०१
विश्वास-प्रस्तुतिः
जनको᳘ ह व्वै᳘देहो बहुदक्षिणे᳘न यज्ञे᳘नेजे॥
त᳘त्र ह कुरुपञ्चाला᳘नाम्ब्राह्मणा᳘ ऽअभिसमेता बभूवुस्त᳘स्य ह जनक᳘स्य व्वै᳘देहस्य व्विजिज्ञा᳘सा बभूव कः᳘ स्विदेषा᳘म्ब्राह्मणा᳘नामनूचान᳘तम ऽइ᳘ति॥
मूलम् - श्रीधरादि
जनको᳘ ह व्वै᳘देहो बहुदक्षिणे᳘न यज्ञे᳘नेजे॥
त᳘त्र ह कुरुपञ्चाला᳘नाम्ब्राह्मणा᳘ ऽअभिसमेता बभूवुस्त᳘स्य ह जनक᳘स्य व्वै᳘देहस्य व्विजिज्ञा᳘सा बभूव कः᳘ स्विदेषा᳘म्ब्राह्मणा᳘नामनूचान᳘तम ऽइ᳘ति॥
मूलम् - Weber
जनको᳘ ह वै᳘देहो॥
बहुदक्षिणे᳘न यज्ञे᳘नेजे त᳘त्र ह कुरुपञ्चाला᳘नाम् ब्राह्मणा᳘ अभिसमेता बभूवुस्त᳘स्य ह जनक᳘स्य वै᳘देहस्य विजिज्ञा᳘सा बभूव कः᳘ स्विदेषा᳘म् ब्राह्मणा᳘नामनूचान᳘तम इ᳘ति॥
मूलम् - विस्वरम्
अश्वलब्राह्मणम् ।
जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे । तत्र ह कुरुपञ्चालानां ब्राह्मणा अभिसमेता बभूवुः । तस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूव । कः स्विदेषां ब्राह्मणानामनूचानतम इति ॥ १ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवम् आगमप्रधानेन मधुकाण्डेनोक्तमेवार्थम् उपपत्तिभिर्निरूपयितुं याज्ञवल्कीयं काण्डमारभ्यते । तत्र प्रस्तावकर्तुं विज्ञान-स्तुत्य्-अर्थां विद्या-प्राप्त्य्-उपाय-प्रदर्शनार्था च आख्यायिका अश्वल-ब्राह्मणेनारभ्यते- जनको ह वैदेह इत्यादिना । विदेहेषु भवः ‘वैदेहः’; ‘जनकः’ जनक-नामा राजा ‘ह’ किल बभूव । स च ‘बहुदक्षिणेन यज्ञेन’ शाखान्तर-प्रसिद्धेन बहु-दक्षिणा-विशिष्टेनाश्वमेधेन वा ‘ईजे’ अयजत् । ‘तत्र’ तस्मिन् यज्ञे ‘ह’ विद्वद्-बाहुल्येन प्रसिद्धानां ‘कुरूणां पञ्चालानां’ च देशानां ‘ब्राह्मणाः’ निमन्त्रिता दर्शनकामा वा ‘अभिसमेताः’ अभिसङ्गताः ‘बभूवुः’ । तत्र महान्तं विद्वत्-समुदायं दृष्ट्वा ‘ह’ किल ‘तस्य जनकस्य वैदेहस्य’ यजमानस्य ‘कः स्वित्’ कां नु खलु ‘एषां’ ब्राह्मणानां मध्ये ‘अनूचानतमः’ सर्व इमे अनूचानाः कः स्विदेषामतिशयेनानूचानो ऽनुवचने समर्थो ब्रह्मिष्ठ ‘इति विजिज्ञासा’ विशेषेण ज्ञातुमिच्छा ‘बभूव’ ॥ १ ॥
०२
विश्वास-प्रस्तुतिः
स᳘ ह ग᳘वाᳫँ᳭ सह᳘स्रम᳘वरुरोध॥
द᳘शदश पा᳘दा ऽए᳘कैकस्याः शृङ्गयोरा᳘बद्धा[[!!]] बभूवुस्ता᳘न्होवाच ब्ब्राह्मणा[[!!]] भगवन्तो यो᳘ व्वो ब्ब्र᳘ह्मिष्ठः स᳘ ऽएता गा ऽउ᳘दजतामि᳘ति ते᳘ ह ब्ब्राह्मणा न᳘ दधृषुः॥
मूलम् - श्रीधरादि
स᳘ ह ग᳘वाᳫँ᳭ सह᳘स्रम᳘वरुरोध॥
द᳘शदश पा᳘दा ऽए᳘कैकस्याः शृङ्गयोरा᳘बद्धा[[!!]] बभूवुस्ता᳘न्होवाच ब्ब्राह्मणा[[!!]] भगवन्तो यो᳘ व्वो ब्ब्र᳘ह्मिष्ठः स᳘ ऽएता गा ऽउ᳘दजतामि᳘ति ते᳘ ह ब्ब्राह्मणा न᳘ दधृषुः॥
मूलम् - Weber
स᳘ ह ग᳘वाᳫं सह᳘स्रम᳘वरुरोध॥
द᳘श-दश पा᳘दा ए᳘कैकस्याः शृ᳘ङ्गयोरा᳘बद्धा बभूवुस्ता᳘न्होवाच ब्रा᳘ह्मणा भगवन्तो यो᳘ वो ब्र᳘ह्मिष्ठः स᳘ एता गा उ᳘दजतामि᳘ति ते᳘ ह ब्राह्मणा न᳘ दधृषुः॥
मूलम् - विस्वरम्
स ह गवां सहस्रवरुरोध । दशदश पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः । तान् होवाच । ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा उदजतामिति । ते ह ब्राह्मणा न दधृषुः ॥ २ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
पश्चात् ‘सः’ जनकः ‘ह’ अनूचान-विषयोत्पन्न-जिज्ञासः सन् तद्विज्ञानोपायार्थं ‘गवां’ प्रथमवयसां धेनूनां ‘सहस्रमवरुरोध’ गोष्ठे अवरोधं कारयामास । किंविशिष्टास्ता गावो ऽवरुद्धा इत्यत आह- दशदशेति [^१_९६] । तासामेकैकस्या गोः शृङ्गयोर्विषये ‘दशदश पादाः’ पलचतुर्भागः पादः 1 एवम्भूताः सुवर्णस्य 2 दशदश पादाः ‘आबद्धा बभूवुः’ । शृङ्गयोरिति द्विवचनात् एकैकस्मिन् शृङ्गे पञ्चपञ्च पादा आबद्धा इत्यर्थः । एवं गा अवरुध्य जनकस्तान् ब्राह्मणान् ‘ह’ किल ‘उवाच’ । हे ब्राह्मणाः वेदाध्ययन-सम्पन्नास् तद्-अर्थ-निष्ठाः ‘भगवन्तः’ पूजार्हा ! इति सम्बोध्य ‘यो वः’ युष्माकं मध्ये ‘ब्रह्मिष्ठः’ अतिशयेन ब्रह्मज्ञः ‘सः एताः’ अवरुद्धा गाः ‘उदजतां’ उत्कालयतु स्वगृहं प्रति नयतु । ‘ते’ ब्राह्मणाः ‘ह’ किल एवमुक्ताः ‘न दधृषुः’ आत्मनो ब्रह्मिष्ठतां प्रतिज्ञातुं न प्रगल्भाः संवृत्ता इत्यर्थः ॥ २ ॥
“इत्यादि बहुधा राजा चिन्तयित्वा मनोगतम् ।
कामधेनु-समानानां सहस्रं निदधौ गवाम् ।
चत्वारिंशत्-सहस्राणि निष्काणामपि भूपतिः । ९५ ।
