०१

विश्वास-प्रस्तुतिः

दृप्तबालाकि᳘र्हानूचानो गा᳘र्ग्ग्य ऽआस॥
स᳘ होवाचा᳘जातशत्रुङ्का᳘श्यम्ब्र᳘ह्म ते ब्ब्रवाणी᳘ति स᳘ होवाचाजातशत्रुः[[!!]] सह᳘स्रमेत᳘स्याम्वाचि᳘ दद्मो जनको᳘ जनक ऽइ᳘ति वै ज᳘ना धावन्ती᳘ति॥

मूलम् - श्रीधरादि

दृप्तबालाकि᳘र्हानूचानो गा᳘र्ग्ग्य ऽआस॥
स᳘ होवाचा᳘जातशत्रुङ्का᳘श्यम्ब्र᳘ह्म ते ब्ब्रवाणी᳘ति स᳘ होवाचाजातशत्रुः[[!!]] सह᳘स्रमेत᳘स्याम्वाचि᳘ दद्मो जनको᳘ जनक ऽइ᳘ति वै ज᳘ना धावन्ती᳘ति॥

मूलम् - Weber

दृप्तबालाकि᳘र्हानूचानो गा᳘र्ग्य आस॥
स᳘ होवाचा᳘जातशत्रुं का᳘श्यम् ब्र᳘ह्म ते ब्रवाणी᳘ति स᳘ होवाचा᳘जातशत्रुः सह᳘स्रमेत᳘स्यां वाचि᳘ दद्मो जनको᳘ जनक इ᳘ति वै ज᳘ना धावन्ती᳘ति॥

मूलम् - विस्वरम्

अजातशत्रुब्राह्मणं वा पर्यङ्कविद्याब्राह्मणम् ।

दृप्तबालाकिर्हानूचानो गार्ग्य आस । स होवाचाजातशत्रुं काश्यम् । ब्रह्म ते ब्रवाणीति । स होवाचाजातशत्रुः । सहस्रमेतस्यां वाचि दद्मः । जनको जनक इति वै जना धावन्तीति ॥ १ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

अथ प्रथमे ऽध्याये सूत्रितयोर्विद्याविद्ययोः अविद्या प्रपञ्चिता । सम्प्रति विद्यां प्रपञ्चयितुं श्रुतिर्द्वितीयमध्यायमारभते । तत्र वक्तृश्रोतृरूपाख्यायिकया अविद्याविषयमेव ब्रह्मत्वेनोपगतो गार्ग्यो ब्राह्मणो वक्ता पूर्वपक्षवादी उपस्थाप्यते । मुख्यब्रह्मात्मदर्शी राजा अजातशत्रुः श्रोता सिद्धान्तवादी चोपस्थाप्यते श्रुत्या । एवं हि यतः पूर्वपक्षसिद्धान्ताख्यायिकारूपेण समर्थ्यमानो ऽर्थः श्रोतुश्चित्तवशमेतीति सुखप्रतिपत्त्यर्थं अजातशत्रुब्राह्मणं प्रवर्तते- दृप्तबालाकिर्हेति । ‘दृप्तः’ असम्यक् ब्रह्मवित्त्वादेव गर्वितः । बलाकायाः अपत्यं बालाकिः । दृप्तश्चासौ बालाकिश्चेति ‘दृप्तबालाकिः’ । ‘ह’ शब्दः ऐतिह्यार्थ आख्यायिकायाः । ‘अनूचानः’ अनुवचनसमर्थो वाग्ग्मी ‘गार्ग्यः’ गर्गगोत्रापत्यं ब्राह्मणः ‘आस’ बभूव । ‘स ह’ पुनः क्वचित्कालविशेषे ‘अजातशत्रुं’ अजातशत्रुनामानं राजानं ‘काश्यं’ काशिराजं अभिगम्य हे राजन् ‘ते’ तुभ्यं ‘ब्रह्म’ मुख्यं ‘ब्रवाणि’ कथयामीत्युवाचोक्तवान् । ‘सः’ श्रद्धादिसम्पन्नो ऽजातशत्रुः- ‘एतस्यां’ “ब्रह्म ते ब्रवाणि” इत्यस्यां ‘वाचि’ वचनमात्रे गवां ‘सहस्रं दद्मः’ इति तं ब्राह्मणं प्रत्युवाच । ननु- साक्षाद्ब्रह्मकथनमेव गवां सहस्रदाने निमित्तं कस्मान्नेष्यते ? इत्याशङ्काया श्रुती राज्ञो ऽभिप्रायमाह- जनको जनक इतीति । ‘वै’ शब्दः ‘जनकः’ दाता ‘जनकः’ श्रोता ‘इति’ प्रसिद्ध्यत्वद्योतनार्थः । जनको दित्सुः जनकः शुश्रूषुरिति वै ब्रह्म शुश्रूषवो विवक्षवः प्रतिजिघृक्षवश्च जना ब्राह्मणाः धावन्ति अभिगच्छन्ति । तस्मात्तत्सर्वं मय्यपि सम्भावितवानसि इति मुख्यब्रह्मकथनं विनैव तद्वचनमात्रेणैव (गवां) सहस्रं दद्म इति राज्ञो ऽभिप्राय इत्यर्थः ॥ १ ॥

०२

विश्वास-प्रस्तुतिः

स᳘ होवाच गा᳘र्ग्ग्यः॥
(र्ग्ग्यो) य᳘ ऽए᳘वासा᳘वादित्ये पु᳘रुष ऽएत᳘मे᳘वाहम्ब्रह्मो᳘पास ऽइ᳘ति स᳘ होवाचा᳘जातशत्रुर्म्मा᳘ मैत᳘स्मिन्त्स᳘म्वदिष्ठा ऽअतिष्ठाः स᳘र्व्वेषाम्भूता᳘नाम्मूर्द्धा राजे᳘ति वा᳘ ऽअह᳘मेतमु᳘पास ऽइ᳘ति स य᳘ ऽएत᳘मेव᳘मुपा᳘स्ते ऽतिष्ठाः स᳘र्व्वेषाम्भूता᳘नाम्मूर्द्धा रा᳘जा भवति॥

मूलम् - श्रीधरादि

स᳘ होवाच गा᳘र्ग्ग्यः॥
(र्ग्ग्यो) य᳘ ऽए᳘वासा᳘वादित्ये पु᳘रुष ऽएत᳘मे᳘वाहम्ब्रह्मो᳘पास ऽइ᳘ति स᳘ होवाचा᳘जातशत्रुर्म्मा᳘ मैत᳘स्मिन्त्स᳘म्वदिष्ठा ऽअतिष्ठाः स᳘र्व्वेषाम्भूता᳘नाम्मूर्द्धा राजे᳘ति वा᳘ ऽअह᳘मेतमु᳘पास ऽइ᳘ति स य᳘ ऽएत᳘मेव᳘मुपा᳘स्ते ऽतिष्ठाः स᳘र्व्वेषाम्भूता᳘नाम्मूर्द्धा रा᳘जा भवति॥

मूलम् - Weber

स᳘ होवाच गा᳘र्ग्यो॥
य᳘ एॗवासा᳘वादित्ये पु᳘रुष एत᳘मेॗवाहम् ब्रह्मो᳘पास इ᳘ति स᳘ होवाचा᳘जातशत्रुर्मा᳘ मैत᳘स्मिन्त्सं᳘वदिष्ठा अतिष्ठाः स᳘र्वेषाम् भूता᳘नाम् मूर्धा राजे᳘ति वा᳘ अह᳘मेतमु᳘पास इ᳘ति स य᳘एत᳘मेव᳘मुपा᳘स्तेऽतिष्ठाः स᳘र्वेषाम् भूता᳘नाम् मूर्धा राजा भवति॥

मूलम् - विस्वरम्

स होवाच गार्ग्यः । य एवासावादित्ये पुरुषः । एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः । मा मैतस्मिन् संवदिष्ठाः । अतिष्ठाः सर्वेषां भूतानां मूर्द्धा राजा इति वा अहमेतमुपास इति । स य एतमेवमुपास्ते । अतिष्ठाः सर्वेषां भूतानां मूर्द्धा राजा भवति ॥ २ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवमभिमुखीभूतं शुश्रूषं राजानं प्रति ‘सः गार्ग्यः’ ‘ह’ किल ‘उवाच’ । ‘य एव असौ आदित्ये’ चक्षुषि च एको ऽभिमानी ‘पुरुषः’ चक्षुर्द्वारेण इह हृदि प्रविष्टः अहङ्कर्ता अहं भोक्ता चेत्यवस्थितं एतमेवपुरुषं अस्मिन् कार्यकारणसङ्घाते ‘अहं ब्रह्म उपासे’ निरन्तरं पश्यामि । तमेव पुरुषं ब्रह्म तुभ्यं ब्रवीमि । त्वमपि उपास्स्व इत्युक्ते ‘सः’ अजातशत्रुः ‘ह’ ‘उवाच’- ‘मा मा’ इति हस्तेन विनिवारयन् हे गार्ग्य ! ‘एतस्मिन्’ विज्ञेये ब्रह्मणि ‘मा मा संवदिष्ठाः’ मा संवादं कार्षीः । अहमिदं जानामि । मा मेति “आबाधे च”- (पा. सू. ८ । १ । १०) इति द्विर्वचनम् । अथ चेन्मन्यसे जानीषे त्वं ब्रह्ममात्रं न तु तद्विशेषेणोपासनफलानीति । तत्र मैवं शङ्किष्ठाः । यतः सर्वमेतदहं जाने इत्याह-अतिष्ठा इति । अतीत्य सर्वाणि भूतानि तिष्ठतीत्यतिष्ठाः । ‘सर्वेषां भूतानां’ ‘मूर्द्धा’ शिरः पूज्यः । ‘राजा’ च राजते दीप्यत इति व्युत्पत्तेर्द्दीप्तिगुणोपेतत्वात् राजा । एतैर्विशेषणैर्विशिष्टं एतद्ब्रह्म ‘अहं’ अस्मिन् कार्यकारणसङ्घाते कर्तृ भोक्तृ च इत्येतं पुरुषं ‘उपासे’ अनवरतं पश्यामि । यः एवमुक्तगुणत्रयविशिष्टमेतमुपास्ते ‘सः’ ‘अतिष्ठाः’ ‘सर्वेषां भूतानां मूर्द्धा राजा’ च भवतीति यथागुणोपासनमेव हि फलं- “तं यथा यथोपासते तदेव भवति” (श. प. १० । ५ । २ । २० ।) इति श्रुतेः ॥ २ ॥

०३

विश्वास-प्रस्तुतिः

स᳘ होवाच गा᳘र्ग्ग्यः॥
(र्ग्ग्यो) य᳘ ऽए᳘वासौ᳘ चन्द्रे᳘ पु᳘रुष ऽएत᳘मे᳘वाहम्ब्रह्मो᳘पास ऽइ᳘ति स᳘ होवाचा᳘जातशत्रुर्म्मा᳘ मैत᳘स्मिन्त्स᳘म्वदिष्ठा ब्बृहन्पा᳘ण्डरवासाः सो᳘मो राजे᳘ति वा᳘ ऽअह᳘मेतमु᳘पास ऽइ᳘ति स य᳘ ऽएत᳘मेव᳘मुपास्ते᳘ ऽहरहर्ह सुतः प्प्र᳘सुतो भवति᳘ नास्या᳘न्नङ्क्षीयते॥

