०१
विश्वास-प्रस्तुतिः
य᳘त्सप्ता᳘न्नानि मेध᳘या त᳘पसा᳘ ऽजनयत्पिता॥
ए᳘कमस्य साधारणन्द्वे᳘ देवा᳘नभाजयत्॥ त्री᳘ण्यात्म᳘ने ऽकुरुत पशु᳘भ्य ऽए᳘कम्प्रा᳘यच्छत्॥
त᳘स्मिन्त्स᳘र्व्वम्प्र᳘तिष्ठितं य᳘च्च प्प्रा᳘णिति य᳘च्च न॥ क᳘स्मात्ता᳘नि न᳘ क्षीयन्ते ऽद्य᳘मानानि सर्व्वदा॥ यो वै ताम᳘क्षितिम्वे᳘द सो᳘ ऽन्नमत्ति प्प्र᳘तीकेन। स᳘ देवान᳘पिगच्छति स ऽऊ᳘र्ज्जमुपजीवती᳘ति[[!!]] श्लोकाः[[!!]]॥
मूलम् - श्रीधरादि
य᳘त्सप्ता᳘न्नानि मेध᳘या त᳘पसा᳘ ऽजनयत्पिता॥
ए᳘कमस्य साधारणन्द्वे᳘ देवा᳘नभाजयत्॥ त्री᳘ण्यात्म᳘ने ऽकुरुत पशु᳘भ्य ऽए᳘कम्प्रा᳘यच्छत्॥
त᳘स्मिन्त्स᳘र्व्वम्प्र᳘तिष्ठितं य᳘च्च प्प्रा᳘णिति य᳘च्च न॥ क᳘स्मात्ता᳘नि न᳘ क्षीयन्ते ऽद्य᳘मानानि सर्व्वदा॥ यो वै ताम᳘क्षितिम्वे᳘द सो᳘ ऽन्नमत्ति प्प्र᳘तीकेन। स᳘ देवान᳘पिगच्छति स ऽऊ᳘र्ज्जमुपजीवती᳘ति[[!!]] श्लोकाः[[!!]]॥
मूलम् - Weber
य᳘त्सप्ता᳘न्नानि मेध᳘या त᳘पसा᳘जनयत्पिता॥
ए᳘कमस्य साधारणम् द्वे᳘ देवा᳘नभाजयत्॥
त्री᳘ण्यात्म᳘नेऽकुरुत पशु᳘भ्य ए᳘कम् प्रा᳘यछत्॥
त᳘स्मिन्त्स᳘र्वम् प्र᳘तिष्ठितं य᳘च्च प्रा᳘णिति य᳘च्च न॥
क᳘स्मात्ता᳘नि न᳘ क्षीयन्तेऽद्य᳘मानानि सर्वदा॥
यो वै ताम᳘क्षितिम् वे᳘द सो᳘ऽन्नमत्ति प्र᳘तीकेन॥
स᳘ देवान᳘पिगछति स᳘ ऊ᳘र्जमु᳘पजीवती᳘ति श्लो᳘काः॥
मूलम् - विस्वरम्
सप्तान्नब्राह्मणं वा संवर्गविद्याब्राह्मणम् ।
“यत्सप्तान्नानि मेधया तपसा ऽजनयत्पिता । एकमस्य साधारणम्, द्वे देवानभाजयत् ॥ त्रीण्यात्मने ऽकुरुत, पशुभ्य एकं प्रायच्छत् । तस्मिन् सर्वं प्रतिष्ठितम्, यच्च प्राणिति, यच्च न ॥ कस्मात्तानि न क्षीयन्ते, अद्यमानानि सर्वदा । यो वै तामक्षितिं वेद, सो ऽन्नमत्ति प्रतीकेन । स देवानपिगच्छति, स ऊर्जमुपजीवति ॥”- इति श्लोकाः ॥ १ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं कामप्रयुक्तेन गृहस्थेन अन्येन वा पाङ्क्तज्ञानकर्म्मभ्यां वा केवलज्ञानेन वा अद्यमानत्वेन सृष्टस्य अन्नभूतस्य जगत उपासनार्थं विभागेन सप्तधा निरूपयितुं च सप्तान्नब्राह्मणं प्रवर्तते । तत्र सङ्क्षेपतः सविनियोगान्नप्रकाशकान् सूत्रभूतान् मन्त्रान् उदाहरति- यत्सप्तान्नानीति । ‘पिता’ क्षेत्रज्ञो ज्ञानकर्म्माधिकारी ‘मेधया’ प्रज्ञया पाङ्क्तोपासनया ‘तपसा’ जायादिसाधनपाङ्क्तकर्म्मणा ‘सप्तान्नानि’ ‘यत्’ प्रसिद्धं ‘अजनयत्’ । यदिति पदं अजनयदिति क्रियाविशेषणम् । अत्र ज्ञानकर्म्मणी एव हि मेधातपःशब्दवाच्ये । तयोः प्रकृतत्वात् । तन्मध्ये यत् क्षुच्छान्तिकरं सर्वैरद्यते- तदेकमन्नं ‘अस्य’ सर्वस्यात्तॄवर्गस्य साधारणम् । ‘द्वे’ अन्ने वक्ष्यमाणे हुतप्रहुताख्ये हविःप्रक्षेपबलिहरणलक्षणे दर्शपूर्णमासाख्ये वा ‘देवानभाजयत्’ देवसात्कृतवान् । ‘त्रीणि’ मनोवाक्प्राणलक्षणानि अन्नानि ‘आत्मने’ स्वार्थमेवाकुरुत । ‘एकं’ पयोघृतरूपमन्नं ‘पशुभ्यः’ चतुष्पाद्द्विपादात्मकेभ्यः ‘प्रायच्छत्’ दत्तवान् । पयसो ऽन्नत्वे हेतुमाह- तस्मिन् सर्वमिति । ‘यच्च प्राणिति’ प्राणनचेष्टां करोति । ‘यच्च न’ प्राणनचेष्टां न करोति । तत्सर्वं तस्मिन्पयसि प्रतिष्ठितम् अग्निहोत्रादौ हूयमानस्य पयसः सर्वजगत्कारणत्वात् । ‘तानि’ सर्वैः ‘सर्वदा’ ‘अद्यमानानि’ अन्नानि ‘कस्मान्न क्षीयन्ते’ इति प्रश्नरूपो मन्त्रः । तत्र पुरुषेणानवरतमुत्पाद्यमानत्वात् अन्नक्षयो न भवति इत्युत्तरमभिप्रेत्य अन्नाक्षयहेतुत्वेन पुरुषस्याक्षितित्वगुणविज्ञाने फलमाह- यो वै तामिति । ‘यः’ ‘वै’ निश्चितं ‘तामक्षितिं’ अन्नाक्षयकारणं ‘वेद’ । ‘सः प्रतीकेन’ मुखेन मुख्यया वृत्त्या ‘अन्नमत्ति’ । ‘सः’ विज्ञाता ‘देवानपिगच्छति’ देवत्वं प्राप्नोति । ‘सः’ ऊर्ज्जममृतं चोपजीवति । अमृतभोक्ता भवतीति । ‘इति श्लोकाः’ मन्त्रा उक्तार्था इत्यर्थः ॥ १ ॥
०२
विश्वास-प्रस्तुतिः
(०) य᳘त्सप्ता᳘न्नानि मेध᳘या त᳘पसा᳘ ऽजनयत्पिते᳘ति॥
मेध᳘या हि त᳘पसा᳘ ऽजनयत्पितै᳘कमस्य साधारणमि᳘तीदमे᳘वास्य[[!!]] त᳘त्साधारणम᳘न्नं य᳘दिद᳘मद्य᳘ते स य᳘ ऽएत᳘दुपा᳘स्ते न स᳘ पाप्म᳘नो व्व्या᳘वर्त्तते मिश्र᳘ᳫँ᳘ ह्येतत्॥
मूलम् - श्रीधरादि
(०) य᳘त्सप्ता᳘न्नानि मेध᳘या त᳘पसा᳘ ऽजनयत्पिते᳘ति॥
मेध᳘या हि त᳘पसा᳘ ऽजनयत्पितै᳘कमस्य साधारणमि᳘तीदमे᳘वास्य[[!!]] त᳘त्साधारणम᳘न्नं य᳘दिद᳘मद्य᳘ते स य᳘ ऽएत᳘दुपा᳘स्ते न स᳘ पाप्म᳘नो व्व्या᳘वर्त्तते मिश्र᳘ᳫँ᳘ ह्येतत्॥
मूलम् - Weber
य᳘त्सप्ता᳘न्नानि मेध᳘या त᳘पसा᳘जनयत्पिते᳘ति॥
मेध᳘या हि त᳘पसा᳘जनयत्पितै᳘कमस्य साधारणमि᳘तीद᳘मेॗवास्य त᳘त्साधारणम᳘न्नं य᳘दिद᳘मद्य᳘ते स य᳘ एत᳘दुपा᳘स्ते न स᳘ पाप्म᳘नो व्या᳘वर्तते मिॗष्र᳘ᳫं᳘ ह्येतत्॥
मूलम् - विस्वरम्
यत् सप्तान्नानि मेधया तपसा ऽजनयत्पितेति । मेधया हि तपसा ऽजनयत्पिता । एकमस्य साधारणमिति । इदमेवास्य तत्साधारणमन्नम् । यदिदमद्यते । स य एतदुपास्ते । न स पाप्मनो व्यावर्तते । मिश्रं हि एतत् ॥ २ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एतेषां मन्त्राणां तिरोहितार्थत्वेन प्रतीकग्रहणपूर्वकं तदर्थव्याख्यानाय ब्राह्मणं प्रवर्तते- यत्सप्तान्नानि मेधया तपसा ऽजनयदिति । तत्र भागः ‘मेधया तपसा च’ ‘पिता’ पूर्वोक्तः । ‘अजनयदिति’ ‘हि’ प्रसिद्धावद्योतकेन हिशब्देन व्याख्यातः । प्रसिद्धं हि उक्तार्थयोर्मेधातपसोर्जगत्कारणत्वम् । उक्तसप्तान्नविनियोजकं मन्त्रभागं प्रतीकपूर्वं व्याचष्टे- एकमस्य साधारणमिति । मन्त्रे ‘अस्य’ भोक्तृसमुदायस्य ‘तत्’ साधारणमन्नं ‘इदमेव’ । किं ? ‘यदिदं’ सर्वं प्राणिभिरहन्यहनि ‘अद्यते’ भुज्यते । एतस्य सर्वसाधारणस्यान्नस्य असाधारणीकुर्वतो दोषं दर्शयति- स य एतदिति । ‘स यः’ कश्चित् एतत्साधारणं सर्वप्राणभृत्स्थितिकरं भुज्यमानमन्नं ‘उपास्ते’ तत्परो भवतीत्यर्थः । उपासनं हि नाम तत्परत्वम् । दृष्टं हि लोके “गुरूनुपास्ते, राजानमुपास्ते” इत्यादौ । तस्मात् शरीरस्थित्यर्थान्नोपयोगप्रधानो नादृष्टार्थकर्मप्रधान इत्यर्थः । ‘सः’ एवंभूतः ‘पाप्मनः’ अधर्मान्न व्यावर्तते न विमुच्यते । तथा च स्मृतिः “नात्मार्थं पाचयेदन्नं न वृथा घातयेत्पशून् ॥ न चैकः स्वयमश्नीयाद्विधिवर्जं न निर्वपत्” इति । “इष्टान् भोगान्न हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायेभ्यो यो भुङ्क्ते स्तेन एव सः” (भ. गी. ३ । १२) इति । “अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्ते ऽविचक्षणः । स भुञ्जानो न जानाति श्वगृध्रैर्जग्धिमात्मनः” (म. स्मृ. ३ । ११५) इत्यादि । कुतः पुनः पाप्मनो न व्यावर्तत इत्याह- मिश्रं हीति । ‘हि’ यस्मादेतदन्नं मिश्रं सर्वप्राणिसाधारणम् ॥ २ ॥
०३
विश्वास-प्रस्तुतिः
(द्द्वे᳘) द्वे᳘ देवा᳘नभाजयदि᳘ति॥ हुत᳘ञ्च प्प्र᳘हुतञ्च त᳘स्माद्देवे᳘भ्यो जु᳘ह्वति च प्र᳘ च जुह्वत्य᳘थो ऽआहुर्द्दर्शपूर्ण्णमासावि᳘ति त᳘स्मा᳘न्नेष्टिया᳘जुकः स्यात्॥
मूलम् - श्रीधरादि
(द्द्वे᳘) द्वे᳘ देवा᳘नभाजयदि᳘ति॥ हुत᳘ञ्च प्प्र᳘हुतञ्च त᳘स्माद्देवे᳘भ्यो जु᳘ह्वति च प्र᳘ च जुह्वत्य᳘थो ऽआहुर्द्दर्शपूर्ण्णमासावि᳘ति त᳘स्मा᳘न्नेष्टिया᳘जुकः स्यात्॥
मूलम् - Weber
द्वे᳘ देवा᳘नभाजयदि᳘ति हुतं᳘ च प्र᳘हुतं च त᳘स्माद्देवे᳘भ्यो जु᳘ह्वति च प्र᳘ च जुह्वत्य᳘थो आहुर्दर्शपूर्णमासावि᳘ति त᳘स्माॗन्नेष्टिया᳘जुकः स्यात्॥
मूलम् - विस्वरम्
द्वे देवानभाजयदिति । हुतं च प्रहुतं च । तस्माद्देवेभ्यो जुह्वति च प्र च जुह्वति । अथो आहुः । दर्शपूर्णमासाविति । तस्मान्नेष्टियाजुकः स्यात् ॥ ३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
द्वे देवानभाजयदिति मन्त्रपदम् । ‘ये द्वे’ अन्ने सृष्ट्वा पिता देवानभाजयत् । के ते द्वे इत्याह- ‘हुतं च’ हुतमित्यग्नौ हवनं ‘प्रहुतं च’ हुत्वा बलिहरणम् । यस्मात् द्वे एते अन्ने हुतप्रहुते ‘पिता देवानभाजयत्’ । तस्मादेतर्ह्यपि काले गृहिणः ‘देवेभ्यो जुह्वति’- देवेभ्य इदमन्नमस्माभिर्द्दीयमानमिति मन्वानाः जुह्वति । प्रजुह्वति च हुत्वा बलिहरणं च कुर्वत इत्यर्थः । एतस्य पूर्वपक्षत्वं सूचयितुं पक्षान्तरमाह- अथो इति । ‘अथो’ अपि अन्ये ‘आहुः’- ये द्वे अन्ने पित्रा देवेभ्यः प्रत्ते न ते ‘हुतप्रहुते’ । किं तर्हि दर्शपूर्णमासौ श्रोतयोरेव दर्शपूर्णमासयोर्देवान्नत्वं प्रसिद्धतरम् । यस्मात् द्वे देवानभाजयदिति देवार्थमेते दर्शपूर्णमासाख्ये अन्ने पित्रा प्रत्ते तस्मात्तयोर्देवार्थत्वाविघाताय इष्टियाजुकः इष्टियजनशीलो न स्यात् न भवेत् । इष्टिशब्देन किल काम्या इष्टयः । ताच्छील्ये प्रत्ययस्यात्र प्रयोगात् । काम्येष्टियजनप्रधानो न स्यादित्यर्थः ॥ २ ॥
०४
विश्वास-प्रस्तुतिः
(त्प) पशु᳘भ्य ऽए᳘कम्प्रा᳘यच्छदि᳘ति॥
तत्प᳘यः प᳘यो᳘ ह्येवा᳘ग्रे मनु᳘ष्याश्च पश᳘वश्चोपजी᳘वन्ति त᳘स्मात्कुमार᳘ञ्जात᳘ङ्घृत᳘म्वैवा᳘ग्ग्रे प्प्रतिलेह᳘यन्ति स्त᳘नम्वा᳘ ऽनुधापयन्ति॥
मूलम् - श्रीधरादि
(त्प) पशु᳘भ्य ऽए᳘कम्प्रा᳘यच्छदि᳘ति॥
तत्प᳘यः प᳘यो᳘ ह्येवा᳘ग्रे मनु᳘ष्याश्च पश᳘वश्चोपजी᳘वन्ति त᳘स्मात्कुमार᳘ञ्जात᳘ङ्घृत᳘म्वैवा᳘ग्ग्रे प्प्रतिलेह᳘यन्ति स्त᳘नम्वा᳘ ऽनुधापयन्ति॥
मूलम् - Weber
पशु᳘भ्य ए᳘कम् प्रा᳘यछदि᳘ति॥
तत्प᳘यः प᳘योॗ ह्येवा᳘ग्रे मनुॗष्याश्च पश᳘वश्चोपजी᳘वन्ति त᳘स्मात्कुमारं᳘ जातं᳘ घृत᳘म् वैवा᳘ग्रे प्रतिलेह᳘यन्ति स्त᳘नम् वा᳘नुधाप्यन्ति॥
मूलम् - विस्वरम्
पशुभ्य एकं प्रायच्छदिति । तत्पयः । पयो ह्येवाग्रे मनुष्याश्च पशवश्चोपजीवन्ति । तस्मात्कुमारं जातं घृतं वैवाग्रे प्रतिलेहयन्ति । स्तनं वा ऽनुधापयन्ति ॥ ४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
पश्वन्नविषयं मन्त्रपदमादाय तदर्थं कथयति- पशुभ्यः इति । ‘पशुभ्यः’ द्विपाच्चतुष्पाद्भ्यः यदेकमन्नं पिता ‘प्रायच्छदिति’ मन्त्रे उक्तं तदन्नं ‘पयः’ । कुत एतदवगम्यते इत्यत्राह- पयो हीति । ‘हि’ यस्मात् ‘अग्रे’ प्रथमं ‘मनुष्याः पशवश्च’ ‘पय एवोपजीवन्ति’ । यस्मात्तेनैवान्नेन वर्तन्ते । यथा आदौ पित्रा विनियोगः कृतः । ‘तस्मात्’ इदानींतना अपि त्रैवर्णिकाः- जातमुत्पन्नमात्रं ‘कुमारं’ बालं ‘अग्रे’ ‘घृतं वैव’ घृतमेव सुवर्णयुक्तया अनामिकया अङ्गुल्या ‘प्रतिलेहयन्ति’ प्राशयन्ति ‘स्तनं वा’ स्तनं च ‘अनुधापयन्ति’ पश्चात्पाययन्ति । अत्रैवर्णिकानां तु यथासम्भवं स्तनमेवाग्रे धापयन्तीति बोद्धव्यम् ॥ ४ ॥
०५
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ व्वत्स᳘ञ्जात᳘माहुः॥
