०१

विश्वास-प्रस्तुतिः

आ᳘त्मै᳘वेदम᳘ग्ग्र ऽआसीत्॥
(त्पु᳘) पु᳘रुषविधः᳘[[!!]] सो ऽनुवी᳘क्ष्य᳘ नान्य᳘दात्म᳘नो ऽपश्य᳘त्सो ऽह᳘मस्मीत्य᳘ग्ग्रे व्व्या᳘हरत्त᳘तो ऽहन्ना᳘मा ऽभवत्त᳘स्मादप्ये᳘तर्ह्या᳘मन्त्रितो ऽह᳘मयमि᳘त्येवा᳘ग्ग्र ऽउक्त्वा᳘ थान्यन्ना᳘म[[!!]] प्प्र᳘ब्रूते य᳘दस्य भ᳘वति॥

मूलम् - श्रीधरादि

आ᳘त्मै᳘वेदम᳘ग्ग्र ऽआसीत्॥
(त्पु᳘) पु᳘रुषविधः᳘[[!!]] सो ऽनुवी᳘क्ष्य᳘ नान्य᳘दात्म᳘नो ऽपश्य᳘त्सो ऽह᳘मस्मीत्य᳘ग्ग्रे व्व्या᳘हरत्त᳘तो ऽहन्ना᳘मा ऽभवत्त᳘स्मादप्ये᳘तर्ह्या᳘मन्त्रितो ऽह᳘मयमि᳘त्येवा᳘ग्ग्र ऽउक्त्वा᳘ थान्यन्ना᳘म[[!!]] प्प्र᳘ब्रूते य᳘दस्य भ᳘वति॥

मूलम् - Weber

आॗत्मैॗवेदम᳘ग्र आसीत्॥
पु᳘रुषविॗधः सोऽनुवी᳘क्ष्यॗ नान्य᳘दात्म᳘नोऽपश्यॗत्सोऽह᳘मस्मीत्य᳘ग्रेव्या᳘हरत्त᳘तो᳘ऽहंना᳘माभवत्त᳘स्माद᳘प्येतर्ह्या᳘मन्त्रितोऽह᳘मयमि᳘त्येवा᳘ग्र उक्त्वा᳘थान्यन्ना᳘म प्र᳘ब्रूते य᳘दस्य भ᳘वति॥

मूलम् - विस्वरम्

पुरुषविधब्राह्मणम् । 1

आत्मैवेदमग्र आसीत् । पुरुषविधः सो ऽनुवीक्ष्य, नान्यदात्मनो ऽपश्यत् । सो ऽहमस्मीत्यग्रे व्याहरत् । ततो ऽहं नामा ऽभवत् । तस्मादप्येतर्हि, आमन्त्रितो ऽहमयमित्येवाग्र उक्त्वा, अथान्यन्नाम प्रब्रूते । यदस्य भवति ॥ १ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवं ज्ञानकर्म्मभ्यां समुच्चिताभ्यां प्रजापतित्वव्याप्तिर्व्याख्याता । इदानीं अस्य प्रजापतेः फलभूतस्य जगत्सर्ज्जनस्थितिसंहारेषु स्वातन्त्र्यादिविभूत्युपवर्णनेन तं स्तोतुं ज्ञानकर्मणोर्वैदिकयोः फलोत्कर्षो वर्णयितव्य इत्येवमर्थं आत्मैवेदमग्ग्र ऽआसीदिति पुरुषविधब्राह्मणमारभ्यते- वक्ष्यमाणब्रह्मविद्या ऽधिकारहेतुभूतवैराग्योत्पादनाय । आत्मैवेति । तत्रात्मशब्देन प्रजापतिः प्रथमो ऽण्डजः शरीरी वैदिकज्ञानकर्मफलभूतो ऽभिधीयते । ‘इदं’ दृश्यमानं शरीरभेदजातं तेन प्रजापतिशरीरेणाविभक्तं ‘अग्रे’ शरीरान्तरोत्पत्तेः प्राक् ‘आत्मैवासीत्’ । कस्यात्मनो ऽत्र ग्रहणमित्यत आह- पुरुषविध इति । ‘पुरुषविधः’ पुरुषाकारः शिरःपाण्यादिलक्षणो मन्वादीनां स्रष्टा विराड्- ‘सः’ प्रथमः सम्भूतः ‘अनुवीक्ष्य’ को ऽहं किंलक्षणो वा ऽस्मीति अन्वालोच्य’ ‘आत्मनः’ स्वशरीरात् ‘अन्यत्’ वस्त्वन्तरं ‘नापश्यत्’ न ददर्श । केवलं तु आत्मानमेव सर्वत्रात्मानमपश्यत् । आलोचनकार्यमाह- सो ऽहमिति । पूर्वजन्मश्रौतविज्ञानसंस्कृतसाधकावस्थप्रजापतिवत् फलावस्थो ऽपि विराडात्मा ‘सः अहमस्मि’ सर्वात्मा ‘इत्यग्रे’ प्रथमं ‘व्याहरत्’ व्याहृतवान् यस्मात् ततस्तस्मात् ‘अहन्नामा ऽभवत्’ । यस्मात्कारणात्प्रजापतावेवं वृत्तं तस्मात्तत्कार्यभूतो ऽपि लोकः ‘एतर्हि’ एतस्मिन्नपि काले ‘आमन्त्रितः’ कस्त्वमिति पृष्टः- ‘अहमयमित्येवाग्रे’ प्रथममुक्त्वा कारणात्माभिधानेनात्मानमभिसन्धाय- अथानन्तरं अन्यद्विशेषपिण्डाभिधानं- ‘यदस्य’ पुरुषस्य मातापितृकृतं देवदत्तो यज्ञदत्त इति वा नाम भवति तन्नाम ‘प्रब्रूते’ कथयति ॥ १ ॥

०२

विश्वास-प्रस्तुतिः

स यत्पू᳘र्व्वो ऽस्मात्सर्व्वस्मात्॥
(त्स᳘) स᳘र्व्वान्पाप्म᳘न ऽऔ᳘षत्त᳘स्मात्पु᳘रुष ऽओ᳘षति ह वै स[[!!]] तं᳘ यो ऽस्मात्पू᳘र्व्वो बु᳘भूषति य᳘ ऽएवम्वे᳘द॥

