११

०१

विश्वास-प्रस्तुतिः

अ᳘थ ह जनको व्वै᳘देहः कूर्च्चा᳘दुपावस᳘र्प्पन्नुवाच॥
न᳘मस्ते याज्ञवल्क्या᳘नु मा शाधी᳘ति स᳘ होवाच य᳘था वै᳘ सम्म्राण्महा᳘न्तम᳘ध्वानमेष्यन्न्र᳘थम्वा ना᳘वम्वा समाद᳘दीतैव᳘मे᳘वैता᳘भिरुपनिष᳘द्भिः समा᳘हितात्मा ऽस्येवम्वृ᳘न्दारक ऽआढ्यः स᳘न्नधीतवे᳘द ऽउक्तो᳘पनिषत्क ऽइतो᳘ व्विमुच्य᳘मानः᳘ क्व[[!!]] गमिष्यसी᳘ति᳘ नाहन्त᳘द्भगवन्वेद य᳘त्र गमिष्यामीत्य᳘थ वै᳘ ते ऽहन्त᳘द्वक्ष्यामि य᳘त्र गमिष्यसी᳘ति ब्ब्र᳘वीतु भ᳘गवानि᳘ति॥

मूलम् - श्रीधरादि

अ᳘थ ह जनको व्वै᳘देहः कूर्च्चा᳘दुपावस᳘र्प्पन्नुवाच॥
न᳘मस्ते याज्ञवल्क्या᳘नु मा शाधी᳘ति स᳘ होवाच य᳘था वै᳘ सम्म्राण्महा᳘न्तम᳘ध्वानमेष्यन्न्र᳘थम्वा ना᳘वम्वा समाद᳘दीतैव᳘मे᳘वैता᳘भिरुपनिष᳘द्भिः समा᳘हितात्मा ऽस्येवम्वृ᳘न्दारक ऽआढ्यः स᳘न्नधीतवे᳘द ऽउक्तो᳘पनिषत्क ऽइतो᳘ व्विमुच्य᳘मानः᳘ क्व[[!!]] गमिष्यसी᳘ति᳘ नाहन्त᳘द्भगवन्वेद य᳘त्र गमिष्यामीत्य᳘थ वै᳘ ते ऽहन्त᳘द्वक्ष्यामि य᳘त्र गमिष्यसी᳘ति ब्ब्र᳘वीतु भ᳘गवानि᳘ति॥

मूलम् - Weber

अ᳘थ ह जनको वै᳘देहः कूर्चा᳘दुपावस᳘र्पन्नुवाच॥
न᳘मस्ते याज्ञवल्क्या᳘नु मा शाधी᳘ति स᳘ होवाच य᳘था वै᳘ सम्राण्महा᳘न्तम᳘ध्वानमेष्यन्र᳘थं 1 वा ना᳘वं वा समाद᳘दीतैव᳘मेॗवैता᳘भिरुपनिष᳘द्भिः समा᳘हितात्मास्येवं वृ᳘न्दारक आढ्यः स᳘न्नधीतवे᳘द उक्तो᳘पनिषत्क इतो᳘ विमुच्य᳘मानः क्व᳘ गमिष्यसी᳘तिॗ नाहं त᳘द्भगवन्वेद य᳘त्र गमिष्यामीत्य᳘थ वै᳘ तेऽहं त᳘द्वक्ष्यामि य᳘त्र गमिष्यसी᳘ति ब्र᳘वीतु भ᳘गवानि᳘ति॥

मूलम् - विस्वरम्

कूर्चब्राह्मणम् ।

अथ ह जनको वैदेहः कूर्चादुपावसर्पन्नुवाच । नमस्ते याज्ञवल्क्य । अनु मा शाधीति । स होवाच । यथा वै सम्राट् महान्तमध्वानमेष्यन् रथं वा नावं वा समाददीत । एवमेव एताभिरुपनिषद्भिः समाहितात्मा ऽसि । एवं वृन्दारक आढ्यः सन् अधीत-वेद उक्तोपनिषत्कः इतो विमुच्यमानः क्व गमिष्यसीति । नाहं तत् भगवन् वेद । यत्र गमिष्यामीति । अथ वै ते अहं तत् वक्ष्यामि । यत्र गमिष्यसीति । ब्रवीतु भगवानिति ॥ १ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

