०१

विश्वास-प्रस्तुतिः

मै᳘त्रेयी᳘ति स होवाच या᳘ज्ञवल्क्यः॥
(ऽ) उद्यास्यन्वा᳘ ऽअरे ऽह᳘मस्मात्स्था᳘नादस्मि ह᳘न्त ते ऽन᳘या कात्यायन्या᳘ ऽन्तङ्कर᳘वाणी᳘ति॥

मूलम् - श्रीधरादि

मै᳘त्रेयी᳘ति स होवाच या᳘ज्ञवल्क्यः॥
(ऽ) उद्यास्यन्वा᳘ ऽअरे ऽह᳘मस्मात्स्था᳘नादस्मि ह᳘न्त ते ऽन᳘या कात्यायन्या᳘ ऽन्तङ्कर᳘वाणी᳘ति॥

मूलम् - Weber

मै᳘त्रेयी᳘ति होवाच या᳘ज्ञवल्क्यः॥
उद्यास्यन्वा᳘ 1 अरेऽह᳘मस्मात्स्था᳘नादस्मि ह᳘न्त तेऽन᳘या कात्यायन्या᳘न्तं कर᳘वाणी᳘ति॥

मूलम् - विस्वरम्

मैत्रेयीब्राह्मणम् ।

मैत्रेयीति स होवाच याज्ञवल्क्यः । उद्यास्यन् वा अरे अहमस्मात् स्थानादस्मि । हन्त ते अनया कात्यायन्या अन्तं करवाणीति ॥ १ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“दृप्तबालाकिर्हेति” द्वितीये ऽध्याये ब्रह्मविद्याविषयं प्रत्यगात्मानं “ब्रह्म ते ब्रवाणि, व्येव त्वा ज्ञपयिष्यामि" इति च प्रस्तुत्य तद्ब्रह्म एकमद्वयं सर्वविशेषशून्यं क्रियाकारकफलस्वभावसत्यवाच्याशेषभूतधर्मप्रतिषेधद्वारेण- “नेति नेति” इति विज्ञापितम् । अस्या ब्रह्मविद्याया अङ्गत्वेन सन्न्यासविधित्सयैव आख्यायिकारूपं मैत्रेयीब्राह्मणमारभ्यते- मैत्रेयीति होवाचेति । ‘याज्ञवल्क्यः’ नाम ऋषिः ‘ह’ किल ‘मैत्रेयि ! इति’ स्वां भार्यां आमन्त्र्योवाच । किं ? ‘अरे’ हे मैत्रेयि ! ‘अहं’ ‘अस्मात्’ गार्हस्थ्यात् रथानादाश्रमात् ‘उद्यासन् वै’ ऊर्ध्वं पारिव्राज्याख्यमाश्रमान्तरं यास्यन्नेव ‘अस्मि’ भवामि । अतः ‘हन्त’ ‘ते’ तव अनुमतिं प्रार्थयामीत्यर्थः । किञ्च अन्यत् ‘ते’ तव ‘अनया’ द्वितीयया भार्यया ‘कात्यायन्या’ सह ‘अन्तं’ विच्छेदं ‘करवाणि’ द्रव्यविभागं कृत्वा वित्तेन युवां संविभज्य गमिष्यामीति भावः ॥ १ ॥

०२

विश्वास-प्रस्तुतिः

स᳘ होवाच मै᳘त्रेयी॥
य᳘न्म ऽइयम्भगोः स᳘र्व्वा पृथिवी᳘ व्वित्ते᳘न पूर्ण्णा स्या᳘त्कथन्ते᳘नामृता᳘[[!!]] स्यामि᳘ति ने᳘ति होवाच या᳘ज्ञवल्क्यो य᳘थै᳘वोपकरण᳘वताञ्जीवितन्त᳘थैव᳘ ते जीवित᳘ᳫँ᳘ स्यादमृतत्व᳘स्य तु᳘ ना᳘शा ऽस्ति व्वित्तेने᳘ति॥

मूलम् - श्रीधरादि

स᳘ होवाच मै᳘त्रेयी॥
य᳘न्म ऽइयम्भगोः स᳘र्व्वा पृथिवी᳘ व्वित्ते᳘न पूर्ण्णा स्या᳘त्कथन्ते᳘नामृता᳘[[!!]] स्यामि᳘ति ने᳘ति होवाच या᳘ज्ञवल्क्यो य᳘थै᳘वोपकरण᳘वताञ्जीवितन्त᳘थैव᳘ ते जीवित᳘ᳫँ᳘ स्यादमृतत्व᳘स्य तु᳘ ना᳘शा ऽस्ति व्वित्तेने᳘ति॥

मूलम् - Weber

स᳘ होवाच मै᳘त्रेयी॥
य᳘न्म इयम् भगोः स᳘र्वा पृथिवी᳘ वित्ते᳘न पूर्णा स्यात्क᳘थं ते᳘नामृ᳘ता स्यामि᳘ति ने᳘ति होवाच या᳘ज्ञवल्क्यो य᳘थैॗवोपकरण᳘वतां जीवितं त᳘थैव᳘ ते जीवित᳘ᳫं᳘ स्यादमृतत्व᳘स्य तुॗ नाॗशास्ति वित्तेने᳘ति॥

मूलम् - विस्वरम्

सा होवाच मैत्रेयी । यत् मे इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात् । कथं तेनामृता स्यामिति । नेति होवाच याज्ञवल्क्यः । यथैवोपकरणवतां जीवितम् । तथैव ते जीवितं स्यात् । अमृतत्वस्य तु नाशा ऽस्ति वित्तेनेति ॥ २ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘सा’ एवमुक्ता ‘मैत्रेयी ह उवाच’ । ‘भगोः’ भगवन् ! ‘मे’ मह्यं ‘यत्’ यदि ‘इयं’ सर्वसागरपरिखा ‘पृथिवी’ ‘वित्तेन’ धनेन ‘पूर्णा स्यात्’ । तदा ‘कथं ?’ किं तेन पृथिवीपूर्णवित्तसाध्येनाग्निहोत्रादिकर्म्मणा अहं ‘अमृता’ अमरणधर्म्मिणी मुक्ता ‘स्यां’ भवेयम् ‘इति’ प्रश्ने कृते ‘नेति’ नैव अमृता स्या इत्युत्तरं ‘ह’ किल ‘याज्ञवल्क्यः’ उवाचोक्तवान् । किं तर्हि वित्तेन भवेदित्यत आह- यथैवेति । ‘यथैव’ लोके ‘उपकरणवतां’ साधनसम्पत्तियुक्तानां ‘जीवितं’ सुखोपभोगसम्पत्त्या कालक्रमणं ‘तथैव’ तद्वदेव ‘ते’ तव ‘जीवितं स्यात्’ । ‘न तु’ पुनः ‘वित्तेन’ वित्तसाध्येन कर्म्मणा ‘अमृतत्वस्य’ मोक्षस्य ‘आशा’ तृष्णा ‘अस्ति’ । आशा ऽपि न कर्तव्येति भावः ॥ २ ॥

०३

विश्वास-प्रस्तुतिः

सा᳘ होवाच मै᳘त्रेयी॥
ये᳘नाह᳘न्नामृ᳘ता स्याङ्कि᳘महन्ते᳘न कुर्य्यां य᳘देव भ᳘गवान्वे᳘द त᳘देव᳘ मे ब्रूही᳘ति॥

मूलम् - श्रीधरादि

सा᳘ होवाच मै᳘त्रेयी॥
ये᳘नाह᳘न्नामृ᳘ता स्याङ्कि᳘महन्ते᳘न कुर्य्यां य᳘देव भ᳘गवान्वे᳘द त᳘देव᳘ मे ब्रूही᳘ति॥

मूलम् - Weber

सा᳘ होवाच मै᳘त्रेयी॥
ये᳘नाॗहं नामृ᳘ता स्यां कि᳘महं ते᳘न कुर्यां य᳘देव भ᳘गवान्वे᳘द त᳘देव᳘ मे ब्रूही᳘ति॥

मूलम् - विस्वरम्

सा होवाच मैत्रेयी । येनाहं नामृता स्याम् । किमहं तेन कुर्याम् । यदेव भगवान् वेद । तदेव मे ब्रूहीति ॥ ३ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘सा’ एवमुक्ता ‘मैत्रेयी ह’ प्रत्युवाच । यद्येव ‘येनाहममृता न स्याम्’ ‘तेन’ वित्तेन अहं किं कुर्याम् । किन्तु ‘यदेव’ केवलममृतत्वसाधनं ‘भगवान्’ ज्ञानसम्पन्नो भवान् ‘वेद’ विजानाति । ‘तदेव’ अमृतत्वसाधनं ‘मे’ मह्यं ‘ब्रूहि इति’ उपदिशेत्यर्थः ॥ ३ ॥

०४

विश्वास-प्रस्तुतिः

स᳘ होवाच या᳘ज्ञवल्क्यः॥
प्प्रिया᳘ बतारे नः सती᳘ प्प्रिय᳘म्भाषस ऽएह्या᳘स्स्व व्व्या᳘ख्यास्यामि ते व्व्याच᳘क्षाण᳘स्य तु᳘ मे नि᳘दिध्यासस्वे᳘ति ब्र᳘वीतु भ᳘गवानि᳘ति॥

