०१
विश्वास-प्रस्तुतिः
अ᳘थ हैनम्भुज्युर्ल्ला᳘ह्यायनिः पप्प्रच्छ॥
या᳘ज्ञवल्क्ये᳘ति होवाच मद्रे᳘षु च᳘रकाः प᳘र्य्यव्व्रजाम ते᳘ एत᳘ञ्चलस्य काप्य᳘स्य[[!!]] गृहानै᳘म त᳘स्यासीद्दुहिता᳘ गन्धर्व्व᳘गृहीता त᳘मपृच्छाम᳘ को ऽसी᳘ति᳘ सो ऽब्रवीत्सुध᳘न्वा ऽऽङ्गिरस ऽइ᳘ति तं᳘ यदा᳘ लोका᳘नाम᳘न्तान᳘पृच्छामा᳘थैनमब्ब्रूम᳘[[!!]] क्व पारिक्षिता ऽअभवन्क्व᳘[[!!]] पारिक्षिता ऽअभवन्नि᳘ति[[!!]] त᳘त्त्वा पृच्छामि याज्ञवल्क्य᳘ क्व[[!!]] पारिक्षिता ऽअभवन्नि᳘ति[[!!]]॥
मूलम् - श्रीधरादि
अ᳘थ हैनम्भुज्युर्ल्ला᳘ह्यायनिः पप्प्रच्छ॥
या᳘ज्ञवल्क्ये᳘ति होवाच मद्रे᳘षु च᳘रकाः प᳘र्य्यव्व्रजाम ते᳘ एत᳘ञ्चलस्य काप्य᳘स्य[[!!]] गृहानै᳘म त᳘स्यासीद्दुहिता᳘ गन्धर्व्व᳘गृहीता त᳘मपृच्छाम᳘ को ऽसी᳘ति᳘ सो ऽब्रवीत्सुध᳘न्वा ऽऽङ्गिरस ऽइ᳘ति तं᳘ यदा᳘ लोका᳘नाम᳘न्तान᳘पृच्छामा᳘थैनमब्ब्रूम᳘[[!!]] क्व पारिक्षिता ऽअभवन्क्व᳘[[!!]] पारिक्षिता ऽअभवन्नि᳘ति[[!!]] त᳘त्त्वा पृच्छामि याज्ञवल्क्य᳘ क्व[[!!]] पारिक्षिता ऽअभवन्नि᳘ति[[!!]]॥
मूलम् - Weber
अ᳘थ हैनम् भुज्युर्ला᳘ह्यायनिः पप्रछ॥
या᳘ज्ञवल्क्ये᳘ति होवाच मद्रे᳘षु च᳘रकाः प᳘र्यव्रजाम ते᳘ एत᳘ञ्चलस्य का᳘प्यस्य 1 गृहानै᳘म त᳘स्यासीद्दुहिता᳘ गन्धर्व᳘गृहीता त᳘मपृछामॗ कोऽसी᳘तिॗ सोऽब्रवीत्सुधॗन्वाङ्गिरस इ᳘ति तं᳘ यदा᳘ लोका᳘नाम᳘न्तान᳘पृछामा᳘थैत᳘मब्रूम क्व᳘ पारिक्षिता᳘ अभवन्क्व᳘ पारिक्षिता᳘ अभवन्नि᳘ति त᳘त्त्वा पृछामि याज्ञवल्क्य क्व᳘ पारिक्षिता᳘ अभवन्नि᳘ति॥
मूलम् - विस्वरम्
भुज्युब्राह्मणम् ।
अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ । याज्ञवल्क्येति होवाच । मद्रेषु चरकाः पर्यव्रजाम । ते पतञ्चलस्य काप्यस्य गृहानैम । तस्यासीद् दुहिता गन्धर्वगृहीता । तमपृच्छाम । को ऽसीति । सो ऽब्रवीत् । सुधन्वा ऽऽङ्गिरस इति । तं यदा लोकानामन्तानपृच्छाम । अथैनमब्रूम । क्व पारिक्षिता अभवन् । क्व पारिक्षिता अभवन्निति । तत्त्वा पृच्छामि याज्ञवल्क्य ! क्व पारिक्षिता अभवन्निति ॥ १ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘अथ ह’ अनन्तर-प्रपाठकान्ते “पुण्यो वै पुण्येन कर्म्मणा भवति” इति श्रुत्या पुण्यमेव कर्म्म सर्व-पुरुषार्थ-साधनमित्य् उक्तम् । तत्र मोक्षस्यापि पुरुषार्थत्वात् उत्तमेन पुण्योत्कर्षेण मोक्षो भविष्यतीत्याशङ्का-निरासार्थं विद्या-संयुक्तस्यापि कर्म्मणो मोक्षारम्भकत्व-सम्भवान्न मोक्षार्थानि कर्म्माणीत्य् अतः कर्म्म-फलानां संसारत्व-प्रदर्शनायैव भुज्यु-ब्राह्मणमारभ्यते- अथ हैनं भुज्ज्युर्ल्लाह्यायनिरिति । ‘अथ’ जारत्कारवोपरमानन्तरं भुज्युरिति नामवान् लह्यस्यापत्यं लाह्यः, तदपत्यं लाह्यायनिः, ‘एनं पप्रच्छ’ इत्यादि पूर्ववत् । स्व-विद्याया गुरूपदेश-पूर्वकत्वं ज्ञापयितुमाख्यायिकामारचयति- मद्रेषु चरका इति । मद्रा नाम जनपदाः । तेषु देशेषु अध्ययनार्थं व्रत-चरणाच्चरका विद्यार्थिनः अध्वर्यवो वा ‘पर्यव्रजाम’ पर्यटितवन्तः। ‘ते’ वयं ‘पतञ्चलस्य काप्यस्य’ कपि-गोत्रस्य गृहानवसथान् ऐमागच्छाम । तस्य पतञ्चलस्य ‘दुहिता’ पुत्रिका ‘गन्धर्व-गृहीता’ गन्धर्वेणामानुषेण केनचित् सत्त्वेन गृहीता आसीद्बभूव । ‘तं’ पतञ्चल-दुहितर्याविष्टं गन्धर्वं ‘को ऽसि’ कस्त्वमसि किं-नामा ऽसीति सर्वे वयमपृच्छाम । ‘सः’ गन्धर्वः पुनरस्मानब्रवीत् । नामतो ऽहं ‘सुधन्वा’ गोत्रतः ‘आङ्गिरसः’ इति । तत्-स्वरूपं ज्ञात्वा ‘तं’ गन्धर्वं प्रति ‘यदा’ यस्मिन् काले लोकानामन्तानवसानानि ‘अपृच्छाम’ । ‘अथ’ तदा ‘एनं’ गन्धर्वं प्रति ‘पारिक्षिताः’ परितो दुरितं क्षीयते येन स परिक्षित् अश्वमेधः, तद्याजिनः पारिक्षिताः, ‘क्वाभवन्’ क्व गता बभूवुरिति ‘अब्रूम’ पृष्टवन्तो वयमिति । ‘क्व पारिक्षिता ऽअभवन्निति’ सर्वं स च गन्धर्वो ऽस्मभ्यमब्रवीत् । तेनैतस्य प्रश्नस्य गन्धर्वेण दत्तोत्तरज्ञः सो ऽहं विद्या-सम्पन्नो याज्ञवल्क्य ! ‘क्व पारिक्षिता अभवन्निति’ तत्सर्वं ‘त्वा’ त्वां ‘पृच्छामि’ । गन्धर्वोपदिष्टं सर्वं त्वं चेज्जानासि तर्हि वद । नो चेत् त्वमज्ञानेन गृहीतो ऽसीत्य् अभिप्रायः । प्रथमा तावत् “क्व पारिक्षिता अभवन्” इत्युक्तिर्गन्धर्व-प्रश्नार्था । द्वितीया तु यो हि “क्व पारिक्षिता अभवन्” इति प्रश्नो गन्धर्वं प्रति कृतः तस्य प्रत्युक्तिं सर्वां सो ऽस्मभ्यमब्रवीदिति विवक्षया तद्-अनुरूप-प्रतिवचनार्था । तृतीया तु मुनिं प्रति प्रश्नार्था । इति विभागो बोद्धव्यः ॥ १ ॥
०२
विश्वास-प्रस्तुतिः
स᳘ होवाच॥