पूर्वस्मिन्षडाचार्यब्राह्मणे कानिचिदुपासनानि ज्ञान-साधनान्य्-उक्तानि । इदानीं तैर्ज्ञेयस्य ब्रह्मणो जागरादि-द्वारा ज्ञानार्थं कूर्च-ब्राह्मणमारभ्यते- अथ ह जनको वैदेह इति । अथानन्तरं ‘ह’ किल ‘जनको वैदेहः’ कूर्चादासनविशेषात् उत्थाय ‘उप’ समीपं ‘अवसर्पन्’ तत्-पादयोः पतन्नित्यर्थः । उवाचोक्तवान् । हे ‘याज्ञवल्क्य’! ‘ते’ तुभ्यं ‘नमः’ नतिः अस्त्विति शेषः । त्वं तु ‘मा’ मां ‘अनुशाधि’ शिक्षय । येन परमात्म-ज्ञानेन विना अहमकृतार्थ एव तत् ज्ञानं उपदिशेति भावः । इति-शब्दो वाक्य-परिसमाप्त्यर्थः । मुमुक्षवे द्वयं वाच्यं ज्ञानं तत्-साधनं च । तत्र ज्ञान-साधनं राज्ञो ऽस्तीति दृष्टान्त-पूर्वकं कथयतीत्य् आह- स होवाचेति । ’सः’ एवं प्रार्थितो याज्ञवल्क्यः ‘ह’ ‘उवाच’ हे ‘सम्राट्’ ! ‘यथा वै’ लोके पुमान् महान्तं दीर्घमध्वानं मार्गं स्थलेन जलेन वा ‘एष्यन्’ गमिष्यन् यथाक्रमं ‘रथं वा’ ‘नावं वा’ ‘समाददीत’ सम्यक् प्रकारेण परिगृह्णीयात् । एवमेताभिः “प्रियमित्येनदुपासीत” (श. प. बृ. १४ । ३ । १० । ३) इत्य् आद्य् उक्ताभिः ‘उपनिषद्भिः’ ‘समाहितात्मा’ संयुक्त-आत्मा अत्यन्त-संस्कृतान्तःकरणो ऽसि । न केवलमुपनिषत्-समाहितः । किञ्च ‘एवं वृन्दारकः’ पूज्यः ‘आढ्यः’ ईश्वरो न दरिद्र इत्य् अर्थः । धनादि-सम्पन्नो ऽपि ‘सन्’ ‘अधीत-वेदः’ अधीतो वेदो येन सो ऽयमधीत-वेदः । आचार्यैरुक्ता उपनिषदो यस्मै तुभ्यं स त्वं ‘उक्तोपनिषत्कः’ । एवं सर्व-विभूति-सम्पन्नो ऽपि सन् भयमव्यस्थ एवेति यावत्परं ब्रह्म न विदितम्, तावदकृतार्थ एवेति बोधयितुं ज्ञान-साध्यां प्रणाड्योपासनफलभूतां मुक्तिं पृच्छति- इतो विमुच्यमान इति । इतो ऽस्माद्देहात् ‘विमुच्यमानः’ एताभिर्नौरथस्थानीयाभिरुपासनाभिः समाहितो ऽपि सन् ‘क्व’ कस्मिन् ‘गमिष्यसि’ किं वस्तु प्राप्स्यसि । इत्य् एवं पृष्टो राजा आह- नाहमिति । हे ‘भगवन् !’ पूजावन् ! ‘अहं’ तद्गन्तव्यं वस्तु ‘न वेद’ न जाने । ‘यत्र’ ‘गमिष्यामि’ यत्र गतः कृतार्थः । एवमुक्तो मुनिराह- अथ वै ते ऽहमिति । ‘ते’ तुभ्यमहं तद्वस्तु ‘वक्ष्यामि’ कथयिष्यामि । ‘यत्र गमिष्यसि’ यत्र गतः कृतार्थः स्याः इत्य् अर्थः । राजा आह- ब्रवीतु भगवानिति । मां ‘भगवान्’ प्रसन्नः तर्हि ‘ब्रवीतु’ कथयतु इत्य् अर्थः ॥ १ ॥

०२

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
(चे᳘) इ᳘न्धो वै ना᳘मैष᳘ यो ऽय᳘न्दक्षि᳘णे ऽक्षन्पु᳘रुषस्तम्वा᳘ ऽएतमि᳘न्धᳫँ᳭ स᳘न्तमि᳘न्द्द्र इत्या᳘चक्षते परो᳘ ऽक्षेणेव परो᳘ ऽक्षप्प्रिया ऽइव हि᳘ देवाः᳘ प्प्रत्य᳘क्षद्विषः॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
(चे᳘) इ᳘न्धो वै ना᳘मैष᳘ यो ऽय᳘न्दक्षि᳘णे ऽक्षन्पु᳘रुषस्तम्वा᳘ ऽएतमि᳘न्धᳫँ᳭ स᳘न्तमि᳘न्द्द्र इत्या᳘चक्षते परो᳘ ऽक्षेणेव परो᳘ ऽक्षप्प्रिया ऽइव हि᳘ देवाः᳘ प्प्रत्य᳘क्षद्विषः॥

