०१
विश्वास-प्रस्तुतिः
यो᳘ ह वै शि᳘शुम्॥
(ᳫँ᳭) सा᳘धनᳫँ᳭ स᳘प्प्रत्याधानᳫँ᳭ स᳘स्थूणᳫँ᳭ स᳘दामम्वे᳘द सप्त᳘ ह द्विषतो भ्भ्रा᳘तृव्यान᳘वरुणद्धि॥
मूलम् - श्रीधरादि
यो᳘ ह वै शि᳘शुम्॥
(ᳫँ᳭) सा᳘धनᳫँ᳭ स᳘प्प्रत्याधानᳫँ᳭ स᳘स्थूणᳫँ᳭ स᳘दामम्वे᳘द सप्त᳘ ह द्विषतो भ्भ्रा᳘तृव्यान᳘वरुणद्धि॥
मूलम् - Weber
यो᳘ ह वै शि᳘शुं॥
सा᳘धनᳫं स᳘प्रत्याधानᳫं स᳘स्थूणᳫं 1 स᳘दामं वे᳘द सप्त᳘ ह द्विषतो भ्रा᳘तृव्यान᳘वरुणद्धि॥
मूलम् - विस्वरम्
सर्वान्नब्राह्मणं वा शिशुब्राह्मणम् ।
यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद । सप्त ह द्विषतो भ्रातृव्यानवरुणद्धि ॥ १ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं “प्राणा वै सत्यं तेषामेष सत्यं” इत्यादिब्राह्मणभागेन व्याख्याताया अपि उपनिषदो विशेषतो ऽर्थप्रकाशनाय ब्राह्मणद्वयम् । तत्र “प्राणा वै सत्यं” इत्यंशेनोक्तायाः प्राणोपनिषदो व्याख्यानाय शिशुब्राह्मणं प्रवर्तते- यो ह वै शिशुमिति । ‘यो ह वै’ ‘साधानं सप्रत्याधानं सस्थूणं सदामं’ च ‘शिशुं वेद’ उपास्ते । सः ‘ह’ किल ‘सप्त’ सप्तसंख्याकान् चक्षुर्द्वयं, नासिकाद्वयं, श्रोत्रद्वयं, मुखं, इति चैवं सप्त ‘द्विषतः’ द्वेषकर्तॄन् ‘भ्रातृव्यान्’ शत्रून् ‘अवरुणद्धि’ अपावृणोति विनाशयति जितेन्द्रियो भवतीत्यर्थः । भ्रातृव्या हि द्विविधाः । द्विषन्तः अद्विषन्तश्च । तत्र सप्त शीर्षण्याः प्राणविषयोपलब्धिद्वाराणि तत्प्रभवा विषयरागाः सहजत्वात् भ्रातृव्याः । ते हि अस्य स्वात्मस्थां दृष्टिं विषयीकुर्वन्ति । प्रत्यगात्मेक्षणप्रतिषेधकरत्वात् ते द्वेष्टारो भ्रातृव्याः इति भावः ॥ १ ॥
०२
विश्वास-प्रस्तुतिः
(द्ध्य) अयम्वाव शि᳘शुः᳘॥ (र्य्यो) यो ऽय᳘म्मध्यमः᳘ प्प्राणस्त᳘स्येद᳘मे᳘वाधा᳘नमिद᳘म्प्रत्याधा᳘नम्प्राण᳘ स्थूणा᳘ ऽन्नन्दा᳘म त᳘मेताः᳘ सप्ता᳘क्षितय ऽउ᳘पतिष्ठन्ते॥
मूलम् - श्रीधरादि
(द्ध्य) अयम्वाव शि᳘शुः᳘॥ (र्य्यो) यो ऽय᳘म्मध्यमः᳘ प्प्राणस्त᳘स्येद᳘मे᳘वाधा᳘नमिद᳘म्प्रत्याधा᳘नम्प्राण᳘ स्थूणा᳘ ऽन्नन्दा᳘म त᳘मेताः᳘ सप्ता᳘क्षितय ऽउ᳘पतिष्ठन्ते॥