(चो) उवा᳘च वै स᳘ तद᳘गच्छन्वैते त᳘त्र य᳘त्राश्वमेधयाजि᳘नो ग᳘च्छन्ती᳘ति᳘ क्व᳘ न्वश्वमेधयाजि᳘नो[[!!]] ग᳘च्छन्ती᳘ति द्वा᳘त्रिᳫँ᳭शतम्वै᳘ देवरथाह्न्या᳘न्ययं᳘ लोकस्त᳘ᳫँ᳘ समन्तँ᳘ ल्लोक᳘न्द्विस्ता᳘वत्पृथिवी प᳘र्य्येति ता᳘म्पृथिवी᳘न्द्विस्ता᳘वत्समुद्द्रः प᳘र्य्येति तद्या᳘वती क्षुर᳘स्य धा᳘रा या᳘वद्वा म᳘क्षिकायाः प᳘त्रन्ता᳘वान᳘न्तरेणाकाशस्तानि᳘न्द्द्रः सुपर्ण्णो᳘ भूत्वा᳘ व्वाय᳘वे प्प्रा᳘यच्छत्ता᳘न्वायु᳘रात्म᳘नि धित्वा त᳘त्रागमयद्य᳘त्र पारिक्षिता ऽअ᳘भवन्नि᳘त्येव᳘मिव वै स᳘ व्वायु᳘मेव प्प्र᳘शशᳫँ᳭स त᳘स्माद्वायु᳘रेव᳘ व्यष्टि᳘र्व्वायुः स᳘मष्टिर᳘प पुनर्म्मृत्युञ्जयति[[!!]] स᳘र्व्वमा᳘युरेति य᳘ ऽएवम्वे᳘द त᳘तो ह भुज्युर्ल्लाह्यायनिरु᳘परराम॥
मूलम् - श्रीधरादि
स᳘ होवाच॥
(चो) उवा᳘च वै स᳘ तद᳘गच्छन्वैते त᳘त्र य᳘त्राश्वमेधयाजि᳘नो ग᳘च्छन्ती᳘ति᳘ क्व᳘ न्वश्वमेधयाजि᳘नो[[!!]] ग᳘च्छन्ती᳘ति द्वा᳘त्रिᳫँ᳭शतम्वै᳘ देवरथाह्न्या᳘न्ययं᳘ लोकस्त᳘ᳫँ᳘ समन्तँ᳘ ल्लोक᳘न्द्विस्ता᳘वत्पृथिवी प᳘र्य्येति ता᳘म्पृथिवी᳘न्द्विस्ता᳘वत्समुद्द्रः प᳘र्य्येति तद्या᳘वती क्षुर᳘स्य धा᳘रा या᳘वद्वा म᳘क्षिकायाः प᳘त्रन्ता᳘वान᳘न्तरेणाकाशस्तानि᳘न्द्द्रः सुपर्ण्णो᳘ भूत्वा᳘ व्वाय᳘वे प्प्रा᳘यच्छत्ता᳘न्वायु᳘रात्म᳘नि धित्वा त᳘त्रागमयद्य᳘त्र पारिक्षिता ऽअ᳘भवन्नि᳘त्येव᳘मिव वै स᳘ व्वायु᳘मेव प्प्र᳘शशᳫँ᳭स त᳘स्माद्वायु᳘रेव᳘ व्यष्टि᳘र्व्वायुः स᳘मष्टिर᳘प पुनर्म्मृत्युञ्जयति[[!!]] स᳘र्व्वमा᳘युरेति य᳘ ऽएवम्वे᳘द त᳘तो ह भुज्युर्ल्लाह्यायनिरु᳘परराम॥
मूलम् - Weber
स᳘ होवाच॥
उवा᳘च वै स तद᳘गछन्वै ते त᳘त्र य᳘त्राश्वमेधयाजि᳘नो ग᳘छन्ती᳘ति क्व᳘ न्व᳘श्वमेधयाजि᳘नो गछन्ती᳘ति द्वा᳘त्रिंशतं वै᳘ देवरथाह्नूया᳘न्ययं᳘ लोकस्त᳘ᳫं᳘ समन्तं᳘ लोकं᳘ द्विस्ता᳘वत्पृथिवी प᳘र्येति ता᳘म् पृथिवीं᳘ द्विस्ता᳘वत्समुद्रः प᳘र्येति तद्या᳘वती क्षुर᳘स्य धा᳘रा या᳘वद्वा म᳘क्षिकायाः प᳘त्रं ता᳘वान᳘न्तरेणाकाशस्तानि᳘न्द्रः सुपर्णो᳘ भूत्वा᳘ वाय᳘वे प्रा᳘यछत्ता᳘न्वायु᳘रात्म᳘नि धित्वा त᳘त्रागमयद्य᳘त्र पारिक्षिता 2 अ᳘भवन्नि᳘त्येव᳘मिव वै स᳘ वायु᳘मेव प्र᳘शशंस त᳘स्माद्वायु᳘रेव व्य᳘ष्टिर्वायुः 3 स᳘मष्टिर᳘प पुनर्मृत्युं᳘ जयति स᳘र्वमा᳘युरेति य᳘ एवं वे᳘द त᳘तो ह भुज्युर्ला᳘ह्यायनिरु᳘परराम॥
