०१
विश्वास-प्रस्तुतिः
जनको᳘ ह व्वै᳘देह ऽआसा᳘ञ्चक्रे॥
(क्रे᳘ ऽथ) अ᳘थ ह या᳘ज्ञवल्क्य ऽआ᳘वव्व्राज स᳘ होवाच जनको व्वै᳘देहो या᳘ज्ञवल्क्य किम᳘र्थमचारीः पशू᳘निच्छन्न᳘ण्वन्तानि᳘त्युभ᳘यमेव᳘ सम्म्राडि᳘ति होवाच य᳘त्ते क᳘श्चिद᳘ब्ब्रवीत्त᳘च्छृणवामे᳘ति॥
मूलम् - श्रीधरादि

मूलम् - Weber
जनको᳘ ह वै᳘देह आसां᳘ चक्रे॥
अ᳘थ ह या᳘ज्ञवल्क्य आ᳘वव्राज स᳘ होवाच जनको वै᳘देहो या᳘ज्ञवल्क्य किम᳘र्थमचारीः पशू᳘निछन्न᳘ण्वन्तानि᳘त्युभ᳘यमेव᳘ सम्राडि᳘ति होवाच य᳘त्ते क᳘श्चिद᳘ब्रवीत्त᳘छृणवामे᳘ति 1 ॥
मूलम् - विस्वरम्
षडाचार्यब्राह्मणं वा उदङ्कब्राह्मणम् ।
जनको ह वैदेह आसाञ्चक्रे । अथ ह याज्ञवल्क्य आवव्राज । स होवाच जनको वैदेहः । याज्ञवल्क्य किमर्थमचारीः । पशूनिच्छन्नण्वन्तानिति । उभयमेव सम्राडिति होवाच । यत्ते कश्चिदब्रवीत् तच्छृणवामेति ॥ १ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं शाकल्य-ब्राह्मणे सच्चिदानन्दब्रह्म निर्द्धारितम् । इदानीं तस्यैव प्राणाद्यधिष्ठात्रीषु वाय्वादिदेवतासु ब्रह्म-दृष्टि-द्वारा निर्णयाय षडाचार्याब्राह्मणं कुर्चब्राह्मणं चेति ब्राह्मणद्वयमारभ्यते । ब्राह्मण-द्वयस्य तु आख्यायिका आचार्य-व्रत-श्रद्धादि-सम्पन्नेन विद्या लब्धव्या इत्याचार-प्रदर्शनार्था बोद्धव्या । ‘जनको ह वैदेह आसाञ्चक्रे’ आसनं कृतवान् दर्शनकामेभ्य आख्यायिकां दत्तवानित्यर्थः । ‘अथ ह’ तस्मिन्नेवावसरे याज्ञवल्क्य आजगाम । तदनु च याज्ञवल्क्यं यथावत् सम्पूज्य ‘ह’ जनक उवाचोक्तवान् । हे ‘याज्ञवल्क्य’ ! ‘किमर्थमचारीरागतो ऽसि’ । ‘किं’ पुनरपि ‘पशून्’ गाः ‘इच्छन्’ । आहोस्वित् ‘अण्वन्तान्’ सूक्ष्मान्तान् सूक्ष्मवस्तुनिर्णयप्रश्नान् मत्तः श्रुत्वा तदुत्तरं वक्तुम् आगतो ऽसि ? इति पृष्टः किमुक्तवान् इत्यत आह- उभयमेवेति । हे ‘सम्राट्’ ! ‘हे सार्वभौम’ ! ‘उभयमेव’ पश्ववः प्रश्नाश्चेति द्वयमपि ममागमने निमित्तमिति ‘ह’ मुनिरुवाच । सम्राडिति । “राजा वै राजसूयेनेष्ट्वा भवति, सम्म्राड् वाजपेयेन” (श. प. ५ ।१ । १ । १३) इत्युक्तत्वात् वाजपेययाजिनो लिङ्गम् । यद्वा, हिमवत्-सेतु-पर्यन्तस्य देशस्य राजा इति सूचितम् । राज्ञा अज्ञातमर्थं उपदेष्टु-कामो मुनिः पृच्छति- यत्ते कश्चिदिति । अनेकाचार्य-सेवी हि भवानिति ‘ते’ तुभ्यं कश्चिदाचार्यो यदब्रवीत् ‘तत्’ वयं ‘शृणवाम’ उपदेशस्य सदसत्-परीक्षार्थमिति ॥ १ ॥
०२
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘ब्ब्रवीन्म ऽउदङ्कः᳘ शौल्बायनः᳘॥
प्प्राणो वै ब्ब्रह्मे᳘ति य᳘था मातृमा᳘न्पितृमा᳘नाचा᳘र्य्यवान्ब्रूयात्त᳘था त᳘च्छौल्बायनो ऽब्ब्रवीत्प्राणो[[!!]] वै ब्ब्रह्मेत्य᳘प्राणतो हि किᳫँ᳭ स्यादित्य᳘ब्ब्रवीत्तु᳘ ते त᳘स्याय᳘तनम्प्रतिष्ठान्न᳘ मे ऽब्ब्रवीदि᳘त्येकपाद्वा᳘ ऽएत᳘त्सम्म्राडि᳘ति॥

अ᳘ब्रवीन्म उदङ्कः᳘ शौल्वायनः᳟॥
प्राणो वै ब्रह्मे᳘ति य᳘था मातृमा᳘न्पितृमा᳘नाचार्य᳘वान्ब्रूयात्त᳘था त᳘छौल्वायॗनोऽब्रवीत्प्राणो वै ब्रह्मेत्य᳘प्राणतो हि किᳫं स्यादित्य᳘ब्रवीत्तु᳘ 2 ते त᳘स्याय᳘तनम् प्रतिष्ठां न᳘ मेऽब्रवीदि᳘त्येकपाद्वा᳘ एत᳘त्सम्राडि᳘ति॥
मूलम् - विस्वरम्
अब्रवीन्म उदङ्कः शौल्बायनः । प्राणो वै ब्रह्मेति । यथा मातृमान्पितृमानाचार्यवान्ब्रूयात् । तथा तच्छौल्बायनो ऽब्रवीत् । प्राणो वै ब्रह्मेति । अप्राणतो हि किं स्यादिति । अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् । न मे ऽब्रवीदिति । एकपाद्वा एतत्सम्राडिति ॥ २ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
इतर आह- अब्रवीन्म उदङ्कः शौल्बायनः प्राणो वै ब्रह्मेति । ‘उदङ्कः’ नामतः । शुल्बस्यापत्यं ‘शौल्बायनः’ । ‘प्राणः’ वायुर्देवता ‘ब्रह्मेति’ ‘मे’ मह्यं उक्तवान् । उदङ्कोपदिष्टमर्थं स्तोतुकामो याज्ञवल्क्यः तस्याप्तत्वप्रयोजकभूतशुद्धित्रयमाह- यथा मातृमानिति । यस्य पुत्रस्य सम्यगनुशास्त्री माता विद्यते । ‘स मातृमान्’ । तत ऊर्ध्वं यस्य पिता अनुशास्ता वर्तते ‘स पितृमान्’ । उपनयनादूर्ध्वं आसमावर्तनात् आचार्यो यस्यानुशास्ता विद्यते ‘स आचार्यवान्’ । एवमाप्तत्वप्रयोजकभूतशुद्धित्रयसंयुक्तः कश्चिदाचार्यो यथा स्व-शिष्याय ब्रूयात् ‘तथा असौ शौल्बायनः’ तुभ्यं ‘तत्’ “प्राणो वै ब्रह्म” इति ‘अब्रवीत्’ । अत्र मुनिरेव हेतुमाह- अप्राणतो हीति । ‘अप्राणतः’ प्राणक्रियामकुर्वतः ‘किं हि स्यात् ?’ । न हि तस्य इह वा अमुत्र वा किञ्चन प्रयोजनं स्यात् । यथोक्त-विद्यया कृत-कृत्यत्वं मन्वानं राजानं प्रत्याह- अब्रवीत्तु ते इति । हे राजन् ! ‘ते’ तुभ्यं ‘तस्य’ प्राण-देवस्य ब्रह्मणः ‘आयतनं प्रतिष्ठां’ च ‘तु’ पुनरब्रवीत् किम् ? । आयतनं नाम शरीरम् । प्रतिष्ठा नाम त्रिष्वपि कालेषु य आश्रयः तम् । एवं पृष्टो राजा आह- न मे ऽब्रवीदिति । तदुभयं शौल्बायनः ‘मे’ मह्यं ‘नाब्रवीत्’ । यद्येवं तर्हि हे ‘सम्राट् !’ एतदुपासनं ‘एकपाद्वै’ एकः पादो यस्य ब्रह्मणः । तदिदमेकपादेव ब्रह्म त्रिभिः पादैः शून्यमुपारयमानमपि फलाय न भवतीत्य् अर्थः ॥ २ ॥
०३
विश्वास-प्रस्तुतिः
स वै᳘ नो ब्ब्रूहि याज्ञवल्क्य॥
प्प्राण ऽएवाय᳘तनमाकाशः᳘[[!!]] प्प्रतिष्ठा᳘ प्प्रियमि᳘त्येनदु᳘पासीत का᳘ प्प्रिय᳘ता याज्ञवल्क्य प्प्राण᳘ ऽएव᳘ सम्म्राडि᳘ति होवाच प्प्राण᳘स्य वै᳘ सम्म्राट्का᳘मायायाज्यं᳘ याजयत्यप्रतिगृह्य᳘स्य प्प्र᳘तिगृह्णात्य᳘पि त᳘त्र व्वधशङ्का᳘ भवति यान्दि᳘शमे᳘ति प्प्राण᳘स्यैव᳘ सम्म्राट्का᳘माय प्प्राणो वै᳘ सम्म्राट्परमं ब्ब्र᳘ह्म᳘ नैनम्प्राणो᳘ जहाति स᳘र्व्वाण्येनम्भूता᳘न्यभि᳘क्षरन्ति॥

स वै᳘ नो ब्रूहि याज्ञवल्क्य॥
स᳘ एॗवाय᳘तनमाकाशः᳘ प्रतिष्ठा᳘ प्रियमि᳘त्येनदु᳘पासीत का᳘ प्रिय᳘ता याज्ञवल्क्य प्राण᳘ एव᳘ सम्राडि᳘ति होवाच प्राण᳘स्य वै᳘ सम्राट्का᳘मायायाज्यं᳘ याजयत्यप्रतिगृह्य᳘स्य प्र᳘तिगृह्णात्य᳘पि 3 त᳘त्र वधाशङ्गा᳘ भवति यां दि᳘शमे᳘ति प्राण᳘स्यैव᳘ सम्राट्का᳘माय प्राणो वै᳘ सम्राट् परमम् ब्र᳘ह्मॗ नैनम् प्राणो᳘ जहाति स᳘र्वाण्येनम् भूता᳘न्यभि᳘क्षरन्ति॥
मूलम् - विस्वरम्
स व नो ब्रूहि याज्ञवल्क्य । प्राण एवायतनम् । आकाशः प्रतिष्ठा । प्रियमित्येनदुपासीत । का प्रियता याज्ञवल्क्य । प्राण एव सम्राडिति होवाच । प्राणस्य वै सम्राट् कामायायाज्यं याजयति । अप्रतिगृह्यस्य प्रतिगृह्णाति । अपि तत्र वधशङ्का भवति । यां दिशमेति । प्राणस्यैव सम्राट् कामाय । प्राणो वै सम्राट् परमं ब्रह्म । नैनं प्राणो जहाति । सर्वाण्येनं भूतान्यभिक्षरन्ति ॥ ३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं मुनिना उक्तो राजा सविस्मयं पृच्छति- स वै नो ब्रूहीति । हे ‘याज्ञवल्क्य !’ ‘सः’ त्वं विद्वान्वै नो ऽस्मभ्यं ‘ब्रूहि’ कथय । प्रतिष्ठामायतनं चेति शेषः । एवमुक्तो मुनिराह- प्राण एवायतनमिति । ‘प्राण एव’ घ्राणेन्द्रियमेव प्राण-देवस्य ब्रह्मणः ‘आयतनं’ शरीरं ‘आकाशः’ अव्याकृतः ‘प्रतिष्ठा’ । तस्योत्पत्तिस्थितिलयकालेषु आश्रयः । एनत्प्राणदेवताख्यं ब्रह्म प्रियमित्येतन्नाम्नोपासीत । प्रियमिति उपनिषद्ब्रह्मणश्चतुर्थः पादः । चतुर्भिः पादैः पूर्णत्वेन फलदत्वात् ‘प्रियमिति’ कृत्वा ‘एनत्’ ब्रह्मोपासितेति भावः । प्राणदेवब्रह्मस्वरूपात्प्रियमितीयमुपासनामुपनिषत् प्रतिष्ठायतनवत् भिन्ना वा इति जिज्ञासया पृच्छति- का प्रियतेति । हे ‘याज्ञवल्क्य !’ ‘का प्रियतेति ?’ । एवं पृष्टो मुनिरुवाचोक्तवान् । हे ‘सम्राट्’ ! ‘प्राण एव’ प्राण-देव-ब्रह्मैव ‘प्रियता’ । न ततो व्यतिरिक्ता प्रियतेति । कथं ? पुनः प्राण एव प्रियतेत्य् उच्यते- प्राणस्य वै इति । हे ‘सम्राट् !‘ ‘प्राणस्य वै कामाय’ प्राणाभिरक्षणार्थाय हि पुमान् ‘अयाज्यं’ पतितादिमपि ‘याजयति’ । तथा अप्रतिगृह्यस्योग्रादेः ‘प्रतिगृह्णाति’ । अपि च- धनाद्यर्थं यां तस्करादिसङ्कीर्णामपि दिशमेति गच्छति । ‘तत्र’ तस्यां दिशि ‘वधशङ्का’ शस्त्रादि-हनन-निमित्ता शङ्का भवति । तदेतत्सर्वं ‘प्राणस्यैव सम्राट् कामाय’ तस्मात्प्राणः ‘वै’ ‘सम्राट् परमं ब्रह्म’ । एवमुपासितुः फलमाह- नैनं प्राण इति । ‘एनं’ यथोक्तब्रह्मविदं प्राण-देवता ‘न जहाति’ । ‘सर्वाणि’ च ‘भूतानि’ एनमुपासकं ‘अभिक्षरन्ति’ बलि-दानादिभिः संयोजयन्ति ॥ ३ ॥
०४
विश्वास-प्रस्तुतिः
देवो᳘ भूत्वा᳘ देवान᳘प्येति॥
य᳘ ऽएव᳘म्विद्वा᳘नेत᳘दुपा᳘स्ते ह᳘स्त्यृषभᳫँ᳭ सह᳘स्रन्ददामी᳘ति होवाच जनको व्वै᳘देहः स᳘ होवाच या᳘ज्ञवल्क्यः पिता᳘ मे ऽमन्यत ना᳘ननुशिष्य ह᳘रेते᳘ति क᳘ ऽएव᳘ ते कि᳘मब्ब्रवीदि᳘ति॥
मूलम् - श्रीधरादि
देवो᳘ भूत्वा᳘ देवान᳘प्येति॥
य᳘ ऽएव᳘म्विद्वा᳘नेत᳘दुपा᳘स्ते ह᳘स्त्यृषभᳫँ᳭ सह᳘स्रन्ददामी᳘ति होवाच जनको व्वै᳘देहः स᳘ होवाच या᳘ज्ञवल्क्यः पिता᳘ मे ऽमन्यत ना᳘ननुशिष्य ह᳘रेते᳘ति क᳘ ऽएव᳘ ते कि᳘मब्ब्रवीदि᳘ति॥