मूलम् - Weber
अयं वाव शि᳘शुॗर्योऽय᳘म् मध्यमः᳘ प्राणः᳟॥
त᳘स्येद᳘मेॗवाधा᳘नमिद᳘म् प्रत्याधा᳘नम् प्राण᳘ स्थूणा᳘न्नं दा᳘म त᳘मेताः᳘ सप्ता᳘क्षितय उ᳘पतिष्ठन्ते॥
मूलम् - विस्वरम्
अयं वाव शिशुः । यः अयं मध्यमः प्राणः । तस्येदमेवाधानम् इदं प्रत्याधानम् । प्राणः स्थूणा । अन्नं दाम । तमेताः सप्ताक्षितय उपतिष्ठन्ते ॥ २ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं फलश्रवणेन अभिमुखीभूताय जिज्ञासवे आह- अयं वावेति । ‘अयं वाव’ अयमेव शिशुरिव ‘शिशुः’ विषयेषु इतरकरणवत् अपृक्तत्वात् । को ऽसौ ? ‘यो ऽयं’ ‘मध्यमः’ शरीरमध्यस्थः ‘प्राणः’ लिङ्गशरीरात्मा पञ्चधा शरीरमाविष्टः “बृहन्पाण्डुरवासः सोम राजन्” इत्युक्तः पड्वीशशङ्कुनिदर्शनात् यस्मिन्वाङ्मनः प्रभृतीनि करणानि विषक्तानि । स एव शिशुरित्यर्थः । ‘तस्य’ शिशोः प्राणस्य वत्सस्थानीयस्य करणात्मनः ‘इदं’ कार्यात्मकं शरीरमेव ‘आधानं’ आधीयते ऽस्मिन्नित्याधानमधिष्ठानम् । ‘तस्य’ प्राणस्य ‘इदं’ प्रसिद्धं शिरो मस्तकं ‘प्रत्याधानं’ प्रदेशविशेषेषु प्रतिपत्त्या ऽऽधीयत इति प्रत्याधानम् । ‘प्राणः’ बलापरपर्यायान्नपानजनिता शक्तिः ‘स्थूणा’ अवष्टम्भः । बलावष्टम्भो हि प्राणो ऽस्मिञ्छरीरे अवतिष्ठत इत्यर्थः । ‘तस्य’ प्राणस्य ‘अन्नं’ भुक्तमशनं ‘दाम’ उभयतः पाशं, वत्सस्येव बन्धने बन्धनरज्जु इत्यर्थः । इदानीं तस्यैव शिशोः प्रत्याधाने शिरसि आरूढस्य चक्षुषि काश्चन उपनिषद उच्यन्ते- तमेता इति । ‘तं’ करणात्मकं शरीरे अन्नबन्धनं चक्षुष्यूढं प्राणं ‘एताः’ वक्ष्यमाणाः ‘सप्त’ सप्तसंख्याकाः ‘अक्षितयः’ अक्षितिहेतुत्वात् ‘अक्षितयः’ ‘उपतिष्ठन्ते’ उपस्थानं कुर्वन्ति । “उपान्मन्त्रकरणे” (पा. सू. १-३-२५) इति “आदित्यङ्गायत्र्योपतिष्ठते” इतिवत् मन्त्रकरणे उपपूर्वस्य तिष्ठतेरात्मनेपदं विहितं इहापि सप्तदेवताभिधानानि मन्त्रस्थानीयानि करणानि । अतस्तिष्ठतेः अत्राप्यात्मनेपदं न विरुद्धम् ॥ २ ॥
०३
विश्वास-प्रस्तुतिः
तद्या᳘ ऽइमा᳘ ऽअक्षल्ँलो᳘हिन्यो रा᳘जयः॥