मूलम् - श्रीधरादि

स᳘ होवाच गा᳘र्ग्ग्यः॥
(र्ग्ग्यो) य᳘ ऽए᳘वासौ᳘ चन्द्रे᳘ पु᳘रुष ऽएत᳘मे᳘वाहम्ब्रह्मो᳘पास ऽइ᳘ति स᳘ होवाचा᳘जातशत्रुर्म्मा᳘ मैत᳘स्मिन्त्स᳘म्वदिष्ठा ब्बृहन्पा᳘ण्डरवासाः सो᳘मो राजे᳘ति वा᳘ ऽअह᳘मेतमु᳘पास ऽइ᳘ति स य᳘ ऽएत᳘मेव᳘मुपास्ते᳘ ऽहरहर्ह सुतः प्प्र᳘सुतो भवति᳘ नास्या᳘न्नङ्क्षीयते॥

मूलम् - Weber

स᳘ होवाच गार्ग्यो॥
य᳘ एॗवासौ᳘ चन्द्रे᳘ पु᳘रुष एत᳘मेॗवाहम् ब्रह्मो᳘पास इ᳘ति स᳘ होवाचा᳘जातशत्रुर्मा᳘ मैत᳘स्मिन्त्सं᳘वदिष्ठा बृहन्पा᳘ण्डरवासाः 1 सो᳘मो राजे᳘ति वा᳘ अह᳘मेतमु᳘पास इ᳘ति स य᳘ एत᳘मेव᳘मुपास्ते᳘ऽहरहर्ह सुतः प्र᳘सुतो भवतिॗ नास्या᳘न्नं क्षीयते॥

मूलम् - विस्वरम्

स होवाच गार्ग्यः । य एवासौ चन्द्रे पुरुषः । एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः । मा मैतस्मिन् संवदिष्ठाः । बृहन् पाण्डुरवासाः सोमो राजेति वा अहमेतमुपास इति । स य एतमेवमुपास्ते । अहरहर्ह सुतः प्रसुतो भवति । नास्यान्नं क्षीयते ॥ ३ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवं संवादेन आदित्ये ब्रह्मणि अजातशत्रुणा प्रत्याख्याते चन्द्रमसि ब्रह्म अनन्तरं गार्ग्यः प्रतिपन्नवानित्याह- स हेति । स होवाच गार्ग्यः । ‘य एवासौ चन्द्रे’ मनसि चैकः ‘पुरुषः’ कर्ता भोक्ता चेति पूर्ववद्विशेषणम् । बृहन्महान् पाण्डुरं शुक्लं वासो यस्य सः ‘पाण्डुरवासाः’ चन्द्राभिमानिनः प्राणस्याप्शरीरत्वात् । सोमो राजेति । चन्द्रमाः लतात्मकश्च ‘सोमः’ यज्ञे य अभिषूयते तं बुद्धिनिष्ठं च पुरुषमेकीकृत्य ‘अहं’ ब्रह्मोपासे । अस्योपासकस्य प्रकृत्यात्मके यज्ञे ‘ह’ किल ‘अहरहः’ प्रत्यहं सोमः सुतो ऽभिषुतः ‘भवति’ । विकृत्यात्मके च यज्ञे ‘प्रसुतः’ प्रकृष्टः सुतो भवति । यथोक्तोपासकस्य प्रकृतिविकृत्यनुष्ठानसामर्थ्यं लीलालभ्यं भवतीत्यर्थः । अस्यान्नात्मन उपासकस्यान्नं च ‘न क्षीयते’ । अन्नाक्षयस्य उपासना ऽनुसारित्वात् उपपन्नत्वमित्यर्थः ॥ ३ ॥

०४

विश्वास-प्रस्तुतिः

स᳘ होवाच गा᳘र्ग्ग्यः॥
(र्ग्ग्यो) य᳘ ऽए᳘वायम्विद्यु᳘ति[[!!]] पु᳘रुष ऽएत᳘मे᳘वाहम्ब्रह्मो᳘पास ऽइ᳘ति स᳘ होवाचा᳘जातशत्रुर्म्मा मैत᳘स्मिन्त्स᳘म्वदिष्ठास्तेजस्वी᳘ति वा᳘ ऽअह᳘मेतमु᳘पास ऽइ᳘ति स य᳘ ऽएत᳘मेव᳘मुपा᳘स्ते ते᳘जस्वी ह भवति ते᳘जस्विनी हास्य प्प्रजा᳘ भवति॥

मूलम् - श्रीधरादि

स᳘ होवाच गा᳘र्ग्ग्यः॥
(र्ग्ग्यो) य᳘ ऽए᳘वायम्विद्यु᳘ति[[!!]] पु᳘रुष ऽएत᳘मे᳘वाहम्ब्रह्मो᳘पास ऽइ᳘ति स᳘ होवाचा᳘जातशत्रुर्म्मा मैत᳘स्मिन्त्स᳘म्वदिष्ठास्तेजस्वी᳘ति वा᳘ ऽअह᳘मेतमु᳘पास ऽइ᳘ति स य᳘ ऽएत᳘मेव᳘मुपा᳘स्ते ते᳘जस्वी ह भवति ते᳘जस्विनी हास्य प्प्रजा᳘ भवति॥

मूलम् - Weber

स᳘ होवाच गा᳘र्ग्यो॥
य᳘ एॗवायं᳘ विद्यु᳘ति पु᳘रुष एत᳘मेॗवाहम् ब्रह्मो᳘पास इ᳘ति स᳘ होवाचा᳘जातशत्रुर्मा᳘ मैत᳘स्मिन्त्सं᳘वदिष्ठास्तेजस्वी᳘ति वा᳘ अह᳘मेतमु᳘पास इ᳘ति स य᳘ एत᳘मेव᳘मुपा᳘स्ते ते᳘जस्वी ह भवति ते᳘जस्विनी हास्य प्रजा᳘ भवति॥

मूलम् - विस्वरम्

स होवाच गार्ग्यः । य एवायं विद्युति पुरुषः । एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः । मा मैतस्मिन् संवदिष्ठाः । तेजस्वीति वा अहमेतमुपास इति । स य एतमेवमुपास्ते । तेजस्वी ह भवति । तेजस्विनी हास्य प्रजा भवति ॥ ४ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

संवाददोषेण चन्द्रब्रह्मण्यपि प्रत्याख्याते ब्रह्मान्तरमाह- इत्यादि सर्वं प्रबोध्यम् । तथा ‘विद्युति त्वचि हृदये च एका देवता । ‘तेजस्वी’ इति तस्या विशेषणम् । ‘तेजस्वी ह भवतीति’ ‘तेजस्विनी हास्य प्रजा भवतीति’ च फलम् । विद्युतां बहुत्वस्याङ्गीकरणात् आत्मनि प्रजायां चेति फलबाहुल्यम् ॥ ४ ॥

०५

विश्वास-प्रस्तुतिः

स᳘ होवाच गा᳘र्ग्ग्यः॥
(र्ग्ग्यो) य᳘ ऽए᳘वाय᳘माकाशे पु᳘रुष ऽएत᳘मे᳘वाहम्ब्रह्मो᳘पास ऽइ᳘ति स᳘ होवाचा᳘जातशत्रुर्म्मा᳘ मैत᳘स्मिन्त्स᳘म्वदिष्ठाः पूर्ण्णम᳘प्प्रवर्ती᳘ति वा᳘ ऽअह᳘मेतमु᳘पास ऽइ᳘ति स य᳘ ऽएत᳘मेव᳘मुपास्ते᳘ पूर्य्य᳘ते प्प्रज᳘या पशु᳘भि᳘र्न्नास्यास्मा᳘ल्लोका᳘त्प्रजो᳘द्वर्त्तते॥

मूलम् - श्रीधरादि

स᳘ होवाच गा᳘र्ग्ग्यः॥
(र्ग्ग्यो) य᳘ ऽए᳘वाय᳘माकाशे पु᳘रुष ऽएत᳘मे᳘वाहम्ब्रह्मो᳘पास ऽइ᳘ति स᳘ होवाचा᳘जातशत्रुर्म्मा᳘ मैत᳘स्मिन्त्स᳘म्वदिष्ठाः पूर्ण्णम᳘प्प्रवर्ती᳘ति वा᳘ ऽअह᳘मेतमु᳘पास ऽइ᳘ति स य᳘ ऽएत᳘मेव᳘मुपास्ते᳘ पूर्य्य᳘ते प्प्रज᳘या पशु᳘भि᳘र्न्नास्यास्मा᳘ल्लोका᳘त्प्रजो᳘द्वर्त्तते॥

मूलम् - Weber

स᳘ होवाच गा᳘र्ग्यो॥
य᳘ एॗवाय᳘माकाशे पु᳘रुष एत᳘मेॗवाहम् ब्रह्मो᳘पास इ᳘ति स᳘ होवाचा᳘जातशत्रुर्मा᳘ मैत᳘स्मिन्त्सं᳘वदिष्ठाः पूर्णम᳘प्रवर्ती᳘ति वा᳘ अह᳘मेतमु᳘पास इ᳘ति स य᳘ एत᳘मेव᳘मुपा᳘स्ते पूर्य᳘ते प्रज᳘या पशु᳘भिॗर्नास्यास्माल्लोका᳘त्प्रजो᳘द्वर्तते॥

मूलम् - विस्वरम्

स होवाच गार्ग्यः । य एवायमाकाशे पुरुषः । एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः । मा मैतस्मिन् संवदिष्ठाः । पूर्णमप्रवर्तीति वा अहमेतमुपास इति । स य एतमेवमुपास्ते । पूर्यते प्रजया पशुभिः । नास्यास्माल्लोकात्प्रजोद्वर्तते ॥ ५ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

तथा ‘आकाशे’ हृदये च एकं पूर्णमप्रवर्त्ति चेति विशेषणद्वयम् । अप्रवर्तिवत्त्वं अक्रियावत्त्वं अप्रवर्तकत्वं अक्रियावत्त्वं वा । पूर्णत्वविशेषणफलमिदम् । ‘पूर्यते प्रजया पशुभिः’ इति अप्रवर्तित्वविशेषणफलम् । ‘नास्यास्माल्लोकात्प्रजोद्वर्तते’ । ‘उद्वर्त्तते’ विच्छिद्यते । इति प्रजा सन्तानाविच्छित्तिः ॥ ५ ॥

०६

विश्वास-प्रस्तुतिः

स᳘ होवाच गा᳘र्ग्ग्यः॥
(र्ग्ग्यो) य᳘ ऽए᳘वाय᳘म्वायौ पु᳘रुष ऽएत᳘मे᳘वाहम्ब्रह्मो᳘पास ऽइ᳘ति स᳘ होवाचा᳘जातशत्रुर्म्मा᳘ मैत᳘स्मिन्त्स᳘म्वदिष्ठा ऽइ᳘न्द्रो व्वैकुण्ठो᳘ ऽपराजिता सेने᳘ति वा᳘ ऽअह᳘मेतमु᳘पास ऽइ᳘ति स य᳘ ऽएत᳘मेव᳘मुपा᳘स्ते जिष्णुर्हा᳘पराजिष्णुर्भ्भवत्यन्यतस्त्यजायी॥

