०१

विश्वास-प्रस्तुतिः

त्रयम्वा᳘ ऽइदन्ना᳘म रूपङ्क᳘र्म्म॥
ते᳘षान्ना᳘म्नाम्वागि᳘त्येत᳘देषामुक्थ्यम᳘तो हि स᳘र्व्वाणि ना᳘मान्युत्ति᳘ष्ठन्त्येत᳘देषाᳫँ᳭ सा᳘मैतद्धि स᳘र्व्वैर्न्ना᳘मभिः सम᳘मेत᳘देषाम्ब्र᳘ह्मैतद्धि स᳘र्व्वाणि ना᳘मानि बिभ᳘र्त्ति᳘॥

मूलम् - श्रीधरादि

त्रयम्वा᳘ ऽइदन्ना᳘म रूपङ्क᳘र्म्म॥
ते᳘षान्ना᳘म्नाम्वागि᳘त्येत᳘देषामुक्थ्यम᳘तो हि स᳘र्व्वाणि ना᳘मान्युत्ति᳘ष्ठन्त्येत᳘देषाᳫँ᳭ सा᳘मैतद्धि स᳘र्व्वैर्न्ना᳘मभिः सम᳘मेत᳘देषाम्ब्र᳘ह्मैतद्धि स᳘र्व्वाणि ना᳘मानि बिभ᳘र्त्ति᳘॥

मूलम् - Weber

त्रयं वा᳘ इदं ना᳘म रूपं क᳘र्म॥
ते᳘षां ना᳘म्नां वागि᳘त्येत᳘देषामुक्थम᳘तो हि स᳘र्वाणि ना᳘मान्युत्ति᳘ष्ठन्त्येत᳘देषाᳫं सा᳘मैतद्धि स᳘र्वैर्ना᳘मभिः सम᳘मेत᳘देषाम् ब्र᳘ह्मैतद्धि स᳘र्वाणि ना᳘मानि बिभ᳘र्ति 1

मूलम् - विस्वरम्

त्र्यन्नब्राह्मणं वा अविद्याविषयसंसारतत्त्वप्रदर्शकं ब्राह्मणं वा उपसंहारब्राह्मणम् ।

त्रयं वा इदं नाम रूपं कर्म । तेषां नाम्नां वागित्येतदेषामुक्थ्यम् । अतो हि सर्वाणि नामान्युत्तिष्ठन्ति । एतदेषां साम । एतद्धि सर्वैर्नामभिः समम् । एतदेषां ब्रह्म । एतद्धि सर्वाणि नामानि बिभर्ति ॥ १ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“अथ यो ऽन्यां देवतामुपास्ते” (श. प. १४ । २ । २ । २२) इत्यत्र सूत्रिताया अविद्यायाः साध्यसाधनलक्षणो व्याकृताव्याकृतरूपो विस्तर इयता ग्रन्थेन निरूपितः । इदानीं प्रतिपत्तिसौकर्यार्थं तस्यैव नामरूपकर्म्मत्वेनोपसंहारं वक्तुमुपसंहारब्राह्मणं प्रवर्तते- त्र्यम्वा ऽइदमिति । ‘इदं’ यथोक्तं व्याकृताव्याकृतात्मकं जगत् ‘त्रयं वै’ त्र्यात्मकमेव । किन्तत् त्रयमित्याह- नाम रूपं कर्म्मेति । सर्वस्य जगतो नामादिमात्रत्वं कथमवधार्यते इत्याह- तेषामिति । ‘तेषां’ यथोपन्यस्तानां नामरूपकर्म्मणाम्मध्ये ‘एषां नाम्नां’ नामविशेषाणां यज्ञदत्तो देवदत्त इत्येवमादीनां वागित्येतस्य शब्दस्य यः अर्थः शब्दसामान्यमात्रं ‘एतदुक्थ्यं’ कारणमुपादानम् । सैन्धवलवणकणानां सैन्धवाचल इव यः कश्च शब्दो वागेव स इत्युक्तत्वात् वागिति शब्दसामान्यमुच्यते । उक्थ्यत्वमुपपादयितुं हेतुमाह- अतो हीति । ‘हि’ यस्मात् ‘अतः’ अस्मात् वाक्शब्दाभिधेयात् नामसामान्यात् ‘सर्वाणि नामानि’ यज्ञदत्तो देवदत्त इत्येवमादिप्रविभागानि ‘उत्तिष्ठन्ति’ उत्पद्यन्ते प्रविभज्यन्ते लवणाचलाल्लवणकणा इव । कार्याणां कारणे ऽन्तर्भाववद्विशेषाणां सामान्ये ऽन्तर्भावात् कथं सामान्यविशेषभाव इति समत्वं साधयति- एतदिति । ‘एतत्’ शब्दसामान्यं ‘एषां’ नामविशेषाणां ‘साम’ समत्वात्साम सामान्यमित्यर्थः । समत्वमेव साधयति- एतद्धीति । ‘हि’ यस्मादेतत् वाग्रूपं शब्दसामान्यं सर्वैर्नामभिरात्मविशेषैः ‘समं’ तुल्यम् । नामविशेषाणां नामशब्दमात्रादात्मलाभात् । तस्मादविशेषात्तत्रैवान्तर्भाव इत्यर्थः । तदेव साधयति- एतद्धीति । हि यस्मादेतत् वाग्रूपं शब्दसामान्यं ‘सर्वाणि’ ‘नामानि’ स्वरूपप्रदानेन ‘बिभर्ति’ धारयति । एवं कार्यकारणत्वोपपत्तिसामान्यविशेषोपपत्तेरात्मप्रदानोपपत्तेश्च नामविशेषाणां शब्दमात्रता सिद्धा । एवमुत्तरयोरपि यथोक्तं सर्वं योज्यम् ॥ १ ॥