(स्ता᳘) ता᳘भिरेनᳫँ᳭ रु᳘द्दो ऽन्वा᳘यत्तो᳘ ऽथ या᳘ ऽअक्षन्ना᳘पस्ता᳘भिः पर्ज्ज᳘न्यो या᳘ कनी᳘नका त᳘या ऽऽदित्यो य᳘च्छुक्लन्ते᳘नाग्निर्य्य᳘त्कृष्णन्तेनेन्द्रो᳘ ऽधरयैनम्वर्त्तन्या᳘ पृथि᳘व्यन्वा᳘यत्ता[[!!]] द्यौरु᳘त्तरया᳘ नास्या᳘न्नं क्षीयते य᳘ ऽएवम्वे᳘द॥
मूलम् - श्रीधरादि
तद्या᳘ ऽइमा᳘ ऽअक्षल्ँलो᳘हिन्यो रा᳘जयः॥
(स्ता᳘) ता᳘भिरेनᳫँ᳭ रु᳘द्दो ऽन्वा᳘यत्तो᳘ ऽथ या᳘ ऽअक्षन्ना᳘पस्ता᳘भिः पर्ज्ज᳘न्यो या᳘ कनी᳘नका त᳘या ऽऽदित्यो य᳘च्छुक्लन्ते᳘नाग्निर्य्य᳘त्कृष्णन्तेनेन्द्रो᳘ ऽधरयैनम्वर्त्तन्या᳘ पृथि᳘व्यन्वा᳘यत्ता[[!!]] द्यौरु᳘त्तरया᳘ नास्या᳘न्नं क्षीयते य᳘ ऽएवम्वे᳘द॥
मूलम् - Weber
तद्या᳘ इमा᳘ अक्षंलो᳘हिन्यो रा᳘जयः॥
ता᳘भिरेनं रुॗद्रोऽन्वा᳘यत्तो᳘ऽथ या᳘ अक्षन्ना᳘पस्ता᳘भिः पर्ज᳘न्यो या᳘ कनी᳘नका त᳘यादित्यो य᳘छुक्लं ते᳘नाग्निर्य᳘त्कृष्णं तेनेन्द्रो᳘ऽधरयैनं वर्तन्या᳘ पृथिव्य᳘न्वा᳘यत्ता द्यौरु᳘त्तरयाॗ नास्या᳘न्नं क्षीयते य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
तद्या इमा अक्षल्ँलोहिन्यो राजयः । ताभिरेनं रुद्रो ऽन्वायत्तः । अथ या अक्षन्नापः । ताभिः पर्जन्यः । या कनीनका । तया आदित्यः । यत् शुक्लं, तेनाग्निः । यत् कृष्णं, तेनेन्द्रः । अधरयैनं वर्तन्या पृथिव्यन्वायत्ता । द्यौरुत्तरया । नास्यान्नं क्षीयते । य एवं वेद ॥ ३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
कास्ता अक्षितय इत्यत आह- तद्या ऽइमा इति । तत्तत्र ‘याः इमाः’ प्रसिद्धाः ‘अक्षन्’ अक्षणि नेत्रे ‘लोहिन्यः’ लोहिताः ‘राजयः’ रेखाः । ‘ताभिः’ रेखाभिः द्वारभूताभिः ‘एनं’ मध्यमं प्राणं ‘रुद्रो ऽन्वायत्तः’ अनुगतः उपतिष्ठते इत्यर्थः । अथानन्तरं अक्षन्नक्षणि ‘या आपः’ धूमादिसंयोगेनाभिव्यज्यमानाः ताभिरद्भिर्द्वारभूताभिः ‘पर्ज्जन्यः’ देवतात्मा अन्वायत्तः । ‘या कनीनका’ चक्षुषि दृक्शक्तिः । ‘तया’ कनीनकया द्वारभूतया ‘आदित्यः’ मध्यमं प्राणमुपतिष्ठते । यच्छुक्लञ्चक्षुषि तेन एनमग्निरुपतिष्ठते । यत्कृष्णं चक्षुषि तेनेन्द्रो ऽन्वायत्तः । ‘अधरया’ अधस्तन्या ‘वर्त्तन्या’ पक्ष्मणा ‘एनं’ मध्यमं