०१
विश्वास-प्रस्तुतिः
अ᳘थ हैनमुषस्तश्चा᳘क्रायणः पप्प्रच्छ॥
या᳘ज्ञवल्क्ये᳘ति होवाच य᳘त्साक्षाद᳘परोक्षाद्ब्र᳘ह्म य᳘ ऽआत्मा᳘ सर्व्वान्तरस्त᳘म्मे व्व्या᳘चक्ष्वे᳘त्येष᳘ त ऽआत्मा᳘ सर्व्वान्तरः[[!!]] कतमो᳘ याज्ञवल्क्य सर्व्वान्तरो यः᳘ प्प्राणे᳘न प्प्रा᳘णिति स᳘ त ऽआत्मा᳘ सर्व्वान्तरो[[!!]] यो ऽपाने᳘नापा᳘निति स᳘ त ऽआत्मा᳘ सर्व्वान्तरो यो व्व्याने᳘न[[!!]] व्व्य᳘निति स᳘ त ऽआत्मा᳘ सर्व्वान्तरो य᳘ ऽउदाने᳘नोद᳘निति स᳘ त ऽआत्मा᳘ सर्व्वान्तरो यः᳘ समाने᳘न समा᳘निति स᳘ त ऽआत्मा᳘ सर्व्वान्तरः स᳘ होवाचोषस्तश्चा᳘क्रायणो य᳘था वै᳘ ब्ब्रूया᳘दसौ गौ᳘रसाव᳘श्व ऽइ᳘त्येव᳘मे᳘वैतद्व्य᳘पदिष्टम्भवति य᳘देव᳘ साक्षाद᳘परोक्षाद्ब्र᳘ह्म य᳘ ऽआत्मा᳘ सर्व्वान्तरस्त᳘म्मे व्व्या᳘चक्ष्वे᳘त्येष᳘ त ऽआत्मा᳘ सर्व्वान्तरः[[!!]] कतमो᳘ याज्ञवल्क्य सर्व्वान्तरो न᳘ दृष्टे᳘र्द्द्रष्टा᳘रम्पश्येर्न्न᳘ श्रु᳘तेः श्रोता᳘रᳫँ᳭ शृणुया न᳘ मते᳘र्म्मन्ता᳘रम्मन्वीथा न᳘ व्विज्ञाते᳘र्व्विज्ञाता᳘रम्वि᳘जानीया ऽएष᳘ त ऽआत्मा᳘ सर्व्वान्तरो᳘ ऽतो ऽन्यदा᳘र्तन्त᳘तो होषस्तश्चा᳘क्रायण ऽउ᳘परराम॥
मूलम् - श्रीधरादि
अ᳘थ हैनमुषस्तश्चा᳘क्रायणः पप्प्रच्छ॥
या᳘ज्ञवल्क्ये᳘ति होवाच य᳘त्साक्षाद᳘परोक्षाद्ब्र᳘ह्म य᳘ ऽआत्मा᳘ सर्व्वान्तरस्त᳘म्मे व्व्या᳘चक्ष्वे᳘त्येष᳘ त ऽआत्मा᳘ सर्व्वान्तरः[[!!]] कतमो᳘ याज्ञवल्क्य सर्व्वान्तरो यः᳘ प्प्राणे᳘न प्प्रा᳘णिति स᳘ त ऽआत्मा᳘ सर्व्वान्तरो[[!!]] यो ऽपाने᳘नापा᳘निति स᳘ त ऽआत्मा᳘ सर्व्वान्तरो यो व्व्याने᳘न[[!!]] व्व्य᳘निति स᳘ त ऽआत्मा᳘ सर्व्वान्तरो य᳘ ऽउदाने᳘नोद᳘निति स᳘ त ऽआत्मा᳘ सर्व्वान्तरो यः᳘ समाने᳘न समा᳘निति स᳘ त ऽआत्मा᳘ सर्व्वान्तरः स᳘ होवाचोषस्तश्चा᳘क्रायणो य᳘था वै᳘ ब्ब्रूया᳘दसौ गौ᳘रसाव᳘श्व ऽइ᳘त्येव᳘मे᳘वैतद्व्य᳘पदिष्टम्भवति य᳘देव᳘ साक्षाद᳘परोक्षाद्ब्र᳘ह्म य᳘ ऽआत्मा᳘ सर्व्वान्तरस्त᳘म्मे व्व्या᳘चक्ष्वे᳘त्येष᳘ त ऽआत्मा᳘ सर्व्वान्तरः[[!!]] कतमो᳘ याज्ञवल्क्य सर्व्वान्तरो न᳘ दृष्टे᳘र्द्द्रष्टा᳘रम्पश्येर्न्न᳘ श्रु᳘तेः श्रोता᳘रᳫँ᳭ शृणुया न᳘ मते᳘र्म्मन्ता᳘रम्मन्वीथा न᳘ व्विज्ञाते᳘र्व्विज्ञाता᳘रम्वि᳘जानीया ऽएष᳘ त ऽआत्मा᳘ सर्व्वान्तरो᳘ ऽतो ऽन्यदा᳘र्तन्त᳘तो होषस्तश्चा᳘क्रायण ऽउ᳘परराम॥