(र᳘) अ᳘तृणाद ऽइ᳘ति त᳘स्मिन्त्स᳘र्व्वम्प्र᳘तिष्ठितं य᳘च्च प्प्रा᳘णिति य᳘च्च ने᳘ति प᳘यसि᳘ हीदᳫँ᳭ स᳘र्व्वम्प्र᳘तिष्ठितं य᳘च्च प्प्रा᳘णिति य᳘च्च न॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ व्वत्स᳘ञ्जात᳘माहुः॥
(र᳘) अ᳘तृणाद ऽइ᳘ति त᳘स्मिन्त्स᳘र्व्वम्प्र᳘तिष्ठितं य᳘च्च प्प्रा᳘णिति य᳘च्च ने᳘ति प᳘यसि᳘ हीदᳫँ᳭ स᳘र्व्वम्प्र᳘तिष्ठितं य᳘च्च प्प्रा᳘णिति य᳘च्च न॥
मूलम् - Weber
अ᳘थ वत्सं᳘ जात᳘माहुः॥
अ᳘तृणाद इ᳘ति त᳘स्मिन्त्स᳘र्वम् प्र᳘तिष्ठितं य᳘च्च प्रा᳘णिति य᳘च्च ने᳘ति प᳘यसिॗ हीदᳫं स᳘र्वम् प्र᳘तिष्ठितं य᳘च्च प्रा᳘णिति य᳘च्च न॥
मूलम् - विस्वरम्
अथ वत्सं जातमाहुरतृणाद इति । तस्मिन् सर्वं प्रतिष्ठितम्- यच्च प्राणिति यच्च नेति । पयसि हीदं सर्वं प्रतिष्ठितम् । यच्च प्राणिति । यच्च न ॥ ५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
पशूनां पयो ऽन्नं इत्यत्र लोकप्रसिद्धिं प्रमाणयति- अथ वत्सं जातमिति । द्विपात्पश्वधिकारविच्छेदार्थो ऽथशब्दः । ‘जातं वत्समाहुः’ कियत्प्रमाणो वत्सः इत्येवं पृष्टाः सन्तः ‘अतृणादः’ ‘इत्याहुः’ । तृणमत्तीति तृणादः न तृणादो ऽतृणादः नाद्यापि तृणमत्ति पयसैवाद्यापि वर्तत इत्यर्थः । यच्चाग्रे जातकर्म्मादौ घृतमुपजीवन्ति यच्च इतरे पय एव तत्सर्वमपि पय एव घृतस्यापि पयोविकारत्वात् । कस्मात्पुनः सप्तमं यत् पश्वन्नं चतुर्थत्वेन व्याख्यायते । अग्निहोत्रादि कर्म्म हि पयःसाधनाश्रयमिति पयसः साधन वाविशेषात् पश्वन्नं चतुर्थत्वेन व्याख्यातं तस्मिन् ‘सर्वं प्रतिष्ठितम्’ । “यच्च प्राणिति यच्च न” इति मन्त्रभागः । तस्मिन्पश्वन्ने ‘पयसि’ ‘सर्वं’ अध्यात्माधिभूताधिदैवलक्षणं कृत्स्नं जगत् ‘प्रतिष्ठितम्’ । ‘यश्च प्राणिति’ प्राणनचेष्टावत् मनुष्यपश्वादि । ‘यच्च न’ यच्च न प्राणिति स्थावरं शैलादि । तच्च हिशब्देनैव प्रसिद्धावद्योतकेन व्याख्यातम् । अग्निहोत्राहुतिविपरिणामात्मकं च जगत् कृत्स्नमिति “ते वा ऽएते ऽआहुती हुते ऽउत्क्रामतस्ते ऽअन्तरिक्षमाविशतः” (श. प. ) इत्यादयः श्रुतिवादाः क्रमेणाग्निहोत्राहुत्योर्गर्भाकारप्राप्तिं दर्शयन्ति । “अग्नौ प्राप्ता ऽऽहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः” (म. स्मृ. ३ । ७६) इत्यादयः स्मृतिवादाश्च । इति पयसः सर्वत्र जगदाधारत्वं श्रुतिस्मृतिप्रसिद्धम् ॥ ५ ॥
०६
विश्वास-प्रस्तुतिः
तद्य᳘दिद᳘माहुः᳘॥
सम्वत्सरम्प᳘यसा जु᳘ह्वद᳘प पुनर्म्मृत्यु᳘ञ्जयती᳘ति न त᳘था व्विद्याद्यद᳘हरेव᳘ जुहो᳘ति तद᳘हः पुनर्म्मृत्युम᳘पजयत्येव᳘म्विद्वान्त्स᳘र्व्वᳫँ᳭ हि᳘ देवे᳘भ्यो ऽन्नाद्यम्प्रय᳘च्छति क᳘स्मात्ता᳘नि न᳘ क्षीयन्ते ऽद्य᳘मानानि सर्व्वदे᳘ति॥
मूलम् - श्रीधरादि
तद्य᳘दिद᳘माहुः᳘॥
सम्वत्सरम्प᳘यसा जु᳘ह्वद᳘प पुनर्म्मृत्यु᳘ञ्जयती᳘ति न त᳘था व्विद्याद्यद᳘हरेव᳘ जुहो᳘ति तद᳘हः पुनर्म्मृत्युम᳘पजयत्येव᳘म्विद्वान्त्स᳘र्व्वᳫँ᳭ हि᳘ देवे᳘भ्यो ऽन्नाद्यम्प्रय᳘च्छति क᳘स्मात्ता᳘नि न᳘ क्षीयन्ते ऽद्य᳘मानानि सर्व्वदे᳘ति॥
मूलम् - Weber
तद्य᳘दिद᳘माहुः᳟॥
सम्वत्सरम् प᳘यसा जु᳘ह्वद᳘प पुनर्मृत्युं᳘ जयती᳘ति न त᳘था विद्याद्यद᳘हरेव᳘ जुहो᳘ति तद᳘हः पुनर्मृत्युमा᳘पजयत्येव᳘म् विद्वान्त्स᳘र्वᳫं हि᳘ देवे᳘भ्योऽन्नाद्यम् प्रय᳘छति क᳘स्मात्ता᳘नि न᳘ क्षीयन्तेऽद्य᳘मानानि सर्वदे᳘ति॥
मूलम् - विस्वरम्
तद्यदिदमाहुः । सम्वत्सरं पयसा जुह्वदपपुनर्मृत्युं जयतीति । न तथा विद्यात् । यदहरेव जुहोति । तदहः पुनर्मृत्युमपजयति । एवं विद्वान् सर्वं हि देवेभ्यो ऽन्नाद्यं प्रयच्छति । कस्मात्तानि न क्षीयन्ते अद्यमानानि सर्वदा इति ॥ ६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
पयसि हीदं सर्वं प्रतिष्ठितमिति विधित्सितदर्शनस्तुतये मतान्तरं निन्दितुमुद्भावयति- तद्यदिदमिति । ‘सम्वत्सरं’ वर्षपर्यन्तं- ‘पयसा जुह्वत्’ अग्निहोत्रं कुर्वन् ‘पुनः’ ‘मृत्युं’ ‘अपजयति’ पुनर्मरणाय न जायते इति यदिदं ब्राह्मणवादा ‘आहुः’ । ‘तन्न तथा विद्यात्’ तन्न तथा द्रष्टव्यम् । सम्वत्सरेण किल षष्ट्युत्तरत्रिशतानि (३६०) आहुतीनां सप्तशतानि विंशतिश्चे (७२०) ति यजुष्मतीरिष्टका अभिसम्पद्यमानाः सम्वत्सरस्य वा ऽहोरात्राणि सम्वत्सरमग्निं प्रजापतिमाप्नुवन्ति । एवं कृत्वा ‘सम्वत्सरं जुह्वत् अपजयति पुनर्मृत्युं’ इतः प्रेत्य देवेषु सम्भूतः पुनर्न म्रियत इत्यर्थः । तर्हि कथं विद्यादित्यत आह- यदहरेवेति । यदुक्तं- “पयसि हीदं सर्वं प्रतिष्ठितं” पयआहुतिविपरिणामात्मकत्वात् सर्वस्य जगत इति । ‘एवं विद्वान्’ सन् ‘यदहरेव’ यस्मिन्नेव दिवसे ‘जुहोति’ आहुतिप्रक्षेपं करोति । ‘तदहः’ तस्मिन्नेव दिवसे ‘पुनर्मृत्युं’ पुनर्मरणं ‘अपजयति’ । सकृन्मृत्वा शरीरेण वियुज्यमानः पुनर्मरणाय परिच्छिन्नं शरीरं न गृह्णातीत्यर्थः । न सम्वत्सराभ्यासमपेक्षते ‘एवं विद्वान्’ एकेनैवाह्ना जगदात्मत्वं प्रतिपद्यत इति भावः । तत्र हेतुमाह- सर्वं हीति । ‘हि’ यस्मात् ‘सर्वं’ समस्ते ‘देवेभ्यः’ सर्वेभ्यः ‘अन्नाद्यं’ अन्नं च तत् आद्यं चान्नाद्यं सायम्प्रातराहुतिप्रक्षेपेण ‘प्रयच्छति’ ददाति । तस्माद्युक्तं सर्वमाहुतिमयमात्मानं कृत्वा सर्वदेवान्नरूपेण सर्वैर्देवैरेकात्मभावं गत्वा सर्वदेवमयो भूत्वा पुनर्न म्रियत इति भावः । “कस्मात्तानि न क्षीयन्ते ऽद्यमानानि सर्वदा” इति मन्त्रेण यदा पित्रा अन्नानि सृष्ट्वा सप्त पृथक् पृथक् भोक्तृभ्यः प्रत्तानि । तदाप्रभृत्येव तैर्भोक्तृभिः ‘सर्वदा’ नैरन्तर्येण ‘अद्यमानानि’ कस्मात्पुनर्न क्षीयन्ते ? इति प्रश्ने कृते ब्राह्मणमुत्तरमाह ॥ ६ ॥
०७
विश्वास-प्रस्तुतिः
पु᳘रुषो वा ऽअ᳘क्षितिः॥
स᳘ हीदम᳘न्नम्पु᳘नः पुनर्ज्जन᳘यते यो वै ताम᳘क्षितिम्वेदे᳘ति पु᳘रुषो वा ऽअ᳘क्षितिः स᳘ हीदम᳘न्नन्धिया᳘ धिया जन᳘यते क᳘र्म्मभिर्य्य᳘द्धैतन्न᳘ कुर्य्यात्क्षी᳘येत ह सो᳘ ऽन्नमत्ति प्प्र᳘तीकेने᳘ति मु᳘खम्प्र᳘तीकम्मु᳘खेनेत्येतत्स᳘[[!!]] देवान᳘पिगच्छति स ऽऊ᳘र्ज्जमु᳘पजीवती᳘ति प्रशᳫँ᳭सा॥
मूलम् - श्रीधरादि
पु᳘रुषो वा ऽअ᳘क्षितिः॥
स᳘ हीदम᳘न्नम्पु᳘नः पुनर्ज्जन᳘यते यो वै ताम᳘क्षितिम्वेदे᳘ति पु᳘रुषो वा ऽअ᳘क्षितिः स᳘ हीदम᳘न्नन्धिया᳘ धिया जन᳘यते क᳘र्म्मभिर्य्य᳘द्धैतन्न᳘ कुर्य्यात्क्षी᳘येत ह सो᳘ ऽन्नमत्ति प्प्र᳘तीकेने᳘ति मु᳘खम्प्र᳘तीकम्मु᳘खेनेत्येतत्स᳘[[!!]] देवान᳘पिगच्छति स ऽऊ᳘र्ज्जमु᳘पजीवती᳘ति प्रशᳫँ᳭सा॥
मूलम् - Weber
पु᳘रुषो वा अ᳘क्षितिः॥
सॗ हीदम᳘न्नम् पु᳘नः-पुनर्जन᳘यते यो वै ताम᳘क्षितिम् वेदे᳘ति पु᳘रुषो वा अ᳘क्षितिः सॗ हीदम᳘न्नं धिया-धिया जन᳘यते क᳘र्मभिर्य᳘द्धैतन्न᳘ कुर्यात्क्षी᳘येत ह सो᳘ऽन्नमत्ति प्र᳘तीकेने᳘ति मु᳘खम् प्र᳘तीकम् मु᳘खेने᳘त्येतत्स᳘ देवान᳘पिगछति स ऊ᳘र्जमु᳘पजीवती᳘ति प्रशंसा 1 ॥
मूलम् - विस्वरम्
पुरुषो वा अक्षितिः । स हीदमन्नं पुनः पुनर्जनयते । यो वै तामक्षितिं वेदेति । पुरुषो वा अक्षितिः । स हीदमन्नं धिया धिया जनयते कर्मभिः । यद्धैतन्न कुर्यात् । क्षीयेत ह । सो ऽन्नमत्ति प्रतीकेनेति । मुखं प्रतीकम् । मुखेनेत्येतत् । स देवानपिगच्छति । ऊर्जमुपजीवति । इति प्रशंसा ॥ ७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
पुरुषो वा इति । ‘पुरुषो वै’ यो ऽन्नानां भोक्ता स एव ‘अक्षितिः’ अन्नाक्षयहेतुः । ननु- प्रत्युत क्षयहेतुर्भोक्ता कथमस्याक्षये हेतुत्वं इत्यत आह- स हीदमिति । ‘हि’ यस्मात्स पुरुषो भोक्ता ऽपि ‘इदं’ भुज्यमानं सप्तविधं कार्यकारणलक्षणं क्रियाकलापात्मकमन्नं ‘पुनः पुनः’ भूयोभूयः ‘जनयते’ उत्पादयति । यथा पूर्वं पिता मेधया प्रज्ञया जायादिसम्बन्धेन च पाङ्क्तेन कर्म्मणा च अन्नानां स्रष्टा भोक्ता चासीत् तथा येभ्यो दत्तानि अन्नानि ते ऽपि तेषामन्नानां भोक्तारो ऽपि सन्तः पितर एव मेधया तपसा च तानि अन्नानि यतो जनयन्ति । तस्मात्पितुरिव पुरुषस्य जनकत्वसम्भवात् भवत्येव पुरुषो ऽक्षये हेतुः । “यो वै तामक्षितिं वेदेति” मन्त्रभागे पुरुषो वै भोक्तैवाक्षितिरक्षयहेतुरुच्यते । ‘हि’ यस्मात्स पुरुषो भोक्ता ऽपि ‘इदमन्नं’ सप्तविधं ‘धिया धिया’ तत्तत्कालभाविन्या तया तथा प्रज्ञया ‘कर्म्मभिश्च’ वाङ्मनःकायचेष्टितैः ‘जनयते’ । यद्धैतदिति । ‘यत्’ यदि ‘ह’ यदेतत्सप्तविधमन्नमुक्तं तत्प्रज्ञया कर्म्मभिश्च क्षणमात्रमपि ‘न कुर्यात्’ न सम्पादयेत् । तर्हि सातत्येन भुज्यमानत्वात् ‘क्षीयेत ह’ विच्छिद्येत किल यस्माद्यथैवा ऽयं पुरुषो नैरन्तर्येणान्नानां भोक्ता यथाप्रज्ञं यथाकर्म्म चान्नं करोत्यपि ततः सातत्येन कर्तृत्वात्पुरुषो ऽक्षितिः । तस्मात् भुज्यमानान्यपि अन्नानि न क्षीयन्त इति भावः । “सो ऽन्नमत्ति प्रतीकेन” इति मन्त्रे ‘प्रतीकं’ मुखं मुख्यत्वं प्राधान्यं इति प्राधान्येनैवान्नानां पितुः पुरुषस्याक्षितित्वं यो वेद स ‘मुखेन’ मुख्यत्वेन प्राधान्येनान्नमत्ति । नान्नं प्रति गुणभूतः स भोक्तैव भवति । न भोज्यतामापद्यते । “स देवानपिगच्छति स ऊर्ज्जमुपजीवति” इति मन्त्रे देवात्मभावं प्रतिपद्यते “ऊर्ज्जममृतं चोपजीवति” इति यदुक्तं सोपासनप्रशंसा प्रशस्तिमात्रं नापूर्वो ऽर्थो ऽस्तीत्यर्थः ॥ ७ ॥
०८
विश्वास-प्रस्तुतिः
त्री᳘ण्यात्म᳘ने ऽकुरुते᳘ति॥
म᳘नो व्वा᳘चम्प्राणन्ता᳘न्यात्म᳘ने ऽकुरुतान्य᳘त्रमना ऽअभूवन्नादर्शमन्य᳘त्रमना ऽअभू᳘वन्नाश्रौषमि᳘ति म᳘नसा᳘ ह्येव प᳘श्यति म᳘नसा᳘ शृणोति[[!!]]॥
मूलम् - श्रीधरादि
त्री᳘ण्यात्म᳘ने ऽकुरुते᳘ति॥
म᳘नो व्वा᳘चम्प्राणन्ता᳘न्यात्म᳘ने ऽकुरुतान्य᳘त्रमना ऽअभूवन्नादर्शमन्य᳘त्रमना ऽअभू᳘वन्नाश्रौषमि᳘ति म᳘नसा᳘ ह्येव प᳘श्यति म᳘नसा᳘ शृणोति[[!!]]॥
मूलम् - Weber
त्री᳘ण्यात्म᳘नेऽकुरुते᳘ति॥
म᳘नो वा᳘चम् प्राणं ता᳘न्यात्म᳘नेऽकुरुतान्य᳘त्रमना अभूवं नादर्शमन्य᳘त्रमना अभूॗवं नाश्रौषमि᳘ति म᳘नसाॗ ह्येव प᳘श्यति म᳘नसा शृणो᳘ति॥
मूलम् - विस्वरम्
त्रीण्यात्मने ऽकुरुतेति । मनो वाचं प्राणम् । तान्यात्मने ऽकुरुत । अन्यत्रमना अभूवम् । नादर्शम् । अन्यत्रमना अभूवम् । नाश्रौषमिति । मनसा ह्येव पश्यति । मनसा शृणोति ॥ ८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं पाठक्रममुल्लङ्घ्यार्थक्रमवशात् साधनभूतमन्नचतुष्टयं व्याख्याय इदानीं पाङ्क्तस्य कर्म्मणः फलभूतमन्नत्रयं कार्यत्वात् विस्तीर्णविषयत्वाच्च पूर्वेभ्य एतेभ्यः पृथगुत्कृष्टं तद्व्याख्यानाय उत्तरो ग्रन्थ आब्राह्मणपरिसमाप्तेः “त्रीण्यात्मने ऽकुरुत” इति मन्त्रेण ‘मनो वाचं प्राणं’ इत्येवं ‘तानि’ त्रीण्यन्नानि पिता सृष्ट्वा आदावात्मने आत्मार्थमकुरुत कृतवान् । तेषां मध्ये मनसः अस्तित्वं प्रति संशये प्रमाणमाह- अन्यत्रमना इति । “पुरो ऽवस्थितं गजं त्वं दृष्टवानसि” इति केनचित्पृष्टो वदति । अन्यत्र विषयान्तरे गतं मे मनो यस्य स अहमन्यत्रमनाः अभूवमासम् । अतो नादर्शं न दृष्टवानस्मि । “तथेदं मदीयं वचः श्रुतवानसीति” पृष्टः आह- ‘अन्यत्रमनाः अभूवम्’ । अतो ‘नाश्रौषं’ न श्रुतवानस्मीति । ‘हि’ यस्मात्सर्वो लोकः आत्मसाक्षिकं मनसैव ‘पश्यति’ मनसैव ‘शृणोति’ । तद्व्यग्रत्वे दर्शनाद्यभावात् । तस्मात्सिद्धं प्रत्यक्षादिप्रमाणिकं मनसो ऽस्तित्वम् ॥ ८ ॥
