०१ अधिदेवतम् - रूप-द्वयम्
विश्वास-प्रस्तुतिः
द्वे᳓ वा᳓व᳓ ब्ब्र᳓ह्मणो रूपे᳓॥
मूर्त्त᳓ञ् चैवा᳓मूर्तञ् च,
म᳓र्त्त्यञ् चामृ᳓तञ् च
स्थित᳓ञ्च य᳓च्+++(→गतौ)+++ च
+++(चाक्षुष-गोचरम्→)+++ स᳓च् च त्य᳓च् च॥
मूलम् - श्रीधरादि
द्वे वाव ब्ब्र᳘ह्मणो रूपे᳘॥
मूर्त्त᳘ञ्चैवा᳘मूर्तञ्च म᳘र्त्त्यञ्चामृ᳘तञ्च स्थित᳘ञ्च य᳘च्च स᳘च्च त्य᳘च्च॥
मूलम् - Weber
द्वे वाव ब्र᳘ह्मणो रूपे᳟॥
मूर्तं᳘ चैवा᳘मूर्तं च म᳘र्त्यं चामृ᳘तं च स्थितं᳘ च य᳘च्च स᳘च्च त्यं᳘ च॥
मूलम् - विस्वरम्
मूर्तामूर्तब्राह्मणम् ।
द्वे वाव ब्रह्मणो रूपे- मूर्तं चैवामूर्तं च । मर्त्यं चामृतं च । स्थितं च यच्च । सच्च त्यच्च ॥ १ ॥
रङ्गरामानुजः
प्र- द्वे वाव ब्रह्मणो रूपे इत्यादि ।
ब्रह्मणः द्वे रूपे शरीरे । वाव शब्दः प्रसिद्धौ ।
के ते द्वे रूपे इत्यत्राह - मूर्तञ्चामूर्तं च इत्यादि ।
‘मूर्त’ - कठिनम् , अमूर्तं अकठिनम् ।
मर्त्यं - मरणधर्मात्मकम् । विनश्वरम् इत्यर्थः ।
अमृतं - तदितरत् ।
स्थितम् - अव्यापकम् ।
यत् - व्यापकम् । एति गच्छति सर्वानिति यत् । व्यापकमिति यावत् ।
सत् - चाक्षुषप्रत्यक्षोपलभ्यम् । स्वतो रूपवदिति यावत् ।
त्यत् - तदितरत् इत्यर्थः ॥१॥
श्रीमद्वासुदेवब्रह्मभगवान्
अथ कथमेषां प्राणानां सत्यत्वं कथं वा ततो ऽप्यात्मनः सत्यत्वं इति जिज्ञासायां कार्यकारणात्मकानां सत्यानां पञ्चभूतानां स्वरूपावधारणार्थं मूर्त्तामूर्त्तब्राह्मणं प्रवर्तते- द्वे वावेति । यदपोहद्वारेण “नेति नेति” इत्यादिना निर्द्दिधारयिषितं ब्रह्म तस्य ब्रह्मणो मायामये ‘द्वे वाव’ द्वे एव ‘रूपे’ । रूप्यते ज्ञाप्यते अरूपं परं ब्रह्म याभ्यां अविद्या ऽध्यारोपणाभ्यां ते रूपे । के ते इत्यत आह- मूर्तञ्चैवामूर्तञ्चेति । मूर्तामूर्त्तयोः प्रत्येकं अर्थप्रतिपादकानि विशेषणान्याह- ‘मर्त्यं च’ मरणधर्म्मि । ‘अमृतञ्च’ तद्विपरीतम् । ‘स्थितञ्च’- स्थास्नु परिच्छिन्नमिति यावत् । ‘यच्च’- एति व्याप्नोतीति यत् ‘अपरिच्छिन्नं’ स्थितविपरीतम् । ‘सच्च’ प्रत्यक्षेणोपलभ्यमानासाधारणधर्मवत् । ‘त्यच्च’- त्यत् तद्विपरीतम् । ‘त्यत्’ इत्येव सर्वदा परो ऽक्षा ऽभिधानार्हम् ॥ १ ॥
०२ अधिदेवतम् - मूर्तस्वरूपम्
विश्वास-प्रस्तुतिः
त᳓द् एत᳓न् मूर्त्त᳓म्॥
य᳓द् अन्य᳓द् वायो᳓श् चान्त᳓रिक्षाच् +++(→ पृथिव्य्-अप्-तेजो-लक्षणं)+++,
चैत᳓न् म᳓र्त्त्यम्
एत᳓त् स्थित᳓म् एत᳓त् स᳓त्॥
मूलम् - श्रीधरादि
त᳘देत᳘न्मूर्त्तम्[[!!]]॥
(र्त्तंय᳘) य᳘दन्य᳘द्वायो᳘श्चान्त᳘रिक्षाच्चैतन्म᳘र्त्त्यमेत᳘त्स्थित᳘मेतत्सत्[[!!]]॥
मूलम् - Weber
त᳘देत᳘न्मूर्त᳘म्॥
य᳘दन्य᳘द्वायो᳘श्चान्त᳘रिक्षाच्चैतन्म᳘र्त्यमेत᳘त्स्थित᳘मेतत्स᳘त्॥
मूलम् - विस्वरम्
तदेतन्मूर्तं यदन्यत् वायोश्चान्तरिक्षाच्च । एतन्मर्त्यम् । एतत् स्थितम् । एतत्सत् ॥ २ ॥
रङ्गरामानुजः
एवं ब्रह्मरूपत्वेन प्रतिज्ञाते मूर्तामूर्ते दर्शयन्ती श्रुतिः
तत्र प्रथमं मूर्तमर्त्यस्थित-सद्-आत्मकं रूपं दर्शयति - तद् एतन् मूर्तम् इत्य्-आदि ।
यदन्यद् वायोश्चान्तरिक्षाच्च । वाय्वन्तरिक्ष-व्यतिरिक्तं पृथिव्य्-अप्-तेजो-लक्षणं यद् अस्ति, तदेतत् कठिनत्वेन मूर्तम् ।
एतन्मर्त्यमेतत् स्थितमेतत्सत् ।
तथा मूर्तत्वेनोक्तम् एतद् एव रूपं
विनश्वरत्वाव्यापकत्व-चाक्षुष-प्रत्यक्षोपलभ्यत्व-रूप–धर्म-युक्ततया मर्त्य-स्थित-सच्-छब्द-वाच्यम् इत्य् अर्थः ।
अत्र काठिन्यम् अप्-तेजसोः करका-सुवर्णादौ द्रष्टव्यम् ।
श्रीमद्वासुदेवब्रह्मभगवान्
के ते मूर्तामूर्ते कस्य वा कानि विशेषणानि इति विशेषो न ज्ञायते इत्यत आह-तदेतन्मूर्त्तमिति । ‘यत् वायोश्चान्तरिक्षाच्च’- भूतद्वयात् अन्यत्परिशिष्टं पृथिव्यादि भूतत्रयं ‘तत् मूर्तं’ मूर्च्छितावयवं इतरेतरानुप्रविष्टावयवं घनं संहतमित्यर्थः । अत एव ‘एतत्’ भूतत्रयं- ‘मर्त्यं’ मरणधर्मि अत एव ‘एतत् स्थितं’ परिच्छिन्नम् । अत एव ‘एतत् सत्’ विशेष्यमाणासाधारणधर्मवत् । चतुर्णां धर्माणां अन्यो ऽन्याव्यभिचारात् यथेष्टं विशेषणविशेष्यभावो हेतुहेतुमद्भावश्च निश्चेतव्यः ॥ २ ॥
०३ अधिदेवतम् - मूर्त-रूपस्य रसः
विश्वास-प्रस्तुतिः
त᳓स्यैत᳓स्य मूर्त्त᳓स्य
एत᳓स्य म᳓र्त्त्यस्यैत᳓स्य स्थित᳓स्यैत᳓स्य सत᳓
एष᳓ र᳓सो - य᳓ एष᳓ त᳓पति +++(सूर्यमण्डले)+++ -
+++(यतः प्रत्यक्षस्य)+++ स᳓तो᳓ ह्य् एष᳓ +++(तेजोऽब्-अन्न-)+++र᳓सः ॥
मूलम् - श्रीधरादि
(त्त᳘) त᳘स्यैत᳘स्य मूर्त्त᳘स्य॥