मूलम् - Weber
देवो᳘ भूत्वा᳘ देवान᳘प्येति॥
य᳘ एवं᳘ विद्वा᳘नेत᳘दुपा᳘स्ते हॗस्त्यृषभᳫं सह᳘स्रं ददामी᳘ति होवाच जनको वै᳘देहः स᳘ होवाच या᳘ज्ञवल्क्यः पिता᳘ मेऽमन्यत ना᳘ननुशिष्य 4 ह᳘रेते᳘ति क᳘ एव᳘ ते कि᳘मब्रवीदि᳘ति॥
मूलम् - विस्वरम्
देवो भूत्वा देवानप्येति । य एवं विद्वानेतदुपास्ते । हस्त्यृषभं सहस्रं ददामि इति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः । पिता मे ऽमन्यत- नाननुशिष्य हरेतेति । क एव ते किमब्रवीदिति ॥ ४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
य एवं विद्वान् एतत्प्राण-देवता-रूपं ब्रह्मोपास्ते स इहैव ‘देवो भूत्वा’ आविर्भूत-देव-भावो भूत्वा पुनः शरीर-पातोत्तर-कालं ‘देवान् अप्येति’ अधिगच्छति । विद्या-निष्क्रयार्थं प्रतिजज्ञे इत्य् आह- ** हस्त्यृषभमि**ति । हस्तितुल्य ऋषभो यस्मिन् गो-सहस्रे तदेवंभूतं ‘सहस्रं’ ददामीति ‘ह’ ‘जनको वैदेह उवाच’ । एवमुक्तः ‘सः’ याज्ञवल्क्यः ‘उवाच’ । ‘अननुशिष्य’ शिक्षामकृत्वा शिष्यं कृतार्थमकृत्वा शिष्याद्धनं ‘नाहरेत’ इति ‘मे पिता अमन्यत’ मन्यते स्म । ममापि अयमेवाभिप्राय इत्य् अर्थः । ‘क एव’ कश्चिदेव ‘ते’ तुभ्यं ‘किमब्रवीदिति’ ॥ ४ ॥
०५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘ब्ब्रवीन्मे जि᳘त्वा शैलिनः᳘॥
(नो᳘) व्वाग्वै ब्ब्रह्मे᳘ति य᳘था मातृमा᳘न्पितृमा᳘नाचा᳘र्य्यवान्ब्रूयात्त᳘था त᳘च्छैलि᳘नो ऽब्ब्रवीद्वाग्वै ब्ब्रह्मेत्य᳘वदतो हि किᳫँ᳭ स्यादि᳘त्यब्ब्रवीत्तु᳘ ते त᳘स्याय᳘तनम्प्रतिष्ठान्न᳘ मे ऽब्ब्रवीदि᳘त्येकपाद्वा᳘ ऽएत᳘त्सम्म्राडि᳘ति[[!!]]॥

अ᳘ब्रवीन्मे जि᳘त्वा शैलिनो᳟॥
वाग्वै ब्रह्मे᳘ति य᳘था मातृमा᳘न्पितृमा᳘नाचार्य᳘वान्ब्रूयात्त᳘था त᳘छैलिॗनोऽब्रवीद्वाग्वै ब्रह्मेत्य᳘ववदतो हि किᳫं स्याद᳘ब्रवीत्तु᳘ 5 ते त᳘स्याय᳘तनम् प्रतिष्ठां न᳘ मेऽब्रवीदि᳘त्येकपाद्वा᳘ एत᳘त्सम्रा᳘डि᳘ति॥ े
मूलम् - विस्वरम्
अब्रवीन्मे जित्वा शैलिनः । वाग्वै ब्रह्मेति । यथा मातृमान्पितृमानाचार्यवान्ब्रूयात् । तथा तच्छैलिनो ऽब्रवीत् । वाग्वै ब्रह्मेति । अवदतो हि किं स्यादिति । अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् । न मे ऽब्रवीदिति । एकपाद्वा एतत्सम्राडिति ॥ ५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं मुनिना पृष्टो राजा आह- अब्रवीन्मे जित्वा शैलिन इति । ‘जित्वा’ नामतः । शिलिनस्यापत्यं ‘शैलिनः’ । ‘वाग्वै ब्रह्मेति’ । वागभिमानिनी देवता ऽग्निरित्यादि पूर्ववत् । ‘अवदतः’ मूकस्य ॥ ५ ॥
०६
विश्वास-प्रस्तुतिः
स वै᳘ नो ब्ब्रूहि याज्ञवल्क्य॥
व्वा᳘गे᳘वायतनमाकाशः᳘[[!!]] प्प्रतिष्ठा᳘ प्प्रज्ञे᳘त्येनदु᳘पासीत का᳘ प्प्रज्ञ᳘ता याज्ञवल्क्य व्वा᳘गेव᳘ सम्म्राडि᳘ति होवाच व्वाचा वै᳘ सम्म्राड्ब᳘न्धुः प्प्र᳘ज्ञायत ऽऋग्वेदो᳘ यजुर्व्वेदः᳘ सामवे᳘दो ऽथर्व्वाङ्गिर᳘स ऽइतिहासः᳘ पुराण᳘म्विद्या᳘ ऽउपनिष᳘दः श्लो᳘काः सूत्रा᳘ण्यनुव्याख्या᳘नानि व्व्याख्या᳘नानि व्वा᳘चैव᳘ सम्म्राट् प्प्र᳘ज्ञायन्ते व्वाग्वै᳘ सम्म्राट्परमम्ब्रह्म᳘[[!!]] नैनम्वा᳘ग्जहाति स᳘र्व्वाण्येनम्भूता᳘न्यभिक्षरन्ति[[!!]]॥
मूलम् - श्रीधरादि
स वै᳘ नो ब्ब्रूहि याज्ञवल्क्य॥
व्वा᳘गे᳘वायतनमाकाशः᳘[[!!]] प्प्रतिष्ठा᳘ प्प्रज्ञे᳘त्येनदु᳘पासीत का᳘ प्प्रज्ञ᳘ता याज्ञवल्क्य व्वा᳘गेव᳘ सम्म्राडि᳘ति होवाच व्वाचा वै᳘ सम्म्राड्ब᳘न्धुः प्प्र᳘ज्ञायत ऽऋग्वेदो᳘ यजुर्व्वेदः᳘ सामवे᳘दो ऽथर्व्वाङ्गिर᳘स ऽइतिहासः᳘ पुराण᳘म्विद्या᳘ ऽउपनिष᳘दः श्लो᳘काः सूत्रा᳘ण्यनुव्याख्या᳘नानि व्व्याख्या᳘नानि व्वा᳘चैव᳘ सम्म्राट् प्प्र᳘ज्ञायन्ते व्वाग्वै᳘ सम्म्राट्परमम्ब्रह्म᳘[[!!]] नैनम्वा᳘ग्जहाति स᳘र्व्वाण्येनम्भूता᳘न्यभिक्षरन्ति[[!!]]॥
मूलम् - Weber
स वै᳘ नो ब्रूहि याज्ञवल्क्य॥
वा᳘गेॗवाय᳘तनमाकाशः᳘ प्रतिष्ठा᳘ प्रज्ञे᳘त्येनदु᳘पासीत का᳘ प्रज्ञ᳘ता याज्ञवल्क्य वा᳘गेव᳘ सम्राडि᳘ति होवाच वाचा वै᳘ सम्राड्ब᳘न्धुः प्र᳘ज्ञायत ऋग्वेदो᳘ यजुर्वेदः᳘ सामवेॗदोऽथर्वाङ्गिर᳘स इतिहासः᳘ पुराणं᳘ विद्या᳘ उपनिष᳘दः श्लो᳘काः सूत्रा᳘ण्यनुव्याख्या᳘नानि व्याख्या᳘नानि वाॗचैव᳘ सम्राट् प्र᳘ज्ञायन्ते वाग्वै᳘ सम्राट् परमम् 6 ब्र᳘ह्मॗ नैनं वा᳘ग्जहाति स᳘र्वाण्येनम् भूता᳘न्यभि᳘क्षरन्ति॥