०९
विश्वास-प्रस्तुतिः
का᳘मः सङ्कल्पः᳘॥
(ल्पो᳘) व्विचिकित्सा᳘ श्रद्धा᳘ ऽश्रद्धा धृ᳘तिर᳘धृतिर्ह्रीर्द्धीर्भीरि᳘त्येतत्स᳘र्व्वम्म᳘न ऽएव त᳘स्माद᳘पि पृष्ठ᳘त ऽउ᳘पस्पृष्टो म᳘नसा व्वि᳘जानाति॥
मूलम् - श्रीधरादि
का᳘मः सङ्कल्पः᳘॥
(ल्पो᳘) व्विचिकित्सा᳘ श्रद्धा᳘ ऽश्रद्धा धृ᳘तिर᳘धृतिर्ह्रीर्द्धीर्भीरि᳘त्येतत्स᳘र्व्वम्म᳘न ऽएव त᳘स्माद᳘पि पृष्ठ᳘त ऽउ᳘पस्पृष्टो म᳘नसा व्वि᳘जानाति॥
मूलम् - Weber
का᳘मः सङ्कल्पो᳟॥
विचिकित्सा᳘ श्रद्धा᳘श्रद्धा धृ᳘तिर᳘धृतिर्ह्रीर्धीर्भीरि᳘त्येतत्स᳘र्वम् म᳘न एव त᳘स्माद᳘पि पृष्ठ᳘त उ᳘पस्पृष्टो म᳘नसा वि᳘जानाति॥
मूलम् - विस्वरम्
कामः सङ्कल्पो विचिकित्सा श्रद्धा अश्रद्धा धृतिरधृतिर्ह्रीर्धीः भीः इत्येतत्सर्वं मन एव । तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति ॥ ९ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
किं पुनर्मनसः स्वरूपमित्यतस्तदाह- काम इति । ‘कामः’ स्त्रीव्यतिकर ऽभिलाषादिः । ‘सङ्कल्पः’ प्रत्युपस्थितविषयविकल्पनं शुक्लनीलादिभेदेन । ‘विचिकित्सा’ संशयज्ञानम् । ‘श्रद्धा’ अदृष्टार्थेषु कर्मसु देवतादिषु च आस्तिक्यबुद्धिः । ‘अश्रद्धा’ तद्विपरीता बुद्धिः । धृतिर्धारणं देहाद्यवसादे सति उत्तंभनम् । अधृतिस्तद्विपर्ययः । ह्रीर्लज्जा । ‘धीः’ प्रज्ञा । भीर्भयम् इत्येतदेवमादिकं ‘सर्वं मन एव’ । मनसो ऽन्तःकरणस्य रूपाण्येतानि वृत्तिवृत्तिमतोरभेदात् । पुनरपि मनसो ऽस्तित्वे कारणमाह- तस्मादपीति । यस्मात् चक्षुषो हि अगोचरे ‘पृष्ठतो ऽपि’ केनचिदुपस्पृष्टः कश्चित् हस्तस्यायं स्पर्शः जानुनो ऽयं स्पर्श इति ‘मनसा विजानाति’ विवेकेन प्रतिपद्यते । तस्मादस्ति विवेकप्रतिपत्तिकारणं मन इति ॥ ९ ॥
१०
विश्वास-प्रस्तुतिः
यः क᳘श्च श᳘ब्दो व्वा᳘गेव᳘ सा॥
(सै) एषा ह्य᳘न्तमा᳘यत्तैषा हि न᳘ प्प्रा᳘णो ऽपानो᳘ व्व्यान᳘ ऽउदानः᳘ समा᳘नो ऽन ऽइ᳘त्येतत्स᳘र्व्वम्प्राण᳘ ऽए᳘वैतन्म᳘न्यो वा᳘ ऽअय᳘मात्मा᳘ व्वाङ्म᳘यो मनोम᳘यः प्प्राणम᳘यः॥
मूलम् - श्रीधरादि
यः क᳘श्च श᳘ब्दो व्वा᳘गेव᳘ सा॥
(सै) एषा ह्य᳘न्तमा᳘यत्तैषा हि न᳘ प्प्रा᳘णो ऽपानो᳘ व्व्यान᳘ ऽउदानः᳘ समा᳘नो ऽन ऽइ᳘त्येतत्स᳘र्व्वम्प्राण᳘ ऽए᳘वैतन्म᳘न्यो वा᳘ ऽअय᳘मात्मा᳘ व्वाङ्म᳘यो मनोम᳘यः प्प्राणम᳘यः॥
मूलम् - Weber
यः क᳘श्च श᳘ब्दो॥
वा᳘गेवॗ सैषा ह्य᳘न्तमा᳘यत्तैषा 2 हि न᳘ प्राॗणोऽपानो᳘ व्यान᳘ उदानः᳘ समाॗनोऽन इ᳘त्येतत्स᳘र्वम् प्राण᳘ एॗवैतन्म᳘न्यो वा᳘ अय᳘मात्मा᳘ वाङ्म᳘यो मनोम᳘यः प्राणम᳘यः॥
मूलम् - विस्वरम्
यः कश्च शब्दः । वागेव सा । एषा हि अन्तमायत्ता । एषा हि न प्राणो ऽपानो व्यान उदानः समानः । अन इति एतत्सर्वं प्राण एव । एतन्मयो वा अयमात्मा । वाङ्मयो मनोमयः प्राणमयः ॥ १० ॥
श्रीमद्वासुदेवब्रह्मभगवान्
इह कर्म्मणां फलभूतानि त्रीण्यन्नानि मनोवाक्प्राणाख्यानि अध्यात्ममधिभूतमधिदैवं च व्याचिख्यासितानि । तत्राध्यात्मिकानां वाङ्मनःप्राणानां मनो व्याख्यातम् । अथेदानीं आध्यात्मिकाया वाचः स्वरूपमाह- यः कश्च शब्द इति । लोके ‘यः कश्च शब्दः’ प्राणिभिस्ताल्वादिव्यङ्ग्यः वर्णादिलक्षणः इतरो वादित्रमेघादिनिर्मितः सर्वो वर्णावर्णात्मको ध्वनिः ‘सा’ प्रकृता ‘वागेव’ । इदं तावद्वाचः स्वरूपमुक्तम् । अथ तस्याः कार्यमुच्यते- सैषा हीति । ‘हि’ यस्मात् ‘एषा’ प्रकाशमात्रस्वरूपा वाक् ‘अन्तं’ अभिधेयावसानं अभिधेयनिर्णयं ‘आयत्ता’ “अनुगता । अत एव पुनः स्वयं न अभिधेयवत् प्रकाश्या किन्तु प्रदीपादिवत् प्रकाशात्मकत्वात् प्रकाशिकैव । यथा प्रदीपादिप्रकाशः प्रकाशान्तरेण न प्रकाश्यते तत् वाक् स्वयं प्रकाशिकैव । न प्रकाश्या इत्यनवस्थां श्रुतिः परिहरति- एषा हि नेति । प्रकाश्यात्मकत्वमेव वाचः कार्यमित्यर्थः । अथाध्यात्मिकप्राणविषयं वाक्यमवतारयितुं प्राणास्तित्वे प्रमाणं कथयन् प्राणस्वरूपमाह- प्राण इति । ‘प्राणः’ मुखनासिका ऽभ्यन्तरचारी हृदयवृत्तिः प्रणयनात्प्राणः । १ । मूत्रपुरीषादेरपनयनात् नाभिमर्यादो ऽधोवृत्तिरपानः । २ । हृदयादारभ्य नाभिपर्यन्तं वर्तमानो व्यायच्छत्कर्म्मा वीर्यवत्कर्महेतुश्च ‘व्यानः’ । प्राणापानयोर्नियमनकर्मेत्यर्थः । ३ । उत्कर्षोर्ध्वगमनादिहेतुः आपादतलमस्तकस्थानः ऊर्ध्ववृत्तिरुदानः । ४ । भुक्तस्य पीतस्य च समं नयनात्समानः कोष्ठस्थानः अन्नपक्ता । ५ । ‘अनः’ । ६ । इति एतेषां वृत्तिविशेषाणां सामान्यभूता सामान्यदेहचेष्टा ऽभिसम्बन्धिनी वृत्तिरुच्यते । ‘एतत्सर्वं’ प्राणादिवृत्तिजातं आध्यात्मिकः साधारणासाधारणवृत्तिमान् ‘प्राण एव’ । वृत्तिवृत्तिमतोरभेदात् । व्याख्यातानि आध्यात्मिकानि मनोवाक्प्राणाख्यानि अन्नानि । अतस्तेषां वागादीनां समुचितं स्वरूपं दर्शयति- एतन्मय इति । ‘अयमात्मा’ प्राजापत्यैर्वाङ्मनःप्राणैरारब्धः कार्यकारणसङ्घातः पिण्डः ‘एतन्मयः’ एतद्विकारः । विकारे मयट् । एतदेव विवृणोति- वाङ्मयो मनोमयः प्राणमय इति । ‘एतन्मयः’ इत्यस्य स्फुटीकरणम् ॥ १० ॥
११
विश्वास-प्रस्तुतिः
(त्त्र᳘) त्र᳘यो लोका᳘ ऽएत᳘ ऽएव॥
व्वा᳘गे᳘वायं᳘ लोको म᳘नो ऽन्तरिक्षलोकः᳘ प्प्रा᳘णो ऽसौ[[!!]] लोकः॥
मूलम् - श्रीधरादि
(त्त्र᳘) त्र᳘यो लोका᳘ ऽएत᳘ ऽएव॥
व्वा᳘गे᳘वायं᳘ लोको म᳘नो ऽन्तरिक्षलोकः᳘ प्प्रा᳘णो ऽसौ[[!!]] लोकः॥
मूलम् - Weber
त्र᳘यो लोका᳘ एत᳘ एव॥
वा᳘गेॗवायं᳘ लोको म᳘नोऽन्तरिक्षलोकः᳘ प्राॗणोऽसौ᳘ लोकः॥
मूलम् - विस्वरम्
त्रयो लोका एत एव । वागेवायं लोकः । मनः अन्तरिक्षलोकः । प्राणो ऽसौ लोकः ॥ ११ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं वागादीनामाध्यात्मिकीं विभूतिमुक्त्वा आधिभौतिकीं विस्तृतिमाह- त्रयो लोका प्रति । ‘त्रयो लोकाः’ भूर्भुवः स्वरित्याख्याः ‘एत एव’ वाङ्मनःप्राणा एव । एतदेव विशेषतो विवृणोति- वागेवायं लोक इति । ‘वागेवायं’ भूर्लोकः । ‘मनो ऽन्तरिक्षलोकः’ । ‘प्राणः असौ’ परो ऽक्षः स्वर्लोकः ॥ ११ ॥
१२
विश्वास-प्रस्तुतिः
(त्त्र᳘) त्र᳘यो व्वे᳘दा ऽएत᳘ ऽएव॥
व्वा᳘गेव᳘र्ग्वेदो म᳘नो यजुर्व्वेदः᳘ प्प्राणः᳘ सामवेदः᳘॥
मूलम् - श्रीधरादि
(त्त्र᳘) त्र᳘यो व्वे᳘दा ऽएत᳘ ऽएव॥
व्वा᳘गेव᳘र्ग्वेदो म᳘नो यजुर्व्वेदः᳘ प्प्राणः᳘ सामवेदः᳘॥
मूलम् - Weber
त्र᳘यो वे᳘दा एत᳘ एव॥
वा᳘गेव᳘र्ग्वेदो म᳘नो यजुर्वेदः᳘ प्राणः᳘ सामवेदः᳟॥
मूलम् - विस्वरम्
त्रयो वेदा एत एव । वागेव ऋग्वेदः । मनो यजुर्वेदः । प्राणः सामवेदः ॥ १२ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एषामेव वागादीनां ‘त्रयो वेदाः’ इति वेदत्रय्यात्मकत्वमुक्तम् ॥ १२ ॥
१३
विश्वास-प्रस्तुतिः
(दो) देवाः᳘ पित᳘रो मनु᳘ष्या ऽएत᳘ ऽएव॥
व्वा᳘गेव[[!!]] दे᳘वा म᳘नः पित᳘रः प्प्राणो᳘ मनु᳘ष्याः॥
मूलम् - श्रीधरादि
(दो) देवाः᳘ पित᳘रो मनु᳘ष्या ऽएत᳘ ऽएव॥
व्वा᳘गेव[[!!]] दे᳘वा म᳘नः पित᳘रः प्प्राणो᳘ मनु᳘ष्याः॥
मूलम् - Weber
देवाः᳘ पित᳘रो मनुॗष्या एत᳘ एव॥
वा᳘गेव᳘ देवा म᳘नः पित᳘रः प्राणो᳘ मनुॗष्याः॥
मूलम् - विस्वरम्
देवाः पितरो मनुष्या एत एव । वागेव देवाः । मनः पितरः । प्राणो मनुष्याः ॥ १३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘देवाः पितरो मनुष्याः’ इति देवपितृमनुष्यात्मकत्वम् ॥ १३ ॥
१४
विश्वास-प्रस्तुतिः
पिता᳘ माता᳘ प्प्र᳘जैत᳘ ऽएव॥
म᳘न ऽएव᳘ पिता व्वा᳘ङ्माता᳘ प्प्राणः᳘ प्प्रजा॥
मूलम् - श्रीधरादि
पिता᳘ माता᳘ प्प्र᳘जैत᳘ ऽएव॥
म᳘न ऽएव᳘ पिता व्वा᳘ङ्माता᳘ प्प्राणः᳘ प्प्रजा॥
मूलम् - Weber
पिता᳘ माता᳘ प्रॗजैत᳘ एव॥
म᳘न एव᳘ पिता वा᳘ङ्ग्माता᳘ प्राणः᳘ प्रजा॥
मूलम् - विस्वरम्
पिता माता प्रजैत एव । मन एव पिता । वाक् माता । प्राणः प्रजा ॥ १४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘पिता माता प्रजा’ इति पितृमातृप्रजात्मकत्वम् ॥ १४ ॥
१५
विश्वास-प्रस्तुतिः
व्वि᳘ज्ञातम्विजिज्ञा᳘स्यम᳘विज्ञातमेत᳘ ऽएव॥ यत्कि᳘ञ्च व्वि᳘ज्ञातम्वाचस्त᳘द्रूपम्वाग्वि व्वि᳘ज्ञाता व्वा᳘गेनन्त᳘द्भू᳘त्वा ऽवति॥
मूलम् - श्रीधरादि
व्वि᳘ज्ञातम्विजिज्ञा᳘स्यम᳘विज्ञातमेत᳘ ऽएव॥ यत्कि᳘ञ्च व्वि᳘ज्ञातम्वाचस्त᳘द्रूपम्वाग्वि व्वि᳘ज्ञाता व्वा᳘गेनन्त᳘द्भू᳘त्वा ऽवति॥
मूलम् - Weber
वि᳘ज्ञातम् विजिज्ञा᳘स्यम्॥
अ᳘विज्ञातमेत᳘ एव यत्किं᳘ च वि᳘ज्ञातम् वाचस्त᳘द्रूपम् वाग्घि वि᳘ज्ञाता वा᳘गेनं त᳘द्भूॗत्वावति॥
मूलम् - विस्वरम्
विज्ञातं विजिज्ञास्यमविज्ञातमेत एव । यत्किञ्च विज्ञातम् । वाचस्तद्रूपम् । वाग् हि विज्ञाता । वागेनं तद्भूत्वा ऽवति ॥ १५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
विज्ञातविजिज्ञास्याविज्ञातवस्त्वात्मकत्वं चाह- विज्ञातं विजिज्ञास्यमविज्ञातमिति । तत्र विशेषः । ‘यत्किञ्च विज्ञातं’ विस्पष्टं ज्ञातं ‘वाचस्तद्रूपम्’ । तत्र स्वयमेव हेतुमाह- वाग्घीति । ‘हि’ यस्मात् ‘वाक्- विज्ञाता’ प्रकाशात्मकत्वात् । या अन्यानपि विज्ञापयति सा कथमविज्ञाता भवेत् इति भावः । एवं वाग्विशेषविदः फलमाह- वागेनमिति । ‘एनं’ वाग्विभूतिविदं ‘वाक्’ तद्विज्ञातं ‘भूत्वा अवति’ प्रतिपालयति । विज्ञातरूपेणैवास्यान्नत्वं भोज्यत्वं प्रतिपद्यते इत्यर्थः ॥ १५ ॥
१६
विश्वास-प्रस्तुतिः
यत्कि᳘ञ्च व्विजिज्ञा᳘स्यम्॥
(म्म᳘) म᳘नस्त᳘द्रूपम्म᳘नो हि᳘ व्विजिज्ञा᳘स्यम्म᳘न ऽएनन्त᳘द्भू᳘त्वा ऽवति॥
मूलम् - श्रीधरादि
यत्कि᳘ञ्च व्विजिज्ञा᳘स्यम्॥
(म्म᳘) म᳘नस्त᳘द्रूपम्म᳘नो हि᳘ व्विजिज्ञा᳘स्यम्म᳘न ऽएनन्त᳘द्भू᳘त्वा ऽवति॥
मूलम् - Weber
यत्किं᳘ च विजिज्ञा᳘स्यम्॥
म᳘नस्त᳘द्रूपम् म᳘नो हि᳘ विजिज्ञा᳘स्यम् म᳘न एव त᳘द्भूॗत्वावति॥
मूलम् - विस्वरम्
यत् किञ्च विजिज्ञास्यम् । मनसस्तद्रूपम् । मनो हि विजिज्ञास्यम् । मन एनं तद्भूत्वा ऽवति ॥ १६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तथा ‘यत्किञ्च विजिज्ञास्यम्’ विस्पष्टं ज्ञातुमिष्टं ‘तत्’ सर्वं- ‘मनसो रूपम्’ । ‘हि’ यस्मात् ‘मनः’ सन्दिह्यमानाकारत्वात् ‘विजिज्ञास्यम्’ । पूर्ववत् मनोविभूतिविदः फलमाह- ‘मन एनं तत्’ विजिज्ञास्यं ‘भूत्वा अवति’ । विजिज्ञास्यरूपेणैवान्नत्वमापद्यते ॥ १६ ॥
