०१
विश्वास-प्रस्तुतिः
अ᳘थ हैनञ्जारत्कारव ऽआ᳘र्त्तभागः पप्प्रच्छ॥
या᳘ज्ञवल्क्ये᳘ति होवाच क᳘ति ग्ग्रहाः क᳘त्यतिग्ग्रहा ऽइ᳘त्यष्टौ ग्ग्र᳘हा ऽअष्टा᳘वतिग्ग्रहा ये᳘ ते ऽष्टौ ग्ग्र᳘हा ऽअष्टा᳘वतिग्ग्रहाः᳘ कतमे त ऽइ᳘ति॥
मूलम् - श्रीधरादि
अ᳘थ हैनञ्जारत्कारव ऽआ᳘र्त्तभागः पप्प्रच्छ॥
या᳘ज्ञवल्क्ये᳘ति होवाच क᳘ति ग्ग्रहाः क᳘त्यतिग्ग्रहा ऽइ᳘त्यष्टौ ग्ग्र᳘हा ऽअष्टा᳘वतिग्ग्रहा ये᳘ ते ऽष्टौ ग्ग्र᳘हा ऽअष्टा᳘वतिग्ग्रहाः᳘ कतमे त ऽइ᳘ति॥
मूलम् - Weber
अ᳘थ हैनं जारत्कारव आ᳘र्तभागः पप्रछ॥
या᳘ज्ञवल्क्ये᳘ति होवाच क᳘ति ग्रहाः क᳘त्यतिग्रहा इ᳘त्यष्टौ ग्र᳘हा अष्टा᳘वतिग्रहा येॗ तेऽष्टौ ग्र᳘हा अष्टा᳘वतिग्रहाः᳘ कतमे त इ᳘ति॥
मूलम् - विस्वरम्
आर्तभागब्राह्मणं वा जारत्कारवब्राह्मणम् ।
अथ हैनं जारत्कारव आर्तभागः पप्रच्छ। याज्ञवल्क्येति होवाच । कति ग्रहाः कत्यतिग्रहा इति । अष्टौ ग्रहाः । अष्टावतिग्रहाः । ये ते ऽष्टौ ग्रहा अष्टावतिग्रहाः, कतमे त इति ॥ १ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं काल-लक्षणात् कर्म-लक्षणाच्च मृत्योरतिमुक्तिर्व्याख्याता । इदानीं बन्ध-ज्ञानं विना ततो विश्लेषायोगात् मुमुक्षोः सप्रयोजक-बन्ध-ज्ञानार्थत्वेन ग्रहातिग्रहणलक्षणात् बन्धान् मृत्योरतिमुक्तिं वक्तुमाख्यायिकामनुसृत्यार्तभागब्राह्मणमारभ्यते- अथ हैनं जारत्कारव ऽआर्तभाग इति । ‘ह’ शब्द ऐतिह्यार्थः । अथानन्तरम् अश्वले उपरते ‘एनं’ प्रकृतं याज्ञवल्क्यं जरत्कारु-गोत्रः ‘जारत्कारवः’ ऋतभागस्यापत्यमार्तभागः पप्रच्छ । याज्ञवल्क्येति होवाचेत्यभिमुखीकरणाय पूर्ववत् । कति ग्रहाः कत्यतिग्रहा इति । इति-शब्दो वाक्य-परिसमाप्त्यर्थः । मुक्त्यतिमुक्ति-प्रतियोगित्वेन सामान्यतः प्रसिद्धा ‘ग्रहाः’ ‘कति’ कति-सङ्ख्याकाः, अतिग्रहाश्च कति-सङ्ख्याकाः ? इति सङ्ख्या-विषयो ऽयं प्रश्नः । एवं पृष्टे उत्तरम् आह- अष्टौ ग्रहा अष्टावतिग्रहा इति । ततः सङ्ख्येयान् पृच्छति ‘ये ते ऽष्टौ ग्रहा अष्टावतिग्रहाः‘ चाभिहिताः ‘ते कतमे’ के ? इत्य् अर्थः ॥ १ ॥
०२
विश्वास-प्रस्तुतिः
प्प्राणो वै ग्ग्र᳘हः[[!!]]॥
सो ऽपाने᳘नातिग्ग्रहे᳘ण ग्गृही᳘तो ऽपाने᳘न हि᳘ गन्धाञ्जि᳘घ्घ्रति॥
मूलम् - श्रीधरादि
प्प्राणो वै ग्ग्र᳘हः[[!!]]॥
सो ऽपाने᳘नातिग्ग्रहे᳘ण ग्गृही᳘तो ऽपाने᳘न हि᳘ गन्धाञ्जि᳘घ्घ्रति॥
मूलम् - Weber
प्राणो वै ग्र᳘हः᳟᳟॥
सोऽपाने᳘नातिग्रहे᳘ण गृहीॗतोऽपाने᳘न 1 हि᳘ गन्धान्जि᳘घ्रति॥
मूलम् - विस्वरम्