मूलम् - विस्वरम्
स वै नो ब्रूहि याज्ञवल्क्य । वागेवायतनम् । आकाशः प्रतिष्ठा । प्रज्ञेत्येनदुपासीत । का प्रज्ञता याज्ञवल्क्य । वागेव सम्राडिति होवाच । वाचा वै सम्राड्बन्धुः प्रज्ञायते । ऋग्वेदो यजुर्वेदः सामवेदो ऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानि वाचैव सम्राट् प्रज्ञायन्ते । वाग्वै सम्राट् परमं ब्रह्म । नैनं वाग्जहाति । सर्वाण्येनं भूतान्यभिक्षरन्ति ॥ ६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
स वै नो ब्रूहीति । ‘वागेवायतनमाकाशः प्रतिष्ठा’ । एतद्वाग्देवता ऽख्यं ब्रह्म ‘प्रज्ञेत्युपासीत’ । ‘का प्रज्ञतेति’ पृष्टो मुनिः वाग्देवतैव प्रज्ञता न ततो व्यतिरिक्ता इत्य् उक्त्वा तत्र हेतुमाह- वाचा वै सम्राडिति । ‘वाचा वै’ वाग्देवतयैव ‘बन्धुः प्रज्ञायते’ । अयमस्माकं बन्धुरित्युक्ते प्रकर्षेण ज्ञायते सर्वैरिति शेषः । तथा ऋग्वेदादीनि व्याख्यानान्तानि मैत्रेयी-ब्राह्मणे उक्तार्थानि ‘वाचैव’ ‘प्रज्ञायन्ते’ अतः ‘वाग्वै परमं ब्रह्म’ ॥ ६ ॥
०७
विश्वास-प्रस्तुतिः
देवो᳘ भूत्वा᳘ देवान᳘प्येति॥
य᳘ ऽएव᳘म्विद्वा᳘नेत᳘दुपा᳘स्ते ह᳘स्त्यृषभᳫँ᳭ सह᳘स्रन्ददामी᳘ति होवाच जनको व्वै᳘देहः स᳘ होवाच या᳘ज्ञवल्क्यः पिता᳘ मे ऽमन्यत ना᳘ननुशिष्य ह᳘रेते᳘ति क᳘ ऽएव᳘ ते कि᳘मब्ब्रवीदि᳘ति ॥
मूलम् - श्रीधरादि
देवो᳘ भूत्वा᳘ देवान᳘प्येति॥
य᳘ ऽएव᳘म्विद्वा᳘नेत᳘दुपा᳘स्ते ह᳘स्त्यृषभᳫँ᳭ सह᳘स्रन्ददामी᳘ति होवाच जनको व्वै᳘देहः स᳘ होवाच या᳘ज्ञवल्क्यः पिता᳘ मे ऽमन्यत ना᳘ननुशिष्य ह᳘रेते᳘ति क᳘ ऽएव᳘ ते कि᳘मब्ब्रवीदि᳘ति ॥
मूलम् - Weber
देवो᳘ भूत्वा᳘ देवान᳘प्येति॥
य᳘ एवं᳘ विद्वा᳘नेत᳘दुपा᳘स्ते हॗस्त्यृषभᳫं सह᳘स्रं ददामी᳘ति होवाच जनको वै᳘देहः स᳘ होवाच या᳘ज्ञवल्क्यः पिता᳘ मेऽमन्यत ना᳘ननुशिष्य 7 ह᳘रेते᳘ति क᳘ एव᳘ ते कि᳘मब्रवीदि᳘ति ॥
मूलम् - विस्वरम्
देवो भूत्वा देवानप्येति । य एवं विद्वानेतदुपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः । पिता मे ऽमन्यत- नाननुशिष्य हरेतेति । क एव ते किमब्रवीदिति ॥ ७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“देवोभूत्वा” इति व्याख्यातम् ॥ ७ ॥
०८
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘ब्ब्रवीन्मे बर्क्कुर्व्वार्ष्णः᳘॥
(श्च᳘) च᳘क्षुर्व्वै ब्ब्रह्मे᳘ति य᳘था मातृमा᳘न्पितृमा᳘नाचार्य्य᳘वान्ब्रूयात्त᳘था त᳘द्वा᳘र्ष्णो ऽब्ब्रवीच्च᳘क्षुर्व्वै ब्ब्रह्मेत्य᳘पश्यतो हि किᳫँ᳭ स्यादि᳘त्यब्ब्रवीत्तु᳘ ते त᳘स्याय᳘तनम्प्रतिष्ठान्न᳘ मे ऽब्ब्रवीदि᳘त्येकपाद्वा᳘ ऽएत᳘त्सम्म्राडि᳘ति॥

अ᳘ब्रवीन्मे व᳘र्कुवार्ष्णः᳟॥
च᳘क्षुर्वै ब्रह्मे᳘ति य᳘था मातृमा᳘न्पितृमा᳘नाचार्य᳘वान्ब्रूयात्त᳘था त᳘द्वाॗर्ष्णोऽब्रवीच्च᳘क्षुर्वै ब्रह्मेत्य᳘पश्यतो हि किᳫं स्याद᳘ब्रवीत्तु᳘ 8 ते त᳘स्याय᳘तनम् प्रतिष्ठां न᳘ मेऽब्रवीदि᳘त्येकपाद्वा᳘ एत᳘त्सम्राडि᳘ति॥
मूलम् - विस्वरम्
अब्रवीन्मे बर्क्कुर्वार्ष्णः । चक्षुर्वै ब्रह्मेति । यथा मातृमान्पितृमानाचार्यवान् ब्रूयात् । तथा तद्वार्ष्णो ऽब्रवीत् । चक्षुर्वै ब्रह्मेति । अपश्यतो हि किं स्यादिति । अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् । न मे ऽब्रवीदिति । एकपाद्वा एतत्सम्राडिति ॥ ८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
अब्रवीन्मे बर्क्कुर्वार्ष्ण इति । बर्क्कुरिति नामतः वृष्णस्यापत्यं ‘वार्ष्णः’ तदधिष्ठात्री देवता आदित्यः । ‘अपश्यतो हीति’ विशेषः ॥ ८ ॥
०९
विश्वास-प्रस्तुतिः
स वै᳘ नो ब्ब्रूहि याज्ञवल्क्य॥
च᳘क्षुरे᳘वायतनमाकाशः᳘[[!!]] प्प्रतिष्ठा᳘ सत्यमि᳘त्येनदु᳘पासीत का᳘ सत्य᳘ता याज्ञवल्क्य च᳘क्षुरेव᳘ सम्म्राडि᳘ति होवाच च᳘क्षुषा वै᳘ सम्म्राट्प᳘श्यन्तमाहुर᳘द्द्राक्षीरि᳘ति स᳘ ऽआहा᳘द्द्राक्षमि᳘ति त᳘त्सत्य᳘म्भवति च᳘क्षुर्व्वै᳘ सम्म्राट्परमम्ब्र᳘ह्म[[!!]] नैनञ्च᳘क्षुर्ज्जहाति स᳘र्व्वाण्येनम्भूता᳘न्यभि᳘क्षरन्ति॥
मूलम् - श्रीधरादि
स वै᳘ नो ब्ब्रूहि याज्ञवल्क्य॥
च᳘क्षुरे᳘वायतनमाकाशः᳘[[!!]] प्प्रतिष्ठा᳘ सत्यमि᳘त्येनदु᳘पासीत का᳘ सत्य᳘ता याज्ञवल्क्य च᳘क्षुरेव᳘ सम्म्राडि᳘ति होवाच च᳘क्षुषा वै᳘ सम्म्राट्प᳘श्यन्तमाहुर᳘द्द्राक्षीरि᳘ति स᳘ ऽआहा᳘द्द्राक्षमि᳘ति त᳘त्सत्य᳘म्भवति च᳘क्षुर्व्वै᳘ सम्म्राट्परमम्ब्र᳘ह्म[[!!]] नैनञ्च᳘क्षुर्ज्जहाति स᳘र्व्वाण्येनम्भूता᳘न्यभि᳘क्षरन्ति॥