१७
विश्वास-प्रस्तुतिः
यत्किञ्चा᳘विज्ञातम्॥
(म्प्रा) प्प्राण᳘स्य त᳘द्रूपम्प्राणो ह्य᳘विज्ञातः᳘ प्प्राण᳘ ऽएनन्त᳘द्भू᳘त्वा ऽवति॥
मूलम् - श्रीधरादि
यत्किञ्चा᳘विज्ञातम्॥
(म्प्रा) प्प्राण᳘स्य त᳘द्रूपम्प्राणो ह्य᳘विज्ञातः᳘ प्प्राण᳘ ऽएनन्त᳘द्भू᳘त्वा ऽवति॥
मूलम् - Weber
यत्किं चा᳘विज्ञातम्॥
प्राण᳘स्य त᳘द्रूपम् प्राणो ह्य᳘विज्ञातः प्राण᳘ एव त᳘द्भूॗत्वावति॥
मूलम् - विस्वरम्
यत्किञ्चाविज्ञातम् । प्राणस्य तद्रूपम् । प्राणो ह्यविज्ञातः । प्राण एनं तद्भूत्वा ऽवति ॥ १७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तथा ‘यत्किञ्चाविज्ञातं’ विज्ञानागोचरं न च सन्दिह्यमानं- ‘प्राणस्य तद्रूपं’ ‘हि’ यस्मात् प्राणः ‘अविज्ञातः’ अविज्ञातरूपः । पूर्ववत् प्राणविभूतिविदः फलमाह- प्राण एनं तद्भूत्वा ऽवतीति । अविज्ञातरूपेणैवास्य प्राणो ऽन्नं भवतीत्यर्थः । यथा शिष्यैरविवेकिभिः सन्दिह्यमानोपकारा अपि गुरवः पुत्रादिभिश्वातिबालैः अविज्ञातोपकाराः पित्रादयः तेषां भोग्यत्वमापद्यन्ते । तथा मनःप्राणयोरपि सन्दिह्यमानाविज्ञातयोरन्नत्वोपपत्तिरिति भावः ॥ १७ ॥
१८
विश्वास-प्रस्तुतिः
त᳘स्यै व्वाचः᳘ पृथिवी श᳘रीरम्॥
(ञ्ज्यो᳘) ज्यो᳘तीरूप᳘मय᳘मग्निस्तद्या᳘वत्येव व्वाक्ता᳘वती पृथिवी ता᳘वानय᳘मग्निः॥
मूलम् - श्रीधरादि
त᳘स्यै व्वाचः᳘ पृथिवी श᳘रीरम्॥
(ञ्ज्यो᳘) ज्यो᳘तीरूप᳘मय᳘मग्निस्तद्या᳘वत्येव व्वाक्ता᳘वती पृथिवी ता᳘वानय᳘मग्निः॥
मूलम् - Weber
त᳘स्यै वाचः᳘ पृथिवी श᳘रीरम्॥
ज्यो᳘ती रूप᳘मय᳘मग्निस्तद्या᳘वत्येव 3 वाक्ता᳘वती पृथिवी ता᳘वानय᳘मग्निः॥
मूलम् - विस्वरम्
तस्यै वाचः पृथिवी शरीरम् । ज्योतीरूपमयमग्निः । तद्यावत्येव वाक् । तावती पृथिवी । तावानयमग्निः ॥ १८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं वाङ्मनःप्राणानां आधिभौतिकं विस्तारमुक्त्वा आधिदैविकं विस्तारमाह- तस्यै वाच इति । ‘तस्यै’ तस्याः प्रजापतेरन्नत्वेन प्रस्तुतायाः ‘वाचः’ ‘पृथिवी शरीरं’ बाह्य आधारः । ‘ज्योतीरूपं’ प्रकाशात्मकं करणं आधेयभूतं अयं पार्थिवो ऽग्निः । आधाराधेयभूतमुभयं पृथिव्यग्नी प्रजापतेर्वागेव । अध्यात्ममधिभूतं च या वाक् परिच्छिन्ना तस्या आधिदैविकवागंशत्वात् अंशांशिनोश्च तादात्म्यात् तया सह तुल्यपरिमाणत्वं दर्शयति- तद्यावतीति । तत्तत्र अध्यात्माधिभूतभेदभिन्ना सती ‘वाक्’ ‘यावत्येव’ यावत्परिमाणैव भवति । तत्र सर्वत्राधारत्वेन व्यवस्थिता कार्यभूता ‘पृथिवी’-’ ‘तावत्येव’ तावत्परिमाणैव भवति । अयं च पार्थिवो ऽग्निः आधेयः करणभूतः ज्योतीरूपेण पृथिवीमनुप्रविष्टः तावानेव भवति ॥ १८ ॥
१९
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थैत᳘स्य म᳘नसो द्यौः श᳘रीरम्॥
(ञ्ज्यो᳘) ज्यो᳘तीरूप᳘मसा᳘वादित्यस्तद्या᳘वदेव म᳘नस्ता᳘वती द्यौस्तावानसा᳘वादित्यस्तौ᳘[[!!]] मिथुनᳫँ᳭ स᳘मैतान्त᳘तः प्प्रा᳘णो ऽजायत स ऽइ᳘न्द्रः स᳘ ऽए᳘षो ऽसपत्नो᳘ द्विती᳘यो वै᳘ सप᳘त्नो᳘ नास्य सप᳘त्नो भवति य᳘ ऽएवम्वे᳘द॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थैत᳘स्य म᳘नसो द्यौः श᳘रीरम्॥
(ञ्ज्यो᳘) ज्यो᳘तीरूप᳘मसा᳘वादित्यस्तद्या᳘वदेव म᳘नस्ता᳘वती द्यौस्तावानसा᳘वादित्यस्तौ᳘[[!!]] मिथुनᳫँ᳭ स᳘मैतान्त᳘तः प्प्रा᳘णो ऽजायत स ऽइ᳘न्द्रः स᳘ ऽए᳘षो ऽसपत्नो᳘ द्विती᳘यो वै᳘ सप᳘त्नो᳘ नास्य सप᳘त्नो भवति य᳘ ऽएवम्वे᳘द॥
मूलम् - Weber
अ᳘थैत᳘स्य म᳘नसो॥
द्यौः श᳘रीरं ज्यो᳘ती रूप᳘मसा᳘वादित्यस्तद्या᳘वदेव 4 म᳘नस्ता᳘वती द्यौस्ता᳘वानसा᳘वादित्यस्तौ᳘ मिथुनᳫं स᳘मैतां त᳘तः प्राॗणोऽजायत स इ᳘न्द्रः स᳘ एॗषोऽसपत्नो᳘ द्विती᳘यो वै᳘ सप᳘त्नोॗ नास्य सप᳘त्नो भवति य᳘ एवम् वेद॥
मूलम् - विस्वरम्
अथैतस्य मनसो द्यौः शरीरम् । ज्योतीरूपमसावादित्यः । तद्यावदेव मनः । तावती द्यौः । तावानसावादित्यः । तौ मिथुनं समैताम् । ततः प्राणः अजायत । स इन्द्रः । स एषो ऽसपत्नः । द्वितीयो वै सपत्नः । नास्य सपत्नो भवति । य एवं वेद ॥ १९ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
अध्यात्ममधिभूतं च मनःप्राणयोः आधिदैविकमनःप्राणांशत्वात्तादात्म्याभिप्रायेण तुल्यपरिमाणत्वमाह- अथैतस्य मनस इति । अथाधिदैविकवाग्विभूतिव्याख्यानानन्तरं ‘एतस्य’ प्राजापत्यान्नत्वेनोक्तस्य ‘मनसः’ ‘द्यौः’ द्युलोकः ‘शरीरं’ कार्यमाधारः । ‘असावादित्यो ज्योतीरूपं’ करणमाधेयः । ‘तत्’ तत्र यावत्परिमाणमेव अध्यात्ममधिभूतं वा ‘मनः’- ‘तावती’ तावद्विस्तारा तावत्परिमाणा ज्योतीरूपस्य करणस्य मनसः आधारत्वेन व्यवस्थिता ‘द्यौः’ । ‘असावादित्यः’ ज्योतीरूपं करणमाधेयं ‘तावान्’ तावत्परिमाण एव । “तत्र मन एवास्यात्मा वाग् जाया प्राणः प्रजा”- इत्यध्यात्मम् । “मन एव पिता वाक् माता प्राणः प्रजा”- इत्यधिदैवतं च वाङ्मनसयोः प्रजात्वं प्राणस्योक्तम् । तथा अधिदैवे ऽपि प्राणस्य तत्प्रजात्वं वाच्यमित्यभिप्रेत्याह- तौ मिथुनमिति । तावग्न्यादित्यौ आधिदैविकौ वाङ्मनसे मातापितरौ- ‘मिथुनं’ मैथुनं इतरेतरसंसर्ग- ‘समैतां’ समगच्छेताम् । ननु- कथम् आदित्यस्य मनसःप्राणं प्रति पितृत्वं, वाचो वा अग्नेः मातृत्वं कथम् ? उच्यते । सावित्रं पाकं आग्नेयं च प्रकाशमृते कार्यसिद्धि दर्शनात् । तयोर्जनकत्वं सिद्धं इति बोध्यम् । ततस्तयोरेव सङ्गमनात् ‘प्राणः’ वायुरजायत परिस्पन्दनाय कर्मणे जातः । वायोः इन्द्रत्वासपत्नत्वगुणविशिष्टस्योपासनमभिप्रेत्याह- स ऽ इन्द्र इति । ‘सः’ प्राणः ‘इन्द्रः’ परमेश्वरः । तथा ‘स एषः’ प्राणः ‘असपत्नः’- अविद्यमानः सपत्नो यस्यासावसपत्नः । कः पुनः सपत्नो नाम प्रतिपक्षत्वेनोपगतः । ‘द्वितीयो वै सपत्नः’- शत्रुरित्युच्यते । तेन द्वितीयत्वे सति वाङ्मनसे न सपत्नत्वं भजेते । असपत्नगुणकप्राणोपासने फलवाक्यं प्रमाणयति- नास्येति । ‘य एवं’ असपत्नं यथोक्तं ‘प्राणं वेद’ अस्योपासकस्य ‘सपत्नः’ प्रतिपक्षो ‘न भवति’ ॥ १९ ॥
२०
विश्वास-प्रस्तुतिः
(दा᳘ ऽथै) अ᳘थैत᳘स्य प्प्राणस्या᳘पः श᳘रीरम्॥
(ञ्ज्यो᳘) ज्यो᳘तीरूप᳘मसौ᳘ चन्द्रस्तद्या᳘वानेव᳘ प्प्राणस्ता᳘वत्य ऽआ᳘पस्ता᳘वानसौ᳘ चन्द्रः॥
मूलम् - श्रीधरादि
(दा᳘ ऽथै) अ᳘थैत᳘स्य प्प्राणस्या᳘पः श᳘रीरम्॥
(ञ्ज्यो᳘) ज्यो᳘तीरूप᳘मसौ᳘ चन्द्रस्तद्या᳘वानेव᳘ प्प्राणस्ता᳘वत्य ऽआ᳘पस्ता᳘वानसौ᳘ चन्द्रः॥
मूलम् - Weber
अ᳘थैत᳘स्य प्राणस्या᳘पः॥
श᳘रीरं ज्यो᳘ती रूप᳘मसौ᳘ 5 चन्द्रस्तद्या᳘वा नेव᳘ प्राणस्ता᳘वत्य आ᳘पस्ता᳘वानसौ᳘ चन्द्रः॥
मूलम् - विस्वरम्
अथैतस्य प्राणस्यापः शरीरम् । ज्योतीरूपमसौ चन्द्रः । तद्यावानेव प्राणः । तावत्य आपः । तावानसौ चन्द्रः ॥ २० ॥
श्रीमद्वासुदेवब्रह्मभगवान्
अथाधिदैविकयोर्वाङ्मनसयोर्विभूतिनिर्द्देशानन्तरं- ‘एतस्य’ प्रकृतस्य प्राजापत्यान्नस्य ‘प्राणस्य’ आपः ‘शरीरं’ आधारः । पूर्ववत् ‘असौ चन्द्रः’ ‘ज्योतीरूपं’ करणमाधेयः । तत्तत्राध्यात्मादिभेदेषु ‘प्राणो यावानेव’ यावत्परिमाणः तावत्यः तावद्व्याप्तिमत्यस्तावत्परिमाणाः ‘आपः’ । तास्वप्सु अनुप्रविष्टः करणभूतः ‘असौ चन्द्रः’ आधेयः अध्यात्ममधिभूतं च ‘तावान्’ तावद्व्याप्तिमानेव ॥ २० ॥
२१
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘ ऽएते स᳘र्व्व ऽएव᳘ समाः[[!!]]॥
स᳘र्व्वे ऽनन्ताः स यो᳘ हैतान᳘न्तवत ऽउपास्ते᳘ ऽन्तवन्तᳫँ᳭ स᳘ लोक᳘ञ्जयत्य᳘थ यो᳘ हैता᳘ननन्ता᳘नुपा᳘स्ते ऽनन्तᳫँ᳭ स᳘ लोक᳘ञ्जयति॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘ ऽएते स᳘र्व्व ऽएव᳘ समाः[[!!]]॥
स᳘र्व्वे ऽनन्ताः स यो᳘ हैतान᳘न्तवत ऽउपास्ते᳘ ऽन्तवन्तᳫँ᳭ स᳘ लोक᳘ञ्जयत्य᳘थ यो᳘ हैता᳘ननन्ता᳘नुपा᳘स्ते ऽनन्तᳫँ᳭ स᳘ लोक᳘ञ्जयति॥
मूलम् - Weber
त᳘ एते स᳘र्व एव᳘ समाः᳟॥
स᳘र्वेऽनन्ताः स यो᳘ हैतान᳘न्तवत उपास्ते᳘ऽन्तवतᳫं स᳘ लोकं᳘ जयत्य᳘थ यो᳘ हैता᳘ननन्ता᳘नुपा᳘स्तेऽनन्तᳫं स᳘ लोकं᳘ जयति॥
मूलम् - विस्वरम्
त एते सर्व एव समाः । सर्वे अनन्ताः । स यो हैतानन्तवत उपास्ते । अन्तवन्तं स लोकं जयति । अथ यो हैवाननन्तानुपास्ते । अनन्तं स लोकं जयति ॥ २१ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
इदानीमेषामाध्यात्मिकाधिभौतिकाधिदैविकानां वाङ्मनःप्राणानां ध्यानार्थं समत्वादिगुणमाह- त ऽएत इति । ‘ते एते’ वाङ्मनःप्राणाः ‘सर्वे एव’ समास्तुल्याः सर्वे व्याप्तिमन्तो यावत्प्राणिगोचरं साध्यात्माधिभूतं व्याप्यावस्थिताः अतः एवानन्ताः यावत्संसारभाविनः कार्यकरणात्मका इत्यर्थः । तेषु परिच्छिन्नत्वेन ध्याने दोषमाह- स इति । ‘स यः’ कश्चित् ‘ह एतान्’ प्रजापतेः पितुरात्मभूतान् ‘अन्तवतः’ परिच्छिन्नान् अध्यात्मरूपेण वा अधिभूतरूपेण वा ‘उपास्ते’ । स च तदुपासनानुरूपमेव फलं ‘अन्तवन्तं लोकं जयति’ परिच्छिन्न एव जायते । नैतेषामात्मभूतो भवतीत्यर्थः । ‘अथ’ पुनः- ‘यो ह’ ‘एतान्’ वागादीन् ‘अनन्तान्’ । सर्वात्मकान् सर्वप्राण्यात्मभूतात् अपरिच्छिन्नानुपास्ते । ‘सः’ ‘अनन्तमेव लोकं जयति’ अनन्तो भवतीत्यर्थः ॥ २१ ॥
२२
विश्वास-प्रस्तुतिः
स᳘ ऽएष᳘ सम्वत्सरः᳘ प्प्रजा᳘पतिः षो᳘डशकलः॥
(स्त᳘) त᳘स्य रा᳘त्रय ऽएव प᳘ञ्चदश कला᳘ ध्रुवै᳘वास्य[[!!]] षोडशी᳘ कला स रा᳘त्रिभिरेवा᳘ च पूर्य्यते᳘ ऽप च क्षीयते᳘ सो ऽमावा᳘स्याᳫँ᳭ रा᳘त्रिमेत᳘या षोडश्या᳘ कल᳘या स᳘र्व्वमिद᳘म्प्राणभृ᳘दनुप्रवि᳘श्य त᳘तः प्प्रात᳘र्ज्जायते त᳘स्मादेता्ᳫँ᳭ रा᳘त्रिम्प्राणभृ᳘तः प्प्राणन्न व्वि᳘च्छिन्द्याद᳘पि कृकलास᳘स्यैत᳘स्या ऽएव᳘ देव᳘ताया ऽअ᳘पचित्यै॥
मूलम् - श्रीधरादि
स᳘ ऽएष᳘ सम्वत्सरः᳘ प्प्रजा᳘पतिः षो᳘डशकलः॥
(स्त᳘) त᳘स्य रा᳘त्रय ऽएव प᳘ञ्चदश कला᳘ ध्रुवै᳘वास्य[[!!]] षोडशी᳘ कला स रा᳘त्रिभिरेवा᳘ च पूर्य्यते᳘ ऽप च क्षीयते᳘ सो ऽमावा᳘स्याᳫँ᳭ रा᳘त्रिमेत᳘या षोडश्या᳘ कल᳘या स᳘र्व्वमिद᳘म्प्राणभृ᳘दनुप्रवि᳘श्य त᳘तः प्प्रात᳘र्ज्जायते त᳘स्मादेता्ᳫँ᳭ रा᳘त्रिम्प्राणभृ᳘तः प्प्राणन्न व्वि᳘च्छिन्द्याद᳘पि कृकलास᳘स्यैत᳘स्या ऽएव᳘ देव᳘ताया ऽअ᳘पचित्यै॥
मूलम् - Weber
स᳘ एष᳘ संवत्सरः᳟॥
प्रजा᳘पतिः षो᳘डशकलस्त᳘स्य रा᳘त्रय एव प᳘ञ्चदश कला᳘ ध्रुॗवैॗवास्य षोडशी᳘ कला स रा᳘त्रिभिरेवा᳘ च पूर्यते᳘ऽप च क्षीयतेॗ सोऽमावाॗस्यां रा᳘त्रिमेत᳘या षोडश्या कल᳘या स᳘र्वमिद᳘म् प्राणभृ᳘दनुप्रवि᳘श्य त᳘तः प्रात᳘र्जायते त᳘स्मादेतां रा᳘त्रिम् प्राणभृ᳘तः प्राणं न वि᳘छिन्द्याद᳘पि कृकलास᳘स्यैत᳘स्या एव᳘ देव᳘ताया अ᳘पचित्यै॥
मूलम् - विस्वरम्