मूलम् - श्रीधरादि

स यत्पू᳘र्व्वो ऽस्मात्सर्व्वस्मात्॥
(त्स᳘) स᳘र्व्वान्पाप्म᳘न ऽऔ᳘षत्त᳘स्मात्पु᳘रुष ऽओ᳘षति ह वै स[[!!]] तं᳘ यो ऽस्मात्पू᳘र्व्वो बु᳘भूषति य᳘ ऽएवम्वे᳘द॥

मूलम् - Weber

स यत्पू᳘र्वोऽस्मात्॥
स᳘र्वस्मात्स᳘र्वान्पाप्म᳘न औ᳘षत्त᳘स्मात्पु᳘रुष ओ᳘षति ह वै सॗ तं योऽस्मात्पू᳘र्वो बु᳘भूषति य᳘ एवम् वे᳘द॥

मूलम् - विस्वरम्

स यत्पूर्वो ऽस्मात्सर्वन्मात्सर्वात्पाप्मन औषत् । तस्मात्पुरुषः । ओषति ह वै सतम् । यो ऽस्मात्पूर्वो बुभूषति । य एवं वेद ॥ २ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवमुपासनार्थं प्रजापतेरहं नामोक्त्वा इदानीं पुरुषनामनिर्वचनमाह- स यदिति । ‘सः’ प्रजापतिः पूर्वस्मिन् जन्मनि साधकावस्थायां सम्यक्कर्मज्ञानभावना ऽनुष्ठानैरहमहमिकया अस्मात्प्रजापतित्वप्रतिपित्सुसमुदायात्सर्वस्मात् ‘पूर्वः’ प्रथमः सन् सम्यक्कर्म्माद्यनुष्ठानैः कृत्वा असङ्गाज्ञानलक्षणान् ‘सर्वान् पाप्मनः’ प्रजापतित्वप्रतिबन्धकारणभूतान् यद्यस्मात् औषददहत् तस्मात्पुरुषः । एतद्गुणविज्ञानफलमाह- ओषतीति । प्रजापतिवत् अन्यो ऽपि ‘यः’ कश्चित्, ‘एवं वेद’ पुरुषगुणः प्रजापतिरहमस्मीति उपास्ते । ‘स वै’ सो ऽपि ‘ओषति हतं’ दहत्येव अभिभवत्येव । तं कं ? ‘यः’ अस्मादेवंभूतोपासकात् ‘पूर्वः’ प्रथमः सन् प्रजापत्यात्वमात्मनः ‘बुभूषति’ भवितुमिच्छति तमित्यर्थः ॥ २ ॥

०३

विश्वास-प्रस्तुतिः

सो ऽबि᳘भेत्॥
(त्त᳘) त᳘स्मादेकाकी᳘ बिभेति स᳘ हायमीक्षा᳘ञ्चक्रे यन्म᳘दन्यन्ना᳘स्ति क᳘स्मान्नु᳘ बिभेमी᳘ति त᳘त ऽए᳘वास्य भय᳘म्वीयाय क᳘स्माद्ध्य᳘भेष्य᳘द्द्विती᳘यद्वै᳘ भय᳘म्भवति॥

मूलम् - श्रीधरादि

सो ऽबि᳘भेत्॥
(त्त᳘) त᳘स्मादेकाकी᳘ बिभेति स᳘ हायमीक्षा᳘ञ्चक्रे यन्म᳘दन्यन्ना᳘स्ति क᳘स्मान्नु᳘ बिभेमी᳘ति त᳘त ऽए᳘वास्य भय᳘म्वीयाय क᳘स्माद्ध्य᳘भेष्य᳘द्द्विती᳘यद्वै᳘ भय᳘म्भवति॥

मूलम् - Weber

सोऽबिभेत्॥
त᳘स्मादेकाकी᳘ बिभेति स᳘ हाय᳘मीक्षां᳘ चक्रे यन्म᳘दन्यन्ना᳘स्ति क᳘स्मान्नु᳘ बिभेमी᳘ति त᳘त एॗवास्य भयॗम् वीयाय क᳘स्माद्ध्य᳘भेष्यद्द्विती᳘यद्वै᳘ भय᳘म् भवति॥

मूलम् - विस्वरम्

सो ऽबिभेत् । तस्मादेकाकी बिभेति । स हायमीक्षाञ्चक्रे । यन्मदन्यन्नास्ति । कस्मान्नु बिभेमीति । तत एवास्य भयं वीयाय । कस्माद्धि अभेष्यत् । द्वितीयाद्वै भयं भवति ॥ ३ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