मूलम् - श्रीधरादि

स᳘ होवाच या᳘ज्ञवल्क्यः॥
प्प्रिया᳘ बतारे नः सती᳘ प्प्रिय᳘म्भाषस ऽएह्या᳘स्स्व व्व्या᳘ख्यास्यामि ते व्व्याच᳘क्षाण᳘स्य तु᳘ मे नि᳘दिध्यासस्वे᳘ति ब्र᳘वीतु भ᳘गवानि᳘ति॥

मूलम् - Weber

स᳘ होवाच या᳘ज्ञवल्क्यः॥
प्रिया᳘ वतारे नः सती᳘ प्रिय᳘म् भाषस एह्या᳘स्व व्या᳘ख्यास्यामि ते व्याच᳘क्षाणस्य 2 तु᳘ मे नि᳘दिध्यासस्वे᳘ति ब्र᳘वीतु भ᳘गवानि᳘ति॥

मूलम् - विस्वरम्

स होवाच याज्ञवल्क्यः । प्रिया बत अरे नः सती प्रियं भाषसे । एहि । आस्स्व । व्याख्यास्यामि ते । व्याचक्षाणस्य तु मे निदिध्यासस्वेति । ब्रवीतु भगवानिति ॥ ४ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवं वित्तसाध्ये अमृतत्वसाधने प्रत्याख्याते स्वाभिप्रायसम्पत्तौ तुष्टः ‘सः’ ‘ह याज्ञवल्क्य उवाच’ । ‘अरे’ मैत्रेयि ! ‘बत’ इत्यनुकम्पायां ‘नः’ अस्माकं पूर्वमपि ‘प्रिया सती’ इष्टा भवती त्वं इदानीमपि ‘प्रियमेव भाषसे’ । अतस्त्वं ‘एहि’ आगच्छ । ‘आस्स्व’ उपविश । यत् ते तव इष्टं अमृतत्वसाधनं आत्मज्ञानं तत् ‘व्याख्यास्यामि’ कथयिष्यामि । ‘व्याचक्षाणस्य’ तु व्याख्यानं कुर्वतः ‘मे’ मम वाक्यानि अर्थतः ‘निदिध्यासस्व’ निश्चयेन ध्यातुमिच्छेति । याज्ञवल्क्येनैवमुक्ता मैत्रेयी ‘ब्रवीतु भगवान्’ इति प्रत्युवाचेत्यर्थः ॥ ४ ॥

०५

विश्वास-प्रस्तुतिः

स᳘ होवाच या᳘ज्ञवल्क्यः॥
(ल्क्यो) न वा᳘ ऽअरे प᳘त्युः का᳘माय प᳘तिः प्प्रियो᳘ भवत्यात्म᳘नस्तु का᳘माय प᳘तिः प्प्रियो᳘ भवति न वा᳘ ऽअरे जाया᳘यै का᳘माय जाया᳘ प्प्रिया᳘ भवत्यात्म᳘नस्तु का᳘माय जाया᳘ प्प्रिया᳘ भवति न वा᳘ ऽअरे पुत्रा᳘णाङ्का᳘माय पुत्राः᳘ प्प्रिया᳘ भवन्त्यात्म᳘नस्तु का᳘माय पुत्राः᳘ प्प्रिया᳘ भवन्ति न वा᳘ ऽअरे व्वित्त᳘स्य का᳘माय व्वित्त᳘म्प्रिय᳘म्भवत्यात्म᳘नस्तु का᳘माय व्वित्त᳘म्प्रिय᳘म्भवति न वा᳘ ऽअरे ब्ब्र᳘ह्मणः का᳘माय ब्ब्र᳘ह्म प्प्रिय᳘म्भवत्यात्म᳘नस्तु का᳘माय ब्ब्र᳘ह्म प्प्रिय᳘म्भवति न वा᳘ ऽअरे क्षत्र᳘स्य का᳘माय क्षत्र᳘म्प्रिय᳘म्भवत्यात्म᳘नस्तु का᳘माय क्षत्र᳘म्प्रिय᳘म्भवति न वा᳘ ऽअरे लोका᳘नाङ्का᳘माय लोकाः᳘ प्प्रिया᳘ भवन्त्यात्म᳘नस्तु का᳘माय लोकाः᳘ प्प्रिया᳘ भवन्ति न वा᳘ ऽअरे देवा᳘नाङ्का᳘माय देवाः᳘ प्प्रिया᳘ भवन्त्यात्म᳘नस्तु का᳘माय देवाः᳘ प्प्रिया᳘ भवन्ति न वा᳘ ऽअरे भूता᳘नाङ्का᳘माय भूता᳘नि प्प्रिया᳘णि भवन्त्यात्म᳘नस्तु का᳘माय भूता᳘नि प्प्रिया᳘णि भवन्ति न वा᳘ ऽअरे स᳘र्व्वस्य का᳘माय स᳘र्व्वम्प्रिय᳘म्भवत्यात्म᳘नस्तु का᳘माय स᳘र्व्वम्प्रिय᳘म्भवत्यात्मा वा᳘ ऽअरे द्द्रष्ट᳘व्यः श्रोत᳘व्यो मन्त᳘व्यो निदिध्यासित᳘व्यो मै᳘त्रेय्यात्म᳘नो वा᳘ ऽअरे द᳘र्शनेन श्र᳘वणेन मत्या᳘ व्विज्ञा᳘नेनेदᳫँ᳭ स᳘र्व्वम्विदितम्॥

मूलम् - श्रीधरादि

स᳘ होवाच या᳘ज्ञवल्क्यः॥
(ल्क्यो) न वा᳘ ऽअरे प᳘त्युः का᳘माय प᳘तिः प्प्रियो᳘ भवत्यात्म᳘नस्तु का᳘माय प᳘तिः प्प्रियो᳘ भवति न वा᳘ ऽअरे जाया᳘यै का᳘माय जाया᳘ प्प्रिया᳘ भवत्यात्म᳘नस्तु का᳘माय जाया᳘ प्प्रिया᳘ भवति न वा᳘ ऽअरे पुत्रा᳘णाङ्का᳘माय पुत्राः᳘ प्प्रिया᳘ भवन्त्यात्म᳘नस्तु का᳘माय पुत्राः᳘ प्प्रिया᳘ भवन्ति न वा᳘ ऽअरे व्वित्त᳘स्य का᳘माय व्वित्त᳘म्प्रिय᳘म्भवत्यात्म᳘नस्तु का᳘माय व्वित्त᳘म्प्रिय᳘म्भवति न वा᳘ ऽअरे ब्ब्र᳘ह्मणः का᳘माय ब्ब्र᳘ह्म प्प्रिय᳘म्भवत्यात्म᳘नस्तु का᳘माय ब्ब्र᳘ह्म प्प्रिय᳘म्भवति न वा᳘ ऽअरे क्षत्र᳘स्य का᳘माय क्षत्र᳘म्प्रिय᳘म्भवत्यात्म᳘नस्तु का᳘माय क्षत्र᳘म्प्रिय᳘म्भवति न वा᳘ ऽअरे लोका᳘नाङ्का᳘माय लोकाः᳘ प्प्रिया᳘ भवन्त्यात्म᳘नस्तु का᳘माय लोकाः᳘ प्प्रिया᳘ भवन्ति न वा᳘ ऽअरे देवा᳘नाङ्का᳘माय देवाः᳘ प्प्रिया᳘ भवन्त्यात्म᳘नस्तु का᳘माय देवाः᳘ प्प्रिया᳘ भवन्ति न वा᳘ ऽअरे भूता᳘नाङ्का᳘माय भूता᳘नि प्प्रिया᳘णि भवन्त्यात्म᳘नस्तु का᳘माय भूता᳘नि प्प्रिया᳘णि भवन्ति न वा᳘ ऽअरे स᳘र्व्वस्य का᳘माय स᳘र्व्वम्प्रिय᳘म्भवत्यात्म᳘नस्तु का᳘माय स᳘र्व्वम्प्रिय᳘म्भवत्यात्मा वा᳘ ऽअरे द्द्रष्ट᳘व्यः श्रोत᳘व्यो मन्त᳘व्यो निदिध्यासित᳘व्यो मै᳘त्रेय्यात्म᳘नो वा᳘ ऽअरे द᳘र्शनेन श्र᳘वणेन मत्या᳘ व्विज्ञा᳘नेनेदᳫँ᳭ स᳘र्व्वम्विदितम्॥