मूलम् - श्रीधरादि

स᳘ होवाच गा᳘र्ग्ग्यः॥
(र्ग्ग्यो) य᳘ ऽए᳘वाय᳘म्वायौ पु᳘रुष ऽएत᳘मे᳘वाहम्ब्रह्मो᳘पास ऽइ᳘ति स᳘ होवाचा᳘जातशत्रुर्म्मा᳘ मैत᳘स्मिन्त्स᳘म्वदिष्ठा ऽइ᳘न्द्रो व्वैकुण्ठो᳘ ऽपराजिता सेने᳘ति वा᳘ ऽअह᳘मेतमु᳘पास ऽइ᳘ति स य᳘ ऽएत᳘मेव᳘मुपा᳘स्ते जिष्णुर्हा᳘पराजिष्णुर्भ्भवत्यन्यतस्त्यजायी॥

मूलम् - Weber

स᳘ होवाच गा᳘र्ग्यो॥
य᳘ एॗवायं᳘ वायौ पु᳘रुष एत᳘मेॗवाहम् ब्रह्मो᳘पास इ᳘ति स᳘ होवाचा᳘जातशत्रुर्मा᳘ मैत᳘स्मिन्त्सं᳘वदिष्ठा इ᳘न्द्रो वैकुण्ठो᳘ऽपराजिता सेने᳘ति वा᳘ अह᳘मेतमु᳘पास इ᳘ति स य᳘ एत᳘मेव᳘मुपा᳘स्ते जिष्णुर्हा᳘पराजिष्णुर्भवत्यन्यतस्त्यजायी॥

मूलम् - विस्वरम्

स होवाच गार्ग्यः । य एवायं वायौ पुरुषः । एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः । मा मैतस्मिन् संवदिष्ठाः । इन्द्रो वैकुण्ठो ऽपराजिता सेनेति वा अहमेतमुपास इति । स य एतमेवमुपास्ते । जिष्णुर्हापराजिष्णुर्भवत्यन्यतस्त्यजायी ॥ ६ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

तथा ‘वायौ’ प्राणे हृदि चैका । तस्या विशेषणं ‘इन्द्रः’ परमेश्वरः । वैकुण्ठो ऽप्रसह्यः । अपराजिता सेनेति । न परैर्जितपूर्वः मरुतां गणत्वप्रसिद्धेः एकस्मिन् वायौ अपराजिता सेनेति गुणः सम्भवतीति बोध्यम् । विशेषणत्रयस्य विशेषफलत्रयं क्रमेण व्युत्पादयति- जिष्णुरित्यादिना । जिष्णुर्जयशीलः । ‘अपराजिष्णुः’ न परैर्जितस्वभावः । अन्यतस्त्यजायीति । अन्यतस्त्यानां अन्यमातृतो जातानां सपत्नानां जयशीलो भवति ॥ ६ ॥

०७

विश्वास-प्रस्तुतिः

स᳘ होवाच गा᳘र्ग्ग्यः॥
(र्ग्ग्यो) य᳘ ऽए᳘वाय᳘मग्नौ पु᳘रुष ऽएत᳘मे᳘वाहम्ब्रह्मो᳘पास ऽइ᳘ति स᳘ होवाचा᳘जातशत्रुर्म्मा᳘ मैत᳘स्मिन्त्स᳘म्वदिष्ठा व्विषासहिरि᳘ति[[!!]] वा᳘ अह᳘मेतमु᳘पास ऽइ᳘ति स य᳘ ऽएत᳘मेव᳘मुपास्ते व्विषास᳘हिर्ह भवति व्विषास᳘हिर्हास्य प्प्रजा᳘ भवति॥

मूलम् - श्रीधरादि

स᳘ होवाच गा᳘र्ग्ग्यः॥
(र्ग्ग्यो) य᳘ ऽए᳘वाय᳘मग्नौ पु᳘रुष ऽएत᳘मे᳘वाहम्ब्रह्मो᳘पास ऽइ᳘ति स᳘ होवाचा᳘जातशत्रुर्म्मा᳘ मैत᳘स्मिन्त्स᳘म्वदिष्ठा व्विषासहिरि᳘ति[[!!]] वा᳘ अह᳘मेतमु᳘पास ऽइ᳘ति स य᳘ ऽएत᳘मेव᳘मुपास्ते व्विषास᳘हिर्ह भवति व्विषास᳘हिर्हास्य प्प्रजा᳘ भवति॥

मूलम् - Weber

स᳘ होवाच गा᳘र्ग्यो॥
य᳘ एॗवाय᳘मग्नौ पु᳘रुष एत᳘मेॗवाहम् ब्रह्मो᳘पास इ᳘ति स᳘ होवाचा᳘जातशत्रुर्मा᳘ मैत᳘स्मिन्त्सं᳘वदिष्ठा विषास᳘हिरि᳘ति वा᳘ अह᳘मेतमु᳘पास इ᳘ति स य᳘ एत᳘मेव᳘मुपास्ते विषास᳘हिर्ह 2 भवति विषास᳘हिर्हास्य प्रजा᳘ भवति॥

मूलम् - विस्वरम्

स होवाच गार्ग्यः । य एवायमग्नौ पुरुषः । एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः । मा मैतस्मिन् संवदिष्ठाः । विषासहिरिति वा अहमेतमुपास इति । स य एतमेवमुपास्ते । विषासहिर्ह भवति । विषासहिर्हास्य प्रजा भवति ॥ ७ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

तथा ‘अग्नौ’ वाचि हृदि च एका । विषासहिरिति विशेषणम् । यद्धविर्विष्यते क्षिप्यते तत्सर्वं भस्मीकरणेन सहते इति विषासहिरग्निः । फलोक्तौ विषासहिः परेषां मर्षयिता । अग्नीनां बाहुल्यादुपासकस्यात्मनि प्रजायां च दीप्ताग्नित्वं सिध्यति विद्युतामिवेति बोध्यम् ॥ ७ ॥

०८

विश्वास-प्रस्तुतिः

स᳘ होवाच गा᳘र्ग्ग्यः॥
(र्ग्ग्यो) य᳘ ऽए᳘वाय᳘मप्सु पु᳘रुष ऽएत᳘मेवाहम्ब्रह्मो᳘पास ऽइ᳘ति स᳘ होवाचा᳘जातशत्रुर्म्मा᳘ मैत᳘स्मिन्त्स᳘म्वदिष्ठाः प्प्रतिरूप ऽइ᳘ति वा᳘ ऽअह᳘मेतमु᳘पास ऽइ᳘ति स य᳘ ऽएत᳘मेव᳘मुपा᳘स्ते प्प्र᳘तिरूपᳫँ᳭ है᳘वैनमु᳘पगच्छति ना᳘प्रतिरूपम᳘थो प्प्र᳘तिरूपो ऽस्माज्जायते॥

मूलम् - श्रीधरादि

स᳘ होवाच गा᳘र्ग्ग्यः॥
(र्ग्ग्यो) य᳘ ऽए᳘वाय᳘मप्सु पु᳘रुष ऽएत᳘मेवाहम्ब्रह्मो᳘पास ऽइ᳘ति स᳘ होवाचा᳘जातशत्रुर्म्मा᳘ मैत᳘स्मिन्त्स᳘म्वदिष्ठाः प्प्रतिरूप ऽइ᳘ति वा᳘ ऽअह᳘मेतमु᳘पास ऽइ᳘ति स य᳘ ऽएत᳘मेव᳘मुपा᳘स्ते प्प्र᳘तिरूपᳫँ᳭ है᳘वैनमु᳘पगच्छति ना᳘प्रतिरूपम᳘थो प्प्र᳘तिरूपो ऽस्माज्जायते॥

मूलम् - Weber

स᳘ होवाच गा᳘र्ग्यो॥
य᳘ एॗवाय᳘मप्सु पु᳘रुष एत᳘मेवाहम् ब्रह्मो᳘पास इ᳘ति स᳘ होवाचा᳘जातशत्रुर्मा᳘ मैत᳘स्मिन्त्सं᳘वदिष्ठाः प्रतिरूप इ᳘ति वा᳘ अह᳘मेतमु᳘पास इ᳘ति स य᳘ एत᳘मेव᳘मुपा᳘स्ते प्र᳘तिरूपᳫं हैॗवैनमु᳘पगछति ना᳘प्रतिरूपम᳘थो प्र᳘तिरूपोऽस्माज्जायते॥

मूलम् - विस्वरम्

स होवाच गार्ग्यः । य एवायमप्सु पुरुषः । एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः । मा मैतस्मिन् संवदिष्ठाः । प्रतिरूप इति वा अहमेतमुपास इति । स य एतमेवमुपास्ते । प्रतिरूपं हैवैनमुपगच्छति । नाप्रतिरूपम् । अथो प्रतिरूपः अस्माज्जायते ॥ ८ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘अप्सु’ रेतसि हृदि च एका । तस्या विशेषणं ‘प्रतिरूपः’ इति । ‘प्रतिरूपः’ अनुरूपः । श्रुतिस्मृत्यप्रतिकूल इत्यर्थः । फलं ‘प्रतिरूपं’ श्रुतिस्मृतिशासनानुरूपमेव एतमुपासकमुपगच्छति प्राप्नोति । ‘नाप्रतिरूपं’ न विपरीतम् । ‘अथो’ अन्यच्च फलं, अस्मादुपासितुः ‘प्रतिरूपः’ श्रुतिस्मृत्यनुकूलः सत्पुत्रः ‘जायते’ । न विपरीत इत्यर्थः ॥ ८ ॥

०९

विश्वास-प्रस्तुतिः

स᳘ होवाच गा᳘र्ग्ग्यः॥
(र्ग्ग्यो) य᳘ ऽए᳘वाय᳘मादर्शे पु᳘रुष ऽएत᳘मे᳘वाहम्ब्रह्मो᳘पास ऽइ᳘ति स᳘ होवाचा᳘जातशत्रुर्म्मा᳘ मैत᳘स्मिन्त्स᳘म्वदिष्ठा रोचिष्णुरिति[[!!]] वा᳘ ऽअह᳘मेतमु᳘पास ऽइ᳘ति स य᳘ ऽएत᳘मेव᳘मुपा᳘स्ते रोचिष्णु᳘र्ह भवति रोचिष्णु᳘र्हास्य प्प्रजा᳘ भवत्य᳘थो यैः᳘ सन्निग᳘च्छति स᳘र्व्वाँस्तान᳘तिरोचते॥

मूलम् - श्रीधरादि

स᳘ होवाच गा᳘र्ग्ग्यः॥
(र्ग्ग्यो) य᳘ ऽए᳘वाय᳘मादर्शे पु᳘रुष ऽएत᳘मे᳘वाहम्ब्रह्मो᳘पास ऽइ᳘ति स᳘ होवाचा᳘जातशत्रुर्म्मा᳘ मैत᳘स्मिन्त्स᳘म्वदिष्ठा रोचिष्णुरिति[[!!]] वा᳘ ऽअह᳘मेतमु᳘पास ऽइ᳘ति स य᳘ ऽएत᳘मेव᳘मुपा᳘स्ते रोचिष्णु᳘र्ह भवति रोचिष्णु᳘र्हास्य प्प्रजा᳘ भवत्य᳘थो यैः᳘ सन्निग᳘च्छति स᳘र्व्वाँस्तान᳘तिरोचते॥