शृङ्गे शृङ्गे गवां राजा निष्काणां विंशतिं हि सः ।
प्रत्येकं द्वि-सहस्रेषु शृङ्गेष्वर्पितवांस्तदा”। ९६ । इति ।
अनयोष्टीका- इत्यादीति । इत्यादिकं विचारं कृत्वा गवां सहस्रं तथा निष्काणां दीनाराणां चत्वारिंशत्-सहस्राणि सदसि निदधौ स्थापितवानिति । “पले दीनारे ऽपि च निष्को ऽस्त्री” इति अमरे नानार्थः १३ । १४ । । ९५ । दीनाराणां चत्वारिंशत्-सहस्रत्वे हेतुमाह । शृङ्गे इति । हि यतः । सहस्र-सङ्ख्याकानां गवां द्वि-सहस्र-सङ्ख्याकेषु शृङ्गेषु सत्सु प्रत्येकं शृङ्गे शृङ्गे दीनाराणां श्रुतौ कर्ष-चतुष्टयात्मकस्य पलस्य पादतया प्रतिपादितानां विंशतिं श्रुतौ द्विर्-आवृत्त-दश-पदोक्तां बबन्धेति । तथाच सहस्र-द्वयस्य विंशत्या गुणने उक्त-सङ्ख्या-सिद्धिरिति भावः । अत्र यद्यपि भाष्यकारैः श्रुति-गत-दश-दश-पद-द्वित्वं वीप्साभिप्रायेण व्याख्यातम् । पञ्चपञ्च पादा एकैकत्र शृङ्गे बद्धा इत्युक्तेः । तत्र च दश-सहस्राणि निष्कसङ्ख्या भवति । तथापि- अनेन ग्रन्थ-कृता “उपाख्यानेषु न-अत्यन्तमाग्रहः” इति शबर-स्वामि-वचनानुसारेण जनकौदार्यातिशय-प्रकटनाय च दशदशेति पदं विंशति-परतया व्याख्यातमिति बोध्यम् ॥ ९६ ॥
०३
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थ ह या᳘ज्ञवल्क्यः स्व᳘मेव᳘ ब्ब्रह्मचारि᳘णमुवाच॥
(चै) एताः᳘ सौम्यो᳘दज सामश्रवा३ इ᳘ति ता᳘ होदा᳘चकार ते᳘ ह ब्ब्राह्मणा᳘श्चुक्रुधुः कथन्नु᳘ नो ब्ब्र᳘ह्मिष्ठो ब्ब्रुवीतेति[[!!]]॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थ ह या᳘ज्ञवल्क्यः स्व᳘मेव᳘ ब्ब्रह्मचारि᳘णमुवाच॥
(चै) एताः᳘ सौम्यो᳘दज सामश्रवा३ इ᳘ति ता᳘ होदा᳘चकार ते᳘ ह ब्ब्राह्मणा᳘श्चुक्रुधुः कथन्नु᳘ नो ब्ब्र᳘ह्मिष्ठो ब्ब्रुवीतेति[[!!]]॥
मूलम् - Weber
अ᳘थ ह या᳘ज्ञवल्क्यः॥
स्व᳘मेव᳘ ब्रह्मचारि᳘णमुवाचैताः᳘ सौम्यो᳘दज सामश्रवा३ इ᳘ति ता᳘ होदा᳘चकार ते᳘ ह ब्राह्मणा᳘श्चुक्रुधुः कथं नु᳘ नो ब्र᳘ह्मिष्ठो ब्रुवीते᳘ति॥
मूलम् - विस्वरम्
अथ ह याज्ञवल्क्यः स्वमेव ब्रह्मचारिणमुवाच । एताः सौम्य ! उदज सामश्रवा ३ इति । ता होदाचकार । ते ह ब्राह्मणाश्चुक्रुधुः। कथं नु नो ब्रह्मिष्ठो ब्रुवीतेति ॥ ३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
अथानन्तरम् अप्रगल्भ-भूतेषु ब्राह्मणेषु ‘ह’ किल ‘याज्ञवल्क्यः’ स्वमात्मीयमेव ब्रह्मचारिणमन्तेवासिनमुवाच । किं? हे सौम्य ! सामश्रवा ३ इति, प्लुतिर्दूरादाह्वानार्था । साम-विधिं शृणोतीति सामश्रवाः तस्य सम्बुद्धौ हे सामश्रवः । अतो यजुर्वेद-विदो याज्ञवल्क्यात् साम-विधि-श्रवणम् अनुपपन्नमित्यर्थाच्चतुर्वेदो याज्ञवल्क्य इति सिद्ध्यति । हे सामश्रवः ! ‘एता गाः’ उदजोद्गमयास्मद्-गृहान्प्रति । एवं गुरु-वचनं श्रुत्वा ‘ह’ किल ‘ब्रह्मचारी’ ‘ताः’ गाः ‘उदाचकार’ उत्कालितवान् आचार्य-गृहं प्रति नीतवानित्यर्थः । एवं ब्रह्मिष्ठाय निर्द्दिष्ट-गवामपहरणात् याज्ञवल्क्येनात्मनो ब्रह्मिष्ठता प्रतिज्ञातेति, अस्माकमपि ब्रह्मिष्ठता प्रतिज्ञायत इति मन्वानास्ते ‘ह’ ब्राह्मणाश्चुक्रुधुः क्रुद्धवन्तः । तेषां क्रोधाभिप्रायमाह- कथमिति । कथमयं नो ऽस्माकम् एकैक-प्रधानानामग्रे ‘ब्रह्मिष्ठो ऽस्मीति’ ‘ब्रुवीत’ कथयेत् । इति-शब्दः अभिप्राय-समाप्ति-द्योतकः ॥ ३ ॥
०४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ ह जनक᳘स्य व्वै᳘देहस्य हो᳘ता ऽश्वलो᳘ बभूव॥
स᳘ हैनम्पप्प्रच्छ त्वन्नु ख᳘लु नो याज्ञवल्क्य ब्ब्र᳘ह्मिष्ठो ऽसी३ ऽइ᳘ति स᳘ होवाच न᳘मो व्वयम्ब्र᳘ह्मिष्ठाय कुर्म्मो गो᳘कामा ऽएव᳘ व्वय᳘ᳫँ᳘ स्म ऽइ᳘ति त᳘ᳫँ᳘ ह त᳘त ऽएव प्प्र᳘ष्टुन्दद्ध्रे हो᳘ता ऽश्वलः[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ ह जनक᳘स्य व्वै᳘देहस्य हो᳘ता ऽश्वलो᳘ बभूव॥
स᳘ हैनम्पप्प्रच्छ त्वन्नु ख᳘लु नो याज्ञवल्क्य ब्ब्र᳘ह्मिष्ठो ऽसी३ ऽइ᳘ति स᳘ होवाच न᳘मो व्वयम्ब्र᳘ह्मिष्ठाय कुर्म्मो गो᳘कामा ऽएव᳘ व्वय᳘ᳫँ᳘ स्म ऽइ᳘ति त᳘ᳫँ᳘ ह त᳘त ऽएव प्प्र᳘ष्टुन्दद्ध्रे हो᳘ता ऽश्वलः[[!!]]॥
मूलम् - Weber
अ᳘थ ह जनक᳘स्य वै᳘दे हस्य हो᳘ताश्वलो᳘ बभूव॥
स᳘ हैनम् पप्रछ त्वं नु ख᳘लु नो याज्ञवल्क्य ब्र᳘ह्मिष्ठोऽसी३ इ᳘ति स᳘ होवाच न᳘मो वयम् ब्र᳘ह्मिष्ठाय कुर्मो गो᳘कामा एव᳘ वय᳘ᳫं᳘ स्म इ᳘ति त᳘ᳫं᳘ ह त᳘त एव प्र᳘ष्टुं दध्रे हो᳘ताश्वलः᳟॥