यदिदं स्तोतुमभिप्रेतं प्राजापत्यलक्षणं ज्ञानकर्मफलं तदपि नैव संसारविषयमत्यक्रामत् इतीममर्थं प्रदर्शयिष्यन्नाह- सो ऽबिभेदिति । यो ऽयं प्रथमः शरीरी पुरुषविधो व्याख्यातः- ‘सः’ प्रजापतिः अबिभेद्भीतवान् । अहमेकाकी को ऽपि मां हनिष्यतीति आत्मनाशविषयविपरीतज्ञानवत्त्वात् भयं प्राप्तवान् इति अत्र कार्यगतेन भयलिङ्गेन कारणेन प्रजापतौ तदप्युन्नेयमित्याह- तस्मादिति । यस्मादयं पुरुषविधः शरीरकारणवान् आत्मनाशविपरीतदर्शनवत्त्वात् प्रजापतिरबिभेत् तस्मादेकाकित्वाविशेषात् अद्यतनो ऽप्येकाकी स्वविनाशमाशङ्क्य ‘बिभेति’ । यथा अस्मदादिभी रज्जुस्थाण्वादौ सर्पपुरुषादिश्रमजनितभयनिवृत्तये विचारेण तत्त्वज्ञानं सम्पाद्यते । तथा प्रजापतिरपि भयस्य तद्धेतोश्च विपरीतधियो ध्वस्तिहेतुं तत्त्वज्ञानं विचार्य सम्पादितवान् इति । अतो ऽप्यस्य संसारान्तर्भूतत्वमित्याशयेनाह- स हेति । ‘ह’ किल ‘सो ऽयं’ प्रजापतिः ‘ईक्षाञ्चक्रे’ विचारयामास । कथं- यद्यस्मात् मन्मत्तः- अन्यदात्मव्यतिरेकेण वस्त्वन्तरं प्रतिद्वन्द्वीभूतं ‘नास्ति’ । तस्मादहं प्रत्यक्चैतन्याद्वितीयब्रह्मरूपः- ‘कस्मान्नु बिभेमि’ इति । एवं विचारोत्पन्नफलमाह- तत इति । ‘तत एव’ यथाभूताद्वितीयात्मदर्शनादेव ‘अस्य’ प्रजापतेर्भयं सकारणं ‘वीयाय’ विस्पष्टं गतवत् । तस्य प्रजापतेर्यद्भयं तत्केवलाविद्यानिमित्तमेव परमार्थदर्शने अनुपपन्नमित्याह- कस्मादिति । ‘द्वितीयाद्वै’ द्वितीयादेव ‘भयं भवति’ । न तु स्वस्मात् स्वस्य भयम् । द्वितीयं च वस्त्वन्तरं अविद्याप्रत्युपस्थापितमेव । न हि अदृश्यमानं द्वितीयं भयजन्महेतुः । “तत्र को मोहः कः शोकः एकत्वमनुपश्यतः”- (वा. सं. अ. ४० कं. ७) इति मन्त्रवर्णात् । “मायामात्रमिदन्द्वैतमद्वैतम्परमार्थतः” । इति माण्डूक्यश्रुतेश्च । तत्त्वज्ञाने सति अज्ञानाभावात् तन्मूलद्वैतदर्शनानुपपत्तेः । अयं ‘कस्माद्ध्यभेष्यत्’ कुतो हि भीतिमलप्स्यत । परमार्थनिरूपणावस्थायां न कुतश्चिद्भीतवानित्यर्थः ॥ ३ ॥

०४

विश्वास-प्रस्तुतिः

स वै᳘ नैव᳘ रेमे॥
त᳘स्मादेकाकी न᳘ रमते स᳘ द्विती᳘यमैच्छत्स᳘ हैता᳘वानास य᳘था स्त्रीपुमा᳘ᳫँ᳘सौ सम्प᳘रिष्वक्तौ॥

मूलम् - श्रीधरादि

स वै᳘ नैव᳘ रेमे॥
त᳘स्मादेकाकी न᳘ रमते स᳘ द्विती᳘यमैच्छत्स᳘ हैता᳘वानास य᳘था स्त्रीपुमा᳘ᳫँ᳘सौ सम्प᳘रिष्वक्तौ॥

मूलम् - Weber

स वैॗ नैव᳘ रेमे॥
त᳘स्मादेकाकी न᳘ रमते स᳘ द्विती᳘यमैछत्स᳘ हैता᳘वानास य᳘था स्त्रीपुमांसौ सम्प᳘रिष्वक्तौ॥

मूलम् - विस्वरम्

स वै नैव रेमे । तस्मादेकाकी न रमते । स द्वितीयमैच्छत् । स हैतावानास । यथा स्त्रीपुमांसौ सम्परिष्वक्तौ ॥ ४ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवं प्रजापतेर्भयाद्याविष्टत्वेन संसारान्तर्भूतत्वमुक्तम् । इदानीं तत्रैवारत्याविष्टत्वं हेत्वन्तरमाह- स वै नैवेति । ‘स वै’ प्रजापतिः ‘नैव रेमे’ रतिं नान्वभवत् अरत्याविष्टो ऽभूत् अस्मदादिवदेव यतः । तस्मादाधुनिको ऽपि एकाकित्वादिधर्मवत्वादेव ‘एकाकी’ असहायः सन् ‘न रमते’ रतिं नानुभवति । रतिर्नाम इष्टार्थसंयोगजा क्रीडा तत्प्रसङ्गिन इष्टवियोगात् मनस्याकुलीभावो ऽरतिरित्युच्यते । अरत्याविष्टस्य प्रजापतेः तन्निरसनोद्योगप्रकारमाह- स द्वितीयमिति । ‘सः’ प्रजापतिः द्वितीयं अरत्यपनोदसमर्थं स्त्रीवस्तु ‘ऐच्छत्’ इष्टवान् । तस्य चैव स्त्रीविषयं गृद्ध्यतो ऽतिविषयासक्तस्य स्त्रिया परिष्वक्तस्येव आत्मन्यभिमाने सञ्जाते ‘सः ह’ प्रजापतिः तेनैवाभिमानेन सत्यसङ्कल्पत्वात्- ‘एतावान्’ एतावत्परिमाणः ‘आस’ बभूव । कियत्परिमाण इत्यपेक्षायामाह- यथेति । यथा लोके ‘स्त्रीपुमांसौ’ अरत्यपनोदनाय ‘सम्परिष्वक्तौ’ अन्यो ऽन्यं गाढमालिङ्गितौ यत्परिमाणौ स्यातां तथा तत्परिमाणो बभूवेत्यर्थः ॥ ४ ॥

०५

विश्वास-प्रस्तुतिः

स᳘ ऽइम᳘मे᳘वात्मा᳘नन्द्वे᳘धा ऽपातयत्[[!!]]॥
(त्त᳘) त᳘तः प᳘तिश्च प᳘त्नी चाभवतान्त᳘स्मादिद᳘मर्द्धबृगल᳘मिव स्व ऽइ᳘ति ह स्माह या᳘ज्ञवल्क्यस्त᳘स्मादय᳘माकाशः᳘ स्त्रिया᳘ पूर्य्य᳘त ऽएव ताᳫँ᳭ स᳘मभवत्त᳘तो मनु᳘ष्या ऽअजायन्त᳘॥

मूलम् - श्रीधरादि

स᳘ ऽइम᳘मे᳘वात्मा᳘नन्द्वे᳘धा ऽपातयत्[[!!]]॥
(त्त᳘) त᳘तः प᳘तिश्च प᳘त्नी चाभवतान्त᳘स्मादिद᳘मर्द्धबृगल᳘मिव स्व ऽइ᳘ति ह स्माह या᳘ज्ञवल्क्यस्त᳘स्मादय᳘माकाशः᳘ स्त्रिया᳘ पूर्य्य᳘त ऽएव ताᳫँ᳭ स᳘मभवत्त᳘तो मनु᳘ष्या ऽअजायन्त᳘॥