(स्यै) एत᳘स्य म᳘र्त्त्यस्यैत᳘स्य स्थित᳘स्यैत᳘स्य सत᳘ ऽएष र᳘सो य ऽएष[[!!]] त᳘पति स᳘तो᳘ ह्येष रसः[[!!]]॥
मूलम् - Weber
त᳘स्यैत᳘स्य॥
मूर्त᳘स्यैत᳘स्य म᳘र्त्यस्यैत᳘स्य स्थित᳘स्यैत᳘स्य सत᳘ एष र᳘सो य᳘ एष त᳘पति सतोॗ ह्येष र᳘सः॥
मूलम् - विस्वरम्
तस्यैतस्य मूर्तस्य, एतस्य मर्त्यस्य, एतस्य स्थितस्य, एतस्य सत एष रसः । य एष तपति । सतो हि एष रसः ॥ ३ ॥
रङ्गरामानुजः
तस्यैतस्य मूर्तस्य इत्यादि ।
य एष तपति लोकं तेजोमण्डलरूपेण एषः - तदेतदादित्यमण्डलं
हि - यस्मात्
सच्-छब्दितस्य तेजोबन्नस्य रसः
तेजोबन्नवत् मण्डलस्य प्रत्यक्षोपलभ्यमानत्वाद् इति भावः ।
तस्माद्धेतोः आदित्यमण्डले मूर्तत्व-मर्त्यत्व-स्थितत्त्व-सत्त्व-रूप-धर्म-चतुष्टययुक्त
तेजोबन्न-रसत्व-बुद्धिः कर्तव्या इत्यर्थः ॥ २ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
उक्तविशेषणचतुष्टयवतो भूतत्रयस्य सारिष्ठं कार्यं विशेषणानुवादपूर्वकमाह- तस्यैतस्य मृर्त्तस्यैतस्य स्थितस्यैतस्य सत इति । विशेषणविशिष्टस्य भूतत्रयस्य ‘एष रसः’ सारः । को ऽसौ ? ‘य ऽएषः’ मण्डललक्षणः सविता ‘तपति’ । तत्र हेतुः ‘हि’ यस्मात् मूर्तादिविशेषणचतुष्टयं मण्डले अवसीयते तस्मात्- ‘सतः’ सदादिचतुष्टयविशेषणविशिष्टस्य भूतत्रयस्य ‘एषः’ मण्डलभूतः ‘रसः’ सारः । एतच्च- आधिदैविकस्य कार्यात्मकस्य ब्रह्मणो रूपम् ॥ ३ ॥
०४ अधिदेवतम् - अमूर्त-स्वरूप-निरूपणम्
विश्वास-प्रस्तुतिः
अ᳓था᳓मूर्त्तम्॥
वायु᳓श् चान्त᳓रिक्षञ् चैत᳓द्
+++(मूर्तापेक्षया)+++ अमृ᳓तम् एत᳓द्
य᳓द् एत᳓त्,
+++(मूर्तापेक्षया)+++ त्य᳓म्+++(=इतरत् [सतः प्रत्यक्षगोचरात्])+++॥
मूलम् - श्रीधरादि
(सो ऽथा᳘) अथा᳘मूर्त्तम्॥
(म्वा) व्वायु᳘श्चान्त᳘रिक्षञ्चैत᳘दमृ᳘तमेतद्य᳘देतत्त्यम्[[!!]]॥
मूलम् - Weber
अथा᳘मूर्तम्॥
वायु᳘श्चान्त᳘रिक्षं चैत᳘दमृ᳘तमेतद्य᳘देतत्त्य᳘म्॥
मूलम् - विस्वरम्
अथामूर्तम् । वायुश्चान्तरिक्षं च । एतत् अमृतम् । एतत् यत् । एतत् त्यम् ॥ ४ ॥
रङ्गरामानुजः
प्र– अथामूर्तम् इति । रूपमुच्यते इति शेषः । तदेवाह - वायुश्चान्तरिक्षञ्च इति ।
एतदमृतमेतद्यदेतत्त्यत् इति ।
अत्र वाय्वाकाशयोः अमृतत्व-यत्त्व-रूपाविनश्वरत्व-व्यापकत्वे आपेक्षिके मन्तव्ये,
त्यत्वञ्च स्वतो रूपवत्त्वाभाव-पर्यवसन्नं ग्राह्यम् ।
अतस्तयोर् विनाशित्व-कार्यत्व-प्रत्यक्षत्वादेर् अविरोधः ।
श्रीमद्वासुदेवब्रह्मभगवान्
अथेदानीममूर्त्तमुच्यते- ‘वायुश्चान्तरिक्षं च’ यत्परिशेषितं भूतद्वयं- ‘एतत्’ ‘अमूर्त्तं’ मूर्त्तविपरीतं ब्रह्मणो रूपम् । शेषं पूर्ववत् ॥ ४ ॥
०५ अधिदेवतम् - अमूर्त-रूपस्य रसः
विश्वास-प्रस्तुतिः
त᳓स्यैत᳓स्या᳓मूर्त्तस्य
एत᳓स्यामृ᳓तस्यैत᳓स्य यत᳓
एत᳓स्य त्य᳓स्यैष᳓ र᳓सो - य᳓ एष᳓ एत᳓स्मिन् म᳓ण्डले +++(वाय्व्-अन्तरिक्ष-रूप-)+++पु᳓रुषस् -
+++(यतो ऽगोचरत्वात् सद्-भिन्नस्य)+++ त्य᳓स्य ह्य् एष᳓ र᳓स - इ᳓त्य् अधिदेवत᳓म् +++(उपासनार्थम्)+++॥
मूलम् - श्रीधरादि
(त्यन्त᳘) त᳘स्यैतस्या᳘मूर्त्तस्य॥
(स्यै) एत᳘स्यामृ᳘तस्यैत᳘स्य यत᳘ ऽएत᳘स्य त्य᳘स्यैष र᳘सो य᳘ ऽएष᳘ ऽएत᳘स्मिन्म᳘ण्डले पु᳘रुषस्त्य᳘स्य᳘ ह्येष र᳘स ऽइ᳘त्यधिदेवतम्॥
मूलम् - Weber
त᳘स्यैतस्या᳘मूर्तस्य॥
एत᳘स्यामृत᳘स्यैत᳘स्य यत᳘ एत᳘स्य त्य᳘स्यैष र᳘सो य᳘ एष᳘ एत᳘स्मिन्म᳘ण्डले पु᳘रुषस्त्य᳘स्यॗ ह्येष र᳘स इ᳘त्यधिदेवतम् 1 ॥
मूलम् - विस्वरम्
तस्यैतस्यामूर्तस्य, एतस्यामृतस्य, एतस्य यतः, एतस्य त्यस्य एष रसः । य एष एतस्मिन् मण्डले पुरुषः । त्यस्य हि एष रसः । इत्यधिदेवतम् ॥ ५ ॥
रङ्गरामानुजः
तस्यैतस्यामूर्तस्य इत्यादि । त्यस्य ह्येष रसः ।
हि - यस्माद् आदित्यमण्डलस्थ-पुरुषः अस्मद्-आदि-प्रत्यक्षागोचरत्वात् त्यस्य रसः ।
तस्माद् अमूर्तत्वामृतत्व-यत्त्व-त्यत्त्व-लक्षण-धर्म-चतुष्टयाश्रय–वाय्व्-अन्तरिक्ष-सत्त्व-बुद्धिः आदित्य-मण्डल-स्थ-पुरुषे परमात्मनि कर्तव्या इत्यर्थः । इत्यधिदैवतम् ।
इति - उक्तरीत्या
अधिदैवतम् उपासनकर्तव्यता प्रकार उक्त इत्यर्थः ॥ ३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘एतस्य’ अमूर्त्तादिचतुष्टयविशेषणविशिष्टस्य भूतद्वयस्य ‘एष रसः’ । को ऽसौ ? ‘य एषः’ ‘एतस्मिन् मण्डले पुरुषः’ कारणात्मको हिरण्यगर्भः प्राणः । तत्र हेतु, ‘हि’ यस्मात् तस्यामूर्त्तस्य ‘एषः’ मण्डलस्थः पुरुषः ‘रसः’ पूर्ववत् सारिष्ठः । एतच्चाधिदैविकस्य कारणात्मकस्य ब्रह्मणो रूपम् । एवमुक्तमाधिदैविकं विभागमुपसंहरति- इत्यधिदेवतमिति ॥ ५ ॥
०६ अध्यात्मम् - मूर्त-निरूपणम्
विश्वास-प्रस्तुतिः