मूलम् - विस्वरम्
अथ ह जनकस्य वैदेहस्य होता ऽश्वलो बभूव । स हैनं पप्रच्छ । त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठो ऽसि ३ इति । स होवाच । नमो वयं ब्रह्मिष्ठाय कुर्मः । गोकामा एव वयं स्म इति । तं ह तत एव प्रष्टुं दध्रे होता ऽश्वलः ॥ ४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘अथ ह’ एवं क्रुद्धेषु ब्राह्मणेषु ‘जनकस्य’ यजमानस्य ‘अश्वलः’ अश्वल-नामा ‘होता’ ऋत्विग् ‘बभूव’ । ‘सः’ ब्रह्मिष्ठाभिमानी राजाश्रयत्वाच्च धृष्टः ‘एनं’ याज्ञवल्क्यं ‘ह पप्रच्छ’ पृष्टवान् । कथं ? ‘हे याज्ञवल्क्य ! नो ऽस्माकमग्रे ‘त्वं नु खलु ब्रह्मिष्ठो ऽसि ३’ इति प्लुतिर्निर्भर्त्सनार्था । अनौद्धत्यं ब्रह्मविदो लिङ्गम् इति सूचयन्ती श्रुतिर्याज्ञवल्क्य-कृत-मुत्तरं दर्शयति- स हेति। ‘सः’ याज्ञवल्क्यः ‘ह उवाच’ । ‘वयं ब्रह्मिष्ठाय नमस्कुर्मः’ । तर्हि किमिति ब्रह्मिष्ठ-पण-भूता गावः स्व-गृहं प्रति प्रस्थापिताः, इत्यत आह- गोकामा इति । ‘वयं गोकामा एव स्मः’ । अतो गो-ग्रहणं कृतवन्त इति। ‘तं’ ब्रह्मिष्ठ-प्रतिज्ञं सन्तं ‘तत एव’ ब्रह्मिष्ठ-पण-स्वीकरणादेव होता ऽश्वलः ‘प्रष्टुं’ ‘दध्रे’ मनो धृतवान् ॥ ४ ॥
०५
विश्वास-प्रस्तुतिः
(लो) या᳘ज्ञवल्क्ये᳘ति होवाच॥
य᳘दिदᳫँ᳭ स᳘र्व्वम्मृत्यु᳘ना ऽऽप्तᳫँ᳭ स᳘र्व्वम्मृत्युना ऽभि᳘पन्नङ्के᳘न[[!!]] य᳘जमानो मृत्योरा᳘प्तिम᳘तिमुच्यत ऽइ᳘ति हो᳘त्रर्त्त्वि᳘जा ऽग्नि᳘ना व्वाचा व्वाग्वै᳘ यज्ञ᳘स्य हो᳘ता त᳘द्येयम्वा᳘क्सो ऽय᳘मग्निः स हो᳘ता सा मु᳘क्तिः सा᳘ ऽतिमुक्तिः॥
मूलम् - श्रीधरादि
(लो) या᳘ज्ञवल्क्ये᳘ति होवाच॥
य᳘दिदᳫँ᳭ स᳘र्व्वम्मृत्यु᳘ना ऽऽप्तᳫँ᳭ स᳘र्व्वम्मृत्युना ऽभि᳘पन्नङ्के᳘न[[!!]] य᳘जमानो मृत्योरा᳘प्तिम᳘तिमुच्यत ऽइ᳘ति हो᳘त्रर्त्त्वि᳘जा ऽग्नि᳘ना व्वाचा व्वाग्वै᳘ यज्ञ᳘स्य हो᳘ता त᳘द्येयम्वा᳘क्सो ऽय᳘मग्निः स हो᳘ता सा मु᳘क्तिः सा᳘ ऽतिमुक्तिः॥
मूलम् - Weber
या᳘ज्ञवल्क्ये᳘ति होवाच॥
य᳘दिदᳫं स᳘र्वम् मृत्यु᳘नाप्तᳫं स᳘र्वम् मृत्यु᳘नाभि᳘पन्नं के᳘न य᳘जमानो मृत्योरा᳘प्तिम᳘तिमुच्यत इ᳘ति हो᳘त्रर्त्वि᳘जाग्नि᳘ना वाचा वाग्वै᳘ यज्ञ᳘स्य होव्ता तॗद्येयं वाॗक्सोऽय᳘मग्निः स हो᳘ता सा मु᳘क्तिः सा᳘तिमुक्तिः॥
मूलम् - विस्वरम्
याज्ञवल्क्येति होवाच । यदिदं सर्वं मृत्युना ऽऽप्तम् । सर्वं मृत्युना ऽभिपन्नम् । केन यजमानो मृत्योराप्तिमतिमुच्यते इति । होत्रर्त्विजा ऽग्निना वाचा । वाग्वै यज्ञस्य होता । तद्येयं वाक् । सो ऽयमग्निः । स होता । सा मुक्तिः । सा ऽतिमुक्तिः ॥ ५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
पूर्वं व्याख्याते मधुकाण्डे यदुद्गीथ-प्रकरणं तस्मिन् आसङ्ग-पाप्मनो मृत्योरत्ययः समुच्चितेन कर्म्मणा सङ्क्षेपतो व्याख्यातः । तस्यैवोद्गीथ-दर्शनस्य परीक्षा-विषयो ऽयं प्रश्न-प्रतिवचन-रूपो विस्तर आरभ्यते- याज्ञवल्क्येति होवाचेति । हे याज्ञवल्क्येति प्रथमं मुनेरभिमुख्यमापादयितुं सम्बोध्योवाच । अस्य कर्मणः ‘यदिदं’ साधन-जातं ऋत्विग्-अग्न्यादि-लक्षणं ‘मृत्युना’ कर्म-लक्षणेन स्वाभाविक-अज्ञानजासङ्ग-सहितेनाप्तं व्याप्तं किन्त्वभिपन्नं च मृत्युना वशीकृतं च । अतः ‘केन’ दर्शन-लक्षणेन साधनेन ‘यजमानः’ मृत्योराप्तिमतीय मृत्युगोचरत्वमतिक्रम्य ‘मुच्यते’ स्वतन्त्रो मृत्योरवश्यो भवतीत्यर्थः । इत्येवमश्वलेन पृष्टो याज्ञवल्क्य उत्तरमाह- होत्रर्त्विजा ऽग्निना वाचेति । एतस्याभिप्रेतमर्थं श्रुतिः स्वयमेव व्याचष्टे- वाग्वै इति । “यज्ञो वै यजमानः”- (श. प. १४ । २ । २ । २४) इति श्रुतेर्यज्ञस्य यजमानस्य या अध्यात्मं वाक् सैवाधियज्ञे होता । तत्तत्र एवं सति ‘येयं’ यज्ञस्य ‘यजमानस्य’ ‘वाक्’ सो ऽयं प्रसिद्धो ऽग्निरधिदैवं स एव वागैक्यमापन्नो ऽग्निर्होता । ‘स होता’ अग्नि-रूपेण दृष्टः, ‘सा मुक्तिः’ मृत्यु-अतिक्रम-रूपाया मुक्तेः साधनम् । ‘सा’ उक्तरूपा मुक्तिरेव ‘अतिमुक्तिः’ फल-भूताया अग्न्यादि-भावापत्ति-रूपाया अतिमुक्तेः साधनम् । तथा च आध्यात्मिकाद् आधिभौतिकाच्च परिच्छिन्न-रूपात् वाग्-द्योत-लक्षणात् साधन-द्वयात् अपरिच्छिन्न-अधिदैवताग्नि-रूपेण होतरि दृष्टिर्मुक्ति-साधनमित्यर्थः ॥ ५ ॥
०६
विश्वास-प्रस्तुतिः
