिप्प्राक्षीरि᳘ति त᳘तो ह गा᳘र्ग्गी व्वाचक्नव्यु᳘परराम॥

मूलम् - श्रीधरादि

मूलम् - Weber

अ᳘थ हैनं गा᳘र्गी वाचक्नवी᳘ पप्रछ॥
या᳘ज्ञवल्क्ये᳘ति होवाच य᳘दितᳫं स᳘र्वमप्स्वो᳘तं च प्रो᳘तं च क᳘स्मिन्न्वा᳘प ओ᳘ताश्च प्रो᳘तश्चे᳘ति वायौ᳘ गार्गी᳘ति क᳘स्मिन्नु᳘ वायुरो᳘तश्च प्रो᳘तश्चे᳘त्याकाश᳘ एव᳘ गार्गी᳘ति क᳘स्मिॗन्न्वाकाश ओ᳘तश्च प्रो᳘तश्चे᳘त्यन्तरिक्षलोके᳘षु गार्गी᳘ति क᳘स्मिन्न्व᳘न्तरिक्षलोका ओ᳘ताश्च प्रो᳘ताश्चे᳘ति द्यौर्लोके᳘ गार्गी᳘ति क᳘स्मिन्नु᳘ द्यौर्लोक ओ᳘तश्च प्रो᳘तश्चे᳘त्यादित्यलोके᳘षु गार्गी᳘ति क᳘स्मिॗन्न्वादित्यलोका ओ᳘ताश्च प्रो᳘ताश्चे᳘ति चन्द्रलोके᳘षु गार्गी᳘ति क᳘स्मिन्नु᳘ चन्द्रलोका ओ᳘ताश्च प्रो᳘ताश्चेति नक्षत्रलोके᳘षु गार्गी᳘ति क᳘स्मिन्नु᳘ नक्षत्रलोका ओ᳘ताश्च प्रो᳘ताश्चे᳘ति देवलोके᳘षु गार्गी᳘ति क᳘स्मिन्नु᳘ देवलोका ओ᳘ताश्च प्रो᳘ताश्चे᳘ति गन्धर्वलोके᳘षु गार्गी᳘ति क᳘स्मिन्नु᳘ गन्धर्वलोका ओ᳘ताश्च प्रो᳘ताश्चे᳘ति प्रजापतिलोके᳘षु 1 गार्गी᳘ति क᳘स्मिन्नु प्रजापतिलोका ओ᳘ताश्च प्रो᳘ताश्चे᳘ति ब्रह्मलोके᳘षु गार्गी᳘ति क᳘स्मिन्नु᳘ ब्रह्मलोका ओ᳘ताश्च प्रो᳘ताश्चे᳘ति स᳘ होवाच गा᳘र्गि मा᳘तिप्राक्षीर्मा᳘ ते मू᳘र्धा व्य᳘पप्तदनतिप्रश्न्या वै᳘ देव᳘ता अ᳘तिपृछसि गा᳘र्गि मा᳘तिप्राक्षीरि᳘ति त᳘तो ह गा᳘र्गी वाचक्नव्यु᳘परराम॥

मूलम् - विस्वरम्

गार्गीब्राह्मणम् ।

अथ हैनं गार्गी वाचक्नवी पप्रच्छ । याज्ञवल्क्येति होवाच । यदिदं सर्वमप्स्वोतं च प्रोतं च । कस्मिन्नु आप ओताश्च प्रोताश्चेति । वायौ गार्गीति । कस्मिन्नु वायुरोतश्च प्रोतश्चेति । आकाश एव गार्गीति । कस्मिन्नु आकाश ओतश्च प्रोतश्चेति । अन्तरिक्षलोकेषु गार्गीति । कस्मिन्नु अन्तरिक्ष-लोका ओताश्च प्रोताश्चेति । द्यु-लोकेषु गार्गीति । कस्मिन्नु द्यु-लोका ओताश्च प्रोताश्चेति । आदित्य-लोकेषु गार्गीति । कस्मिन्नु आदित्य-लोका ओताश्च प्रोताश्चेति । चन्द्र-लोकेषु गार्गीति । कस्मिन्नु चन्द्र-लोका ओताश्च प्रोताश्चेति । नक्षत्र-लोकेषु गार्गीति । कस्मिन्नु नक्षत्र-लोका ओताश्च प्रोताश्चेति । देव-लोकेषु गार्गीति । कस्मिन्नु देव-लोका ओताश्च प्रोताश्चेति । गन्धर्व-लोकेषु गार्गीति । कस्मिन्नु गन्धर्व-लोका ओताश्च प्रोताश्चेति । प्रजापति-लोकेषु गार्गीति । कस्मिन्नु प्रजापति-लोका ओताश्च प्रोताश्चेति । ब्रह्म-लोकेषु गार्गीति । कस्मिन्नु ब्रह्म-लोका ओताश्च प्रोताश्चेति । स होवाच । गार्गि मा अतिप्राक्षीः । मा ते मूर्द्धा व्यपप्तत् । अनति-प्रश्न्या वै देवता अतिपृच्छसि । गार्गि मा अतिप्राक्षीरिति । ततो ह गार्गी वाचक्नवी उपरराम ॥ १ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