मूलम् - Weber
स वै᳘ नो ब्रूहि याज्ञवल्क्य॥
च᳘क्षुरेॗवाय᳘तनमाकाशः᳘ प्रतिष्ठा᳘ सत्यमि᳘त्येनदु᳘पासीत का᳘ सत्य᳘ता याज्ञवल्क्य च᳘क्षुरेव᳘ सम्राडि᳘ति होवाच च᳘क्षुषा वै᳘ सम्राट् प᳘श्यन्तमाहुर᳘द्राक्षीरि᳘ति स᳘ आहा᳘द्राक्षमि᳘ति त᳘त्सत्य᳘म् भवति च᳘क्षुर्वै᳘ सम्राट् परमम् 9 ब्र᳘ह्मॗ नैनं च᳘क्षुर्जहाति स᳘र्वाण्येनम् भूता᳘न्यभि᳘क्षरन्ति॥
मूलम् - विस्वरम्
स वै नो ब्रूहि याज्ञवल्क्य । चक्षुरेवायतनम् । आकाशः प्रतिष्ठा । सत्यमित्येनदुपासीत । का सत्यता याज्ञवल्क्य । चक्षुरेव सम्राडिति होवाच । चक्षुषा वै सम्राट् पश्यन्तमाहुः । अद्राक्षीरिति । स आह । अद्राक्षमिति । तत्सत्यं भवति । चक्षुर्वै सम्राट् परमं ब्रह्म । नैनं चक्षुर्जहाति । सर्वाण्येनं भूतान्यभिक्षरन्ति ॥ ९ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
स वै न इति । तस्य ‘चक्षुरेव’ चक्षुरिन्द्रियमेवायतनम् । सत्यमित्यादि ब्रह्मण उपनिषत् । चक्षुषः सत्यत्वं साधयति- चक्षुषा वै इति । हे सम्राट् ! ‘चक्षुषा’ ‘पश्यन्तं’ ‘वै’ पुरुषं लोकाः ‘आहुः’ । त्वं हस्तिनमद्राक्षीरिति । स चेदद्राक्षमित्य् आह । तदा तत्सत्यमेव भवतीति भावः ॥ ९ ॥
१०
विश्वास-प्रस्तुतिः
देवो᳘ भूत्वा᳘ देवान᳘प्येति॥ य᳘ ऽएव᳘म्विद्वानेत᳘दुपा᳘स्ते[[!!]] ह᳘स्त्यृषभᳫँ᳭ सह᳘स्रन्ददामी᳘ति होवाच जनको व्वै᳘देहः स᳘ होवाच या᳘ज्ञवल्क्यः पिता᳘ मे ऽमन्यत ना᳘ननुशिष्य ह᳘रेते᳘ति क᳘ ऽएव᳘ ते कि᳘मब्ब्रवीदि᳘ति ॥
मूलम् - श्रीधरादि
देवो᳘ भूत्वा᳘ देवान᳘प्येति॥ य᳘ ऽएव᳘म्विद्वानेत᳘दुपा᳘स्ते[[!!]] ह᳘स्त्यृषभᳫँ᳭ सह᳘स्रन्ददामी᳘ति होवाच जनको व्वै᳘देहः स᳘ होवाच या᳘ज्ञवल्क्यः पिता᳘ मे ऽमन्यत ना᳘ननुशिष्य ह᳘रेते᳘ति क᳘ ऽएव᳘ ते कि᳘मब्ब्रवीदि᳘ति ॥
मूलम् - Weber
देवो᳘ भूत्वा᳘ देवान᳘प्येति य᳘ एवं᳘ विद्वा᳘नेत᳘दुपा᳘स्ते हॗस्त्यृषभᳫं सह᳘स्रं ददामी᳘ति होवाच जनको वै᳘देहः स᳘ होवाच या᳘ज्ञवल्क्यः पिता᳘ मेऽमन्यत ना᳘ननुशिष्य 10 ह᳘रेते᳘ति क᳘ एव᳘ ते कि᳘मब्रवीदि᳘ति ॥
मूलम् - विस्वरम्
देवो भूत्वा देवानप्येति । य एवं विद्वानेतदुपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः । पिता मे ऽमन्यत नाननुशिष्य हरेतेति । क एव ते किमब्रवीदिति ॥ १० ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“देवो भूत्वा” इति व्याख्यातप्रायमेव ॥ १० ॥
११
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘ब्ब्रवीन्मे गर्द्दभी᳘विपीतो भा᳘रद्वाजः॥
श्रो᳘त्रम्वै ब्ब्रह्मे᳘ति य᳘था मातृमा᳘न्पितृमा᳘नाचार्य्यवान्ब्रूयात्त᳘था तद्भा᳘रद्वाजो ऽब्ब्रवीच्छ्रोत्रम्वै[[!!]] ब्ब्रह्मेत्य᳘शृण्वतो हि किᳫँ᳭ स्यादित्य᳘ब्ब्रवीत्तु[[!!]] ते त᳘स्याय᳘तनम्प्रतिष्ठान्न᳘ मे ऽब्ब्रवीदि᳘त्येकपाद्वा᳘ ऽएत᳘त्सम्म्राडि᳘ति॥

अ᳘ब्रवीन्मे गर्दभी᳘विपीतो भा᳘रद्वाजः॥
श्रो᳘त्रं वै ब्रह्मे᳘ति य᳘था मातृमा᳘न्पितृमा᳘नाचार्य᳘वान्ब्रूयात्त᳘था तद्भा᳘रद्वाजोऽब्रवीछ्रो᳘त्रं वै ब्रह्मेत्य᳘शृण्वतो हि किᳫं स्यादित्य᳘ब्रवीत्तु᳘ 11 ते त᳘स्याय᳘तनम् प्रतिष्ठां न᳘ मेऽब्रवीदि᳘त्येकपाद्वा᳘ एत᳘त्सम्राडि᳘ति॥ ्ये
मूलम् - विस्वरम्
अब्रवीन्मे गर्द्दभीविपीतो भारद्वाजः । श्रोत्रं वै ब्रह्मेति । यथा मातृमान्पितृमानाचार्यवान् ब्रूयात् । तथा तत् भारद्वाजो ऽब्रवीत् । श्रोत्रं वै ब्रह्मेति । अशृण्वतो हि किं स्यादिति । अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् । न मे ऽब्रवीदिति । एकपाद्वा एतत्सम्राडिति ॥ ११ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘गर्द्दभीविपीतः इति’ नामतः । ‘भारद्वाजः इति’ गोत्रतः । ‘श्रोत्रं’ तदभिमानिनी दिग्देवता ॥ ११ ॥
१२
विश्वास-प्रस्तुतिः
स वै᳘ नो ब्ब्रूहि याज्ञवल्क्य॥
श्रो᳘त्रमे᳘वाय᳘तनमाकाशः᳘ प्प्रति᳘ष्ठा ऽनन्त ऽइ᳘त्येनदु᳘पासीत᳘ का ऽनन्त᳘ता याज्ञवल्क्य दि᳘श ऽएव᳘ सम्म्राडि᳘ति होवाच त᳘स्माद्वै᳘ सम्म्राङ्याङ्का᳘ञ्च दि᳘शङ्ग᳘च्छति᳘ नै᳘वास्या ऽअ᳘न्तङ्ग᳘च्छत्यनन्ता हि दि᳘शः श्रो᳘त्रᳫँ᳭ हि दि᳘शः श्रो᳘त्रम्वै᳘ सम्म्राट्परमम्ब्र᳘ह्म᳘ नैनᳫँ᳭ श्रो᳘त्रञ्जहाति स᳘र्व्वाण्येनम्भूता᳘न्यभि᳘क्षरन्ति॥
मूलम् - श्रीधरादि
स वै᳘ नो ब्ब्रूहि याज्ञवल्क्य॥