(र्य्या᳘) या᳘ज्ञवल्क्ये᳘ति होवाच॥
य᳘दिदᳫँ᳭ स᳘र्व्वमहोरात्रा᳘भ्यामाप्तᳫँ᳭ स᳘र्व्वमहोरात्रा᳘भ्यामभि᳘पन्नङ्के᳘न य᳘जमानो ऽहोरात्र᳘योरा᳘प्तिम᳘तिमुच्यत ऽऽइ᳘त्यध्वर्य्युणर्त्त्वि᳘जा[[!!]] च᳘क्षुषा ऽऽदित्ये᳘न च᳘क्षुर्व्वै᳘ यज्ञ᳘स्याध्वर्य्युस्तद्य᳘दिदञ्च᳘क्षुः[[!!]] सो ऽसा᳘वादित्यः᳘[[!!]] सो ऽध्वर्य्युः सा मुक्तिः[[!!]] सा᳘ ऽतिमुक्तिः॥
मूलम् - श्रीधरादि
(र्य्या᳘) या᳘ज्ञवल्क्ये᳘ति होवाच॥
य᳘दिदᳫँ᳭ स᳘र्व्वमहोरात्रा᳘भ्यामाप्तᳫँ᳭ स᳘र्व्वमहोरात्रा᳘भ्यामभि᳘पन्नङ्के᳘न य᳘जमानो ऽहोरात्र᳘योरा᳘प्तिम᳘तिमुच्यत ऽऽइ᳘त्यध्वर्य्युणर्त्त्वि᳘जा[[!!]] च᳘क्षुषा ऽऽदित्ये᳘न च᳘क्षुर्व्वै᳘ यज्ञ᳘स्याध्वर्य्युस्तद्य᳘दिदञ्च᳘क्षुः[[!!]] सो ऽसा᳘वादित्यः᳘[[!!]] सो ऽध्वर्य्युः सा मुक्तिः[[!!]] सा᳘ ऽतिमुक्तिः॥
मूलम् - Weber
या᳘ज्ञवल्क्येति होवाच॥
य᳘दिदᳫं स᳘र्वमहोरात्रा᳘भ्यामाप्तᳫं स᳘र्वमहोरात्रा᳘भ्यामभि᳘पन्नं के᳘न य᳘जमानोऽहोरात्र᳘योरा᳘प्तिम᳘तिमुच्यत इ᳘त्यध्वर्यु᳘णर्त्वि᳘जा च᳘क्षुषादित्ये᳘न च᳘क्षुर्वै᳘ यज्ञ᳘स्याध्वर्युस्तद्य᳘दिदं च᳘क्षुःॗ सोऽसा᳘वादिॗत्यः सोऽध्वर्युः सा मु᳘क्तिः सा᳘तिमुक्तिः॥
मूलम् - विस्वरम्
याज्ञवल्क्येति होवाच । यदिदं सर्वमहोरात्राभ्यामाप्तम् । सर्वमहोरात्राभ्यामभिपन्नम् । केन यजमानो ऽहोरात्रयोराप्तिमतिमुच्यत इति । अध्वर्युणर्त्विजा चक्षुषा ऽऽदित्येन । चक्षुर्वै यज्ञस्याध्वर्युः । तद्यदिदं चक्षुः । सो ऽसावादित्यः । सो ऽध्वर्युः । सा मुक्तिः । सा ऽतिमुक्तिः ॥ ६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
स्वाभाविकात् अज्ञान-आसङ्ग-प्रयुक्तात् कर्म-लक्षणात् मृत्योरतिमुक्तिर्व्याख्याता । तस्य कर्मणः सासङ्गस्य मृत्योः आश्रय-भूतानां दर्श-पूर्णमासादि-कर्म-साधनानां यो विपरिणाम-हेतुः कालः, तस्मात्कालात् पृथगतिमुक्तिर्वक्तव्येतीदमारभ्यते । क्रिया-अनुष्ठान-व्यतिरेकेणापि क्रियायाः प्रागूर्ध्वं च साधन-विपरिणाम-हेतुत्वेन कालस्य व्यापार-दर्शनात् तस्मात्कालात्पृथगतिमुक्तिर्वक्तव्येति तामाह- यदिदं सर्वमहोरात्राभ्यां व्याप्तमित्यादिना । स च कालो द्वि-रूपः । अहोरात्रादि-लक्षणः तिथ्यादि-लक्षणश्च । तत्राहोरात्रादि-लक्षणात्तावदतिमुक्तिमाह- ‘अहोरात्राभ्यां’ हि सर्वं जायते वर्द्धते विनश्यति च । तथा यज्ञ-साधनं यज्ञस्य यजमानस्य चक्षुरध्वर्युश्च, ताभ्यां जायते वर्द्धते विनश्यति चेति सम्बन्धः । शिष्टान्यक्षराणि पूर्ववत् योज्यानि । यजमानस्य चक्षुरध्वर्युश्चेति साधन-द्वयम् अध्यात्माधिभूतपरिच्छेदं हित्वा अपरिच्छिन्न-अधिदैवता-आदित्यात्मना दृष्टं सत् मुक्तिः । सा मुक्तिरेवातिमुक्तिरिति पूर्ववत् । आदित्य-आत्मभावमापन्नस्य हि नाहोरात्रे सम्भवत इत्यर्थः ॥ ६ ॥
०७
विश्वास-प्रस्तुतिः
(र्य्या᳘) या᳘ज्ञवल्क्ये᳘ति होवाच॥
य᳘दिदᳫँ᳭ स᳘र्व्वम्पूर्व्वपक्षापरपक्षा᳘भ्यामाप्तᳫँ᳭ स᳘र्व्वम्पूर्व्वपक्षापरपक्षा᳘भ्यामभि᳘पन्नङ्के᳘न य᳘जमानः पूर्व्वपक्षापरपक्ष᳘योरा᳘प्तिम᳘तिमुच्यत ऽइ᳘ति ब्ब्रह्म᳘णर्त्त्वि᳘जा म᳘नसा चन्द्रे᳘ण म᳘नो वै᳘ यज्ञ᳘स्य ब्ब्रह्मा तद्य᳘दिदम्म᳘नः᳘[[!!]] सो ऽसौ᳘ चन्द्द्रः स᳘ ब्ब्रह्मा सा मु᳘क्तिः सा᳘ ऽतिमुक्तिः॥
मूलम् - श्रीधरादि
(र्य्या᳘) या᳘ज्ञवल्क्ये᳘ति होवाच॥
य᳘दिदᳫँ᳭ स᳘र्व्वम्पूर्व्वपक्षापरपक्षा᳘भ्यामाप्तᳫँ᳭ स᳘र्व्वम्पूर्व्वपक्षापरपक्षा᳘भ्यामभि᳘पन्नङ्के᳘न य᳘जमानः पूर्व्वपक्षापरपक्ष᳘योरा᳘प्तिम᳘तिमुच्यत ऽइ᳘ति ब्ब्रह्म᳘णर्त्त्वि᳘जा म᳘नसा चन्द्रे᳘ण म᳘नो वै᳘ यज्ञ᳘स्य ब्ब्रह्मा तद्य᳘दिदम्म᳘नः᳘[[!!]] सो ऽसौ᳘ चन्द्द्रः स᳘ ब्ब्रह्मा सा मु᳘क्तिः सा᳘ ऽतिमुक्तिः॥
मूलम् - Weber
या᳘ज्ञवल्क्ये᳘ति होवाच॥
य᳘दिदᳫं स᳘र्वम् पूर्वपक्षापरपक्षा᳘भ्यामाप्तᳫं स᳘र्वम् पूर्वपक्षापरपक्षा᳘भ्यामभि᳘पन्नं के᳘न य᳘जमानः पूर्वपक्षापरपक्ष᳘योरा᳘प्तिम᳘तिमुच्यत इ᳘ति ब्रह्म᳘णर्त्वि᳘जा म᳘नसा चन्द्रे᳘ण म᳘नो वै᳘ यज्ञ᳘स्य ब्रह्मा तद्य᳘दिदॗम् म᳘नः सोऽसौ᳘ चन्द्रः स᳘ ब्रह्मा सा मु᳘क्तिः सा᳘तिमुक्तिः॥
मूलम् - विस्वरम्
याज्ञवल्क्येति होवाच । यदिदं सर्वं पूर्वपक्षापरपक्षाभ्यामाप्तम् । सर्वं पूर्वपक्षापरपक्षाभ्यामभिपन्नम् । केन यजमानः पूर्वपक्षापरपक्षयोराप्तिमतिमुच्यत इति । ब्रह्मणर्त्विजा मनसा चन्द्रेण । मनो वै यज्ञस्य ब्रह्मा । तद्यदिदं मनः । सो ऽसौ चन्द्रः । स ब्रह्मा । सा मुक्तिः । सा ऽतिमुक्तिः ॥ ७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
