०१
विश्वास-प्रस्तुतिः
इय᳘म्पृथिवी[[!!]]॥
स᳘र्व्वेषाम्भूता᳘नाम्म᳘ध्वस्यै᳘ पृथिव्यै स᳘र्व्वाणि भू᳘तानि म᳘धु य᳘श्चाय᳘मस्या᳘म्पृथिव्या᳘न्तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्म᳘ᳫँ᳘ शारीर᳘स्तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो ऽय᳘मेव स᳘ यो ऽय᳘मा᳘त्मेद᳘ममृ᳘तमिदम्ब्र᳘ह्मेदᳫँ᳭ स᳘र्व्वम्॥
मूलम् - श्रीधरादि

मूलम् - Weber
इय᳘म् पृथिवी᳟॥
स᳘र्वेषाम् भूता᳘नाम् म᳘ध्वस्यै᳘ पृथिव्यै स᳘र्वाणि भू᳘तानि म᳘धु य᳘श्चाय᳘मस्या᳘म् पृथिव्यां᳘ तेजोम᳘योऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्मं᳘ शारीर᳘स्तेजोम᳘योऽमृतम᳘यः पु᳘रुषोऽय᳘मेव सॗ योऽय᳘माॗत्मेद᳘ममृ᳘तमिदम् ब्र᳘ह्मेदᳫं स᳘र्वम्॥
मूलम् - विस्वरम्
मधुब्राह्मणम् ।
इयं पृथिवी सर्वेषां भूतानां मधु । अस्यै पृथिव्यै सर्वाणि भूतानि मधु । यश्चायमस्यां पृथिव्यां तेजोमयः अमृतमयः पुरुषः । यश्चायमध्यात्मं शारीरस्तेजोमयः अमृतमयः पुरुषः । अयमेव सः । यः अयमात्मा इदममृतमिदं ब्रह्मेदं सर्वम् ॥ १ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
पूर्वं मैत्रेयीब्राह्मणे “इदं सर्वं यदयमात्मा” इति प्रतिज्ञातस्य आत्मन उत्पत्तिस्थितिलयहेतुत्वमुक्त्वा प्रतिज्ञातस्यार्थस्य निगमनार्थं मधुब्राह्मणमारभ्यते- इयं पृथिवीति । ‘इयं’ प्रसिद्धा ‘पृथिवी’ ‘सर्वेषां भूतानां’ ब्रह्मादिस्तम्बपर्यन्तानां प्राणिनां ‘मधु’ कार्यं मध्विव मधु । यथा एको मध्वपूपः अनेकैर्मधुकरैनिर्वर्तितः एवमियं पृथिवी सर्वभूतनिर्वर्तिता इत्यर्थः । तथा ‘अस्यै पृथिव्यै’ अस्याः पृथिव्याः ‘सर्वाणि भूतानि मधु’ कार्यम् । किञ्च- ‘अस्यां पृथिव्यां’ ‘यश्चायं’ तेजोमयश्चिन्मात्रप्रकाशमयः अमृतमयो ऽमरणधर्मा ‘पुरुषः’ । ‘यश्चायमध्यात्मं’ आत्मानं शरीरमधिकृत्य वर्तत इति अध्यात्मम् । ‘शारीरः’ शरीरे भवः । पूर्ववत् ‘तेजोमयो ऽमृतमयः पुरुषः’ सर्वलिङ्गाभिमानी इत्येवं उभयविधो ऽपि पुरुषः ‘सर्वेषां भूतानां’ उपकारकत्वात् करणत्वेन ‘मधु’ । ‘सर्वाणि भूतानि’ अस्य कार्यत्वेन मधु इति चशब्दसामर्थ्यात् व्याख्येयम् । पृथिवी सर्वाणि भूतानि पार्थिवः पुरुषः शारीरश्च इत्येवमेतच्चतुष्टयं एकं मधु सर्वभूतकार्यम् । सर्वाणि च भूतानि अस्य पृथिव्यादेः कार्यम् । अतो ऽस्य पृथिव्यादेः परस्परमुपकार्योपकारकभावः । यस्मादेकस्मात्कारणात् एतज्जातं तदेव एकं परमार्थतो ब्रह्म । इतरत्कार्यं च आरम्भणं विकारो नामधेयमात्रम्, इत्याशयेनाह- अयमेवेति । ‘अयमेव सः’ यो ऽयं पूर्वं मैत्रेय्यै “इदं सर्वं यदयमात्मा” (४ ब्रा. कं. २) इति प्रतिज्ञातः स एवात्मा अयमुक्तश्चतुर्विधमध्वात्मकः, नान्यः । इदं चतुष्टयकल्पना ऽधिष्ठानब्रह्मविषयं ज्ञानं अमृतत्वसाधनं इदमेवात्मतत्त्वं “ब्रह्म ते ब्रवाणि व्येव ते ज्ञपयिष्यामि” इति अध्यायादौ प्रकृतं ब्रह्म यद्विषया विद्या ब्रह्मविद्या इत्युच्यते । ‘इदमेव सर्वं’ सर्वाप्तिसाधनं, यस्माद्ब्रह्मणो विज्ञानात् सर्वं भवति । नान्यत् किञ्चिदस्तीत्यर्थः । एवमन्ये ऽपि मधुपर्याया व्याख्येयाः ॥ १ ॥
०२
विश्वास-प्रस्तुतिः
(मि) इमा ऽआ᳘पः॥
स᳘र्व्वेषाम्भूता᳘नाम्म᳘ध्वासा᳘मपाᳫँ᳭ स᳘र्व्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मा᳘स्वप्सु[[!!]] तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्म᳘ᳫँ᳘ रैतस᳘स्तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो ऽय᳘मेव स᳘ यो ऽय᳘मा᳘त्मेद᳘ममृ᳘तमिदम्ब्र᳘ह्मेदᳫँ᳭ स᳘र्व्वम् ॥
मूलम् - श्रीधरादि
(मि) इमा ऽआ᳘पः॥
स᳘र्व्वेषाम्भूता᳘नाम्म᳘ध्वासा᳘मपाᳫँ᳭ स᳘र्व्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मा᳘स्वप्सु[[!!]] तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्म᳘ᳫँ᳘ रैतस᳘स्तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो ऽय᳘मेव स᳘ यो ऽय᳘मा᳘त्मेद᳘ममृ᳘तमिदम्ब्र᳘ह्मेदᳫँ᳭ स᳘र्व्वम् ॥
मूलम् - Weber
इमा आ᳘पः॥
स᳘र्वेषाम् भूता᳘नाम् म᳘ध्वासा᳘मपाᳫं स᳘र्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मास्व᳘प्सु᳘ तेजोम᳘योऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्मं᳘ रैतस᳘स्तेजोम᳘योऽमृतम᳘यः पु᳘रुषोऽय᳘मेव सॗ योऽय᳘माॗत्मेद᳘ममृ᳘तमिदम् ब्र᳘ह्मेदᳫं स᳘र्वम् ॥
मूलम् - विस्वरम्
इमा आपः सर्वेषां भूतानां मधु । आसामपां सर्वाणि भूतानि मधु । यश्चायमास्वप्सु तेजोमयः अमृतमयः पुरुषः । यश्चायमध्यात्मं रैतसस्तेजोमयः अमृतमयः पुरुषः । अयमेव सः । यः अयमात्मा इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तथा ‘आपो मधु’ । ‘अध्यात्मं रैतसः पुरुषः’ रेतसि भवो रैतसः । रेतस्यपां विशेषतो ऽवस्थानम् “आपो रेतो भूत्वा शिश्नं प्राविशन्” (ऐ. आ. २-४) इति श्रुत्यन्तरात् ॥ २॥
०३
विश्वास-प्रस्तुतिः
(म) अय᳘मग्निः[[!!]]॥
स᳘र्व्वेषाम्भूता᳘नाम्म᳘ध्वस्याग्नेः स᳘र्व्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्मि᳘न्नग्नौ᳘ तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्म᳘म्वाङ्मय᳘स्तेजोम᳘यो ऽमृतम᳘यः[[!!]] पु᳘रुषो ऽय᳘मेव स᳘ यो ऽय᳘मा᳘त्मेद᳘ममृ᳘तमिदम्ब्र᳘ह्मेदᳫँ᳭ स᳘र्व्वम् ॥
मूलम् - श्रीधरादि
(म) अय᳘मग्निः[[!!]]॥
स᳘र्व्वेषाम्भूता᳘नाम्म᳘ध्वस्याग्नेः स᳘र्व्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्मि᳘न्नग्नौ᳘ तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्म᳘म्वाङ्मय᳘स्तेजोम᳘यो ऽमृतम᳘यः[[!!]] पु᳘रुषो ऽय᳘मेव स᳘ यो ऽय᳘मा᳘त्मेद᳘ममृ᳘तमिदम्ब्र᳘ह्मेदᳫँ᳭ स᳘र्व्वम् ॥
मूलम् - Weber
अय᳘मग्निः᳟॥
स᳘र्वेषाम् भूता᳘नाम् म᳘ध्वस्याग्नेः स᳘र्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्मि᳘न्नग्नौ᳘ तेजोम᳘योऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्मं᳘ वाङ्म᳘यस्तेजोम᳘योऽमृतम᳘यः पु᳘रुषोऽय᳘मेव सॗ योऽय᳘माॗत्मेद᳘ममृ᳘तमिदम् ब्र᳘ह्मेदᳫं स᳘र्वम् ॥
मूलम् - विस्वरम्
अयमग्निः सर्वेषां भूतानां मधु । अस्याग्नेः सर्वाणि भूतानि मधु । यश्चायमस्मिन्नग्नौ तेजोमयो ऽमृतमयः पुरुषः । यश्चायमध्यात्मं वाङ्मयस्तेजोमयः अमृतमयः पुरुषः । अयमेव सः । यः अयमात्मा इदममृतमिदं ब्रह्मेदं सर्वम् ॥ ३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तथा ‘अग्निर्मधु’ । वाङ्मयो वागभिमानी पुरुषो ऽग्निरध्यात्मम् । वाच्यग्नेर्विशेषतो ऽवस्थानम् “अग्निर्वाग्भूत्वा मुखं प्राविशत्” । (ऐ. आ. २-४) इति श्रुतेः ॥ ३ ॥
०४
विश्वास-प्रस्तुतिः
(म) अय᳘माकाशः[[!!]]॥