प्राणो वै ग्रहः । सो ऽपानेनातिग्रहेण गृहीतः । अपानेन हि गन्धान् जिघ्रति ॥ २ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं पृष्टे उत्तरमाह- प्राणो वै ग्रह इति । ‘प्राणः’ इति घ्राणमुच्यते प्रकरणात् वायुना सहितः स घ्राणाख्यः प्राणो ग्रहवत् परवशता-हेतुत्वात् ग्रहः । ‘सः अपानेन’ गन्धेनातिग्रहेण ‘गृहीतः’ । अपश्वासो ऽत्रापान-शब्दार्थः । अपान-सचिवत्वादपानो गन्ध उच्यते । कथं ? तेन गृहीत इत्य् अत आह- अपानेन हीति । ‘हि’ यस्मात् अपानेनान्तर्मुखश्वासेव ‘गन्धान् लोको जिघ्रति’ । अपानापहृतं गन्धं घ्राणेन सर्वो लोको जिघ्रति इत्यतस्तेन प्राणो गृहीत इत्य् अर्थः ॥ २ ॥
०३
विश्वास-प्रस्तुतिः
जिह्वा वै ग्ग्र᳘हः॥
स र᳘सेनातिग्ग्रहे᳘ण ग्गृहीतो᳘ जिह्व᳘या हि र᳘सान्विजाना᳘ति॥
मूलम् - श्रीधरादि
जिह्वा वै ग्ग्र᳘हः॥
स र᳘सेनातिग्ग्रहे᳘ण ग्गृहीतो᳘ जिह्व᳘या हि र᳘सान्विजाना᳘ति॥
मूलम् - Weber
जिह्वा वै ग्र᳘हः॥
स र᳘सेनातिग्रहे᳘ण गृहीतो᳘ 2 जिह्व᳘या हि र᳘सान्विजाना᳘ति॥
मूलम् - विस्वरम्
जिह्वा वै ग्रहः । स रसेनातिग्रहेण गृहीता । जिह्वया हि रसान् विजानाति ॥ ३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘जिह्वा वै ग्रहः’ । स जिह्वाख्यो ग्रहः ‘रसेनातिग्रहेण गृहीतः’ । जिह्वया ज्ञातं हि रसं सर्वो लोको रसयति । तदेतदुच्यते- जिह्वया हि रसान् विजानातीति ॥ ३ ॥
०४
विश्वास-प्रस्तुतिः
व्वाग्वै ग्ग्र᳘हः॥
स ना᳘म्ना ऽतिग्ग्रहे᳘ण ग्गृहीतो᳘ व्वाचा हि ना᳘मान्यभिव᳘दति॥
मूलम् - श्रीधरादि
व्वाग्वै ग्ग्र᳘हः॥
स ना᳘म्ना ऽतिग्ग्रहे᳘ण ग्गृहीतो᳘ व्वाचा हि ना᳘मान्यभिव᳘दति॥
मूलम् - Weber
वाग्वै ग्र᳘हः॥
स ना᳘म्नातिग्रहे᳘ण गृहीतो᳘ 3 वाचा हि ना᳘मान्यभिव᳘दति॥
मूलम् - विस्वरम्
वाग्वै ग्रहः । सा नाम्ना ऽतिग्रहेण गृहीतः । वाचा हि नामान्यभिवदति ॥ ४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘वाग्वै ग्रहः’ । अध्यात्म-परिच्छिन्नया ऽऽसङ्ग-विषयास्पदया असत्यानृतासभ्यबीभत्सादि-वचनेषु व्यापृतया हि वाचा लोको गृहीतो ऽपहतः । तेन ‘वाक् ग्रहः’ । ग्रह इव ग्रहः । स वाग्-आख्यो ग्रहः ‘नाम्ना’ वक्तव्येन विषयेणातिग्रहेण ‘गृहीतः’ । वक्तव्यासङ्गेन हि प्रयुक्ता वाक् सर्वानर्थैर्युज्यत इति प्रसिद्धमित्यभिप्रेत्याह- वाचा हीति । ‘हि’ यस्मात् लोको नाम वक्तव्यार्थया ‘वाचा’ ‘नामान्यभिवदति’ ॥ ४ ॥
०५
विश्वास-प्रस्तुतिः
च᳘क्षुर्व्वै ग्ग्र᳘हः॥
स᳘ रूपे᳘णातिग्ग्रहे᳘ण ग्गृहीतश्च᳘क्षुषा हि᳘ रूपा᳘णि प᳘श्यति॥
मूलम् - श्रीधरादि
च᳘क्षुर्व्वै ग्ग्र᳘हः॥
स᳘ रूपे᳘णातिग्ग्रहे᳘ण ग्गृहीतश्च᳘क्षुषा हि᳘ रूपा᳘णि प᳘श्यति॥
मूलम् - Weber