पूर्व-ब्राह्मणयोः “यत्-साक्षाद्-अपरोक्षाद्-ब्रह्म य आत्मा सर्वान्तरः” इत्य् अत्र यः सर्वान्तर आत्मा उक्तः । तस्य स्वरूपाधिगमाय शाकल्य-ब्राह्मणात् प्राक्तनं ब्राह्मण-त्रयम् आरभ्यते- तत्रानात्मभूतान् सर्वान् प्रश्नान् पदार्थान् तावत् गार्गी-ब्राह्मणेनाह- अथ हैनं गार्ग्गी व्वाचक्नवीति । अथानन्तरं ‘एनं’ मुनिं ‘गार्गी’ नामतः वचक्नोर्दुहिता ‘वाचक्नवी’ पप्रच्छेत्यादि पूर्ववत् । ‘यदिदं’ सर्वं भू-धरादिकं पार्थिवं धातु-जातं ‘अप्सु’ उदके स्व-कारणे ‘ओतं च’ दीर्घपटतन्तुवत् ‘प्रोतं च’ तिर्यक्तन्तुवत् सर्वतो ऽन्तर्बहिर्भूताभिरद्भिर्व्याप्तमित्य् अर्थः । अन्यथा सक्तुमुष्टिवत् विशीर्येत । तथा च यथा येयं पञ्चीकृता पृथिवी कार्यत्वात्स्वकारणभूतासु पञ्चीकृतास्वप्सु ओता प्रोता च तद्वदपामपि कार्यत्वात् ‘कस्मिन्नु’ खलु ‘आप ओताश्च प्रोताश्चेति’ अनुमान-विधया पृष्टो मुनिरुत्तरमाह- व्वायौ गार्ग्गीति । हे गार्ग्गि ! वायौ पञ्चीकृते आप ओताश्च प्रोताश्च । ‘कस्मिन्नु’ खलु ‘वायुरोतश्च प्रोतश्चेति’ । ‘आकाश एव गार्ग्गीति’ । ‘कस्मिन्न्वाकाश ओतश्च प्रोतश्चेति’ । ‘अन्तरिक्ष-लोकेषु’ पक्ष्यादि-गति-हेतु-भूतेषु । तान्य् एव पञ्चीकृतानि भूतानि संहतानि अन्तरिक्ष-लोका उच्यन्ते । बहुवचनं त्वारम्भकभूतानां बहुत्वापेक्षया बोध्यम् । प्रजापति-लोकाः विराट्-शरीरारम्भक-पञ्चीकृत-पञ्च-महा-भूतात्मकाः ‘ब्रह्म-लोकेषु’ हिरण्यगर्भलोकेषु अपञ्चीकृत-पञ्च-भूतात्मकेषु ओत-प्रोत-भावेन वर्तन्ते । शेषे सुबोधम् । एवं पूर्ववदनुमानेन सूत्रमपि ब्रह्म-लोकाश्रयं पृच्छन्तीं गार्गीं प्रतिषेधति- स होवाचेत्यादिना । ‘सः’ याज्ञवल्क्यः ‘ह’ उवाच । हे ‘गार्गि’ ! यासु देवतासु ब्रह्म-लोकास्तु ओत-प्रोत-भावेन वर्तन्ते । ताः प्राणात्म-भूताः सूत्र-देवताः आनुमानिकत्वत्प्रश्नविषयतामतीत्य वर्तमानाः, अनुमानेन ‘मा प्राक्षीः’ मा पृच्छेत्य् अर्थः । प्रतिषेधातिक्रमे दोषमाह- मा ते मूर्द्धेति । पृच्छन्त्याश्च ‘ते’ तव ‘मूर्द्धा’ मस्तकं ‘मा व्यपप्तत्’ विस्पष्टं मा पतेत् । मूर्द्ध-पात-प्रसङ्गं प्रकटयन् प्रतिषेधमुपसंहरति- अनति-प्रश्न्या वै देवता इति । देवतानां स्वः प्रश्नः आगम-विषयः । तं प्रश्न-विषयमतिक्रान्तो गार्ग्याः प्रश्नः आनुमानिकत्वात् स प्रश्नो यासामिन्द्रादि-देवतानां विद्यते । सा अति-प्रश्न्याः, एतास्तु न अति-प्रश्न्याः ‘अनतिप्रश्न्याः’ । स्वप्रश्नविषया एव केवलागमगम्या इत्य् अर्थः । ‘ता अनतिप्रश्न्याः’ सूत्र-देवता वै ‘अतिपृच्छसि’ । अतो हे ‘गार्गि’ ! मर्तुं चेन्नेच्छसि तर्हि ‘मा अतिप्राक्षीः’ । इति अनुग्रहार्थो निषेधः । ‘ततो ह गार्ग्गी वाचक्नव्युपरराम’ इत्य् उपसंहारः पूर्ववत् ॥ १ ॥

इति श्री-हृषीकेश- ब्रह्म-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठकानिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-टीकायां वासुदेव-प्रकाशिकायां तृतीये ऽध्याये षष्ठं गार्गी-ब्राह्मणं परिसमाप्तम् ॥ १४ ( ६ ) ३-६ ॥

  1. प्रजा᳘पतिलोके᳘षु प्रजा᳘पतिलोका AM. - ibid. We expect मू᳘र्धाॗ व्यपप्त ↩︎