मूलम् - Weber

स᳘ होवाच गा᳘र्ग्यो॥
य᳘ एॗवाय᳘मादर्शे पु᳘रुष एत᳘मेॗवाहम् ब्रह्मो᳘पास इ᳘ति स᳘ होवाचा᳘जातशत्रुर्मा᳘ मैत᳘स्मिन्त्सं᳘वदिष्ठा रोचिष्णुरि᳘ति वा᳘ अह᳘मेतमु᳘पास इ᳘ति स य᳘ एत᳘मेव᳘मुपा᳘स्ते रोचिष्णु᳘र्ह भवति रोचिष्णु᳘र्हास्य प्रजा᳘ भवत्य᳘थो यैः᳘ संनिग᳘छति स᳘र्वांस्तान᳘तिरोचते॥

मूलम् - विस्वरम्

स होवाच गार्ग्यः । य एवायमादर्शे पुरुषः । एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः । मा मैतस्मिन् संवदिष्ठाः । रोचिष्णुरिति वा अहमेतमुपास इति । स य एतमेवमुपास्ते । रोचिष्णुर्ह भवति । रोचिष्णुर्हास्य प्रजा भवति । अथो यैः सन्निगच्छति । सर्वान् तानतिरोचते ॥ ९ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘आदर्शे’ प्रसादस्वभावे च, अन्यत्र च खड्गादौ, हार्द्दे सत्त्वशुद्धिस्वाभाव्ये चैका । तस्या विशेषणं ‘रोचिष्णुरिति’ । रोचिष्णुर्दीप्तिस्वभावः । फलं च तदेव रोचिष्णुत्वम् । ‘अथो’ अन्यच्च । ‘यैः’ सह सन्निगच्छति ‘सम्बध्यते । ‘तान् सर्वानतिरोचते’ रोचनाधारबाहुल्यात्फलबाहुल्यम् ॥ ९ ॥

१०

विश्वास-प्रस्तुतिः

स᳘ होवाच गा᳘र्ग्ग्यः॥
(र्ग्ग्यो) य᳘ ऽए᳘वाय᳘न्दिक्षु पु᳘रुष ऽएत᳘मे᳘वाहम्ब्रह्मो᳘पास ऽइ᳘ति स᳘ होवाचा᳘जातशत्रुर्म्मा᳘ मैत᳘स्मिन्त्स᳘म्वदिष्ठा द्विती᳘यो ऽनपग ऽइ᳘ति वा᳘ ऽअह᳘मेतमुपास ऽइ᳘ति[[!!]] स य᳘ ऽएत᳘मेव᳘मुपा᳘स्ते द्विती᳘यवान्ह᳘ भवति[[!!]] नास्माद्गण᳘श्छिद्यते॥

मूलम् - श्रीधरादि

स᳘ होवाच गा᳘र्ग्ग्यः॥
(र्ग्ग्यो) य᳘ ऽए᳘वाय᳘न्दिक्षु पु᳘रुष ऽएत᳘मे᳘वाहम्ब्रह्मो᳘पास ऽइ᳘ति स᳘ होवाचा᳘जातशत्रुर्म्मा᳘ मैत᳘स्मिन्त्स᳘म्वदिष्ठा द्विती᳘यो ऽनपग ऽइ᳘ति वा᳘ ऽअह᳘मेतमुपास ऽइ᳘ति[[!!]] स य᳘ ऽएत᳘मेव᳘मुपा᳘स्ते द्विती᳘यवान्ह᳘ भवति[[!!]] नास्माद्गण᳘श्छिद्यते॥

मूलम् - Weber

स᳘ होवाच गा᳘र्ग्यो॥
य᳘ एॗवायं᳘ दिक्षु पु᳘रुष एत᳘मेॗवाहम् ब्रह्मो᳘पास इ᳘ति स᳘ होवाचा᳘जातशत्रुर्मा᳘ मैत᳘स्मिन्त्सं᳘वदिष्ठा द्विती᳘योऽनपग इ᳘ति वा᳘ अह᳘मेतमु᳘पास इ᳘ति स य᳘ एत᳘मेव᳘मुपा᳘स्ते द्विती᳘यवान्ह भवतिॗ नास्माद्गण᳘श्छिद्यते॥

मूलम् - विस्वरम्

स होवाच गार्ग्यः । य एवायं दिक्षु पुरुषः । एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः । मा मैवस्मिन् संवदिष्ठाः । द्वितीयो ऽनपग इति वा अहमेतमुपास इति । स य एतमेवमुपास्ते । द्वितीयवान् ह भवति । नास्माद्गणश्छिद्यते ॥ १० ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘दिक्षु’ कर्णयोर्हृदि चैका । अश्विनौ देवौ अवियुक्तस्वभावौ । तस्य देवस्य गुणः । द्वितीयवत्त्वं अनपगत्वं चान्यो ऽन्यमवियुक्तता । दिशामश्विनोश्चैवंधर्म्मित्वात् तदेव फलमुपासकस्य द्वितीयवत्त्वं साधुभृत्यपरिवृतवत्वम् । अस्मादुपासकात् ‘गणः’ समूहश्च ‘न छिद्यते’ विच्छेदं न प्राप्नोतीत्यर्थः ॥ १० ॥

११

विश्वास-प्रस्तुतिः

स᳘ होवाच गा᳘र्ग्ग्यः॥
(र्ग्ग्यो) य᳘ ऽए᳘वायं य᳘न्तम्पश्चाच्छ᳘ब्दो ऽनूदै᳘त्येत᳘मे᳘वाहम्ब्रह्मो᳘पास ऽइ᳘ति स᳘ होवाचा᳘जातशत्रुर्मा᳘ मैत᳘स्मिन्त्स᳘म्वदिष्ठा ऽअसुरि᳘ति वा᳘ ऽअह᳘मेतमु᳘पास ऽइ᳘ति स य᳘ ऽएत᳘मेव᳘मुपास्ते स᳘र्व्वᳫँ᳭ है᳘वास्मिं᳘ल्लोक ऽआ᳘युरेति᳘ नैनम्पुरा᳘ काला᳘त्प्राणो᳘ जहाति॥

मूलम् - श्रीधरादि

स᳘ होवाच गा᳘र्ग्ग्यः॥
(र्ग्ग्यो) य᳘ ऽए᳘वायं य᳘न्तम्पश्चाच्छ᳘ब्दो ऽनूदै᳘त्येत᳘मे᳘वाहम्ब्रह्मो᳘पास ऽइ᳘ति स᳘ होवाचा᳘जातशत्रुर्मा᳘ मैत᳘स्मिन्त्स᳘म्वदिष्ठा ऽअसुरि᳘ति वा᳘ ऽअह᳘मेतमु᳘पास ऽइ᳘ति स य᳘ ऽएत᳘मेव᳘मुपास्ते स᳘र्व्वᳫँ᳭ है᳘वास्मिं᳘ल्लोक ऽआ᳘युरेति᳘ नैनम्पुरा᳘ काला᳘त्प्राणो᳘ जहाति॥

मूलम् - Weber

स᳘ होवाच गार्ग्यो॥
य᳘ एॗवायं य᳘न्तम् पश्चाछ᳘ब्दोऽनूदै᳘त्येत᳘मेॗवाहम् ब्रह्मो᳘पास इ᳘ति स᳘ होवाचा᳘जातशत्रुर्मा᳘ मैत᳘स्मिन्त्सं᳘वदिष्ठा असुरि᳘ति वा᳘ अह᳘मेतमु᳘पास इ᳘ति स य᳘ एत᳘मेव᳘मुपास्ते स᳘र्वᳫं हैॗवास्मिं᳘लोक आ᳘युरेतिॗ नैनम् पुरा᳘ काला᳘त्प्राणो᳘ जहाति॥

मूलम् - विस्वरम्

स होवाच गार्ग्यः । य एवायं यन्तं पश्चाच्छब्दः अनूदैति । एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः । मा मैतस्मिन् संवदिष्ठाः । असुरिति वा अहमेतमुपास इति । स य एतमेवमुपास्ते । सर्वं हैवास्मिन् लोके आयुरेति । नैनं पुरा कालात्प्राणो जहाति ॥ ११ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘यन्तं’ गच्छन्तं पश्चात्पृष्ठतः ‘य एवायं शब्दः’ ‘अनूदैति’ उत्पद्यते । अध्यात्मञ्च जीवनहेतुः प्राणः तमेकीकृत्य एतमेवोपासे । तस्य विशेषणं ‘असुरिति’ । ‘असुः’ जीवनहेतुः प्राणः । तस्य फलं ‘सर्वं’ सम्पूर्णं यावत्कर्म्मोपात्तं ‘ह’ किल ‘आयुः’ ‘अस्मिन् लोके’ ‘एति’ गच्छति । कर्म्मपरिच्छिन्नकालात्पूर्वं रोगादिना पीड्यमानमपि ‘एनं प्राणो न जहाति’ न त्यजति ॥ ११ ॥

१२

विश्वास-प्रस्तुतिः

स᳘ होवाच गा᳘र्ग्ग्यः॥
(र्ग्ग्यो) य᳘ ऽए᳘वाय᳘ञ्छायाम᳘यः पु᳘रुष ऽएत᳘मे᳘वाहम्ब्रह्मो᳘पास ऽइ᳘ति स᳘ होवाचा᳘जातशत्रुर्म्मा᳘ मैत᳘स्मिन्त्स᳘म्वदिष्ठा म्मृत्युरि᳘ति वा᳘ ऽअह᳘मेतमु᳘पास ऽइ᳘ति स य᳘ ऽएत᳘मेव᳘मुपा᳘स्ते स᳘र्व्वᳫँ᳭ है᳘वास्मिं᳘ल्लोक ऽआ᳘युरेति᳘ नैनम्पुरा᳘ काला᳘न्मृत्युरा᳘गच्छति॥

मूलम् - श्रीधरादि

स᳘ होवाच गा᳘र्ग्ग्यः॥
(र्ग्ग्यो) य᳘ ऽए᳘वाय᳘ञ्छायाम᳘यः पु᳘रुष ऽएत᳘मे᳘वाहम्ब्रह्मो᳘पास ऽइ᳘ति स᳘ होवाचा᳘जातशत्रुर्म्मा᳘ मैत᳘स्मिन्त्स᳘म्वदिष्ठा म्मृत्युरि᳘ति वा᳘ ऽअह᳘मेतमु᳘पास ऽइ᳘ति स य᳘ ऽएत᳘मेव᳘मुपा᳘स्ते स᳘र्व्वᳫँ᳭ है᳘वास्मिं᳘ल्लोक ऽआ᳘युरेति᳘ नैनम्पुरा᳘ काला᳘न्मृत्युरा᳘गच्छति॥

मूलम् - Weber

स᳘ होवाच गा᳘र्ग्यो॥
य᳘ एॗवायं᳘ छायाम᳘यः पु᳘रुष एत᳘मेॗवाहम् ब्रह्मो᳘पास इ᳘ति स᳘ होवाचा᳘जातशत्रुर्मा᳘ मैत᳘स्मिन्त्सं᳘वदिष्ठा मृत्युरि᳘ति वा᳘ अह᳘मेतमु᳘पास इ᳘ति स य᳘ एत᳘मेव᳘मुपा᳘स्ते स᳘र्वᳫं हैॗवास्मिं᳘लोक आ᳘युरेतिॗ नैनम् पुरा᳘ काला᳘न्मृत्युरा᳘गछति॥