स᳘र्व्वेषाम्भूता᳘नाम्म᳘ध्वस्याकाश᳘स्य स᳘र्व्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्मि᳘न्नाकाशे᳘ तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्म᳘ᳫँ᳘ हृ᳘द्याकाश᳘स्तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो ऽय᳘मेव स᳘ यो ऽय᳘मा᳘त्मेद᳘ममृ᳘तमिदम्ब्र᳘ह्मेदᳫँ᳭ स᳘र्व्वम् ॥
मूलम् - श्रीधरादि
(म) अय᳘माकाशः[[!!]]॥
स᳘र्व्वेषाम्भूता᳘नाम्म᳘ध्वस्याकाश᳘स्य स᳘र्व्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्मि᳘न्नाकाशे᳘ तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्म᳘ᳫँ᳘ हृ᳘द्याकाश᳘स्तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो ऽय᳘मेव स᳘ यो ऽय᳘मा᳘त्मेद᳘ममृ᳘तमिदम्ब्र᳘ह्मेदᳫँ᳭ स᳘र्व्वम् ॥
मूलम् - Weber
अय᳘माकाशः᳟॥
स᳘र्वेषाम् भूता᳘नाम् म᳘ध्वस्याकाश᳘स्य स᳘र्वाणि भूतानि म᳘धु य᳘श्चाय᳘मस्मि᳘न्नाकाशे᳘ तेजोम᳘योऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्म᳘ᳫं᳘ हृॗद्याकाश᳘स्तेजोम᳘योऽमृतम᳘यः पु᳘रुषोऽय᳘मेव सॗ योऽय᳘माॗत्मेद᳘ममृ᳘तमिदम् ब्र᳘ह्मेदᳫं स᳘र्वम् ॥
मूलम् - विस्वरम्
अयमाकाशः सर्वेषां भूतानां मधु । अस्याकाशस्य सर्वाणि भूतानि मधु । यश्चायमस्मिन्नाकाशे तेजोमयो ऽमृतमयः पुरुषः । यश्चायमध्यात्मं हृद्याकाशस्तेजोमयो ऽमृतमयः पुरुषः । अयमेव स । यः अयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तथा ‘आकाशो मधु’ । ‘अध्यात्मं हृद्याकाशः’ हृदयाकाशः । “य एषोन्तर्हृदय ऽआकाशः” (श. प. १४-५-१-१७) इत्यादिना पूर्वं व्याख्यातः ॥ ४ ॥
०५
विश्वास-प्रस्तुतिः
(म) अय᳘म्वायुः[[!!]]॥
स᳘र्व्वेषाम्भूता᳘नाम्म᳘ध्वस्य व्वायोः स᳘र्व्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्मि᳘न्वायौ᳘ तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्म᳘म्प्राण᳘स्तेजोम᳘यो ऽमृतम᳘यः पुरुषो ऽय᳘मेव[[!!]] स᳘ यो ऽय᳘मा᳘त्मेद᳘ममृ᳘तमिदम्ब्र᳘ह्मेदᳫँ᳭ स᳘र्व्वम् ॥
मूलम् - श्रीधरादि
(म) अय᳘म्वायुः[[!!]]॥
स᳘र्व्वेषाम्भूता᳘नाम्म᳘ध्वस्य व्वायोः स᳘र्व्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्मि᳘न्वायौ᳘ तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्म᳘म्प्राण᳘स्तेजोम᳘यो ऽमृतम᳘यः पुरुषो ऽय᳘मेव[[!!]] स᳘ यो ऽय᳘मा᳘त्मेद᳘ममृ᳘तमिदम्ब्र᳘ह्मेदᳫँ᳭ स᳘र्व्वम् ॥
मूलम् - Weber
अयं᳘ वायुः᳟॥
स᳘र्वेषाम् भूता᳘नाम् म᳘ध्वस्य वायोः स᳘र्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्मि᳘न्वायौ᳘ तेजोम᳘योऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्म᳘म् प्राण᳘स्तेजोम᳘योऽमृतम᳘यः पु᳘रुषोऽय᳘मेव सॗ योऽय᳘माॗत्मेद᳘ममृ᳘तमिदम् ब्र᳘ह्मेदᳫं स᳘र्वम् ॥
मूलम् - विस्वरम्
अयं वायुः सर्वेषां भूतानां मधु । अस्य वायोः सर्वाणि भूतानि मधु । यश्चायमस्मिन् वायौ तेजोमयः अमृतमयः पुरुषः । यश्चायमध्यात्मं प्राणस्तेजोमयः अमृतमयः पुरुषः । अयमेव सः । यः अयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तथा ‘वायुर्मधु’ । ‘अध्यात्मं प्राणः’ प्राणेन्द्रियम् । “वायुः प्राणो भूत्वा नासिके प्राविशत्” । (ऐ. आ. २-४) इति श्रुत्यन्तरात् । भूतानां शरीरारम्भकत्वेनोपकारान्मधुत्वं, तदन्तर्गतानां तेजोमयादीनां करणत्वेनोपकारान्मधुत्वम् ॥ ५ ॥
०६
विश्वास-प्रस्तुतिः
(म) अ᳘यमादित्यः[[!!]]॥
स᳘र्व्वेषाम्भूता᳘नाम्म᳘ध्वस्यादित्य᳘स्य स᳘र्व्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्मि᳘न्नादित्ये᳘ तेजोम᳘यो ऽमृतम᳘यः पुरुषो[[!!]] य᳘श्चाय᳘मध्यात्म᳘ञ्चाक्षुष᳘स्तेजोम᳘यो ऽमृतम᳘यः पुरुषो ऽय᳘मेव[[!!]] स᳘ यो ऽय᳘मा᳘त्मेद᳘ममृ᳘तमिदम्ब्र᳘ह्मेदᳫँ᳭ स᳘र्व्वम् ॥
मूलम् - श्रीधरादि
(म) अ᳘यमादित्यः[[!!]]॥
स᳘र्व्वेषाम्भूता᳘नाम्म᳘ध्वस्यादित्य᳘स्य स᳘र्व्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्मि᳘न्नादित्ये᳘ तेजोम᳘यो ऽमृतम᳘यः पुरुषो[[!!]] य᳘श्चाय᳘मध्यात्म᳘ञ्चाक्षुष᳘स्तेजोम᳘यो ऽमृतम᳘यः पुरुषो ऽय᳘मेव[[!!]] स᳘ यो ऽय᳘मा᳘त्मेद᳘ममृ᳘तमिदम्ब्र᳘ह्मेदᳫँ᳭ स᳘र्व्वम् ॥
मूलम् - Weber
अ᳘यमादित्यः᳟॥
स᳘र्वेषाम् भूता᳘नाम् म᳘ध्वस्यादित्य᳘स्य स᳘र्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्मि᳘न्नादित्ये᳘ तेजोम᳘योऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्मं᳘ चक्षुष᳘स्तेजोम᳘योऽमृतम᳘यः पु᳘रुषोऽय᳘मेव सॗ योऽय᳘माॗत्मेद᳘ममृ᳘तमिदम् ब्र᳘ह्मेदᳫं स᳘र्वम् ॥
मूलम् - विस्वरम्
अयमादित्यः सर्वेषां भूतानां मधु । अस्यादित्यस्य सर्वाणि भूतानि मधु । यश्चायमस्मिन् आदित्ये तेजोमयः अमृतमयः पुरुषः । यश्चायमध्यात्मं चाक्षुषस्तेजोमयः अमृतमयः पुरुषः । अयमेव सः । यः अयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तथा ‘आदित्यो मधु’ । ‘चाक्षुषः’ ‘पुरुषः अध्यात्मम्’ । “आदित्यश्चक्षुर्भूत्वा ऽक्षिणी प्राविशत्” (ऐ. आ. २-४) इति श्रुतेः ॥ ६ ॥
०७
विश्वास-प्रस्तुतिः
(म) अय᳘ञ्चन्द्रः[[!!]]॥
स᳘र्व्वेषाम्भूता᳘नाम्म᳘ध्वस्य चन्द्र᳘स्य स᳘र्व्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्मिँ᳘श्चन्द्रे᳘ तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्म᳘म्मानस᳘स्तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो ऽय᳘मेव स᳘ यो ऽय᳘मा᳘त्मेद᳘ममृ᳘तमिदम्ब्र᳘ह्मेदᳫँ᳭ स᳘र्व्वम् ॥
मूलम् - श्रीधरादि
(म) अय᳘ञ्चन्द्रः[[!!]]॥
स᳘र्व्वेषाम्भूता᳘नाम्म᳘ध्वस्य चन्द्र᳘स्य स᳘र्व्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्मिँ᳘श्चन्द्रे᳘ तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्म᳘म्मानस᳘स्तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो ऽय᳘मेव स᳘ यो ऽय᳘मा᳘त्मेद᳘ममृ᳘तमिदम्ब्र᳘ह्मेदᳫँ᳭ स᳘र्व्वम् ॥
मूलम् - Weber
अयं᳘ चन्द्रः᳟॥
स᳘र्वेषाम् भूता᳘नाम् म᳘ध्वस्य चन्द्र᳘स्य स᳘र्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्मिं᳘श्चन्द्रे᳘ तेजोम᳘योऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्म᳘म् मानस᳘स्तेजोम᳘योऽमृतम᳘यः पु᳘रुषोऽय᳘मेव सॗ योऽय᳘माॗत्मेद᳘ममृ᳘तमिदम् ब्र᳘ह्मेदᳫं स᳘र्वम् ॥
मूलम् - विस्वरम्
अयं चन्द्रः सर्वेषां भूतानां मधु । अस्य चन्द्रस्य सर्वाणि भूतानि मधु । यश्चायमस्मिन् चन्द्रे तेजोमयः अमृतमयः पुरुषः । यश्चायमध्यात्मं मानसस्तेजोमयः अमृतमयः पुरुषः । अयमेव सः । यः अयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तथा ‘चन्द्रो मधु’ । ‘अध्यात्मं मानसश्चन्द्रमाः’ । “चन्द्रमा मनो भूत्वा हृदयं प्राविशत्” (ऐ. आ. २ । ४) इति श्रुतेः ॥ ७ ॥