मूलम् - Weber

स᳘ इम᳘मेॗवात्मा᳘नं द्वेधा᳘पातयत्॥
त᳘तः प᳘तिश्च प᳘त्नी चाभवतां त᳘स्मादिद᳘मर्धवृगल᳘मिव स्व इ᳘ति ह स्माह या᳘ज्ञवल्क्यस्त᳘स्मादय᳘माकाश᳘ स्त्रिया᳘ पूर्य᳘त एव ताᳫं स᳘मभवत्त᳘तो मनुॗष्या अजायन्त॥

मूलम् - विस्वरम्

स इममेवात्मानं द्वेधा ऽपातयत् । ततः पतिश्च पत्नी चाभवताम् । तस्मादिदमर्द्धबृगलमिव स्वः । इति ह स्माह याज्ञवल्क्यः । तस्मादयमाकाशः स्त्रिया पूर्यत एव । तां समभवत् । ततो मनुष्या अजायन्त ॥ ५ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘सः’ विराडात्मा विराट्स्वरूपानुपमर्द्दनेनैव ‘इमं’ परिष्वक्तस्त्रीपुंसपरिमाणमात्मानं शरीरं एतावत्परिमाणं ‘द्वेधा अपातयत्’ द्विप्रकारं पातितवान् । इममेवेत्यवधारणात् सशब्देन कर्तृतया विराड्ग्रहणमविरुद्धम् । क्षीरस्य सर्वोपमर्द्दनेन दधिभावापत्तिवत् न विराट् सर्वोपमर्द्दनेन एतावानास । किं तर्हि ? आत्मना व्यवस्थितस्यैव विराजः सत्यसङ्कल्पत्वात् आत्मव्यतिरिक्तं तु परिष्वक्तस्त्रीपुंसपरिमाणं शरीरान्तरं बभूवेति तद्द्विधाकरणे कर्मेति बोध्यम् । ततस्तस्मात्पातनात् पतिर्मन्वाख्यः ‘पत्नी च’ शतरूपाख्या चाभवतां बभूवतुः । लोकप्रसिद्धयोर्दंपत्योरुक्ते निर्वचने लोकानुभवमनुकूलयति- तस्मादिति । यस्मात्पतिपत्न्यावेकशरीरविभक्ते । तस्मात् ‘स्वः’ स्वस्यात्मन ‘इदं’ शरीरं प्राक् स्त्र्युद्वहनात् ‘अर्द्धबृगलमिव’- बृगलं विदलं- अर्द्धं च तत् बृगलं च- अर्द्धबृगलम् । शुक्त्यादिविभागवत् अर्द्धविदलमेवेत्यर्थः ॥

अत्राभियुक्तसम्मतिमाह- इति हेति । यज्ञस्य वल्को वक्ता यज्ञवल्कः तस्यापत्यं याज्ञवल्क्यो दैवरातिर्नामा ब्रह्मणो वा ऽपत्यमित्यर्थः । सः ‘ह’ किल इतीत्थं ‘आह’ स्मोक्तवान्, द्वेधा पातने सति एको भागः पुरुषः अपरस्तु स्त्रीति । अत्रैव हेत्वन्तरमाह- तस्मादयमिति । यस्मादुद्वहनात्प्राक् अवस्थायां ‘अयमाकाशः’ पुरुषार्द्धं स्त्र्यर्द्धं शून्यः असम्पूर्णो वर्तते- तस्मात् पुनः उद्वहनादनन्तरं स्त्रिया प्राप्तस्त्रयर्द्धेनेतरो भागः ‘पूर्यत एव’ । यथा विदलार्द्धो ऽसम्पूर्णः सम्पुटीकरणेन पुनः सम्पूर्णः क्रियते तद्वदिति ॥

अथ मिथुनद्वारिकां सृष्टिमाह- तां समभवदिति । स प्रजापतिर्मन्वाख्यः शतरूपाख्यामात्मनो दुहितरं पत्नीत्वेन कल्पितां ‘समभवत्’ मिथुनभावमुपगतवान् । ततस्तस्मात् तथाविधोपगमनात् ‘मनुष्याः’ अजायन्तोत्पन्ना इत्यर्थः ॥ ५ ॥

०६

विश्वास-प्रस्तुतिः

सो हेय᳘मीक्षा᳘ञ्चक्रे॥
कथन्नु᳘ मा ऽऽत्म᳘न ऽएव᳘ जनयित्वा स᳘म्भवति ह᳘न्त तिरो᳘ ऽसानी᳘ति॥

मूलम् - श्रीधरादि

सो हेय᳘मीक्षा᳘ञ्चक्रे॥
कथन्नु᳘ मा ऽऽत्म᳘न ऽएव᳘ जनयित्वा स᳘म्भवति ह᳘न्त तिरो᳘ ऽसानी᳘ति॥

मूलम् - Weber

सो हेय᳘मीक्षां᳘ चक्रे॥
कथम् नु᳘ मात्म᳘न एव᳘ जनयित्वा स᳘म्भवति ह᳘न्त तिरो᳘ऽसानी᳘ति॥

मूलम् - विस्वरम्

सा उ ह इयमीक्षाञ्चक्रे । कथं नु मा आत्मन एव जनयित्वा सम्भवति । हन्त ! तिरः असानीति ॥ ६ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

इदानीं गवादिसृष्टिं प्रस्तौति- सो हेयमिति । ‘सेयं’ शतरूपा ‘उ ह’ किल “न सगोत्रां समानप्रवरां भार्यां विन्देत” इति दुहितृगमने स्मार्तं प्रतिषेधमनुस्मरन्तीक्षाञ्चक्रे विचारयामास । कथं न्विदमकृत्यं- यत् ‘मा’ मां ‘आत्मनः’ स्वस्मादेव जनयित्वोत्पाद्य सम्भवत्युपगच्छति यद्यपि अयं निर्घृणः स्मार्तं प्रतिषेधमस्मरन् मां न मुञ्चति । अहं तु तं स्मरन्ती ‘हन्त’ इदानीं ‘तिरो ऽसानि’ जात्यन्तरेण तिरोभूता भवानीति ॥ ६ ॥