इदानीं तिथ्यादि-लक्षणात् कालात् अतिमुक्तिरुच्यते । वृद्धि-क्षय-शून्ययोरहोरात्रयोरादित्यः कर्ता । न प्रतिपद्-आदीनां तिथीनां तासां तु वृद्धि-क्षय-उपगमनेन चन्द्रमाः । अत आदित्य-प्राप्त्या अहोरात्र-अत्ययवत् चन्द्र-प्राप्त्या पूर्वपक्षापरपक्षात्ययः इत्याह- **याज्ञवल्क्येति होवाच यदिदं सर्वं पूर्वपक्षापरपक्षाभ्यामाप्तमित्यादिना । ‘ब्रह्मणर्त्विजा मनसा चन्द्रेण’ इत्य् अक्षर-न्यासः । तत्राध्यात्मं ‘यज्ञस्य’ यजमानस्य ‘यदिदं’ प्रसिद्धं ‘मनः’ ‘सो ऽसौ’ चन्द्रो ऽधिदैवं मनः । अध्यात्मं चन्द्रमा अधिदैवतमिति ‘हि’ प्रसिद्धम् । स एव चन्द्रो ब्रह्मर्त्विक् । तेन यजमानस्य मनो ब्रह्मेति च साधन-द्वयम् अपरिच्छिन्न-अधिदैवत-चन्द्रात्मना दृष्टं सन्मुक्तिरित्य् अर्थः ॥ ७ ॥
०८
विश्वास-प्रस्तुतिः
(र्य्या᳘) या᳘ज्ञवल्क्ये᳘ति होवाच॥
य᳘दिद᳘मन्त᳘रिक्षमनारम्बण᳘मिवा᳘थ के᳘नाक्रमे᳘ण य᳘जमानः स्वर्ग्गं᳘ लोकमा᳘क्रमत ऽइ᳘त्युद्गात्र᳘र्त्त्वि᳘जा व्वायु᳘ना प्प्राणे᳘न प्प्राणो[[!!]] वै᳘ यज्ञ᳘स्योद्गाता त᳘द्यो ऽय᳘म्प्राण स᳘ व्वायुः स᳘ ऽउद्गाता सा मु᳘क्तिः सा᳘ ऽतिमुक्तिरि᳘त्यतिमोक्षा ऽअ᳘थ सम्प᳘दः॥
मूलम् - श्रीधरादि
(र्य्या᳘) या᳘ज्ञवल्क्ये᳘ति होवाच॥
य᳘दिद᳘मन्त᳘रिक्षमनारम्बण᳘मिवा᳘थ के᳘नाक्रमे᳘ण य᳘जमानः स्वर्ग्गं᳘ लोकमा᳘क्रमत ऽइ᳘त्युद्गात्र᳘र्त्त्वि᳘जा व्वायु᳘ना प्प्राणे᳘न प्प्राणो[[!!]] वै᳘ यज्ञ᳘स्योद्गाता त᳘द्यो ऽय᳘म्प्राण स᳘ व्वायुः स᳘ ऽउद्गाता सा मु᳘क्तिः सा᳘ ऽतिमुक्तिरि᳘त्यतिमोक्षा ऽअ᳘थ सम्प᳘दः॥
मूलम् - Weber
या᳘ज्ञवल्क्ये᳘ति होवाच॥
य᳘दिद᳘मन्त᳘रिक्षमनारम्बण᳘मिवा᳘थ के᳘नाक्रमे᳘ण य᳘जमानः स्वर्गं᳘ लोकमा᳘क्रमत इ᳘त्युद्गात्र᳘र्त्वि᳘जा वायु᳘ना प्राणे᳘न प्राणो᳘ वै᳘ यज्ञ᳘स्योद्गाता तॗद्योऽय᳘म् प्राण स᳘ वायुः स᳘ उद्गाता सा मु᳘क्तिः सा᳘तिमुक्तिरि᳘त्यतिमोक्षा अ᳘थ सम्प᳘दः॥
मूलम् - विस्वरम्
याज्ञवल्क्येति होवाच । यदिदमन्तरिक्षमनारम्बणमिव । अथ केनाक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति । उद्गात्रर्त्विजा वायुना प्राणेन । प्राणो वै यज्ञस्योद्गाता । तद् यः अयं प्राणः । स वायुः स उद्गाता सा मुक्तिः । सा ऽतिमुक्तिः । इत्य् अतिमोक्षाः । अथ सम्पदः ॥ ८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
यजमानस्य कालान्मृत्योरतिमुक्तिर्व्याख्याता । सः अतिमुच्यमानः केनावष्टम्भेन परिच्छेद-विषयं मृत्युमतीत्य फलं प्राप्नोतीत्य् अत आह- याज्ञवल्क्येति होवाच यदिदमन्तरिक्षमित्यादिना । ‘यदिदं’ प्रसिद्धमन्तरिक्षमाकाशः अनारम्बणमनालम्बनमिव भासत इति शेषः । इव-शब्दादस्त्येव तत्रालम्बनं तत्तु न ज्ञायत इत्य् अभिप्रायः । यत्तत् अज्ञातमानम् आलम्बनं तत्केनेति सर्वनाम्ना पृच्छ्यते । अन्यथा फल-प्राप्तेरसम्भवात् येनाक्रमणावष्टम्भेन यजमानः कर्म-फलं प्रतिपद्यमानः अतिमुच्यते किं तत् इति प्रश्न-विषयः । ‘अथ’ ‘केनाक्रमणावष्टम्भेन’ यजमानः स्वर्गं लोकमाक्रमते’ स्वर्गं लोकं फलं प्राप्नोति अतिमुच्यत इत्य् अर्थः । उद्गात्रर्त्विजा वायुना प्राणेनेति । उद्गाता ऋत्विक् अधिभूतं परिच्छिन्नं रूपम् । अध्यात्मं च प्राणः । एतद्द्वयमपरिच्छिन्नेन वायो रूपेण पश्यति । तेन वायुना प्राणेनावलम्बनेन कर्म-फलं स्वर्गं लोकं प्राप्नोति अतिमुच्यत इत्य् अभिप्रायः । एवमनुक्तत्वगादीनामपि वाय्वात्मना दर्शनं वक्तव्यमित्य् अभिप्रेत्योपसंहरति- इतीति । इतीत्युपसंहारार्थं वचनम् । इत्येवं प्रकारान्मृत्योरतिमोक्षा इत्य् अर्थः । ‘अथ सम्पदः’ अथाधुना ‘सम्पदः’ उच्यन्ते । सम्पन्नाम महतां फलवतामश्वमेधादि-कर्मणां कर्मत्वादिना सामान्येनाल्पीयस्सु कर्मसु विवक्षित-फल-सिद्ध्यर्थं सम्पत्तिः सम्पदुच्यते । यथाशक्त्यग्निहोत्रादिनिर्वर्तनेनाश्वमेधादिकर्म मया निर्वर्त्यते इति ध्यानं सम्पदित्य् अर्थः । यद्वा फलस्यैव देवलोकादेरुज्ज्वलत्वादि-सामान्येनाज्याद्याहुतिषु सम्पादनं सम्पदित्य् अर्थः । अतः सम्पद आरभ्यन्ते ॥ ८ ॥
०९
विश्वास-प्रस्तुतिः
(दो) या᳘ज्ञवल्क्ये᳘ति[[!!]] होवाच॥