च᳘क्षुर्वै ग्र᳘हः॥
स᳘ रूपे᳘णातिग्रहे᳘ण गृहीतश्च᳘क्षुषा हि᳘ रूपा᳘णि प᳘श्यति॥
मूलम् - विस्वरम्
चक्षुर्वै ग्रहः । स रूपेणातिग्रहेण गृहीतः । चक्षुषा हि रूपाणि पश्यति ॥ ५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘चक्षुर्ग्रहः,’ ‘रूपमतिग्रहः’ ॥ ५ ॥
०६
विश्वास-प्रस्तुतिः
श्रो᳘त्रम्वै ग्ग्र᳘हः॥
स श᳘ब्देनातिग्ग्रहे᳘ण ग्गृहीतः श्रो᳘त्रेण हि श᳘ब्दाञ्छृणो᳘ति॥
मूलम् - श्रीधरादि
श्रो᳘त्रम्वै ग्ग्र᳘हः॥
स श᳘ब्देनातिग्ग्रहे᳘ण ग्गृहीतः श्रो᳘त्रेण हि श᳘ब्दाञ्छृणो᳘ति॥
मूलम् - Weber
श्रो᳘त्रं वै ग्र᳘हः॥
स श᳘ब्देनातिग्रहे᳘ण गृहीतः श्रो᳘त्रेण हि श᳘ब्दाञ्छृणो᳘ति॥
मूलम् - विस्वरम्
श्रोत्रं वै ग्रहः । स शब्देनातिग्रहेण गृहीतः । श्रोत्रेण हि शब्दान् शृणोति ॥ ६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘श्रोत्रं ग्रहः,’ ‘शब्दो ऽतिग्रहः’ ॥ ६ ॥
०७
विश्वास-प्रस्तुतिः
म᳘नो वै ग्ग्र᳘हः॥
स का᳘मेनातिग्ग्रहे᳘ण ग्गृहीतो म᳘नसा हि का᳘मान्काम᳘यते॥
मूलम् - श्रीधरादि
म᳘नो वै ग्ग्र᳘हः॥
स का᳘मेनातिग्ग्रहे᳘ण ग्गृहीतो म᳘नसा हि का᳘मान्काम᳘यते॥
मूलम् - Weber
म᳘नो वै ग्र᳘हः॥
स का᳘मेनातिग्रहे᳘ण गृहीतो म᳘नसा हि का᳘मान्काम᳘यते॥
मूलम् - विस्वरम्
मनो वै ग्रहः । स कामेनातिग्रहेण गृहीतः । मनसा हि कामान् कामयते ॥ ७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘मनो ग्रहः,’ ‘कामो ऽतिग्रहः’ ॥ ७ ॥
०८
विश्वास-प्रस्तुतिः
ह᳘स्तौ वै ग्ग्र᳘हः॥
स क᳘र्म्मणा ऽतिग्ग्रहे᳘ण ग्गृहीतो ह᳘स्ताभ्याᳫँ᳭ हि क᳘र्म्म करो᳘ति॥
मूलम् - श्रीधरादि
ह᳘स्तौ वै ग्ग्र᳘हः॥
स क᳘र्म्मणा ऽतिग्ग्रहे᳘ण ग्गृहीतो ह᳘स्ताभ्याᳫँ᳭ हि क᳘र्म्म करो᳘ति॥
मूलम् - Weber
ह᳘स्तौ वै ग्र᳘हः॥
स क᳘र्मणातिग्रहे᳘ण गृहीतो ह᳘स्ताभ्याᳫं हि क᳘र्म करो᳘ति॥
मूलम् - विस्वरम्
हस्तौ वै ग्रहः । स कर्मणा ऽतिग्रहेण गृहीतः । हस्ताभ्यां हि कर्म करोति ॥ ८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘हस्तौ ग्रहः,’ ‘कर्मातिग्रहः’ ॥ ८ ॥
०९
विश्वास-प्रस्तुतिः
त्वग्वै ग्ग्र᳘हः॥
स स्प᳘र्शेनातिग्ग्रहे᳘ण ग्गृहीतस्त्व᳘चा[[!!]] हि स्प᳘र्श्शान्वे᳘दयत ऽइ᳘त्यष्टौ[[!!]] ग्ग्र᳘हा ऽअष्टा᳘वतिग्ग्रहाः[[!!]]॥
मूलम् - श्रीधरादि
त्वग्वै ग्ग्र᳘हः॥
स स्प᳘र्शेनातिग्ग्रहे᳘ण ग्गृहीतस्त्व᳘चा[[!!]] हि स्प᳘र्श्शान्वे᳘दयत ऽइ᳘त्यष्टौ[[!!]] ग्ग्र᳘हा ऽअष्टा᳘वतिग्ग्रहाः[[!!]]॥
मूलम् - Weber
त्वग्वै ग्र᳘हः॥
स स्प᳘र्शेनातिग्रहे᳘ण गृहीत᳘स्त्वचा 4 हि स्प᳘र्शान्वेद᳘यत इ᳘त्यष्टौ ग्र᳘हा अष्टा᳘वतिग्रहाः᳟॥