०७

विश्वास-प्रस्तुतिः

सा गौर᳘भवत्॥
(द्धृ᳘) वृ᳘षभ ऽइ᳘तरस्ताᳫँ᳭ स᳘मे᳘वाभवत्त᳘तो गा᳘वो ऽजायन्त॥

मूलम् - श्रीधरादि

सा गौर᳘भवत्॥
(द्धृ᳘) वृ᳘षभ ऽइ᳘तरस्ताᳫँ᳭ स᳘मे᳘वाभवत्त᳘तो गा᳘वो ऽजायन्त॥

मूलम् - Weber

सा गौर᳘भवत् 2
वृषभ इ᳘तरस्ताᳫं स᳘मेॗवाभवत्त᳘तो गा᳘वोऽजायन्त॥

मूलम् - विस्वरम्

सा गौरभवत् । वृषभ इतरः । तां समेवाभवत् । ततो गावो ऽजायन्त ॥ ७ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवं विचार्य ‘सा’ शतरूपा ‘गौरभवत्’ । उत्पाद्यप्राणिकर्मभिश्चोद्यमानायाः शतरूपायाः मनोश्च पुनः सैव मतिरभवदिति बोध्यम् । ‘इतरः’ मनुः ‘वृषभः’ भूत्वा ‘तामेव’ गां ‘समभवत्’ पूर्ववत्सम्भोगं कृतवान् । ततस्तस्माद्गोवृषभसम्बन्धात् ‘गावो ऽजायन्त’ ॥ ७ ॥

०८

विश्वास-प्रस्तुतिः

व्व᳘डवे᳘तरा᳘ ऽभवत्॥
(द) अश्वव्वृष ऽइ᳘तरो गर्द्दभी᳘तरा गर्द्दभ ऽइ᳘तरस्ताᳫँ᳭ स᳘मे᳘वाभवत्त᳘त ऽए᳘कशफमजायत[[!!]]॥

मूलम् - श्रीधरादि

व्व᳘डवे᳘तरा᳘ ऽभवत्॥
(द) अश्वव्वृष ऽइ᳘तरो गर्द्दभी᳘तरा गर्द्दभ ऽइ᳘तरस्ताᳫँ᳭ स᳘मे᳘वाभवत्त᳘त ऽए᳘कशफमजायत[[!!]]॥

मूलम् - Weber

व᳘डवे᳘तरा᳘भवत्॥
अश्ववृष इ᳘तरो गर्दभी᳘तरा गर्दभ इ᳘तरस्ताᳫं स᳘मेवा᳘भवत्त᳘त ए᳘कशफमजायत॥

मूलम् - विस्वरम्

वडवेतरा ऽभवत् । अश्ववृष इतरः । गर्द्दभीतरा । गर्द्दभ इतरः । तां समेवाभवत् । तत एकशफमजायत ॥ ८ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘इतरा’ शतरूपा ‘वडवा’ अश्वा अभवत् । ‘इतरः’ मनुः अश्ववृषो ऽभवत् । अश्वश्चासौ वृषश्च अश्ववृषः प्रजननसमर्थो ऽश्व इत्यर्थः । ‘इतरा’ शतरूपा ‘गर्द्दभी’- ‘इतरः’ मनुः-‘गर्द्दभः’ अभवदिति प्रत्येकं सम्बन्धः । ‘तामेव’ वडवां गर्द्दभीं च ‘समभवत्’ ततो वडवा ऽश्वसंयोगात् गर्द्दभीगर्द्दभसंयोगात् गर्द्दभाश्वजातीययोर्द्दाम्पत्याच्च एकशफ मेकखुरं अश्वाश्वतरगर्द्दभाख्यं त्रयमजायत ॥ ८ ॥

०९

विश्वास-प्रस्तुतिः

(ता) अजे᳘तरा᳘ ऽभवत्॥
(द्ब) बस्त ऽइ᳘तरो ऽविरि᳘तरो मेष ऽइ᳘तरस्ताᳫँ᳭ स᳘मे᳘वाभवत्त᳘तो ऽजाव᳘यो ऽजायन्तैव᳘मेव य᳘दिदं कि᳘ञ्च मिथुनमा᳘ पिपी᳘लिकाभ्यस्तत्स᳘र्व्वमसृजत॥

मूलम् - श्रीधरादि

(ता) अजे᳘तरा᳘ ऽभवत्॥
(द्ब) बस्त ऽइ᳘तरो ऽविरि᳘तरो मेष ऽइ᳘तरस्ताᳫँ᳭ स᳘मे᳘वाभवत्त᳘तो ऽजाव᳘यो ऽजायन्तैव᳘मेव य᳘दिदं कि᳘ञ्च मिथुनमा᳘ पिपी᳘लिकाभ्यस्तत्स᳘र्व्वमसृजत॥

मूलम् - Weber

अजे᳘तरा᳘भवत्॥
वस्त इ᳘तरोऽविरि᳘तरो मेष इ᳘तरस्ताᳫं स᳘मेॗवाभ्वत्त᳘तोऽजाव᳘योऽजायन्तैव᳘मेव य᳘दिदं किं᳘ च मिथुनमा᳘ पिपी᳘लिकाभ्यस्तत्स᳘र्वमसृजत॥

मूलम् - विस्वरम्

अजेतरा ऽभवत् । वस्त इतरः । अविरितरा । मेष इतरः । तां समेवाभवत् । ततो ऽअजावयो ऽजायन्त । एवमेव यदिदं किञ्च मिथुनमा पिपीलिकाभ्यः तत्सर्वमसृजत ॥ ९ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘इतरा’ शतरूपा ऽजा ऽभवत् ‘इतरः’ मनुः बस्तश्छागः । ‘इतरा’ शतरूपा ‘अविः’- ‘इतरः’ मनुर्मेषः तामेवाजामविं च ‘समभवत्’ । ततस्तस्मात्सम्भवनादजावयः अजाश्च अवयवश्च अजावयः जातिविशेषाः ‘अजायन्त’। विशेषाणामानन्त्यात् प्रत्येकमुपदेशासम्भवं मन्वानस्तिर्यक्सृष्टिं सङ्क्षिप्योपसंहरति- एवमेवेति । ‘यदिदं किञ्च’- यत्किञ्चेदं ‘मिथुनं’ स्त्रीपुंसलक्षणं द्वन्द्वं ‘आ पिपीलिकाभ्यः’ पिपीलिका अभिव्याप्य ‘तत्सर्वं’ जगत् ‘एवमेव’ पशुन्यायेनैव ‘असृजत’ सृष्टवानित्यर्थः ॥ ९ ॥