अ᳓थाध्यात्म᳓म् +++(=अधिदेहम् [वर्ण्यतय् उपासनाय])+++॥
इद᳓म् एव᳓ मूर्त्तं᳓
य᳓द् अन्य᳓त् प्राणा᳓च् च
य᳓श् चाय᳓म् अन्त᳓रात्मन्न् आकाश᳓ +++(ततोऽप्य् अन्यत्)+++
एत᳓न् म᳓र्त्यम्
एत᳓त् स्थित᳓म्
एत᳓त् +++(चाक्षुष-प्रत्यक्षत्वात्)+++ स᳓त्॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थाध्यात्म᳘म्॥
(मि) इद᳘मेव᳘ मूर्त्तं य᳘दन्य᳘त्प्राणा᳘च्च य᳘श्चाय᳘मन्त᳘रात्मन्नाकाश᳘ ऽएतन्म᳘र्त्त्यमेत᳘त्स्थित᳘मेतत्सत्[[!!]]॥
मूलम् - Weber
अ᳘थाध्यात्म᳘म्॥
इद᳘मेव᳘ मूर्तं य᳘दन्य᳘त्प्राणा᳘च्च य᳘श्चाय᳘मन्त᳘रात्म᳘न्नाकाश᳘ एतन्म᳘र्त्यमेत᳘त्स्थित᳘मेतत्स᳘त्॥
मूलम् - विस्वरम्
अथाध्यात्मम् । इदमेव मूर्तम् । यदन्यत् प्राणाच्च । यश्चायमन्तरात्मन्नाकाशः । एतत् मर्त्यम् । एतत् स्थितम् । एतत्सत् ॥ ६ ॥
रङ्गरामानुजः
प्र–अथाध्यात्मम् इति ।
इतः परम् अध्यात्मं मूर्तामूर्त-रसोपास-चिन्ता-प्रकारो वर्ण्यते इत्यर्थः ।
अध्यात्मम् - आत्मनि । देह इत्यर्थः ।
इदमेव - आकाश इति।
यत् मुख्य-प्राणाद् अन्यत्,
यश् चान्तरात्मन् शरीरान्तः आकाशः तस्माच्चान्यत्,
सर्वमिदं मूर्तीमत्यर्थः ।
आकाश इत्यत्र तस्माच्च इति शेषः ।
एतन्मर्त्यं, एतदेव स्थितं, एतदेव सच्च इत्यर्थः।
श्रीमद्वासुदेवब्रह्मभगवान्
अथाध्यात्ममिति । अथानन्तरं मूर्त्तामूर्त्तयोरध्यात्मं विभाग उच्यते । तत्र ‘इदमेव’ ‘मूर्त्तं’ किं ? ‘यत्’ ‘प्राणाच्च’ शरीरस्थात् उछ्वासात्मकात् वायोः ‘यश्चायमन्तरात्मन्’ अभ्यन्तरे आत्मनि ‘आकाशः’ तस्माच्च ‘अन्यत्’ शरीरारम्भकं भूतत्रयं । एतन्मर्त्त्यमित्यादि पूर्वेण समानम् ॥ ६ ॥
०७ अध्यात्मम् - मूर्त-रसः
विश्वास-प्रस्तुतिः
त᳓स्यैत᳓स्य मूर्त्त᳓स्य
एत᳓स्य म᳓र्त्यस्यैत᳓स्य स्थित᳓स्यैत᳓स्य सत᳓
एष᳓ र᳓सो य᳓च् च᳓क्षुः - सतो᳓ ह्येष र᳓सः॥
मूलम् - श्रीधरादि
(त्त᳘) त᳘स्यैत᳘स्य मूर्त्त᳘स्य॥
(स्यै) एत᳘स्य म᳘र्त्त्यस्यैत᳘स्य स्थित᳘स्यैत᳘स्य सत᳘ ऽएष र᳘सो यच्च᳘क्षुः सतो᳘ ह्येष रसः[[!!]]॥
मूलम् - Weber
त᳘स्यैत᳘स्य मूर्त᳘स्य॥
एत᳘स्य म᳘र्त्यस्यैत᳘स्य स्थित᳘स्यैत᳘स्य सत᳘ एष र᳘सो यच्च᳘क्षुः सतोॗ ह्येष र᳘सः॥
मूलम् - विस्वरम्
तस्यैतस्य मूर्तस्य, एतस्य मर्त्यस्य, एतस्य स्थितस्य, एतस्य सतः, एष रसः । यत् चक्षुः । सतो ह्येष रसः ॥ ७ ॥
रङ्गरामानुजः
तस्येतस्य मूर्तस्य इत्यादि ।
चक्षुर्-गोलस्य प्रत्यक्षोपलभ्यत्वेन सद्-रसत्व-सम्भवात्
अनुगल??-मूर्तत्व-मर्त्यत्व-स्थितत्व-रूप-धर्म-चतुष्टय-विशिष्ट-
प्राण-शरीरान्तर्-आकाशोभयान्य-शरीर-वर्ति -
वस्तु-रसत्व-बुद्धिः कर्तव्या इत्यर्थः ।
पदार्थाः पूर्ववत् ॥ ४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“एतस्य सत एष रसः यत् चक्षुः” इति । आध्यात्मिकस्य शरीरारम्भकस्य कार्यस्य ‘एष रसः’ सारः । तेन हि सारेण समस्तमिदं शरीरं सारवत् । यथा अधिदेवतमादित्यमण्डलेन ॥ ७ ॥
०८ अध्यात्मम् - अमूर्तनिरूपणम्
विश्वास-प्रस्तुतिः
अ᳓था᳓मूर्त्तम् -
प्राण᳓श् च
य᳓श् चाय᳓म् अन्त᳓रा ऽऽत्म᳓न्न् आकाश᳓
एत᳓द् अमृ᳓तम्
एतद् य᳓द्
एत᳓त् त्य᳓म्॥
मूलम् - श्रीधरादि
(सो ऽथा᳘) अथा᳘मूर्त्तम्॥
(म्प्रा) प्प्राण᳘श्च य᳘श्चाय᳘मन्त᳘रा ऽऽत्म᳘न्नाकाश᳘ ऽएत᳘दमृ᳘तमेतद्य᳘देतत्त्यम्[[!!]]॥
मूलम् - Weber
अथा᳘मूर्तम्॥
प्राण᳘श्च य᳘श्चाय᳘मन्त᳘रात्म᳘न्नाकाश᳘ एत᳘दमृ᳘तमेतद्य᳘देतत्त्य᳘म्॥
मूलम् - विस्वरम्
अथामूर्तम् । प्राणश्च । यश्चायमन्तरात्मन्नाकाशः । एतदमृतम् । एतद्यत् । एतत् त्यम् ॥ ८ ॥
रङ्गरामानुजः
प्र– अथामूर्तम् इति । रूपमुच्यत इति शेषः ।
श्रीमद्वासुदेवब्रह्मभगवान्
एवमाध्यात्मिकस्य कार्यात्मकस्य ब्रह्मणो रूपं निरूप्य कारणात्मकस्य रूपं निरूपयितुमाह- अथामूर्त्तमिति । अथाधुना ‘प्राणश्च यश्चायमन्तरा ऽऽत्मन्’ शरीरे- ‘आकाशः’ पूर्वोक्तः तत् अमूर्तरूपं परिशेषितं भूतद्वयं अन्यत् पूर्ववत् ॥ ८ ॥
०९ अध्यात्मम् - अमूर्तस्य रसः
विश्वास-प्रस्तुतिः
त᳓स्यैत᳓स्या᳓मूर्त्तस्य-
एत᳓स्यामृ᳓तस्यैत᳓स्य यत᳓
एत᳓स्य त्य᳓स्यैष र᳓सो᳓ - यो ऽय᳓न् दक्षि᳓णे ऽक्ष᳓न् पु᳓रुषस् -
+++(यतः)+++ त्य᳓स्य᳓ ह्य् एष᳓ र᳓सः॥
मूलम् - श्रीधरादि
(त्यन्त᳘) त᳘स्यैतस्या᳘मूर्त्तस्य॥
(स्यै) एत᳘स्यामृ᳘तस्यैत᳘स्य यत᳘ ऽएत᳘स्य त्य᳘स्यैष र᳘सो᳘ यो ऽय᳘न्दक्षि᳘णे ऽक्षन्पु᳘रुषस्त्य᳘स्य᳘ ह्येष र᳘सः॥
मूलम् - Weber
त᳘स्यैतस्या᳘मूर्तस्य॥
एत᳘स्यामृ᳘तस्यैत᳘स्य यत᳘ एत᳘स्य त्य᳘स्यैष र᳘सोॗ योऽयं᳘ दक्षिॗणेऽक्षन्पु᳘रुषस्त्य᳘स्यॗ ह्येष र᳘सः॥
मूलम् - विस्वरम्
