०१

विश्वास-प्रस्तुतिः

अ᳘थ हैनङ्कहो᳘डः कौ᳘षीतकेयः᳘ पप्प्रच्छ॥
या᳘ज्ञवल्क्ये᳘ति होवाच य᳘त्साक्षाद᳘परोक्षाद्ब्र᳘ह्म य᳘ ऽआत्मा᳘ सर्व्वान्तरस्त᳘म्मे व्व्या᳘चक्ष्वे᳘त्येष᳘ त ऽआत्मा᳘ सर्व्वान्तरः᳘ कतमो᳘ याज्ञवल्क्य सर्व्वान्तरो᳘ यो ऽशनाया᳘पिपासे शो᳘कम्मो᳘हञ्जरा᳘म्मृत्युम᳘त्येत्येतम्वै[[!!]] त᳘मात्मा᳘नम्विदित्वा᳘ ब्ब्राह्मणाः᳘ पुत्रैषणा᳘याश्च व्वित्तैषणा᳘याश्च लोकैषणा᳘याश्च व्व्युत्थाया᳘थ भिक्षाच᳘र्य्यञ्चरन्ति या᳘ ह्येव᳘ पुत्रैषणा सा᳘ व्वित्तैषणा या᳘ व्वित्तैषणा सा᳘ लोकैष᳘णोभे᳘ ह्येते ऽए᳘षणे ऽएव भ᳘वतस्त᳘स्मात्पण्डितः पा᳘ण्डित्यन्निर्व्वि᳘द्य बा᳘ल्येन तिष्ठा᳘सेद्बा᳘ल्यञ्च पा᳘ण्डित्यञ्च निर्विद्या᳘थ मुनिरमौन᳘ञ्च मौन᳘ञ्च निर्व्विद्या᳘थ ब्ब्राह्मणः स᳘ ब्ब्राह्मणः के᳘न स्याद्ये᳘न स्यात्ते᳘नेद्दृ᳘श ऽएव᳘ भ᳘वति य᳘ ऽएवम्वे᳘द त᳘तो ह कहो᳘डः कौ᳘षीतकेय ऽउ᳘परराम॥

मूलम् - श्रीधरादि

अ᳘थ हैनङ्कहो᳘डः कौ᳘षीतकेयः᳘ पप्प्रच्छ॥
या᳘ज्ञवल्क्ये᳘ति होवाच य᳘त्साक्षाद᳘परोक्षाद्ब्र᳘ह्म य᳘ ऽआत्मा᳘ सर्व्वान्तरस्त᳘म्मे व्व्या᳘चक्ष्वे᳘त्येष᳘ त ऽआत्मा᳘ सर्व्वान्तरः᳘ कतमो᳘ याज्ञवल्क्य सर्व्वान्तरो᳘ यो ऽशनाया᳘पिपासे शो᳘कम्मो᳘हञ्जरा᳘म्मृत्युम᳘त्येत्येतम्वै[[!!]] त᳘मात्मा᳘नम्विदित्वा᳘ ब्ब्राह्मणाः᳘ पुत्रैषणा᳘याश्च व्वित्तैषणा᳘याश्च लोकैषणा᳘याश्च व्व्युत्थाया᳘थ भिक्षाच᳘र्य्यञ्चरन्ति या᳘ ह्येव᳘ पुत्रैषणा सा᳘ व्वित्तैषणा या᳘ व्वित्तैषणा सा᳘ लोकैष᳘णोभे᳘ ह्येते ऽए᳘षणे ऽएव भ᳘वतस्त᳘स्मात्पण्डितः पा᳘ण्डित्यन्निर्व्वि᳘द्य बा᳘ल्येन तिष्ठा᳘सेद्बा᳘ल्यञ्च पा᳘ण्डित्यञ्च निर्विद्या᳘थ मुनिरमौन᳘ञ्च मौन᳘ञ्च निर्व्विद्या᳘थ ब्ब्राह्मणः स᳘ ब्ब्राह्मणः के᳘न स्याद्ये᳘न स्यात्ते᳘नेद्दृ᳘श ऽएव᳘ भ᳘वति य᳘ ऽएवम्वे᳘द त᳘तो ह कहो᳘डः कौ᳘षीतकेय ऽउ᳘परराम॥