क᳘तिभि᳘रय᳘म᳘द्यर्ग्भिर्हो᳘ता ऽस्मि᳘न्यज्ञे᳘ करिष्यती᳘ति तिसृ᳘भिरि᳘ति कतमास्तास्ति᳘स्र ऽइ᳘ति पुरो ऽनुवा᳘क्या च या᳘ज्या च श᳘स्यैव᳘ तृती᳘या किन्ता᳘भिर्ज्जयती᳘ति पृथिविलोक᳘मेव᳘ पुरो ऽनुवा᳘क्यया[[!!]] ज᳘यत्यन्तरिक्षलोकं[[!!]] या᳘ज्यया[[!!]] द्यौर्ल्लोकᳫँ᳭ श᳘स्यया॥
मूलम् - श्रीधरादि
(दो) या᳘ज्ञवल्क्ये᳘ति[[!!]] होवाच॥
क᳘तिभि᳘रय᳘म᳘द्यर्ग्भिर्हो᳘ता ऽस्मि᳘न्यज्ञे᳘ करिष्यती᳘ति तिसृ᳘भिरि᳘ति कतमास्तास्ति᳘स्र ऽइ᳘ति पुरो ऽनुवा᳘क्या च या᳘ज्या च श᳘स्यैव᳘ तृती᳘या किन्ता᳘भिर्ज्जयती᳘ति पृथिविलोक᳘मेव᳘ पुरो ऽनुवा᳘क्यया[[!!]] ज᳘यत्यन्तरिक्षलोकं[[!!]] या᳘ज्यया[[!!]] द्यौर्ल्लोकᳫँ᳭ श᳘स्यया॥
मूलम् - Weber
याज्ञ᳘वल्क्ये᳘ति होवाच॥
क᳘तिभिरय᳘मद्य᳘र्ग्भिर्हो᳘तास्मि᳘न्यज्ञे᳘ 3 करिष्यती᳘ति तिसृ᳘भिरि᳘ति कतमास्तास्ति᳘स्र इ᳘ति पुरोऽनुवाॗक्या च याॗज्या च श᳘स्यैव᳘ तृती᳘या किं ता᳘भिर्जयती᳘ति पृथिविलोक᳘मेव᳘ पुरोऽनुवाक्य᳘या ज᳘यत्यन्तरिक्षलोकं᳘ याज्य᳘या द्यौर्लोकं श᳘स्यया॥
मूलम् - विस्वरम्
याज्ञवल्क्येति होवाच । कतिभिरयमद्य ऋग्भिर्होता अस्मिन् यज्ञे करिष्यतीति । तिसृभिरिति । कतमास्तास्तिस्र इति । पुरो ऽनुवाक्या च याज्या च । शस्यैव तृतीया । किं ताभिर्जयतीति । पृथिवीलोकमेव पुरो ऽनुवाक्यया जयति । अन्तरिक्षलोकं याज्यया । द्यौर्लोकं शस्यया ॥ ९ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
सम्पदामारम्भमुपपाद्य प्रश्न-वाक्यमुत्थापयति- याज्ञवल्क्येति होवाच कतिभिरित्यादिना । याज्ञवल्क्येति होवाचेत्यभिमुखीकरणाय । ‘कतिभिः’ कतिसङ्ख्याभिः ‘ऋग्भिः’ ऋग्जातिभिः अयं ‘होता’ ‘अद्यास्मिन्’ ‘यज्ञे’ ‘करिष्यति’ शस्त्रं शंसिष्यति । इत्य् एवमश्वलेन पृष्टो याज्ञवल्क्य आह- तिसृभिरिति । ‘तिसृभिः’ ऋग्जातिभिः । एवमुत्तरमुक्तवन्तं याज्ञवल्क्यं प्रति पुनस्तासां स्वरूपं पृच्छति- कतमास्ता इति । सङ्ख्येयविषयो ऽयं प्रश्नः । पूर्वस्तु सङ्ख्या-विषयः । किंस्वरूपास्तास्तिस्र ऋग्जातय इति पृष्टे उत्तरमाह- पुरो ऽनुवाक्या चेति । प्राक् याग-कालात् होत्रा प्रयुज्यमाना ऋग्जातिः पुरो ऽनुवाक्या इत्य् उच्यते । यागार्थं प्रयुज्यमाना ऋग्जातिः याज्या । शस्त्रार्थं प्रयुज्यमाना ऋग्जातिः शस्या । सैव ‘तृतीया’ त्रिसङ्ख्यापूरणी । याः काश्चन ऋचः स्तोत्रिया वा अन्या वा ताः सर्वा एतास्वेव तिसृषु ऋग्जातिषु अन्तर्भवन्तीत्य् अर्थः । एतासां फलं पृच्छति- किं ताभिरिति । ‘ताभिः’ पुरो ऽनुवाक्याद्याभिः ऋग्जातिभिर्यजमानः ‘किं जयति’ किं फलं प्राप्नुयात् । उत्तरमाह- पृथिवीलोकमेवेति । ‘पुरो ऽनुवाक्यया पृथिवीलोकमेव जयति’ लोक-सम्बन्ध-सामान्यात् । ‘अन्तरिक्षलोकं याज्यया’ मध्यमत्वसामान्यात् । ‘द्यौर्लोकं’ द्युलोकं ‘शस्यया जयति’ ऊर्ध्वत्वसामान्यात् ॥ ९ ॥
१०
विश्वास-प्रस्तुतिः
या᳘ज्ञवल्क्ये᳘ति होवाच॥
क᳘त्यय᳘म᳘द्याध्वर्य्यु᳘रस्मि᳘न्यज्ञ ऽआ᳘हुतीर्होष्यती᳘ति तिस्र ऽइ᳘ति कतमास्तास्ति᳘स्र ऽइ᳘ति या᳘ हुता᳘ ऽउज्ज्व᳘लन्ति या᳘ हुता᳘ ऽअतिने᳘दन्ति या᳘ हुता᳘ ऽअधिशे᳘रते किन्ता᳘भिर्ज्जयती᳘ति या᳘ हुता᳘ ऽउज्ज्व᳘लन्ति देवलोक᳘मेव ता᳘भिर्ज्जयति दीप्य᳘त ऽइव[[!!]] हि᳘ देवलोको या᳘ हुता᳘ ऽअतिने᳘दन्ति मनुष्यलोक᳘मेव ता᳘भिर्ज्जयत्यतीव[[!!]] हि᳘ मनुष्यलोको या᳘ हुता᳘ ऽअधिशे᳘रते पितृलोक᳘मेव ता᳘भिर्ज्जयत्यध᳘ ऽइव हि᳘ पितृलोकः[[!!]]॥
मूलम् - श्रीधरादि
या᳘ज्ञवल्क्ये᳘ति होवाच॥
क᳘त्यय᳘म᳘द्याध्वर्य्यु᳘रस्मि᳘न्यज्ञ ऽआ᳘हुतीर्होष्यती᳘ति तिस्र ऽइ᳘ति कतमास्तास्ति᳘स्र ऽइ᳘ति या᳘ हुता᳘ ऽउज्ज्व᳘लन्ति या᳘ हुता᳘ ऽअतिने᳘दन्ति या᳘ हुता᳘ ऽअधिशे᳘रते किन्ता᳘भिर्ज्जयती᳘ति या᳘ हुता᳘ ऽउज्ज्व᳘लन्ति देवलोक᳘मेव ता᳘भिर्ज्जयति दीप्य᳘त ऽइव[[!!]] हि᳘ देवलोको या᳘ हुता᳘ ऽअतिने᳘दन्ति मनुष्यलोक᳘मेव ता᳘भिर्ज्जयत्यतीव[[!!]] हि᳘ मनुष्यलोको या᳘ हुता᳘ ऽअधिशे᳘रते पितृलोक᳘मेव ता᳘भिर्ज्जयत्यध᳘ ऽइव हि᳘ पितृलोकः[[!!]]॥
मूलम् - Weber
या᳘ज्ञवल्क्ये᳘ति होवाच॥
क᳘त्यय᳘मॗद्याध्वर्यु᳘रस्मि᳘न्यज्ञ आ᳘हुतीर्होष्यती᳘ति तिस्र इ᳘ति कतमास्तास्ति᳘स्र इ᳘ति या᳘ हुता᳘ उज्ज्व᳘लन्ति या᳘ हुता᳘ अतिने᳘दन्ति या᳘ हुता᳘ अधिशे᳘रते किं ता᳘भिर्जयती᳘ति या᳘ हुता᳘ उज्ज्व᳘लन्ति देवलोक᳘मेव ता᳘भिर्जयति दी᳘प्यत इव 4 हि᳘ देवलोको या᳘ हुता᳘ अतिने᳘दन्ति मनुष्यलोक᳘मेव ता᳘भिर्जयत्य᳘तीव हि᳘ मनुष्यलोको या᳘ हुता᳘ अधिशे᳘रते पितृलोक᳘मेव ता᳘भिर्जयत्यध᳘ इव हि᳘ पितृलोकः᳟॥