मूलम् - विस्वरम्
स होवाच । उवाच वै स तत् । अगच्छन्वैते तत्र । यत्राश्वमेध-याजिनो गच्छन्तीति । क्व न्वश्वमेध-याजिनो गच्छन्तीति । द्वात्रिंशतं वै देव-रथाह्न्यानि अयं लोकः । तं समन्तं लोकं द्विस्-तावत्पृथिवी पर्येति । तां पृथिवीं द्विस्-तावत्समुद्रः पर्येति । तद्यावती क्षुरस्य धारा । यावद्वा मक्षिकायाः पत्रम् । तावानन्तरेणाकाशः । तानिन्द्रः सुपर्णो भूत्वा वायवे प्रायच्छत् । तान्वायुरात्मनि धित्वा तत्रागमयत् । यत्र पारिक्षिता अभवन् इति । एवमिव वै स वायुमेव प्रशशंस । तस्माद्वायुरेव व्यष्टिः । वायुः समष्टिः । अप पुनर्मृत्युं जयति । सर्वमायुरेति । य एवं वेद । ततो ह भुज्युर्लाह्यायनिरुपरराम ॥ २ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
अज्ञानेन गृहीतो ऽसीति ग्रहं परिहरन्नुत्तरमाह- स होवाचेति । ‘सः’ याज्ञवल्क्यो भुज्युं प्रति गन्धर्वोक्त-प्रयुक्तिमुवाच । हे भुज्यो ! स गन्धर्वस्तुभ्यमिति ‘वै’ तदुत्तरमुवाच । वै-शब्दो गन्धर्वाल्लब्धस्य ज्ञानस्य स्मरणार्थः । इतीति किं ? ‘एते’ इदानीन्तनाः पारिक्षिताः तत्रागच्छन् । ‘यत्र’ यस्मिन् पूर्वतना अश्वमेध-याजिनो ‘गच्छन्ति’ । पूर्वतना अश्वमेध-याजिनः ‘क्व नु’ कुत्र ‘गच्छन्तीति’ पृष्टे उत्तरं वक्तुं तेषां गति-विवक्षया तावद्भुवन-कोश-परिमाणमाह- द्वात्रिंशतं वा इति। द्वे अधिके त्रिंशतं द्वात्रिंशतम् । देव आदित्यस्तस्य रथो देव-रथः, तस्य गत्या एकेनाह्वा यावद्देश-परिमाणं 4 परिच्छिद्यते, तदेकं देव-रथाह्वयं, तत् द्वात्रिंशद्गुणितं सत् यावन्ति ‘देवरथाह्न्यानि’ तावत्परिमाणो ऽयं लोकः । लोकालोक-गिरिणा परिक्षिप्तः ससागरः सर्वेषां प्राणिनां कर्म्म-फलोपभोग-हेतु-भूतः । लोक्यते सूर्यादिभिः प्रकाश्यत इति स एष एतावान् लोकः । अतः परम् अलोकः । ‘तं’ च ‘लोकं’ ‘समन्तं’ समन्ततः । पृथिवी द्विस्तावदिति । लोक-परिमाणात् द्विगुण-परिमाणा ‘पर्येति’ परितो व्याप्य तिष्ठति ।
“रवि-चन्द्रमसोर्यावन्मयूखैरवभास्यते ।
ससमुद्रसरिच्छैला तावती पृथिवी स्मृता”
( ) इति स्मृतेः । तथैव ‘तां’ ‘पृथिवीं’ पृथिवी-परिमाणतः । द्विस्तावदिति । द्विगुण-परिमाणः ‘समुद्रः’ समन्तं ‘पर्येति’ व्याप्नोति । यं घनोदमाचक्षते 5 पौराणिकाः । उक्तं हि-