मूलम् - विस्वरम्
त्वग्वै ग्रहः । स स्पर्शेनातिग्रहेण गृहीतः । त्वचा हि स्पर्शान् वेदयते । इत्यष्टौ ग्रहा अष्टावतिग्रहाः ॥ ९ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘त्वग्ग्रहः’ ‘स्पर्शो ऽतिग्रहः’ इत्येवं घ्राणाद्यास्त्वगन्ताः ‘अष्टौ ग्रहाः’ गन्धाद्याः स्पर्शाताः ‘अष्टावतिग्रहाः’ इत्य् अर्थः ॥ ९ ॥
१०
विश्वास-प्रस्तुतिः
(०) या᳘ज्ञवल्क्ये᳘ति होवाच॥
य᳘दिदᳫँ᳭ स᳘र्व्वम्मृत्योर᳘न्नङ्का᳘स्वित्सा᳘ देव᳘ता य᳘स्या म्मृत्युर᳘न्नमि᳘त्यग्निर्व्वै᳘ म्मृत्युः[[!!]] सो ऽपाम᳘न्नम᳘प पुनर्म्मृत्यु᳘ञ्जयति॥
मूलम् - श्रीधरादि
(०) या᳘ज्ञवल्क्ये᳘ति होवाच॥
य᳘दिदᳫँ᳭ स᳘र्व्वम्मृत्योर᳘न्नङ्का᳘स्वित्सा᳘ देव᳘ता य᳘स्या म्मृत्युर᳘न्नमि᳘त्यग्निर्व्वै᳘ म्मृत्युः[[!!]] सो ऽपाम᳘न्नम᳘प पुनर्म्मृत्यु᳘ञ्जयति॥
मूलम् - Weber
या᳘ज्ञवल्क्ये᳘ति होवाच॥
य᳘दिदᳫं स᳘र्वम् मृत्योर᳘न्नं का᳘ स्वित्सा᳘ देव᳘ता य᳘स्या मृत्युर᳘न्नमि᳘त्यग्निर्वै᳘ मृत्युः᳘ सोऽपाम᳘न्नम᳘प पुनर्मृत्युं᳘ जयति॥
मूलम् - विस्वरम्
याज्ञवल्क्येति होवाच । यदिदं सर्वं मृत्योरन्नम् । कास्वित्सा देवता । यस्या मृत्युरन्नमिति । अग्निर्वै मृत्युः । सो ऽपामन्नम् । अप पुनर्मृत्युं जयति ॥ १० ॥
श्रीमद्वासुदेवब्रह्मभगवान्
उपसंहृतेषु ग्रहातिग्रहेषु पुनराह- याज्ञवल्क्येति होवाचेति पूर्ववत् । ‘यदिदं’ व्याकृतं ‘सर्वं’ जगत् ‘मृत्योरन्नं’ मृत्युना ग्रहातिग्रह-लक्षणेन ग्रस्तम् । उत्पत्ति-विनाश-शालित्वाज्जगतः । कास्वित्सा नु ‘सा देवता’ ‘यस्याः’ देवताया मृत्युरप्यन्नं भवेत् । यदि मृत्योरपि मृत्युं वक्ष्यति मुनिः । तर्हि तस्यापि मृत्य्वन्तरमित्यनवस्था स्यात् । अपि न वक्ष्यति । तदा ऽस्मात् ग्रहातिग्रह-लक्षणान्मृत्योर्मोक्षो नोपपद्यते । तस्य विनाशकाभावात् इति प्रष्टुरभिप्रायः । अस्ति मृत्योर्मृत्युरित्युत्तरमाह- अग्निर्वै मृत्युरिति । ‘अग्निर्वै’ प्रसिद्धः ‘मृत्युः’ सर्व-विनाशकत्वात् । सो ऽप्यग्निरपामन्नम् । अद्भिर्भक्ष्यमाणत्वात् । एवं मृत्योरपि मृत्युर्ब्रह्मात्मसाक्षात्कारलक्षणो दृष्टः सर्व-मृत्युः । सर्वमृत्योर्मृत्व्यन्तरानुपपत्तेर्नानवस्थेति भावः । तेन सर्वमृत्युना ग्रहातिग्रह-लक्षणे बन्धने नाशिते संसारान्मोक्ष उपपन्नो भवतीत्येतत्प्रसाधितम् । अतो बन्ध-मोक्षाय पुरुष-प्रयासः सफलो भवतीत्य् अर्थः । एवमुक्तस्य सर्व-मृत्योर्-व्युत्पादने किं फलमित्य् अत आह- अप पुनरिति । ब्रह्म-साक्षात्कारेण सर्व-मृत्युना ग्रहातिग्रह-लक्षणे मृत्यौ भक्षिते सति विद्वान् ‘पुनर्मृत्युं’ पुनर्मरणं ‘अपजयति’ निराकरोति पुनर्मरणाय न जायत इत्य् अर्थः ॥ १० ॥