मूलम् - विस्वरम्
याज्ञवल्क्येति होवाच । कत्ययमद्याध्वर्युरस्मिन् यज्ञे आहुतीर्होष्यतीति । तिस्र इति । कतमास्तास्तिस्र इति । या हुता उज्ज्वलन्ति । या हुता अतिनेदन्ति । या हुता अधिशेरते । किं ताभिर्जयतीति । या हुता उज्ज्वलन्ति देवलोकमेव ताभिर्जयति । दीप्यत इव हि देवलोकः । या हुता अतिनेदन्ति । मनुष्यलोकमेव ताभिर्जयति । अतीव हि मनुष्यलोकः । या हुता अधिशेरते । पितृलोकमेव ताभिर्जयति । अध इव हि पितृलोकः ॥ १० ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवमृग्जातिषु फल-सम्पादने विहिते अध्वर्यु-कृताहुतिषु फल-सम्पादन-जिज्ञासया पृच्छति- याज्ञवल्क्येति होवाच कत्ययमद्याध्वर्युरित्यादिना । समानार्थकमेतत् । ‘या हुताः’ समिदाज्याहुतयः ‘उज्ज्वलन्ति’ । ‘या हुताः’ मांसाद्याहुतयो ऽतिनेदन्ति अतीव शब्दं कुर्वन्ति । ‘या हुताः’ पयःसोमाहुतयो ऽधिशेरते अधि भूमेरधो गत्वा शेरते । किं ताभिर्जयतीति । ताभिरेवं निष्पादिताभिराहुतिभिः किं जयतीति पृष्टे आह- या हुता उज्ज्वलन्तीति । ‘याः’ उज्ज्वलनयुक्ता आहुतयो निर्वर्तिताः । ताभिराहुतिभिर्देवलोकमेव जयति । एता उज्ज्वलन्त्य आहुतयो निर्वर्त्यमानाः साक्षाद्देवलोकस्य कर्म-फलस्य रूपं देवलोकाख्यमुज्ज्वलं फलमेव मया निर्वर्त्यते इत्य् एवं सम्पादयन्ति । कथमित्य् अपेक्षयामुज्ज्वलत्व-सामान्यादित्याह- दीप्यत इवेति । ‘हि’ यस्मात् ‘देवलोको दीप्यत इव’ भासत इव । उज्ज्वल इवेति अभिनय-प्रदर्शनार्थ इव-शब्दः । तथा ‘या आहुतयः अतिनेदन्ति’ अतीव शब्दं कुर्वन्ति । ताभिराहुतिभिर्मनुष्यलोकं ‘जयति’ ‘हि’ यस्मात् अतीवातिकुत्सित-शब्द इव ‘मनुष्यलोकः’ पाप-प्रचुरस्य हि मनुष्यलोकस्य यातना । संयमिन्यां पुर्यां वैवस्वतेन यात्यमानानां हा हताः स्मो मुञ्च मुञ्चेति कुत्सित-शब्दो भवतीत्य् अर्थः । ‘या हुता आहुतयो ऽधिशेरते’ ‘ताभिराहुतिभिः पितृलोकमेव जयति’ । उपरितन-साध्यादि-लोकापेक्षया पाप-प्रचुरत्वेनाधोगमनापेक्षया वा पितृलोकः अध इव वर्तत इत्य् अर्थः ॥ १० ॥
११
विश्वास-प्रस्तुतिः
(को) या᳘ज्ञवल्क्ये᳘ति होवाच॥
क᳘तिभि᳘रय᳘मद्य᳘ ब्ब्र᳘ह्मा᳘ यज्ञ᳘न्दक्षिणतो᳘ देव᳘ताभिर्ग्गोपायिष्यतीत्ये᳘कये᳘ति कतमा सैके᳘ति म᳘न ऽएवे᳘त्यनन्तम्वै म᳘नो ऽनन्ता व्वि᳘श्वे देवा᳘ ऽअनन्त᳘मेव स ते᳘न लोक᳘ञ्जयति॥
मूलम् - श्रीधरादि
(को) या᳘ज्ञवल्क्ये᳘ति होवाच॥
क᳘तिभि᳘रय᳘मद्य᳘ ब्ब्र᳘ह्मा᳘ यज्ञ᳘न्दक्षिणतो᳘ देव᳘ताभिर्ग्गोपायिष्यतीत्ये᳘कये᳘ति कतमा सैके᳘ति म᳘न ऽएवे᳘त्यनन्तम्वै म᳘नो ऽनन्ता व्वि᳘श्वे देवा᳘ ऽअनन्त᳘मेव स ते᳘न लोक᳘ञ्जयति॥
मूलम् - Weber
या᳘ज्ञवल्क्ये᳘ति होवाच॥
क᳘तिभिरय᳘मद्य᳘ 5 ब्रह्मा᳘ यज्ञं᳘ दक्षिणतो᳘ देव᳘ताभिर्गोपायिष्यतीत्ये᳘कये᳘ति कतमा सैके᳘ति म᳘न एवे᳘त्यनन्तं वै म᳘नोऽनन्ता वि᳘श्वे देवा᳘ अनन्त᳘मेव स ते᳘न लोकं᳘ जयति॥
मूलम् - विस्वरम्
याज्ञवल्क्येति होवाच । कतिभिरयमद्य ब्रह्मा यज्ञं दक्षिणतो देवताभिर्गोपायिष्यतीति । एकयेति । कतमा सैकेति । मन एवेति । अनन्तं वै मनः । अनन्ता विश्वे देवाः । अनन्तमेव स तेन लोकं जयति ॥ ११ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
याज्ञवल्क्येति होवाचेति पूर्ववत् ‘अद्यायं’ ‘ब्रह्मा’ ऋत्विक् आहवनीयस्य ‘दक्षिणतः’ ब्रह्मासने स्थित्वा कतिभिर्देवताभिर्यज्ञं ‘गोपायिष्यति’ रक्षिष्यति । कतिभिरिति पूर्वयोः कण्डिकयोः प्रश्न-प्रतिवचनेषु तिस्र इति प्रसङ्गदृष्ट्या इहापि बहुवचनेनैव प्रश्नोपक्रमः क्रियते । अथवा, प्रतिवादि-व्यामोहार्थं बहुवचनं बोध्यव्यम् । उत्तरमाह- एकयेति । यया दक्षिणतो ब्रह्मासने स्थित्वा यज्ञं गोपायति सैका देवतेत्य् अर्थः । कतमा सैकेति मन एवेति । ‘मन एव’ देवता । मनसा हि ध्यानेनैव ब्रह्मा व्याप्रियते अतो मन एवैका देवता तया यज्ञं गोपायतीति भावः । अस्मिन्मनसि सम्पाद्यमानं फलमपृष्टमपि मुनिराह- अनन्तं वै मन इति । वै-शब्दः प्रसिद्ध्यवद्योतनार्थः । तच्च मनोवृत्ति-भेदेनानन्तं ‘वै’ प्रसिद्धम् । तदानत्याभिमानिनः ‘विश्वे देवाः’ सर्वे देवाश्चानन्ताः । तस्मात्स उपासकः तेन मनसि वैश्वदेव-दृष्ट्यध्यासेनानन्त्य-सामान्यादनन्तमेव लोकं जयतीत्य् अर्थः ॥ ११ ॥