मूलम् - विस्वरम्

स होवाच गार्ग्यः । य एवायं छायामयः पुरुषः । एतमेवाहं ब्रह्मोपास इति । स होवाचा अजातशत्रुः । मा मैतस्मिन् संवदिष्ठाः । मृत्युरिति वा अहमेतमुपास इति । स य एतमेवमुपास्ते । सर्वं हैवास्मिन् लोके आयुरेति । नैनं पुरा कालात् मृत्युरागच्छति ॥ १२ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘छायायां’ बाह्ये तमसि अध्यात्मं च आवरणात्मके अज्ञाने हृदि च एका देवता । तस्या विशेषणं ‘मृत्युः’ । फलं सर्वं पूर्ववत् । एतावांस्तु विशेषः । यन्मृत्योरागमनात् प्राक् रोगादिपीडाया अपि अभावः ॥ १२ ॥

१३

विश्वास-प्रस्तुतिः

स᳘ होवाच गा᳘र्ग्ग्यः॥
(र्ग्ग्यो) य᳘ ऽए᳘वाय᳘मात्म᳘नि पु᳘रुष ऽएत᳘मे᳘वाहम्ब्रह्मो᳘पास ऽइ᳘ति स᳘ होवाचा᳘जातशत्रुर्म्मा᳘ मैतस्मिन्त्स᳘म्वदिष्ठा ऽआत्मन्वी᳘ति वा᳘ ऽअह᳘मेतमु᳘पास ऽइ᳘ति स य᳘ ऽएत᳘मेव᳘मुपा᳘स्त ऽआत्मन्वी᳘ ह भवत्यात्मन्वि᳘नी हास्य प्प्रजा᳘ भवति स᳘ ह तूष्णी᳘मास गा᳘र्ग्यः॥

मूलम् - श्रीधरादि

स᳘ होवाच गा᳘र्ग्ग्यः॥
(र्ग्ग्यो) य᳘ ऽए᳘वाय᳘मात्म᳘नि पु᳘रुष ऽएत᳘मे᳘वाहम्ब्रह्मो᳘पास ऽइ᳘ति स᳘ होवाचा᳘जातशत्रुर्म्मा᳘ मैतस्मिन्त्स᳘म्वदिष्ठा ऽआत्मन्वी᳘ति वा᳘ ऽअह᳘मेतमु᳘पास ऽइ᳘ति स य᳘ ऽएत᳘मेव᳘मुपा᳘स्त ऽआत्मन्वी᳘ ह भवत्यात्मन्वि᳘नी हास्य प्प्रजा᳘ भवति स᳘ ह तूष्णी᳘मास गा᳘र्ग्यः॥

मूलम् - Weber

स᳘ होवाच गा᳘र्ग्यो॥
य᳘श्चाय᳘मात्म᳘नि पु᳘रुष एत᳘मेॗवाहम् ब्रह्मो᳘पास इ᳘ति स᳘ होवाचा᳘जातशत्रुर्मा᳘ मैतस्मिन्त्संवदिष्ठा आत्मन्वी᳘ति वा᳘ अह᳘मेतमु᳘पास इ᳘ति स य᳘ एत᳘मेव᳘मुपा᳘स्त आत्मन्वी᳘ ह भवत्यात्मन्वि᳘नी हास्य प्रजा᳘ भवति स᳘ ह तूष्णी᳘मास गा᳘र्ग्यः॥

मूलम् - विस्वरम्

स होवाच गार्ग्यः । य एवायमात्मनि पुरुषः । एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः । मा मैतस्मिन् संवदिष्ठाः । आत्मन्वीति वा अहमेतमुपास इति । स य एतमेवमुपास्ते । आत्मन्वी ह भवति । आत्मन्विनी हास्य प्रजा भवति । स ह तूष्णीमास गार्ग्यः ॥ १३ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

व्यस्तानि ब्रह्माण्युपन्यस्य समस्तं ब्रह्म उपदिशति । ‘आत्मनि’ प्रजापतौ बुद्धौ च हृदि चैका । तस्या विशेषणं ‘आत्मन्वी’ वश्य आत्मा अस्यास्तीत्यात्मन्वी स्वतन्त्रः । फलं आत्मन्वी । ‘आत्मन्विनी’ ‘ह’ किल ‘अस्य प्रजा भवति’ । फलस्यात्मगामित्वात् प्रजायां तदभिधानमनुचितमित्याशङ्कायां बुद्धिबहुत्वात् प्रजायां सम्पादनम् । एवमजातशत्रुणा स्वयं परिज्ञातत्वेनैव क्रमेण प्रत्याख्यातेषु ब्रह्मसु ‘सः’ गार्ग्यः ‘ह’ किल क्षीणब्रह्मविज्ञानः अप्रतिभासमानोत्तरः ‘तूष्णीं’ अवाक्शिराः ‘आस’ बभूव ॥ १३ ॥

१४

विश्वास-प्रस्तुतिः

स᳘ होवाचा᳘जातशत्रुः॥
(रे) एता᳘वन्नू३ इ᳘त्येता᳘वद्धी᳘ति᳘ नैता᳘वता व्विदित᳘म्भवती᳘ति स᳘ होवाच गा᳘र्ग्ग्य ऽउ᳘प त्वा ऽयानी᳘ति॥

मूलम् - श्रीधरादि

स᳘ होवाचा᳘जातशत्रुः॥
(रे) एता᳘वन्नू३ इ᳘त्येता᳘वद्धी᳘ति᳘ नैता᳘वता व्विदित᳘म्भवती᳘ति स᳘ होवाच गा᳘र्ग्ग्य ऽउ᳘प त्वा ऽयानी᳘ति॥

मूलम् - Weber

स᳘ होवाचा᳘जातशत्रुः॥
एता᳘वन्नू३इ᳘त्येता᳘वद्धी᳘तिॗ नैतावता विदित᳘म् भवती᳘ति स᳘ होवाच गा᳘र्ग्य उ᳘प त्वायानी᳘ति॥

मूलम् - विस्वरम्

स होवाचाजातशत्रुः । एवावन्नू ३ इति । एतावद्धीति । नैतावता विदितं भवतीति । स होवाच गार्ग्यः । उप त्वा ऽयानीति ॥ १४ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

तं तथाभूतमालक्ष्य ‘सः आजतशत्रुः ह उवाच- एतावन्नू ३ इति’ किं एतावदेव ब्रह्म निर्ज्ञातं आहोस्वित् अधिकमप्यस्तीति विचारार्था प्लुतिः । गार्ग्य आह- एतावद्धीति । ‘एतावदेव’ नातः परं विदितमस्ति । अजातशत्रुराह- ‘नैतावता’ विदितेन ब्रह्म ‘विदितं भवति’ । किमर्थं ? गर्वितो ऽसि ब्रह्म ते ब्रवाणि इति ? किमेतावद्विदितं विदितमेव भवतीति नेतावता विदितं भवतीति ब्रुवता राज्ञा अधिकं ब्रह्म ज्ञातव्यमस्तीति दर्शितं भवति । तत्रानुपसन्नाय न वक्तव्यं इत्याचारविधिज्ञः ‘गार्ग्यः’ स्वयमेव ‘ह’ किल ‘उवाच’ यथा अन्यः शिष्यो गुरुमुपेयात् तथा अहं ‘त्वा’ त्वां ‘उपायानि’ उपगच्छानीत्यर्थः ॥ १४ ॥

१५

विश्वास-प्रस्तुतिः

स᳘ होवाचा᳘जातशत्रुः॥
प्प्र᳘तिलोमम्वै तद्य᳘द्ब्राह्मणः᳘ क्षत्रि᳘यमु᳘पेयाद्ब्रह्म[[!!]] मे व्वक्ष्यती᳘ति᳘ व्येव᳘ त्वा ज्ञपयिष्यामी᳘ति त᳘म्पाणा᳘वादायो᳘त्तस्थौ तौ᳘ ह पु᳘रुषᳫँ᳭ सुप्तमा᳘जग्मतुस्त᳘मेतैर्न्ना᳘मभिरामन्त्रया᳘ञ्चक्रे बृहन्पा᳘ण्डुरवासः[[!!]] सो᳘म राजन्नि᳘ति स नो᳘त्तस्थौ त᳘म्पाणि᳘ना ऽऽपे᳘षम्बोधया᳘ञ्चकार स हो᳘त्तस्थौ॥

मूलम् - श्रीधरादि

स᳘ होवाचा᳘जातशत्रुः॥
प्प्र᳘तिलोमम्वै तद्य᳘द्ब्राह्मणः᳘ क्षत्रि᳘यमु᳘पेयाद्ब्रह्म[[!!]] मे व्वक्ष्यती᳘ति᳘ व्येव᳘ त्वा ज्ञपयिष्यामी᳘ति त᳘म्पाणा᳘वादायो᳘त्तस्थौ तौ᳘ ह पु᳘रुषᳫँ᳭ सुप्तमा᳘जग्मतुस्त᳘मेतैर्न्ना᳘मभिरामन्त्रया᳘ञ्चक्रे बृहन्पा᳘ण्डुरवासः[[!!]] सो᳘म राजन्नि᳘ति स नो᳘त्तस्थौ त᳘म्पाणि᳘ना ऽऽपे᳘षम्बोधया᳘ञ्चकार स हो᳘त्तस्थौ॥

मूलम् - Weber

स᳘ होवाचा᳘जातशत्रुः॥
प्र᳘तिलोमं वै तद्य᳘द्ब्राह्मणः᳘ क्षत्रि᳘यमुपेयाद्ब्र᳘ह्म 3 मे वक्ष्यती᳘तिॗ व्येव᳘ त्वा ज्ञपयिष्यामी᳘ति त᳘म् पाणा᳘वादायो᳘त्तस्थौ तौ᳘ ह पु᳘रुषᳫं सुप्तमा᳘जग्मतुस्त᳘मेतैर्ना᳘मभिरामन्त्रयां᳘ चक्रे बृ᳘हन्पा᳘ण्डरवासः 4 सो᳘म राजन्नि᳘ति स नो᳘त्तस्थौ त᳘म् पाणि᳘नापे᳘षम् बोधयां᳘ चकार स हो᳘त्तस्थौ॥