मूलम् - Weber

स᳘ होवाच या᳘ज्ञवल्क्यो॥
न वा᳘ अरे प᳘त्युः का᳘माय॥
प᳘तिः प्रियो᳘ भवत्यात्म᳘नस्तु का᳘माय॥
प᳘तिः प्रियो᳘ भवति नवा᳘ अरे जाया᳘यै का᳘माय॥
जाया᳘ प्रिया᳘ भवत्यात्म᳘नस्तु का᳘माय जाया᳘ प्रिया᳘ भवति न वा᳘ अरे पुत्रा᳘णां का᳘माय पुत्राः᳘ प्रिया᳘ भवन्त्यात्म᳘नस्तु का᳘माय पुत्राः᳘ प्रिया᳘ भवन्ति न वा᳘ अरे वित्त᳘स्य का᳘माय वित्त᳘म् प्रिय᳘म् भवत्यात्म᳘नस्तु का᳘माय वित्त᳘म् प्रिय᳘म् भवति न वा᳘ अरे ब्रह्मणः का᳘माय ब्र᳘ह्म प्रिय᳘म् भवत्यात्म᳘नस्तु का᳘माय ब्र᳘ह्म प्रिय᳘म् भवति न वा᳘ अरे क्षत्र᳘स्य का᳘माय क्षत्र᳘म् प्रिय᳘म् भवत्यात्म᳘नस्तु का᳘माय क्षत्र᳘म् प्रिय᳘म् भवति न वा᳘ अरे लोका᳘नां का᳘माय लोकाः᳘ प्रिया᳘ भवन्त्यात्म᳘नस्तु का᳘माय लोकाः᳘ प्रिया᳘ भवन्ति न वा᳘ अरे देवा᳘नां का᳘माय देवाः᳘ प्रिया᳘ भवन्त्यात्म᳘नस्तु का᳘माय देवाः᳘ प्रिया᳘ भवन्ति न वा᳘ अरे भूता᳘नां का᳘माय भूता᳘नि प्रिया᳘णि भवन्त्यात्म᳘नस्तु का᳘माय भूता᳘नि प्रिया᳘णि भवन्ति न वा᳘ अरे स᳘र्वस्य का᳘माय स᳘र्वम् प्रिय᳘म् भवत्यात्म᳘नस्तु का᳘माय स᳘र्वम् प्रिय᳘म् भवत्यात्मा वा᳘ अरे द्रष्ट᳘व्यः श्रोत᳘व्यो मन्त᳘व्यो निदिध्यासित᳘व्यो मै᳘त्रेय्यात्म᳘नो 3 वा᳘ अरे द᳘र्शनेन श्र᳘वणेन मत्या᳘ विज्ञा᳘नेनेदᳫं स᳘र्वं विदितम्॥

मूलम् - विस्वरम्

स होवाच याज्ञवल्क्यः । न वा अरे पत्युः कामाय पतिः प्रियो भवति । आत्मनस्तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवति । आत्मनस्तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्ति । आत्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय वित्तं प्रियं भवति । आत्मनस्तु कामाय वित्तं प्रियं भवति । न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवति । आत्मनस्तु कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्त्रस्य कामाय क्षत्त्रं प्रियं भवति । आत्मनस्तु कामाय क्षत्त्रं प्रियं भवति । न वा अरे लोकानां कामाय लोकाः प्रिया भवन्ति । आत्मनस्तु कामाय लोकाः प्रिया भवन्ति । न वा अरे देवानां कामाय देवाः प्रिया भवन्ति । आत्मनस्तु कामाय देवाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्ति । आत्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्वं प्रियं भवति । आत्मनस्तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः । मैत्रेयि ! आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् ॥ ५ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘स याज्ञवल्क्यः’ अमृतत्वसाधनं वैराग्यमुपदिदिक्षुः जायापतिपुत्रादिभ्यः सकलसुखसाधनेभ्यः तत्सन्न्यासविरागमुत्पादयन्नुवाच । ‘अरे’ मैत्रेयि ! ‘वै’ प्रसिद्धं एतल्लोके यत् ‘पत्युः’ भर्तुः ‘कामाय’ प्रयोजनाय जायायाः ‘पतिः’ ‘प्रियो न भवति’ । किं तर्हि ‘आत्मनस्तु कामाय’ प्रयोजनायैव भार्यायाः ‘पतिः प्रियो भवति’ । तथा ‘न वा अरे जायायै’ इत्यादि समानम् । शेषं तु प्रसिद्धार्थम् । ‘न वा अरे सर्वस्य कामाय’ इति । सर्वग्रहणमुक्तानुक्तार्थम् । तस्माल्लोकप्रसिद्धमेतत् । आत्मैव प्रियो नान्यदिति । “तदेतत् प्रेयः पुत्रात्” (श. प. बृ. उ. १ । २। १९) इत्युपन्यस्तम् । तस्यैतद्वृत्तिस्थानीयं प्रपञ्चितम् । तस्मात् आत्मप्रीतिसाधनत्वात् अन्यत्र गौणी प्रीतिः । आत्मन्येव मुख्या । तस्मादरे मैत्रेयि ! परमप्रेमास्पदभूतः ‘आत्मा वै’ आत्मैव ‘द्रष्टव्यः’ दर्शनविषयमापादयितव्यः । केनोपायेनेत्यत आह- श्रोतव्य इति । ‘श्रोतव्यः’ पूर्वं आचार्यत आगमतश्च । पश्चात् ‘मन्तव्यः’ तर्कतः । ततः ‘निदिध्यासितव्यः’ निश्चयेन ध्यातव्यः । एवं हि श्रवणमनननिदिध्यासनेन ढकृतेन ‘आत्मनो वै दर्शनेन’ साक्षात्काररूपेण ‘इदं सर्वं’ स्थावरजङ्गमात्मकं अनात्मभूतमखिलं विदितमेव विज्ञातमेवेति ॥ ५ ॥

०६

विश्वास-प्रस्तुतिः

(म्ब्र᳘) ब्र᳘ह्म तम्प᳘रादात्॥
(द्यो) यो ऽन्य᳘त्रात्म᳘नो ब्ब्र᳘ह्म व्वे᳘द क्षत्त्रन्तम्प᳘रादा᳘द्यो ऽन्य᳘त्रात्म᳘नः क्षत्त्रम्वे᳘द लोकास्तम्प᳘रादु᳘र्य्यो ऽन्य᳘त्रात्म᳘नो लोकान्वे᳘द देवास्तम्प᳘रादु᳘र्य्यो ऽन्य᳘त्रात्मनो दे᳘वान्वेद[[!!]] भूता᳘नि तम्प᳘रादु᳘र्य्यो ऽन्य᳘त्रात्म᳘नो भूता᳘नि व्वे᳘द स᳘र्व्वन्तम्प᳘रादा᳘द्यो ऽन्य᳘त्रात्म᳘नः स᳘र्व्वम्वेदेदम्ब्र᳘ह्मेद᳘ङ्क्षत्त्र᳘मिमे᳘ लोका᳘ ऽइमे᳘ देवा᳘ ऽइमा᳘नि भूता᳘नीदᳫँ᳭ स᳘र्व्वं यदय᳘मात्मा[[!!]]॥

मूलम् - श्रीधरादि

(म्ब्र᳘) ब्र᳘ह्म तम्प᳘रादात्॥
(द्यो) यो ऽन्य᳘त्रात्म᳘नो ब्ब्र᳘ह्म व्वे᳘द क्षत्त्रन्तम्प᳘रादा᳘द्यो ऽन्य᳘त्रात्म᳘नः क्षत्त्रम्वे᳘द लोकास्तम्प᳘रादु᳘र्य्यो ऽन्य᳘त्रात्म᳘नो लोकान्वे᳘द देवास्तम्प᳘रादु᳘र्य्यो ऽन्य᳘त्रात्मनो दे᳘वान्वेद[[!!]] भूता᳘नि तम्प᳘रादु᳘र्य्यो ऽन्य᳘त्रात्म᳘नो भूता᳘नि व्वे᳘द स᳘र्व्वन्तम्प᳘रादा᳘द्यो ऽन्य᳘त्रात्म᳘नः स᳘र्व्वम्वेदेदम्ब्र᳘ह्मेद᳘ङ्क्षत्त्र᳘मिमे᳘ लोका᳘ ऽइमे᳘ देवा᳘ ऽइमा᳘नि भूता᳘नीदᳫँ᳭ स᳘र्व्वं यदय᳘मात्मा[[!!]]॥

मूलम् - Weber

ब्र᳘ह्म तम् प᳘रादात्॥
योऽन्य᳘त्रात्म᳘नो ब्र᳘ह्म वे᳘द क्षत्रं तम् प᳘रादाॗद्योऽन्य᳘त्रात्म᳘नः क्षत्रं वे᳘द लोकास्तम् प᳘रादुॗर्योऽन्य᳘त्रात्म᳘नो लोकान्वे᳘द देवास्तम् प᳘रादुॗर्योऽन्य᳘त्रात्म᳘नो देवान्वे᳘द भूता᳘नि तम् प᳘रादुॗर्योऽन्य᳘त्रात्म᳘नो भूता᳘नि वे᳘द स᳘र्वं तम् प᳘रादाॗद्योऽन्य᳘त्रात्म᳘नः स᳘र्वं वेदेदम् ब्र᳘ह्मेदं᳘ क्षत्र᳘मिमे᳘ लोका᳘ इमे᳘ देवा᳘ इमा᳘नि भूता᳘नीदᳫं स᳘र्वं य᳘दय᳘मात्मा॥

मूलम् - विस्वरम्

ब्रह्म तं परादात् । यो ऽन्यत्रात्मनो ब्रह्म वेद । क्षत्त्रं तं परादात् । यो ऽन्यत्रात्मनः क्षत्त्रं वेद । लोकास्तं परादुः । यो ऽन्यत्रात्मनो लोकान् वेद । देवास्तं परादुः । यो ऽन्यत्रात्मनो देवान् वेद । भूतानि तं परादुः । यो ऽन्यत्रात्मनो भूतानि वेद । सर्वं तं परादात् । यो ऽन्यत्रात्मनः सर्वं वेद । इदं ब्रह्म । इदं क्षत्त्रम् । इमे लोकाः । इमे देवाः । इमानि भूतानि । इदं सर्वम् यत् अयमात्मा ॥ ६ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