स एष सम्वत्सरः प्रजापतिः षोडशकलः । तस्य रात्रय एव पञ्चदश कलाः । ध्रुवैवास्य षोडशी कला । स रात्रिभिरेवा च पूर्यते, अप च क्षीयते । सो ऽमावास्यां रात्रिमेतया षोडश्या कलया सर्वमिदं प्राणभृदनुप्रविश्य, ततः प्रातर्जायते । तस्मादेतां रात्रिं प्राणभृतः प्राणं न विच्छिन्द्यात् । अपि कृकलासस्य । एतस्या एव देवताया अपचित्यै ॥ २२ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
ननु- फलवद्ध्यानविषये अन्नत्रये व्याख्याते वक्तव्याभावात् किमुत्तरग्रन्थेन इत्याशङ्कायामुच्यते “पिता पाङ्क्तेन कर्म्मणा सप्तान्नानि सृष्ट्वा त्रीण्यन्नानि आत्मार्थमकरोत्” इत्युक्तम् । तान्येतानि पाङ्क्तकर्म्मफलभूतानि व्याख्यातानि । तेषु त्रिष्वप्यन्नेषु पाङ्क्तत्वावपतये आत्मा जाया प्रजा वित्तं कर्म चेति पञ्चकं सङ्ग्रहीतव्यम् । तत्र पृथिव्यग्नी माता । दिवादित्यौ पिता । यो ऽयमनयोरन्तरा प्राणः स प्रजा । इति व्याख्यातम् । तत्र वित्तकर्म्मणी सम्भावयितव्ये इत्येतदर्थ उत्तरो ग्रन्थ आरभ्यते- स ऽएष सम्वत्सर इति । यः अयं त्र्यन्नात्मा ‘प्रजापतिः’ प्रकृतः ‘स एष सम्वत्सरः’ सम्वत्सरात्मना विशेषतो निर्द्दिश्यते । ‘षोडशकलः’ । षोडश कला अवयवा यस्य स षोडशकलः सम्वत्सरात्मा कालरूपः । ता एव षोडश कला आह-तस्य रात्रय एवेति । ‘तस्य’ कालात्मनः प्रजापतेः ‘रात्रय एव’ अहोरात्राणि तिथय एव प्रतिपदाद्याः ‘पञ्चदश कलाः’ । ‘ध्रुवैव’ नित्यैव व्यवस्थिता ‘अस्य’ प्रजापते- ‘षोडशी’ षोडशानां पूरणी कला । एतासां कलानां वित्तत्वं वक्तुं तत्साधर्म्यमाह- स रात्रिभिरेवेति । ‘सः’ चन्द्रात्मा प्रजापतिः ‘रात्रिभिरेव’ प्रतिपदाद्याभिस्तिथिभिः उक्तकलारूपाभिः उपचीयमानाभिः शुक्लपक्षे ‘आपूर्यते’ वर्द्धते । कृष्णपक्षे ताभिरेवापचीयमानाभिः कलाभिः ‘अपक्षीयते’ । सो ऽमावास्यां रात्रिमिति । ‘सः’ कालात्मा प्रजापतिः ‘अमावास्यां’ ‘रात्रिं’ रात्रौ या ध्रुवा कला व्यवस्थितोक्ता । ‘एतया षोडश्या कलया सर्वमिदं प्राणभृत्’ प्राणिजातं स्थावरजङ्गमात्मकं ‘अनुप्रविश्य’ यदपः पिबति यच्चौषधीरश्नाति- तत्सर्वमोषध्यात्मनो व्याप्य अमावास्यां रात्रिमवस्थाय ‘ततः’ अपरेद्युः ‘प्रातर्जायते’ द्वितीयया कलया सङ्युक्तो भवति । एवमसौ प्रजापतिः पाङ्क्तात्मकः संवृत्तः । एवं प्रजापतेः पाङ्क्तं कर्मफलत्वमुक्त्वा प्रासङ्गिकमर्थमाह- तस्मादेतां रात्रिमिति । यस्मादेव चन्द्र एतां रात्रिं सर्वप्राणिजातं अनुप्रविष्टो ध्रुवया कलया वर्तते । तस्माद्धेतोरेताममावास्यां रात्रिं ‘प्राणभृतः’ प्राणिनः ‘प्राणं’ ‘न विच्छिन्द्यात्’ प्राणिनं न प्रमापयेत् इति । किं बहुना कृकलासस्यापि सरटस्यापि प्राणं न विच्छिन्द्यात् । स हि पापात्मा दृष्टो ऽप्यमङ्गलः इति कृत्वा स्वभावेनैव प्राणिभिर्हिस्वत । निषेधप्रयोजनमाह- ‘एतस्या एव देवतायाः’ सोमदेवतायाः- ‘अपचित्यै पूजार्थमित्यर्थः’ ॥ २२ ॥
२३
विश्वास-प्रस्तुतिः
यो वै स᳘ सम्वत्सरः᳘ प्प्रजा᳘पतिः षो᳘डशकलः ॥
(लो ऽय᳘) अय᳘मेव स᳘ यो ऽय᳘मेवम्वित्पु᳘रुषस्त᳘स्य व्वित्त᳘मेव प᳘ञ्चदश कला᳘ ऽआ᳘त्मै᳘वास्य षोडशी᳘ कला स᳘ वित्ते᳘नैवा᳘ च पूर्य्यते᳘ ऽप च क्षीयते त᳘देतन्न᳘भ्यं य᳘दय᳘मात्मा᳘ प्रधि᳘र्व्वित्तन्त᳘स्माद्यद्य᳘पि सर्व्वज्यानिञ्जी᳘यत ऽआत्म᳘ना चेज्जी᳘वति प्प्रधि᳘ना ऽऽगादि᳘त्याहुः॥
मूलम् - श्रीधरादि
यो वै स᳘ सम्वत्सरः᳘ प्प्रजा᳘पतिः षो᳘डशकलः ॥
(लो ऽय᳘) अय᳘मेव स᳘ यो ऽय᳘मेवम्वित्पु᳘रुषस्त᳘स्य व्वित्त᳘मेव प᳘ञ्चदश कला᳘ ऽआ᳘त्मै᳘वास्य षोडशी᳘ कला स᳘ वित्ते᳘नैवा᳘ च पूर्य्यते᳘ ऽप च क्षीयते त᳘देतन्न᳘भ्यं य᳘दय᳘मात्मा᳘ प्रधि᳘र्व्वित्तन्त᳘स्माद्यद्य᳘पि सर्व्वज्यानिञ्जी᳘यत ऽआत्म᳘ना चेज्जी᳘वति प्प्रधि᳘ना ऽऽगादि᳘त्याहुः॥
मूलम् - Weber
यो वै स᳘ संवत्सरः᳟॥
प्रजा᳘पतिः॥
षो᳘डशकलोऽय᳘मेव सॗ योऽय᳘मेवंवित्पु᳘रुषस्त᳘स्य वित्त᳘मेव प᳘ञ्चदश कला᳘ आॗत्मैॗवास्य षोडशी᳘ कला स᳘ वित्ते᳘नैवा᳘ च पूर्यते᳘ऽप च क्षीयते त᳘देतन्न᳘भ्यं य᳘दय᳘मात्मा᳘ प्रधि᳘र्वित्तं त᳘स्माद्यद्य᳘पि सर्वज्यानिं जी᳘यत आत्म᳘ना चेज्जी᳘वति प्रधि᳘नागादि᳘त्याहुः॥
मूलम् - विस्वरम्
यो वै स सम्वत्सरः प्रजापतिः षोडशकलः । अयमेव सः । यः अयमेवंवित्पुरुषः । तस्य वित्तमेव पञ्चदश कलाः । आत्मैवास्य षोडशी कला । स वित्तेनैवा च पूर्यते । अप च क्षीयते । तदेतन्नभ्यम् । यदयमात्मा । प्रधिर्वित्तम् । तस्माद्यद्यपि सर्वज्यानिं जीयते । आत्मना चेज्जीवति प्रधिना ऽगात् इत्याहुः ॥ २३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
यत्पूर्वमाधिदैविकत्र्यन्नात्मकप्रजापत्युपासनमुक्तं, तदहमस्मि प्रजापतिरित्यहंग्रहेण कर्तव्यमित्याह- यो वा इति । ‘यो वै’ परो ऽक्षः अभिहितः ‘सम्वत्सरः प्रजापतिः षोडशकलः’- ‘सः’ नैवात्यन्तं परो ऽक्षो मन्तव्यः । यस्मात् ‘अयमेव सः’ प्रत्यक्ष उपलभ्यते । को ऽसौ ‘यः अयं’ पुरुष- ‘एवंवित्’ यो यथोक्तं त्र्यन्नात्मकं प्रजापतिमात्मभूतं वेति सो ऽयं प्रत्यक्षः प्रजापतिः । केन सामान्येन प्रजापतिरित्यत आह- तस्येति । ‘तस्य’ एवंविदः पुरुषस्य गवादि ‘वित्तमेव पञ्चदश कलाः’ कलावत् उपचयापचयधर्मित्वात् । ‘अस्य’ विदुषः ‘आत्मैव’ पिण्ड एव ‘षोडशी कला’ ध्रुवास्थानीया । ‘सः’ विद्वान् चन्द्रवत् ‘वित्तेनैव’ ‘आपूर्यते’ ‘अपक्षीयते च’ । आत्मैव ध्रुवा कला इत्युक्तम् । तदेव रथचक्रदृष्टान्तेन स्पष्टयति- तदेतन्नभ्यमिति । नाभिश्चक्रपिण्डिका नाभ्यै हितं नाभिमर्हतीति वा ‘नभ्यम्’ । तदेतल्लोके प्रसिद्धं चक्रपिण्डिकास्थानीयम् । किं तत् ? ‘यदयमात्मा’ यो ऽयं पिण्डः शरीरम् । ‘प्रधिः’ परिवारस्थानीयं बाह्यं ‘वित्तं’ चक्रस्येवारनेम्यादि । एवं सति फलितमाह-तस्माद्यद्यपीति । यस्माच्छरीरं स्वचक्रपिण्डिकास्थानीयं ‘तस्माद्यद्यपि’ ‘सर्वज्यानिं’ सर्वस्वापहरणं जीयते हीयते ग्लानिं प्राप्नोति । ‘तथा ऽपि ‘चेत्’ यदि ‘आत्मना’ शरीरेण नाभिस्थानीयेन ‘जीवति’ तदा ‘प्रधिना’ बाह्येन परिवारेण अयं ‘आगात्’ क्षीणो ऽयं यथा चक्रमरनेमिविमुक्तं एवमाहुर्लौकिकाः । जीवंश्चेत् तर्हि अरनेभिस्थानीयेन वित्तेन पुनरुपचीयते इति वाक्यार्थः ॥ २३ ॥
२४
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थ त्र᳘यो वाव᳘ लोकाः᳘॥
(०) मनुष्यलोकः᳘ पितृलोको᳘ देवलोक ऽइ᳘ति᳘[[!!]] सो ऽय᳘म्मनुष्यलोकः᳘ पुत्रे᳘णैव ज᳘य्यो᳘ नान्ये᳘न क᳘र्म्मणा क᳘र्म्मणा पितृलोको᳘ व्विद्य᳘या देवलोको᳘ देवलोको वै᳘ लोका᳘नाᳫँ᳭ श्रे᳘ष्ठस्त᳘स्माद्विद्याम्प्र᳘शᳫँ᳭सन्ति॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थ त्र᳘यो वाव᳘ लोकाः᳘॥
(०) मनुष्यलोकः᳘ पितृलोको᳘ देवलोक ऽइ᳘ति᳘[[!!]] सो ऽय᳘म्मनुष्यलोकः᳘ पुत्रे᳘णैव ज᳘य्यो᳘ नान्ये᳘न क᳘र्म्मणा क᳘र्म्मणा पितृलोको᳘ व्विद्य᳘या देवलोको᳘ देवलोको वै᳘ लोका᳘नाᳫँ᳭ श्रे᳘ष्ठस्त᳘स्माद्विद्याम्प्र᳘शᳫँ᳭सन्ति॥
मूलम् - Weber
अ᳘थ त्र᳘यो वाव᳘ लोकाः᳟॥
मनुष्यलोकः᳘ पितृलोको᳘ देवलोक᳘ इ᳘तिॗ सोऽय᳘म् मनुष्यलोकः᳘ पुत्रे᳘णैव ज᳘य्योॗ नान्ये᳘न क᳘र्मणा पितृलोको᳘ विद्य᳘या देवलोको᳘ देवलोको वै᳘ लोका᳘नां श्रे᳘ष्ठस्त᳘स्माद्विद्याम् प्र᳘शंसन्ति॥
मूलम् - विस्वरम्
अथ त्रयो वाव लोकाः- मनुष्यलोकः पितृलोको देवलोक इति । सो ऽयं मनुष्यलोकः पुत्रेणैव जय्यः । नान्येन कर्मणा । कर्मणा पितृलोकः । विद्यया देवलोकः । देवलोको वै लोकानां श्रेष्ठः । तस्माद्विद्यां प्रशंसन्ति ॥ २४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
ननु- अन्नत्रयात्मनि प्रजापतौ अहङ्ग्रहोपासनफलस्योक्तत्वात् वक्तव्याभावात् उत्तरग्रन्थवैयर्थ्यमित्याशङ्कायामुच्यते- एवं पाङ्क्तेन देववित्तविद्यासंयुक्तेन कर्म्मणा अन्नात्मकः प्रजापतिभावो व्याख्यातः । अनन्तरं च जायादि वित्तं परिवारस्थानीयमित्युक्तम् । तत्र पुत्रकर्मापरविद्यानां लोकप्राप्तिसाधनमात्रं सामान्येनावगतम् । न पुनः पुत्रादीनां लोकप्राप्तिफलं प्रति विशेषसम्बन्धनियमः अवगतः । स वक्तव्य इति तत्प्रदर्शनार्थं अथ त्रयो वाव इति कण्डिका प्रणीयते । अथशब्दो वाक्योपन्यासार्थः । वावेत्यवधारणार्थः । शास्त्रोक्तसाधनार्हा लोकास्त्रय एव । न न्यूना नाधिका वा । के ते इत्यत आह- मनुष्यलोकः पितृलोको देवलोक इति । केन कः साध्य इत्यपेक्षायामाह- सो ऽयमिति । तेषां मध्ये ‘सो ऽयं मनुष्यलोकः’ ‘पुत्रेणैव’ साधनेन ‘जय्यः’ जेतव्यः साध्यः । ‘नान्येन कर्म्मणा’ विद्यया वेति वाक्यशेषः । ‘कर्म्मणा’ अग्निहोत्रादिलक्षणेन केवलेन ‘पितृलोकः’ जेतव्यः । न पुत्रेण नापि विद्यया । ‘विद्यया’ अपरविद्यया ‘देवलोकः’ जेतव्यः । न पुत्रेण नापि विद्यया न कर्मणेत्यनुषज्यते । ‘देवलोको वै’ प्रसिद्धः- ‘लोकानां’ त्रयाणां मध्ये ‘श्रेष्ठः’ प्रशस्यतमः । ‘तस्मात्’ देवलोकसाधनत्वात् ‘विद्यां प्रशंसन्ति’ स्तुवन्ति ॥ २४ ॥
२५
विश्वास-प्रस्तुतिः
(न्त्य) अथा᳘तः सम्प्र᳘त्तिः॥
(र्य्य) यदा᳘ प्रैष्यन्म᳘न्यते ऽथ पुत्र᳘माह त्वम्ब्र᳘ह्म त्वं᳘ यज्ञस्त्वं᳘ लोक ऽइ᳘ति स᳘ पुत्रः प्प्र᳘त्याहाह᳘म्ब्रह्माहं᳘[[!!]] यज्ञो ऽहं᳘[[!!]] लोक ऽइ᳘ति॥
मूलम् - श्रीधरादि
(न्त्य) अथा᳘तः सम्प्र᳘त्तिः॥
(र्य्य) यदा᳘ प्रैष्यन्म᳘न्यते ऽथ पुत्र᳘माह त्वम्ब्र᳘ह्म त्वं᳘ यज्ञस्त्वं᳘ लोक ऽइ᳘ति स᳘ पुत्रः प्प्र᳘त्याहाह᳘म्ब्रह्माहं᳘[[!!]] यज्ञो ऽहं᳘[[!!]] लोक ऽइ᳘ति॥
मूलम् - Weber
अथा᳘तः सम्प्र᳘त्तिः॥
यदा᳘ प्रैष्यन्म᳘न्यतेऽथ पुत्र᳘माह त्वम् ब्र᳘ह्म त्वं᳘ यज्ञस्त्वं᳘ लोक इ᳘ति स᳘ पुत्रः प्र᳘त्याहाहम् ब्र᳘ह्माहं᳘ यॗज्ञोऽहं᳘ लोक इ᳘ति॥
मूलम् - विस्वरम्
अथातः सम्प्रत्तिः । यदा प्रैष्यन्मन्यते । अथ पुत्रमाह । त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति । स पुत्रः प्रत्याह । अहं ब्रह्मा ऽहं यज्ञो ऽहं लोक इति ॥ २५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं साध्यलोकत्रयफलभेदेन विनियुक्तानि पुत्रकर्मविद्या ऽऽख्यानि त्रीणि साधनानि । जाया तु पुत्रकर्मार्थत्वात् न पृथक् साधनम् इति पृथक् नाभिहिता । वित्तं च कर्मसाधनत्वात् न पृथक् साधनम् । विद्याकर्मणोर्लोकजयहेतुत्वं स्वात्मप्रतिलाभेनैव भवतीति प्रसिद्धम् । पुत्रत्वस्य क्रियात्मकत्वात् केन प्रकारेण लोकजयहेतुत्वमिति न ज्ञायते । अतस्तद्वक्तव्यमित्यथानन्तरमारभ्यते- अथात इति । ‘अथ’ पुत्रकर्मविद्या ऽऽख्यानां साधनानां साध्यविशेषसम्बन्धकथनानन्तरं यतः पुत्रस्य एतल्लोकसाधनत्वं कथमिति न ज्ञायते । अतस्तत्कथयितुं ‘सम्प्रत्तिः’ सम्प्रदानमारभ्यते । पुत्रैर्हि पिता वक्ष्यमाणप्रकारेण स्वात्मव्यापारसम्प्रदानं करोति । तेन सम्प्रत्तिसंज्ञकमिदङ्कर्म्म । सम् प्र इत्युपसर्गद्वयपूर्वकाद्दाधातोः- “स्त्रियां क्तिन्”- (पा. सू. ३ । ३ । ९४) इति क्तिनि “अच उपसर्गात्तः” (पा. सू. ७ । ४ । ४७) इति सूत्रेण आत्तं प्रत्तमितिवत् सम्प्रत्तिरिति बोद्धव्यम् । तत्कर्म कस्मिन् काले कर्तव्यमित्यपेक्षायामाह- यदा प्रैष्यन्निति । स पिता ‘यदा’ यस्मिन् काले ‘प्रैष्यन्’ प्रव्रजिष्यामि मरिष्यामीति वा अरिष्टदुःस्वप्नादिदर्शनेन ‘मन्यते’ । ‘अथ’ तदा पुत्रमाहूयाह- त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति । ‘सः’ एवमुक्तः ‘पुत्रः’ पूर्वमेवानुशिष्टत्वात् ‘प्रत्याह’ प्रतिवचनमाह- ‘अहं ब्रह्मा ऽहं यज्ञो ऽहं लोकः’ ‘इति’ ॥ २५ ॥