मूलम् - विस्वरम्

स होवाचाजातशत्रुः । प्रतिलोमं वै तत् । यत् ब्राह्मणः क्षत्रियमुपेयात्- ब्रह्म मे वक्ष्यतीति । व्येव त्वा ज्ञपयिष्यामीति । तं पाणावादायोत्तस्यौ । तौ ह पुरुषं सुप्तमाजग्मतुः । तमेतैर्नामभिरामन्त्रयाञ्चक्रे । बृहन् पाण्डुरवासः सोम राजन्निति । स नोत्तस्थौ । तं पाणिना ऽऽपेषं बोधयाञ्चकार । स होत्तस्थौ ॥ १५ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवमुक्तः ‘सः अजातशत्रुः ह उवाच’ । ‘प्रतिलोमं वै’ विपरीतमेव ‘तत् यत्’ ‘ब्राह्मणः’ उत्तमवर्णः आचार्यत्वे ऽधिकृतः सन् क्षत्रियमनाचार्यस्वभावं उपेयादुपगच्छेत् शिष्यवृत्त्या ‘ब्रह्म मे वक्ष्यति’ इत्येवम् । एतत् आचारविधिशास्त्रेषु निषिद्धम् । “अनुव्रज्या च शुश्रूषा यावदध्ययनं गुरोः । नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं वसेतु” । “अब्राह्मणादध्ययनमापत्काले विधीयते” (म. स्मृ. २ । २४१-२४२) इत्यादिना । तस्माद्धे गार्ग्य ! त्वमाचार्य एव सन् तिष्ठ । अहं तु ‘त्वा’ त्वां यस्मिन् विदिते ब्रह्म विदितं भवति- तन्मुख्यं वेद्यं ‘ब्रह्म’ ‘विज्ञपयिष्याम्येव’ विज्ञातमेव करिष्यामि । एवं प्रतिज्ञातब्रह्मबोधार्थमुपक्रमते इत्याह- तम्पाणाविति । ‘तं’ गार्ग्यं सलज्जमालक्ष्य विश्वासजननाय ‘पाणौ’ हस्ते ‘आदाय’ गृहीत्वा ‘उत्तस्थौ’ उत्थितवान् । ततस्तौ ‘ह’ गार्ग्याजातशत्रू क्वचिद्राजगृहप्रदेशे ‘सुप्तं पुरुषं’ प्रति ‘आजग्मतुः’ आगतौ । ‘तं’ च सुप्तं पुरुषं प्राप्य ‘बृहन्’ ‘पाण्डुरवासः’ ‘सोम’ ‘राजन्’ इत्येतैर्नामभिरामन्त्रयाञ्चक्रे । राज्ञा एवमामन्त्र्यमाणो ऽपि ‘सः’ सुप्तः पुरुषो ‘नोत्तस्थौ’ नोत्थितवान् । तमप्रतिबुद्ध्यमानं पुरुषं ‘पाणिना’ हस्तेन ‘आपेषं’ आपिष्यापिष्य ‘बोधयाञ्चकार’ प्रतिबोधितवान् । ततः ‘सः’ पुरुषः ‘ह’ किल ‘उत्तस्थौ’ उत्थितवान् । तथा च ‘बृहन्पाण्डुरवासः’ इत्यादिप्राणात्मचन्द्रादिनाम्ना सम्बोधनेन गार्ग्याभिमतप्राणदेवता ऽतिरिक्त एवात्मा अस्मिन् शरीरे कर्ता भोक्ता, न प्राणः इति निर्णीतम् । अन्यथा उच्छ्वासनिःश्वासरूपेण व्याप्रियमाणस्य सम्बोधनाश्रवणमनुत्थानं च न भवेत् । आपेषणेन च प्राणशरीरसङ्घातमात्रो भोक्ता चेति निश्चितम् । अन्यथा सङ्घातमात्राविशेषात् स्पर्शमात्रेणा ऽपि उत्थानं स्यादिति भावः ॥ १५ ॥

१६

विश्वास-प्रस्तुतिः

स᳘ होवाचा᳘जातशत्रुः॥
(र्य्य᳘) य᳘त्रैष᳘ ऽएत᳘त्सुप्तो᳘ ऽभूद्य᳘ ऽएष᳘ व्विज्ञानम᳘यः पुरुषः᳘[[!!]] क्वैष तदा᳘ ऽभूत्कु᳘त ऽएतदा᳘गादि᳘ति त᳘दु ह न᳘ मेने गा᳘र्ग्ग्यः॥

मूलम् - श्रीधरादि

स᳘ होवाचा᳘जातशत्रुः॥
(र्य्य᳘) य᳘त्रैष᳘ ऽएत᳘त्सुप्तो᳘ ऽभूद्य᳘ ऽएष᳘ व्विज्ञानम᳘यः पुरुषः᳘[[!!]] क्वैष तदा᳘ ऽभूत्कु᳘त ऽएतदा᳘गादि᳘ति त᳘दु ह न᳘ मेने गा᳘र्ग्ग्यः॥

मूलम् - Weber

स᳘ होवाचा᳘जातशत्रुः॥
य᳘त्रैष᳘ एत᳘त्सुप्तो᳘ऽभूद्य᳘ एष᳘ विज्ञानम᳘यः पु᳘रुॗषः क्वैष तदा᳘भूत्कु᳘त एतदा᳘गादि᳘ति त᳘दु ह न᳘ मेने गा᳘र्ग्यः॥

मूलम् - विस्वरम्

स होवाचाजातशत्रुः । यत्रैष एतत्सुप्तः अभूत् । य एष विज्ञानमयः पुरुषः । क्वैष तदा अभूत् । कुत एतदागादिति । तदु ह न मेने गार्ग्यः ॥ १६ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘सः’ ‘ह’ किल ‘अजातशत्रुः’ एवं व्यतिरिक्तात्मास्तित्वं प्रतिपाद्य अस्यात्मनः स्वाभाविकस्वरूपबोधनार्थं स्वयमेव गार्ग्यं प्रति ‘उवाच’ । हे गार्ग्य ! ‘य एषः’ प्रसिद्धः ‘विज्ञानमयः पुरुषः’ विज्ञायते अनेनेति व्युत्पत्त्या सङ्कल्पविकल्पाद्यात्मकमन्तःकरणं बुद्धिर्विज्ञानमुच्यते । तन्मयः तत्प्रायः तस्मिन्नुपलभ्यः तेन च उपलभ्य इत्यर्थः । पुरि देहे शेते इति ‘पुरुषः’ ‘क्व’ कस्मिन् स्वाभाव्ये कीदृग्विधे यत्स्वरूपे स्थितो ऽभूत् । ‘कुतः’ कीदृग्विधात् स्वरूपात्प्रच्युतः सन्- एतदागमनं यथा स्यात्तथा ‘आगात्’ आगतः । पाणिपेषोत्तरकालमिति । एवमधिकरणमपादानं चोभयं पृष्टो गार्ग्यः किमुक्तवानित्यत आह- तदु हेति । यः पुनः यद्विज्ञानमयस्य पुरुषस्य स्वापे संवेशस्थानं, यतश्च स्थानाज्जागरिते कार्यकारणसङ्घाते चेतयितृत्वेनागमनं तदुभयं स्वरूपभूतं वक्तुं प्रष्टुं वा प्रतिभानरहितः ‘गार्ग्यः’ ‘ह’ किल ‘न मेने’ न ज्ञातवान् ॥ १६ ॥

१७

विश्वास-प्रस्तुतिः

स᳘ होवाचा᳘जातशत्रुः॥
(र्य्य᳘) य᳘त्रैष᳘ ऽएत᳘त्सुप्तो᳘ ऽभूद्य᳘ ऽएष᳘ व्विज्ञानम᳘यः पुरुष᳘स्तदेषा᳘म्प्राणा᳘नाम्विज्ञा᳘नेन[[!!]] व्विज्ञा᳘नमादा᳘य य᳘ ऽए᳘षो ऽन्तर्हृ᳘दय ऽआकाशस्त᳘स्मिञ्छेते॥

मूलम् - श्रीधरादि

स᳘ होवाचा᳘जातशत्रुः॥
(र्य्य᳘) य᳘त्रैष᳘ ऽएत᳘त्सुप्तो᳘ ऽभूद्य᳘ ऽएष᳘ व्विज्ञानम᳘यः पुरुष᳘स्तदेषा᳘म्प्राणा᳘नाम्विज्ञा᳘नेन[[!!]] व्विज्ञा᳘नमादा᳘य य᳘ ऽए᳘षो ऽन्तर्हृ᳘दय ऽआकाशस्त᳘स्मिञ्छेते॥

मूलम् - Weber

स᳘ होवाचा᳘जातशत्रुः॥
य᳘त्रैष᳘ एत᳘त्सुप्तो᳘ऽभूद्य᳘ एष᳘ विज्ञानम᳘यः पु᳘रुषस्त᳘देषा᳘म् प्राणा᳘नां विज्ञा᳘नेन विज्ञा᳘नमादा᳘य य᳘ एॗषोऽन्तर्हृ᳘दय 5 आकाशस्त᳘स्मिञ्छेति॥

मूलम् - विस्वरम्

स होवाचाजातशत्रुः । यत्रैष एतत्सुप्तो ऽभूत् । य एष विज्ञानमयः पुरुषः । तदेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषो ऽन्तर्हृदये आकाशः तस्मिन् शेते ॥ १७ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

जागरिते कर्तृत्वभोक्तृत्वादिकं नात्मनः स्वाभाविकम् । किंतु वागाद्युपाधिसम्बन्धकृतमेव । स्वापे तद्व्यतिरेकेण कर्तृत्वादेर्व्यतिरेकदर्शनात् इति दर्शयितुं प्रश्नानुवादपूर्वकं प्रथमप्रश्नस्योत्तरमाहेति श्रुतिर्दर्शयति- स होवाचाजातशत्रुरिति । ‘यत्र’ यस्मिन् काले ‘सुप्तो ऽभूत्’ ‘य एष विज्ञानमयः पुरुषः’ । तस्मिन् काले ‘एषां प्राणानां’ वागादीनां ‘विज्ञानं’ स्वस्वविषयगतप्रतिनियतप्रकाशनसामर्थ्यं ‘विज्ञानेन’ अन्तःकरणोपादानाज्ञानजनिता ऽन्तःकरणगताभिव्यक्तविशेषविज्ञानेन चैतन्याभासलक्षणेनादाय गृहीत्वा ‘अन्तर्हृदये’ हृदयस्य मध्ये ‘य आकाशः’ । आकाशशब्देन जीवस्य स्वाभाविकस्वरूपभूतः परमात्मा उच्यते । तस्मिन् स्वाभाविके ऽसांसारिके परमात्मनि ‘आकाशे शेते’ । लिङ्गोपाधिसम्बन्धकृतं विशेषात्मस्वरूपमुत्सृज्य अविशेषे स्वाभाविके आत्मन्येव केवलं वर्तत इत्यभिप्राय ॥ १७ ॥

१८

विश्वास-प्रस्तुतिः

ता᳘नि यदा᳘ ग्गृह्णा᳘ति॥
(त्य᳘) अ᳘थ हैतत्पु᳘रुषः स्व᳘पितिना᳘म त᳘द्गृहीत᳘ ऽएव᳘ प्प्राणो भ᳘वति ग्गृहीता वा᳘ग्गृहीतञ्च᳘क्षुर्ग्गृहीतᳫँ᳭ श्रो᳘त्रङ्गृहीतम्म᳘नः॥

मूलम् - श्रीधरादि

ता᳘नि यदा᳘ ग्गृह्णा᳘ति॥
(त्य᳘) अ᳘थ हैतत्पु᳘रुषः स्व᳘पितिना᳘म त᳘द्गृहीत᳘ ऽएव᳘ प्प्राणो भ᳘वति ग्गृहीता वा᳘ग्गृहीतञ्च᳘क्षुर्ग्गृहीतᳫँ᳭ श्रो᳘त्रङ्गृहीतम्म᳘नः॥

मूलम् - Weber

ता᳘नि यदा᳘ गृह्णा᳘ति 6
अ᳘थ हैतत्पु᳘रुषः स्व᳘पिति ना᳘म त᳘द्गृहीत᳘ एव᳘ प्राणो भ᳘वति गृहीता वा᳘ग्गृहीतं च᳘क्षुर्गृहीतं श्रो᳘त्रं गृहीतम् म᳘नः॥