मूलम् - Weber

स᳘ होवाच॥
इ᳘न्धो वै ना᳘मैषॗ योऽयं᳘ दक्षिॗणेऽक्षन्पु᳘रुषस्तं वा᳘ एतमि᳘न्धᳫं स᳘न्तमि᳘न्द्र इत्या᳘चक्षते परो᳘ऽक्षेणेव 2 परो᳘ऽक्षप्रिया इव हि᳘ देवाः᳘ प्रत्य᳘क्षद्विषः॥

मूलम् - विस्वरम्

स होवाच । इन्धो वै नामैषः । यो ऽयं दक्षिणे ऽक्षन्पुरुषः । तं वा एतमिन्धं सन्तमिन्द्र इत्याचक्षते परो ऽक्षेणेव । परो ऽक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः ॥ २ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

इदानीं वैश्व-तैजस-प्राज्ञानुवादेन वक्तव्यतया प्रतिज्ञातं तुरीयं ब्रह्म प्रतिपादयितुं आदौ वैश्वानराभिन्नं जाग्रदभिमानिनं वैश्वं दर्शयति- स होवाचेन्धो वै नामैष इति । ‘सः’ याज्ञवल्क्यः ‘ह उवाच’ । ‘इन्द्धे’ दीप्यते जागरिते स्थूलार्थ-भोक्तृत्वेन सदा स्फुरणात् इतीन्धो नाम ‘वै’ प्रसिद्ध एव । अदित्यान्तर्गतः पुरुषश्चक्षुर्वै ब्रह्मेति पुरोक्तः । को ऽसाविन्धो नामेति अधिदैवतं पुरुषमुक्त्वा अध्यात्मं तमाह- यो ऽयमिति । ‘यो ऽयं‘ दक्षिणे ऽक्षन्’ अक्षिणि पुरुषो ऽध्यात्मरूपमापन्नः । ‘तं वै एतं’ पुरुषं दीप्ति-गुण-त्वादस्य ‘इन्धः’ इति प्रत्यक्ष-नाम । तमिन्धं सन्तमिन्द्र इति परो ऽक्षेणेव ‘इन्द्र इत्याचक्षते’ । इव-शब्दो ऽवधारणार्थः । परो ऽक्षेणैव कथयन्तीत्य् अर्थः । कुतः ? ‘हि’ यस्मात् ‘देवाः परो ऽक्षप्रिया इव’ परो ऽक्ष-नाम-ग्रहण-प्रिया एव । अपि च- प्रत्यक्ष-नाम-ग्रहणं द्विषन्तीति ‘प्रत्यक्ष-द्विषः’ ॥ २ ॥

०३

विश्वास-प्रस्तुतिः

(षो᳘ ऽथ) अ᳘थैतद्वा᳘मे ऽक्षणि पु᳘रुषरूपम्॥
(मे᳘) ए᳘षा ऽस्य प᳘त्नी व्विराट्तयोरेष᳘ सᳫँ᳭स्तावो य᳘ ऽए᳘षो ऽन्तर्हृ᳘दय ऽआकाशो᳘ ऽथैनयोरेतद᳘न्नं य᳘ ऽए᳘षो ऽन्तर्हृ᳘दये लोहितपिण्डो᳘ ऽथैनयोरेत᳘त्प्राव᳘रणं य᳘देत᳘दन्तर्हृ᳘दये जालक᳘मिवा᳘थैनयोरेषा सृ᳘तिः स᳘ती सञ्च᳘रणी᳘ यैषा हृ᳘दयादूर्ध्वा᳘ ना᳘ड्योच्च᳘रति॥

मूलम् - श्रीधरादि

(षो᳘ ऽथ) अ᳘थैतद्वा᳘मे ऽक्षणि पु᳘रुषरूपम्॥
(मे᳘) ए᳘षा ऽस्य प᳘त्नी व्विराट्तयोरेष᳘ सᳫँ᳭स्तावो य᳘ ऽए᳘षो ऽन्तर्हृ᳘दय ऽआकाशो᳘ ऽथैनयोरेतद᳘न्नं य᳘ ऽए᳘षो ऽन्तर्हृ᳘दये लोहितपिण्डो᳘ ऽथैनयोरेत᳘त्प्राव᳘रणं य᳘देत᳘दन्तर्हृ᳘दये जालक᳘मिवा᳘थैनयोरेषा सृ᳘तिः स᳘ती सञ्च᳘रणी᳘ यैषा हृ᳘दयादूर्ध्वा᳘ ना᳘ड्योच्च᳘रति॥