प्राणं ‘पृथिवी’ ‘अन्वायत्ता’ अधरत्वसामान्यात् । ‘द्यौः’ स्वर्गः उत्तरयोपरिभागस्थया ‘वर्त्तन्या’ पक्ष्मणा ‘अन्वायता’ ऊर्ध्वत्वसामान्यात् । एवंविधोपास्तिफलमाह- नास्यान्नमिति । ‘यः’ एवमुक्तप्रकारेण प्राणस्य अन्नभूताः सप्ताक्षितीर्वेद । अस्योपासकस्यान्नं ‘न क्षीयते’ ॥ ३ ॥
०४
विश्वास-प्रस्तुतिः
त᳘देष श्लो᳘को भवति॥
(त्य) अर्व्वा᳘ग्बिलश्चमस᳘ ऽऊर्ध्व᳘बुध्नस्त᳘स्मिन्य᳘शो नि᳘हितम्विश्व᳘रूपम्। त᳘स्यासत ऽऋष᳘यः[[!!]] सप्त ती᳘रे व्वा᳘गष्टमी ब्ब्र᳘ह्मणा सम्विदाने᳘ति॥
मूलम् - श्रीधरादि
त᳘देष श्लो᳘को भवति॥
(त्य) अर्व्वा᳘ग्बिलश्चमस᳘ ऽऊर्ध्व᳘बुध्नस्त᳘स्मिन्य᳘शो नि᳘हितम्विश्व᳘रूपम्। त᳘स्यासत ऽऋष᳘यः[[!!]] सप्त ती᳘रे व्वा᳘गष्टमी ब्ब्र᳘ह्मणा सम्विदाने᳘ति॥
मूलम् - Weber
त᳘देष श्लो᳘को भवति॥
अर्वा᳘ग्बिलश्चमस᳘ ऊर्ध्व᳘बुध्नस्त᳘स्मिन्य᳘शो नि᳘हितं विश्व᳘रूपम्॥
त᳘स्यासत ऋ᳘षयः सप्त ती᳘रे वा᳘गष्टमी ब्र᳘ह्मणा संविदाने᳘ति॥
मूलम् - विस्वरम्
तदेष श्लोको भवति- “अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम् । तस्यासत ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संविदाना”- इति ॥ ४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
उक्ता रुद्रादिदेवताः प्राणोपासनात् वागाद्यात्मिका एव संवृत्ताः इति वागादय एवात्र रुद्रादिशब्दाभिधेयाः इत्यभिप्रेत्योक्ते ऽर्थे मन्त्रसम्मतिमाह- तदेष श्लोको भवतीति । तत्तत्र एतस्मिन्नर्थे ‘एष श्लोकः’ मन्त्रः ‘भवति’ । अर्व्वाग्बिलश्चमस इत्यादिः, मन्त्रसमाप्तिद्योतक इतिशब्दः ॥ ४ ॥
०५
विश्वास-प्रस्तुतिः
(त्य) अर्व्वा᳘ग्बिलश्चमस᳘ ऽऊर्ध्व᳘बुध्न ऽइ᳘ति॥
(ती) इदन्तच्छि᳘र ऽएष᳘ ह्यर्व्वा᳘ग्बिलश्चमस᳘ ऽऊर्ध्व᳘बुध्नस्त᳘स्मिन्य᳘शो नि᳘हितम्विश्व᳘रूपमि᳘ति प्प्राणा वै य᳘शो नि᳘हितम्विश्व᳘रूपम्प्राणा᳘नेत᳘दाह त᳘स्यासत ऽऋ᳘षयः सप्त ती᳘र ऽइ᳘ति प्प्राणा वा ऋ᳘षयः प्प्राणा᳘नेत᳘दाह व्वा᳘गष्टमी ब्ब्र᳘ह्मणा सम्विदाने᳘ति व्वाग्घ्यष्टमी ब्ब्र᳘ह्मणा सम्वित्ते᳘॥
मूलम् - श्रीधरादि