०८
विश्वास-प्रस्तुतिः
(मि) इमा दि᳘शः॥
स᳘र्व्वेषाम्भूता᳘नाम्म᳘ध्वासा᳘न्दिशाᳫँ᳭ स᳘र्व्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मासु[[!!]] दिक्षु᳘ तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्म᳘ᳫँ᳘ श्रौत्रः᳘ प्प्रातिश्रुत्क᳘स्तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो ऽय᳘मेव स᳘ यो ऽय᳘मा᳘त्मेद᳘ममृ᳘तमिदम्ब्र᳘ह्मेदᳫँ᳭ स᳘र्व्वम् ॥
मूलम् - श्रीधरादि
(मि) इमा दि᳘शः॥
स᳘र्व्वेषाम्भूता᳘नाम्म᳘ध्वासा᳘न्दिशाᳫँ᳭ स᳘र्व्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मासु[[!!]] दिक्षु᳘ तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्म᳘ᳫँ᳘ श्रौत्रः᳘ प्प्रातिश्रुत्क᳘स्तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो ऽय᳘मेव स᳘ यो ऽय᳘मा᳘त्मेद᳘ममृ᳘तमिदम्ब्र᳘ह्मेदᳫँ᳭ स᳘र्व्वम् ॥
मूलम् - Weber
इमा दि᳘शः॥
स᳘र्वेषाम् भूता᳘नाम् म᳘ध्वासां᳘ दिशाᳫं स᳘र्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मासु᳘ दिक्षु᳘ तेजोम᳘योऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्मं᳘ श्रौत्रः᳘ प्रातिश्रुत्क᳘स्तेजोम᳘योऽमृतम᳘यः पु᳘रुषोऽय᳘मेव सॗ योऽय᳘माॗत्मेद᳘ममृ᳘तमिदम् ब्र᳘ह्मेदᳫं स᳘र्वम् ॥
मूलम् - विस्वरम्
इमा दिशः सर्वेषां भूतानां मधु । आसां दिशां सर्वाणि भूतानि मधु । यश्चायमासु दिक्षु तेजोमयः अमृतमयः पुरुषः । यश्चायमध्यात्मं श्रौत्रः प्रातिश्रुत्कस्तेजोमयः अमृतमयः पुरुषः । अयमेव सः । यः अयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तथा ‘दिशो मधु’ । यद्यपि दिशां श्रोत्रमध्यात्मम् । तथा ऽपि शब्दप्रतिश्रवणवेलायां तु विशेषतः सन्निहितो भवति इत्यध्यात्मं प्रातिश्रुत्क इति विशेषणम् । प्रतिश्रुत्कायां प्रतिश्रवणवेलायां भवः ‘प्रातिश्रुत्कः’ । “दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन्” (ऐ. आ. २ । ४) इति श्रुतेः ॥ ८ ॥
०९
विश्वास-प्रस्तुतिः
(मि) इय᳘म्विद्युत्[[!!]]॥
(त्स᳘) स᳘र्व्वेषाम्भूता᳘नाम्म᳘ध्वस्यै᳘ व्विद्यु᳘तः स᳘र्व्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्या᳘म्विद्यु᳘ति तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्म᳘न्तैजस᳘स्तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो ऽय᳘मेव स᳘ यो ऽय᳘मा᳘त्मेद᳘ममृ᳘तमिदम्ब्र᳘ह्मेदᳫँ᳭ स᳘र्व्वम् ॥
मूलम् - श्रीधरादि
(मि) इय᳘म्विद्युत्[[!!]]॥
(त्स᳘) स᳘र्व्वेषाम्भूता᳘नाम्म᳘ध्वस्यै᳘ व्विद्यु᳘तः स᳘र्व्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्या᳘म्विद्यु᳘ति तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्म᳘न्तैजस᳘स्तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो ऽय᳘मेव स᳘ यो ऽय᳘मा᳘त्मेद᳘ममृ᳘तमिदम्ब्र᳘ह्मेदᳫँ᳭ स᳘र्व्वम् ॥
मूलम् - Weber
इयं᳘ विद्यु᳘त्॥
स᳘र्वेषाम् भूता᳘नाम् म᳘ध्वस्यै᳘ विद्यु᳘तः स᳘र्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्यां᳘ विद्यु᳘ति तेजोम᳘योऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्मं᳘ तैजस᳘स्तेजोम᳘योऽमृतम᳘यः पु᳘रुषोऽय᳘मेव सॗ योऽय᳘माॗत्मेद᳘ममृ᳘तमिदम् ब्र᳘ह्मेदᳫं स᳘र्वम् ॥
मूलम् - विस्वरम्
इयं विद्युत्सर्वेषां भूतानां मधु । अस्यै विद्युतः सर्वाणि भूतानि मधु । यश्चायमस्यां विद्युति तेजोमयः अमृतमयः पुरुषः । यश्चायमध्यात्मं तैजसस्तेजोमयः अमृतमयः पुरुषः । अयमेव सः । यः अयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ९ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तथा ‘विद्युत्’ त्वगिन्द्रियं ‘मधु’ । तेजसि भवः ‘तैजसः अध्यात्मम्’ ॥ ९ ॥
१०
विश्वास-प्रस्तुतिः
(म) अय᳘ᳫँ᳘ स्तनयित्नुः[[!!]]॥
स᳘र्व्वेषाम्भूता᳘नाम्म᳘ध्वस्य स्तनयित्नोः स᳘र्व्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्मि᳘न्त्स्तनयित्नौ᳘ तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्म᳘ᳫँ᳘ शाब्दः᳘ सौवर᳘स्तेजोम᳘यो ऽमृतम᳘यः पुरुषो ऽय᳘मेव[[!!]] स᳘ यो ऽय᳘मा᳘त्मेद᳘ममृ᳘तमिदम्ब्र᳘ह्मेदᳫँ᳭ स᳘र्व्वम् ॥

अय᳘ᳫं᳘ स्तनयित्नुः᳟॥
स᳘र्वेषाम् भूता᳘नाम् म᳘ध्वस्य स्तनयित्नोः स᳘र्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्मि᳘न्त्स्तनयित्नौ᳘ तेजोम᳘योऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्मं᳘ शाब्दः᳘ सौवर᳘स्तेजोम᳘योऽमृतम᳘यः पु᳘रुषोऽय᳘मेव सॗ योऽय᳘माॗत्मेद᳘ममृ᳘तमिदम् ब्र᳘ह्मेदᳫं स᳘र्वम् ॥
मूलम् - विस्वरम्
अयं स्तनयित्नुः सर्वेषां भूतानां मधु । अस्य स्तनयित्नोः सर्वाणि भूतानि मधु । यश्चायमस्मिन् स्तनयित्नौ तेजोमयः अमृतमयः पुरुषः । यश्चायमध्यात्मं शाब्दः सौवरस्तेजोमयः अमृतमयः पुरुषः । अयमेव सः । यो ऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ १० ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तथा ‘स्तनयित्नुः’ पर्जन्यः ‘मधु’ । शब्दे भवः ‘शाब्दः’ । यद्यपि अध्यात्मं शब्दे भव इति व्युत्पत्त्या शाब्दः पुरुषः । तथा ऽपि स्वरे विशेषतो भवतीति ‘सौवरः’ इति विशेषणम् । स्वरे भवः सौवरः ॥ १० ॥
११
विश्वास-प्रस्तुतिः
(म) अय᳘न्धर्म्मः॥
स᳘र्व्वेषाम्भू᳘तानाम्म᳘ध्वस्य धर्म्म᳘स्य स᳘र्व्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्मि᳘न्धर्म्मे᳘ तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्म᳘न्धार्म्म᳘स्तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो ऽय᳘मेव स᳘ यो ऽय᳘मा᳘त्मेद᳘ममृ᳘तमिदम्ब्र᳘ह्मेदᳫँ᳭ स᳘र्व्वम् ॥
मूलम् - श्रीधरादि
(म) अय᳘न्धर्म्मः॥
स᳘र्व्वेषाम्भू᳘तानाम्म᳘ध्वस्य धर्म्म᳘स्य स᳘र्व्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्मि᳘न्धर्म्मे᳘ तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्म᳘न्धार्म्म᳘स्तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो ऽय᳘मेव स᳘ यो ऽय᳘मा᳘त्मेद᳘ममृ᳘तमिदम्ब्र᳘ह्मेदᳫँ᳭ स᳘र्व्वम् ॥
मूलम् - Weber
अयं᳘ धर्मः᳟॥
स᳘र्वेषाम् भू᳘तानाम् म᳘ध्वस्य धर्म᳘स्य स᳘र्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्मि᳘न्धर्मे᳘ तेजोम᳘योऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्मं᳘ धार्म᳘स्तेजोम᳘योऽमृतम᳘यः पु᳘रुषोऽय᳘मेव सॗ योऽय᳘माॗत्मेद᳘ममृ᳘तमिदम् ब्र᳘ह्मेदᳫं स᳘र्वम् ॥
मूलम् - विस्वरम्