०२

विश्वास-प्रस्तुतिः

(र्त्त्य᳘) अ᳘थ रूपा᳘णाम्॥
(ञ्च᳘) च᳘क्षुरि᳘त्येत᳘देषामुक्थ्यम᳘तो हि स᳘र्व्वाणि रूपा᳘ण्युत्ति᳘ष्ठन्त्येत᳘देषाᳫँ᳭ सा᳘मैतद्धि स᳘र्व्वै रूपैः᳘ सम᳘मेत᳘देषाम्ब्र᳘ह्मैतद्धि स᳘र्व्वाणि रूपा᳘णि ब्बिभर्त्ति᳘[[!!]]॥

मूलम् - श्रीधरादि

(र्त्त्य᳘) अ᳘थ रूपा᳘णाम्॥
(ञ्च᳘) च᳘क्षुरि᳘त्येत᳘देषामुक्थ्यम᳘तो हि स᳘र्व्वाणि रूपा᳘ण्युत्ति᳘ष्ठन्त्येत᳘देषाᳫँ᳭ सा᳘मैतद्धि स᳘र्व्वै रूपैः᳘ सम᳘मेत᳘देषाम्ब्र᳘ह्मैतद्धि स᳘र्व्वाणि रूपा᳘णि ब्बिभर्त्ति᳘[[!!]]॥

मूलम् - Weber

अ᳘थ रूपा᳘णाम्॥
च᳘क्षुरि᳘त्येत᳘देषामुक्थम᳘तो हि स᳘र्वाणि रूपा᳘ण्युत्ति᳘ष्ठन्त्येत᳘देषाᳫं सा᳘मैतद्धि स᳘र्वै रूपैः᳘ सम᳘मेत᳘देषाम् ब्र᳘ह्मैतद्धि स᳘र्वाणि रूपा᳘णि बिभ᳘र्ति 2

मूलम् - विस्वरम्

अथ रूपाणाम् । चक्षुरित्येतदेषामुक्थ्यम् । अतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति । एतदेषां साम । एतद्धि सर्वै रूपैः समम् । एतदेषां ब्रह्म । एतद्धि सर्वाणि रूपाणि बिभर्ति ॥ २ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘अथ’ नामव्याख्यानानन्तरं ‘रूपाणां’ सितासितप्रभृतीनां ‘चक्षुरिति’ तच्च रूपसामान्यं तदपि प्राकाश्यमानं एतदेव रूपविशेषाणामुक्थ्यमित्यादि पूर्ववत् ॥ २ ॥