११
विश्वास-प्रस्तुतिः
या᳘ज्ञवल्क्ये᳘ति होवाच॥
य᳘त्रायम्पु᳘रुषो म्म्रिय᳘ते कि᳘मेनन्न᳘ जहाती᳘ति नामे᳘त्यनन्तम्वै ना᳘मानन्ता व्वि᳘श्वे देवा᳘ ऽअनन्त᳘मेव स ते᳘न लोक᳘ञ्जयति॥
मूलम् - श्रीधरादि
या᳘ज्ञवल्क्ये᳘ति होवाच॥
य᳘त्रायम्पु᳘रुषो म्म्रिय᳘ते कि᳘मेनन्न᳘ जहाती᳘ति नामे᳘त्यनन्तम्वै ना᳘मानन्ता व्वि᳘श्वे देवा᳘ ऽअनन्त᳘मेव स ते᳘न लोक᳘ञ्जयति॥
मूलम् - Weber
या᳘ज्ञवल्क्ये᳘ति होवाच॥
य᳘त्रायम् पु᳘रुषो म्रिय᳘ते कि᳘मेनं न᳘ जहाती᳘ति नामे᳘त्यनन्तं वै ना᳘मानन्ता वि᳘श्वे देवा᳘ अनन्त᳘मेव स ते᳘न लोकं᳘ जयति एव स ते᳘न लोकं᳘ जयति॥
मूलम् - विस्वरम्
याज्ञवल्क्येति होवाच । यत्रायं पुरुषो म्रियते । किमेनन्न जहातीति । नामेति । अनन्तं वै नाम । अनन्ता विश्वे देवाः । अनन्तमेव स तेन लोकं जयति ॥ ११ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं परमात्म-दर्शनेन मुक्तस्य किं प्राणा एव समवनीयन्ते आहोस्वित् तत्-प्रयोजकमपि सर्वम् । अथ प्राणा एव, न तत्-प्रयोजकं सर्वम्, तर्हि प्रयोजके विद्यमाने पुनः प्राणानां प्रसङ्गः । अथ सर्वमेव काम-कर्मादिकम् । ततो मोक्ष उपपद्यते इत्येवमर्थ उत्तर-प्रश्नो ऽयम् इत्य् अभिप्रायवानाह- याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते किमेनं न जहातीतीति । ‘यत्र’ यस्मिन् काले ‘पुरुषः’ विद्वान् ‘म्रियते’ । तदैनं किं ‘न जहाति’ न त्यजतीति । एवं पृष्टे उत्तरमाह- नामेतीति। सर्वमेवैनं जहाति नाम-मात्रं तु न जहाति । सर्वं समवनीयते । नाममात्रं तु न लीयत इत्यर्थः । तत्कुत इत्य् अपेक्षायामाह- अनन्तं वै नामेति । आकृति-सम्बन्धात् नित्यं ‘वै’ प्रसिद्धं नाम । शुको मुक्त इति-वत् व्यवहार-पारम्पर्यात् । ब्रह्म-विद्यां स्तोतुमाह- अनन्ता इति । ‘अनन्ता वै’ प्रसिद्धाः ‘विश्वे देवाः’ । अतः तन्नामानन्त्याधिकृतान् विद्वान् देवान् ब्रह्मास्मीति दर्शनेनात्मत्वेनोपगम्य ‘सः’ विद्वान् ‘तेन’ दर्शनेनानन्तमेव लोकं जयतीत्य् अर्थः ॥ ११ ॥
१२
विश्वास-प्रस्तुतिः
या᳘ज्ञवल्क्ये᳘ति होवाच॥
य᳘त्रायम्पु᳘रुषो म्म्रिय᳘त ऽउ᳘दस्मा᳘त्प्राणाः᳘ क्रामन्त्या᳘हो३ ने᳘ति ने᳘ति होवाच या᳘ज्ञवल्क्यो᳘ ऽत्रैव᳘ सम᳘वनीयन्ते स ऽउ᳘च्छ्वय᳘त्या᳘ध्मातो मृतः᳘ शेते॥
मूलम् - श्रीधरादि
या᳘ज्ञवल्क्ये᳘ति होवाच॥
य᳘त्रायम्पु᳘रुषो म्म्रिय᳘त ऽउ᳘दस्मा᳘त्प्राणाः᳘ क्रामन्त्या᳘हो३ ने᳘ति ने᳘ति होवाच या᳘ज्ञवल्क्यो᳘ ऽत्रैव᳘ सम᳘वनीयन्ते स ऽउ᳘च्छ्वय᳘त्या᳘ध्मातो मृतः᳘ शेते॥