मूलम् - Weber

अ᳘थैतद्वा᳘मेऽक्षि᳘णि पु᳘रुषरूपम्॥
एॗषास्य प᳘त्नी विराट् त᳘योरेष᳘ संस्तावो य᳘ एॗषोऽन्तर्हृ᳘दय आकाशो᳘ऽथैनयोरेतद᳘न्नं य᳘ एॗषोऽन्तर्हृ᳘दये लोहितपिण्डो᳘ऽथैनयोरेत᳘त्प्राव᳘रणं य᳘देत᳘दन्तर्हृ᳘दये जालक᳘मिवा᳘थैनयोरेषा सृ᳘तिः 3 स᳘ती संच᳘रणीॗ यैषा हृ᳘दयादूर्ध्वां᳘ नाॗड्युच्च᳘रति॥

मूलम् - विस्वरम्

अथैतद्वामे ऽक्षणि पुरुषरूपम् । एषा ऽस्य पत्नी विराट् । तयोरेष संस्तावः । य एषो ऽन्तर्हृदये आकाशः । अथैनयोरेतदन्नम् । य एषो ऽन्तर्हृदये लोहितपिण्डः । अथैनयोरेतत्प्रावरणम् । यदेतदन्तर्हृदये जालकमिव । अथैनयोरेषा सृतिः सञ्चरणी । य एषा हृदयादूर्ध्वा नाड्योच्चरति ॥ ३ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एकस्यैव वैश्वानरस्योपासनार्थं प्रासङ्गिकम् इन्द्रश्चेन्द्राणी चेति मिथुनं कल्पयति- अथैतद्वामे ऽक्षणि पुरुषरूपमित्यादिना । प्रासङ्गिकध्यानार्थः अथ-शब्दः । ‘अथ’ एतदेवोक्तं पुरुष-रूपं ‘वामे अक्षणि’ अधिगतं सत् अस्यैवोक्तस्य इन्द्रस्य भोक्तुर्वैश्वानरस्य ‘एषा विराट् पत्नी’ भोग्यत्वात् । तथा च यदेतन्मिथुनं जागरिते वैश्व-शब्द-वाच्यं तदेवैकं स्वप्ने तैजस-शब्द-वाच्यमिति अर्थादुक्तमेव । अत एव अस्य स्वप्नावस्थस्य मिथुनस्थानमाह- तयोरेष इति । तयोरिन्द्रेन्द्राण्योः स्वप्नावस्थामापन्नयोः ‘एष संस्तावः’ । सम्भूय यत्रान्यो ऽन्यं संस्तवं कुर्वाते सः ‘संस्तवः’ । को ऽसौ ? ‘य एषः’ प्रसिद्धः ‘अन्तर्हृदये’ हृदयस्य मांस-पिण्डस्यान्तर्मध्ये ‘आकाशः’ सुषिरः । स इत्य् अर्थः । ‘अथ’ एनयोरुक्तावस्थयोरिन्द्रेन्द्राण्योः एतद्वक्ष्यमाणमन्नं भोज्य-स्थिति-हेतुः । किं तत् ? ‘य एषः’ ‘अन्तर्हृदये’ ‘लोहित-पिण्डः’ इति । प्रथमं तावत् जग्धमन्नं द्वेधा विपरिणमते । तत्र यत् स्थूलं तदधो गच्छति । यदन्यत्सूक्ष्मं तत्पुनरग्निना पच्यमानं द्वेधा विपरिणमते । तयोर्मध्ये यो मध्यमो रसः । स पाञ्चभौतिकशरीरमुपचिनोति । यः पुनरणिष्ठो रसः । ‘स एषः’ लोहित एव पिण्डः ‘लोहित-पिण्डः’ । ननु- लोके भुक्तवतोः स्वपतोश्च ‘प्रावरणं’ दृष्टम् । तथा अनयोरपि प्रावरणेन भवितव्यम् । किं तत् इत्य् अपेक्षायामाह- अथैनयोरेतत्प्रावरणमिति । ‘अथ’ भोगस्वपनानन्तरं ‘एनयोः’ पूर्वोक्तयोः ‘एतत्प्रावरणं’ ‘यदेतत्’ ‘अन्तर्हृदये जालकमिव’ अनेकनाडीच्छिद्रबहुलत्वात् जालकवत्प्रतिभासमानमित्य् अर्थः । इदानीं तयोः स्वप्नात् जागरित-गमन-मार्गमाह- अथैनयोरेषा सृतिरिति । ‘अथ’ स्वापानन्तरं जाग्रत्स्थानमाजिगमिषतोरेनयोर्दंपत्योरेषा ‘सती’ शोभना ‘सृतिः’ मार्गः ‘सञ्चरणी’ सञ्चरतः स्वप्नाज्जागरितमनयेति सञ्चरणी । का सा ? ‘या एषा’ ‘हृदयात्’ हृदय-देशात् ‘ऊर्ध्वा’ अभिमुखा सती ‘नाड्या उच्चरति’ उद्गच्छति । सा सृतिरित्य् अर्थः ॥ ३ ॥