तस्यैतस्यामूर्तस्य, एतस्यामृतस्य, एतस्य यतः, एतस्य त्यस्य एष रसः । यः अयं दक्षिणे ऽक्षन्पुरुषः । त्यस्य ह्येष रसः ॥ ९ ॥
रङ्गरामानुजः
प्राणश्च….. एतदमृतम् इत्यादि ।
प्राणहार्दाकाशयोर् अमूर्तत्वामृतत्व-यत्त्व-त्यत्त्वाख्य-धर्म-चतुष्टयवत्त्वस्य पूर्वोक्तरीत्या सम्भवाद्
अमूर्तत्वादि-धर्म-चतुष्टयाश्रय-प्राण-हार्दाकाशयोः दक्षिणाक्षि-स्थः पुरुषः परमात्मा रसः,
तस्यास्मद्-आदि-प्रत्यक्षानुपलभ्यत्वेन त्यस्य रसत्वात् ।
ततश् च दक्षिणाक्षिस्थे परमात्मनि अमूर्तत्वादि-चतुष्टय-विशिष्ट-प्राणहार्दाकाश-रसत्व-बुद्धिः कर्तव्या इत्यर्थः ।
ननु अहि-कुण्डलाधिकरण-भाष्ये - मूर्तामूर्तस्याचित्-प्रपञ्चस्य ब्रह्मणो रूपत्वम्।
द्वे वाव ब्रह्मणो रूपे इत्यादिनोपदिश्यते इत्युक्तम् ।
तत् व्याचक्षाणैर्व्यासार्यैः चिदचिदात्मकप्रपञ्च कथनेन अचित्प्रपञ्चोपि कथितस्स्यादित्यर्थः ।
न त्वन्ययोगव्यवच्छेदः सङ्गत्युपयोगित्वेन अचित्प्रपञ्चोपादानं कृतमिति भाष्यस्थमचित् प्रपञ्चपदं चित्प्रपञ्चस्याप्युपलक्षकमिति व्याख्यातम् । न चास्मिन् श्रुतिसन्दर्भे चित्प्रपञ्चसमर्पकं किमपि पदं दृश्यते इति चेत् न ।
वाय्वन्तरिक्षादिशब्दानां चित्संसृष्टाचित्परत्वोपपत्त्या चित्प्रपञ्चस्यापि उपादानसम्भवेन चेतनाचेतन-प्रपञ्चस्य द्वे वाव ब्रह्मणो रूपे इत्यादिना ब्रह्मशरीरत्वप्रतिपादनादिति ध्येयम् ॥ ५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘एतस्य त्यस्य’ ‘एष रसः’- सारः- ‘यो ऽयं दक्षिणे ऽक्षन्’- दक्षिणे ऽक्ष्णि ‘पुरुषः’ लिङ्गशरीरात्मा इत्यर्थः ॥ ९ ॥
१० परम-पुरुष-रूपम्
विश्वास-प्रस्तुतिः
त᳓स्य हैत᳓स्य पु᳓रुषस्य रू᳓पम्॥
य᳓था माहारजनं᳓ वा᳓सो
य᳓था ऽऽपाण्ड्व्-आ᳓विकं
य᳓थेन्द्र-गोपो᳓
य᳓था ऽग्न्य्-अर्च्चि᳓र्
य᳓था पुण्ड᳓रीकं
य᳓था सकृद्-विद्युत्त᳓ᳫँ᳓
सकृद्-विद्यु᳓त्त् एव᳓ ह᳓ वा᳓ अस्य᳓ श्री᳓र् भवति य᳓ एवं᳓ वे᳓द॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘स्य हैत᳘स्य पु᳘रुषस्य रूपम्[[!!]]॥
(पँय᳘) य᳘था माहारजनम्वा᳘सो य᳘था ऽऽपाण्ड्वा᳘विकं य᳘थेन्द्रगोपो य᳘था ऽग्न्यर्च्चिर्य्य᳘था पुण्ड᳘रीकं य᳘था सकृद्विद्युत्त᳘ᳫँ᳘ सकृद्विद्यु᳘त्तेव ह वा᳘ ऽअस्य श्री᳘र्भ्भवति य᳘ ऽएवम्वे᳘द॥
मूलम् - Weber
त᳘स्य हैत᳘स्य पु᳘रुषस्य रूप᳘म्॥
य᳘था माहारजनं वा᳘सो य᳘था पाण्ड्वा᳘विकं य᳘थेन्द्रगोपो य᳘थाग्न्यर्चिर्य᳘था पुण्ड᳘रीकं य᳘था सकृद्विद्युत्त᳘ᳫं᳘ सकृद्विद्युॗत्तेव ह वा᳘ अस्य श्री᳘र्भवति य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
तस्य हैतस्य पुरुषस्य रूपम् । यथा माहारजनं वासः । यथा आपाण्डु आविकम् । यथेन्द्रगोपः । यथा अग्न्यर्चिः । यथा पुण्डरीकम् । यथा सकृद्विद्युत्तम् । सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति । य एवं वेद ॥ १० ॥
रङ्गरामानुजः
प्र– अथ न केवलं ब्रह्मणो मूर्तामूर्ताख्यचेतनाचेतनशरीरकत्वम् - दिवयतेजो-विराजमान-दिव्य-विग्रहोप्य् अस्ति इत्याह -तस्य हैतस्य पुरुषस्य रूपम् इत्यादिना ।
यथा माहारजनं वासः कौसुम्भवस्रमिव यथा पाण्ड्वाविकं - पाण्डरवर्णः ‘कम्बल, इव’ यथेन्द्रगोपः - शक्रगोपक्रिमिरिव, यथाग्नयर्चिः-अग्नेर्ज्वालेव, यथा पुण्डरीकम् -
अम्भोजमिव इत्यर्थः । यथा सकृद्विद्युत्तम् । विद्युत्तमिति द्युतेर्निष्ठा ।विद्योतनमिति
यावत् । सकृत् - युगपत् प्रवृत्ता विद्युदिव इत्यर्थः । एवंरूपं रूपं तस्यैतस्य -
मूर्तामूर्तचिदचिच्छरीरस्य तद्रसत्वेनोपास्यस्य ब्रह्मणः ह - आदित्यवर्णं तमसः परस्तात्,
विद्युतः पुरुषात्, हिरण्मयः पुरुषः इत्यादिश्रुत्यन्तरप्रसिद्धं भवति इति पूर्वेणान्ययः ।
सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति इति । सकृद्विद्युत्तेव - युगपत्प्रवृत्तविद्युदिव ।
अस्य श्रीः प्रकाशमाना भवति । य एवं - पूर्वोक्तरीत्या वेद -उपास्ते इत्यर्थः ।
श्रीमद्वासुदेवब्रह्मभगवान्