१०

विश्वास-प्रस्तुतिः

सो ऽवेत्॥
(द) अहम्वाव सृ᳘ष्टिरस्म्यह᳘ᳫँ᳘ हीदᳫँ᳭ स᳘र्व्वम᳘सृक्षी᳘ति त᳘तः सृ᳘ष्टिरभवत्सृ᳘ष्ट्याᳫँ᳭ हास्यैत᳘स्याम्भवति य᳘ ऽएवम्वे᳘द॥

मूलम् - श्रीधरादि

सो ऽवेत्॥
(द) अहम्वाव सृ᳘ष्टिरस्म्यह᳘ᳫँ᳘ हीदᳫँ᳭ स᳘र्व्वम᳘सृक्षी᳘ति त᳘तः सृ᳘ष्टिरभवत्सृ᳘ष्ट्याᳫँ᳭ हास्यैत᳘स्याम्भवति य᳘ ऽएवम्वे᳘द॥

मूलम् - Weber

सोऽवेत्॥
अहम् वाव सृ᳘ष्टिरस्म्यॗहᳫं हीदᳫं स᳘र्वम᳘सृक्षी᳘ति त᳘तः सृ᳘ष्टिरभवत्सृ᳘ष्ट्याᳫं हास्यैत᳘स्याम् भवति य᳘ एवम् वेद॥

मूलम् - विस्वरम्

सो ऽवेत् । अहं वाव सृष्टिरस्मि । अहं हीदं सर्वमसृक्षीति । ततः सृष्टिरभवत् । सृष्ट्यां हास्यैतस्यां भवति । य एवं वेद ॥ १० ॥

श्रीमद्वासुदेवब्रह्मभगवान्

वक्ष्यमाणाग्निसोमेन्द्रादिसृष्टिं सिद्धवत्कृत्य सर्वां सृष्टिमुपसंहति- सो ऽवेदिति । ‘सः’ प्रजापतिरिदं सर्वं जगत् सृष्ट्वा अवेदवगतवान् । कथं ? ‘अहं वाव सृष्टिरस्मि’ । सृज्यत इति सृष्टिः । यन्मया सृष्टञ्जगत् मद्भेदत्वादहमेवास्मि- न मत्तो व्यतिरिच्यते कर्तृक्रिययोरभेदोपचारादिति भावः । इदं सृष्टं जगदहमेव कुत इत्यत आह- अहं हीति । ‘हि’ यस्मात् ‘इदं’ सर्वं जगत् ‘अहमेवासृक्षि’- इति सृष्टिशब्देनात्मानमेवाभ्यधात्प्रजापतिः । ततस्तस्मात्प्रजापतिः ‘सृष्टिरभवत्’ सृष्टिनामा बभूव । स्रष्टुरेतद्गुणविदः फलमाह- सृष्ट्यां हीति । एवं प्रजापतिवत् अन्यो ऽपि ‘यः’ कश्चित् साध्यात्मा ऽधिभूताधिदैवजगदहमेवास्मीति स्वात्मनो ऽनन्यत्वेन वेदोपास्ते । अस्योपासकस्य ‘एतस्यां सृष्ट्यां’ एतस्मिन् जगति ‘ह’ खलु स्रष्टृत्वं भवतीत्यर्थः ॥ १० ॥

११

विश्वास-प्रस्तुतिः

(दा) अथे᳘त्य᳘भ्यमन्थत्[[!!]]॥
(त्स) स मु᳘खाच्च यो᳘नेर्ह᳘स्ताभ्याञ्चाग्नि᳘मसृजत त᳘स्मादेत᳘दुभ᳘यमलो᳘मकमन्तर᳘तो ऽलो᳘मका हि यो᳘निरन्तरतः॥

मूलम् - श्रीधरादि

(दा) अथे᳘त्य᳘भ्यमन्थत्[[!!]]॥
(त्स) स मु᳘खाच्च यो᳘नेर्ह᳘स्ताभ्याञ्चाग्नि᳘मसृजत त᳘स्मादेत᳘दुभ᳘यमलो᳘मकमन्तर᳘तो ऽलो᳘मका हि यो᳘निरन्तरतः॥

मूलम् - Weber

अथे᳘त्यभ्य᳘मन्थत्॥
स मु᳘खाच्च यो᳘नेर्ह᳘स्ताभ्यां चाग्नि᳘मसृजत त᳘स्मादेत᳘दुभ᳘यमलो᳘मकमन्तरॗतोऽलो᳘मका हि यो᳘निरन्तरतः॥

मूलम् - विस्वरम्

अथेत्यभ्यमन्थत् । स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत । तस्मादेतदुभयमलोमकमन्तरतः । अलोमका हि योनिरन्तरतः ॥ ११ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवमनुग्राह्यसृष्टिमुक्त्वा अनुग्राहकसृष्टिं प्रस्तौति- अथेतीति । अथशब्दो ऽनुग्राह्यसर्गानन्तर्यार्थः । इतिशब्दो मन्थनप्रकाराभिनयप्रदर्शनार्थः । मुखे हस्तौ निक्षिप्य ‘अभ्यमन्थत्’ आभिमुख्येन मन्थनमकरोत् । एवं मुखं हस्ताभ्यां मथित्वा स प्रजापतिः ‘मुखाच्च योनेर्हस्ताभ्यां च’ योनिभ्यां ‘अग्निं’ ब्राह्मणजातेरनुग्रहकर्तारं ‘असृजत’ सृष्टवान् । मुखादेः अग्निं प्रति योनित्वे गमकमाह- तस्मादेतदुभयमिति । यस्माद्दाहकस्याग्नेर्हस्तौ मुखं च एतदुभयं योनिः ‘तस्मादेतदुभयमपि’ अन्तरतो ऽभ्यन्तरे ‘अलोमकं’ लोमवर्जितम् । अलोमकेति । या हि स्त्रीणां ‘योनिः’ सा ‘हि अन्तरतो ऽलोमका’- इत्येतत्सामान्यादुभयस्यास्याग्नियोनित्वम् । तथा ब्राह्मणो ऽपि मुखादेव जज्ञे प्रजापतेः । तस्मादेकयोनित्वात् ज्येष्ठेनेवानुजो ऽनुगृह्यते अग्निना ब्राह्मणः । तस्माद्ब्राह्मणो ऽग्निदेवत्यो मुखवीर्यश्च इति श्रुतिस्मृतिसिद्धम् ॥ ११ ॥