०४

विश्वास-प्रस्तुतिः

ता वा᳘ ऽअस्यैताः᳘॥
(०) हिता ना᳘म ना᳘ड्यो य᳘था के᳘शः सहस्रधा᳘ भिन्न᳘ ऽएता᳘भिर्व्वा᳘ ऽएत᳘मास्र᳘वदा᳘स्रवति त᳘स्मादेष᳘ प्प्रवि᳘विक्ताहारतर ऽइव भवत्यस्मा᳘च्छारीरा᳘दात्म᳘नः॥

मूलम् - श्रीधरादि

ता वा᳘ ऽअस्यैताः᳘॥
(०) हिता ना᳘म ना᳘ड्यो य᳘था के᳘शः सहस्रधा᳘ भिन्न᳘ ऽएता᳘भिर्व्वा᳘ ऽएत᳘मास्र᳘वदा᳘स्रवति त᳘स्मादेष᳘ प्प्रवि᳘विक्ताहारतर ऽइव भवत्यस्मा᳘च्छारीरा᳘दात्म᳘नः॥

मूलम् - Weber

ता वा᳘ अस्यैताः᳟॥
हिता ना᳘म नाॗड्यो य᳘था के᳘शः सहस्रधा᳘ भिन्न᳘ एता᳘भिर्वा᳘ एत᳘मास्र᳘वदा᳘स्रवति त᳘स्मादेष᳘ प्रवि᳘विक्ताहारतर इव भवत्यस्मा᳘छारीरा᳘दात्म᳘नः॥

मूलम् - विस्वरम्

ता वा अस्यैता हिता नाम नाड्यः । यथा केशः सहस्रधा भिन्नः । एताभिर्वा एतमास्रवत् आस्रवति । तस्मादेष प्रविविक्ताहारतर इव भवत्यस्माच्छरीरादात्मनः ॥ ४ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

इदानीं वैश्व-तैजसयोः अविवेकः भोक्तुश्च सूक्ष्मता इत्य् एतत्प्रदर्शनार्थं इन्द्रियाश्रितानां नाड्यन्तराणां परिमाणं सदृष्टान्तमाह- ता वा अस्यैता हिता इति । ‘यथा’ लोके एकः ‘केशः’ ‘सहस्रधा भिन्नः’ अत्यन्तं सूक्ष्मो भवति । एवं सूक्ष्माः ‘अस्य’ पुरुषस्य देह-सम्बन्धिन्यः ‘एताः’ स्वप्नात् जाग्रद्गमनादि-व्यवहार-हेतु-भूताः ‘नाड्यः’ शिराः ‘हिता नाम’ हिता इत्य् एवं नाम्ना ख्याताः अन्तर्हृदये प्रतिष्ठिताः सन्तीति शेषः । हृदयाच्च विरूढास्ताः सर्वत्र कदम्ब-केसरवत् युगपत् स्थान-विशेषेषु प्रसृताः सत्यो व्यवस्थिता इत्य् अर्थः । उक्तनाडीनामुपयोगकथनपूर्वकं सूक्ष्मतमत्वकथनप्रयोजनमाह- एताभिर्वा एतमास्रवदिति । एताभिर्नाडीभिरत्यन्तसूक्ष्माभिर्वै एव ‘एतं’ देहं आस्रवद्गच्छत् शरीरं व्याप्नुवत् पूर्वोक्तं सूक्ष्मतरमन्नं कर्तृ ‘आस्रवति’ करणान्तःकरणक्षेत्रज्ञानदेवतारूपान् व्याप्नोतीत्य् अर्थः । यदर्थमेतासां सूक्ष्मतमत्वमुक्तं तत्प्रयोजनमाह- तस्मादेष प्रविविक्ताहारतर इवेति । यस्मान्नाड्याश्रितं सूक्ष्ममन्नं देवता-द्वारा भुञ्जानः सन् अयं लिङ्गात्मा करण-देवताः करणानि अन्तःकरणं च लिङ्गाख्यं प्रीणयति । राजस्थानीयेन चिदात्मना अनधिष्ठितानां भोगे स्वातन्त्र्याभावात् । तस्मात् एष तैजसः ‘प्रविविक्ताहारतरः’ अतिशयेन प्रविविक्ताहारः प्रविविक्ताहारतर इति विग्रहः । कस्मात्प्रविविक्ताहारतरत्वमित्य् अत आह- अस्माच्छारीरादात्मन इति । ‘शारीरात्’ स्थूल-शरीरोपाधेः वैश्वानरात्मनः सकाशादिति यावत् । तस्य हि मूत्र-पुरीषादि-स्थूलापेक्षया पिण्डोपचय-करण-मप्यन्नं प्रविविक्तमेव लिङ्गस्थितिकरं त्वन्नं ततो ऽपि सूक्ष्मतरम् । इव-शब्द उपमार्थः । तथा च- यथा प्रविविक्ताहारो वैश्वः । तथा अयं तैजसो न प्रविविक्ताहार एव । किं तु प्रविविक्ताहारतरः इति योजना ॥ ४ ॥