मूलम् - Weber

अ᳘थ हैनं कहो᳘डः कौ᳘षीतकेयः पप्रछ॥
या᳘ज्ञवल्क्ये᳘ति होवाच य᳘त्साक्षाद᳘परोक्षाद्ब्र᳘ह्म य᳘ आत्मा᳘ सर्वान्तरस्त᳘म् मे व्या᳘चक्ष्वे᳘त्येष᳘ त आत्मा᳘ सर्वान्तरः᳘ कतमो᳘ याज्ञवल्क्य सर्वान्तरोॗ योऽषनाया᳘पिपासे शो᳘कम् मो᳘हं जरा᳘म् मृत्यु᳘मत्ये᳘त्येतं 1 वै त᳘मात्मा᳘नं विदित्वा᳘ ब्राह्मणाः᳘ पुत्रैषणा᳘याश्च वित्तैषणा᳘याश्च लोकैषणा᳘याश्च व्युत्थाया᳘थ भिक्षाच᳘र्यं चरन्ति याॗ ह्येव᳘ पुत्रैषणा सा᳘ वित्तैषणा या᳘ वित्तैषणा सा᳘ लोकैषॗणोभेॗ ह्येते ए᳘षणे एव भ᳘वतस्त᳘स्मात्पण्डितः पा᳘ण्डित्यं निर्वि᳘द्य बा᳘ल्येन तिष्ठा᳘सेद्बा᳘ल्यं च पा᳘ण्डित्यं च निर्विद्या᳘थ मुनि᳘रमौनं᳘ च मौनं᳘ च निर्विद्या᳘थ ब्राह्मणः स᳘ ब्राह्मणः के᳘न स्याद्ये᳘न स्यात्ते᳘नेदृ᳘श एव᳘ भवति य᳘ एवं वे᳘द त᳘तो ह कहो᳘डः कौ᳘षीतकेय उ᳘परराम॥