मूलम् - विस्वरम्

तानि यदा गृह्णाति । अथ ह एतत्पुरुषः स्वपितिनाम । तद्गृहीत एव प्राणो भवति । गृहीता वाक् । गृहीतं चक्षुः । गृहीतं श्रोत्रम् । गृहीतं मनः ॥ १८ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

यदा शरीरेन्द्रियाध्यक्षतामुत्सृजति तदा असौ स्वात्मनि वर्तते इति कथमवगम्यत इत्यपेक्षायां नामप्रसिद्ध्या इत्याह- तानि यदेति । ‘तानि’ वागादीनि विज्ञानसाधनानि ‘यदा’ यस्मिन् काले ‘गृह्णाति’ आदत्ते । ‘अथ’ तदा ‘ह’ किल ‘पुरुषः’ इति पुरुषस्यैतत् ‘स्वपितिनाम’ । अतः अस्य ‘ह’ प्रसिद्धं गौणमेव स्वपितीत्येतन्नाम भवति । स्वमेवात्मानमप्येति अपिगच्छतीति स्वपितीत्युच्यते इति व्युत्पत्तेः स्वपितीति नामप्रसिद्ध्या आत्मनः संसारधर्मविलक्षणे रूपे अवगते ऽपि नात्र युक्तिरस्तीत्याशङ्कायामाह- तद्गृहीत एवेति । तत्तत्र स्वापकाले ‘गृहीत एव प्राणो भवति’ । प्राण इति घ्राणेन्द्रियं वागादिप्रकरणात् । ‘गृहीता वाक्’ चक्षुः श्रोत्रं मनश्च गृहीतं भवतीति । तथाच वागादिसम्बन्धाभावात् स्वापे कर्तृत्वाद्यसम्बन्धः । जागरिते च वागादिसम्बन्धात् कर्तृत्वादिकम् । अतः अन्वयव्यतिरेकाभ्यां वागाद्युपाधिकं आत्मनः संसारित्वं इति निश्चितम् ॥ १८ ॥

१९

विश्वास-प्रस्तुतिः

स य᳘त्रैत᳘त्स्वप्न्य᳘या च᳘रति॥
ते᳘ हास्य लोकास्त᳘दुतेव᳘ महाराजो भ᳘वत्यु᳘तेव महाब्ब्राह्मण ऽउ᳘तेवोच्चावचन्नि᳘गच्छति[[!!]]॥

मूलम् - श्रीधरादि

स य᳘त्रैत᳘त्स्वप्न्य᳘या च᳘रति॥
ते᳘ हास्य लोकास्त᳘दुतेव᳘ महाराजो भ᳘वत्यु᳘तेव महाब्ब्राह्मण ऽउ᳘तेवोच्चावचन्नि᳘गच्छति[[!!]]॥

मूलम् - Weber

स य᳘त्रैत᳘त्स्वप्न्य᳘या 7 च᳘रति॥
ते᳘ हास्य लोकास्त᳘दुॗतेव महाराजो भ᳘वत्युॗतेव महाब्राह्मण᳘ उॗतेवोच्चावचं नि᳘गछति॥

मूलम् - विस्वरम्

स यत्रैतत् स्वप्न्यया चरति । ते हास्य लोकाः । तदुतेव महाराजो भवति । उतेव महाब्राह्मणः । उतेवोच्चावचं निगच्छति ॥ १९ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

ननु- दर्शनलक्षणायां स्वप्नावस्थायां वागादिसम्बन्धाभावे ऽपि कर्तृत्वादिसंसारस्य दर्शनाद् व्यतिरेकासिद्धिरित्याशङ्कायां तत्रापि जाग्रद्वासनायाः सत्त्वात् परिकल्पितस्य स्वप्नप्रपञ्चस्य मृषात्वात् न व्यतिरेकासिद्धिरित्यतो ऽस्य स्वतः शुद्धत्वमेवेत्यभिप्रेत्याह- स यत्रेति । ‘सः’ प्रकृत आत्मा ‘यत्र’ यस्मिन् काले दर्शनलक्षणया ‘स्वप्न्यया’ स्वप्नवृत्त्या ‘चरति’ वर्तते । तदा ‘ह’ प्रसिद्धौ अस्यात्मनस्ते अनन्तरं वक्ष्यमाणाः ‘लोकाः’ कर्म्मफलानि । के ते इत्यत आह- तदुतेवेति । तत्तत्र स्वप्नकाले उतापि ‘महाराज इव भवति’ । महाराजत्वमिवास्य सो ऽयं लोकः न पुनर्जागरिते इव साक्षान्महाराजत्वम् । तथा ‘उत महाब्राह्मण इव’ । उतापि ‘उच्चावचं’ उच्चञ्च देवत्वादि अवचञ्च तिर्यक्त्वादि इत्युच्चावचमिव ‘निगच्छति’ नितरां प्राप्नोतीत्यर्थः ॥ १९ ॥

२०

विश्वास-प्रस्तुतिः

स य᳘था महाराजो जा᳘नपदान्गृहीत्वा॥ स्वे᳘ जनपदे᳘ यथाकाम᳘म्परिव᳘र्त्तेतैव᳘मे᳘वैष᳘ ऽएत᳘त्प्राणा᳘न्गृहीत्वा स्वे श᳘रीरे यथाकामम्प᳘रिवर्त्तते॥

मूलम् - श्रीधरादि

स य᳘था महाराजो जा᳘नपदान्गृहीत्वा॥ स्वे᳘ जनपदे᳘ यथाकाम᳘म्परिव᳘र्त्तेतैव᳘मे᳘वैष᳘ ऽएत᳘त्प्राणा᳘न्गृहीत्वा स्वे श᳘रीरे यथाकामम्प᳘रिवर्त्तते॥

मूलम् - Weber

स य᳘था महाराजो जा᳘नपदान्गृहीत्वा स्वे᳘ जनपदे᳘ यथाकाम᳘म् परिव᳘र्तेतैव᳘मेॗवैष᳘ एत᳘त्प्राणा᳘न्गृहीत्वा स्वे श᳘रीरे यथाकामम् प᳘रिवर्तते॥

मूलम् - विस्वरम्

स यथा महाराजो जानपदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेत । एवमेवैष एतत्प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते ॥ २० ॥

श्रीमद्वासुदेवब्रह्मभगवान्

तथा च वेदशब्दप्रयोगात् व्यभिचारदर्शनाच्चैते महाराजत्वादयो लोका मृषैव नास्यात्मभूता इत्युक्तमर्थं दृष्टान्तपूर्वकमाह- स यथेति । ‘सः’ इति दृष्टान्तः । ‘यथा महाराजः’ सार्वभौमः ‘जानपदान्’ जनपदे देशे भवान् राजोपकरणभूतान् भृत्यान् अन्यांश्च तथाविधान् गृहीत्वोपादाय स्वीये आत्मीये एव ‘जनपदे’ जयादिनोपार्जिते ‘यथाकामं’ यः कामो यस्य तं काममनतिक्रम्येति यथेच्छं ‘परिवर्तेते’ परिक्रामेदित्यर्थः । ‘एवमेव’ ‘एषः’ विज्ञानमय आत्मा । एतदिति ग्रहणक्रियाया विशेषणम् । एतद्ग्रहणं यथा स्यात्तथा ‘प्राणान्’ वागादीन् ‘गृहीत्वा’ जागरितस्थानेभ्यः उपसंहृत्य ‘स्वे शरीरे’ स्व एव देहे ‘यथाकामं परिवर्तते’ । न बहिरित्यर्थः । कामकर्म्मभ्यामुद्भासिताः पूर्वानुभूतवस्तुसदृशा वासनाः अनुभवतीत्यर्थः । तस्मादसौ विज्ञानमयो दृष्टादृश्येभ्यः स्वप्नजागरितलोकेभ्यः अन्यो विशुद्धः इति सिद्धम् ॥ २० ॥

२१

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ यदा सु᳘षुप्तो भ᳘वति॥
यदा न क᳘स्यचन व्वे᳘द हिता ना᳘म ना᳘ड्यो द्वा᳘सप्ततिः सह᳘स्राणि हृ᳘दयात्पुरीत᳘तमभिप्प्र᳘तिष्ठन्ते ता᳘भिः प्प्रत्यवसृ᳘प्य पुरीत᳘ति शेते॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ यदा सु᳘षुप्तो भ᳘वति॥
यदा न क᳘स्यचन व्वे᳘द हिता ना᳘म ना᳘ड्यो द्वा᳘सप्ततिः सह᳘स्राणि हृ᳘दयात्पुरीत᳘तमभिप्प्र᳘तिष्ठन्ते ता᳘भिः प्प्रत्यवसृ᳘प्य पुरीत᳘ति शेते॥

मूलम् - Weber

अ᳘थ यदा सु᳘षुप्तो भ᳘वति॥
यदा न क᳘स्य चन वे᳘द हिता ना᳘म नाॗड्यो द्वा᳘सप्ततिः सह᳘स्राणि हृ᳘दयात्पुरीत᳘तमभिप्र᳘तिष्ठन्ते ता᳘भिः प्रत्यवसृ᳘प्य पुरीत᳘ति शेते॥

मूलम् - विस्वरम्

अथ यदा सुषुप्तो भवति । यदा न कस्यचन वेद । हिता नाम नाड्यो द्वासप्ततिः सहस्राणि हृदयात् पुरीततमभिप्रतिष्ठन्ते । ताभिः प्रत्यवसृप्य पुरीतति शेते ॥ २१ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