“अण्डस्यास्य समन्तात्तु सन्निविष्टो ऽमृतोदधिः ।
समन्ताद्घनतोयेन धार्यमाणः स तिष्ठति”
( ) इति । एवं यथोक्त-रीत्या लोकादि-परिमाणे स्थिते सदृष्टान्तम् अण्ड-कपालयोर्विवर-परिमाणमाह- तद्यावतीति । तत्तत्र व्यवहारभूमौ ‘यावती’ यावत्परिमाणा ‘क्षुरस्य धारा’ अग्रं वा । अथवा ‘यावत्’ सौक्ष्म्येण युक्तं ‘मक्षिकायाः पत्रं’ पक्षः । ‘तावान्’ तत्-परिमाणः कपालयोरन्तरेण मध्ये ‘आकाशः’ अवकाशः । यद्विवक्षयेदं सर्वमुक्तं तदाह- तानिन्द्र इति । तेनाकाश-द्वारेण तान्पारिक्षितानश्वमेधयाजिनः प्राप्तान् ‘इन्द्रः’ परमेश्वरः अश्वमेधे सुपर्ण-आकारेण चितो ऽग्निः सः ‘सुपर्णः’ पक्षपुच्छाद्यात्मकः पक्षी ‘भूत्वा‘ ‘वायवे प्रायच्छत्’ दत्तवान् । स्वस्य स्थूलत्वेनोक्तच्छिद्र-द्वारा अण्डाद्बहिर्गमनासम्भवात् युक्तं वायवे प्रदानमिति भावः । ‘वायुः’ पुनस्तान्पारिक्षितान् ‘आत्मनि’ स्वस्मिन् ‘धित्वा’ स्थापयित्वा स्वात्म-भूतान् कृत्वा ‘तत्र’ तस्मिन् अगमयद्गमितवान् । ‘यत्र’ पूर्वे अतिक्रान्त-कालिकाः ‘पारिक्षिताः’ अश्वमेध-याजिनो ऽभवन्निति । इति-शब्द आख्यायिका-समाप्त्यर्थः । एवमाख्यायिकया निर्णीतमर्थम् आख्यायिकातो ऽपसृत्य श्रुतिरेव स्व-मुखेनास्मभ्यमाचष्टे- एवमिव वै इति । ‘एवमिव वै’ एवमेव । ‘सः’ गन्धर्वः । ‘वायुमेव’ क्रियाशक्तिप्रधानं सूत्रमेव पारिक्षितानां गतिं ‘प्रशशंस’ तुष्टाव । यस्माद्वायुः स्थावर-जङ्गमानां भूतानामन्तरात्मा- बहिश्च स एव । तस्मात् ‘वायुरेव व्यष्टिः’ अध्यात्माधिभूताधिदैवभावेन व्यावृत्तरूपा विविधा अष्टिर्व्याप्तिः । तथा ‘वायुरेव समष्टिः’ समा ऽनुगतरूपा केवलेन सूत्रात्मना अष्टिर्व्याप्तिः । एतद्विज्ञानफलमाह- अप पुनरिति । ‘य एवं’ समष्टिव्यष्टिरूपं वाय्वात्मकमात्मानं ‘वेद’ उपगच्छति । सः ‘पुनर्मृत्युं’ पुनर्मरणं ‘अपजयति’ । सकृन्मृत्वा पुनर्न म्रियते इत्य् अर्थः । ‘सर्वं’ सम्पूर्णमायुरेति प्राप्नोति । ‘ततो ह’ आत्मनः प्रश्न-निर्णयात् भुज्युर्लाह्यायनिरुपरराम । स एव अप्रतिभारूपं निग्रहं प्राप्तवानिति भावः ॥ २ ॥
“जम्बूद्वीपः समग्रो ऽयमीरितो लक्षयोजनः ।
तावांस्तन्मेखला-भूतो वर्तते लवणोदधिः ॥ १९२ ॥
जम्बूद्वीपः समुद्रेण वृतो यद्वद्धि वर्तते ।