०५

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘स्या वा᳘ ऽएत᳘स्य पु᳘रुषस्य॥
प्प्रा᳘ची दिक्प्रा᳘ञ्चः प्प्राणा दक्षिणा[[!!]] दिग्द᳘क्षिणाः प्प्राणाः᳘ प्प्रती᳘ची दि᳘क्प्रत्य᳘ञ्चः प्प्राणा ऽउ᳘दीची दिगु᳘दञ्चः प्प्राणा᳘ ऽऊर्ध्वा दि᳘गूर्ध्वाः᳘ प्प्राणा ऽअ᳘वाची᳘ दिग᳘वाञ्चः प्प्राणाः स᳘र्व्वा दि᳘शः स᳘र्व्वे प्प्राणाः᳘॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘स्या वा᳘ ऽएत᳘स्य पु᳘रुषस्य॥
प्प्रा᳘ची दिक्प्रा᳘ञ्चः प्प्राणा दक्षिणा[[!!]] दिग्द᳘क्षिणाः प्प्राणाः᳘ प्प्रती᳘ची दि᳘क्प्रत्य᳘ञ्चः प्प्राणा ऽउ᳘दीची दिगु᳘दञ्चः प्प्राणा᳘ ऽऊर्ध्वा दि᳘गूर्ध्वाः᳘ प्प्राणा ऽअ᳘वाची᳘ दिग᳘वाञ्चः प्प्राणाः स᳘र्व्वा दि᳘शः स᳘र्व्वे प्प्राणाः᳘॥

मूलम् - Weber

त᳘स्या वा᳘ एत᳘स्य पु᳘रुषस्य॥
प्रा᳘ची दिक्प्रा᳘ञ्चः प्राणा द᳘क्षिणा दिग्द᳘क्षिणाः प्राणाः᳘ प्रती᳘ची दि᳘क्प्रत्य᳘ञ्चः प्राणा उ᳘दीची दिगु᳘दञ्चः प्राणा ऊ ऊर्ध्वा दि᳘गूर्ध्वाः᳘ प्राणा अ᳘वाची दिग᳘वाञ्चः प्राणा स᳘र्वा दि᳘शः स᳘र्वे प्राणाः᳟॥

मूलम् - विस्वरम्

तस्य वा एतस्य पुरुषस्य । प्राची दिक् प्राञ्चः प्राणाः । दक्षिणा दिक् दक्षिणाः प्राणाः । प्रतीची दिक् प्रत्यञ्चः प्राणाः । उदीची दिक् उदञ्चः प्राणाः । ऊर्ध्वा दिक् ऊर्ध्वाः प्राणाः । अवाची दिक् अवाञ्चः प्राणाः । सर्वा दिशः सर्वे प्राणाः ॥ ५ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