दर्शनवृत्तौ स्वप्ने वासनाराशेर्द्दश्यत्वात् असंसारधर्मता इत्यात्मनो विशुद्धता अवगता । तत्र “यथाकामं परिवर्तते” इति कामवशात् परिवर्तनमुक्तम् । इष्टदृश्यसम्बन्धश्चास्य स्वाभाविक इत्यशुद्धता इत्याशङ्कायां तत्सम्बन्धस्य सुषुप्तौ व्यतिरेकदर्शनेन अस्वाभाविकत्वात् शुद्धत्वमेवास्य स्वाभाविकमिति वक्तुमाह- अथ यदेति । ‘अथ’ पुनः ‘यदा’ यस्मिन् काले जाग्रत्स्वप्नयोर्द्रष्टा दर्शनवृत्तिस्वप्नं हित्वा ‘सुषुप्तः’ सुष्ठु सुप्तः विशेषज्ञानाभावेन सम्प्रसादं स्वस्वरूपब्रह्मैक्यं यतः ‘भवति’ । सलिलमिव अन्यसम्बन्धकालुष्यं हित्वा स्वाभाव्येन प्रसीदतीत्यर्थः । कदा सुषुप्तो भवति । ‘यदा’ यस्मिन् काले ‘न कस्यचन’ कञ्चन विषयं ‘वेद’ विजानाति । कस्यचन वा शब्दादेः सम्बन्धि वस्त्वन्तरं किञ्चन न वेद । अस्मिन्पक्षे किञ्चनेत्यध्याहार्यम् । केन पुनः क्रमेण सुषुप्तो भवतीत्यत आह- हिता नामेति । ‘हिता नाम’ हितफलप्राप्तिनिमित्तत्वात् ‘हिताः’ इत्येवंनाम्न्यो ‘नाड्यः’ शिराः देहस्यान्नरसविपरिणामभूताः । ताश्च द्वाभ्यामधिका सप्ततिः ‘द्वासप्ततिः सहस्राणि’ ‘हृदयात्पुरीततमभिप्रतिष्ठन्ते’ । हृदयं नाम उदरवक्षःप्रदेशयोर्मध्यस्थितः पुण्डरीकाकारो मांसपिण्डः । तत्परिवेष्टनं पुरीतत् इत्युच्यते । इह पुनस्तदुपलक्षितं शरीरं पुरीतच्छब्देनाभिप्रेतम् । तथा च ‘हृदयात्’ ‘पुरीततं’ शरीरमभिप्रतिष्ठन्ते इति कृत्स्नं शरीरं व्याप्नुवन्त्यः अश्वत्थपर्णराजय इव बहिर्मुखाः प्रवृत्ताः अभितो ऽभितः सरन्तीत्यर्थः । ततः किमित्यत आह- ताभिरिति । ताभिर्नाडीभिः कृत्वा जाग्रद्विषयाया बुद्वेः कर्म्मवशात्प्रत्यवसर्पणमनु विज्ञानमय आत्मा ‘प्रत्यवसृप्य’ इन्द्रियाण्युपसंहृत्य ‘पुरीतति’ शरीरे ‘शेते’ अग्निवत्तप्तं लोहपिण्डं अविशेषेण संव्याप्य वर्तत इत्यर्थः । ननु- पूर्वं विज्ञानमयो हृदयाकाशे ब्रह्मणि शेते इत्युक्त्वा इदानीं पुरीतति शयनमाचक्षाणस्य कथं न पूर्वापरविरोधः स्यादिति चेत् सुप्तं स्वाभाविके एव स्वात्मनि वर्तमानो ऽपि कर्म्मानुगतबुद्ध्यनुवृत्तित्वात् पुरीतति शेते इत्युपचारादुच्यते । अतो नोक्तविरोधः ॥ २१ ॥

२२

विश्वास-प्रस्तुतिः

स य᳘था कुमारो᳘ वा महाब्राह्मणो᳘ वा॥
(ऽ) अतिघ्घ्नी᳘मानन्द᳘स्य गत्वा श᳘यीतैव᳘मे᳘वैष᳘ ऽएत᳘च्छेते॥

मूलम् - श्रीधरादि

स य᳘था कुमारो᳘ वा महाब्राह्मणो᳘ वा॥
(ऽ) अतिघ्घ्नी᳘मानन्द᳘स्य गत्वा श᳘यीतैव᳘मे᳘वैष᳘ ऽएत᳘च्छेते॥

मूलम् - Weber

स य᳘था कुमारो᳘ वा महाब्राह्मणो᳘ वा॥
ऽतिघ्नी᳘मानन्द᳘स्य गत्वा श᳘यीतैव᳘मेॗवैष᳘ एत᳘छेते॥

मूलम् - विस्वरम्

स यथा कुमारो वा महाब्राह्मणो वा अतिघ्नीमानन्दस्य गत्वा शयीत । एवमेवैष एतत् शेते ॥ २२ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

उक्तं शयनं दृष्टान्तपूर्वकमाह- स यथेति । सर्वसंसारदुःखवियुक्ता इयमवस्था इत्यत्र ‘सः’ इति दृष्टान्तः । ‘यथा कुमारः’ अत्यन्तबालः ‘वा’ ‘महाब्राह्मणो वा’ अत्यन्तपरिपक्वविद्याविनयसम्पन्नो यथोक्तकृत् ‘अतिघ्नीं’ अतिशयेन दुःखं हन्तीत्यतिघ्नी ‘आनन्दस्य’ सुखस्यावस्था तां ‘गत्वा’ प्राप्य ‘शयीत’ दुःखाननुविद्धसुखस्वाभाव्ये अवतिष्ठेत । ‘एवमेव’ ‘एषः’ विज्ञानमयः सर्वसंसारधर्मातीतः एतच्छयनं यथा स्यात्तथा ‘शेते’ सुषुप्तौ वर्तत इत्यर्थः ॥ २२ ॥

२३

विश्वास-प्रस्तुतिः

स य᳘थोर्ण्णवा᳘भिस्त᳘न्तुनोच्च᳘रेत्॥
(द्य᳘) य᳘था ऽग्नेः᳘ क्षुद्द्रा᳘ व्विष्फुलि᳘ङ्गा व्व्युच्च᳘रन्त्येव᳘मे᳘वास्मा᳘दात्म᳘नः स᳘र्व्वे प्प्राणाः स᳘र्व्वे लोकाः स᳘र्व्वे देवाः स᳘र्व्वाणि भूता᳘नि स᳘र्व्व ऽएत᳘ ऽआत्मा᳘नो व्व्यु᳘च्चरन्ति त᳘स्योपनिष᳘त्सत्य᳘स्य सत्यमि᳘ति प्प्राणा वै᳘ सत्यन्ते᳘षामेष᳘ सत्यम्[[!!]]॥

मूलम् - श्रीधरादि

स य᳘थोर्ण्णवा᳘भिस्त᳘न्तुनोच्च᳘रेत्॥
(द्य᳘) य᳘था ऽग्नेः᳘ क्षुद्द्रा᳘ व्विष्फुलि᳘ङ्गा व्व्युच्च᳘रन्त्येव᳘मे᳘वास्मा᳘दात्म᳘नः स᳘र्व्वे प्प्राणाः स᳘र्व्वे लोकाः स᳘र्व्वे देवाः स᳘र्व्वाणि भूता᳘नि स᳘र्व्व ऽएत᳘ ऽआत्मा᳘नो व्व्यु᳘च्चरन्ति त᳘स्योपनिष᳘त्सत्य᳘स्य सत्यमि᳘ति प्प्राणा वै᳘ सत्यन्ते᳘षामेष᳘ सत्यम्[[!!]]॥

मूलम् - Weber

स य᳘थोर्णवा᳘भिस्त᳘न्तुनोच्च᳘रेत्॥
य᳘थाग्नेः᳘ क्षुद्रा᳘ विष्फुलि᳘ङ्गा व्युच्च᳘रन्त्येव᳘मेॗवास्मा᳘दात्म᳘नः स᳘र्वे प्राणाः स᳘र्वे लोकाः स᳘र्वे देवाः स᳘र्वाणि भूता᳘नि स᳘र्व एत᳘ आत्मा᳘नो व्यु᳘च्चरन्ति त᳘स्योपनिष᳘त्सत्य᳘स्य सत्यमि᳘ति प्राणा वै᳘ सत्यं ते᳘षामेष᳘ सत्य᳘म्॥

मूलम् - विस्वरम्

स यथा ऊर्णवाभिस्तन्तुनोच्चरेत् । यथा अग्नेः क्षुद्रा विष्फुलिङ्गा व्युच्चरन्ति । एवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एते आत्मानः व्युच्चरन्ति । तस्योपनिषत् सत्यस्य सत्यमिति । प्राणा वै सत्यम् । तेषामेष सत्यम् ॥ २३ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवं क्वैष तदा ऽभूदित्यस्य पूर्वप्रश्नस्य प्रतिवचनमुक्तम् । अनेन च प्रश्ननिर्णयेन विज्ञानमयस्य स्वभावतो विशुद्धिरसंसारित्वं चोक्तम् । इदानीं तस्याद्वितीयत्वं प्रकटयितुं कुत एतदागादिति द्वितीयप्रश्नस्य अपाकरणार्थं प्रतिवचनमाह- स यथेति । ‘सः’ इति दृष्टान्तः । ‘यथा’ लेके ‘ऊर्णवाभिः’ ऊर्णवाभिर्लूताख्यः कीटविशेषः असहाय एव सन् तन्तुना स्वात्मनो ऽविभक्तेन उच्चरेदुद्गच्छेत् । न च तस्योद्गमने स्वतो ऽतिरिक्तं कारकान्तरमस्ति । यथा च एकरूपादेकस्मादग्नेः ‘क्षुद्राः’ अल्पाः ‘विष्फुलिङ्गाः’ अग्न्यवयवाः ‘व्युच्चरन्ति’ विविधं नाना वा उच्चरन्ति उद्गच्छन्ति प्रसर्प्पन्ति । यथेमौ दृष्टान्तौ कारकभेदाभावे ऽपि प्रवृत्तिं प्राक्प्रवृत्तेः स्वभावत एकत्वं च दर्शयतः । ‘एवमेव’ अस्मादात्मनो विज्ञानमयस्य प्राक्प्रतिबोधात् स्वापे यत्स्वरूपं तस्मादेतस्मादात्मनः सकाशात्सर्वे ‘प्राणाः’ वागादयः ‘सर्वे लोकाः’ भूरादयः सर्वकर्म्मफलभूताः ‘सर्वे देवाः’ प्राणलोकाधिष्ठातारः अग्न्यादयः ‘सर्वाणि भूतानि’ ब्रह्मादिस्तम्बपर्यन्तानि प्राणिजातानि ‘सर्व एत आत्मानः’ उपाधिसम्पर्कजनितप्रबुध्यमानविशेषात्मानः ‘व्युच्चरन्ति’ यस्मादात्मनः स्थावरजङ्गममिदं जगत् अग्निविष्फुलिङ्गवदनिशं व्युच्चरति, यस्मिन्नेव जलबुद्बुदवत् प्रलीयते, यदात्मकञ्च स्थितिकाले वर्तते । तस्यात्मनो ब्रह्म ‘उपनिषत्’ उप समीपं नितरां सादयति गमयति विज्ञानात्मानं इति व्युत्पत्तेः उपनिषदित्यात्मनो ऽभिधायकः शब्दः । का सा उपनिषदित्यत आह- सत्यस्य सत्यमितीति । किं पुनः सत्यं किं वा ‘सत्यस्य सत्यं’ इत्यत आह- प्राणा वै सत्यमिति । सच्च त्यच्चेति व्युत्पत्तेः । ‘तेषां’ प्राणानां मध्ये ‘एषः’ उक्त आत्मा सत्यमबाध्यं रूपमित्यर्थः ॥ २३ ॥

इति श्रीहृषीकेशब्रह्मभगवत्पूज्यपादशिष्यस्य श्रीपाठकानिरुद्धपुत्रस्य परमहंसपरिव्राजकाचार्यस्य श्रीवासुदेवब्रह्मभगवतः कृतौ माध्यन्दिनीयशतपथब्राह्मणान्तर्गत माध्यन्दिनशाखोपनिषद्बृहदारण्यकटीकायां वासुदेवप्रकाशिकायां आद्ये मधुकाण्डे द्वितीये ऽध्याये प्रथमं पर्यङ्कविद्याब्राह्मणमजातशत्रुब्राह्मणं वा परिसमाप्तम् ॥ १४ (५) २-१ ॥


  1. पा᳘ण्डर AM. पाण्डुर D. ↩︎

  2. विषासहिरि᳘ति A. ↩︎

  3. क्षत्रियामु᳘पेया A. ↩︎

  4. पा᳘ण्डर AM. पाण्डुर D. ↩︎

  5. अन्तर्हृदयं D. (?!). ↩︎

  6. यदा᳘ निगृह्णाति A. ↩︎

  7. स्वप्नया D. ↩︎