अयन्धर्म्मः सर्वेषां भूतानां मधु । अस्य धर्मस्य सर्वाणि भूतानि मधु । यश्चायमस्मिन् धर्मे तेजोमयः अमृतमयः पुरुषः । यश्चायमध्यात्मं धार्मस्तेजोमयः अमृतमयः पुरुषः । अयमेव सः । यः अयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ११ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
सर्वेषां शरीरिणां प्रत्येकं स्तनयिन्वन्ताः पृथिव्यादयो भूतगणा देवतागणाश्च कार्यकारणसङ्घातात्मना उपकुर्वन्तो मधु भवन्तीत्युक्तम् । ते येन प्रयुक्ताः शरीरिभिः सम्बध्यमाना मधुत्वेनोपकुर्वन्ति तद्वक्तव्यमितीदमारभ्यते- अयं धर्म्म इति । धर्म्मस्य शास्त्रैकगम्यत्वेन परो ऽक्षत्वात् अयमिति निर्द्देशानर्हत्वे ऽपि पृथिव्यादेर्द्धर्म्मकार्यस्य प्रत्यक्षत्वात् कारणस्याभेदमौपचारिकमादाय प्रत्यक्षघटादिवत् ‘अयं धर्मः’ इति व्यपदेशोपपत्तिरिति भावः । “तच्छ्रेयोरूपमत्यसृजत धर्मम्” । (श. प.) इत्यादौ व्याख्यातः श्रुतिस्मृतिलक्षणः क्षत्त्रादीनामपि नियन्ता पृथिव्यादीनां परिणामहेतुत्वात् जगतो वैचित्र्यकृत् प्राणिभिरनुष्ठीयमानरूपः अयमिति प्रत्यक्षेण व्यपदेश्यो धर्मः अपूर्वाख्यः ‘मधु’ । स च सामान्यरूपेण विशेषरूपेण च कार्यारम्भकः । तत्र पृथिव्यादिप्रयोक्तरि धर्मे सामान्यरूपेण तदारम्भकत्वमाह- यश्चायमस्मिन् धर्म्मे इति । कार्यकारणसङ्घातकर्तरि तु ‘धर्म्मे’ विशेषरूपेण कार्यकारणारम्भकत्वमाह-यश्चायमध्यात्मं धर्म इति । कार्यकारणसङ्घातकर्तरि धर्मे भवो धार्म्मः ॥ ११ ॥
१२
विश्वास-प्रस्तुतिः
(मि) इद᳘ᳫँ᳘ सत्त्यम्॥
(ᳫँ᳭) स᳘र्व्वेषाम्भूता᳘नाम्म᳘ध्वस्य सत्त्य᳘स्य स᳘र्व्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्मि᳘न्त्सत्त्ये᳘ तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्म᳘ᳫँ᳘ सात्त्य᳘स्तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो ऽय᳘मेव स᳘ यो ऽय᳘मा᳘त्मेद᳘ममृ᳘तमिदम्ब्र᳘ह्मेदᳫँ᳭ स᳘र्व्वम् ॥
मूलम् - श्रीधरादि
(मि) इद᳘ᳫँ᳘ सत्त्यम्॥
(ᳫँ᳭) स᳘र्व्वेषाम्भूता᳘नाम्म᳘ध्वस्य सत्त्य᳘स्य स᳘र्व्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्मि᳘न्त्सत्त्ये᳘ तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्म᳘ᳫँ᳘ सात्त्य᳘स्तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो ऽय᳘मेव स᳘ यो ऽय᳘मा᳘त्मेद᳘ममृ᳘तमिदम्ब्र᳘ह्मेदᳫँ᳭ स᳘र्व्वम् ॥
मूलम् - Weber
इद᳘ᳫं᳘ सत्यं᳟॥
स᳘र्वेषाम् भूता᳘नाम् म᳘ध्वस्य सत्य᳘स्य स᳘र्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्मि᳘न्त्सत्ये᳘ तेजोम᳘योऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्म᳘ᳫं᳘ सात्य᳘स्तेजोम᳘योऽमृतम᳘यः पु᳘रुषोऽय᳘मेव सॗ योऽय᳘माॗत्मेद᳘ममृ᳘तमिदम् ब्र᳘ह्मेदᳫं स᳘र्वम् ॥
मूलम् - विस्वरम्
इदं सत्यं सर्वेषां भूतानां मधु । अस्य सत्यस्य सर्वाणि भूतानि मधु । यश्चायमस्मिन् सत्ये तेजोमयः अमृतमयः पुरुषः । यश्चायमध्यात्मं सात्यस्तेजोमयः अमृतमयः पुरुषः । अयमेव सः । यः अयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ १२ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
सत्यमपि धर्म्मवत् द्विविधम् । तत्र सामान्यरूपं पृथिव्यादिषु कारणत्वेनानुगतमित्याह- यश्चायमस्मिन् सत्ये इति । विशेषरूपं तु सत्यसङ्घातत्वेनानुगतमित्याह- यश्चायमध्यात्मं सात्य इति । सत्ये भवः सात्यः ॥ १२ ॥
१३
विश्वास-प्रस्तुतिः
(मि) इद᳘म्मानुषम्[[!!]]॥
(ᳫँ᳭) स᳘र्व्वेषाम्भूता᳘नाम्म᳘ध्वस्य मानुष᳘स्य स᳘र्व्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्मि᳘न्मानुषे᳘ तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्म᳘म्मानुष᳘स्तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो ऽय᳘मेव स᳘ यो ऽय᳘मा᳘त्मेद᳘ममृ᳘तमिदम्ब्र᳘ह्मेदᳫँ᳭ स᳘र्व्वम् ॥
मूलम् - श्रीधरादि
(मि) इद᳘म्मानुषम्[[!!]]॥
(ᳫँ᳭) स᳘र्व्वेषाम्भूता᳘नाम्म᳘ध्वस्य मानुष᳘स्य स᳘र्व्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्मि᳘न्मानुषे᳘ तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्म᳘म्मानुष᳘स्तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो ऽय᳘मेव स᳘ यो ऽय᳘मा᳘त्मेद᳘ममृ᳘तमिदम्ब्र᳘ह्मेदᳫँ᳭ स᳘र्व्वम् ॥
मूलम् - Weber
इद᳘म् मानुष᳘म्॥
स᳘र्वेषाम् भूता᳘नाम् म᳘ध्वस्य मानुष᳘स्य स᳘र्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्मि᳘न्मानुषे᳘ तेजोम᳘योऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मध्यात्म᳘म् मानुष᳘स्तेजोम᳘योऽमृतम᳘यः पु᳘रुषोऽय᳘मेव सॗ योऽय᳘माॗत्मेद᳘ममृ᳘तमिदम् ब्र᳘ह्मेदᳫं स᳘र्वम् ॥
मूलम् - विस्वरम्
इदं मानुषं सर्वेषां भूतानां मधु । अस्य मानुषस्य सर्वाणि भूतानि मधु । यश्चायमस्मिन्मानुषे तेजोमयः अमृतमयः पुरुषः । यश्चायमध्यात्मं मानुषस्तेजोमयः अमृतमयः पुरुषः । अयमेव सः । यः अयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ १३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
धर्मसत्याभ्यां प्रयुक्तो ऽयं कार्यकारणसङ्घातविशेषो येन जातिविशेषेण संयुक्तो भवति तं निर्द्दिशति- इदं मानुषमिति । तत्र मानुषादिजातिविशिष्टा एव सर्वे प्राणिनिकायाः परस्परोपकार्योपकारकभावेन वर्तमाना दृश्यन्ते । अतो मानुषादिजातिरपि ‘सर्वेषां भूतानां मधु’ । यद्यपि मानुषादिजातिरेकैव, तथा ऽपि निर्द्देष्टुः स्वशरीरनिविष्टा जातिराध्यात्मिकी । शरीरान्तराश्रिता तु बाह्या इत्यभिप्रेत्य तद्विशिष्टं पुरुषं निर्द्दिशति- यश्चायमस्मिन्मानुषे इति । निर्द्देष्टुः स्वशरीरनिष्ठा तु आध्यात्मिकी इति तद्विशिष्टं निर्द्दिशति- यश्चायमध्यात्मं मानुष इति ॥ १३ ॥
१४
विश्वास-प्रस्तुतिः
(म) अय᳘मात्मा᳘॥
स᳘र्व्वेषाम्भूता᳘नाम्म᳘ध्वस्यात्म᳘नः स᳘र्व्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्मि᳘न्नात्म᳘नि तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मात्मा᳘ तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो ऽय᳘मेव स᳘ यो ऽय᳘मा᳘त्मेद᳘ममृ᳘तमिदम्ब्र᳘ह्मेदᳫँ᳭ स᳘र्व्वम्॥
मूलम् - श्रीधरादि
(म) अय᳘मात्मा᳘॥
स᳘र्व्वेषाम्भूता᳘नाम्म᳘ध्वस्यात्म᳘नः स᳘र्व्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्मि᳘न्नात्म᳘नि तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मात्मा᳘ तेजोम᳘यो ऽमृतम᳘यः पु᳘रुषो ऽय᳘मेव स᳘ यो ऽय᳘मा᳘त्मेद᳘ममृ᳘तमिदम्ब्र᳘ह्मेदᳫँ᳭ स᳘र्व्वम्॥
मूलम् - Weber
अय᳘मात्मा᳟॥