मूलम् - Weber
या᳘ज्ञवल्क्ये᳘ति होवाच॥
य᳘त्रायम् पु᳘रुषो म्रिय᳘त उ᳘दस्मा᳘त्प्राणाः᳘ क्रामन्त्या᳘हो ने᳘ति ने᳘ति होवाच या᳘ज्ञवल्क्यो᳘ऽत्रैव᳘ सम᳘वनीयन्ते स उ᳘छ्वयत्या᳘ध्मायत्या᳘ध्मातो मृतः᳘ शेते॥
मूलम् - विस्वरम्
याज्ञवल्क्येति होवाच । यत्रायं पुरुषो म्रियते । उदस्मात्प्राणाः क्रामन्ति आहो नेति । नेति होवाच याज्ञवल्क्यः । अत्रैव समवनीयन्ते । स उच्छ्वयति । आध्मातो मृतः शेते ॥ १२ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
साक्षात्कार-ज्ञाने जाते विद्वान्न म्रियते । न च तस्य प्राणा अत्यन्तं समवनीयन्ते । किन्तु जीवन्-मुक्तत्वेन सर्वदा तिष्ठतीति तन्निराकर्तुमाह- याज्ञवल्क्येति होवाचेति पूर्ववत् । परमात्म-साक्षात्कार-रूपेण सर्व-मृत्युना सविलासाज्ञानमृत्यौ नाशिते सति विद्वानयं पुरुषः ‘यत्र’ यस्मिन् काले ‘म्रियते’ । तदा अस्मान्म्रियमाणाद्ब्रह्मविदः सकाशात्प्राणा घ्राणादयो ग्रहा गन्धादयश्चातिग्रहा वासनारूपा अन्तस्थाः सप्रयोजकाः ‘उत्क्रामन्ति’ ऊर्ध्वं गच्छन्ति आहोस्विन्नेति’ प्लुतिर्विचारार्थाः । इति पृष्टः ‘नेति’ नोत्क्रामन्तीति ’होवाच याज्ञवल्क्यः’ । किन्तु ‘अत्रैव’ परब्रह्मणि एकतां गते अस्मिन् विदुष्य् एव ‘समवनीयन्ते’ एकी-भावेन समवसृज्यन्ते प्रविलीयन्ते ऊर्म्मय इव समुद्रे । तर्हि मृत-प्रसिद्धिः कथमित्य् अपेक्षायां तस्या देह-विषयत्वात् इत्य् आह- स ऽउच्छ्वयतीति । उच्छूनतां प्रतिपद्यते । आध्मायति बाह्येन वायुना दृतिवदापूर्यते ‘आध्मातः’ मृतः ‘निश्चेष्टः’ ‘शेते’ अतो देहस्यैव मरण-धर्मता । बन्धन-नाशे मुक्तस्य न क्वचिद्गमनमित्य् अर्थः ॥ १२ ॥
१३
विश्वास-प्रस्तुतिः
या᳘ज्ञवल्क्ये᳘ति होवाच॥
य᳘त्रास्य पु᳘रुषस्य मृत᳘स्याग्निम्वाग᳘प्येति व्वा᳘तम्प्राणश्च᳘क्षुरादित्यम्म᳘नश्चन्द्रन्दि᳘शः श्रो᳘त्रम्पृथिवीᳫँ᳭ श᳘रीरमाकाश᳘मात्मौ᳘षधीर्ल्लोमानि व्व᳘नस्प᳘तीन्के᳘शा ऽअप्सु लो᳘हितञ्च रे᳘तश्च निधी᳘यते᳘ क्वायन्तदा पु᳘रुषो भवतीत्या᳘हर सौम्य हस्तम्[[!!]]॥
मूलम् - श्रीधरादि
या᳘ज्ञवल्क्ये᳘ति होवाच॥
य᳘त्रास्य पु᳘रुषस्य मृत᳘स्याग्निम्वाग᳘प्येति व्वा᳘तम्प्राणश्च᳘क्षुरादित्यम्म᳘नश्चन्द्रन्दि᳘शः श्रो᳘त्रम्पृथिवीᳫँ᳭ श᳘रीरमाकाश᳘मात्मौ᳘षधीर्ल्लोमानि व्व᳘नस्प᳘तीन्के᳘शा ऽअप्सु लो᳘हितञ्च रे᳘तश्च निधी᳘यते᳘ क्वायन्तदा पु᳘रुषो भवतीत्या᳘हर सौम्य हस्तम्[[!!]]॥
मूलम् - Weber
या᳘ज्ञवल्क्ये᳘ति होवाच॥