१२
विश्वास-प्रस्तुतिः
या᳘ज्ञवल्क्ये᳘ति होवाच॥
क᳘त्यय᳘म᳘द्योद्गा᳘ता ऽस्मि᳘न्यज्ञे᳘ स्तोत्रि᳘या स्तोष्यती᳘ति तिस्र ऽइ᳘ति कतमास्तास्ति᳘स्र ऽइ᳘ति पुरो ऽनुवा᳘क्या च या᳘ज्या च श᳘स्यैव᳘ तृती᳘या ऽधिदेवतम᳘थाध्यात्म᳘ङ्कतमास्ता या᳘ ऽअध्यात्ममि᳘ति प्प्राण᳘ ऽएव᳘ पुरो ऽनुवा᳘क्या ऽपानो᳘[[!!]] या᳘ज्या व्व्यानः᳘ श᳘स्या किन्ता᳘भिर्ज्जयती᳘ति यत्कि᳘ञ्चेद᳘म्प्राणभृदि᳘ति ततो[[!!]] ह हो᳘ता ऽश्वल ऽउ᳘परराम॥
मूलम् - श्रीधरादि
या᳘ज्ञवल्क्ये᳘ति होवाच॥
क᳘त्यय᳘म᳘द्योद्गा᳘ता ऽस्मि᳘न्यज्ञे᳘ स्तोत्रि᳘या स्तोष्यती᳘ति तिस्र ऽइ᳘ति कतमास्तास्ति᳘स्र ऽइ᳘ति पुरो ऽनुवा᳘क्या च या᳘ज्या च श᳘स्यैव᳘ तृती᳘या ऽधिदेवतम᳘थाध्यात्म᳘ङ्कतमास्ता या᳘ ऽअध्यात्ममि᳘ति प्प्राण᳘ ऽएव᳘ पुरो ऽनुवा᳘क्या ऽपानो᳘[[!!]] या᳘ज्या व्व्यानः᳘ श᳘स्या किन्ता᳘भिर्ज्जयती᳘ति यत्कि᳘ञ्चेद᳘म्प्राणभृदि᳘ति ततो[[!!]] ह हो᳘ता ऽश्वल ऽउ᳘परराम॥
मूलम् - Weber
या᳘ज्ञवल्क्ये᳘ति होवाच॥
क᳘त्यय᳘मॗद्योद्गाॗतास्मि᳘न्यज्ञे᳘ स्तोत्रि᳘या स्तोष्यती᳘ति तिस्र इ᳘ति कतमास्तास्ति᳘स्र इ᳘ति पुरोऽनुवाॗक्या च याॗज्या च श᳘स्यैव᳘ तृती᳘याधिदेवतम᳘थाध्यात्मं᳘ कतमास्ता या᳘ अध्यात्ममि᳘ति प्राण᳘ एव᳘ पुरोनुॗवाक्यापानो᳘ याॗज्या व्यानः श᳘स्या 6 किं ता᳘भिर्जयती᳘ति यत्किं᳘ चेद᳘म् प्राणभृदि᳘ति त᳘तो ह हो᳘ताश्वल उ᳘परराम॥
मूलम् - विस्वरम्
याज्ञवल्क्येति होवाच । कत्ययमद्योद्गाता ऽस्मिन् यज्ञे स्तोत्रियाः स्तोष्यतीति । तिस्र इति । कतमास्तास्तिस्र इति । पुरो ऽनुवाक्या च, याज्या च, शस्यैव तृतीया । अधिदेवतम् । अथाध्यात्मम् । कतमास्ताः । या अध्यात्ममिति । प्राण एव पुरो ऽनुवाक्या । अपानो याज्या । व्यानः शस्या । किं ताभिर्जयतीति । यत्किञ्चेदं प्राणभृदिति । ततो ह होता अश्वल उपरराम ॥ १२ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
याज्ञवल्क्येति होवाचेति पूर्ववत् । ‘कति स्तोत्रियाः स्तोष्यतीति’ । स्तोत्रिया नाम गीति-विशिष्टा ऋग्-जातयः । समानमन्यत् । प्रतिवचनमुपादत्ते- पुरो ऽनुवाक्या च याज्या च शस्यैव तृतीया ऽधिदेवतमिति । एताश्च पुरो ऽनुवाक्यादयो व्याख्याताः । ‘अधिदेवतमिति’ यज्ञाधिकारादधियज्ञमिति बोधव्यम् । अधियज्ञं पुरो ऽनुवाक्यादयो गीति-रूपेण वर्तमाना अधि-यज्ञ-संज्ञका इत्य् एतदवगतम् । परं तु केन रूपेण ताः पुनरध्यात्मं भवन्तीति पृच्छति- कतमास्ता इति । ‘या अध्यात्मं’ स्तोत्रियाः तिस्र ऋचः कास्ता इति पृष्टे उत्तरमाह- प्राण एव पुरो ऽनुवाक्येत्य् आदिना । ‘प्राण एव पुरो ऽनुवाक्या’ प्राण-पुरोनुवाक्योः पकारादित्वसामान्यात् । ‘अपानो याज्या’ अपान-याज्ययोः प्राणपुरो ऽनुवाक्याभ्यामनन्तर्यसामान्यात् । ‘व्यानः शस्या’ “अप्राणन्ननपाननृचमभिव्याहरन्” इति श्रुत्यन्तरे शस्त्र-प्रयोगस्य प्राणापान-व्यापार-व्यतिरेकेण सिद्धत्वात् व्याने शस्यादृष्टिरिति भावः । एवं प्राणादिषु पुरो ऽनुवाक्यादि-दृष्टिकरणस्य फलं पृच्छति- किं ताभिर्जयतीति । एवं पृष्टे उत्तरमाह- यत्किञ्चेदं प्राणभृदिति । प्राणभृत्-प्राणि-जातं यत्किञ्चेदस्ति तत्सर्वं ‘जयति’ सर्व-प्राण्यात्मक-भूरादि-लोक-त्रय-सङ्ख्या-सामान्यात् । पूर्वं विशेषत उक्तस्य सामान्येन उक्तिरियम् । ‘ततो ह’ तस्मादात्मनः प्रश्न-निर्णयात् असाव् अश्वलः ‘होता’ ‘नायमस्मद्गोचर’ इत्य् अभिप्रायेणोपरराम ॥ १२ ॥
इति श्री-हृषीकेश-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठकानिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहद्-आरण्यक-टीकायां वासुदेव-प्रकाशिकायां मध्यमे मुनि-काण्डे याज्ञवल्क्य-काण्डे वा तृतीये ऽध्याये प्रथममश्वल-ब्राह्मणं परिसमाप्तम् (॥ १४ । (६) । ३ । १ ॥)
-
“निष्कमस्त्री साष्ट-हेम-शते दीनार-कर्षयोः । वक्षो ऽलङ्करणे हेम-पात्रे हेम-पदे ऽपि चेति मेदिनी साष्टे शते सुवर्णानां हेम्न्युरो-भूषणे पले । दीनारे ऽपि च निष्को ऽस्त्री” इत्यमर-नानार्थः ॥ ↩︎
-
“गुञ्जाः पञ्चाद्य-माषकः । ते षोडशाक्षः कर्षो ऽस्त्री पलं कर्ष-चतुष्टयम् । सुवर्ण-बिस्तौ हेम्नो ऽक्षे” इत्यमरे वैश्यवगः ॥ ↩︎
-
क᳘तिभि᳘रय᳘ AM ↩︎
-
दीप्य᳘तऽइव AM. ↩︎
-
क᳘तिभि᳘रय᳘ AM ↩︎
-
व्यानः᳘ शस्या A. ↩︎