मूलम् - Weber
अ᳘थ हैनमुषस्तश्चा᳘क्रायणः पप्रछ॥
या᳘ज्ञवल्क्ये᳘ति होवाच य᳘त्साक्षाद᳘परोक्षाद्ब्र᳘ह्म य᳘ आत्मा᳘ सर्वान्तरस्त᳘म् मे व्या᳘चक्ष्वे᳘त्येष᳘ त आत्मा᳘ सर्वान्तरः᳘ कतमो᳘ याज्ञवल्क्य सर्वान्तरो यः᳘ प्राणे᳘न प्रा᳘णिति स᳘ त आत्मा᳘ सर्वान्तरोॗ योऽपाने᳘नापा᳘निति स᳘ त आत्मा᳘ सर्वान्तरो यो व्या᳘नेन व्य᳘निति स᳘ त आत्मा᳘ सर्वान्तरो य᳘ उदाने᳘नोद᳘निति स᳘ त आत्मा᳘ सर्वान्तरो यः᳘ समाने᳘न सम᳘निति 1 स᳘ त आत्मा᳘ सर्वान्तरः स᳘ होवाचोषस्तश्चा᳘क्रायणो य᳘था वै᳘ ब्रूया᳘दसौ गौ᳘रसाव᳘श्व इ᳘त्येव᳘मेॗवैतद्व्य᳘पदिष्टम् भवति य᳘देव᳘ साक्षाद᳘परोक्षाद्ब्र᳘ह्म य᳘ आत्मा᳘ सर्वान्तरस्त᳘म् मे व्या᳘चक्ष्वे᳘त्येष᳘ त आत्मा᳘ सर्वान्तरः᳘ कतमो᳘ याज्ञवल्क्य सर्वान्तरो न दृ᳘ष्टेर्द्रष्टा᳘रम् पश्येर्न श्रु᳘तेः श्रोता᳘रं शृणुया न᳘ मते᳘र्मन्ता᳘रम् मन्वीथा न वि᳘ज्ञातेर्विज्ञाता᳘रं वि᳘ज्ञानीया एष᳘ त आत्मा᳘ सर्वान्तरो᳘ऽतोऽन्यदा᳘र्तं त᳘तो होषस्तश्चा᳘क्रायण उ᳘परराम॥
मूलम् - विस्वरम्
उषस्तब्राह्मणं वा निर्गुणात्मविद्याब्राह्मणम् ।
अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ । याज्ञवल्क्येति होवाच । यत्-साक्षाद्-अपरोक्षाद्-ब्रह्म, य आत्मा सर्वान्तरः । तं मे व्याचक्ष्वेति । एष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरः । यः प्राणेन प्राणिति । स त आत्मा सर्वान्तरः । यो ऽपानेनापानिति । स त आत्मा सर्वान्तरः । यो व्यानेन व्यानिति । स त आत्मा सर्वान्तरः । य उदानेनोदानिति । स त आत्मा सर्वान्तरः । यः समानेन समानिति । स त आत्मा सर्वान्तरः । स होवाचोषस्तश्चाक्रायणः । यथा वै ब्रूयात् । असौ गौः । असावश्व इति । एवमेवैतत् व्यपदिष्टं भवति । यदेव साक्षाद्-अपरोक्षाद्-ब्रह्म । य आत्मा सर्वान्तरः । तं मे व्याचक्ष्वेति । एष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरः । न दृष्टेर्द्रष्टारं पश्येः । न श्रुतेः श्रोतारं शृणुयाः । न मतेर्मन्तारं मन्वीथाः । न विज्ञातेर्विज्ञातारं विजानीयाः । एष त आत्मा सर्वान्तरः । अतो ऽन्यदार्तम् । ततो होषस्तश्चाक्रायण उपरराम ॥ १ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं ब्राह्मण-त्रयेण सप्रयोजकं बन्धनमुक्तम् । चतुर्थे च कहोड-ब्राह्मणे बन्ध-ध्वंसि ससंन्यासं आत्म-तत्त्व-ज्ञानमभिहितम् । साम्प्रतं यो बद्धः संसरति, सो ऽस्ति नास्ति वेति, अस्तित्वे च किंलक्षणो देहादीनामन्यतमः, तेभ्यो विलक्षणो वेति विमृश्ये आत्मनो देहादिभ्यो विवेकेनाधिगमाय उषस्त-ब्राह्मणमारभ्यते- अथ हैनमुषस्तश्चाक्रायण इति । अथानन्तरं ‘ह’ चक्रस्यापत्यं चाक्रायणः, उषस्त-नामा ब्राह्मणः ‘एनं’ प्रकृतं याज्ञवल्क्यं पप्रच्छेत्यादि पूर्ववत् । पूर्वस्मात् कहोड-प्रश्नात् किञ्चिद्विशेषं वक्तुं पूर्वोक्ते एव प्रश्न-प्रतिवचने अनुवदति- यः साक्षादित्यारभ्य यः प्राणेन प्राणितीत्यतः प्राक्तनेन ग्रन्थेन । यद्विशेषकथनायायमनुवादः । तं पूर्वानुक्तं विशेषमाह- यः प्राणेनेति । ‘यः प्राणेन’ मुख-नासिका-सञ्चारिणा ‘प्राणिति’ प्राणन-चेष्टां करोति । येन प्राणः प्रणीयत इत्य् अर्थः । ‘स ते’ तव कार्य-कारण-सङ्घातस्यात्मा उक्तविशेषणविशिष्टो विज्ञानमयः । एवं ‘यो ऽपानेनापानिति’ ‘यो व्यानेन व्यनिति’ इत्य् आदि व्याख्येयम् । सर्वाः कार्य-कारण-सङ्घात-गताः प्राणादि-चेष्टाः दारु-यन्त्रस्येव येन क्रियन्ते । संस्कार्य-करण-सङ्घात-विलक्षणो विज्ञानमयः चेष्टयिता अस्ति । यतो या खलु अचेतन-प्रवृत्तिः सा चेतनाधिष्ठान-पूर्विका यथा रथादि-प्रवृत्तिरिति बोध्यम् । प्रश्न-प्रतिवचनयोरननुरूपत्वमाशङ्कते- स होवाचोषस्तश्चाक्रायण इति । हे मुने ! यथा कश्चित् गामश्वं वा प्रत्यक्षं दर्शयामीति पूर्वं प्रतिज्ञाय पश्चात् यश्चलति ‘असौ गौः’ यो वा धावति ‘असावश्व इति’ चलनादि-लिङ्गैः, ‘यथा वै’ निश्चितं ‘ब्रूयात्’ व्यपदिशेत् । ’एवमेव’ ब्रह्म प्रत्यक्षं दर्शयामीति मत्प्रश्नानुसारेण प्रतिज्ञाय प्राणादि-लिङ्गैस्तद्ब्रह्म ‘व्यपदिष्टं भवति’ त्वया । तथा च- तद्व्यपदिशतस्ते