स᳘र्वेषाम् भूता᳘नाम् म᳘ध्वस्यात्म᳘नः स᳘र्वाणि भूता᳘नि म᳘धु य᳘श्चाय᳘मस्मि᳘न्नात्म᳘नि तेजोम᳘योऽमृतम᳘यः पु᳘रुषो य᳘श्चाय᳘मात्मा᳘ तेजोम᳘योऽमृतम᳘यः पु᳘रुषोऽय᳘मेव सॗ योऽय᳘माॗत्मेद᳘ममृ᳘तमिदम् ब्र᳘ह्मेदम् स᳘र्वम्॥
मूलम् - विस्वरम्
अयमात्मा सर्वेषां भूतानां मधु । अस्यात्मनः सर्वाणि भूतानि मधु । यश्चायमस्मिन्नात्मनि तेजोमयः अमृतमयः पुरुषः । यश्चायमात्मा तेजोमयः अमृतमयः पुरुषः । अयमेव सः । यः अयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ १४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
यः पुनर्मानुषादिजातिविशिष्टः कार्यकारणसङ्घातः तस्य मधुत्वमाह- अयमात्मेति । ‘अयमात्मा’ उक्तजातिविशिष्टो देहः न तु चेतनः । ‘सर्वेषां भूतानां मधु’ । यश्चायमस्मिन्नात्मनि ‘तेजोमयो ऽमृतमयः पुरुषः’ । ‘सः’ अमूर्तरससर्वात्मकश्चेतनो निर्द्दिश्यते । अत्राध्यात्मविशेषाभावादध्यात्मं स न निर्द्दिश्यते, इत्यभिप्रेत्याह- यश्चायमात्मेति । यस्तु परिशिष्टो विज्ञानमयो यदर्थो ऽयं देहलिङ्गसङ्घात आत्मा । ‘स यश्चायमात्मा’ इत्युच्यते । ‘तेजोमयो ऽमृतमयः पुरुषः’ इति पूर्ववत् ॥ १४ ॥
१५
विश्वास-प्रस्तुतिः
(ᳫँ᳭) स वा᳘ ऽअय᳘मात्मा[[!!]]॥
स᳘र्व्वेषाम्भूता᳘नाम᳘धिपतिः स᳘र्व्वेषाम्भूता᳘नाᳫँ᳭ रा᳘जा तद्य᳘था रथनाभौ᳘ च रथनेमौ चा᳘राः स᳘र्व्वे स᳘मर्प्पिता ऽएव᳘मे᳘वास्मि᳘न्नात्म᳘नि स᳘र्व्वे प्प्राणाः स᳘र्व्वे लोकाः स᳘र्व्वे देवाः स᳘र्व्वाणि भूता᳘नि स᳘र्व्व ऽएत᳘ ऽआत्मा᳘नः स᳘मर्प्पिताः॥
मूलम् - श्रीधरादि
(ᳫँ᳭) स वा᳘ ऽअय᳘मात्मा[[!!]]॥
स᳘र्व्वेषाम्भूता᳘नाम᳘धिपतिः स᳘र्व्वेषाम्भूता᳘नाᳫँ᳭ रा᳘जा तद्य᳘था रथनाभौ᳘ च रथनेमौ चा᳘राः स᳘र्व्वे स᳘मर्प्पिता ऽएव᳘मे᳘वास्मि᳘न्नात्म᳘नि स᳘र्व्वे प्प्राणाः स᳘र्व्वे लोकाः स᳘र्व्वे देवाः स᳘र्व्वाणि भूता᳘नि स᳘र्व्व ऽएत᳘ ऽआत्मा᳘नः स᳘मर्प्पिताः॥
मूलम् - Weber
स वा᳘ अय᳘मात्मा᳟॥
स᳘र्वेषाम् भूता᳘नाम᳘धिपतिः स᳘र्वेषाम् भूता᳘नां रा᳘जा तद्य᳘था रथनाभौ᳘ च रथनेमौ चा᳘राः स᳘र्वे स᳘मर्पिता एव᳘मेॗवास्मि᳘न्नात्म᳘नि स᳘र्वे प्राणाः स᳘र्वे लोकाः स᳘र्वे देवाः स᳘र्वाणि भूता᳘नि स᳘र्वं एत᳘ आत्मा᳘नः स᳘मर्पिताः 1 ॥
मूलम् - विस्वरम्
स. वा अयमात्मा सर्वेषां भूतानामधिपतिः । सर्वेषां भूतानां राजा । तद्यथा रथनाभौ च रथनेमौ च अराः सर्वे समर्पिताः । एवमेव अस्मिन् आत्मनि सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्वे एते आत्मानः समर्पिताः ॥ १५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
अस्यान्तिमपर्यायोक्तस्यात्मनः स्वरूपमाह- स वा ऽअयमात्मेति । यस्मिन्नात्मनि खिल्यदृष्टान्तवचसा प्रवेशितः, तेन परेणात्मना तादात्म्यं गतो विद्वान् आत्मशब्दार्थः । तस्मिन्नविद्याकृतकार्यकारणसङ्घातोपाधिविशिष्टे जीवे ब्रह्मविद्यया परमार्थात्मनि प्रवेशिते सति ‘स वै’ स एवायमात्मा अव्यवहितपूर्वपर्याये ‘तेजोमयो ऽमृतमयः’ इत्यादिना निर्द्दिष्टो विज्ञानमयः । सः ‘सर्वेषां भूतानामधिपतिः’ स्वतन्त्रः । न कुमारामात्यवत् स्वातन्त्र्यम् । किं तर्हि ‘सर्वेषां भूतानां राजा’ अधिपतिरिति राजत्वविशेषणम् । कश्चित् राजोचितवृत्तिमाश्रित्य राजा भवति । स राजपरतन्त्रत्वात् न स्वतन्त्र इति । तद्व्यवच्छेदार्थं अधिपतिविशेषणमिति भावः । अस्मिन् सर्वात्मभूते ब्रह्मविदि सर्वं जगत् सर्वमर्पितमिति दृष्टान्तोपादानपूर्वकमाह- तद्यथेति । तत्प्रसिद्धं निदर्शनम् । ‘यथा’ ‘रथनाभौ च’ रथचक्रपिण्डिकायां ‘रथनेमौ च’ वलयभूतायां ‘सर्वे अराः’ ‘समर्पिताः’ समारोपिताः । यथा अयं दृष्टान्तः । ‘एवमेव’ एतस्मिन्नात्मनि परमात्मभूते ब्रह्मविदि ‘सर्वे प्राणाः’ वागादयः ‘सर्वे लोकाः’ भूरादयः ‘सर्वे देवाः’ अग्न्यादयः ‘सर्वाणि भूतानि’ ब्रह्मादिस्तम्बपर्यन्तानि- ‘सर्व एते’ आत्मानः जलचन्द्रवत् प्रतिशरीरानुप्रवेशिनः अविद्याकल्पिताः समर्पिताः । सर्वं जगदस्मिन् समर्पितमिति भावः । स एष सर्वात्मभावो व्याख्यातः ॥ १५ ॥
१६
विश्वास-प्रस्तुतिः
(ऽ) इदम्वै तन्म᳘धु॥
दध्य᳘ङ्ङाथर्व्व᳘णो ऽश्वि᳘भ्यामुवाच त᳘देतदृ᳘षिः पश्यन्न᳘वोचत्[[!!]]। तद्वान्नरा[[!!]] सन᳘ये द᳘ᳫँ᳘स ऽउग्ग्र᳘मावि᳘ष्कृणोमि तन्यतुर्न्न व्वृ᳘ष्टिम्। दध्य᳘ङ् ह यन्म᳘ध्वाथर्व्वणो᳘ व्वाम᳘श्वस्य शीर्ष्णा प्प्र य᳘दीमुवाचे᳘ति॥
मूलम् - श्रीधरादि
(ऽ) इदम्वै तन्म᳘धु॥
दध्य᳘ङ्ङाथर्व्व᳘णो ऽश्वि᳘भ्यामुवाच त᳘देतदृ᳘षिः पश्यन्न᳘वोचत्[[!!]]। तद्वान्नरा[[!!]] सन᳘ये द᳘ᳫँ᳘स ऽउग्ग्र᳘मावि᳘ष्कृणोमि तन्यतुर्न्न व्वृ᳘ष्टिम्। दध्य᳘ङ् ह यन्म᳘ध्वाथर्व्वणो᳘ व्वाम᳘श्वस्य शीर्ष्णा प्प्र य᳘दीमुवाचे᳘ति॥
मूलम् - Weber
इदं वै तन्म᳘धु॥
दध्य᳘ङ्ङाथर्वॗणोऽश्वि᳘भ्यामुवाच त᳘देतदृ᳘षिः प᳘श्यन्नवोचत्॥
त᳘द्वां नरा सन᳘ये द᳘ᳫं᳘स उग्र᳘मावि᳘ष्कृणोमि तन्यतुर्न वृ᳘ष्टिं दध्य᳘ङ् ह यन्म᳘ध्वाथर्वणो᳘ वाम᳘श्वस्य शीर्ष्णा प्र य᳘दीमुवाचे᳘ति॥
मूलम् - विस्वरम्
इदं वै तन्मधु दध्यङ्ङाथर्वणो ऽश्विभ्यामुवाच । तदेतदृषिः पश्यन्नवोचत्- “तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम् । दध्यङ् ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाच”- इति ॥ १६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं साकल्येन निरूपितायाः ब्रह्मविद्यायाः स्तुत्यर्थं प्रवर्ग्यप्रकरणस्थिता ऽऽख्यायिकासङ्क्षेपकौ मन्त्रौ (श. प. १४ । १ । १ । २५) श्रुतिः प्रस्तावपूर्वकमवतारयति- इदं वा इति । ‘वै’ शब्दः स्मरणार्थः । यत्प्रवर्ग्यप्रकरणे सूचितं परं तु नाविष्कृतम् ‘तत् वै’ तदेव ‘इदं मधु’ । इह “इयं पृथिवी” (श. प. १४ । ५ । ५ । १) इत्यादिना अनन्तरनिर्द्दिष्टं ‘दध्यङ्’ नामा ब्राह्मणः अथर्वणः गोत्रापत्यं ‘आथर्वणः अश्विभ्यां’ देवभिषग्भ्यां अनेन प्रपञ्चेन उवाचोक्तवान् । तदेवैतत्कर्म ऋषिर्मन्त्रः पश्यन्नुपलभमान उवाचोक्तवान् । कथमित्यत आह- तद्वां नरेति । (ऋक् सं. । १ । ११६ । १२) हे ‘नरा’ नरौ नेतारौ ! अश्विनौ अहं स्तोता ‘वां’ युवयोः सम्बन्धि तत्प्रसिद्धं उग्रमुद्घूर्णं अन्यैर्दुःशकं ‘दंसः’ कर्म्म ‘सनये’ धनलाभार्थं ‘युवाभ्यां’ लाभलुब्धाभ्यां पुराकृतं ‘आविष्कृणोमि’ प्रकटीकरोमि । तत्र दृष्टान्तः । ‘तन्यतुर्न’ तन्यतुरिव यथा तन्यतुर्मेघस्थः शब्दः ‘वृष्टिं’ मेघान्तर्वर्तमानमुदकं प्रवर्षणेन सर्वत्र प्रकटीकरोति ‘तद्वत्’ । अत्र नकार इवार्थः । “नेति उपमार्थीय उपरिष्टादुपचारस्तस्य येनोपमिमीते” (निरु० १ । ४ । १० ।) इति यास्कोक्तेः । “अश्वं न त्वा वारवन्तं” (निरु० १ । ४ । १० ।) इतिवत् ज्ञेयः । तत् किं कर्म ? ‘ह’ इति प्रसिद्धौ । ‘आथर्वणः’ अथर्वपुत्र- ‘दध्यङ्’ एतन्नामा मुनिः ‘यत्’ यदा ‘अश्वस्य’ हयस्य ‘शीर्ष्णा’ युष्मत्सामर्थ्यप्रतिहितेन शिरसा ‘वां’ युवाभ्यां इदं मधु इमां मधुविद्यां ‘यत्प्रोवाच’ प्रोक्तवान् तदानीं आश्वस्य शिरसः सन्धानलक्षणं पुनर्मानुषस्य शिरसः प्रतिधानलक्षणं च यत् भवदीयं क्रूरं कर्म ‘तत्’ ‘आविष्कृणोमि’ इति सम्बन्धः ॥ १६ ॥