अथास्य कारणात्मनो वासनामयं रूपं निरूपयितुमाह- तस्य हैतस्येति । तस्याधिदैविकस्य पुरुषस्य प्रकृतस्य लिङ्गात्मनः ‘ह’ किल एतस्याध्यात्मिकस्य लिङ्गपुरुषस्य मनसो वासनामयमिदं रूपम् । ‘यथा’ लोके महारजनं हरिद्रा तया रक्तं ‘माहारजनम्’ ‘वासः’ वस्त्रम् । एवं ख्यादिविषयसंयोगे सति तादृशं रञ्जनाकारं चित्तस्य वासनारूपं उत्पद्यते- येनासौ पुरुषो रक्त इत्युच्यते वस्त्रादिवत् । ‘यथा’ च लोके ‘आपाण्डु आविकं’ अवेरिदमाविकं ऊर्णादि ‘आपाण्डुरं’ भवति तथा अन्यद्वासनारूपम् । ‘यथा’ च लोके- ‘इन्द्रगोपः’ वर्षाकाले कीटविशेषः कौसुम्भवत् अत्यन्तरक्तो भवति । एवमेवास्य वासनारूपम् । क्वचित् विषयविशेषापेक्षया रागस्य तारतम्यं क्वचित् पुरुषचित्तवृत्त्यपेक्षयेति बोध्यम् । ‘यथा’- लोके- ‘अग्न्यर्चिः’ भास्वरं भवति- तथा क्वचित् कस्यचिद्वासनारूपम् । ‘यथा’ च- ‘पुण्डरीकं’ शुक्लं- तद्वदपि कस्यचिद्वासनारूपम् । ‘यथा’ च लोके- ‘सकृद्विद्युत्तं’ सकृद्विद्योतनं सर्वतः प्रकाशकं भवति । तथा ज्ञानप्रकाशविवृद्ध्यपेक्षया कस्यचिद्धिरण्यगर्भादेर्वासनारूपमुपजायते सत्त्वादितारतम्यादिति भावः । चरमोक्तहिरण्यगर्भवासनारूपोपासनफलमाह- सकृद्विद्युत्तेवेति । एवं यथोक्तं यत्तु वासनारूपमन्ते अभिहितं सकृद्विद्योतनमिवेति तत् किल हिरण्यगर्भस्य अव्याकृतात्प्रादुर्भवत तडिद्वत् सकृदेव व्यक्तीभवतीति । तत् तदीयं हिरण्यगर्भस्य वासनारूपं यो वेद । अस्योपासकस्य ‘सकृद्विद्युत्तेव’ सकृद्विद्युदिव- ‘श्रीः’ ख्यातिः- ‘ह वै’ एवमेव भवतीत्यर्थः । ‘ह वै’ इत्यवधारणार्थौ निपातौ ॥ १० ॥
११ नेति नेति, सत्यस्य सत्यम्
विश्वास-प्रस्तुतिः
अ᳓था᳓त ऽआदेशः॥
ने᳓ति+++(→उक्त-रूपेयत्ता)+++, ने᳓ति+++(→उक्त-रूपेयत्ता)+++।
न᳓ ह्य् एत᳓स्माद्
“इ᳓ति+++(→उक्त-रूपेयत्ता)+++ ने᳓“त्य् +++(उक्ताद्)+++ अन्य᳓त् प᳓रम् अस्ति।
अ᳓थ नामधे᳓यᳫँ᳭ सत्त्य᳓स्य सत्त्य᳓म् इ᳓ति।
प्राणा᳓ वै᳓ सत्त्य᳓न्,
ते᳓षाम् एष᳓ सत्य᳓म्॥
मूलम् - श्रीधरादि
(दा) अथा᳘त ऽआदेशः॥
(शो) ने᳘ति ने᳘ति न᳘ ह्येत᳘स्मादि᳘ति ने᳘त्यन्यत्प᳘रमस्त्य᳘थ नामधे᳘यᳫँ᳭ सत्त्य᳘स्य सत्त्यमि᳘ति प्प्राणा वै᳘ सत्त्यन्ते᳘षामेष᳘ सत्त्यम्[[!!]]॥
मूलम् - Weber
अथा᳘त आदेशो᳟॥
ने᳘ति ने᳘ति नॗ ह्येत᳘स्मादि᳘ति ने᳘त्यन्यत्प᳘रमस्त्य᳘थ नामधे᳘यᳫं सत्य᳘स्य सत्यमि᳘ति प्राणा वै᳘ सत्यं ते᳘षामेष᳘ सत्य᳘म्॥
मूलम् - विस्वरम्
अथात आदेशः । नेति नेति । न हि एतस्मादिति । नेत्यन्यत्परमस्ति । अथ नामधेयं सत्यस्य सत्यमिति । प्राणा वै सत्यम् । तेषामेव सत्यम् ॥ ११ ॥
रङ्गरामानुजः
द्वे वाव ब्रह्मणो रूपे इति मूर्तामूर्तात्मकरूपवत्त्वे ब्रह्मणः कथिते तत्प्रयुक्तेयत्ता-लक्षण-परिच्छेद-रूप-प्रकारवत्त्वं प्राप्तं प्रतिषेद्धुम् उपक्रमते - अथात आदेशो नेति नेति आदेशः - उपदेश इत्यर्थः ।
क्रियत इति शेषः ।
अथ - शब्दो वाक्यान्तरोपन्यासार्यः ।
अतः - पूर्वं ब्रह्मणो मूर्तामूर्तशरीरत्वेन उक्तत्वात् तत्प्रयुक्तेयत्तानिवारणाय अयमुपदेशः क्रियत इत्यर्थः ।
इति शब्द इयत्तालक्षणप्रकारवचनः ।
नेति नेति - नैवम् नैवम् इत्यर्थः ।
मूर्तामूर्तात्मक-रूपद्वयवत्त्व-प्रयुक्तेयत्ता-लक्षण-प्रकार-युक्तो नेत्य् अर्थः ।
इयत्तायाः नेति नेतीत?? वीप्सा आत्यन्तिकाभाव द्योतनार्था ।
नेति नेतीतीयत्ता-निषेध एव -
न पूर्वोक्तप्रकारनिषेध इत्यभिप्रायेणाह -
न ह्येतस्माद् इति नेत्यन्यत्परमस्ति इति ।
इति नेति इयत्ता-रहितं यद् ब्रह्म ।
प्रतिपादितम्, तस्मादेतस्मादन्यद्वस्तु परं न ह्यस्ति ।
ब्रह्मणोऽन्यत् स्वरूपतो गुणतश्च परं- उत्कृष्टं नास्तीत्यर्थः ।
न त्व् अन्य-मात्रस्यात्र निषेधः ।
तथा हि सति अन्यत् - परमिति पदद्वयान्यतरवैयर्थ्यापत्तेरिति द्रष्टव्यम् ।
तद् उपपादयति -
अथ नामधेयं सत्यस्य सत्यं प्राणा वै सत्यं प्राणा वै सत्यं तेषामेष सत्यम् इति । प्रकृतिवत् स्वरूपविकाररहिततया
सत्यशब्दवाच्येभ्यः प्राणशब्दनिर्दिष्टेभ्य चेतनेभ्योऽपि कदाचिदपि ज्ञानादिसङ्कोचाभावात्
परमात्मा सत्यं - निर्विकारमित्यतः तस्य सत्यस्य सत्यमिति नामधेयं भवति । अतः
चेतनाचेतनाभ्यां परः स एवेति न ततोऽप्यन्यः पर इत्यर्थः ।
ननु द्वे वाव ब्रह्मणो रूपे इति पूर्वमुपदिष्टस्य मूर्तामूर्तात्मकरूपस्य, तस्य हैतस्य
पुरुषस्य रूपं यथा माहारजनं वासः इति सन्दर्भेण उपदिष्टस्य वा रूपस्य अथात आदेशो
नेति नेति इत्यनेन निषेधः किं न स्यादिति चेत् - न, तथा सति रूपिणोपि ब्रह्मणः
प्रतिषेधः प्राप्नोति । ननु तथा सति मानान्तराप्राप्तब्रह्मस्वरूपप्रतिपादकशास्त्राप्रामाण्यप्रसङ्गात्
तन्निषेधो नोपपद्यते इति चेन्न - द्वे वाव ब्रह्मणो रूपे इति ब्रह्मणो मानान्तराप्राप्त-
मूर्तामूर्तात्मकरूपद्वयवत्त्वप्रतिपादकशास्त्रस्याप्यप्रामाण्यप्रसङ्गसाम्यात् । न चोपासनार्थ
तदुपदेशसाफल्यमिति वाच्यम् । ब्रह्मस्वरूपेऽपि तथात्वप्रसङ्गात् । अतः नेति नेति इत्यनेन
इयत्तैव निषिध्यते ।
इदं वाक्यम् उभयलिङ्गपादे प्रकृतैतावत्वम् (ब्र.सू.३-२-२१) इति सूत्रे चिन्तितम् ।