श्रो᳘त्रमे᳘वाय᳘तनमाकाशः᳘ प्प्रति᳘ष्ठा ऽनन्त ऽइ᳘त्येनदु᳘पासीत᳘ का ऽनन्त᳘ता याज्ञवल्क्य दि᳘श ऽएव᳘ सम्म्राडि᳘ति होवाच त᳘स्माद्वै᳘ सम्म्राङ्याङ्का᳘ञ्च दि᳘शङ्ग᳘च्छति᳘ नै᳘वास्या ऽअ᳘न्तङ्ग᳘च्छत्यनन्ता हि दि᳘शः श्रो᳘त्रᳫँ᳭ हि दि᳘शः श्रो᳘त्रम्वै᳘ सम्म्राट्परमम्ब्र᳘ह्म᳘ नैनᳫँ᳭ श्रो᳘त्रञ्जहाति स᳘र्व्वाण्येनम्भूता᳘न्यभि᳘क्षरन्ति॥
मूलम् - Weber
स वै᳘ नो ब्रूहि याज्ञवल्क्य॥
श्रो᳘त्रमेॗवाय᳘तनमाकाशः᳘ प्रतिॗष्ठानन्त इ᳘त्येनदु᳘पासीतॗ कानन्त᳘ता याज्ञवल्क्य दि᳘श एव᳘ सम्राडि᳘ति होवाच त᳘स्माद्वै᳘ सम्राड्यां कां᳘ च दि᳘शं ग᳘छतिॗ नैॗवास्या अ᳘न्तं ग᳘छत्यनन्ता हि दि᳘शः 12 श्रो᳘त्रᳫं हि दि᳘शः श्रो᳘त्रं वै᳘ सम्राट् परमम् 13 ब्र᳘ह्म नैनं श्रो᳘त्रं जहाति स᳘र्वाण्येनम् भूता᳘न्यभि᳘क्षरन्ति॥
मूलम् - विस्वरम्
स वै नो ब्रूहि याज्ञवल्क्य । श्रोत्रमेवायतनम् । आकाशः प्रतिष्ठा । अनन्त इत्येनदुपासीत । का ऽनन्तता याज्ञवल्क्य । दिश एव सम्राडिति होवाच । तस्माद्वै सम्राट् यां कां च दिशं गच्छति । नैवास्या अन्तं गच्छति । अनन्ता हि दिशः । श्रोत्रं हि दिशः । श्रोत्रं वै सम्राट् परमं ब्रह्म । नैनं श्रोत्रं जहाति । सर्वाण्येनं भूतान्यभिक्षरन्ति ॥ १२ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘श्रोत्रमेव’ श्रोत्रेन्द्रियमेवायतनम् । दिशः अनन्तत्वं साधयति- तस्माद्वै इति । कश्चित्पुमान् ‘यां कां च’ प्राचीमुदीचीं वा ‘दिशं गच्छति’ सो ऽस्याः ‘दिशो ऽन्तं’ ‘नैव गच्छति’ नैव प्राप्नोति । अतः, ‘अनन्ता हि दिशः’ । तथा ऽपि श्रोत्र-ब्रह्मणः किमायातमित्य् अत आह- श्रोत्रं हि दिश इति । दिग्भागो हि पार्थिवाधिष्ठानावच्छिन्नः श्रोत्रमित्य् उच्यते । अतः तयोरेकत्वमित्युपपन्नम् । तस्माद्दिगानन्त्यमेव श्रोत्रस्या ऽनन्त्यम् ॥ १२ ॥
१३
विश्वास-प्रस्तुतिः
देवो᳘ भूत्वा᳘ देवान᳘प्येति[[!!]]॥
य᳘ ऽएव᳘म्विद्वानेत᳘दुपा᳘स्ते[[!!]] ह᳘स्त्यृषभᳫँ᳭ सह᳘स्रन्ददामी᳘ति होवाच जनको व्वै᳘देहः स᳘ होवाच या᳘ज्ञवल्क्यः पिता᳘ मे ऽमन्यत ना᳘ननुशिष्य ह᳘रेते᳘ति क᳘ ऽएव᳘ ते कि᳘मब्ब्रवीदि᳘ति ॥
मूलम् - श्रीधरादि
देवो᳘ भूत्वा᳘ देवान᳘प्येति[[!!]]॥
य᳘ ऽएव᳘म्विद्वानेत᳘दुपा᳘स्ते[[!!]] ह᳘स्त्यृषभᳫँ᳭ सह᳘स्रन्ददामी᳘ति होवाच जनको व्वै᳘देहः स᳘ होवाच या᳘ज्ञवल्क्यः पिता᳘ मे ऽमन्यत ना᳘ननुशिष्य ह᳘रेते᳘ति क᳘ ऽएव᳘ ते कि᳘मब्ब्रवीदि᳘ति ॥
मूलम् - Weber
देवो᳘ भूत्वा᳘ देवा᳘नप्येति॥
य᳘ एवं᳘ विद्वा᳘नेत᳘दुपा᳘स्ते हॗस्त्यृषभᳫं सह᳘स्रं ददामी᳘ति होवाच जनको वै᳘देहः स᳘ होवाच या᳘ज्ञवल्क्यः पिता᳘ मेऽमन्यत ना᳘ननुशिष्य 14 ह᳘रेते᳘ति क᳘ एव᳘ ते कि᳘मब्रवीदि᳘ति ॥
मूलम् - विस्वरम्
देवो भूत्वा देवानप्येति । य एवं विद्वानेतदुपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः । पिता मे ऽमन्यत- नाननुशिष्य हरेतेति । क एव ते किमब्रवीदिति ॥ १३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“देवो भूत्वा” इत्येतद्व्याख्यातम् ॥ १३ ॥
१४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘ब्ब्रवीन्मे सत्य᳘कामो जाबालः᳘॥
(लो᳘) म᳘नो वै ब्ब्रह्मे᳘ति य᳘था मातृमा᳘न्पितृमा᳘नाचा᳘र्य्यवान्ब्रूयात्त᳘था त᳘त्सत्य᳘कामो ऽब्ब्रवीन्म᳘नो वै ब्ब्रह्मेत्य᳘मनसो हि किᳫँ᳭ स्यादित्य᳘ब्ब्रवीत्तु᳘ ते त᳘स्याय᳘तनम्प्रतिष्ठान्न᳘ मे ऽब्ब्रवीदि᳘त्येकपाद्वा᳘ ऽएत᳘त्सम्म्राडि᳘ति॥

अ᳘ब्रवीन्मे सत्य᳘कामो जावालो᳟॥
म᳘नो वै ब्रह्मे᳘ति य᳘था मातृमा᳘न्पितृमा᳘नाचार्य᳘वान्ब्रूयात्त᳘था त᳘त्सत्य᳘कामोऽब्रवीन्म᳘नो वै ब्रह्मेत्य᳘मनसो हि किᳫं स्यादित्य᳘ब्रवीत्तु᳘ 15 ते त᳘स्याय᳘तनम् प्रतिष्ठां न᳘ मेऽब्रवीदि᳘त्येकपाद्वा᳘ एत᳘त्सम्राडि᳘ति॥
मूलम् - विस्वरम्
अब्रवीन्मे सत्यकामो जाबालः । मनो वै ब्रह्मेति । यथा मातृमान्पितृमानाचार्यवान् ब्रूयात् । तथा तत्सत्यकामो ऽब्रवीत् । मनो वै ब्रह्मेति । अमनसो हि किं स्यादिति । अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् । न मे ऽब्रवीदिति । एकपाद्वा एतत् सम्राडिति ॥ १४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘सत्यकाम इति’ नामतः । जबालाया अपत्यं ‘जाबालः’ । ‘मनो वै ब्रह्मेति’ । तदधिष्ठात्री चन्द्रो देवता ॥ १४ ॥
१५
विश्वास-प्रस्तुतिः
स वै᳘ नो ब्ब्रूहि याज्ञवल्क्य॥