१२

विश्वास-प्रस्तुतिः

(स्त) तद्य᳘दिद᳘माहुः[[!!]]॥
(र) अमुं᳘ यजामुं᳘ यजेत्ये᳘कैकन्देव᳘मेत᳘स्यैव सा व्वि᳘सृष्टिरेष᳘ ऽउ᳘ ह्येव स᳘र्व्वे देवाः᳘॥

मूलम् - श्रीधरादि

(स्त) तद्य᳘दिद᳘माहुः[[!!]]॥
(र) अमुं᳘ यजामुं᳘ यजेत्ये᳘कैकन्देव᳘मेत᳘स्यैव सा व्वि᳘सृष्टिरेष᳘ ऽउ᳘ ह्येव स᳘र्व्वे देवाः᳘॥

मूलम् - Weber

तद्य᳘दिद᳘माहुः᳟॥
अमुं᳘ यजामुं᳘ यजेत्ये᳘कैकं देव᳘मेत᳘स्यैव सा वि᳘सृष्टिरेष᳘ उॗ ह्येव स᳘र्वे देवाः॥

मूलम् - विस्वरम्

तद्यदिदमाहुः । अमुं यजामुं यजेति एकैकं देवम् । एतस्यैव सा विसृष्टिः । एष उ ह्येव सर्वे देवाः ॥ १२ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

क्षत्त्रादिदेवतासर्गमिहानुक्तं वक्ष्यमाणमपि उक्तवदुपसंहरति सृष्टिसाकल्यानुकीर्त्यै । सुष्टस्य स्रष्टुरनन्यत्वात् सुष्टं प्रजापतिरेव इत्युक्तार्थस्य श्रुत्यभिप्रायेण अविद्वन्मतं निंदितुमुपन्यस्यति- तद्यदिदमिति । तत्तत्र कर्मप्रकरणे केवलयाज्ञिकाः यागकाले यदिदं वचः ‘आहुः’ ‘अमुं’ अग्निं यज- अमुमिन्द्रं ‘यज’- इत्यादि । नामशस्त्रस्तोत्रकर्मादिभिन्नत्वात् भिन्नमेवाग्न्यादिदेवमेकैकम्मन्यमाना आहुरित्यभिप्रायः । तन्न तथा विद्यादिति वाक्यशेषः । एतस्यानादरणीयत्वे हेतुं वदन् अनुग्राहकसृष्टिमुपसंहरति- एतस्यैवेति । यस्माद्यः सर्वो देवभेदः एतस्यैव प्रजापतेरेव ‘सा विसृष्टिः’ । ‘उ’ पुनः । हीत्यवधारणे । ‘एषः’ प्रजापतिः प्राण एव ‘सर्वे देवाः’ । नान्यद्देवता ऽन्तरमस्तीत्यर्थः ॥ १२ ॥

१३

विश्वास-प्रस्तुतिः

(ऽ) अ᳘थ य᳘त्किञ्चेद᳘मार्द्रम्॥
(न्त) तद्रे᳘तसो ऽसृजत त᳘दु सो᳘म ऽएता᳘वद्वा᳘ ऽइदᳫँ᳭ स᳘र्व्वम᳘न्नञ्चै᳘वान्नाद᳘श्च सो᳘म ऽएवा᳘न्नमग्नि᳘रन्नादः᳘॥

मूलम् - श्रीधरादि

(ऽ) अ᳘थ य᳘त्किञ्चेद᳘मार्द्रम्॥
(न्त) तद्रे᳘तसो ऽसृजत त᳘दु सो᳘म ऽएता᳘वद्वा᳘ ऽइदᳫँ᳭ स᳘र्व्वम᳘न्नञ्चै᳘वान्नाद᳘श्च सो᳘म ऽएवा᳘न्नमग्नि᳘रन्नादः᳘॥

मूलम् - Weber

अ᳘थ यत्किं᳘ चेद᳘मार्द्रम्॥
तद्रे᳘तसोऽसृजत त᳘दु सो᳘म एता᳘वद्वा᳘ इदᳫं स᳘र्वम᳘न्नं चैॗवान्नाद᳘श्च सो᳘म एवा᳘न्नमग्नि᳘रन्नादः॥

मूलम् - विस्वरम्

अथ यत्किञ्चेदमार्द्रम् । तद्रेतसो ऽसृजत । तदु सोमः । एतावद्वा इदं सर्वम् । अन्नं चैवान्नादश्च । सोम एवान्नम् । अग्निरन्नादः ॥ १३ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एकस्यैव प्रजापतेः द्विधोपास्यत्वाय अग्निसर्गमुक्त्वा अन्नसर्गमाह- अथ यत्किञ्चेदमिति । अथाग्निसर्गानन्तरं यत्किञ्चेदं लोके ‘आर्द्रं’ द्रवात्मकं तत्प्रजापती रेतस आत्मनो बीजादसृजत सृष्टवान् । द्रवात्मकश्च सोमः । तस्माद्यदार्द्रं प्रजापतिना रेतसः सृष्टं तदु सोम एव । स्रष्टव्यान्तरशङ्कां वारयति- एतावद्वा इदं सर्वमिति । ‘इदं सर्वं’ दृश्यमानं जगत्- ‘एतावद्वै’ एतावदेव । कियत् । ‘अन्नं चैवान्नादश्च’ नातो ऽधिकम् । कस्य सोमत्वमग्नित्वं चेत्यपेक्षायामाह- सोम एवान्नमिति । यदद्यते ऽन्नं तदेव सोमः । य एवान्नादः सो ऽग्निरेव । अर्थबलाद्धि अवधारणम् अग्नेरपि चकोरपक्षिणं प्रति अन्नत्वदर्शनात्- अद्भिरद्यमानत्वदर्शनाच्च । सोमस्यापि क्वचित् इज्यमानतया अत्तृत्वावगमाच्च अग्निरपि संहार्यश्चेत्- सोम एव । सोमो ऽपि संहर्ता चेदग्निरेवेत्यर्थः ॥ १३ ॥