ननु- कथमस्मिन् विदिते अन्यत्सर्वं विदितं भवेत् इत्याशङ्कायां आत्मव्यतिरेकेणान्यस्याभावात् इति दर्शयितुमाह- ब्रह्म तमिति । ‘यः’ को ऽपि ‘आत्मनः’ सकाशात् ‘अन्यत्र’ पार्थक्येन ‘ब्रह्म’ ब्राह्मणजातिं ‘वेद’ मन्यते । तमयथार्थदर्शिनं पुरुषं ‘ब्रह्म’ ब्राह्मणजातिः ‘परादात्’ परादध्यात् पराकुर्यात् कैवल्यासम्बन्धिनं कुर्यात् । अयमनात्मस्वरूपेण मां पश्यतीत्यपराधादिति भावः । परमात्मा हि सर्वेषामात्मा । तथा- ‘क्षत्त्रं’ क्षत्रियजाति ‘तं परादात्’ इत्याद्युक्तं सर्वं पूर्ववत् । उक्तं सर्वमनूद्य तस्यात्मानतिरिक्तत्वमित्युपसंहरति- इदं ब्रह्मेत्यादिना । ‘यदयं’ यो ऽयमात्मा ‘द्रष्टव्यः श्रोतव्यः’ इति प्रकृतः । स एवेदं सर्वं उक्तमनुक्तं च । न ततः पृथगस्तीत्यर्थः । यस्मादात्मनो जायते आत्मन्येव लीयते आत्ममयं च स्थितिकाले एवमात्मव्यतिरिक्तं किमपि नास्तीति भावः ॥ ६ ॥

०७

विश्वास-प्रस्तुतिः

स य᳘था दुन्दुभे᳘र्हन्य᳘मानस्य॥
न बा᳘ह्याञ्छ᳘ब्दाञ्छक्नुयाद्ग्र᳘हणाय दुन्दुभेस्तु ग्ग्र᳘हणेन दुन्दुभ्याघात᳘स्य वा श᳘ब्दो गृहीतः[[!!]]॥

मूलम् - श्रीधरादि

स य᳘था दुन्दुभे᳘र्हन्य᳘मानस्य॥
न बा᳘ह्याञ्छ᳘ब्दाञ्छक्नुयाद्ग्र᳘हणाय दुन्दुभेस्तु ग्ग्र᳘हणेन दुन्दुभ्याघात᳘स्य वा श᳘ब्दो गृहीतः[[!!]]॥

मूलम् - Weber

स य᳘था दुन्दुभे᳘र्हन्य᳘मानस्य॥
न बा᳘ह्याञ्छ᳘ब्दाञ्छक्नुयाद्ग्र᳘हणाय दुन्दुभेस्तु ग्र᳘हणेन दुन्दुभ्याघात᳘स्य वा श᳘ब्दो भवति 4 गृहीतः᳟॥

मूलम् - विस्वरम्

स यथा दुन्दुभेर्हन्यमानस्य न बाह्यान् शब्दान् शक्नुयात् ग्रहणाय । दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ ७ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

कथं ? पुनरिदानीमिदं सर्वमात्मैवेति ग्रहीतुं शक्यते इत्याशङ्कायां घटः स्फुरतीत्यादिप्रत्ययमाश्रित्य चिन्मात्रानुगमात् सर्वत्र चित्स्वरूपतैवेति गम्यते । यत्स्वरूपव्यतिरेकेण यस्याग्रहणं तस्य तदात्मकत्वमेवेति व्याप्तौ दृष्टान्तत्रयमाह- स यथा दुन्दुभेः इति । ‘सः’ इति दृष्टान्तः । यथा लोके ‘दुन्दुभेः’ भेर्यादेर्हन्यमानस्य दण्डादिना ताड्यमानस्य ‘बाह्यान्’ बहिर्भूतान् शब्दान् शब्दविशेषान् दुन्दुभिशब्दसामान्यान्निकृष्टान् दुन्दुभिशब्दविशेषान् उच्चनीचादीन् ‘ग्रहणाय’ ग्रहीतुं न शक्नुयात् न समर्थो भवेत् । कथं ? तर्हि दुन्दुभिशब्दविशेषाणां ग्रहणमित्यत आह- दुन्दुभेस्त्विति । ‘दुन्दुभेस्तु’ दुन्दुभिशब्दसामान्यस्य ग्रहणेन तु ‘दुन्दुभ्याघातस्य वा’ दुन्दुभेराहननमाघातः तस्य दुन्दुभ्याघातविशिष्टस्य शब्दसामान्यस्य ‘ग्रहणेन तु’ दुन्दुभिशब्दविशेषो गृहीतः स्यात् । यथा एवं शब्दविशेषाः शब्दसामान्यान्नातिरिच्यन्ते । तथा स्फुरणात्मकब्रह्मसामान्यात् स्फोर्यमाणाः पदार्था नातिरिच्यन्त इत्यर्थः ॥ ७ ॥

०८

विश्वास-प्रस्तुतिः

स य᳘था व्वी᳘णायै व्वाद्य᳘मानायै॥
न बा᳘ह्याञ्छ᳘ब्दाञ्छक्नुयाद्ग्र᳘हणाय व्वी᳘णायै तु ग्ग्र᳘हणेन व्वीणावाद᳘स्य वा श᳘ब्दो गृहीतः[[!!]]॥

मूलम् - श्रीधरादि

स य᳘था व्वी᳘णायै व्वाद्य᳘मानायै॥
न बा᳘ह्याञ्छ᳘ब्दाञ्छक्नुयाद्ग्र᳘हणाय व्वी᳘णायै तु ग्ग्र᳘हणेन व्वीणावाद᳘स्य वा श᳘ब्दो गृहीतः[[!!]]॥

मूलम् - Weber

स य᳘था वी᳘णायै वाद्य᳘मानायै॥
न बा᳘ह्याञ्छ᳘ब्दाञ्छक्नुयाद्ग्र᳘हणाय वी᳘णायै तु ग्र᳘हणेन वीणावाद᳘स्य वा श᳘ब्दो गृहीतः᳟॥

मूलम् - विस्वरम्

स यथा वीणायै वाद्यमानायै न बाह्यान् शब्दान् शक्नुयात् ग्रहणाय । वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ ८ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

तथा ‘स यथा वीणायै वाद्यमानायै’ इति । वीणाया वाद्यमानाया इत्यर्थः । षष्ठ्यर्थे चतुर्थ्यौ । समानमन्यत् ॥ ८ ॥

०९

विश्वास-प्रस्तुतिः

स य᳘था शङ्ख᳘स्य ध्माय᳘मानस्य॥
न बा᳘ह्याञ्छ᳘ब्दाञ्छक्नुयाद्ग्र᳘हणाय शङ्ख᳘स्य तु ग्ग्र᳘हणेन शङ्खध्म᳘स्य वा श᳘ब्दो गृहीतः[[!!]]॥

मूलम् - श्रीधरादि

स य᳘था शङ्ख᳘स्य ध्माय᳘मानस्य॥
न बा᳘ह्याञ्छ᳘ब्दाञ्छक्नुयाद्ग्र᳘हणाय शङ्ख᳘स्य तु ग्ग्र᳘हणेन शङ्खध्म᳘स्य वा श᳘ब्दो गृहीतः[[!!]]॥

मूलम् - Weber

स य᳘था शङ्ख᳘स्य ध्माय᳘मानस्य॥
न बा᳘ह्याञ्छ᳘ब्दाञ्छक्नुयाद्ग्र᳘हणाय शङ्ख᳘स्य तु ग्र᳘हणेन शङ्खध्म᳘स्य वा श᳘ब्दो गृहीतः᳟॥

मूलम् - विस्वरम्

स यथा शङ्खस्य ध्मायमानस्य न बाह्यान् शब्दान् शक्नुयात् ग्रहणाय । शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ९ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

तथा ‘स यथा शङ्खस्य ध्मायमानस्य’ शब्देन संयोज्यमानस्यापूर्यमाणस्येत्यर्थः ‘न बाह्यान्’ शब्दान् शक्नुयादित्येवमादि पूर्ववत् । अनेकदृष्टान्तोपादानं इह सामान्यबहुत्वख्यापनार्थम् । अनेके हि विलक्षणाश्चेतनाचेतनरूपाः सर्वे ऽपि पदार्थाः स्थितिकाले प्रज्ञानघनप्रत्यगात्मैकत्वं गता इति द्योतनार्थमित्यर्थः ॥ ९ ॥

१०

विश्वास-प्रस्तुतिः

स य᳘था ऽऽर्द्रैधाग्ने᳘रभ्या᳘हितस्य॥
पृ᳘थग्धूमा᳘ व्विनिश्च᳘रन्त्येवम्वा᳘ ऽअरे ऽस्य᳘ महतो᳘ भूत᳘स्य नि᳘श्वसितमेतद्य᳘दृग्वेदो यजुर्व्वेदः᳘ सामवे᳘दो ऽथर्व्वाङ्गिर᳘स ऽइतिहासः᳘ पुराण᳘म्विद्या᳘ ऽउपनिष᳘दः श्लो᳘काः सू᳘त्राण्यनुव्याख्या᳘नानि व्व्याख्या᳘नान्य᳘स्यै᳘वैता᳘नि स᳘र्व्वाणि नि᳘श्वसितानि॥