मूलम् - विस्वरम्

कहोडब्राह्मणं वा निर्गुणब्रह्मविद्याब्राह्मणम् ।

अथ हैनं कहोडः कौषीतकेयः पप्रच्छ । याज्ञवल्क्येति होवाच । यत्साक्षाद्परोक्षाद्ब्रह्म । य आत्मा सर्वान्तरः । तं मे व्याचक्ष्वेति । एष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरः । यः अशनायापिपासे शोकं मोहं जरां मृत्युमत्येति । एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थाय, अथ भिक्षाचर्यं चरन्ति । या ह्येव पुत्रैषणा सा वित्तैषणा । या वित्तैषणा । सा लोकैषणा । उभे ह्येते एषणे एव भवतः । तस्मात्पण्डितः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । बाल्यं च पाण्डित्यं च निर्विद्य, अथ मुनिः । अमौनं च मौनं च निर्विद्य, अथ ब्राह्मणः । स ब्राह्मणः केन स्यात् । येन स्यात् । तेनेदृश एव भवति । य एवं वेद । ततो ह कहोडः कौषीतकेय उपरराम ॥ १ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवं पुण्य-पाप-प्रयुक्तैर्ग्रहातिग्रहैर्गृहीतः पुनःपुनर्ग्रहातिग्रहांस्त्यजन्नुपाददच्चाब्रह्मस्थावरं पुण्योत्कर्षादपि अविमुच्यमानः संसरत्येवेति ब्राह्मण-त्रयेणोक्तम् । इदानीं तस्य बन्धस्य मोक्ष-साधनं ससंन्यास-आत्म-ज्ञानं वक्तव्यमिति कहोड-ब्राह्मणमारभ्यते- अथ हैनं कहोडः कौषीतकेय इति । अथानन्तरं ‘ह’ किल ‘कहोडः’ नामतः, कुषीतकस्यापत्यं ‘कौषीतकेयः’ ‘पप्रच्छ’ “याज्ञवल्क्येति होवाचेति” पूर्ववत् । यदिति परात्मतत्त्वं विशेष्यम् । तस्य साक्षादपरोक्षाद्ब्रह्मेत्येवमन्तं विशेषणम् । परो ऽक्षत्वादिभ्रमव्युदासार्थम् । ‘यः’ इति जीवात्मा विशेष्यं, तस्य सर्वान्तर इति विशेषणम् । परिच्छिन्नत्वादि-भ्रम-व्यावृत्त्यर्थम् । तथा च ‘यद्ब्रह्म’ बृहत्तमं साक्षादव्यवहितं तस्य ‘सर्वान्तरः’ इति व्यत्ययेन परो ऽक्षमगौणं श्रौत्रं ब्रह्मेत्यादि यथा गौणं न तथा गौणमित्य् अर्थः । ‘यः’ आत्मा प्रत्यगात्मा ‘सर्वान्तरः’ सर्वस्याभ्यन्तरः । यद्यःशब्दाभ्यां सामान्येनाधिकरण्येनानुगतः प्रसिद्ध आत्मा ब्रह्मेति । ‘तं’ ब्रह्माभिन्नं प्रत्यगात्मानं ‘मे’ मह्यं ‘व्याचक्ष्व’ विस्पष्टं कथय । यथा शृङ्गे गृहीत्वा गां दर्शयति तद्वदित्य् अर्थः । इत्येवमुक्तो याज्ञवल्क्यः प्रत्याह- एष त आत्मा सर्वान्तर इत्य् एतद्विशेषणम्, साक्षादित्यादिसर्वविशेषणोपलक्षणार्थम् । तथा च य उक्तविशेषणैरुपलक्षितो ब्रह्मात्मैकत्वलक्षणः सः ‘एषः’ ‘ते’ तव कार्य-करण-सङ्घातस्यात्मा । पुनः पृच्छति- कतम इति । तत्र पिण्ड एकः । तस्याभ्यन्तरे लिङ्गात्माकरण-सङ्घातो द्वितीयः । यश्च परमात्म-स्वरूपस्तृतीयः । तेषु मध्ये हे ‘याज्ञवल्क्य !’- ‘कतमः सर्वान्तरः’ सर्वान्तरत्वादि-विशेषणैर्विशिष्टस्त्वया विवक्षित इति पृष्टश्चरमं पक्षं गृहीत्वोत्तरमाह- यो ऽशनायापिपासे इति । अशितुमिच्छा अशनाया । पातुमिच्छा पिपासा । ते ‘अशनायापिपासे’ ‘यः’ अत्येतीति वक्ष्यमाणेन सम्बन्धः । प्राणैकधर्मत्वादशनायापिपासयोः समस्योपादानम् । शोकं मोहमिति । अरतिवाचिना शोकशब्देन- तत्कार्याभूतः काम उच्यते । इष्टं वस्तु उद्दिश्य चिन्तयतो यदरमणं तत्तृष्णाभिभूतस्य काम-बीजम् । तेन हि कामो दीप्यते । मोहो विपरीत-प्रत्यय-प्रभवो ऽविवेकः, सम्यग्-ज्ञान-विरोधात् भूमा विद्या-शब्दवाच्यः । कामस्य शोकः, मोहो दुःखस्य हेतुरिति भिन्नकार्यत्वाच्छोकमोहयोरसमासकरणम् । तौ च मनो ऽधिकरणौ । जरां मृत्युमिति । शरीरविपरिणामो वली-पलितादि-लिंगः ‘जरा’ । शरीरेविच्छेदो विपरिणामावसानः ‘मृत्युः’ । ‘अत्येति’ अतिक्रामति- इति प्रत्येकं सम्बध्यते । जरामृत्यू च शरीराधिकरणौ । “स एष ते आत्मा सर्वान्तरः”- इति पूर्वेणान्वयः । एवमुक्तज्ञानाङ्गं परिव्राज्यं वक्तुमाह- एतं वै तमात्मानमिति । यः असौ साक्षादव्यवहितः अपरोक्षादगौणो ब्रह्मादिस्तम्बपर्यन्तानां भूतानां ‘सर्वान्तर आत्मा’ अशनायापिपासादिभिः संसारधर्मैः सदा न स्पृश्यते । ‘तमेतं वै’ ‘आत्मानं’ स्वं तत्त्वं ‘विदित्वा’ परं ब्रह्म सदा सर्वसंसारविनिर्मुक्तं नित्यतृप्तं अहमेवास्मीति श्रुत्याचार्याभ्यां ज्ञात्वा ‘ब्राह्मणाः’ ब्रह्म-निष्ठा ब्राह्मण्यजातिमन्तो वा ‘पुत्रैषणायाः’ पुत्रार्थमेषणा पुत्रैषणा तां पुत्रोत्पत्तिमुद्दिश्य दारसङ्ग्रहेच्छालक्षणा तस्याः । दारसङ्ग्रहमकृत्वेत्यर्थः । वित्तैषणायाश्चेति । वित्तं द्विविधं- मानुषं दैवं च । मानुषं गवादि । दैवं विद्या । कर्म-साधनस्य तस्य गवादेरुपादान-रूपा इच्छा वित्तैषणा । लोकैषणायाश्चेति । अनेन कर्म कृत्वा पितृ-लोकं जेष्यामीति विद्या-संयुक्तेन वा देवलोकं केवलया वा हिरण्यगर्भविद्यया दैवेन वित्तेन देवलोकं जेष्यामीति इच्छा लोकैषणा । एताभ्य एषणाभ्यः ‘व्युत्थाय’ वैपरीत्येनोत्थानं कृत्वा संन्यासं विधायेत्य् अर्थः । अथानन्तरं शेष-काले देह-स्थित्य्-अर्थं ‘भिक्षाचर्यं’ भिक्षार्थं सञ्चरणं ‘चरन्ति’ कुर्वन्ति । “फलेच्छासाधनं सङ्क्रामति”- इति न्यायात् । लोकैषणैवेका इत्याह- या ह्य् एवेति । ‘या हि’ प्रसिद्धा ‘पुत्रैषणा’ सैव ‘वित्तैषणा’ दृष्ट-फल-साधनत्वादिसामान्यात् । ‘या’ पुत्रैषणाया एकत्वमापन्ना ’वित्तैषणा’ कर्मार्था ’सा लोकैषणैव’ । साध्यलोकैषणा प्रयुक्तत्वात् साधनैषणायाः । एवमेकत्वे ऽपि लोकैषणायाः साधनमन्तरेणासिद्धेः साध्यसाधनभेदेन द्वैविध्यमाह- उभे हीति । यस्मात् पूर्वे ब्राह्मणाः तमेतमात्मानं विदित्वा सर्वस्मात् साधनफलस्वरूपात् एषणालक्षणात् व्युत्थाय दृष्टादृष्टार्थं कर्म्म तत्साधनं च हित्वा भिक्षाचर्यं चरन्ति स्म । तस्मादद्यतनो ऽपि ब्रह्मविद्ब्राह्मणः एषणाभ्यो व्युत्थाय ‘पाण्डित्यं’ शास्त्रोत्था बुद्धिः पण्डा तद्वान् । ‘पाण्डित्यं’ वेदान्तवाक्यविचारलक्षणं श्रवणापर-पर्यायं ‘निर्विद्य’ निःशेषं विदित्वा आत्म-ज्ञानं निरवशेषं कृत्वा अनन्तरं ‘बाल्येन तिष्ठासेत्’ । श्रवणज्ञानोत्पन्नाशेषानात्मदृष्टितिरस्कारसामर्थ्यं बलं तस्य भावो बाल्यं तेन ‘बाल्येन‘ बलभावेन विषयैरनाकृष्टः सन् ‘तिष्ठासेत्’ स्थातुमिच्छेत् । बाल्यशब्दाभिधेयं मननं कुर्यादित्यर्थः । ‘बाल्यं च पाण्डित्यं च निर्विद्य‘ निःशेषं कृत्वा अथानन्तरं मुनिर्मौनवान् धारावाहिकात्म-प्रत्यय-प्रवाहवान् तिष्ठासेदित्य् अनुषज्यते । निदिध्यासनं कुर्यादित्य् अर्थः। एवममौनं च । उक्तार्थपाण्डित्यबाल्यशब्दाभिधेयं श्रवण-मननाख्यं ‘निर्विद्य’ ‘मौनं’ चोक्तार्थ-मुनि-शब्द-वाच्यं निदिध्यासनाख्यं च ‘निर्विद्य’ अथानन्तरं ‘ब्राह्मणः’ निरुप-चरित-ब्राह्मण्यवान् साक्षात्-कृत-ब्रह्मैव स्यात् । कृत-कृत्यो भवेदित्य् अर्थः । उक्तं ब्राह्मण्यं प्राप्तवतो ब्रह्मविदः समाचारं पृच्छति- स ब्राह्मण इति । ‘सः ब्राह्मणः’ ‘केन’ चरणेनेदृक् स्याद्भवेत् । अनियतं तस्य चरणमित्य् उत्तरमाह- येनेति । ‘येन’ चरणेन भवेत् । तेनेदृश एवेति । येन केनचिद् अव्यवस्थित-चरणेन ‘ईदृश एव’ कृत-कृत्य एव ब्राह्मणः ‘भवति’ । विहितमाचरतो निषिद्धं च त्यजतः शुद्ध-बुद्धेः श्रुताद्वाक्यात् सम्यग् धीरुपपद्यते । तस्य च वासना-वशात् व्यवस्थितैव चेष्टा नाव्यवस्थितेति न यथेष्टाचरण-प्रयुक्तो दोष इति स्तुत्य् अर्थं येन केनचिच्चरणेनेति बोध्यम् । इदानीं विज्ञान-फलम् आह- य एवं वेदेति । ‘यः’ ब्राह्मणः एवमेतत् ब्राह्मण्यावस्थानं अशनायाद्यतीतात्मस्वरूपं नित्यतृप्तमिति ‘वेद’ जानाति । सो ऽपीदृश एवोक्त-लक्षण एव ब्राह्मणो भवतीत्य् अनुषज्यते । ‘ततो ह कहोडः कौषीतकेय उपरराम’ ॥ १ ॥

इति श्री-हृषीकेश-ब्रह्म-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठकानिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-टीकायां वासुदेव-प्रकाशिकायां तृतीये ऽध्याये चतुर्थं कहोड-ब्राह्मणं वा निर्गुण-ब्रह्म-विद्या-ब्राह्मणं परिसमाप्तम् ॥ १४ (६) ३-४ ॥


  1. मृत्युम᳘त्येत्येतं A. – ibid. तस्माद्ब्राह्मणः पाण्डित्यं D. - ibid. मुनिर unacc. AM. ↩︎