म᳘न ऽए᳘वाय᳘तनमाकाशः᳘ प्प्रति᳘ष्ठा ऽऽनन्द ऽइ᳘त्येनदु᳘पासीत᳘ का ऽऽनन्द᳘ता याज्ञवल्क्य म᳘न ऽएव᳘ सम्म्राडि᳘ति होवाच म᳘नसा वै᳘ सम्म्राट्स्त्रिय᳘मभि᳘हर्य्यति त᳘स्याम्प्र᳘तिरूपः पुत्रो᳘ जायते स᳘ ऽआनन्दो म᳘नो वै᳘ सम्म्राट्परमम्ब्र᳘ह्म᳘ नैनम्म᳘नो जहाति स᳘र्व्वाण्येनम्भूता᳘न्यभि᳘क्षरन्ति॥
मूलम् - श्रीधरादि
स वै᳘ नो ब्ब्रूहि याज्ञवल्क्य॥
म᳘न ऽए᳘वाय᳘तनमाकाशः᳘ प्प्रति᳘ष्ठा ऽऽनन्द ऽइ᳘त्येनदु᳘पासीत᳘ का ऽऽनन्द᳘ता याज्ञवल्क्य म᳘न ऽएव᳘ सम्म्राडि᳘ति होवाच म᳘नसा वै᳘ सम्म्राट्स्त्रिय᳘मभि᳘हर्य्यति त᳘स्याम्प्र᳘तिरूपः पुत्रो᳘ जायते स᳘ ऽआनन्दो म᳘नो वै᳘ सम्म्राट्परमम्ब्र᳘ह्म᳘ नैनम्म᳘नो जहाति स᳘र्व्वाण्येनम्भूता᳘न्यभि᳘क्षरन्ति॥
मूलम् - Weber
स वै᳘ नो ब्रूहि याज्ञवल्क्य॥
म᳘न एॗवाय᳘तनमाकाशः᳘ प्रतिॗष्ठानन्द इ᳘त्येनदु᳘पासीतॗ कानन्द᳘ता याज्ञवल्क्य म᳘न एव᳘ सम्राडि᳘ति होवाच म᳘नसा वै᳘ सम्राट् स्त्रिय᳘मभि᳘हर्यति 16 त᳘स्याम् प्र᳘तिरूपः पुत्रो᳘ जायते स᳘ आनन्दो म᳘नो वै᳘ सम्राट् परमम् [^wbr_17] ब्र᳘ह्म नैनम् म᳘नो जहाति स᳘र्वाण्येनम् भूता᳘न्यभि᳘क्षरन्ति॥
मूलम् - विस्वरम्
स वै नो ब्रूहि याज्ञवल्क्य । मन एवायतनम् । आकाशः प्रतिष्ठा । आनन्द इत्येनदुपासीत । का आनन्दता याज्ञवल्क्य । मन एव सम्राडिति होवाच । मनसा वै सम्राट् स्त्रियमभिहर्यति । तस्यां प्रतिरूपः पुत्रो जायते । स आनन्दः । मनो वै सम्राट् परमं ब्रह्म । नैनं मनो जहाति । सर्वाण्येनं भूतान्यभिक्षरन्ति ॥ १५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘मन एवायतनमिति’ करणोक्तिः । मनस आनन्दत्वं साधयति- मनसा वै इति । हे ‘सम्राट्’ ! ‘मनसा’ ‘स्त्रियं’ ‘अभिहर्यति’ अभिहर्यतिः कान्तिकर्मनामसु पठितः । ‘तस्यां’ स्त्रियां ‘प्रतिरूपः’ पितृभावना ऽनुरूपः ‘पुत्रो जायते’ । ‘सः’ पुत्रः आनन्दहेतुत्वात् ‘आनन्दः’ ॥ १५ ॥
१६
विश्वास-प्रस्तुतिः
देवो᳘ भूत्वा᳘ देवान᳘प्येति॥
य᳘ ऽएव᳘म्विद्वा᳘नेतदुपा᳘स्ते[[!!]] ह᳘स्त्यृषभᳫँ᳭ सह᳘स्रन्ददामी᳘ति होवाच जनको व्वै᳘देहः स᳘ होवाच या᳘ज्ञवल्क्यः पिता᳘ मे ऽमन्यत ना᳘ननुशिष्य ह᳘रेते᳘ति क᳘ ऽएव᳘ ते कि᳘मब्ब्रवीदि᳘ति ॥
मूलम् - श्रीधरादि
देवो᳘ भूत्वा᳘ देवान᳘प्येति॥
य᳘ ऽएव᳘म्विद्वा᳘नेतदुपा᳘स्ते[[!!]] ह᳘स्त्यृषभᳫँ᳭ सह᳘स्रन्ददामी᳘ति होवाच जनको व्वै᳘देहः स᳘ होवाच या᳘ज्ञवल्क्यः पिता᳘ मे ऽमन्यत ना᳘ननुशिष्य ह᳘रेते᳘ति क᳘ ऽएव᳘ ते कि᳘मब्ब्रवीदि᳘ति ॥
मूलम् - Weber
देवो᳘ भूत्वा᳘ देवान᳘प्येति॥
य᳘ एवं᳘ विद्वा᳘नेत᳘दुपा᳘स्ते हॗस्त्यृषभᳫं सह᳘स्रं ददामी᳘ति होवाच जनको वै᳘देहः स᳘ होवाच या᳘ज्ञवल्क्यः पिता᳘ मेऽमन्यत ना᳘ननुशिष्य 17 ह᳘रेते᳘ति क᳘ एव᳘ ते कि᳘मब्रवीदि᳘ति ॥
मूलम् - विस्वरम्
देवो भूत्वा देवानप्येति । य एवं विद्वानेतदुपास्ते । हस्त्यृषभं सहस्रं ददामि इति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः । पिता मे ऽमन्यत- नाननुशिष्य हरेतेति । क एव ते किमब्रवीदिति ॥ १६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“देवो भूत्वा”- इति व्याख्यातमेव ॥ १६ ॥
१७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘ब्ब्रवीन्मे व्विदग्धः शा᳘कल्यः॥
(ल्यो) हृ᳘दयम्वै ब्ब्रह्मे᳘ति य᳘था मातृमा᳘न्पितृमा᳘नाचा᳘र्य्यवान्ब्रूयात्त᳘था तच्छा᳘कल्यो ऽब्ब्रवीद्धृ᳘दयम्वै ब्ब्रह्मेत्य᳘हृदयस्य हि किᳫँ᳭ स्यादित्य᳘ब्ब्रवीत्तु᳘ ते त᳘स्याय᳘तनम्प्रतिष्ठान्न᳘ मे ऽब्ब्रवीदि᳘त्येकपाद्वा᳘ ऽएत᳘त्सम्म्राडि᳘ति॥

अ᳘ब्रवीन्मे विदग्धः शा᳘कल्यो॥
हृ᳘दयं वै ब्रह्मे᳘ति य᳘था मातृमा᳘न्पितृमा᳘नाचार्य᳘वान्ब्रूयात्त᳘था तछा᳘कल्योऽब्रवीद्धृ᳘दयं वै ब्रह्मेत्य᳘हृदयस्य हि किᳫं स्यादित्य᳘ब्रवीत्तु᳘ 18 ते त᳘स्याय᳘तनम् प्रतिष्ठां न᳘ मेऽब्रवीदि᳘त्येकपाद्वा᳘ एत᳘त्सम्राडि᳘ति॥
मूलम् - विस्वरम्
अब्रवीन्मे विदग्धः शाकल्यः । हृदयं वै ब्रह्मेति । यथा मातृमान्पितृमानाचार्यवान् ब्रूयात् । तथा तच्छाकल्यो ऽब्रवीत् । हृदयं वै ब्रह्मेति । अहृदयस्य हि किं स्यादिति । अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् । न मे ऽब्रवीत् इति । एकपाद्वा एतत्सम्राडिति ॥ १७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘विदग्धः’ नामतः । शकलस्यापत्यं ‘शाकल्यः’ । ‘हृदयं वै ब्रह्मेति’ । हृदयाभिमानिनी देवता प्रजापतिरित्य् उच्यते ॥ १७ ॥