मूलम् - श्रीधरादि

स य᳘था ऽऽर्द्रैधाग्ने᳘रभ्या᳘हितस्य॥
पृ᳘थग्धूमा᳘ व्विनिश्च᳘रन्त्येवम्वा᳘ ऽअरे ऽस्य᳘ महतो᳘ भूत᳘स्य नि᳘श्वसितमेतद्य᳘दृग्वेदो यजुर्व्वेदः᳘ सामवे᳘दो ऽथर्व्वाङ्गिर᳘स ऽइतिहासः᳘ पुराण᳘म्विद्या᳘ ऽउपनिष᳘दः श्लो᳘काः सू᳘त्राण्यनुव्याख्या᳘नानि व्व्याख्या᳘नान्य᳘स्यै᳘वैता᳘नि स᳘र्व्वाणि नि᳘श्वसितानि॥

मूलम् - Weber

स य᳘थार्द्रैधाग्ने᳘रभ्या᳘हितस्य॥
पृ᳘थग्धूमा᳘ विनिश्च᳘रन्त्येवं वा᳘ अरेऽस्य᳘ महतो᳘ भूत᳘स्य नि᳘श्वसितमेतद्य᳘दृग्वेदो यजुर्वेदः᳘ सामवेॗदोऽथर्वाङ्गिर᳘स इतिहासः पुराणं᳘ विद्या᳘ उपनिष᳘दः श्लो᳘काः सू᳘त्राण्यनुव्याख्या᳘नानि व्याख्या᳘नान्यस्यैॗवैता᳘नि स᳘र्वाणि नि᳘श्वसितानि 5

मूलम् - विस्वरम्

स यथा आर्द्रैधाग्नेरभ्याहितस्य पृथक् धूमा विनिश्चरन्ति । एवं वा अरे अस्य महतो भूतस्य निश्वसितमेतत् । यत् ऋग्वेदो यजुर्वेदः सामवेदो ऽथर्वाङ्गिरस इतिहासः पुराणं विद्याः उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानि । अस्यैवैतानि सर्वाणि निश्वसितानि ॥ १० ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवं स्थितिकाले जगतो ब्रह्मैकत्वमवगमय्य उत्पत्तिकाले ऽपि तथा अवगमयितुं कार्याणामुत्पत्तेः प्राक् कारणादभिन्नत्वं दर्शयितुमाह- स यथेति । ‘सः’ इति दृष्टान्तः । यथा आर्द्रैरेधैः काष्ठैरिद्धो ऽग्निः ‘आर्द्रैधाग्निः’ तस्मात् ‘अभ्याहितस्य’ अभितः प्रज्वलितात् पृथक् नानाप्रकारं धूमा विनिश्चरन्ति विनिर्गच्छन्ति । ‘अभ्याहितस्य’ इति पञ्चम्यर्थे षष्ठी । धूमग्रहणं विष्फुलिङ्गादीनामप्युपलक्षणपरम् । धूमविष्फुलिङ्गादयो विनिर्गच्छन्तीत्यर्थः । तथा ऋग्वेदादिप्रपञ्चः उत्पत्तेः प्राङ् न ब्रह्मणः पृथगस्तीत्यभिप्रेत्य दार्ष्टातिकमाह- एवं वा इति । यथा अयं दृष्टान्तः । ‘एवं वै’ एवमेव ‘अरे’ मैत्रेयि ! ‘अस्य’ प्रकृतस्य परामात्मनः ‘महतः’ अनवच्छिन्नस्य ‘भूतस्य’ परमार्थस्वभावस्य एतद्वक्ष्यमाणं ‘निश्वसितं’ अयत्नोत्पादितं निश्वसितमिव निश्वसितम् । किमेतदित्यत आह- यदृग्वेद इति । ‘यत् ऋग्वेदो यजुर्वेदः सामवेदो ऽथर्वाङ्गिरसः’ इति चतुर्विधं मन्त्रजातम् । अथर्वणा अङ्गिरसा च दृष्टा मन्त्राः ‘अथर्वाङ्गिरसः’ । ‘इतिहासः’ उर्वशीपुरूरवसोः संवादादिरूपः । यथा- “उर्वशी हाप्सराः”- (श. प. ११ । ५ । १ । १) इत्यादि ब्राह्मणमेव । ‘पुराणं’- “असद्वा ऽ इदमग्र ऽआसीत्”- (श. प. ६ । १ । १ । १) इत्यादि । ‘विद्याः’ देवजनविद्याः “वेदः सो ऽयं”- (श. प. १३ । ४ । ३ । १०) इत्याद्याः । ‘उपनिषदः’ “प्रियमित्येनदुपासीत”- (श. प. १४ । ६ । १० । ३) इत्याद्याः । ‘श्लोकाः’ ब्राह्मणप्रभवाः- “तदप्येते श्लोकाः” (श. प. बृ. उ. ४ । २ । ११) इत्यादयः । ‘सूत्राणि’ वस्तुसङ्ग्राहकानि वाक्यानि वेदे । यथा- “आत्मेत्येवोपासीत”- (श. प. १४ । ४ । २ । २८) इयेवमादीनि । ‘अनुव्याख्यानानि’ मन्त्रविवरणानि । ‘व्याख्यानानि’ अर्थवादाः । अथवा ‘अनुव्याख्यानानि’ वस्तुसङ्ग्राहकवाक्यानां विवरणवाक्यानि । यथा- “प्राणा वै सत्यं”- (श. प. १४ । ५ । १ । २३-१४ । ५ । २ । ३) इति शिशुमूर्तामूर्तब्राह्मणे । ‘व्याख्यानानि’ “मेधया हि तपसा ऽजनयत्पिता”- (श. प. १४ । ४ । ३ । २ ।) इत्येवमादीनि मन्त्रविवरणानि । ‘एतानि’ उक्तानि ऋग्वेदादीनि मन्त्रब्राह्मणात्मकानि ‘अस्यैव’ ईश्वरस्य ‘निश्वसितानि’ | तथा च पुरुषबुद्धेः प्रयत्नपूर्वकत्वमन्तरेणैव नियतरचनावतः पूर्वसिद्धस्यैव वेदस्य सुप्तप्रबुद्धवत् सृष्टिसमये अभिव्यक्तत्वोक्तेर्वेदः स्वार्थे निरपेक्ष एव प्रमाणम् । अत एव- “इदं सर्वं यदयमात्मेति” वेदस्य अप्रामाण्यकारणनिरासार्थं वा अस्याः श्रुतेः प्रवृत्तिरिति भावः ॥ १० ॥

११

विश्वास-प्रस्तुतिः

स य᳘था स᳘र्व्वासामपा᳘ᳫँ᳘ समुद्र᳘ ऽएकायन᳘म्॥
(मे) एवᳫँ᳭ स᳘र्व्वेषाᳫँ᳭ स्पर्शा᳘नान्त्व᳘गेकायन᳘मेवᳫँ᳭ स᳘र्व्वेषाङ्गन्धा᳘नां ना᳘सिके ऽएकायन᳘मेवᳫँ᳭ स᳘र्व्वेषाᳫँ᳭ र᳘सानाञ्जि᳘ह्वैकायन᳘मेवᳫँ᳭ स᳘र्व्वेषाᳫँ᳭ रूपा᳘णाञ्च᳘क्षुरेकायन᳘मेवᳫँ᳭ स᳘र्व्वेषाᳫँ᳭ श᳘ब्दानाᳫँ᳭ श्रो᳘त्रमेकायन᳘मेवᳫँ᳭ स᳘र्व्वेषाᳫँ᳭ सङ्कल्पा᳘नाम्म᳘न ऽएकायन᳘मेवᳫँ᳭ स᳘र्व्वेषाम्वे᳘दानाᳫँ᳭ हृ᳘दयमेकायन᳘मेवᳫँ᳭ स᳘र्व्वेषाङ्क᳘र्मणाᳫँ᳭ ह᳘स्तावेकायन᳘मेवᳫँ᳭ स᳘र्व्वेषाम᳘ध्वनाम्पा᳘दावेकायन᳘मेवᳫँ᳭ स᳘र्व्वेषामानन्दा᳘नन्दा᳘नामुप᳘स्थ ऽएकायन᳘मेवᳫँ᳭ स᳘र्व्वेषाम्विसर्ग्गा᳘णाम्पा᳘युरेकायन᳘मेवᳫँ᳭ स᳘र्व्वासाम्विद्या᳘नाम्वा᳘गेकायनम्[[!!]]॥