य᳘त्रास्य पु᳘रुषस्य मृत᳘स्याग्निं वाग᳘प्येति वा᳘तम् प्राणश्च᳘क्षुरादित्यम् म᳘नश्चन्द्रं दि᳘शः श्रो᳘त्रम् पृथिवीं श᳘रीरमाकाश᳘मात्मौ᳘षधीर्लो᳘मानि व᳘नस्प᳘तीन्के᳘शा अप्सु लो᳘हितं च रे᳘तश्च निधी᳘यतेॗ क्वायं᳘ तदा पु᳘रुषो भवतीत्या᳘हर सौम्य ह᳘स्तम्॥
मूलम् - विस्वरम्
याज्ञवल्क्येति होवाच । यत्रास्य पुरुषस्य मृतस्य अग्निं वागप्येति । वातं प्राणः । चक्षुरादित्यम् । मनश्चन्द्रम् । दिशः श्रोत्रम् । पृथिवी शरीरम् । आकाशमात्मा । ओषधीर्लोमानि । वनस्पतीन्केशाः । अप्सु लोहितं च रेतश्च निधीयते । क्वायं तदा पुरुषो भवति इति । आहर सौम्य हस्तम् ॥ १३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
अथ केन प्रयुक्तं ग्रहातिग्रह-लक्षणं बन्धनम् इत्येतन्निर्द्दिधारयिषया पृच्छति- याज्ञवल्क्येति होवाचेति । ‘यत्र’ यस्मिन् समये अस्याविदुषः ‘पुरुषस्य’ शिरः-पाण्यादि-विशिष्टस्य ‘मृतस्य’ ‘वाक्’ वाग्-अधिष्ठात्री देवता ‘अग्निमप्येति’ अपिगच्छति । ‘प्राणः’ तद्-अधिष्ठात्री देवता घ्राणं वातमप्येति, चक्षुरादित्यमप्येतीति सर्वत्र सम्बध्यते । ‘मनश्चन्द्रं, दिशः श्रोत्रं, पृथिवीं शरीरं, आकाशमात्मेति’ । अत्रात्म-शब्देन आत्माधिष्ठानं हृदयाकाशमुच्यते । स आकाशमप्येति । ‘लोमानि’ ओषधीरपियन्ति । ‘केशाः’ वनस्पतीनपियन्ति । ‘लोहितं’ रेतश्चाप्सु ‘निधीयते’ । इति पुनरादान-लिङ्गम् । ‘तदा’ तस्मिन् काले ‘अयं पुरुषः’ ‘क्व’ कस्मिन् आश्रये भवति । किमाश्रितः कार्य-कारण-सङ्घातमुपादत्ते, इति पृष्टे उत्तरं वक्तुम् उपोद्घातमाह- आहरेति । हे सौम्य ! ‘हस्तं’ करं ‘आहर’ देहीति ॥ १३ ॥
१४
विश्वास-प्रस्तुतिः
(मा᳘) आ᳘र्त्तभागे᳘ति होवाच॥
(चाद᳘) आव᳘मे᳘वैत᳘द्वेदिष्या᳘वो न᳘ नावेतत्सजन ऽइ᳘ति[[!!]] तौ᳘ होत्क्र᳘म्य मन्त्रया᳘ञ्चक्रतुस्तौ᳘ ह य᳘दूचतुः[[!!]] क᳘र्म्म हैव त᳘दूचतुर᳘थ ह य᳘त्प्रशशᳫँ᳭स᳘तुः क᳘र्म्म हैव तत्प्र᳘शशᳫँ᳭सतुः पु᳘ण्यो वै पु᳘ण्येन क᳘र्म्मणा भ᳘वति पा᳘पः पा᳘पेने᳘ति त᳘तो ह जारत्कारव ऽआ᳘र्त्तभाग ऽउ᳘परराम॥
मूलम् - श्रीधरादि
(मा᳘) आ᳘र्त्तभागे᳘ति होवाच॥
(चाद᳘) आव᳘मे᳘वैत᳘द्वेदिष्या᳘वो न᳘ नावेतत्सजन ऽइ᳘ति[[!!]] तौ᳘ होत्क्र᳘म्य मन्त्रया᳘ञ्चक्रतुस्तौ᳘ ह य᳘दूचतुः[[!!]] क᳘र्म्म हैव त᳘दूचतुर᳘थ ह य᳘त्प्रशशᳫँ᳭स᳘तुः क᳘र्म्म हैव तत्प्र᳘शशᳫँ᳭सतुः पु᳘ण्यो वै पु᳘ण्येन क᳘र्म्मणा भ᳘वति पा᳘पः पा᳘पेने᳘ति त᳘तो ह जारत्कारव ऽआ᳘र्त्तभाग ऽउ᳘परराम॥
मूलम् - Weber
आ᳘र्तभागे᳘ति होवाच॥
आव᳘मेॗवैत᳘द्वेदिष्या᳘वो 5 न᳘ नावेत᳘त्सजन इ᳘ति तौ᳘ होत्क्र᳘स्य मन्त्र᳘यां चक्रतुस्तौ᳘ ह य᳘दूच᳘तुः क᳘र्म हैव त᳘दूचतुर᳘थ ह य᳘त्प्रशशंस᳘तुः क᳘र्म हैव तत्प्र᳘शशंसतुः पु᳘ण्यो वै पु᳘ण्येन क᳘र्मणा भ᳘वति पा᳘पः पा᳘पेने᳘ति त᳘तो ह जारत्कारव आ᳘र्तभाग उ᳘परराम॥