२६
विश्वास-प्रस्तुतिः
यद्वै किञ्चा᳘नूक्तम्॥
(न्त᳘) त᳘स्य स᳘र्व्वस्य ब्रह्मे᳘त्येक᳘ता ये वै के᳘ च यज्ञास्ते᳘षाᳫँ᳭ स᳘र्व्वेषां यज्ञ ऽइ᳘त्येक᳘ता ये वै के᳘ च लोकास्ते᳘षाᳫँ᳭ स᳘र्व्वेषां लोक ऽइ᳘त्येक᳘तैता᳘वद्वा᳘ ऽइदᳫँ᳭ स᳘र्व्वमेत᳘न्मा स᳘र्व्वᳫँ᳭ स᳘न्नय᳘मितो᳘ ऽभुनजदि᳘ति त᳘स्मात्पुत्रम᳘नुशिष्टं लो᳘क्यमाहुस्त᳘स्मादेनम᳘नुशासति[[!!]] स᳘ य᳘दैवम्वि᳘दस्मा᳘ल्लोकात्प्रैत्य᳘थैभि᳘रेव᳘ प्प्राणैः᳘ सह᳘ पु᳘त्रमा᳘विशति स य᳘द्यने᳘न कि᳘ञ्चिदक्ष्णया᳘ ऽकृतम्भ᳘वति त᳘स्मादेनᳫँ᳭ स᳘र्व्वस्मात्पुत्रो᳘ मुञ्चति त᳘स्मात्पुत्रो ना᳘म स᳘ पुत्रे᳘णै᳘वास्मिल्ँ᳘लोके प्प्र᳘तितिष्ठत्य᳘थैनमेते दै᳘वाः प्प्राणा᳘ ऽअमृ᳘ता ऽआविशन्ति[[!!]]॥
मूलम् - श्रीधरादि
यद्वै किञ्चा᳘नूक्तम्॥
(न्त᳘) त᳘स्य स᳘र्व्वस्य ब्रह्मे᳘त्येक᳘ता ये वै के᳘ च यज्ञास्ते᳘षाᳫँ᳭ स᳘र्व्वेषां यज्ञ ऽइ᳘त्येक᳘ता ये वै के᳘ च लोकास्ते᳘षाᳫँ᳭ स᳘र्व्वेषां लोक ऽइ᳘त्येक᳘तैता᳘वद्वा᳘ ऽइदᳫँ᳭ स᳘र्व्वमेत᳘न्मा स᳘र्व्वᳫँ᳭ स᳘न्नय᳘मितो᳘ ऽभुनजदि᳘ति त᳘स्मात्पुत्रम᳘नुशिष्टं लो᳘क्यमाहुस्त᳘स्मादेनम᳘नुशासति[[!!]] स᳘ य᳘दैवम्वि᳘दस्मा᳘ल्लोकात्प्रैत्य᳘थैभि᳘रेव᳘ प्प्राणैः᳘ सह᳘ पु᳘त्रमा᳘विशति स य᳘द्यने᳘न कि᳘ञ्चिदक्ष्णया᳘ ऽकृतम्भ᳘वति त᳘स्मादेनᳫँ᳭ स᳘र्व्वस्मात्पुत्रो᳘ मुञ्चति त᳘स्मात्पुत्रो ना᳘म स᳘ पुत्रे᳘णै᳘वास्मिल्ँ᳘लोके प्प्र᳘तितिष्ठत्य᳘थैनमेते दै᳘वाः प्प्राणा᳘ ऽअमृ᳘ता ऽआविशन्ति[[!!]]॥
मूलम् - Weber
यद्वै किं चा᳘नूक्तम्॥
त᳘स्य स᳘र्वस्य ब्रह्मे᳘त्येक᳘ता ये वै के᳘ च यज्ञास्ते᳘षाᳫं स᳘र्वेषां यज्ञ इ᳘त्येक᳘ता ये वै के᳘ च लोकास्ते᳘षाᳫं स᳘र्वेषां लोक इ᳘त्येक᳘तैता᳘वद्वा᳘ इदᳫं स᳘र्वमेत᳘न्मा स᳘र्वᳫं स᳘न्नय᳘मितो᳘ भुनजदि᳘ति 6 त᳘स्मात्पुत्रम᳘नुशिष्टं लोक्य᳘माहुस्त᳘स्मादेनम᳘नुशासति स᳘ यॗदैवंवि᳘दस्मा᳘ल्लोकात्प्रैत्य᳘थैभि᳘रेव प्राणैः᳘ सह᳘ पुत्रमा᳘विशति स य᳘द्यने᳘न किं᳘चिदक्ष्णया᳘कृतम् भ᳘वति त᳘स्मादेनᳫं स᳘र्वस्मात्पुत्रो᳘ मुञ्चति त᳘स्मात्पुत्रो ना᳘म स᳘ पुत्रे᳘णैॗवास्मिं᳘लोके प्र᳘तितिष्ठत्य᳘थैनमेते दै᳘वाः प्राणा᳘ अमृ᳘ता आ᳘विशन्ति॥
मूलम् - विस्वरम्
यद्वै किञ्चानूक्तम् । तस्य सर्वस्य ब्रह्मेत्येकता । ये वै के च यज्ञाः । तेषां सर्वेषां यज्ञ इत्येकता । ये वै के च लोकाः । तेषां सर्वेषां लोक इत्येकता । एतावद्वा इदं सर्वम् । एतन्मा सर्वं सन्नयमितो ऽभुनजदिति । तस्मात्पुत्रमनुशिष्टं लोक्यमाहुः । तस्मादेनमनुशासति । स यदा एवंविदस्माल्लोकात्प्रैति । अथैभिरेव प्राणैः सह पुत्रमाविशति । स यदि अनेन किञ्चिदक्ष्णया अकृतं भवति । तस्मादेनं सर्वस्मात्पुत्रो मुञ्चति । तस्मात्पुत्रो नाम । पुत्रेणैवास्मिन् लोके प्रतितिष्ठति । अथैनमेते दैवाः प्राणा अमृता आविशन्ति ॥ २६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एतद्वाक्यत्रयस्यार्थस्तिरोहित इति मन्वाना श्रुतिर्व्याख्यानाय प्रवर्तते- यद्वै किञ्चेति । यत्किञ्चानूक्तमवशिष्टमधीतमनधीतं च । ‘तस्य सर्वस्यैव’ ‘ब्रह्म’ इत्येतस्मिन्पदे ‘एकता’ एकत्वपदार्थः । य अध्ययनव्यापारो मम कर्तव्य आसीत् एतावन्तं कालं वेदविषयः । स इत ऊर्ध्वं त्वं ब्रह्म त्वत्कर्तृको ऽस्त्विति वाक्यार्थः । तथा ‘ये वै के च यज्ञाः’ अनुष्ठेयाः सन्तो मया अनुष्ठिता अननुष्ठिताश्च ‘तेषां’ ‘सर्वेषां’ यज्ञ इत्येतस्मिन् पदे ‘एकता’ एकत्वं मत्कर्तृका यज्ञा ये आसन् ते इत ऊर्ध्वं त्वं यज्ञः त्वत्कर्तृका भवन्त्वित्यर्थः । तथा ‘ये वै के च लोकाः’ मया जेतव्याः सन्तो जिता अजिताश्च । ‘तेषां सर्वेषां लोकः’ इत्येतस्मिन्पदे ‘एकता’ । ते इत ऊर्ध्वं- त्वं लोकः त्वया जेतव्या इत्यर्थः । इत ऊर्ध्वं मया कर्तव्याध्ययनयज्ञलोकजयहेतुभूतक्रियासङ्कल्पस्त्वयि समर्पितः । अहं तु कर्तव्यताबन्धनविषयात् सङ्कल्पान्मुक्तो ऽस्मीति वदितुः पितुरभिप्रायं श्रुतिराह- एतावद्वा इति । यद्गृहिणा कर्तव्यं यदुत वेदा अध्येतव्याः- यज्ञा यष्टव्याः लोकाश्च जेतव्याः ‘इदं सर्वमेतावद्वै’ एतत्परिमाणमेव । ‘एतत्’ सर्वं ‘सन्नयं’ पुत्रः ‘सर्वं’ हीमं भारं मदधीनं मत्तो ऽपच्छिद्य आत्मनि निधाय ‘इतः’ अस्माद् बन्धहेतुभूताल्लोकात्- ‘मा’ मां- ‘अभुनजन्’ पालयिष्यतीति । “छन्दसि लुङ्लङ्लिटः” (पा. सू. ३ । ४ । ६) इति छन्दसि कालनियमाभावात् लृडर्थे लङ् । इदानीं पुत्रानुशासनस्य फलवत्त्वमाह- तस्मात्पुत्रमिति । यस्मादेवं सम्पन्नः पुत्रः पितरमस्माल्लोकात्कर्तव्यताबन्धनतो विमोचयिष्यति । तस्मात्पुत्रमनुशिष्टं लोक्यं पितुर्लोकहितमाहुर्ब्राह्मणाः । ‘तस्मात्’ उक्तहेतोरेव इदानीन्तना अपि पितरः ‘एनं’ पुत्रं ‘अनुशासति’ शिक्षयन्ति लोक्यो ऽयमस्माकं स्यात् इति मन्वानाः । कृतसम्प्रत्तिकः पिता किं करोतीत्यपेक्षायामाह- स यदेति । ‘सः’ पुत्रसमर्पितकर्तव्यताकः पिता अहमस्मि अनन्ताः आध्यात्मादिभेदविस्तराः वाङ्मनःप्राणा इत्येवंवित् एवम्भावनः ‘यदा’ यस्मिन् काले ‘अस्माल्लोकात्प्रैति’ म्रियते ‘अथ’ तदा ‘एभिरेव प्राणैः’ प्रकृतैर्वाङ्मनःप्राणैरेव ‘सह’ सार्द्धं ‘पुत्रं’ ‘आविशति’ व्याप्नोति । मृतो ऽपि पिता अनुशिष्टपुत्रात्मना अस्मिन्नेव लोके वर्तते । नास्मादत्यन्तं व्यावृत्तः । फलरूपेण च परत्र वर्तत इति भावः । इदानीं पुत्रनिर्वचनमाह- स यद्यनेनेति । ‘सः’ पुत्रः ‘यदि’ कदाचित्- ‘अनेन’ पित्रा ‘अक्ष्णया’ कोणच्छिद्रतः अन्तरा कर्तव्यं किञ्चिदकृतं कस्मिंश्चित् कर्मैकदेशे कर्तव्यं सत् विस्मृतं ‘अकृतं भवति’ तस्मादकृतात् कर्तव्यतारूपात् ‘सर्वस्मात्’ सर्वलोकप्राप्तिबन्धरूपात् ‘एनं’ पितरं- ‘मुञ्चति’ मोचयति । तत्सर्वं स्वयमनुतिष्ठन् पितुश्छिद्रं पूरयित्वा पितरं त्रायते । ‘तस्मात्पुत्रो नाम’ । इदं तत्पुत्रस्य पुत्रत्वम् । इदानीं पितुः पुत्रतादात्म्येन एतल्लोकावस्थानमुक्तं निगमयति- स पुत्रेणैवेति । ‘सः’ पिता मृतो ऽपि सन् एवंविधेन पुत्रेण अमृतो ऽस्मिन् लोके ‘प्रतितिष्ठति’ वर्तते । एवं प्रासङ्गिकं निरूप्य प्रकृतं पितरमेवाधिकृत्याह- अथैनमिति । पुत्रप्रकरणविच्छेदार्थः अथशब्दः । ‘एनं’ कृतसम्प्रत्तिकं पितरं एते वागादयः ‘प्राणाः’ ‘दैवाः’ हैरण्यगर्भाः ‘अमृताः’ अमरणधर्माण ‘आविशन्ति’ ॥ २६ ॥
२७
विश्वास-प्रस्तुतिः
पृथिव्यै᳘ चैनमग्ने᳘श्च दै᳘वी व्वागा᳘विशति॥
सा वै दै᳘वी व्वाग्य᳘या य᳘द्यदेव व्व᳘दति त᳘त्तद्भ᳘वति॥
मूलम् - श्रीधरादि
पृथिव्यै᳘ चैनमग्ने᳘श्च दै᳘वी व्वागा᳘विशति॥
सा वै दै᳘वी व्वाग्य᳘या य᳘द्यदेव व्व᳘दति त᳘त्तद्भ᳘वति॥
मूलम् - Weber
पृथिव्यै᳘ चैनमग्ने᳘श्च॥
दै᳘वी वागा᳘विशति सा वै दै᳘वी वाग्य᳘या य᳘द्यदेव व᳘दति त᳘त्तद्भ᳘वति 7 ॥
मूलम् - विस्वरम्
पृथिव्यै चैनमग्नेश्च दैवी वागाविशति । सा वै दैवी वाक् । यया यद्यदेव वदति । तत्तद्भवति ॥ २७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
कथमित्यपेक्षायां तेषामावेशनप्रकारमाह- पृथिव्यै चैनमिति । ‘पृथिव्यै’ पृथिव्याः ‘अग्नेश्च’ सकाशात् ‘दैवी’ आधिदैवात्मिका ‘वाक्’ ‘एनं’ कृतसम्प्रत्तिकं पितरं ‘आविशति’ । सा हि दैवी वाक् पृथिव्यग्निलक्षणा ऽऽध्यात्मिकासङ्गादिदोषैर्निरुद्धा विदुषस्तद्दोषागमे आवरणभङ्गे सति उदकमिव प्रदीपे प्रकाशवच्च व्याप्नोतीत्यर्थः । सा पुनः कीदृग्विधेत्यत आह- सा वै दैवी वागिति । ‘सा’ च दैवी वाक् अनृतादिदोषरहिता शुद्धा ‘यया’ दैव्या वाचा ‘यत् यदेव’ आत्मने परस्मै वा ‘वदति’ । ‘तत्तद्भवति’ । अमोघा अप्रतिबद्धा अस्य वाग्भवतीत्यर्थः ॥ २७ ॥
२८
विश्वास-प्रस्तुतिः
दिव᳘श्चैनमादित्या᳘च्च दै᳘वम्म᳘न ऽआ᳘विशति॥
तद्वै दै᳘वम्म᳘नो ये᳘नान᳘न्द्येव भ᳘वत्य᳘थो न᳘ शोचति॥
मूलम् - श्रीधरादि
दिव᳘श्चैनमादित्या᳘च्च दै᳘वम्म᳘न ऽआ᳘विशति॥
तद्वै दै᳘वम्म᳘नो ये᳘नान᳘न्द्येव भ᳘वत्य᳘थो न᳘ शोचति॥
मूलम् - Weber
दिव᳘श्चैनमादित्या᳘च्च॥
दै᳘वम् म᳘न आ᳘विशति तद्वै दै᳘वम् म᳘नो ये᳘नानॗन्द्येव भ᳘वत्य᳘थो न᳘ शोचति॥
मूलम् - विस्वरम्
दिवश्चैनमादित्याच्च देवं मन आविशति । तद्वै दैवं मनः । येनानन्द्येव भवति । अथो न शोचति ॥ २८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तथा ‘दिवः’ द्युलोकात् ‘आदित्याच्च’ ‘दैवं मनः’ ‘एनं’ पितरं ‘आविशन्ति’ । किन्तदित्यत आह- तद्वै दैवं मन इति । ‘तच्च दैवं मनः’ स्वभावनिर्मलत्वात् ‘येन’ मनसा ‘आनन्द्येव’ सुख्येव ‘भवति’ । ‘अथो’ अपि ‘न शोचति’ शोकादिनिमित्तसंयोगात् ॥ २८ ॥
२९
विश्वास-प्रस्तुतिः
(त्य) अद्भ्य᳘श्चैनञ्चन्द्र᳘मसश्च दै᳘वः प्प्राण ऽआ᳘विशति॥
स वै दै᳘वः प्प्राणो यः᳘ सञ्च᳘रंश्चा᳘सञ्चरंश्च न व्व्य᳘थते᳘ ऽथो न रि᳘ष्यति स᳘ ऽएष᳘ ऽएवम्वित्स᳘र्व्वेषाम्भूता᳘नामात्मा᳘ भवति य᳘थैषा᳘ देव᳘तैवᳫँ᳭ स य᳘थैता᳘न्देव᳘ताᳫँ᳭ स᳘र्व्वाणि भूतान्य᳘वन्त्येव᳘ᳫँ᳘ हैवम्वि᳘दᳫँ᳭ स᳘र्व्वाणि भूता᳘न्यवन्ति य᳘दुकि᳘ञ्चेमाः᳘ प्प्रजाः शो᳘चन्त्य᳘मै᳘वासान्त᳘द्भवति पु᳘ण्यमे᳘वामु᳘ङ्गच्छति न᳘ ह वै᳘ देवा᳘न्पाप᳘ङ्गच्छति॥
मूलम् - श्रीधरादि
(त्य) अद्भ्य᳘श्चैनञ्चन्द्र᳘मसश्च दै᳘वः प्प्राण ऽआ᳘विशति॥
स वै दै᳘वः प्प्राणो यः᳘ सञ्च᳘रंश्चा᳘सञ्चरंश्च न व्व्य᳘थते᳘ ऽथो न रि᳘ष्यति स᳘ ऽएष᳘ ऽएवम्वित्स᳘र्व्वेषाम्भूता᳘नामात्मा᳘ भवति य᳘थैषा᳘ देव᳘तैवᳫँ᳭ स य᳘थैता᳘न्देव᳘ताᳫँ᳭ स᳘र्व्वाणि भूतान्य᳘वन्त्येव᳘ᳫँ᳘ हैवम्वि᳘दᳫँ᳭ स᳘र्व्वाणि भूता᳘न्यवन्ति य᳘दुकि᳘ञ्चेमाः᳘ प्प्रजाः शो᳘चन्त्य᳘मै᳘वासान्त᳘द्भवति पु᳘ण्यमे᳘वामु᳘ङ्गच्छति न᳘ ह वै᳘ देवा᳘न्पाप᳘ङ्गच्छति॥
मूलम् - Weber
अद्भ्य᳘श्चैनं चन्द्र᳘मसश्च॥
दै᳘वः प्राण आ᳘विशति स वै दै᳘वः प्राणो यः᳘ संच᳘रंश्चा᳘संचरंश्च न व्य᳘थते᳘ऽथो न रि᳘श्यति स᳘ एष᳘ एवंवित्स᳘र्वेषाम् भूता᳘नामात्मा᳘ भवति य᳘थैषा᳘ देव᳘तैवᳫं स य᳘थैतां᳘ देव᳘ताᳫं स᳘र्वाणि भूतान्य᳘वन्त्येव᳘ᳫं᳘ हैवंवि᳘दᳫं स᳘र्वाणि भूता᳘न्यवन्ति य᳘दु किं᳘ चेमाः᳘ प्रजाः शो᳘चन्त्यॗमैॗवासां त᳘द्भवति पु᳘ण्यमेॗवामुं᳘ गछति न᳘ ह वै᳘ देवा᳘न्पापं᳘ गछति॥