(त्य) अर्व्वा᳘ग्बिलश्चमस᳘ ऽऊर्ध्व᳘बुध्न ऽइ᳘ति॥
(ती) इदन्तच्छि᳘र ऽएष᳘ ह्यर्व्वा᳘ग्बिलश्चमस᳘ ऽऊर्ध्व᳘बुध्नस्त᳘स्मिन्य᳘शो नि᳘हितम्विश्व᳘रूपमि᳘ति प्प्राणा वै य᳘शो नि᳘हितम्विश्व᳘रूपम्प्राणा᳘नेत᳘दाह त᳘स्यासत ऽऋ᳘षयः सप्त ती᳘र ऽइ᳘ति प्प्राणा वा ऋ᳘षयः प्प्राणा᳘नेत᳘दाह व्वा᳘गष्टमी ब्ब्र᳘ह्मणा सम्विदाने᳘ति व्वाग्घ्यष्टमी ब्ब्र᳘ह्मणा सम्वित्ते᳘॥
मूलम् - Weber
अर्वा᳘ग्बिलश्चमस᳘ ऊर्ध्व᳘बुध्न इ᳘ति॥
इदं तछि᳘र एष᳘ ह्यर्वा᳘ग्बिलश्चमस᳘ ऊर्ध्व᳘बुध्नस्त᳘स्मिन्य᳘शो नि᳘हितं विश्व᳘रूपमि᳘ति प्राणा वै य᳘शो नि᳘हितं विश्व᳘रूपम् प्राणा᳘नेत᳘दाह त᳘स्यासत ऋ᳘षयः सप्त ती᳘र इ᳘ति प्राणा वा ऋ᳘षयः प्राणा᳘नेत᳘दाह वा᳘गष्टमी ब्र᳘ह्मणा संविदाने᳘ति वाग्घ्यष्टमी ब्र᳘ह्मणा संवित्ते᳟॥
मूलम् - विस्वरम्
अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इति । इदं तच्छिरः । एष हि अर्वाग्बिलश्चमस ऊर्ध्वबुध्नः । तस्मिन् यशो निहितं विश्वरूपमिति । प्राणा वै यशो निहितं विश्वरूपम् । प्राणानेतदाह । तस्यासत ऋषयः सप्त तीर इति । प्राणा वा ऋषयः । प्राणानेतदाह । वागष्टमी ब्रह्मणा संविदानेति । वाक् हि अष्टमी ब्रह्मणा संवित्ते ॥ ५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तं मन्त्रं प्रतीकग्रहणपूर्वकं व्याकरोति । “अर्व्वाग्बिलश्चमस ऽऊर्ध्वबुध्नः” इत्यस्मिन्मन्त्रभागे ‘तत्’ प्राणस्य प्रत्याधानत्वेनोक्तं ‘इदं’ प्रसिद्धं ‘शिरः’ एव ‘एषः’ ‘अर्वाग्बिलः’ अवाङ्मुखः ‘ऊर्ध्वबुध्नः’ ऊर्ध्वासनः ‘चमसः’ चमन्त्यस्मिन्निति व्युत्पत्त्या चमसः पात्रविशेष उक्तः । कथं ? ‘हि’ यस्मादेव शिरोलक्षणाश्चमसः ‘अर्वाग्बिलः’ अधःस्थितस्यैव मुखस्य बिलरूपत्वात् शिरसो बुध्नाकारस्य उपरिभागे दृश्यमानत्वाच्च । तस्माच्छिर एव उक्तलक्षणश्चमसः । ‘तस्मिन्’ शिरसि ‘विश्वरूपं’ नानारूपं ‘यशो निहितं’ स्थितम् । यथा सोमश्चमसे इति मन्त्रभागः । किं पुनस्तद्यशः ? ‘प्राणाः’ श्रोत्रादयः सप्त पूर्वोक्ताः । तेषु प्रसृता वागादयश्च ‘वै’ प्रसिद्धं ‘विश्वरूपं’ विषयाणामनेकत्वेन अनेकरूपं शब्दादिज्ञानलक्षणं ‘यशः’ शिरसि ‘निहितम्’ । अतः प्राणानेव एतद्यश इति मन्त्रभाग आह । ‘तस्य’ शिरोलक्षणस्य चमसस्य ‘तीरे’ पार्श्वे “सप्त ऋषयः” ‘आसते’ वर्तन्ते इति मन्त्रार्थः । ‘प्राणाः’ करणाश्रयाः परिस्पन्दात्मकाः सप्त वायव एव ‘ऋषयः’ प्रसिद्धऋषिवदेषां शब्दादिविषयद्रष्टृत्वात् तदाश्रयत्वेन तद्रूपत्वाद्वा ऋषित्वम् । अतः प्राणानेतन्मन्त्रवाक्यमाह- ‘ब्रह्मणा’ ब्रह्मशब्दराशिना वेदेन सह ‘संविदाना’ संसर्गं गच्छन्ती शब्दराशिमुच्चारयन्ती ‘वाक् अष्टमी’ अष्टसंख्यापूरणी । इति मन्त्रेणोक्ते ऽर्थे ब्राह्मणं हेतुमाह- वाग्घीति । ‘हि’ यस्मादष्टमी ‘वाक्’ ‘ब्रह्मणा’ वेदेन सह ‘संवित्ते’ संसर्गं प्राप्नोति । वक्तृत्वात्तृत्वभेदेन द्विधा वागिष्टा । तत्र वक्तृत्वेनाष्टमी । सप्तमी च अत्तृत्वेन इत्यविरोध इति भावः ॥ ५ ॥
०६
विश्वास-प्रस्तुतिः
(त्त ऽ) इमा᳘वेव᳘ गोतमभरद्वाजौ᳘॥
(जा᳘व) अय᳘मेव गो᳘तमो ऽय᳘म्भर᳘द्वाज᳘ ऽइमा᳘वेव᳘ व्विश्वामित्रजमदग्नी᳘ ऽअय᳘मेव᳘ व्विश्वा᳘मित्रो ऽय᳘ञ्जमदग्नि᳘रिमा᳘वेव[[!!]] व्व᳘सिष्ठकश्यपा᳘वय᳘मेव व्व᳘सिष्ठो ऽय᳘ङ्कश्य᳘पो व्वा᳘गेवा᳘त्त्रिर्व्वाचा ह्य᳘न्नमद्यते᳘ ऽत्तिर्ह वै ना᳘मैतद्यद᳘त्त्रिरि᳘ति स᳘र्व्वस्यात्ता᳘ भवति सर्व्वमस्या᳘न्नम्भवति य᳘ ऽएवम्वे᳘द॥
मूलम् - श्रीधरादि
(त्त ऽ) इमा᳘वेव᳘ गोतमभरद्वाजौ᳘॥
(जा᳘व) अय᳘मेव गो᳘तमो ऽय᳘म्भर᳘द्वाज᳘ ऽइमा᳘वेव᳘ व्विश्वामित्रजमदग्नी᳘ ऽअय᳘मेव᳘ व्विश्वा᳘मित्रो ऽय᳘ञ्जमदग्नि᳘रिमा᳘वेव[[!!]] व्व᳘सिष्ठकश्यपा᳘वय᳘मेव व्व᳘सिष्ठो ऽय᳘ङ्कश्य᳘पो व्वा᳘गेवा᳘त्त्रिर्व्वाचा ह्य᳘न्नमद्यते᳘ ऽत्तिर्ह वै ना᳘मैतद्यद᳘त्त्रिरि᳘ति स᳘र्व्वस्यात्ता᳘ भवति सर्व्वमस्या᳘न्नम्भवति य᳘ ऽएवम्वे᳘द॥
मूलम् - Weber
इमा᳘वेव᳘ गोतमभरद्वाजौ᳟॥
अय᳘मेव गो᳘तमोऽय᳘म् भर᳘द्वाज इमा᳘वेव᳘ विश्वामित्रजमदग्नी᳘ 2 अय᳘मेव विश्वा᳘मित्रोऽयं᳘ जम᳘दग्निरिमा᳘वेव᳘ वसष्ठिकश्यपा᳘वय᳘मेव व᳘सिष्ठोऽयं᳘ कश्य᳘पो वा᳘गेवा᳘त्रिर्वाचा ह्य᳘न्नमद्यते᳘ऽत्तिर्ह वै ना᳘मैतद्यद᳘त्रिरि᳘ति स᳘र्वस्यात्ता᳘ भवति सर्वमस्या᳘न्नम् भवति य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