०३

विश्वास-प्रस्तुतिः

(र्त्त्य᳘) अ᳘थ क᳘र्म्मणाम्॥
(मा) आत्मे᳘त्येत᳘देषामुक्थ्यम᳘तो हि स᳘र्व्वाणि क᳘र्म्माण्युत्ति᳘ष्ठन्त्येत᳘देषाᳫँ᳭ सा᳘मैतद्धि स᳘र्व्वैः क᳘र्म्मभिः सम᳘मेत᳘देषाम्ब्र᳘ह्मैतद्धि स᳘र्व्वाणि क᳘र्म्माणि बिभ᳘र्त्ति त᳘देत᳘त्त्रयᳫँ᳭ सदे᳘कमय᳘मा᳘त्मा᳘ ऽत्मो ऽए᳘कः स᳘न्नेत᳘त्त्रयन्त᳘देत᳘दमृ᳘तᳫँ᳭ सत्ये᳘न च्छन्न᳘म्प्राणो वा᳘ ऽअमृ᳘तन्नामरूपे᳘ सत्यन्ता᳘भ्यामय᳘म्प्राण᳘श्छन्नः[[!!]]॥

मूलम् - श्रीधरादि

(र्त्त्य᳘) अ᳘थ क᳘र्म्मणाम्॥
(मा) आत्मे᳘त्येत᳘देषामुक्थ्यम᳘तो हि स᳘र्व्वाणि क᳘र्म्माण्युत्ति᳘ष्ठन्त्येत᳘देषाᳫँ᳭ सा᳘मैतद्धि स᳘र्व्वैः क᳘र्म्मभिः सम᳘मेत᳘देषाम्ब्र᳘ह्मैतद्धि स᳘र्व्वाणि क᳘र्म्माणि बिभ᳘र्त्ति त᳘देत᳘त्त्रयᳫँ᳭ सदे᳘कमय᳘मा᳘त्मा᳘ ऽत्मो ऽए᳘कः स᳘न्नेत᳘त्त्रयन्त᳘देत᳘दमृ᳘तᳫँ᳭ सत्ये᳘न च्छन्न᳘म्प्राणो वा᳘ ऽअमृ᳘तन्नामरूपे᳘ सत्यन्ता᳘भ्यामय᳘म्प्राण᳘श्छन्नः[[!!]]॥

मूलम् - Weber

अ᳘थ क᳘र्मणाम्॥
आत्मे᳘त्येत᳘देषामुक्थम᳘तो हि स᳘र्वाणि क᳘र्माण्युत्ति᳘ष्ठन्त्येत᳘देषाᳫं सा᳘मैतद्धि स᳘र्वैः क᳘र्मभिः सम᳘मेत᳘देषाम् ब्र᳘ह्मैतद्धि स᳘र्वाणि क᳘र्माणि बिभ᳘र्ति त᳘देत᳘त्त्रयᳫं सदे᳘कमय᳘माॗत्माॗत्मो ए᳘कः स᳘न्नेत᳘त्त्रयं त᳘देत᳘दमृ᳘तᳫं सत्ये᳘न छन्न᳘म् प्राणो वा᳘ अमृ᳘तं नामरूपे᳘ सत्यं ता᳘भ्यामय᳘म् प्राण᳘श्छन्नः᳟॥