वैश्व-तैजसयोरेव श्रुत्या साक्षान्निर्द्दिष्टत्वात् तैजस-प्राज्ञद्वारा तुरीयब्रह्मात्मनिलयः साक्षादेव निर्द्देष्टव्य इत्य् अभिप्रेत्य तुरीये लीनस्य तैजसस्य लयात्प्रागवस्थायां परिच्छेद-हेतु-भूता ये अध्यात्म-प्राणाः तेषां लयानन्तरं संवृत्तावस्थोपन्यासव्याजेन तैजसस्य प्राज्ञद्वारा तुरीये लयं दर्शयति- **तस्य वा एतस्य पुरुषस्य प्राची दिक् प्राञ्चः प्राणा इति । स एष हृदयभूतस्तैजसः सूक्ष्मभूतेन प्राणेन विधीयमानः प्राण एव भवति । ‘तस्य वै एतस्य पुरुषस्य’ विदुषः क्रमेण वैश्वानरात् तैजसं प्राप्तस्य तस्य अकार्यकारणाखण्डतुरीयपदाविष्टस्य तैजसस्य ये ‘प्राञ्चः’ प्रागञ्चन्तीति प्राञ्चः ‘प्राणाः’ नासा-द्वारा अग्रतः सञ्चरन्तः प्राची दिगेव संवृत्ताः अध्यात्मादि-परिच्छिन्नाः प्राणाः सर्वासु दिक्षु स्थिताः विदुषस्तुरीय-पद-प्राप्तस्य परिच्छेद-हेतु-नाशात् तस्मिन्नेकी-भूताः सन्तः तत्तद्दिङ्मात्रसंवृत्ताः प्रत्यङ्मात्रे लीना इत्य् अर्थः । एवं ‘दक्षिणा दिग्दक्षिणाः प्राणाः’ इत्यादि व्याख्येयम् । तथा च- उपाधिभूतानां लयं दर्शयन्ती श्रुतिः रूप-रहितस्याध्यात्मनो लयं कारणात्मनि दर्शितवतीति भावः ॥ ५ ॥

०६

विश्वास-प्रस्तुतिः

स᳘ ऽएष ने᳘ति ने᳘त्यात्मा᳘॥
(त्मा᳘ ऽग्गृ) अ᳘ग्गृह्यो न हि᳘ ग्गृह्यते᳘ ऽशीर्य्यो न हि शी᳘र्य्यते᳘ ऽसङ्गो᳘ ऽसितो न᳘ सज्य᳘ते न व्व्य᳘थते᳘ ऽभयम्वै᳘ जनक प्प्रा᳘प्तो ऽसी᳘ति होवाच या᳘ज्ञवल्क्यः स᳘ होवाच जनको व्वै᳘देहो न᳘मस्ते याज्ञवल्क्या᳘भयन्त्वा᳘ गच्छताद्यो᳘ नो भगवन्न᳘भयम्वेद᳘यस ऽइमे᳘ व्विदेहा᳘ ऽअय᳘मह᳘मस्मी᳘ति॥

मूलम् - श्रीधरादि

स᳘ ऽएष ने᳘ति ने᳘त्यात्मा᳘॥
(त्मा᳘ ऽग्गृ) अ᳘ग्गृह्यो न हि᳘ ग्गृह्यते᳘ ऽशीर्य्यो न हि शी᳘र्य्यते᳘ ऽसङ्गो᳘ ऽसितो न᳘ सज्य᳘ते न व्व्य᳘थते᳘ ऽभयम्वै᳘ जनक प्प्रा᳘प्तो ऽसी᳘ति होवाच या᳘ज्ञवल्क्यः स᳘ होवाच जनको व्वै᳘देहो न᳘मस्ते याज्ञवल्क्या᳘भयन्त्वा᳘ गच्छताद्यो᳘ नो भगवन्न᳘भयम्वेद᳘यस ऽइमे᳘ व्विदेहा᳘ ऽअय᳘मह᳘मस्मी᳘ति॥

मूलम् - Weber

स᳘ एष ने᳘ति ने᳘त्यात्मा᳟॥
अ᳘गृह्यो न हि᳘ गृह्यते᳘ऽशीर्यो न हि शी᳘र्यते᳘ऽसङ्गो᳘ऽसितो न᳘ सज्य᳘ते न व्य᳘थते᳘ऽभयं वै᳘ जनक प्राॗप्तोऽसी᳘ति होवाच या᳘ज्ञवल्क्यः स᳘ होवाच जनको वै᳘देहो न᳘मस्ते याज्ञवल्क्या᳘भयं त्वा᳘गछताद्यो᳘ नो भगवन्न᳘भयं 4 वेद᳘यस इमे᳘ विदेहा᳘ अय᳘मह᳘मस्मी᳘ति॥