मूलम् - श्रीधरादि

स य᳘था स᳘र्व्वासामपा᳘ᳫँ᳘ समुद्र᳘ ऽएकायन᳘म्॥
(मे) एवᳫँ᳭ स᳘र्व्वेषाᳫँ᳭ स्पर्शा᳘नान्त्व᳘गेकायन᳘मेवᳫँ᳭ स᳘र्व्वेषाङ्गन्धा᳘नां ना᳘सिके ऽएकायन᳘मेवᳫँ᳭ स᳘र्व्वेषाᳫँ᳭ र᳘सानाञ्जि᳘ह्वैकायन᳘मेवᳫँ᳭ स᳘र्व्वेषाᳫँ᳭ रूपा᳘णाञ्च᳘क्षुरेकायन᳘मेवᳫँ᳭ स᳘र्व्वेषाᳫँ᳭ श᳘ब्दानाᳫँ᳭ श्रो᳘त्रमेकायन᳘मेवᳫँ᳭ स᳘र्व्वेषाᳫँ᳭ सङ्कल्पा᳘नाम्म᳘न ऽएकायन᳘मेवᳫँ᳭ स᳘र्व्वेषाम्वे᳘दानाᳫँ᳭ हृ᳘दयमेकायन᳘मेवᳫँ᳭ स᳘र्व्वेषाङ्क᳘र्मणाᳫँ᳭ ह᳘स्तावेकायन᳘मेवᳫँ᳭ स᳘र्व्वेषाम᳘ध्वनाम्पा᳘दावेकायन᳘मेवᳫँ᳭ स᳘र्व्वेषामानन्दा᳘नन्दा᳘नामुप᳘स्थ ऽएकायन᳘मेवᳫँ᳭ स᳘र्व्वेषाम्विसर्ग्गा᳘णाम्पा᳘युरेकायन᳘मेवᳫँ᳭ स᳘र्व्वासाम्विद्या᳘नाम्वा᳘गेकायनम्[[!!]]॥

मूलम् - Weber

स य᳘था स᳘र्वासामपा᳘ᳫं᳘ समुद्र᳘ एकायन᳘म्॥
एवᳫं स᳘र्वेषाᳫं स्पर्शा᳘नां 6 त्व᳘गेकायन᳘मेवᳫं स᳘र्वेषां गन्धा᳘नां ना᳘सिके एकायन᳘मेवᳫं स᳘र्वेषां र᳘सानां जिॗह्वैकायन᳘मेवᳫं स᳘र्वेषां रूपा᳘णां च᳘क्षुरेकायन᳘मेवᳫं स᳘र्वेषां श᳘ब्दानां श्रो᳘त्रमेकायन᳘मेवᳫं स᳘र्वेषाᳫं संकल्पा᳘नाम् म᳘न एकायन᳘मेवᳫं स᳘र्वेषां वे᳘दानाᳫं हृ᳘दयमेकायन᳘मेवᳫं स᳘र्वेषां क᳘र्मणाᳫं ह᳘स्तावेकायन᳘मेवᳫं स᳘र्वेषाम᳘ध्वनां पा᳘दावेकायन᳘मेवᳫं स᳘र्वेषामानन्दा᳘नन्दा᳘नामुप᳘स्थ एकायन᳘मेवᳫं स᳘र्वेषां विसर्गा᳘णाम् पा᳘युरेकायन᳘मेवᳫं स᳘र्वासां विद्या᳘नां वा᳘गेकायन᳘म्॥

मूलम् - विस्वरम्

स यथा सर्वासामपां समुद्र एकायनम् । एवं सर्वेषां स्पर्शानां त्वगेकायनम् । एवं सर्वेषां गन्धानां नासिके एकायनम् । एवं सर्वेषां रसानां जिह्वैकायनम् । एवं सर्वेषां रूपाणां चक्षुरेकायनम् । एवं सर्वेषां शब्दानां श्रोत्रमेकायनम् । एवं सर्वेषां सङ्कल्पानां मन एकायनम् । एवं सर्वेषां वेदानां हृदयमेकायनम् । एवं सर्वेषामध्वनां पादावेकायनम् । एवं सर्वेषामानन्दामामुपस्थ एकायनम् । एवं सर्वेषां विसर्गाणां पायुरेकायनम् । एवं सर्वासां विद्यानां वागेकायनम् ॥ ११ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

अथ प्रलयकाले ऽपि अस्य प्रपञ्चस्य ब्रह्मात्मकत्वं प्रतिपत्तव्यमिति दृष्टान्तपूर्वकमाह- स यथा सर्वासामपामिति । ‘सः’ इति दृष्टान्तः । ‘यथा’ येन प्रकारेण ‘सर्वासां’ नदीवापीतडागादिगतानां ‘अपां’ समुद्रो ऽब्धिः उदकसामान्यं एकायनमेकगमनं एकप्रलयः अविभागप्राप्तिरित्यर्थः । यथा ऽयं दृष्टान्तः । ‘एवं सर्वेषां स्पर्शानां’- मृदुकठिनादीनां वायोरात्मभूतानां ‘त्वगेकायनं’ त्वगिति त्वग्विषयं स्पर्शसामान्यमात्रमाश्रयः । तथा ‘सर्वेषां गन्धानां’ पृथिवीविशेषाणाम् ‘नासिके’ घ्राणे विषयसामान्यम् । तथा ‘सर्वेषां रसानां’ अब्विशेषाणाम् जिह्वेन्द्रियं विषयसामान्यम् । तथा ‘रूपाणां’ तेजोविशेषाणां ‘चक्षुः’ विषयसामान्यम् । तथा शब्दानामाकाशविशेषाणां ‘श्रोत्रं’ विषयसामान्यम् । एतान्यपि विषयविशेषसामान्यानि मनोविषये सङ्कल्पे अन्तर्भवन्ति- तेषां सङ्कल्पपूर्वकत्वात् । ‘सर्वेषां’ सङ्कल्पविशेषाणां ‘मनः’ विषयसामान्यं सङ्कल्पमात्रमेकायनम् । तस्य सङ्कल्पस्य च अध्यवसायपारतन्त्र्यदर्शनात् बुद्धिविषयविशेषेषु वेदशब्दवाच्येषु विद्याशब्दवाच्येषु च अध्यवसाये अन्तर्भावः । ‘सर्वेषां वेदानामिति’ सर्वासां विद्यानां ‘हृदयं’ बुद्धिसामान्यं विज्ञानमात्रमेकायनम् । तदपि कारणभूते प्रज्ञानघने ब्रह्मणि लीयत इति बोध्यम् । तथा ‘सर्वेषां कर्म्मणां हस्तावेकायनं’ इत्यादिना कर्म्मेन्द्रियाणां तद्विषयविशेषाणां आदानगमनानन्दविसर्गवेदनानां च तत्तत्सामान्येषु लयः । तेषां च प्राणे, प्राणस्यापि कारणात्मनि, इत्यभिप्रायतः श्रुत्या उच्यत इति भावः ॥ ११ ॥

१२

विश्वास-प्रस्तुतिः

(ᳫँ᳭) स य᳘था सैन्धवखिल्यः᳘॥
(ऽ) उदके प्प्रा᳘स्त ऽउदक᳘मे᳘वानुविली᳘येत न᳘ हास्योद्ग्र᳘हणायेव स्याद्य᳘तोयत᳘स्तदाद᳘दीत लवण᳘मे᳘वैवम्वा᳘ ऽअर᳘ ऽइद᳘म्मह᳘द्भूत᳘मनन्त᳘मपार᳘म्विज्ञानघन᳘ ऽए᳘वैतेभ्यो[[!!]] भूते᳘भ्यः समुत्था᳘य ता᳘न्ये᳘वानुवि᳘नश्यति न प्प्रे᳘त्य[[!!]] सं᳘ज्ञा ऽस्ती᳘त्यरे ब्ब्रवीमी᳘ति होवाच या᳘ज्ञवल्क्यः॥

मूलम् - श्रीधरादि

(ᳫँ᳭) स य᳘था सैन्धवखिल्यः᳘॥
(ऽ) उदके प्प्रा᳘स्त ऽउदक᳘मे᳘वानुविली᳘येत न᳘ हास्योद्ग्र᳘हणायेव स्याद्य᳘तोयत᳘स्तदाद᳘दीत लवण᳘मे᳘वैवम्वा᳘ ऽअर᳘ ऽइद᳘म्मह᳘द्भूत᳘मनन्त᳘मपार᳘म्विज्ञानघन᳘ ऽए᳘वैतेभ्यो[[!!]] भूते᳘भ्यः समुत्था᳘य ता᳘न्ये᳘वानुवि᳘नश्यति न प्प्रे᳘त्य[[!!]] सं᳘ज्ञा ऽस्ती᳘त्यरे ब्ब्रवीमी᳘ति होवाच या᳘ज्ञवल्क्यः॥

मूलम् - Weber

स य᳘था सैन्धवखिल्यः᳟॥
उदके प्रा᳘स्त उदक᳘मेॗवानुविली᳘येत ना᳘हास्योद्ग्र᳘हणायेव स्याद्य᳘तो-यतॗस्त्वाद᳘दीत लवण᳘मेॗवैवं वा᳘ अर इद᳘म् मह᳘द्भूत᳘मनन्त᳘मपारं᳘ विज्ञानघन᳘ एॗवैते᳘भ्यो भूते᳘भ्यः समुत्था᳘य ता᳘न्येॗवानुवि᳘नश्यति न प्रे᳘त्यॗ संज्ञास्ती᳘त्यरे ब्रवीमी᳘ति होवाच या᳘ज्ञवल्क्यः॥