मूलम् - विस्वरम्

अथ कर्मणाम् । आत्मेत्येतदेषामुक्थ्यम् । अतो हि सर्वाणि कर्माण्युत्तिष्ठन्ति । एतदेषां साम । एतद्धि सर्वैः कर्मभिः समम् । एतदेषां ब्रह्म । एतद्धि सर्वाणि कर्माणि बिभर्ति । तदेतत्त्रयं सदेकमयमात्मा । आत्मा उ एकः सन्नेतत्त्रयम् । तदेतदमृतं सत्येन च्छन्नम् । प्राणो वा अमृतम् । नामरूपे सत्यम् । ताभ्यामयं प्राणश्छन्नः ॥ ३ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘अथ’ रूपव्याख्यानानन्तरम् ‘कर्म्मणां’ सर्वकर्मविशेषाणां मननदर्शनचलनात्मकानां ‘आत्मा’ आत्मशब्दवाच्यशरीरनिर्वर्त्यकर्मसामान्यमित्येतदेषामुक्थ्यमित्यादि पूर्ववत् । आत्मना शरीरेण कर्म करोति शरीरे च सर्वकर्म अभिव्यज्यते । अतस्तत्स्थत्वादात्मनः कर्म्मात्मा इत्युच्यते । एवं नामरूपकर्मात्मत्वेन सङ्क्षिप्तस्यापि जगतः पुनः सङ्क्षेपान्तरमाह- तदेतत्त्रयमिति । तदेतद्यथोक्तं नामरूपकर्माख्यं ‘त्रयं’ त्रिदण्डाविष्टं भवत् परस्परं संहतं सत् ‘एकम्’ । केनैकत्वमित्यपेक्षायामात्मनेत्याह- अयमिति । ‘अयं’ प्रत्यक्ष आत्मा कार्यकारणसङ्घातः पिण्डः एतन्मयो वा ऽअयमात्मेत्यादिना अन्नत्रयतया व्याख्यातः । एवं नामादित्रयस्य देहमात्रत्वे कथं व्यवहारासाङ्कर्यमित्याशङ्क्याह- आत्मो एक इति । ‘उ’ पुनः ‘आत्मा’ कार्यकरणसङ्घातः पिण्डः ‘एकः सन्’ अध्यात्माधिभूताधिदैवभावनाव्यवस्थितमेतदेव नाम रूपं कर्म्मेति ‘त्रयं’ नामादिभिन्नस्य देहस्यागृह्यमाणत्वात् व्यवहारासाङ्कर्यमित्यर्थः । एकस्मिन्नपि सङ्घाते कार्यकरणरूपेणावान्तरविभागमाह- तदेतदमृतमिति । तदेतद्वक्ष्यमाणं ‘अमृतं सत्यम्’ । एतस्य वाक्यस्यार्थं श्रुतिः स्वयमेवाह- प्राणो वा ऽअमृतमिति । ‘प्राणो वै’ लिङ्गात्मा करणात्मकः अन्तरुपष्टम्भकः आत्मभूतः अविनाशी अमृतममृतभूतः स्थूलदेहे गच्छत्यपि यावन्मोक्षस्थायित्वात् ‘नामरूपे’ पञ्चीकृतभूतात्मके शरीरावस्थे कार्यात्मके ‘सत्यं’ सत्यशब्दवाच्ये सच्च त्यच्च ‘सत्यं’ भूतपञ्चकं तदात्मके नामरूपे इत्यर्थः । ‘ताभ्यां’ बाह्याभ्यां शरीरात्मकाभ्यां उपजनापायिधर्म्मिभ्यां मर्त्याभ्यां नामरूपाभ्यां अयं क्रियात्मकस्तयोरुपष्टम्भः ‘प्राणश्छन्नः’ अप्रकाशीकृतः । अतः प्रत्यगात्मतत्त्वं सुतरां दुर्विज्ञेयमिति तज्ज्ञाने अवहितैर्भाव्यमिति भावः । एतदेव संसारतत्त्वमविद्याविषयं प्रदर्शितम् ॥ ३ ॥

इति श्रीहृषीकेशब्रह्मभगवत्पूज्यपादशिष्यस्य श्रीपाठकानिरुद्धपुत्रस्य परमहंसपरिव्राजकाचार्यस्य श्रीवासुदेवब्रह्मभगवतः कृतौ माध्यन्दिनीयशतपथब्राह्मणान्तर्गतमाध्यन्दिनशाखोपनिषद्बृहदारण्यकटीकायां वासुदेवप्रकाशिकायां आद्ये मधुकाण्डे प्रथमे ऽध्याये चतुर्थं जगत्स्वरूपप्रदर्शकं त्र्यन्नब्राह्मणं परिसमाप्तम् ॥। १४ । (४) १ । ४ ॥

इति श्रीबृहदारण्यकोपनिषदि प्रथमो ऽध्यायः समाप्तः ॥ १ ॥


  1. बिभर्ति AM. ↩︎

  2. बिभर्ति AM. ↩︎