मूलम् - विस्वरम्

स एष नेति नेत्यात्मा । अगृह्यो न हि गृह्यते । अशीर्यो न हि शीर्यते । असङ्गो ऽसितो न सज्यते न व्यथते । अभयं वै जनक प्राप्तो ऽसि इति होवाच याज्ञवल्क्यः । स होवाच जनको वैदेहः । नमस्ते याज्ञवल्क्य । अभयं त्वा गच्छतात् । यो नो भगवन्नभयं वेदयसे । इमे विदेहाः । अयमहमस्मीति ॥ ६ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवं सर्वोपसंहारं कृत्वा अवस्थितस्य पुरुषस्य विदुषः किं स्वरूपमित्य् अपेक्षायां अविद्या-तत्-कार्य-भावाभावसाक्षित्वेन तद्विलक्षणं निष्प्रपञ्चं स्वरूपमिति दर्शयति- स एष नेति नेत्य् आत्मेत्य् आदिना न व्यथते इत्य् अन्तेन । व्याख्यातार्थं वाक्यम् । इदानीं यत् प्रत्यगात्म-स्वरूप-ज्ञापनार्थं ब्राह्मण-द्वयात्मको ग्रन्थ उपदिष्टः । तस्य ज्ञानस्यापरोक्षानुभवरूपस्य फलमाह- अभयं वा इति । हे ‘जनक’ ! त्वं ‘अभयं’ जन्म-मरणादि-निमित्त-भयाभावं ‘वै’ निश्चयेन ‘प्राप्तो ऽसि’ । नातः परं तव शोकः । ‘इति ह’ ‘याज्ञवल्क्यः’ उवाचोक्तवान् । एतावता “अथ वै ते ऽहं तद्वक्ष्यामीति” यत्प्रतिज्ञातं तदुपदिष्टम् । इदानीं शिष्यं कृतार्थमकृत्वा ततो दक्षिणा न ग्राह्या इति मुनि-मतं स्मरन् राजा दक्षिणां दित्सुः ममानुभवपर्यन्तं ज्ञानं कृतार्थता-हेतु-भूतं जातं इति ज्ञापितवानित्य् आह श्रुतिः- स होवाच जनको वैदेहो नमस्ते याज्ञवल्क्येति । ‘सः जनक उवाच’ । हे ‘याज्ञवल्क्य’ ! साक्षादात्मानमेव दत्तवते ‘ते’ तुभ्यं किमहं विद्या-निष्क्रयाय दास्ये । तस्मात्तुभ्यं ‘नमः’ नमस्कारः अस्तु । स्वात्मनि सम्पन्नं ज्ञानं ज्ञापयित्वा गवादीनां दक्षिणानाम् एतज्ज्ञानाननुरूपत्वमभिप्रेत्य दक्षिणान्तरं निवेदयति- अभयं त्वा गच्छताद्यो नो भगवन्नभयमिति । हे ‘भगवन् !’ यत्त्वं नो ऽस्मान् ‘अभयं’ ब्रह्म ‘वेदयसे’ ज्ञापयसि अज्ञानव्यवधानापनयनेन प्राप्तवानसीति यावत् । तं ‘त्वा’ त्वामपि ‘अभयं’ ‘गच्छतात्’ गच्छतु । ‘इमे विदेहाः’ तव यथेष्टं भोगाय सन्तु । अयं चाहं तव दास-भावे स्थितो ऽस्मि । यथेष्टं मां राज्यं च प्रपद्यस्वेति वाक्यार्थः । इदं दक्षिणा-दानं व्यवहार-दृष्टिमवष्टभ्योक्तम् । तत्त्वतस्तु नास्त्येव दक्षिणेति राज्ञो ऽभिप्रायः । अद्वितीयब्रह्मात्मैक्यमनुभवतः स्व-आत्म-अतिरिक्तस्य वस्तुनः अभावात् । तदुक्तं-

”अहं ममेत्यविद्याधीः सहेतुर्नाशिता यदा ।
पूर्णात्मनि तदा दृष्टे कः कस्मै किंच दित्सति” इति ॥ ६ ॥

इति श्री-हृषीकेश-ब्रह्म-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठकानिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-टीकायां वासुदेव-प्रकाशिकायां तृतीये ऽध्याये एकादशं कूर्च्च-ब्राह्मणं परिसमाप्तम् ॥ १४ (६) ३-११ ॥

तृतीयो ऽध्यायश्च समाप्तः ॥ १४ (बृ. उ.) ३ ॥


  1. सम्रा᳘ण्महा᳘न्त, उक्तो᳘पनिषत्क᳘ AM. ↩︎

  2. परो᳘ऽक्षेणेव᳘ A. ↩︎

  3. सृति paroxyt.! ↩︎

  4. भ᳘गवन्न᳘भयं AM. ↩︎