मूलम् - विस्वरम्

स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत । न हास्योद्ग्रहणायेव स्यात् । यतोयतस्तत् आददीत । लक्षणमेव । एवं वा अरे इदं महद्भूतमनन्तमपारं विज्ञानघन एव । एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति । न प्रेत्य संज्ञा अस्ति इति अरे ब्रवीमि । इति होवाच याज्ञवल्क्यः ॥ १२ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवं प्राकृतिकप्रलयप्रदर्शनेन सर्वं मूलप्रकृतिभूतमद्वयात्मतत्त्वमित्यवगमितम् । “इदं सर्वं यदयमात्मा” कं (६) इति प्रतिज्ञातत्वात् इदानीं ब्रह्मविद्यया अविद्या ऽतिरोधद्वारेण यः अयमात्यन्तिकः प्रलयः, तं दर्शयितुं दृष्टान्तमुपादत्ते- स यथेति । ‘सः’ इति दृष्टान्तः । ‘यथा’ लोके ‘सैन्धवखिल्यः’ स्यन्दनात्सिन्धुरुदकं तस्य विकारः तत्र भवो वा सैन्धवः, स चासौ खिल्यो लवणशकलश्चेति ‘सैन्धवखिल्यः’ । स्वार्थे यण्प्रत्ययः । ‘उदके’ सिन्धौ स्वयोनौ ‘प्रास्तः’ प्रक्षिप्तः सन् खिल्यारम्भकत्वेन तदवयवभूतं ‘उदकं’ विलीयमानं ‘अनु’ पश्चात् ‘विलीयेतैव’ उदकभावमापद्येतैव । ‘अस्य’ विलीनस्य खिल्यस्य ‘उद्ग्रहणाय’ उद्धृत्य पूर्ववत् ग्रहीतुं ‘न ह’ नैव कश्चित् सुनिपुणो ऽपि समर्थः ‘स्यात्’ । अत्र ‘इव’ शब्दो ऽनर्थकः । कस्मात् ? ‘यतोयतः’ यस्मात् यस्मात् देशात् तदुदकमाददीत गृहीत्वा आस्वादयेत् । तत्र तत्र ‘लवणमेव’ लवणास्वादमेव तदुदकम् । न तु खिल्यभावः । यथा अयं दृष्टान्तः । ‘एवं वै’ एवमेव ‘अरे’ मैत्रेयि ! ‘इदं’ परमात्माख्यं विलीनखिल्यभावं ब्रह्मतत्त्वं ‘महद्भूतं’ महच्च तत् भूतं च महद्भूतं सर्वमहत्तरत्वात् आकाशादिकारणत्वाच्च महत् त्रिष्वपि कालेषु स्वरूपाव्यभिचारात् सर्वदैव परिनिष्पन्नम् । भूतमिति त्रैकालिको निष्ठाप्रत्ययः । अथवा भूतशब्दः परमार्थवाची । महच्च तत् पारमार्थिकञ्चेत्यर्थः । ‘अनन्तं’ न विद्यते अन्तः कारणं पूर्वावधिभूतं यस्य तदनन्तम् । ‘अपारं’ न विद्यते पारः उत्तरावधिभूतं कार्यं यस्य तदपारम् । ‘विज्ञानघन एव’ विज्ञानं विज्ञप्तिः विज्ञानञ्च तत् घनश्चेति विज्ञानघनः । घनशब्दो जात्यन्तरप्रतिषेधार्थः । यथा सुवर्णघनः अयोघन इति । एवशब्दो ऽवधारणार्थः । स विज्ञानघनो विशुद्धज्ञप्तिमात्रैकरस एव आत्मा ‘एतेभ्यो भूतेभ्यः’ कार्यकारणविषयाकारपरिणतेभ्यो नामरूपात्मकेभ्यः सत्यशब्दवाच्येभ्यो हेतुभूतेभ्यः मनुष्यो ऽहं ब्राह्मणो ऽहं इत्यादिखिल्यभावेन ‘समुत्थाय’ सम्यगुत्थाय उदकात्सूर्यचन्द्रादिप्रतिबिम्बवत् ‘तानि’ कार्यकारणविषयाकारपरिणतानि भूतानि आत्मनो विशेषात्मखिल्यभावहेतुभूतानि शास्त्राचार्योपदेशेन ब्रह्मविद्यया प्रविलापितानि ‘विनश्यन्ति’ सन्ति ‘अनु’ पश्चात् उदकादिहेत्वपनये च चन्द्रसूर्यादिप्रतिबिम्बवत् एष विशेषात्मखिल्यभावो विनश्यति । तथा च अविद्याकार्यरूपखिल्यभावहेत्वपगमे प्रज्ञानघनमनन्तमपारं स्वस्थं व्यवतिष्ठतीत्यर्थः । अस्याञ्च कैवल्यावस्थायां विशेषज्ञानं नास्तीत्याह- न प्रेत्येति । ‘अरे’ मैत्रेयि ! एवं कार्यकारणसङ्घातेभ्यः विमुक्तस्य ब्रह्मविदः ‘प्रेत्य’ विमुच्य ‘संज्ञा’ अहमसौ अमुष्य पुत्रः ममेदं क्षेत्रं धनं सुखी दुःखीत्येवमादिलक्षणं विशेषसंज्ञा विशेषज्ञानं नास्तीति ‘अहं ब्रवीमि’ इत्येवं ‘ह’ किल परमार्थदर्शनं ‘याज्ञवल्क्यः’ मैत्रेय्यै भार्यायै उवाचोक्तवान् ॥ १२ ॥

१३

विश्वास-प्रस्तुतिः

सा᳘ होवाच मै᳘त्रेयी᳘॥
(य्य᳘) अ᳘त्रैव᳘ मा भ᳘गवानमूमुहन्न प्प्रे᳘त्य[[!!]] सं᳘ज्ञा ऽस्ती᳘ति॥

मूलम् - श्रीधरादि

सा᳘ होवाच मै᳘त्रेयी᳘॥
(य्य᳘) अ᳘त्रैव᳘ मा भ᳘गवानमूमुहन्न प्प्रे᳘त्य[[!!]] सं᳘ज्ञा ऽस्ती᳘ति॥

मूलम् - Weber

सा᳘ होवाच मै᳘त्रेयी॥
अ᳘त्रैव᳘ मा भ᳘गवानमूमुहन्न प्रे᳘त्यॗ संज्ञास्ती᳘ति॥

मूलम् - विस्वरम्

सा होवाच मैत्रेयी । अत्रैव मा भगवान् अमूमुहत् । न प्रेत्य संज्ञा अस्तीति ॥ १३ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवं प्रतिबोधिता ‘सा’ मैत्रेयी ‘ह’ किल उवाचोक्तवती । ‘अत्रैव’ एतस्मिन्नेव एकस्मिन् वस्तुनि ब्रह्मणि पूर्वं ‘विज्ञानघन एवेति’ प्रतिज्ञाय पुनः “न प्रेत्य संज्ञा ऽस्तीति” विज्ञानघनसंज्ञा ऽभावञ्च विरुद्धधर्मत्वं आचक्षाणः ‘भगवान्’ पूजावान् ‘मा’ मां ‘अमूमुहत्’ मोहङ्कृतवान् । न हि उष्णः शीतश्चाग्निरवैको भवति । अतः मूढा ऽस्म्यत्रेत्यर्थः ॥ १३ ॥

१४

विश्वास-प्रस्तुतिः

स᳘ होवाच या᳘ज्ञवल्क्यः॥
(ल्क्यो) न वा᳘ ऽअरे ऽहम्मो᳘हम्ब्रवीम्यलम्वा᳘ ऽअर᳘ ऽइद᳘म्विज्ञा᳘नाय॥

मूलम् - श्रीधरादि

स᳘ होवाच या᳘ज्ञवल्क्यः॥
(ल्क्यो) न वा᳘ ऽअरे ऽहम्मो᳘हम्ब्रवीम्यलम्वा᳘ ऽअर᳘ ऽइद᳘म्विज्ञा᳘नाय॥

मूलम् - Weber

स᳘ होवाच या᳘ज्ञवल्क्यो॥
न वा᳘ अरे हम् मो᳘हम् ब्रवीम्यलं वा᳘ अर इदं᳘ विज्ञा᳘नाय॥

मूलम् - विस्वरम्

स होवाच याज्ञवल्क्यः । न वा अरे अहं मोहं ब्रवीमि । अलं वा अरे इदं विज्ञानाय ॥ १४ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवमुक्तः ‘सः’ ‘याज्ञवल्क्यः’ ‘ह’ प्रतिवचनं ‘उवाच’ । ‘अरे’ मैत्रेयि ! ‘अहं मोहं’ न वै ब्रवीमि मोहनवाक्यं नैव ब्रवीमीत्यर्थः । “न प्रेत्य संज्ञा ऽस्ति” इति तु विशेषविज्ञानानामभावस्यैवोक्तत्वात् । ‘अरे’ मैत्रेयि ! शृणु । यन्महद्भूतमनन्तमपारं प्रज्ञानघनस्वरूपं यथा व्याख्यातम् । ‘इदमेव विज्ञानाय’ विज्ञातुं ‘अलं’ पर्याप्तम् । इति याज्ञवल्क्य उक्तवानित्यर्थः ॥ १४ ॥