१७
विश्वास-प्रस्तुतिः
(ती) इदम्वै तन्म᳘धु॥
दध्य᳘ङ्ङाथर्व्व᳘णो ऽश्वि᳘भ्यामुवाच त᳘देतदृ᳘षिः प᳘श्यन्न᳘वोचत्॥
आथर्व्वणा᳘याश्वि᳘ना दधीचे᳘ ऽश्व्यᳫँ᳭ शि᳘रः प्प्र᳘त्यैरयतम्। स᳘ व्वाम्म᳘धु प्प्र᳘वोचदृताय᳘न्त्वाष्ट्रं य᳘द्दस्रावपि क᳘क्ष्यम्वामि᳘ति[[!!]]॥
मूलम् - श्रीधरादि
(ती) इदम्वै तन्म᳘धु॥
दध्य᳘ङ्ङाथर्व्व᳘णो ऽश्वि᳘भ्यामुवाच त᳘देतदृ᳘षिः प᳘श्यन्न᳘वोचत्॥
आथर्व्वणा᳘याश्वि᳘ना दधीचे᳘ ऽश्व्यᳫँ᳭ शि᳘रः प्प्र᳘त्यैरयतम्। स᳘ व्वाम्म᳘धु प्प्र᳘वोचदृताय᳘न्त्वाष्ट्रं य᳘द्दस्रावपि क᳘क्ष्यम्वामि᳘ति[[!!]]॥
मूलम् - Weber
इदं वै तन्म᳘धु॥
दध्य᳘ङ्ङाथर्वॗणोऽश्वि᳘भ्यामुवाच त᳘देतदृ᳘षिः प᳘श्यन्नवोचत्॥
आथर्वणा᳘याश्वि᳘ना दधीचे᳘ऽश्व्यं शि᳘रः प्र᳘त्यैरयतम् स᳘ वाम् म᳘धु प्र᳘वोचदृताय᳘न्त्वाष्ट्रं य᳘द्दस्रावपिकक्ष्यं᳘ वामि᳘ति॥
मूलम् - विस्वरम्
इदं वै तन्मधु दध्यङ्ङाथर्वणो ऽश्विभ्यामुवाच । तदेतदृषिः पश्यन्नवोचत्- “आथर्वणायाश्विना दधीचे अश्व्यं शिरः प्रत्यैरयतम् । स वां मधु प्रवोचदृतायन्त्वाष्ट्रं यद्दस्रावपि कक्ष्यं वाम्”- इति ॥ १७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
आविष्कृणोमीति प्रतिज्ञाते क्रूरकर्म्ममधुनी के ते इत्यपेक्षायां- ‘इदं वै’ तन्मधु इत्यादि उक्तार्थमेव ब्राह्मणं स्वानुवादपूर्वकं मन्त्रान्तरमाह- आथर्वणायेति । (ऋक् सं. । १ । ११७ । २२ ।) हे अश्विनौ ! युवां ‘आथर्वणाय अथर्वणः पुत्राय- ‘दधीचे’ दध्यङ्नाम्ने महर्षये अश्व्यं अश्वसम्बन्धि शिरो मस्तकं ‘प्रत्यैरयतं’ प्रत्यधत्तं तदीयं मानुषं शिरः प्रच्छिद्यान्यत्र निधाय अश्व्येन शिरसा तमृषिं समयोजयतमित्यर्थः । ‘सः’ महर्षिः ‘वां’ युवाभ्यां ‘मधुविद्यां’ ‘प्रवोचत्’ प्रावोचत्प्रोक्तवान् । स किं इत्येवं जीवितसन्देहमारुह्य स्वशिरश्छेदपूर्वकं अश्व्यशिरसा मधु उक्तवान् इत्यत आह- ऋतायन्निति । युवाभ्यां प्रवर्ग्यविद्यां मधुविद्यां च वक्ष्यामि इति पुरा कृतां प्रतिज्ञां सत्यां कुर्वन् परिपालयितुमिच्छन् जीवितादपि हि सत्यधर्मपरिपालना गुरुतरा इत्येतस्य लिङ्गमेतत् । किं तन्मधु इत्यत आह- त्वाष्ट्रमिति । त्वष्टा आदित्यः तस्य सबन्धि त्वाष्ट्रं “तद्धृङ्ङिति पपात तत्पतित्वा ऽसावादित्यो ऽभवत्” (श० १४ । १ । १ । १०) इति । तत्प्रतिसन्धानार्थं प्रावर्ग्यं कर्म तत्र प्रावर्ग्य कर्माङ्गभूतं यद्विज्ञानं तत् ‘त्वाष्ट्रं’ मध्वेव ‘प्रावोचत्’ अपि तु यत्कक्ष्यं गोप्यं ‘रहस्यं’ परमात्मसम्बन्धि विज्ञानं मधु मधुब्राह्मणेनोपसंहृतं अध्यायद्वयप्रकाशितं तच्च ‘वां’ युवाभ्यां प्रवोचदित्यनुवर्तत इत्यर्थः ॥ १७ ॥
१८
विश्वास-प्रस्तुतिः
(ती) इदम्वै तन्म᳘धु॥
दध्य᳘ङ्ङाथर्व्व᳘णो ऽश्वि᳘भ्यामुवाच त᳘देतदृ᳘षिः प᳘श्यन्न᳘वोचत्। पु᳘रश्चक्रे द्विप᳘दः पु᳘रश्चक्रे च᳘तुष्पदः। पु᳘रः स᳘ पक्षी᳘ भूत्वा पु᳘रः पु᳘रुष ऽआ᳘विशदि᳘ति स वा᳘ ऽअयम्पु᳘रुषः स᳘र्व्वासु पूर्षु[[!!]] पु᳘रिशयो᳘ नैनेन कि᳘ञ्चना᳘नावृ᳘तन्नैनेन कि᳘ञ्चना᳘सम्वृतम्॥
मूलम् - श्रीधरादि
(ती) इदम्वै तन्म᳘धु॥
दध्य᳘ङ्ङाथर्व्व᳘णो ऽश्वि᳘भ्यामुवाच त᳘देतदृ᳘षिः प᳘श्यन्न᳘वोचत्। पु᳘रश्चक्रे द्विप᳘दः पु᳘रश्चक्रे च᳘तुष्पदः। पु᳘रः स᳘ पक्षी᳘ भूत्वा पु᳘रः पु᳘रुष ऽआ᳘विशदि᳘ति स वा᳘ ऽअयम्पु᳘रुषः स᳘र्व्वासु पूर्षु[[!!]] पु᳘रिशयो᳘ नैनेन कि᳘ञ्चना᳘नावृ᳘तन्नैनेन कि᳘ञ्चना᳘सम्वृतम्॥
मूलम् - Weber
इदं वै तन्म᳘धु॥
दध्य᳘ङ्ङाथर्वॗणोऽश्वि᳘भ्यामुवाच त᳘देतदृ᳘षिः प᳘श्यन्नवोचत्॥
पु᳘रश्चक्रे द्विप᳘दः पु᳘रश्चक्रे च᳘तुष्पदः॥
पु᳘रः स᳘ पक्षी᳘ भूत्वा पु᳘रः पु᳘रुष आ᳘विषदि᳘ति स वा᳘ अयम् पु᳘रुषः स᳘र्वासु पूर्षु᳘ पुरिशयोॗ नैनेन किं᳘ चना᳘नावृॗतं नैनेन किं᳘ चना᳘संवृतम्॥
मूलम् - विस्वरम्
इदं वै तन्मधु दध्यङ्ङाथर्वणो ऽश्विभ्यामुवाच । तदेतत् ऋषिः पश्यन्नवोचत्- “पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः । पुरः स पक्षी भूत्वा पुरः पुरुष आविशत्”- इति । स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयः । न एनेन किञ्चन अनावृतम् । न एनेन किञ्चन असंवृतम् ॥ १८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
प्रवर्ग्यकर्मार्थयोः प्रथमद्वितीययोरध्याययोरर्थः प्रवर्ग्यसम्बन्ध्याख्यायिकोपसंहर्तृभ्यां मन्त्राभ्यां प्रकाशितः । इदानीं ब्रह्मविद्या ऽर्थयोस्तु तृतीयचतुर्थाध्याययोरर्थ उत्तराभ्यां ऋग्भ्यां प्रकाशयितव्यः इत्यतः “इदं वै तत्” उक्तार्थं ब्राह्मणमनूद्य प्रवर्तते- पुरश्चक्रे इति । प्रकरणबलात् ईश्वरो अव्याकृते नामरूपे व्याकुर्वाणो भूतादिसर्गपुरःसरं पञ्चीकृतेभ्यो भूतेभ्यो भूरादीन् लोकान् सृष्ट्वा- ‘पुरः’ पुराणि शरीराणि- ‘द्विपदः’ द्विपादुपलक्षितानि मनुष्यशरीराणि ‘चक्रे’ कृतवान् । तथा ‘चतुष्पदः’ चतुष्पादुपलक्षितानि ‘पुरः’ पशुशरीराणि ‘चक्रे’ । एवं शरीराणि नानाविधानि सृष्ट्वा ‘सः’ ईश्वरः ‘पुरः’ पुरस्तात् आत्मप्रवेशात्पूर्वं ‘पक्षी’ लिङ्गशरिरी ‘भूत्वा’ ‘पुरः’ शरीराणि ‘पुरुषः’ पुरुषरूपः सन् ‘आविशत्’ प्रविवेश । इतिशब्दो मन्त्रसमाप्तिद्योतकः । कथमात्मनः पुरुषत्वमित्याशङ्कायां श्रुतिस्तत् व्युत्पादयति- स वा अयमिति । ‘स वै’ स एव ‘अयमात्मा’ सृष्ट्यादिकर्तृतया प्रकृतः ‘सर्वासु पूर्षु’ सर्वशरीरेषु पुरि शेते इति व्युत्पत्त्या ‘पुरिशयः’ सन् पुरुष इत्युच्यते । नन्वेवं आधाराधेयनिर्द्देशात् द्वैतापत्तिः स्यादित्यत आह- नैनेनेति । एनेनानेन परमात्मना ‘किञ्चन’ किञ्चिदपि अनावृतमनाच्छादितं नास्ति । तथा ‘एनेन’ किञ्चन ‘असंवृतं’ अन्तरमनुप्रवेशितं नास्ति । तथा च परमात्मैव अन्तर्बहिर्भावेन कार्यकारणरूपेण व्यवस्थितः । न ततो ऽन्यत्किञ्चिदस्तीति ‘पुरश्चक्रे’ इति मन्त्रः सङ्क्षेपतः आत्मैकत्वमाचष्टे इत्यर्थः ॥ १८ ॥
१९
विश्वास-प्रस्तुतिः
(मि) इदम्वै तन्म᳘धु॥
दध्य᳘ङ्ङाथर्व्व᳘णो ऽश्वि᳘भ्यामुवाच त᳘देतदृ᳘षिः प᳘श्यन्नवोचत्। रूप᳘ᳫँ᳘ रूपम्प्र᳘तिरूपो बभूव त᳘दस्य रूप᳘म्प्रतिच᳘क्षणाय। इ᳘न्द्द्रो माया᳘भिः पुरुरू᳘प ऽईयते युक्ता᳘ ह्यस्य[[!!]] ह᳘रयः शता दशे᳘त्ययम्वै ह᳘रयो ऽयम्वै द᳘श च सह᳘स्राणि बहू᳘नि चानन्ता᳘नि च त᳘देतद्ब्र᳘ह्मापूर्व्व᳘मनपर᳘मनन्तर᳘मबाह्य᳘मय᳘मात्मा ब्ब्र᳘ह्म स᳘र्व्वानुभूरि᳘त्यनुशा᳘सनम्॥