तत्र हि संसारिजीवस्येव ब्रह्मणोऽपि मनुष्यादिदेहान्तरवस्थित्या
तत्प्रयुक्तसुखदुःखभोक्तृत्वमपि प्रसजेत् ।
यद्यपि परमात्मनो देहान्तरावस्थितिप्रयुक्तभोक्तृत्वम् आशङ्क्य परितो
दह्यमानगृहान्तर्वतित्वे देवदत्तयज्ञदत्तयोरविशिष्टेऽपि तत्स्वामिनस्तदभिमानिनो देवदत्तस्येव
यज्ञदत्तस्य तत्कृतदुःखादर्शनवत् देहान्तर्वर्तित्वे जीवपरयोरविशिष्टेऽपि तयोरन्यः पिप्पलं
स्वाद्वत्ति अनश्नन् अन्योऽभिचाकशीति (मुं.उ.३-१-१) इति श्रुत्यनुसारेण देहाभिमानि
जीववत् न परस्य भोक्तृत्वमिति सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् (ब्र.सू.१-२-८) इति
सूत्रे स्थितम् । तथा स्मृतिपादेपि सर्वस्यापि परमात्मशरीरतया शरीरं प्रति स्वामित्वमपि
परमात्मनोऽस्तीति मनुष्यादिशरीरस्वामिनः तदन्तर्वर्तिनः परमात्मनो भोक्तृत्वमवर्जनीयमिति
जीवेश्वरस्वभावाविभाग इति पूर्वपक्षं प्रापय्य शरीरस्वामित्वेपि तदन्तर्वतित्वेति नित्याविर्भूतापहत-
पाप्मत्वादिगुणकस्य परमात्मनो न भोक्तृत्वप्रसङ्गः । यथा लोके राजशासनानुवर्तिनां
तदतिवर्तिनां च राजानुग्रहनिग्रहकृतसुखदुःखयोगेपि न राज्ञि तत्प्रसक्तिः । एवं न
परमात्मनि शात्सरि भोक्तृत्वप्रसक्तिरिति भोक्त्रापत्तेरविभागश्चेत्स्यालोकवत् (ब्र.सू.२-१-१४)
इत्यधिकरणे स्थितम् ॥
तथापि शासकस्यापि राज्ञः स्वेच्छयापि पूयशोणितादिकर्दमिते कारागृहेय सतो
दुःखसम्बन्धापरिहारवत् परमात्मनोपि स्वेच्छया हेयेषु मनुष्यादिशरीरेषु वसतो
दुःखसम्बन्धोऽपरिहार्यः । ब्राह्मणादिशरीरस्वामित्वाच्च, ब्राह्मणादिशब्दवाच्यत्वावश्यम्भावेन
ब्राह्मणो यजेत इत्यादि विधिकिङ्करत्वावश्यंभावेन कर्मवश्यत्वादेरप्यवश्यम्भावात्
इति पूर्वपक्षे प्राप्ते - न स्थानतोपि परस्योभयलिङ्गं सर्वत्र हि (ब्र.सू.३-२-११) मनुष्यादि-
देहस्थानप्रयुक्तं भोक्तृत्वं परस्य न सम्भवति । अपहतपाप्म विजरो विमृत्युर्विशोको
विजिधित्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः (छां.उ.८-१-५) इति श्रुत्या सर्वत्र हि
विद्यमानं परं ब्रह्म हेयप्रत्यनीकत्वकल्याणैकतानत्वरूपोभयलिङ्गयुक्तमेव भवति । अतो न
भोक्तृत्वप्रसङ्गः । भेदादिति चेन्न प्रत्येकमतद्वचनात् (ब्र.सू.३-२-१२) यथा जीवस्य
अपहतपाप्मत्वादिगुणाष्टकयुक्तस्यापि मनुष्यादि देहयोगरूपावस्थाभेदाभ्दोक्तृत्वम् - एवं
परमात्मनोऽपि किं न स्यादिति चेन्न - स त आत्मान्तर्याम्यमृत इति । अन्तर्यामिणः
परस्य ब्रह्मणो नित्याविर्भूतगुणाष्टकत्वलक्षणामृतत्वं श्रूयते - अतो न जीवसाम्यम् । अपि
चैवमेके (ब्र.सू.३-२-१३) अपि च एके शाखिनः तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभि-
चाकशीति (मुं.उ.३-१-१, श्वे.उ.४-६) इति जीवपरयोर्भोक्तृत्वलक्षणं वैषम्यमधीयते ।
अरूपवदेव हि तत्प्रधानत्वात् (ब्र.सू.३-२-१४) सर्वशरीर्यपि ब्रह्म अरूपवदेव - अशरीरि-
तुल्यमेव । आकाशो ह वै नामरूपयोनिर्वहिता ते यदन्तरेति (छा.उ.८-१४-१),
नामरूपकार्यास्पृष्टतत्वे सति नामरूपनिर्वोढृत्वस्य प्रतिपादनेन मनुष्यादिनामरूप-
सम्बन्धकृतकार्यस्य तत्राप्रसक्तेः । अतः सर्वत्र विद्यमानमपि ब्रह्म उभयलिङ्गमेव ।
ननु ब्रह्मणः कल्याणगुणा न सन्ति - अथात आदेशो नेति नेति इति प्रतिषेधादिति
चेत् - तत्राह प्रकाशवच्चावैयर्थ्यात् (ब्र.सू.३-२-१५)। यथा सत्यं ज्ञानमनन्तं ब्रह्म
(तै.आन.२-१) इति श्रुत्यवैय्यर्थ्याय ज्ञानादिरूपत्वमभ्युपगम्यते । एवं सत्यकामस्सत्यसङ्कल्प
इत्यादि श्रुत्यवैयर्थ्याय कल्याणगुणगणोप्यभ्युपगन्तव्यः । ननु सत्यं ज्ञानमिति ज्ञानस्वरूपत्व
प्रतिपादनादेव ज्ञानस्य गुणाश्रयत्वासम्भवात् अर्थात् ‘गुणा’ निषिद्धा इति चेत् तत्राह - आह
च तन्मात्रम् (ब्र.सू.३-२-१६) सत्यं ज्ञानमिति श्रुतिः ब्रह्मणो ‘ज्ञानरूपतामात्रं प्रतिपादयति
न गुणाश्रयतां प्रतिषेधति । तेजोरूपस्य ‘सूर्यस्य’ प्रभारूपतेजोन्तराश्रयत्ववत् ज्ञानरूपस्यापि
ब्रह्मणः सार्वज़्याद्याश्रयत्वमुपपद्यते । दर्शयति चाथो अपि स्मर्यते (ब्र.सू.३-२-१७)
दर्शयति च वेदान्तगणः निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् (श्वे.उ.६-१९)
परास्य शक्तिः विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च । (श्वे.उ.६-८) इति ब्रह्मण
उभयलिङ्गत्वम् । स्मर्यते च यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । (भ.गी.१०-३)
इत्यादिभिः ।
अत एव च उपमा सूर्यकादिवत् (ब्र.सू.३-२-१८) । यत एवं तत्तत्स्थानस्थितस्यापि