मूलम् - विस्वरम्
आर्तभागेति होवाच । आवमेवैतद्वेदिष्यावः । न नावेतत्सजन इति । तौ होत्क्रम्य मन्त्रयाञ्चक्रतुः । तौ ह यदूचतुः । कर्म हैव तदूचतुः । अथ ह यत्प्रशशंसतुः । कर्म हैव तत्प्रशशंसतुः । पुण्यो वै पुण्येन कर्मणा भवति । पापः पापेनेति । ततो ह जारत्कारव आर्तभाग उपरराम ॥ १४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
हे आर्तभाग ! इत्यामन्त्र्य ‘ह’ किल ‘उवाच’- आवमिति । आवामेव एकान्ते गत्वा एतस्य त्वत्पृष्टस्य वेदितव्यस्य यत् तत्त्वं तत् ‘वेदिष्यावः’ निरूपयिष्यावः । “प्रथमायाश्च द्विवचने भाषायाम्” (पा. सू. ७ । २ । ८८) इत्यत्र भाषायामित्युक्तत्वात् आवमिति ह्रस्वत्वं छान्दसम् । कुत इत्य् अपेक्षायामाह- न नाविति। यस्मात् ‘नौ’ आवयोरेतद्वस्तु ‘सजने न’ समुदाये निर्णेतुं न शक्यते । अत्रानेक-वादि-विप्रतिपत्तेरित्यत एकान्तं गमिष्यावो विचारणायेति शेषः । एवमुक्त्वा यन्निर्णीतं तच्छ्रुतिः स्व-मुखेनैवाचष्टे- तौ हेति । ‘तौ ह’ याज्ञवल्क्यार्तभागौ सजन-देशाद्-उत्क्रम्य ‘मन्त्रयाञ्चक्रतुः‘ । आदौ लौकिक-वाद-पक्षाणां एकैकं परिगृह्य विचारितवन्तावित्य् अर्थः । ‘तौ ह’ विचार्य सर्वानेव पूर्व-पक्षान् स्वभाव-वादादीन् अपोह्य ‘यत्’ ऊचतुरुक्तवन्तौ । तच्छ्रुणु, ‘कर्म्म’ हैवाश्रयं पुनः पुनः कार्य-कारणोपादान-हेतुम्, तत्तत्र विचारावस्थायां एकान्ते स्थित्वा ऊचतुरुक्तवन्तौ । न केवलमूचतुः, ‘अथ ह’ अपि तु । काल-कर्म्म-देवैश्वरेषु अभ्युपगतेषु हेतुषु यत् प्रशशंसतुः । ‘कर्म हैव’ ‘तत्प्रशशंसतुः’ कर्मैव प्रधानं कारणमिति प्रशंसा-पदोपादितं प्राधान्यमुपसंहरति- पुण्यो वा इति । यस्मादेवं ग्रहातिग्रहादि-रूप-कार्य-कारणोपादानं कर्म्म-प्रयुक्तमिति निर्द्धारितम् । तस्मात् ‘पुण्येन’ शास्त्र-विहितेन ‘कर्म्मणा’ देवादिषु जायमानः ‘पुण्यः’ पुण्यात्मा वै भवति । ‘पापेन’ शास्त्र-निषिद्धेन ‘कर्म्मणा’ स्थावरादिषु जायमानः ‘पापः’ पापात्मा भवति । ‘ततः’ एवं प्रश्न-निर्णयानन्तरं ‘जारत्कारव आर्तभागः’ मनसा ऽपि अचिन्तनीय-पराजयो ऽयमित्य् अभिप्रायेणोपरराम ॥ १४ ॥
इति श्री-हृषीकेश-ब्रह्म-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठकानिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-टीकायां वासुदेव-प्रकाशिकायां मध्यमे याज्ञवल्क्य-काण्डे वा मुनि-काण्डे तृतीये ऽध्याये द्वितीयमार्तभाग-ब्राह्मणं वा जारत्कारव-ब्राह्मणं परिसमाप्तम् ॥ १४ (६) ३-२ ॥