मूलम् - विस्वरम्
अद्भ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति । स वै दैवः प्राणः । यः सञ्चरंश्चासञ्चरंश्च न व्यथते । अथो न रिष्यति । स एष एवंवित्सर्वेषां भूतानामात्मा भवति । यथैषा देवता । एवं सः । यथैतां देवतां सर्वाणि भूतानि अवन्ति । एवं ह एवंविदं सर्वाणि भूतानि अवन्ति । यदु किञ्च । इमाः प्रजाः शोचन्ति । अमैवासां तद्भवति । पुण्यमेवामुं गच्छति । न ह वै देवान्पापं गच्छति ॥ २९ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तथा ‘अद्भ्यश्च चन्द्रमसश्च’ सकाशात्- ‘दैवः प्राणः’ ‘एनं’ पितरं ‘आविशति’ । ‘स वै दैवः प्राणः’ । स किंलक्षण इत्यत आह- ‘यः’ जङ्गमेषु ‘सञ्चरन्’ स्थावरेष्वसञ्चरन् ‘न व्यथते’ न दुःखनिमित्तेन भयेन युज्यते । ‘अथो’ अपि ‘न रिष्यति’ न विनश्यति न हिंसामापद्यते । एवंविदः फलमाह- स एष इति । य एवं यथोक्तं त्र्यन्नात्मदर्शनं वा वेत्ति । ‘स एषः’ ‘सर्वेषां भूतानामात्मा भवति’ । सर्वेषां भूतानां मनो भवति वाक् भवति- इत्येवं सर्वभूतात्मतया सर्वकृच्च भवतीत्यर्थः । ‘यथैषा’ पूर्वसिद्धा हिरण्यगर्भदेवता एवमेव ‘सः’ नास्य सर्वज्ञत्वे सर्वकृत्वे वा क्वचित्प्रतिघातः । किञ्च स इति दृष्टान्तनिर्द्देशः । यथा ‘एतां’ हिरण्यगर्भदेवतां इज्यादिभिः ‘सर्वाणि भूतानि अवन्ति’ पालयन्ति पूजयन्ति । ‘एवं ह’- एवमेव ‘एवंविदं सर्वाणि भूतान्यवन्ति’ इज्यादिलक्षणां पूजां सन्ततं प्रयुञ्जत इत्यर्थः । ननु- अस्य विदुषः सर्वप्राणिनामात्मत्वेन तत्कार्यकरणात्मत्वात् सर्वप्राणिदुःखैरस्य सम्बन्धः स्यादित्यत आह- यदु किञ्चेति । ‘उ’ पुनः ‘यत्किञ्च’ ‘इमाः प्रजाः’ ‘शोचन्ति’ अवसीदन्ति- ‘अमैव’ सहैव प्रजाभिस्तच्छोकादिनिमित्तं दुःखं संयुक्तं ‘आसां’ प्रजानां ‘भवति’ परिच्छिन्नबुद्धिजनितत्वात् । ‘अमुं’ प्राजापत्ये पदे वर्तमानं एवंविदं ‘पुण्यमेव’ शुभमेव फलमभिप्रेतं ‘गच्छति’ प्राप्नोति । पुण्यमिति निरतिशयं पुण्यं तेन अक्षतं तत्फलमेव गच्छति । ‘न ह वै’ नैव- ‘ह’ स्फुटं- ‘देवान्’- ‘पापं’ पापफलं दुःखं ‘गच्छति’ । पापफलस्य अवसराभावात् ॥ २९ ॥
३०
विश्वास-प्रस्तुतिः
(त्य) अथा᳘तो व्व्रतमीमाᳫँ᳭सा᳘॥
प्प्रजा᳘पतिर्ह क᳘र्म्माणि ससृजे ता᳘नि सृष्टा᳘न्यन्यो ऽन्ये᳘नास्पर्द्धन्त[[!!]] व्वदिष्या᳘म्ये᳘वाहमि᳘ति व्वा᳘ग्दद्ध्रे द्द्रक्ष्याम्यहमि᳘ति[[!!]] च᳘क्षुः श्रोष्या᳘म्यहमि᳘ति श्रो᳘त्रमेव᳘मन्या᳘नि क᳘र्म्माणि य᳘थाकर्म्म॥
मूलम् - श्रीधरादि
(त्य) अथा᳘तो व्व्रतमीमाᳫँ᳭सा᳘॥
प्प्रजा᳘पतिर्ह क᳘र्म्माणि ससृजे ता᳘नि सृष्टा᳘न्यन्यो ऽन्ये᳘नास्पर्द्धन्त[[!!]] व्वदिष्या᳘म्ये᳘वाहमि᳘ति व्वा᳘ग्दद्ध्रे द्द्रक्ष्याम्यहमि᳘ति[[!!]] च᳘क्षुः श्रोष्या᳘म्यहमि᳘ति श्रो᳘त्रमेव᳘मन्या᳘नि क᳘र्म्माणि य᳘थाकर्म्म॥
मूलम् - Weber
अथा᳘तो व्रतमीमांसा᳟॥
प्रजा᳘पतिर्ह क᳘र्माणि ससृजे ता᳘नि सृष्टा᳘न्यॗन्योऽन्ये᳘नास्पर्धन्त वदिष्या᳘म्येॗवाहमि᳘ति वा᳘ग्दध्रे द्रक्ष्या᳘म्यहमि᳘ति च᳘क्षुः श्रोष्या᳘म्यहमि᳘ति श्रो᳘त्रमेव᳘मन्या᳘नि क᳘र्माणि यथाकर्म᳟॥
मूलम् - विस्वरम्
अथातो व्रतमीमांसा । प्रजापतिर्ह कर्माणि ससृजे । तानि सृष्टानि अन्यो ऽन्येनास्पर्द्धन्त । वदिष्याम्येवाहमिति वाक् दध्रे । द्रक्ष्याम्यहमिति चक्षुः । श्रोष्याम्यहमिति श्रोत्रम् । एवमन्यानि कर्माणि यथाकर्म ॥ ३० ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“त एते सर्वे समाः सर्वे ऽनन्ताः”- (बृ. उ. १ । ३-२१) इत्यविशेषेण वाङ्मनःप्राणानामुपासनमुक्तम् । नान्यतमगतो विशेष उक्तः । किमेवं प्रतिपत्तव्यम् । किं वा विचार्यमाणे व्रतमुपासनं प्रति कश्चिद्विशेषः प्रतिपत्तुं शक्यत इति जिज्ञासायामाह- अथात इति । ‘अथ’ उपासनोक्त्यनन्तरं यतो जिज्ञासा अस्ति अत एषां वागादीनां प्राणानाम्मध्ये कस्य कर्म व्रतत्वेन धारयितव्यमिति ‘मीमांसा’ उपासनकर्मविचारणा प्रवर्तते । व्रतमिति अवश्यानुष्ठेयं कर्मोच्यते । प्रवृत्तायां मीमांसायां प्राप्तव्रतं अभग्नत्वेन धारणीयमिति निर्द्धारणार्थमाख्यायिकां प्रणयति- प्रजापतिर्हेति । हशब्दः किलार्थे । ‘प्रजापतिः’ किल ‘कर्म्माणि’ वागादीनि करणानि ‘ससृजे’ सृष्टवान् । कर्मार्थानि हि तानि इति कर्म्माणीत्युच्यन्ते । ‘तानि’ पुनः ‘सृष्टानि’ अन्यो ऽन्येनेतरेतरमस्पर्द्धन्त स्पर्द्धां संघर्षं चक्रुः । कथमित्यपेक्षायां स्पर्द्धाप्रकारमेवाह- वदिष्याम्येवाहमिति । ‘वदिष्याम्येव’ स्वव्यापाराद्वदनात् अनुपरतैवाहं स्यामिति वाग्व्रतं ‘दध्रे’ धृतवती । एवमन्यो ऽपि मत्समो ऽस्ति चेत् स्वव्यापारादनुपरन्तुं शक्तः । सो ऽपि दर्शयत्वात्मनो वीर्यमिति । तथा ‘द्रक्ष्याम्यहमिति चक्षुः’ व्रतं दध्रे । ‘श्रोष्याम्यहमिति श्रोत्रं’ व्रतं दध्रे । एवं अमुना प्रकारेण वागादिवत् ‘अन्यानि कर्माणि’ त्वगादीनि करणानि ‘यथाकर्म’ यद्यस्य कर्म्मेति स्वीयं स्वीयं व्यापारमनुसृत्य व्रतं दध्रिरे इति शेषः ॥ ३० ॥
३१
विश्वास-प्रस्तुतिः
ता᳘नि मृत्युः श्र᳘मो भूत्वो᳘पयेमे॥
ता᳘न्याप्नोत्ता᳘न्याप्त्वा᳘ मृत्युर᳘वारुन्द्ध त᳘स्माच्छ्रा᳘म्यत्येव व्वाक्छ्रा᳘म्यति च᳘क्षुः श्रा᳘म्यति श्रो᳘त्रम᳘थेम᳘मेव᳘ नाप्नो᳘द्यो ऽय᳘म्मध्यमः᳘ प्प्राणः[[!!]]॥
मूलम् - श्रीधरादि
ता᳘नि मृत्युः श्र᳘मो भूत्वो᳘पयेमे॥
ता᳘न्याप्नोत्ता᳘न्याप्त्वा᳘ मृत्युर᳘वारुन्द्ध त᳘स्माच्छ्रा᳘म्यत्येव व्वाक्छ्रा᳘म्यति च᳘क्षुः श्रा᳘म्यति श्रो᳘त्रम᳘थेम᳘मेव᳘ नाप्नो᳘द्यो ऽय᳘म्मध्यमः᳘ प्प्राणः[[!!]]॥
मूलम् - Weber
ता᳘नि मृत्युः श्र᳘मो भूत्वो᳘पयेमे॥
ता᳘न्याप्नोत्ता᳘न्याप्त्वा᳘ मृत्युर᳘वारुन्द्ध त᳘स्माछ्रा᳘म्यत्येव वाक्श्रा᳘म्यति च᳘क्षुः श्रा᳘म्यति श्रो᳘त्रम᳘थेम᳘मेवॗ नाप्नोॗद्योऽय᳘म् मध्यमः᳘ प्राणः᳟॥
मूलम् - विस्वरम्
तानि मृत्युः श्रमो भूत्वापयेमे । तान्याप्नोत् । तानि आप्त्वा मृत्युरवारुन्ध । तस्मात् श्राम्यत्येव वाक् । श्राम्यति चक्षुः । श्राम्यति श्रोत्रम् । अथ इममेव नाप्नोत् । यः अयं मध्यमः प्राणः ॥ ३१ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
प्रजापतेर्वागादिषु श्रमद्वारा स्वकर्म्मप्रच्युतिरासीदित्याह- तानि मृत्युरिति । मृत्युर्मारकः ‘श्रमः’ श्रमरूपी भूत्वा ‘तानि’ वागादीनि करणानि ‘उपयेमे’ सञ्जग्राह । कथमित्यपेक्षायामाह- तानीति । स्वव्यापारे प्रवृत्तानि तानि करणानि मृत्युराप्नोत् श्रमरूपेणात्मानं दर्शितवान् । ‘आप्त्वा’ प्राप्य च ‘तानि’ करणानि ‘मृत्युरवारुन्ध’ अवरोधं कृतवान् स्वकर्म्मभ्यः प्रच्यावितवानित्यर्थः । अत्र कार्यगतश्रमलिङ्गकं प्रमाणमाह- तस्माच्छ्राम्यत्येवेति । यस्मात्प्रजापतेर्वागादीनि श्रमविद्धानि तस्मादद्यापि वदने स्वकर्मणि प्रवृत्ता ‘वाक् श्राम्यत्येव’ श्रमरूपिणा मृत्युना संयुक्ता स्वकर्म्मतः प्रच्यवते । तथा ‘श्राम्यति चक्षुः’ । ‘श्राम्यति श्रोत्रम्’ । ‘अथ’ वागादीनां भग्नव्रतत्वनिर्द्धारणानन्तरं ‘यः अयं मध्यमः प्राणः’ इममेव मुख्यं प्राणं श्रमरूपी मृत्युः ‘नाप्नोत्’ न प्राप्तवान् । तेनाद्यापि अश्रान्त एव स्वकर्म्मणि प्रवर्तते ॥ ३१ ॥
३२
विश्वास-प्रस्तुतिः
(स्ता᳘) ता᳘नि ज्ञा᳘तुन्दद्ध्रिरे॥
(रे ऽयं) अयम्वै᳘ नः श्रे᳘ष्ठो यः᳘ सञ्च᳘रंश्चा᳘सञ्चरंश्च न व्व्य᳘थते᳘ ऽथो न रि᳘ष्यति ह᳘न्ता᳘स्यैव स᳘र्व्वे रूपम्भ᳘वामे᳘ति त᳘ ऽएत᳘स्यैव स᳘र्व्वे रूप᳘मभवँस्त᳘स्मादेत᳘ ऽएतेना᳘ख्यायन्ते प्प्राणा ऽइ᳘ति ते᳘न ह वाव तत्कु᳘लमा᳘ख्यायते य᳘स्मिन्कु᳘ले भ᳘वति य᳘ ऽएवम्वे᳘द य᳘ ऽउ हैवम्वि᳘दा स्प᳘र्द्धते ऽनुशु᳘ष्य है᳘वान्ततो᳘ म्म्रियत ऽइ᳘त्यध्यात्मम्[[!!]]॥
मूलम् - श्रीधरादि
(स्ता᳘) ता᳘नि ज्ञा᳘तुन्दद्ध्रिरे॥
(रे ऽयं) अयम्वै᳘ नः श्रे᳘ष्ठो यः᳘ सञ्च᳘रंश्चा᳘सञ्चरंश्च न व्व्य᳘थते᳘ ऽथो न रि᳘ष्यति ह᳘न्ता᳘स्यैव स᳘र्व्वे रूपम्भ᳘वामे᳘ति त᳘ ऽएत᳘स्यैव स᳘र्व्वे रूप᳘मभवँस्त᳘स्मादेत᳘ ऽएतेना᳘ख्यायन्ते प्प्राणा ऽइ᳘ति ते᳘न ह वाव तत्कु᳘लमा᳘ख्यायते य᳘स्मिन्कु᳘ले भ᳘वति य᳘ ऽएवम्वे᳘द य᳘ ऽउ हैवम्वि᳘दा स्प᳘र्द्धते ऽनुशु᳘ष्य है᳘वान्ततो᳘ म्म्रियत ऽइ᳘त्यध्यात्मम्[[!!]]॥
मूलम् - Weber
ता᳘नि ज्ञा᳘तुं दध्रिरे॥
ऽयं वै᳘ नः श्रे᳘ष्ठो यः᳘ संच᳘रंश्चा᳘संचरंश्च न व्य᳘थते᳘ऽथो न रि᳘ष्यति ह᳘न्तास्यैव स᳘र्वे रूपम् भ᳘वामे᳘ति त᳘ एत᳘स्यैव स᳘र्वे रूप᳘मभवंस्त᳘स्मादेत᳘ एतेना᳘ख्यायन्ते प्राणा इ᳘ति ते᳘न ह वाव तत्कु᳘लमा᳘ख्यायते य᳘स्मिन्कु᳘ले भ᳘वति य᳘ एवं वे᳘द य᳘ उ हैवंवि᳘दा स्प᳘र्धतेऽनुशु᳘ष्य हैॗवान्ततो᳘ म्रियत इ᳘त्यध्यात्म᳘म्॥
मूलम् - विस्वरम्
तानि ज्ञातुं दध्रिरे । अयं वै नः श्रेष्ठः । यः सञ्चरंश्चासञ्चरंश्च न व्यथते । अथो न रिष्यति । हन्त ! अस्यैव सर्वे रूपं भवामेति । त एतस्यैव सर्वे रूपमभवन् । तस्मादेत एतेनाख्यायन्ते प्राणा इति । तेन ह वाव तत्कुलमाख्यायते । यस्मिन् कुले भवति । य एवं वेद । य उ हैवंविदा स्पर्द्धते । अनुशुष्य हैवान्ततो म्रियते । इत्यध्यात्मम् ॥ ३२ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तथा ऽपि कथं प्राणस्यैव व्रतं धार्यमित्यपेक्षायामाह- तानीति । ‘तानि’ वागादीनि करणानि तं प्राणं ‘ज्ञातुं दध्रिरे’ धृतवन्ति मनः । कथं ? ‘अयं वै’ प्राणः नो ऽस्माकं मध्ये ‘श्रेष्ठः’ प्रशस्यतमो ऽभ्यधिकः । यस्मात् ‘यः सञ्चरंश्चासञ्चरंश्च न व्यथते’ अथापिच ‘न रिष्यति’ न विनश्यति । तस्य श्रेष्ठत्वे फलितमाह- हन्तेति । हन्तेदानीं ‘सर्वे’ वयं ‘अस्यैव’ प्राणस्य ‘रूपं’ ‘भवाम’ आत्मत्वेन प्रतिपद्येमहीत्येवं विनिश्चित्य ‘ते’ सर्वे वागादय ‘एतस्यैव’ प्राणस्य रूपमभवन् । प्राणरूपमेवात्मत्वेन प्रतिपन्नाः प्राणव्रतमेव दध्रिरे । अस्मद्व्रतानि न मृत्योर्वारणाय पर्याप्तानि इत्यभिप्रायेणैवं करणानां प्राणरूपत्वमुक्त्वा तन्नामत्वमाह- तस्मादेत इति । यस्मात्प्राणेन चलनात्मना प्रकाशात्मना च स्वेन रूपेण रूपवन्ति इतराणि करणानि । न हि प्राणादन्यत्र चलनात्मकत्वमुपपद्यते । चलनव्यापारपूर्वकाण्येव हि करणानि सर्वदा स्वव्यापारेषु लक्ष्यन्ते । तस्मादेते वागादयः ‘एतेन’ प्राणाभिधानेनाख्यायन्ते प्राणा इत्येवमभिधीयन्ते । सम्प्रति विद्याफलमाह- तेन ह वाव इति । ‘य एवं’ सर्वकरणानां प्राणात्मतां प्राणशब्दाभिधेयत्वं च वेत्ति स विद्वान् ‘यस्मिन् कुले’ जातः ‘भवति’ न्। ‘तत्कुलं तेन ह वाव’ तेनैव विदुषा ‘आख्यायते’ लौकिकैरमुष्येदं कुलमिति विद्वन्नाम्नैव प्रथितं भवति । किञ्च- ‘यः’ कश्चिदु ‘ह’ ‘एवंविदा’ प्राणात्मदर्शिना सह प्रतिपक्षी सन् ‘स्पर्द्धते’ । ‘सः’ अस्मिन्नेव शरीरे ‘अनुशुष्य’ दीर्घकालं शोषङ्गत्वैव ‘ह’ किल अन्ततो ऽन्ते ‘म्रियते’ । न सहसा अनुपद्रुतो म्रियते इति भावः । एवमुक्तं प्राणदर्शनमुपसंहरति- इत्यध्यात्ममिति । इत्येवमध्यात्मं प्राणादिदर्शनमुक्तम् । उक्तोपसंहारो ऽधिदेवतप्रदर्शनार्थः ॥ ३२ ॥