मूलम् - श्रीधरादि
(मि) इदम्वै तन्म᳘धु॥
दध्य᳘ङ्ङाथर्व्व᳘णो ऽश्वि᳘भ्यामुवाच त᳘देतदृ᳘षिः प᳘श्यन्नवोचत्। रूप᳘ᳫँ᳘ रूपम्प्र᳘तिरूपो बभूव त᳘दस्य रूप᳘म्प्रतिच᳘क्षणाय। इ᳘न्द्द्रो माया᳘भिः पुरुरू᳘प ऽईयते युक्ता᳘ ह्यस्य[[!!]] ह᳘रयः शता दशे᳘त्ययम्वै ह᳘रयो ऽयम्वै द᳘श च सह᳘स्राणि बहू᳘नि चानन्ता᳘नि च त᳘देतद्ब्र᳘ह्मापूर्व्व᳘मनपर᳘मनन्तर᳘मबाह्य᳘मय᳘मात्मा ब्ब्र᳘ह्म स᳘र्व्वानुभूरि᳘त्यनुशा᳘सनम्॥
मूलम् - Weber
इदं वै तन्म᳘धु॥
दध्य᳘ङ्ङाथर्वॗणोऽऋ=वि᳘भ्यामुवाच त᳘देतदृ᳘षिः प᳘श्यन्नवोचत्॥
रूपं᳘रूपम् प्र᳘तिरूपो बभूव त᳘दस्य रूप᳘म् प्रतिचक्षणाय॥
इ᳘न्द्रो माया᳘भिः पुरुरू᳘प ईयते युक्ता ह्य᳘स्य ह᳘रयः शता दशे᳘त्ययं वै ह᳘रयोऽयं वै द᳘श च सह᳘स्राणि बहू᳘नि चानन्ता᳘नि च त᳘देतद्ब्र᳘ह्मापूर्व᳘मनपर᳘मबाह्य᳘ मय᳘मात्मा ब्र᳘ह्म स᳘र्वानुभूरि᳘त्यनुशाव्सनम्॥
मूलम् - विस्वरम्
इदं वै तन्मधु दध्यङ्ङाथर्वणो ऽश्विभ्यामुवाच । तदेतत् ऋषिः पश्यन् अवोचत् । “रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दश”- इति । अयं वै हरयः । अयं वै दश च सहस्राणि बहूनि चानन्तानि च । तदेतत् ब्रह्म अपूर्वमनपरमनन्तरमबाह्यम् । अयमात्मा ब्रह्म सर्वानुभूः । इत्यनुशासनम् ॥ १९ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“इदं वै तन्मधु” इत्यादि पूर्ववत् । एवं शरीरेषु प्रविष्टः परमात्मा किंरूप इत्यत आह-रूपं रूपमिति । (ऋक् सं. । ६ । ४७ । १८) ‘सः’ ईश्वरः- ‘रूपं रूपम्’ उपाधिभेदं देहं देहं प्रति- ‘प्रतिरूपः’ रूपान्तरं प्रतिबिम्बं ‘बभूव’ । ननु- किमर्थमसौ प्रतिबिम्बभावं आपद्यते- तत्राह- तदस्येति । ‘तत्’ प्रतिबिम्बत्वं अस्यात्मनो निरुपाधिकस्य ‘रूपं’ स्वरूपं ‘प्रतिचक्षणाय’ आत्मयाथात्म्यप्रतिख्यापनाय शास्त्राचार्यादिभेदेन तत्त्वप्रकाशनायेत्यर्थः । यदि हि नामरूपे न व्याक्रियेते तदा अस्यात्मनो निरुपाधिकं प्रज्ञानघनाख्यं रूपं न प्रतिख्यायेत । यदा पुनः कार्यकारणात्मना नामरूपे व्याकृते भवतः तदा अस्य रूपं प्रतिख्यायेत इति भावः । ‘इन्द्रः’ परमेश्वरः ‘मायाभिः’ नामरूपविषयमिथ्या ऽभिमानात्मना परिणताभिः ‘पुरुरूपः’ बहुरूपः ‘ईयेते’ प्रतीयते मिथ्यैव जलसूर्यवत् । मायाभिरिति बहुवचनं विक्षेपाणां बाहुल्यादुपपन्नम् । तथापि परमात्मनो बहुरूपत्वे किं मानं इत्यत आह- युक्ता हीति । रथे युक्ता वाजिन इव ‘हि’ यस्मात् ‘अस्य’ प्रतीचो रथस्थानीये शरीरे ‘युक्ताः’- ‘हरयः’ इन्द्रियाणि ‘शता’ शतानि ‘दश’ च प्राणिभेदबाहुल्यात् शतानि दश च भवन्ति । प्रत्यञ्चं स्वविषयान् प्रतिहरन्तीति हरणादिन्द्रियाणि हरयः । इतिशब्दो मन्त्रसमाप्तिद्योतकः । ननु- अस्य हरय इति सम्बन्धप्रतीतेः, अयमन्यः परमेश्वरः अन्ये हरयः इत्येवं द्वैतापत्तिः इत्यत आह- अयं वा इति । ‘अय वै’ अयमेवात्मा ‘हरयः’ इन्द्रियादिरूपेणास्यैवाविद्यया भानात् । ‘अयं वै’ अयमेवात्मा ‘दश च सहस्राणि’ ‘बहूनि चानन्तानि च’ हरिशब्दितानीन्द्रियाणि प्राणिभेदस्यानन्त्यात् । इदानीं अस्यात्मनः पारमार्थिकं स्वरूपमाह- तदेतद्ब्रह्मेति । न विद्यते पूर्वं कारणं यस्य तदपूर्वम् । न विद्यते अपरं कार्यं यस्य तदनपरम् । न विद्यते अन्तराले जात्यन्तरं वस्तु यस्य तदनन्तरम् । न विद्यते बाह्यं बहिर्भूतं वस्तु यस्मात् तदबाह्यम् । यत् एतादृशं ‘ब्रह्म’ तदेवैतत् समस्तं जगत् । न तद्व्यतिरेकेणास्ति । किं पुनः तद्ब्रह्म आत्मनो ऽर्थान्तरं इत्याङ्कायां नेत्याह- अयमात्मेति । ‘अयं’ प्रत्यगात्मैव ब्रह्म । को ऽसौ प्रत्यगात्मा तत्राह- सर्वानुभूरिति । यः सर्वात्मना सर्वमनुभवति सः ‘सर्वानुभूः’ । द्रष्टा श्रोता मन्ता विज्ञाता स एव प्रत्यगात्मेत्यर्थः । अयमेव सर्ववेदान्तानामर्थ इत्युपसंहरति- इत्यनुशासनमिति । इतीत्थं ‘अनुशासनं’ सर्ववेदान्तोपदेशः । एतदमृतमयञ्चेति अनर्थनिवृत्तिद्वारा आनन्दावाप्तिरूपः शास्त्रार्थः परिसमाप्तः ॥ १९ ॥
२०
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थ व्वᳫँ᳭शः[[!!]]॥
(स्त᳘) त᳘दिद᳘म्वयᳫँ᳭ शौ᳘र्प्पणाय्याच्छौ᳘र्प्पणाय्यो गौ᳘तमाद्गौ᳘तमो व्वा᳘त्स्याद्वा᳘त्स्यो व्वा᳘त्स्याच्च पाराशर्य्या᳘च्च पा᳘राशर्य्यः सा᳘ङ्कृत्याच्च भा᳘रद्वाजाच्च भा᳘रद्वाज ऽऔदवाहे᳘श्च शा᳘ण्डिल्याच्च शा᳘ण्डिल्यो बै᳘जवापाच्च गौतमा᳘च्च गौ᳘तमो बै᳘जवापायनाच्च व्वैष्टपुरेया᳘च्च व्वै᳘ष्टपुरेयः शा᳘ण्डिल्याच्च रौहिणायना᳘च्च रौ᳘हिणायनः शौ᳘नकाच्चात्रेया᳘च्च रैभ्या᳘च्च रै᳘भ्यः पौ᳘तिमाष्यायणाच्च कौण्डिन्यायना᳘च्च कौ᳘ण्डिन्यायनः कौ᳘ण्डिन्यात्कौ᳘ण्डिन्यः कौ᳘ण्डिन्यात्कौ᳘ण्डिन्यः कौण्डिन्या᳘च्चाग्निवेश्या᳘च्च॥

अ᳘थ वंशः᳟॥
त᳘दिदं᳘ वयं शौ᳘र्पणाय्याछौ᳘र्पणाय्यो गौ᳘तमाद्गौ᳘तमो वा᳘त्स्याद्वा᳘त्स्यो वा᳘त्स्याच्च पाराशर्या᳘च्च पा᳘राशर्यः सां᳘कृत्याच्च भा᳘रद्वाजाच्च भा᳘रद्वाज औदवाहे᳘श्च शा᳘ण्डिल्याच्च शा᳘ण्डिल्यो वै᳘जवापाच्च 2 गौतमा᳘च्च गौ᳘तमो वै᳘जवापायनाच्च वैष्टपुरेया᳘च्च वै᳘ष्टपुरेयः शा᳘ण्डिल्याच्च रौहिणायना᳘च्च रौ᳘हिणायनः शौ᳘नकाच्चात्रेया᳘च्च रैभ्या᳘च्च रै᳘भ्यः पौ᳘तिमाष्यायणाच्च कौण्डिन्यायना᳘च्च कौ᳘ण्डिन्यायनः कौ᳘ण्डिन्यात्कौ᳘ण्डिन्यः कौ᳘ण्डिन्यात्कौ᳘ण्डिन्यः कौण्डिन्या᳘च्चाग्निवेश्या᳘च्च॥
मूलम् - विस्वरम्
अथ वंशः- तदिदं १ वयं शौर्पणाय्यात् । २ शौर्पणाय्यो गौतमात् । ३ गौतमो वात्स्यात् । ४ वात्स्यो वात्स्याच्च पाराशर्याच्च । ५ पाराशर्यः साङ्कृत्याच्च भारद्वाजाच्च । ६ भारद्वाज औदबाहेश्च शाण्डिल्ल्याच्च । ७ शाण्डिल्ल्यो वैजवापाच्च गौतमाच्च । ८ गौतमो वैजवापायनाच्च वैष्टपुरेयाच्च । ९ वैष्टपुरेयः शाण्डिल्ल्याच्च रौहिणायनाच्च । १० रौहिणायनः शौनकाच्च आत्रेयाच्च रैभ्याच्च । ११ रैभ्यः पौतिमाष्यायणाच्च कौण्डिन्यायनाच्च । १२ कौण्डिन्यायनः कौण्डिन्यात् । १३ कौण्डिन्यः कौण्डिन्यात् । १४ कौण्डिन्यः कौण्डिन्याच्च आग्निवेश्याच्च ॥ २० ॥
श्रीमद्वासुदेवब्रह्मभगवान्
अथेदानीं ब्रह्मविद्यार्थस्य स्तुत्यर्थं मधुकाण्डस्य स्वाध्यायार्थो जपार्थश्च ब्रह्मविद्याया अयं वंश आरभ्यते- अथ वंश इति । वंश इव ‘वंशः’ । यथा वेणुर्वंशः पर्वणः पर्वणो भिद्यते । तद्वदग्रात्प्रभृति आमूलप्राप्तेरयं वंशः । अध्यायद्वयस्य आचार्यपरम्पराक्रमो वंश इत्युच्यते । तत्र प्रथमान्तः शिष्यः पञ्चम्यन्तः आचार्यो बोद्धव्यः ॥ २० ॥