तद्दोषास्पृष्टत्वम् अत एव,
आकाशमेकं हि यथा घटादिषु पृथग्भवेत् ।
तथात्मैकोऽप्यनेकस्थो जलाधारेष्विवांशुमान् ॥
एक एव हि भूतात्मा भूते भूते व्यवस्थितः । (याज्ञ.स्मृ.३-१४४)
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ (ब्र.उ.१-२)
इति जलगतसूर्यप्रतिबिम्बादिवदिति दृष्टान्तो युज्यते-अम्बुवदग्रहणात्तु न तथात्वम्
(ब्र.सू.३-२-१९) । तु शब्दः चोद्यं द्योतयति । अम्बुवदिति सप्तम्यन्ताद्वतिः । परमात्मनः
न तथात्वम् - सूर्यप्रतिबिम्बादिसाम्यं न सम्भवतीत्यर्थः । कुतः? अम्बुवदग्रहणात् -
अम्बुनि यथा प्रतिबिम्बो गृह्यते - न तथा हि परमात्मा गृह्यते । तत्र हि अजलस्थमेव
प्रतिबिम्बं जलस्थमिव गृह्यते । अतः तत्र तद्गतदोषासंस्पर्शो युज्यते । प्रकृते च
विकारान्तर्वर्तिनि ब्रह्मणि तद्गतदोषासंस्पर्शो न युज्यते वक्तुम् । वृद्धिह्रासभाक्त्व-
मन्तर्भावादुभयसामञ्जस्यादेवं दर्शनाच्च । (ब्र.सू.३-२-२०) विकारान्तर्भावप्रयुक्तविकारगत-
वृद्धिह्रासादि भाक्त्वलक्षणो यो दोषः स नापतति तद्गततया प्रतीयमानस्यापि
तद्गतदोषास्पृष्टत्वांशे आकाशसूर्यरूपदृष्टान्तद्वयसामञ्जस्य सम्भवात् । सिंह इव माणवकः
इत्यादौ विवक्षित कार्यांश एव दृष्टान्तत्वदर्शनाच्च न सर्वथा साम्यं दृष्टान्तदान्तिकयोः
अपेक्षितमिति भावः ॥
ननु द्वे वाव ब्रह्मणो रूपे इति प्रकृतस्य मूर्तामूर्तात्मकप्रपञ्चस्य, यथा माहारजनं
वासः इत्यादिनोपक्षिप्तस्य आकारविशेषस्य च, अथात आदेशो नेति नेति इति प्रतिषेधात्
निर्विशेषमेव ब्रह्म । अतो नोभयलिङ्गत्वमिति । तत्राह प्रकृतैतावत्वं हि प्रतिषेधति ततो
ब्रवीति च भूयः (ब्र.सू.३-२-२१) । प्रकृतैः द्वे वाव ब्रह्मणो रूपे इत्यादिना प्रतिपादितैः
रूपैः ब्रह्मणो यदेतावत्त्वम् परिच्छिन्नत्वलक्षणो यः प्रकारः, तं इति शब्देन परामृश्य
नेतिनेति इति निषेधति, न तु स्वरूपेण ब्रह्म - सम्बन्धिरूपं निषेधति । न हि श्रुतिः
स्वयमेव मानान्तराप्राप्तं मूर्तामूर्तात्मकप्रपञ्चरूपत्वं ब्रह्मणः प्रतिपाद्य स्वयमेव निषेधति
इति युज्यते वक्तुम् । ‘प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् इति न्यायात् ।अत
एव निषेधानन्तरमपि ब्रह्मणो भूयो गुणनातं ‘ब्रवीति श्रुतिः। न ह्येतस्मादिति नेत्यन्यत्परमस्ति
इति स्वरूपतो गुणतश्च सर्वोत्कृष्टत्वं प्रतिपाद्यते । अथ नामधेयं सत्यस्य सत्यम सत्यम् इति
नामधेयरूपगुणवत्ता च प्रतिपाद्यते । अतः नेति नेति इति प्रकृतैतावत्त्वमात्रस्य निषेधः।
तदव्यक्तमाह मि (ब्र.सू,३-२-२२) । तत् - ब्रहा अव्यक्तम् मानतरागम्यमिति
श्रुतिराह- म चक्षुषा ग्रह्यते नापि वाचा (मुं.उ,३-१.८) इति । ततश्च मानान्तरागम्यस्य
श्रुत्येकसमधिगम्यस्य ब्रहारवरूपस्य बा, मूर्तामूर्तात्मकप्रपञ्चशरीरकत्वस्य वा न निषेधो
युक्तः।
अपि संराधने प्रत्यक्षानुमानाभ्याम् (ब्र.सू,३-२-२३) । संराधनं सम्यक्प्रीणनम् ।
भक्तिरूपापन्ननिदिध्यासनम् । तस्मिन् सत्येव साक्षात्कारः, नान्यथा इति,
ततस्तु तं पश्यते निष्कलं ध्यायमानः । (मुं.उ,३-१-८)
माह वेदैर्न तपसा न दानेन न चेज्यया । (भ.गी.११.५३)
भक्त्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ॥ (भ.गी.११.५४)
इति श्रुतिस्मृतिभ्यामवगम्यते । प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात्
(ब्र.सू.३-२-२४) । निदिध्यासनजन्यसाक्षात्कारदशायांच ‘ब्रह्मस्वरूपं भूतानन्दज्ञानादितुल्यतया
अहंमनुरभवं सूर्यश्च (ऋ.सं. ४-२६-१) इति ब्रह्मशरीरभूतमनुसूर्यादिप्रपञ्चस्यापि
तत्त्वविद्भिर्वामदेवादिभिः साक्षात्क्रियमाणत्वात् ब्रह्मस्वरूपवत्तच्छरीरभूतमूर्तामूर्तात्मक-
प्रपञ्चस्याप्यबाधितत्वं सिद्धम् । ब्रह्मस्वरूपप्रकाशश्च ‘कथं भवति इत्याकाङ्क्षायामाह-
प्रकाशश्च कर्मण्यभ्यासादिति । संराधनात्मके ध्यानरूपे कर्मण्यभ्यासात् प्रकाशो भवति
ध्याननिर्मथनाभ्यासात् देवं पश्येन्निगूढवत् (श्वे,उ.१-१४) इति श्रुत्युक्तरिति भावः।
अतोऽनन्तेन तथा हि लिङ्गम् (ब्र.सू.३-२-२५) । अतः उक्तहेतुभिः अनन्तेन
कल्याणगुणेन विशिष्टं ब्रह्म । तथा हि सत्येव उभयलिङ्गं ब्रह्म उपपन्नं भवतीत्यर्थः ।
इति तत्र स्थितम् ।
न ह्येतस्मादिति नेत्यन्यत्परमस्ति इति वाक्यं तत्रैव पादे तथान्यप्रतिषंधात्
(ब्र.सू.३-२.३५) इति सूत्रे चिन्तितम् । तत्र हि उक्तात् परब्रह्मणोपि पर किञ्चिदस्ति य
आत्मा स सेतुर्विधृति (छां.उ.८-४-१) इति सेतुत्वश्रवणात् । सेतुर्हि कूलान्तरप्रापकः।