१८
विश्वास-प्रस्तुतिः
स वै᳘ नो ब्ब्रूहि याज्ञवल्क्य॥
हृ᳘दयमे᳘वाय᳘तनमाकाशः᳘ प्प्रतिष्ठा᳘ स्थितिरि᳘त्येनदु᳘पासीत का᳘ स्थिति᳘ता याज्ञवल्क्य हृ᳘दयमेव᳘ सम्म्राडि᳘ति होवाच हृ᳘दयम्वै᳘ सम्म्राट्स᳘र्व्वेषाम्भूता᳘नाम्प्रतिष्ठा हृ᳘दयेन हि स᳘र्व्वाणि भूता᳘नि प्प्रतिति᳘ष्ठन्ति हृ᳘दयम्वै᳘ सम्म्राट्परमम्ब्र᳘ह्म᳘ नैनᳫँ᳭ हृ᳘दयञ्जहाति स᳘र्व्वाण्येनम्भूता᳘न्यभि᳘क्षरन्ति॥
मूलम् - श्रीधरादि
स वै᳘ नो ब्ब्रूहि याज्ञवल्क्य॥
हृ᳘दयमे᳘वाय᳘तनमाकाशः᳘ प्प्रतिष्ठा᳘ स्थितिरि᳘त्येनदु᳘पासीत का᳘ स्थिति᳘ता याज्ञवल्क्य हृ᳘दयमेव᳘ सम्म्राडि᳘ति होवाच हृ᳘दयम्वै᳘ सम्म्राट्स᳘र्व्वेषाम्भूता᳘नाम्प्रतिष्ठा हृ᳘दयेन हि स᳘र्व्वाणि भूता᳘नि प्प्रतिति᳘ष्ठन्ति हृ᳘दयम्वै᳘ सम्म्राट्परमम्ब्र᳘ह्म᳘ नैनᳫँ᳭ हृ᳘दयञ्जहाति स᳘र्व्वाण्येनम्भूता᳘न्यभि᳘क्षरन्ति॥
मूलम् - Weber
स वै᳘ नो ब्रूहि याज्ञवल्क्य॥
हृ᳘दयमेॗवाय᳘तनमाकाशः᳘ प्रतिष्ठा᳘ स्थितिरि᳘त्येनदु᳘पासीत का᳘ स्थिति᳘ता 19 याज्ञवल्क्य हृ᳘दयमेव᳘ सम्राडि᳘ति होवाच हृ᳘दयं वै᳘ सम्राट् स᳘र्वेषाम् भूता᳘नाम् प्रतिष्ठा हृ᳘दयेन हि स᳘र्वाणि भूता᳘नि प्रतिति᳘ष्ठन्ति हृ᳘दयं वै᳘ सम्राट् परमम् 20 ब्र᳘ह्मॗ नैनᳫं हृ᳘दयं जहाति स᳘र्वाण्येनम् भूता᳘न्यभि᳘क्षरन्ति॥
मूलम् - विस्वरम्
स वै नो ब्रूहि याज्ञवल्क्य । हृदयमेवायतनम् । आकाशः प्रतिष्ठा । स्थितिरित्य् एनदुपासीत । का स्थितिता याज्ञवल्क्य । हृदयमेव सम्राडिति होवाच । हृदयं वै सम्राट् सर्वेषां भूतानां प्रतिष्ठा । हृदयेन हि सर्वाणि भूतानि प्रतितिष्ठन्ति । हृदयं वै सम्राट् परमं ब्रह्म । नैनं हृदयं जहाति । सर्वाण्येनं भूतान्यभिक्षरन्ति ॥ १८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘हृदयमेवायतनमिति’ आध्यात्मिकहृदयोक्तिः । हृदयस्य स्थितितां साधयति- ‘हृदयं वै सम्राट् सर्वेषां भूतानां प्रतिष्ठेति’ । ‘हि’ यतः ‘हृदयेन सर्वाणि भूतानि’ नाम-रूप-कर्मात्मकानि ‘प्रतितिष्ठन्ति’ । ‘तस्मात् हृदयं परमं ब्रह्म’ ॥ १८ ॥
१९
विश्वास-प्रस्तुतिः
देवो᳘ भूत्वा᳘ देवान᳘प्येति॥
य᳘ ऽएव᳘म्विद्वा᳘नेतदुपा᳘स्ते[[!!]] ह᳘स्त्यृषभᳫँ᳭ सह᳘स्रन्ददामी᳘ति होवाच जनको व्वै᳘देहः स᳘ होवाच या᳘ज्ञवल्क्यः पिता मे ऽमन्यत ना᳘ननुशिष्य ह᳘रेते᳘ति॥
मूलम् - श्रीधरादि
देवो᳘ भूत्वा᳘ देवान᳘प्येति॥
य᳘ ऽएव᳘म्विद्वा᳘नेतदुपा᳘स्ते[[!!]] ह᳘स्त्यृषभᳫँ᳭ सह᳘स्रन्ददामी᳘ति होवाच जनको व्वै᳘देहः स᳘ होवाच या᳘ज्ञवल्क्यः पिता मे ऽमन्यत ना᳘ननुशिष्य ह᳘रेते᳘ति॥
मूलम् - Weber
देवो᳘ भूत्वा᳘ देवान᳘प्येति॥
य᳘ एवं᳘ विद्वा᳘नेत᳘दुपा᳘स्ते हस्त्यृषभᳫं सह᳘स्रं ददामी᳘ति होवाच जनको वै᳘देहः स᳘ होवाच या᳘ज्ञवल्क्यः पिता मेऽमन्यत ना᳘ननुशिष्य 21 ह᳘रेते᳘ति॥
मूलम् - विस्वरम्
देवो भूत्वा देवानप्येति । य एवं विद्वानेतदुपास्ते । हस्त्यृषभं सहस्रं ददामि इति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः । पिता मे ऽमन्यत- नाननुशिष्य हरेतेति ॥ १९ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“देवो भूत्वेति”- पूर्ववत् ॥ १९ ॥
इति श्री-हृषीकेश-ब्रह्म-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठकानिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-टीकायां वासुदेव-प्रकाशिकायां तृतीये ऽध्याये दशमं षडाचार्य-ब्राह्मणम् उदङ्क-ब्राह्मणं वा परिसमाप्तम् ॥ १४ (६) ३ । १० ॥
-
क᳘श्चिदब्रवीत्त᳘ A. ↩︎
-
हि कि᳘ᳫ᳘ स्यादित्य᳘ AM. ↩︎
-
प्राण एवायतन D. - ibid. प्र᳘तिगृह्णात्य᳘पि AM. - ibid. ↩︎
-
ना᳘ननुशि᳘ष्य AM. ↩︎
-
हि कि᳘ᳫ᳘ स्यादित्य᳘ AM. ↩︎
-
वै᳘ सम्रा᳘ट् परमं AM. ↩︎
-
ना᳘ननुशि᳘ष्य AM. ↩︎
-
हि कि᳘ᳫ᳘ स्यादित्य᳘ AM. ↩︎
-
वै᳘ सम्रा᳘ट् परमं AM. ↩︎
-
ना᳘ननुशि᳘ष्य AM. ↩︎
-
हि कि᳘ᳫ᳘ स्यादित्य᳘ AM. ↩︎
-
प्रतिष्ठा᳘नन्त इ᳘त्येनदु᳘पासीत का᳘नन्त᳘ता, ग᳘छत्य᳘नन्ता हि दि᳘शः AM. ↩︎
-
वै᳘ सम्रा᳘ट् परमं AM. ↩︎
-
ना᳘ननुशि᳘ष्य AM. ↩︎
-
हि कि᳘ᳫ᳘ स्यादित्य᳘ AM. ↩︎
-
प्रतिष्ठा᳘नन्द इ᳘त्येनदु᳘पासीत का᳘नन्द᳘ता AM – ibid. सम्रा᳘ट् स्त्रिय᳘मभि᳘ AM. Read: स्त्रि᳘यम see ९.४.२ ↩︎
-
ना᳘ननुशि᳘ष्य AM. ↩︎
-
हि कि᳘ᳫ᳘ स्यादित्य᳘ AM. ↩︎
-
स्थिति oxyt.! ↩︎
-
वै᳘ सम्रा᳘ट् परमं AM. ↩︎
-
ना᳘ननुशि᳘ष्य AM. ↩︎