प्रतिज्ञा-हानिः अनवधेय-वचनता-अवश्यादिति भावः । किं बहुना गो-तृष्णा-निमित्तं व्याजं त्यक्त्वा मत्प्रश्नानुसार्युत्तरं वदेत्यभिप्रायवान् पूर्वोक्तमेव प्रश्नमनुवदति- यदेव साक्षादित्यादिना- व्याचक्ष्वेत्यन्तेन । यथा मया प्रथमं प्रतिज्ञातस्तवात्मा एवं-लक्षण इति तां प्रतिज्ञामनुवर्ते एवेत्याशयवान् पूर्वोक्तमेवोत्तरमनुवदति- एष त ऽआत्मा सर्वान्तर इति । ननु- “असौ गौरसावश्व इति” यत्प्रत्यक्षेणासावात्मेति आत्मानं दर्शय इत्येवंलक्षणो मत्प्रश्नो नानुसृतः स्यादित्याशयवान् पूर्वोक्तमेव प्रश्नान्तरमनुवदति- कतमो याज्ञवल्क्य सर्वान्तर इति । सत्यम्, एतादृशश्चेत्तव प्रश्नः । तर्हि नैवानुसृतः स्यात् । आत्मनो दृष्ट्यादि-साक्षित्वात् घटादिवत् विषयी-कर्तुम् अशक्यत्वादित्य् अभिप्रेत्याह- न दृष्टेर्द्रष्टारमिति । दृष्टेर्दर्शनवृत्तेरनित्याया लौकिक्याः कर्मभूतायाः ‘द्रष्टारं’ अलौकिक्या स्वात्म-रूपया नित्यया दृष्ट्या व्याप्तारं हे उषस्त ! त्वं ‘न पश्येः’ न पश्यसि । न च कदाचिदपि विषयत्वेन दृष्टेर्द्द्रष्टा स्फुरतीत्य् अर्थः । तथा ‘श्रुतेः’ श्रवण-वृत्तेः । तथा ‘मतेः’ केवलाया मनो-वृत्तेः । तथा ‘विज्ञातेः’ केवलाया बुद्धि-वृत्तेः । समानमन्यत् । एवमुक्तस्य दृष्ट्यादि-साक्षिणः अन्यत्किंचिद्वास्तवं वा ऽस्तीत्युपसंहरति- एष त आत्मा सर्वान्तर इति । ‘एषः’ सर्वैरुक्तैर्विशेषणैर्विशिष्टः ‘ते’ तवात्मा । अतः एतस्मादुक्त-रूपात् आत्मनः ‘अन्यदार्तं’ विनाशि रज्जुसर्पादिवन्मिथ्याभूतमित्य् अर्थः । “ततो होषस्तश्चाक्रायण उपररामेति” पूर्ववत् ॥ १ ॥
इति श्री-हृषीकेश-ब्रह्म-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठक-अनिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-टीकायां वासुदेव-प्रकाशिकायां तृतीये ऽध्याये पञ्चमम् उषस्त-ब्राह्मणं निर्गुणात्म-विद्या-ब्राह्मणं वा परिसमाप्तम् ॥ १४ । (६) ३ । ५ ॥
-
समा᳘निति AM. - ibid. न᳘ दृष्टे᳘द्रष्टा᳘रं पश्येर्न᳘ श्रु᳘तेः श्रोता᳘रᳫ शृणुया न᳘ म᳘तेर्मन्ता᳘रं मन्वीथा न᳘ विज्ञाते᳘र्विज्ञाता᳘रं AM ↩︎