ससागरस्तथा द्वीपैर्वृतः षड्भिः ससागरैः ॥ १३३ ॥
द्वीपानां ससमुद्राणां स्थितानां परिवृत्य हि ।
अन्यो ऽन्यमावृतात्तस्मात् द्विगुणं द्विगुणं बहिः ॥ १९४ ॥
परिमाणममीषां यन्मिलितानां प्रकीर्तितम् ।
तावदेव तु विज्ञेयं भूमेः शुद्धोदकाद्बहिः ॥ १९५ ॥
अत्र तिष्ठति शैलेन्द्रो दुर्गवत्सर्वतो मुखः ।
तदन्तर्भास्करो गच्छेदहोरात्रेण सर्वदा ॥ १९६ ॥
अहोरात्रेण यावन्तं देशं गच्छति भास्करः ।
द्वात्रिंशद्गुणितः सो ऽयं भूर्लोकः कथितो बुधैः ॥ १९७ ॥ इति ।
परिमाणमिति । अमीषां ससमुद्रद्वीपानां यावत्परिमाणं
“कोटिद्वयं त्रिपञ्चाशल्लक्षाणि च ततः परम् । पञ्चाशच्च सहस्राणि सप्त द्वीपाः ससागराः ।” इति शैवागमे प्रसिद्धम् । तावच्छुद्धोदकात्परस्तात् भूमेः परिमाणं बोध्यमिति । तदनन्तरमेकोनचत्वारिंशल्लक्षोत्तरकोट्यष्टकपरिमिता स्वर्णभूमिरप्यस्तीत्यपि- शैवागमानुरोधेन बोध्यम् १९५ । अत्रेति । अत्र पूर्वश्लोकोक्तदेशे शैलेन्द्रो लोकालोकनामा मण्डलाकारस्तिष्ठति । तदन्तः तस्य लोकालोकस्यान्तर्मध्ये तत्प्रावृतदेशमध्यवर्तिमानसोत्तरमूर्द्धनीति यावत् । अहोरात्र-भ्रमणेन भास्करो गच्छति । मानसोत्तर-मण्डल-परिमाणं तु- योजनानां लक्षोत्तरसार्द्धनवकोट्य इति पुराणानुरोध्यर्थः १९६ । अहोरात्रेणेति । अहोरात्रेण यावन्तं यत्परिमाणकं देशं मानसोत्तरपरिमण्डलरूपम् आदित्यः परिक्रामति । श्रुतौ तावान् देशो देवरथाह्न्याशब्देनोक्तः । देवस्य सूर्यस्य रथेनाह्ना अहोरात्रेण भोग्यत्वात् । स च देशो द्वात्रिंशद्गुणितो यावान् भवेत् । तावान् देशो रवि-किरण-व्याप्तो बुधैर्भूमिरित्य् उक्तः । श्रुत्या तु लोक इत्युक्तः । लोक्यते कर्मफलं भुज्यते अत्रेति व्युत्पत्तेरित्यर्थः १९७ । योजन-प्रमाणं निगम-परिशिष्टे-
“चतुर्विंशोङ्गुलो हस्तश्चतुर्हस्तं धनुः स्मृतम् ।
धनुःशतानि क्रोशो ऽष्टावष्टकोशं तु योजनम्” इति ॥ २४ ॥
इति श्री-हृषीकेश-ब्राह्मभगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठकानिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-टीकायां वासुदेव-प्रकाशिकायां मध्यमे याज्ञवल्क्य-काण्डे वा मुनि-काण्डे तृतीये ऽध्याये तृतीयं भुज्यु-ब्राह्मणं परिसमाप्तम् ॥ १४ (६) ३-३ ॥