१५

विश्वास-प्रस्तुतिः

य᳘त्र हि᳘ द्वैत᳘मिव भ᳘वति॥
तदि᳘तर ऽइ᳘तरम्पश्यति तदि᳘तर ऽइ᳘तरञ्जिघ्घ्रति तदि᳘तर ऽइ᳘तरमभि᳘वदति तदि᳘तर ऽइ᳘तरᳫँ᳭ शृणोति तदि᳘तर ऽइ᳘तरम्मनुते तदि᳘तर ऽइ᳘तरम्वि᳘जानाति॥

मूलम् - श्रीधरादि

य᳘त्र हि᳘ द्वैत᳘मिव भ᳘वति॥
तदि᳘तर ऽइ᳘तरम्पश्यति तदि᳘तर ऽइ᳘तरञ्जिघ्घ्रति तदि᳘तर ऽइ᳘तरमभि᳘वदति तदि᳘तर ऽइ᳘तरᳫँ᳭ शृणोति तदि᳘तर ऽइ᳘तरम्मनुते तदि᳘तर ऽइ᳘तरम्वि᳘जानाति॥

मूलम् - Weber

य᳘त्र हि᳘ द्वैत᳘मिव भ᳘वति॥
तदि᳘तर इ᳘तरम् पश्यति तदि᳘तर इ᳘तरं जिघ्रति तदि᳘तर इ᳘तरमभि᳘वदति तदि᳘तर इ᳘तरं शृणोति तदि᳘तर इ᳘तरम् मनुते तदि᳘तर इ᳘तरं वि᳘जानाति॥

मूलम् - विस्वरम्

यत्र हि द्वैतमिव भवति । तदितर इतरं पश्यति । तदितर इतरं जिघ्रति । तदितर इतरमभिवदति । तदितर इतरं शृणोति । तदितर इतरं मनुते । तदितर इतरं विजानाति ॥ १५ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

अथ एवमुक्तं विशेषविज्ञानाभावमन्वयव्यतिरेकाभ्यां दृढीकुर्वन्नाह- यत्र हीति । ‘यत्र’ यस्मिन् अविद्याकल्पिते कार्यकारणसङ्घातोपाधिजनिते विशेषात्मनि खिल्यभावे ‘हि’ प्रसिद्धं ‘द्वैतमिव’ परमार्थतो ऽद्वैते ब्रह्मणि भिन्नमिव आत्मनो वस्त्वन्तरं भासमानं ‘भवति’ । तत्तत्र तस्मिन् काले ‘इतरः’ असौ परमात्मनः खिल्यभूतः आत्मा परमार्थचन्द्रादेरिवोदकचन्द्रादिप्रतिबिम्बद्रष्टेतरेण चक्षुरादिकरणेन ‘इतरं’ द्रष्टव्यं रूपादिपदार्थं ‘पश्यति’ । एवमितरो घ्राता ‘इतरेण’ घ्राणेनेतरज्जिघ्रति । तथा ‘अभिवदति’ शृणोति ‘मनुते’ ‘विजानाति’ इयमविद्यावदवस्था ॥ १५ ॥

१६

विश्वास-प्रस्तुतिः

य᳘त्र᳘ त्वस्य[[!!]] स᳘र्व्वमा᳘त्मैवा᳘भूत्॥
(त्त) तत्के᳘न क᳘म्पश्येत्तत्के᳘न क᳘ञ्जिघ्घ्रेत्तत्के᳘न क᳘मभि᳘वदेत्तत्के᳘न क᳘ᳫँ᳘ शृणुयात्तत्के᳘न क᳘म्मन्वीत तत्के᳘न क᳘म्विजा᳘नीयाद्ये᳘नेदᳫँ᳭[[!!]] स᳘र्व्वम्विजाना᳘ति तङ्के᳘न व्वि᳘जानीयाद्विज्ञाता᳘रमरे के᳘न व्विजानीयादि᳘ति[[!!]]॥

मूलम् - श्रीधरादि

य᳘त्र᳘ त्वस्य[[!!]] स᳘र्व्वमा᳘त्मैवा᳘भूत्॥
(त्त) तत्के᳘न क᳘म्पश्येत्तत्के᳘न क᳘ञ्जिघ्घ्रेत्तत्के᳘न क᳘मभि᳘वदेत्तत्के᳘न क᳘ᳫँ᳘ शृणुयात्तत्के᳘न क᳘म्मन्वीत तत्के᳘न क᳘म्विजा᳘नीयाद्ये᳘नेदᳫँ᳭[[!!]] स᳘र्व्वम्विजाना᳘ति तङ्के᳘न व्वि᳘जानीयाद्विज्ञाता᳘रमरे के᳘न व्विजानीयादि᳘ति[[!!]]॥

मूलम् - Weber

य᳘त्र त्व᳘स्य स᳘र्वमाॗत्मैवा᳘भूत्॥
तत्के᳘न क᳘म् पश्येत्तत्के᳘न कं᳘ जिघ्रे᳘त्तत्के᳘न क᳘मभि᳘वदेत्तत्के᳘न कं᳘ शृणुयात्तत्के᳘न क᳘म् मन्वीत तत्के᳘न कं वि᳘जानीयाद्ये᳘नेदᳫं स᳘र्वं विजाना᳘ति तं के᳘न वि᳘जानीयाद्विज्ञाता᳘रमरे के᳘न वि᳘जानीयादि᳘ति॥

मूलम् - विस्वरम्

यत्र तु अस्य सर्वमात्मैवाभूत् । तत्केन कं पश्येत् । तत् केन कं जिघ्रेत् । तत् केन कमभिवदेत् । तत् केन कं शृणुयात् । तत् केन कं मन्वीत । तत् केन कं विजानीयात् । येनदं सर्वं विजानाति । तं केन विजानीयात् । विज्ञातारम् अरे केन विजानीयात् इति ॥ १६ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

यत्र तु ब्रह्मविद्यया अविद्या नाशमुपगमिता, तत्रात्मव्यतिरेकेणान्यस्याभाव इति व्यतिरेकं दर्शयितुमाह- यत्र त्वस्येति । ‘यत्र’ यस्यां विद्यावस्थायां ‘अस्य’ ब्रह्मविदः ‘सर्वं’ कर्तृकर्म्मक्रियाफलादिकं आत्मन्येव प्रविलापितं सत् ‘आत्मैवाभूत्’ आत्मैव संवृत्तम् । ‘तत्र’ तस्यामवस्थायां ‘केन’ कारणेन ‘कं’ द्रष्टव्यं विषयं ‘कः’ ‘पश्येत्’ । तथा- “जिघ्रेदित्यादि विजानीयात्” इत्यन्तं व्याख्येयम् । न को ऽपि केनापि कमपि विजानीयात् । करणादिकारकानुपपत्तेः । एवं कैवल्यावस्थायां विशेषविज्ञानाभावं अन्वयव्यतिरेकाभ्यां प्रतिपाद्य तत्रैव कैमुतिकन्यायं दर्शयितुमविद्यावस्थायामपि साक्षिणो ज्ञानविषयत्वमाह- येनेदमिति । यत्राप्यविद्यावस्थायां अन्यो ऽन्यं पश्यति । तत्रापि ‘येन’ कूटस्थबोधेन व्याप्तो लोकः ‘सर्वमिदं विजानाति’ । ‘तं’ साक्षिणं ‘केन’ करणेन को वा विज्ञाता ‘विजानीयात्’ । न केनापीत्यर्थः । येन चक्षुरादिना लोको जानाति । तस्य विषयग्रहणेनैव उपक्षीणत्वात् न साक्षिणि प्रवृत्तिरिति भावः । किं पुनर्वक्तव्यं, विद्या ऽवस्थस्यासंसारिण आत्मनो ज्ञानाविषयत्वमित्याह- विज्ञातारमिति । ‘अरे’ मैत्रेयि ! यः पुनः केवलः अद्वयः विद्यावस्थः विज्ञातैव वर्तते तं ‘विज्ञातारं’ ‘केन’ करणेन ‘विजानीयात्’ । न केनापीति भावः ॥ १६ ॥

इति श्रीहृषीकेशब्रह्मभगवत्पूज्यपादशिष्यस्य श्रीपाठकानिरुद्धपुत्रस्य परमहंसपरिव्राजकाचार्यस्य श्रीवासुदेवब्रह्मभगवतः कृतौ माध्यन्दिनीयशतपथब्राह्मणान्तर्गत माध्यन्दिनशाखोपनिषद्बृहदारण्यकटीकायां वासुदेवप्रकाशिकायां द्वितीये ऽध्याये चतुर्थं मैत्रेयीब्राह्मणं परिसमाप्तम् ॥ १४ । (५) २ । ४ ॥


  1. Are we to read उद्यास्यन्न्वा᳘ ? ↩︎

  2. व्याच᳘क्षाण᳘स्य AM. ↩︎

  3. We expect मैत्रेय्यात्म᳘नो. ↩︎

  4. भ᳘वति ? ↩︎

  5. निःश्वसितं D. ↩︎

  6. स्पर्श is here and ७.३.१२. oxytonon, whereas paroxytonon at ६. २. ९. ↩︎