इमावेव गोतमभरद्वाजौ । अयमेव गोतमः । अयं भरद्वाजः । इमावेव विश्वामित्रजमदग्नी । अयमेव विश्वामित्रः । अयं जमदग्निः । इमावेव वसिष्ठकश्यपौ । अयमेव वसिष्ठः । अयं कश्यपः । वागेवात्त्रिः । वाचा हि अन्नमद्यते । अत्तिर्ह वै नामैतत् । यदत्त्रिरिति । सर्वस्यात्ता भवति । सर्वमस्यान्नं भवति । य एवं वेद ॥ ६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
के ते प्राणा ऋषय इत्यपेक्षायामाह- इमावेवेति । ‘इमौ’ प्रसिद्धावेव कर्णौ ‘गोतमभरद्वाजौ’ ‘अयमेव’ दक्षिणः कर्णः ‘गोतमः’ । अयमेवोत्तरः कर्णः ‘भरद्वाजः’ । विपर्ययेण वा । तथा चक्षुषी उपदिशन्नुवाच ‘इमावेव विश्वामित्रजमदग्नी’ । ‘अयमेव’ दक्षिणञ्चक्षुर्विश्वामित्रः । अयमेवोत्तरं चक्षुर्जमदग्निः । विपर्ययेण वा । ‘इमावेव’ नासापुटौ ‘वसिष्ठकश्यपौ’ । ‘अयमेव’ दक्षिणो नासापुटः ‘वसिष्ठः’ । ‘अयमेवोत्तरो नासापुटः’ ‘कश्यपः’ । विपर्ययेण वा । ‘वागेवात्रिः’ । अदनक्रियायोगात् ‘अत्रिः’ । ‘हि’ यस्मात् ‘वाचा’ ‘अन्नमद्यते’ भक्ष्यते । तस्माद्वाचः “अत्तिः” इति ‘ह वै’ प्रसिद्धं ‘नाम एतत्’ । अत्तृत्वादत्तिरिति । अत्तिरेव सत् ‘यत् अत्रिरिति’ श्रुत्या व्यपदिश्यते नाम । तत्परो ऽक्षेणैव । “परो ऽक्षप्रिया ऽइव हि देवाः” ( ) इत्युक्तत्वात् । सम्प्रति अत्रिनिर्वचनविज्ञानस्य प्राणयाथात्म्यवेदनस्य च फलमाह- सर्वस्यात्तेति । ‘यः’ एवमुक्तं अत्रिनिर्वचनं प्राणयाथात्म्यं च ‘वेद’ । स मध्यमः प्राणो भूत्वा आधानप्रत्याधानगतः सर्वस्यान्नजातस्यात्ता भोक्तैव ‘भवति’ । न भोज्यम् । सर्वमस्योपासकस्यान्नं ‘भवति’ । भोज्यात् व्यावर्तत इत्यर्थः ॥ ६ ॥
इति श्रीहृषीकेशब्रह्मभगवत्पूज्यपादशिष्यस्य श्रीपाठकानिरुद्धपुत्रस्य परमहंसपरिव्राजकाचार्यस्य श्रीवासुदेवब्रह्मभगवतः कृतौ माध्यन्दिनीयशतपथब्राह्मणान्तर्गतमाध्यन्दिनशाखोपनिषद्बृहदारण्यकटीकायां वासुदेवप्रकाशिकायाम् आद्ये मधुकाण्डे द्वितीये ऽध्याये द्वितीयं शिशुब्राह्मणं सर्वान्नब्राह्मणं वा परिसमाप्तम् (॥ १४ ॥ (५) । २ । २ ॥)