एवमस्यापि परस्य ब्रह्मणः प्राप्यान्तर प्रापकत्वमभ्युपगन्तव्यम् । किञ्च, चतुष्पाद्ब्रह्म
(छां.उ.३-१८-२) षोडशकलमिति ‘एतस्य ब्रह्मणः’ परिच्छिन्नत्वावगमात् अपरिच्छिन्नं
मुख्यं ब्रह्मेतोजगत्कारणात् अन्यदिति निश्चीयते । तथा, अमृतस्यैष सेतुः (मुं.उ.२-२-५)
इति प्राप्येणामृतेन सम्बन्धो व्यपदिश्यते । तथा परात्परं पुरुषमुपैति दिव्यम् (मुं.उ.३-२-८)
इति परस्माद्ब्रह्मणः प्राप्यस्य भेदो व्यपदिश्यते । अतः परब्रह्मणोपि अन्यत्प्राप्यान्तरमस्तीति
परमतःसेतून्मानसम्बन्धभेदव्यपदेशेभ्यः (ब्र.सू.३-२-३०) इति सूत्रेण पूर्वपक्षं ‘प्रापय्य’
उत्तरं पठति -
सामान्यात्तु (ब्र.सू.३-२-३१) तु शब्दः पक्षं व्यावर्तयति । असङ्करकारित्व-
लक्षणसेतुसामान्यात् सेतुरिति ब्रह्मोच्यते । एष सेतुर्विधरण एषां लोकानामसम्भेदाय
(बृ.उ.६-४-२२) इति श्रुतेः । प्रसिद्धो हि सेतुः पार्श्वद्वयवर्तिजलासङ्करकारीति भावः ।
बुद्ध्यर्थः पादवत् (ब्र.सू.३-२-३२)। चतुष्पाद्ब्रह्म इत्युन्मानव्यपदेशो बुद्ध्यर्थः, उपासनार्थः ।
यथा ब्रह्मप्रतीकभूते मनसि वाक्पादः प्राणः पादः इति व्यपदेशो उपासनार्थः, तद्वत् । न हि
मनसो वागादि पादवत्वं वास्तवं सम्भवति । स्थानविशेषात्प्रकाशादिवत् (ब्र.सू.३-२-३३)।
यथा आलोकाकाशादेः वातायनघटादिस्थानभेदात् परिच्छिन्नतया अनुसन्धानम्,
एवमनुन्मितस्यापि ब्रह्मण उन्मितत्वमुपपद्यत इति भावः । उपपत्तेश्च (ब्र.सू.३-२-३४) ।
यमेवैष वृणुते तेन लभ्यः (मुं. उ. ३-२-३) इति स्वप्राप्तेस्स्वयमेव साधनतया जोघुष्यमाणे
ब्रह्मणि, अमृतस्यैष सेतुरिति श्रुतस्य प्राप्यप्रापकभावसम्बन्धस्य उपपत्तेरित्यर्थः ।
तथान्यप्रतिषेधात् (ब्र.सू.३-२-३५) । यदुक्तम् परात्परमिति पर भेदो व्यपदिश्यत इति
तन्न। न ह्येतस्मादिति नेत्यन्यत्परमस्तीति इति नेतिशब्दनिर्दिष्टात् एतस्माद्ब्रह्मणो अन्यत्परं
नास्तीत्यन्यस्य परस्य प्रतिषेधात् । परात्परं पुरुषम् इति श्रुतिस्तु अक्षरात्परतः परः
(मुं.उ.२-१-२) इति अक्षरापेक्षया परस्मात्समष्टिजीवात् परम् अदृश्यत्वादिगुणकं प्रकृतं
भूतयोन्यक्षरपुरुषमेव प्रतिपादयतीत्यर्थः । अनेन सर्वगतत्वमायामशब्दादिभ्यः (ब्र.सू.३-२-३६)
अनेन ब्रह्मणा सर्वस्य जगतो गतत्वं - व्याप्तत्वम्, तेनेदं पूर्णं पुरुषेण सर्वं (श्वे.उ.३-९)
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः (तै.ना.११) नित्यं विभुं सर्वगतं सुसूक्ष्मम्
(मु.उ.१-१-६) इत्यादिभिरायामवाचिशब्दादियुक्तैः प्रमाणैरवगम्यते । अत इदमेव परं
ब्रह्म सर्वस्मात्परमिति स्थितम् । प्रकृतमनुसरामः ॥ ६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं सत्यस्येति षष्ठ्यन्तस्य स्थूलसूक्ष्मप्रपञ्चात्मकं हेयभूतं सत्यशब्दस्यार्थं व्याख्याय- उपादेयभूतप्रथमान्तसत्यशब्दार्थव्याख्यानायेदमारभ्यते- अथात आदेश इति । ‘अथ’ सत्यस्य स्वरूपनिर्द्देशानन्तरं- ‘यत्सत्यस्य सत्यं’ तदेव अवशिष्यते यस्मात् अतस्तस्मात्तस्य सत्यस्य ब्रह्मणः “नेति नेतीत्येवमादेशः” निर्द्देशः । तथाच- नेति नेतीति वीप्सया मूर्तामूर्ततद्वासनात्मिकाविद्यातत्कार्यतदभावादिसर्वनिषेधावधित्वेन च तत्साक्षित्वेन च साक्षात् ब्रह्म निर्द्दिष्टं भवति । ‘तस्य’ निरवधिकस्य निःसाक्षिकस्य च निषेधासम्भवात् । ननु- कस्मादेवं ब्रह्म निर्द्दिश्यते इत्यत आह- न ह्येतस्मादिति । विषयीकर्तव्याः यावन्तः पदार्थाः ते सर्वे नकारद्वयस्य विषयाः सन्तो निर्द्दिश्यन्ते इति कृत्वा नेति नेतीत्येतस्मादन्यत् अन्यतरत् निर्द्देशनं ‘हि’ यस्मात् नास्ति । तस्मादयमेव निर्द्देशो ब्रह्मणः । यथा ग्रामो रमणीय इत्युक्ते राष्ट्रनिविष्टरमणीयसर्वग्रामसङ्ग्रहः एवं प्रकृते ऽपि नेति नेतीति वीप्सया व्याप्तव्यसर्वप्रकारसङ्ग्रह इति भावः । “तस्योपनिषदिति” प्रतिज्ञातं उपसंहति- अथ नामधेयमिति । यत् उक्तप्रकारेण परमार्थसत्यं परं ब्रह्मैव- ‘अथ’ अतः युक्तमुक्तं ब्रह्मण उपनिषदिति नामधेयमभिधानम् । नामैव नामधेयम् । किं तत् ? सत्यस्य सत्यमिति ‘प्राणा वै सत्यं तेषामेष सत्यम्’ इति व्याख्यातार्थम् ॥ ११ ॥
इति श्रीहृषीकेशभगवत्पूज्यपादशिष्यस्य श्रीपाठकानिरुद्धपुत्रस्य परमहंसपरिव्राजकाचार्यस्य श्रीवासुदेवब्रह्मभगवतः कृतौ माध्यन्दिनीयशतपथब्राह्मणान्तर्गतमाध्यन्दिनशाखोपनिषद्बृहदारण्यकटीकायां वासुदेवप्रकाशिकायां आद्ये मधुकाण्डे द्वितीये ऽध्याये तृतीयं मूर्तामूर्तब्राह्मणं परिसमाप्तम् ॥ १४ (५) २-३ ॥
-
अधिदैवतं D. (?). ↩︎