३३
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थाधिदेवतम्[[!!]]॥
(ञ्ज्व) ज्वलिष्या᳘म्ये᳘वाहमि᳘त्यग्नि᳘र्द्दद्ध्रे तप्स्या᳘म्यहमि᳘त्यादित्यो᳘ भास्या᳘म्यहमि᳘ति चन्द्र᳘मा ऽएव᳘मन्या᳘ देव᳘ता यथादेवतᳫँ᳭ स य᳘थैषा᳘म्प्राणा᳘नाम्मध्यमः᳘ प्प्राण᳘ ऽएव᳘मेता᳘सान्देव᳘तानाम्वायुर्म्लो᳘चन्ति᳘ ह्यन्या᳘[[!!]] देव᳘ता न᳘ व्वायुः᳘ सैषा᳘ ऽनस्तमिता देव᳘ता य᳘द्वायुः[[!!]]॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थाधिदेवतम्[[!!]]॥
(ञ्ज्व) ज्वलिष्या᳘म्ये᳘वाहमि᳘त्यग्नि᳘र्द्दद्ध्रे तप्स्या᳘म्यहमि᳘त्यादित्यो᳘ भास्या᳘म्यहमि᳘ति चन्द्र᳘मा ऽएव᳘मन्या᳘ देव᳘ता यथादेवतᳫँ᳭ स य᳘थैषा᳘म्प्राणा᳘नाम्मध्यमः᳘ प्प्राण᳘ ऽएव᳘मेता᳘सान्देव᳘तानाम्वायुर्म्लो᳘चन्ति᳘ ह्यन्या᳘[[!!]] देव᳘ता न᳘ व्वायुः᳘ सैषा᳘ ऽनस्तमिता देव᳘ता य᳘द्वायुः[[!!]]॥
मूलम् - Weber
अ᳘थाधिदेवतं᳟ 8 ॥
ज्वलिष्या᳘म्येॗवाहमि᳘त्यग्नि᳘र्दध्रे तप्स्या᳘स्यहमि᳘त्यादित्यो᳘ भास्या᳘म्यहमि᳘ति चन्द्र᳘मा एव᳘मन्या᳘ देव᳘ता यथादेवतᳫं स य᳘थैषा᳘म् प्राणा᳘नाम् मध्यमः᳘ प्राण᳘ एव᳘मेता᳘सां देव᳘तानां वायुर्म्लो᳘चन्ति ह्य᳘न्या देव᳘ता न᳘ वायुःॗ सैषा᳘नस्तमिता देव᳘ता य᳘द्वायुः᳟॥
मूलम् - विस्वरम्
अथाधिदेवतम् । ज्वलिष्याम्येवाहमित्यग्निर्दध्रे । तप्स्याम्यहमित्यादित्यः । भास्याम्यहमिति चन्द्रमाः । एवमन्या देवता यथादेवतम् । स यथैषां प्राणानां मध्यमः प्राणः । एवमेतासां देवतानां वायुः । म्लोचन्ति हि अन्या देवताः । न वायुः । सा एषा अनस्तमिता देवता । यद्वायुः ॥ ३३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
अथाधिदेवतमिति । अथानन्तरं ‘अधिदेवतं’ देवताविषयं दर्शनमुच्यते- कस्य देवताविशेषस्य व्रतधारणं श्रेय इति मीमांस्यते । अध्यात्मवत्सर्वं ज्ञेयम् । ‘ज्वलिष्याम्येवाहमित्यग्निर्व्रतं दध्रे’ इत्यादि ‘यथादेवतं’ स्वस्वदेवताव्यापारमनतिक्रम्य अन्या देवता विद्युदाद्या व्रतं दध्रिरे इत्यर्थः । स इति दृष्टान्तः । अध्यात्मं यथा वागादीनां ‘एषां प्राणानां’ मध्ये ‘मध्यमः प्राणः’ मृत्युना अनाप्तः स्वकर्म्मणो न प्रच्यावितः स्वेन प्राणव्रतेनाभग्नव्रतः । एवमेतासामन्यादीनां ‘देवतानां’ मध्ये वायुरपि मृत्युना अनाप्तः स्वेनैव वायुव्रतेन अभग्नव्रत एव । तदेव प्रकटयति- ‘हि’ यस्मात् आध्यात्मिकवागादिवत् अन्या अग्न्याद्या देवताः ‘म्लोचन्ति’ अस्तं यन्ति स्वकर्म्यभ्य उपरमन्ते । न वायुरस्तं याति यथा मध्यमः प्राणः । अतः ‘सैषा अनस्तमिता’ अविनाशिव्रता ‘देवता’ । ‘यद्वायुः’ यो ऽयं वायुः । एवमध्यात्ममधिदैवं च मीमांसित्वा वायोर्व्रतमभग्नमिति निर्धारितम् ॥ ३३ ॥
३४
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थैष श्लो᳘को भवति॥
य᳘तश्चोदे᳘ति सूर्य्यो᳘ ऽस्तं य᳘त्र च ग᳘च्छती᳘ति प्प्राणाद्वा᳘ ऽएष᳘ ऽउदे᳘ति प्प्राणे᳘ ऽस्तमेति त᳘न्देवा᳘श्चक्रिरे ध᳘र्म्मᳫँ᳭ स᳘ ऽए᳘वाद्य स᳘ ऽउ श्व ऽइ᳘ति यद्वा᳘ ऽए᳘ते ऽमुर्ह्य᳘द्ध्रियन्त त᳘देवा᳘प्यद्य᳘ कुर्व्वन्ति त᳘स्मादे᳘कमेव᳘ व्व्रत᳘ञ्चरेत्प्रा᳘ण्याच्चै᳘वापान्या᳘च्च ने᳘न्मा पाप्मा᳘ म्मृत्युराप्नवदि᳘ति[[!!]] य᳘द्यु च᳘रेत्स᳘मापिपयिषेत्ते᳘नो ऽएत᳘स्यै देव᳘तायै सा᳘युज्यᳫँ᳭ सलोक᳘ताञ्जयति य᳘ ऽएवम्वे᳘द॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थैष श्लो᳘को भवति॥
य᳘तश्चोदे᳘ति सूर्य्यो᳘ ऽस्तं य᳘त्र च ग᳘च्छती᳘ति प्प्राणाद्वा᳘ ऽएष᳘ ऽउदे᳘ति प्प्राणे᳘ ऽस्तमेति त᳘न्देवा᳘श्चक्रिरे ध᳘र्म्मᳫँ᳭ स᳘ ऽए᳘वाद्य स᳘ ऽउ श्व ऽइ᳘ति यद्वा᳘ ऽए᳘ते ऽमुर्ह्य᳘द्ध्रियन्त त᳘देवा᳘प्यद्य᳘ कुर्व्वन्ति त᳘स्मादे᳘कमेव᳘ व्व्रत᳘ञ्चरेत्प्रा᳘ण्याच्चै᳘वापान्या᳘च्च ने᳘न्मा पाप्मा᳘ म्मृत्युराप्नवदि᳘ति[[!!]] य᳘द्यु च᳘रेत्स᳘मापिपयिषेत्ते᳘नो ऽएत᳘स्यै देव᳘तायै सा᳘युज्यᳫँ᳭ सलोक᳘ताञ्जयति य᳘ ऽएवम्वे᳘द॥
मूलम् - Weber
अ᳘थैष श्लो᳘को भवति॥
य᳘तश्चोदे᳘ति सूर्यो᳘ऽस्तं य᳘त्र च ग᳘चती᳘ति प्राणाद्वा᳘ एष᳘ उदे᳘ति प्राणे᳘ऽस्तमेति तं᳘ देवा᳘श्चक्रिरे ध᳘र्मᳫं स᳘ एॗवाद्य स᳘ उ श्व इ᳘ति यद्वा᳘ एॗतेऽमुर्ह्य᳘ध्रियन्त त᳘देवा᳘प्यद्य᳘ कुर्वन्ति त᳘स्मादे᳘कमेव᳘ व्रतं᳘ चरेत्प्रा᳘ण्याच्चैॗवापान्या᳘च्च ने᳘न्मा पाप्मा᳘ मृत्यु᳘राप्नवदि᳘ति 9 य᳘द्यु च᳘रेत्स᳘मापिपयिषेत्ते᳘नो एत᳘स्यै देव᳘तायै सा᳘युज्यᳫं सलोक᳘तां जयति य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
अथैष श्लोको भवति- “यतश्चोदेति सूर्यः । अस्तं यत्र च गच्छति”- इति । प्राणाद्वा एष उदेति । प्राणे अस्तमेति । “तं देवाश्चक्रिरे धर्मम् । स एवाद्य स उ श्वः” इति । यद्वा एते अमुर्ह्यध्रियन्त । तदेवाप्यद्य कुर्वन्ति । तस्मादेकमेव व्रतं चरेत् । प्राण्याच्चैवापान्याच्च । नेन्मा पाप्मा मृत्युराप्नवदिति । यद्यु चरेत्समापिपयिषेत् । तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति । य एवं वेद ॥ ३४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
उक्तार्थदार्ढ्याय मन्त्रमवतारयति- अथैष इति । अथापि एतस्यैवार्थस्य प्रकाशकः ‘एष लोकः’ मन्त्रो भवति । ‘यतश्च’ यस्माद्वायोः प्राणाच्च क्रमेण अधिदैवतं ‘सूर्यः’ अध्यात्मं चक्षुः प्रातःकाले पुरुषस्य प्रबोधकाले च यथाक्रमं उदेत्युद्गच्छति । ‘यत्र’ वायौ प्राणे च अपरसन्ध्यासमये पुरुषस्य स्वापसमये च यथाक्रमं सूर्यश्च चक्षुश्च ‘अस्तं गच्छति’ इति मन्त्रप्रथमार्द्धस्थयच्छब्दार्थं श्रुतिराह- प्राणादिति । ‘प्राणात्’ अधिदैवाध्यात्मरूपादेव सूर्यो ऽधिदैवतं अध्यात्मञ्चक्षुरुदेति । ‘प्राणे’ एवास्तमेति । यतश्चेत्यादिमे श्लोके पूर्णताज्ञापनार्थं प्राणादित्यादि ब्राह्मणव्यवहितं श्लोकस्योत्तरार्द्धमाह- तं देवा इति । ‘देवाः’ वागादयः अग्न्यादयश्च ‘तं धर्मं’ वायुव्रतं प्राणव्रतं चावश्यानुष्ठेयमिति ‘चक्रिरे’ धृतवन्तः । ‘स एव’ प्राणवायुव्रतलक्षणो धर्म एव ‘अद्य’ इदानीं अनुवर्तते । ‘स उ’ स एव धर्मः श्वो ऽपि भविष्यत्यपि काले अनुवर्तिष्यते च देवैः इति । मन्त्रोत्तरार्द्धं सङ्क्षेपतः श्रुतिर्व्याकरोति- यद्वा एतमिति । ‘अमुर्हि’ अमुष्मिन् काले ‘एते’ वागादयश्च ‘यद्वै’ यदेव वायुव्रतं प्राणव्रतं चाध्रियन्त ‘तदेव’ व्रतमद्यापि ‘कुर्वन्ति’ अनुवर्तन्ते । अभग्नत्वेन देवैर्मीमांसितं अनुगच्छन्तीत्यर्थः । अग्निरहस्ये इदमेवोक्तं- “यदा वै पुरुषः स्वपिति प्राणन्तर्हि व्वागप्येति प्राणञ्चक्षुः प्राणम्मनःप्राणँ श्रोत्रं यदा प्रबुध्यते प्राणादेवाधिपुनर्जायन्त इत्याध्यात्ममथाधिदेवतं” तथा “यदा वा ऽअग्निरनुगच्छति व्वायुं तदूर्ध्वमनूद्वाति तस्मादेनमुदवासीदित्याहुर्व्वायुँ ह्यनूद्वाति यदा ऽऽदित्यो ऽस्तमेति व्वायुन्तर्हि प्रविशति व्वायुश्चन्द्रमा व्वायौ दिशः प्रतिष्ठिता व्वायोरेवाधिपुनर्ज्जायन्ते” (श. प. १० । ३ । ३ । ६ । ८) इति । ‘अनुगच्छति’ शाम्यति वायुमनु तदधीन एव ‘उद्वाति’ अस्तमेति उदवासीदस्तं गत इति अग्निरहस्यकण्डिकास्थशब्दार्थः । प्रकरणार्थमुपसंहरति- तस्मादेकमेवेति । यस्माद्वागादयो ऽग्न्यादयो वा परिस्पन्दविरहिणः न स्थातुमर्हन्ति । तेन तैः सर्वैर्द्देवैरनु प्राणव्रतमेवैकं तस्मादन्यो ऽप्येकमेव व्रतञ्चरेत् । अध्यात्मं प्राणव्रतमधिदैवञ्च वायुव्रतमिति एकमेव व्रतं धार्यं इत्यर्थः । किन्तदित्याह- प्राण्याच्चैवेति । ‘प्राण्यात्’ प्राणनव्यापारं कुर्यात् । ‘अपान्यात्’ अपाननव्यापारङ्कुर्यात् । न हि प्राणनापाननलक्षणस्य प्राणव्यापारस्योपरमो ऽस्ति । तस्मादिन्द्रियान्तरव्यापारं हित्वा तदेवैकं व्रतञ्चरेदित्यर्थः । एतत्प्राणव्रताकरणे बाधमाह- नेन्मेति । नेच्छब्दः परिभये । ‘नेत्’ (निरु. १ । ३ । १०) ‘मा’ मां ‘पाप्मा’ श्रमरूपी मृत्युः ‘आप्नवत्’ प्राप्नुयात् । ‘यदि’ अहमस्माद्व्रतात् प्रच्युतः स्याम् । तर्हि मृत्युना ग्रस्त एवाहं इत्येवं त्रस्तो धारयेत्प्राणव्रतमित्यभिप्रायः । प्राणव्रतस्य सकृदनुष्ठानमाशङ्क्य सर्वेन्द्रियव्यापारनिवृत्तिरूपं सन्न्यासलक्षणं प्राणव्रतमामरणमनुवर्तयेदित्याह- यद्यु चरेदिति । ‘उ’ पुनः ‘यदि’ कदाचित् चरेत्प्रारभेत ‘प्राणव्रतं’ तर्हि ‘समापिपयिषेत्’ समापयितुमिच्छेत् । यदि हि अस्माद्व्रतात् उपरमेत् प्राणः परिभूतः स्यादेव तस्मात्समापयेदेव । सर्वभूतेषु वागादयो ऽग्न्यादयश्च मदात्मका एव अहञ्च सूत्ररूपप्राणात्मा सर्वपरिस्पन्दकृत् इत्येवमुपासकस्य फलमाह- तेनो इति। ‘तेन उ’ तेन अनेन प्राणात्मप्रतिपत्त्या ‘एतस्यै देवतायै’ एतस्या एव प्राणदेवतायाः ‘सायुज्यं’ सयुग्भावं एकात्मकत्वं विज्ञानं प्रकरणापेक्षं ‘सलोकतां’ वा एकस्थानत्वं विज्ञाननिकर्षापेक्षं ‘जयति’ प्राप्नोतीत्यर्थः ॥ ३४ ॥
इति श्रीहृषीकेशब्रह्मभगवत्पूज्यपादशिष्यस्य श्रीपाठकानिरुद्धपुत्रस्य परमहंसपरिव्राजकाचार्यस्य श्रीवासुदेवब्रह्मभगवतः कृतौ माध्यन्दिनीयशतपथब्राह्मणान्तर्गतमाध्यन्दिनशाखोपनिषद्बृहदारण्यकटीकायां वासुदेवप्रकाशिकायां आद्ये मधुकाण्डे प्रथमे ऽध्याये तृतीयं सप्तान्नब्राह्मणं वा संवर्गब्राह्मणं परिसमाप्तम् ॥ १४ । (४) १ । ३ ॥
-
प्रशᳫसा A. M. ↩︎
-
ह्या᳘न्तमा᳘य᳘त्तेषा A. आन्तं seems indeed to be the reading also of D., still on account of the accent I prefer to read अ᳘न्तं. ↩︎
-
ज्यो᳘ती रूप᳘ A. M. The commentary treats these words as a compound, which seems to be demanded also by the sense, but is prohibited by the accent. ↩︎
-
ज्यो᳘ती रूप᳘ A. M. The commentary treats these words as a compound, which seems to be demanded also by the sense, but is prohibited by the accent. ↩︎
-
ज्यो᳘ती रूप᳘ A. M. The commentary treats these words as a compound, which seems to be demanded also by the sense, but is prohibited by the accent. ↩︎
-
अभुनजत् D. against the accent. - ibid. D. divides अक्ष्णयाकृतं into अक्ष्णया अकृतं. ↩︎
-
त᳘त्तद्भवति AM. ↩︎
-
अधिदैवतं D.(?). ↩︎
-
मृत्यु᳘राप्तवदि᳘ति A. आप्नुवत् D. ↩︎