२१
विश्वास-प्रस्तुतिः
(च्चा) आग्निवेश्यः सै᳘तवात्॥
(त्सै᳘) सै᳘तवः पा᳘राशर्य्यात्पा᳘राशर्य्यो जा᳘तूकार्ण्ण्याज्जा᳘तूकर्ण्ण्यो भा᳘रद्वाजाद्भा᳘रद्वाजो भारद्वाजा᳘च्चासुरायणा᳘च्च गौतमा᳘च्च गौ᳘तमो भा᳘रद्वाजाद्भा᳘रद्वाजो बैजवापायना᳘द्वैजवापायनः᳘ कौशिकायनेः᳘ कौशिकायनि᳘र्घ्घृतकौशिका᳘द्घृतकौशिकः पा᳘राशर्य्यायणात्पा᳘राशर्य्यायणः पा᳘राशर्य्यात्पा᳘राशर्य्यो जा᳘तूकर्ण्ण्याज्जा᳘तूकर्ण्ण्यो भा᳘रद्वाजाद्भा᳘रद्वाजो भारद्वाजा᳘च्चासुरायणा᳘च्च यास्का᳘च्चासुरायणस्त्रै᳘वणेस्रै᳘वणिरौ᳘पजन्धनेरौ᳘पजन्धनिरा᳘सुरेरा᳘सुरिर्भ्भारद्वाजाद्भा᳘रद्वाज ऽआत्रेया᳘त्॥

आग्निवेश्यः सै᳘तवात्॥
सै᳘तवः पा᳘राशर्यात्पा᳘राशर्यो जा᳘तूकार्ण्याज्जा᳘तूकर्ण्यो भा᳘रद्वाजाद्भा᳘रद्वाजो भारद्वाजा᳘च्चासुरायणा᳘च्च गौतमाच्च गौ᳘तमो भा᳘रद्वाजाद्भा᳘रद्वाजो वैजवापायना᳘द्वैजवापायनः᳘ 3 कौशिकायनेः᳘ कौशिकायनि᳘र्घृतकौशिका᳘द्घृतकौशिकः पा᳘राशर्यायणात्पा᳘राशर्यायणः पा᳘राशर्यात्पा᳘राशर्यो जा᳘तूकर्ण्याज्जा᳘तूकर्ण्यो भा᳘रद्वाजाद्भा᳘रद्वाजो भारद्वाजा᳘च्चासुरायणा᳘च्च यास्का᳘च्चासुरायणस्त्रै᳘वणेस्त्रै᳘वणिरौ᳘पजन्धनेरौ᳘पजन्धनिरा᳘सुरेरा᳘सुरिर्भा᳘रद्वाजाद्भा᳘रद्वाज आत्रेया᳘त्॥
मूलम् - विस्वरम्
१५ आग्निवेश्यः सैतवात् । १६ सैतवः पाराशर्यात् । १७ पाराशर्यो जातूकर्ण्यात् । १८ जातूकर्ण्यो भारद्वाजात् । १९ भारद्वाजो भारद्वाजाच्च आसुरायणाच्च गौतमाच्च । २० गौतमो भारद्वाजात् । २१ भारद्वाजो बैजवापायनात् । २२ बैजवापायनः कौशिकायनेः । २३ कौशिकायनिर्घृतकौशिकात् । २४ घृतकौशिकः पाराशर्यायणात् । २५ पाराशर्यायणः पाराशर्यात् । २६ पाराशर्यो जातूकर्ण्यात् । २७ जातूकर्ण्यो भारद्वाजात् । २८ भारद्वाजो भारद्वाजाच्च आसुरायणाच्च यास्काच्च । २९ आसुरायणस्त्रैवणेः । ३० त्रैवणिरौपजन्धनेः । ३१ औपजन्धनिरासुरेः । ३२ आसुरिर्भारद्वाजात् । ३३ भारद्वाज आत्रेयात् ॥ २१ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘आग्निवेश्यः’- ‘सैतवात्’ आचार्यात् अधीतवान् इत्यादि ॥ २१ ॥
२२
विश्वास-प्रस्तुतिः
(दा᳘) आत्रेयो मा᳘ण्टेः॥
(र्म्मा᳘) मा᳘ण्टिर्ग्गौ᳘तमाद्गौ᳘तमो गौ᳘तमाद्गौ᳘तमो व्वा᳘त्स्याद्वा᳘त्स्यः शा᳘ण्डिल्याच्छा᳘ण्डिल्यः कै᳘शोर्य्यात्का᳘प्यात्कै᳘शोर्य्यः का᳘प्यः कुमारहारिता᳘त्कुमारहारितो᳘ गालवा᳘द्गालवो᳘ व्विदर्भीकौण्डिन्या᳘द्विदर्भीकौण्डिन्यो᳘ व्वत्स᳘नपातो बा᳘भ्भ्रवाद्वत्स᳘नपाद्बा᳘भ्भ्रवः पथः सौ᳘भरात्पन्थाः सौ᳘भरो ऽया᳘स्यादाङ्गिरसा᳘दया᳘स्य ऽआङ्गिरस ऽआ᳘भूतेस्त्वा᳘ष्ट्रादा᳘भूतिस्त्वा᳘ष्ट्रो विश्व᳘रूपात्त्वा᳘ष्ट्राद्विश्व᳘रूपस्त्वा᳘ष्ट्रो ऽश्वि᳘भ्यामश्वि᳘नौ दधी᳘च ऽआथर्व्वणा᳘द्दध्य᳘ङ्ङाथर्व्वणो᳘ ऽथर्व्वणो दै᳘वाद᳘थर्व्वा दै᳘वो मृत्योः᳘ प्प्राध्व᳘ᳫँ᳘सनान्मृत्युः᳘ प्प्राध्व᳘ᳫँ᳘ सनः प्प्रध्व᳘ᳫँ᳘सनात्प्रध्व᳘ᳫँ᳘सन ऽएकर्षे᳘रेकर्षि᳘व्विप्प्र᳘जित्ते᳘र्व्विप्र᳘जित्तिर्व्य᳘ष्टेर्व्व्यष्टिः सना᳘रोः सना᳘रुः सनात᳘नात्सनात᳘नः स᳘नगात्स᳘नगः परमेष्ठि᳘नः परमेष्ठी ब्ब्र᳘ह्मणो ब्ब्र᳘ह्म स्वय᳘म्भु ब्ब्र᳘ह्मणे᳘ नमः[[!!]]॥

आत्रेयो मा᳘ण्टेः॥
मा᳘ण्टिर्गौ᳘तमाद्गौ᳘तमो॥
गौ᳘तमाद्गौ᳘तमो वा᳘त्स्याद्वा᳘त्स्यः शा᳘ण्डिल्याछा᳘ण्डिल्यः कै᳘शोर्यात्का᳘प्यात्कै᳘शोर्यः का᳘प्यः कुमारहारिता᳘त्कुमारहारितो᳘ गालवा᳘द्गालवो᳘ विदर्भीकौण्डिन्या᳘द्विदर्भीकौण्डिन्यो᳘ 4 वत्स᳘नपातो बा᳘भ्रवाद्वत्सनपाद्बा᳘भ्रवः पथः सौ᳘भरात्पन्थाः सौ᳘भरोऽया᳘स्यादाङ्गिरसा᳘दया᳘स्य आङ्गिरस आ᳘भूतेस्त्वा᳘ष्ट्रादा᳘भूतिस्त्वा᳘ष्ट्रो विश्व᳘रूपात्त्वा᳘ष्ट्राद्विश्व᳘रूपस्त्वा᳘ष्ट्रोऽश्वि᳘भ्यामश्वि᳘नौ दधी᳘च आथर्वणा᳘द्दध्य᳘ङ्ङाथर्वणो᳘ऽथर्वणो दै᳘वाद᳘थर्वा दै᳘वो मृत्योः᳘ प्राध्व᳘ᳫं᳘सनान्मृत्युः᳘ प्राध्व᳘ᳫं᳘सनः प्रध्व᳘ᳫं᳘सनात्प्रध्व᳘ᳫं᳘सन एकर्षे᳘रेकर्षि᳘विप्र᳘जित्तेर्विप्र᳘जित्तिर्व्य᳘ष्टेर्व्य᳘ष्टिः सना᳘रोः सना᳘रुः सनात᳘नात्सनात᳘नः स᳘नगात्स᳘नगः परमेष्ठि᳘नः परमेष्ठी ब्र᳘ह्मणो ब्र᳘ह्म स्वय᳘म्भु ब्र᳘ह्मणे न᳘मः॥
मूलम् - विस्वरम्
३४ आत्रेयो माण्टेः । ३५ माण्टिर्गौतमात् । ३६ गौतमो गौतमात् । ३७ गौतमो वात्स्यात् । ३८ वात्स्यः शाण्डिल्यात् । ३९ शाण्डिल्यः कैशोर्यात्काप्यात् । ४० कैशोर्यः काप्यः कुमारहारितात् । ४१ कुमारहारितो गालवात् । ४२ गालवो विदर्भीकौण्डिन्यात् । ४३ विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवात् । ४४ वत्सनपात् बाभ्रवः पथः सौभरात् । ४५ पन्थाः सौभरः अथायास्यादाङ्गिरसात् । ४६ अयास्य आङ्गिरस आभूतेस्त्वाष्ट्रात् । ४७ आभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्रात् । ४८ विश्वरूपस्त्वाष्ट्रो ऽश्विभ्याम् । ४९ अश्विनौ दधीच आथर्वणात् । ५० दध्यङ्ङाथर्वणो ऽथर्वणो दैवात् । ५१ अथर्वा दैवो मृत्योः प्राध्वंसनात् । ५२ मृत्युः प्राध्वंसनः प्रध्वंसनात् । ५३ प्रध्वंसन एकर्षेः । ५४ एकर्षिर्विप्राजित्तेः । ५५ विप्रजित्तिर्व्यष्टेः । ५६ व्यष्टिः सनारोः । ५७ सनारुः सनातनात् । ५८ सनातनः सनगात् । ५९ सनगः परमेष्ठिनः । ६० परमेष्ठी ब्रह्मणः । ६१ ब्रह्म स्वयंम्भु । ब्रह्मणे नमः ॥ २२ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘आत्रेयः’ माण्टेरधीतवान् । ‘परमेष्ठी’ विराट् ‘ब्रह्मणः’ हिरण्यगर्भात् अधीतवान् । ‘हिरण्यगर्भः’ स्वयम्प्रतिमातवेदः इति तत आचार्यपरम्परा नास्ति । यत्पुनर्ब्रह्म वेदाख्यं तत्स्वयम्भु नित्यं तस्मै ‘ब्रह्मणे’ स्वयम्भुवे वेदरूपेणावस्थिताय ‘नमः’ वाङ्मनःकायकृत्तः प्रह्वीभावो भवत्वित्यर्थः ॥ २२ ॥
इति श्रीहृषीकेशब्रह्मभगवत्पूज्यपादशिष्यस्य श्रीपाठकानिरुद्धपुत्रस्य परमहंसपरिव्राजकाचार्यस्य श्रीवासुदेवब्रह्मभगवतः कृतौ माध्यन्दिनीयशतपथब्राह्मणान्तर्गतमाध्यन्दिनशाखोपनिषद्बृहदारण्यकटीकायां वासुदेवप्रकाशिकायां द्वितीये ऽध्याये पञ्चमं मधुब्राह्मणं परिसमाप्तम् ॥ १४ (५) २-५ ॥
द्वितीयो ऽध्यायश्च समाप्तः ॥ १४ (बृ. उ.) २ ॥
इति श्रीबृहदारण्यकोपनिषदि आद्यं मधुकाण्डं परिसमाप्तम् ॥
-
स᳘मर्थिता A. ↩︎
-
बैजवापा R. (*) – ibid. वैष्टयुरे A. ↩︎
-
बैजवापा R. - ibid. जंघनेरौपजंघनि R. ↩︎
-
विदर्भाकौण्डि A. ibid. स्वयंभू R. - ibid. ब्र᳘ह्मणो᳘ नमः AM. The coincidence of both these mss. in all the other strange accentuations of the वंश as given in the text is a thorough one: this observation refers also to both the later वंश-s. ↩︎