१४

विश्वास-प्रस्तुतिः

सैषा ब्ब्र᳘ह्मणो᳘ ऽतिसृष्टिः॥
(र्य्य) यच्छ्रे᳘यसो देवान᳘सृजता᳘थ यन्म᳘र्त्यः स᳘न्नमृ᳘तान᳘सृजत त᳘स्माद᳘तिसृष्टिर᳘तिसृष्ट्याᳫँ᳭ हास्यैत᳘स्यां भवति य᳘ ऽएवम्वे᳘द॥

मूलम् - श्रीधरादि

सैषा ब्ब्र᳘ह्मणो᳘ ऽतिसृष्टिः॥
(र्य्य) यच्छ्रे᳘यसो देवान᳘सृजता᳘थ यन्म᳘र्त्यः स᳘न्नमृ᳘तान᳘सृजत त᳘स्माद᳘तिसृष्टिर᳘तिसृष्ट्याᳫँ᳭ हास्यैत᳘स्यां भवति य᳘ ऽएवम्वे᳘द॥

मूलम् - Weber

सैषा ब्र᳘ह्मणो᳘ऽतिसृष्टिः॥
यछ्रे᳘यसो देवान᳘सृजता᳘थ यन्म᳘र्त्यः स᳘न्नमृ᳘तान᳘सृजत त᳘स्माद᳘तिसृष्टिर᳘तिसृष्ट्याᳫं हास्यैत᳘स्याम् भवति य᳘ एवम् वे᳘द॥

मूलम् - विस्वरम्

सैषा ब्रह्मणो ऽतिसृष्टिः । यत् श्रेयसो देवानसृजत । अथ यन्मर्त्यः सन्नमृतानसृजत । तस्मादतिसृष्टिः । अतिसृष्ट्यां हास्यैतस्यां भवति । य एवं वेद ॥ १४ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

अनुग्राहकदेवसृष्टिं सृष्ट्वा तदुपासकस्य फलोक्त्यर्थं आदौ देवसृष्टिं स्तौति- सैषेति । ‘सा एषा’ सृष्टिः ‘ब्रह्मणः’ प्रजापतेः ‘अतिसृष्टिः’ आत्मनो ऽप्यधिकतरा । का सा इत्यत आह- यच्छ्रेयसो देवानसृजतेति । ‘यत्’ यस्मात् ‘श्रेयसः’ प्रशस्यतरात् आत्मनः सकाशात् ‘देवानसृजत’ । तस्मात्सैषा देवसृष्टिरतिसृष्टिः । ननु- अग्निर्मूर्द्धेत्यादि (वा. सं. अ. ३ कं. १२) श्रुतेः अग्न्यादयो ऽस्यावयवाः- तत्कथं तत्सृष्टिस्ततो ऽप्यतिशयवतीत्याशङ्क्य प्रजापतेर्यजमानावस्थापेक्षया देवसृष्टेरुत्कृष्टत्ववचनमविरुद्धमित्याशयेन परिहर्तुमाह- अथ यन्मर्त्यः सन्नमृतानसृजतेति । ‘अथ’ यद्यस्मात् यजमानावस्थः प्रजापतिर्मर्त्यो मरणधर्मा सन् अमृतानमरणधर्मिणो देवान् कर्मज्ञानवह्निना सर्वान् स्वस्य पाप्मनः ओषित्वा ‘असृजत’ । तस्मादियं देवसृष्टिरतिसृष्टिः उत्कृष्टज्ञानकर्मणोः फलमित्यर्थः । एतादृशः प्रजापत्युपासकस्य फलमाह- अतिसृष्ट्यां हेति । य एवं सृष्ट्यात्मा प्रजापतिरहमेवेति वेद । अस्योपासकस्य ‘एतस्यामतिसृष्ट्यां’ देवादिप्रपञ्चे- ‘ह’ किल भवति । प्रजापतिवत् स्रष्टृत्वं इति शेषः ॥ १४ ॥

१५

विश्वास-प्रस्तुतिः

त᳘द्धेदन्तर्ह्य᳘व्याकृतमासीत्॥
(त्त᳘) त᳘न्नामरूपा᳘भ्यामेव व्व्या᳘क्रियतासौना᳘मा ऽय᳘मिद᳘ᳫँ᳘रूप ऽइ᳘ति त᳘दिदम᳘प्येत᳘र्हि᳘ नामरूपा᳘भ्यामेव व्व्या᳘क्रियते ऽसौना᳘मा ऽय᳘मिद᳘ᳫँ᳘रूप ऽइ᳘ति॥

मूलम् - श्रीधरादि

त᳘द्धेदन्तर्ह्य᳘व्याकृतमासीत्॥
(त्त᳘) त᳘न्नामरूपा᳘भ्यामेव व्व्या᳘क्रियतासौना᳘मा ऽय᳘मिद᳘ᳫँ᳘रूप ऽइ᳘ति त᳘दिदम᳘प्येत᳘र्हि᳘ नामरूपा᳘भ्यामेव व्व्या᳘क्रियते ऽसौना᳘मा ऽय᳘मिद᳘ᳫँ᳘रूप ऽइ᳘ति॥

मूलम् - Weber

त᳘द्धेदं तर्ह्य᳘व्याकृतमासीत्॥
त᳘न्नामरूपा᳘भ्यामेव व्या᳘क्रियतासौना᳘माय᳘मिदं᳘रूप इ᳘ति त᳘दिदम᳘प्येत᳘र्हि नामरूपा᳘भ्यामेव व्या᳘क्रियतेऽसौना᳘माय᳘मिदं᳘रूप इ᳘ति॥

मूलम् - विस्वरम्

तत् ह इदं तर्हि अव्याकृतमासीत् । तन्नामरूपाभ्यामेव व्याक्रियत । असौनामा ऽयम् इदंरूप इति । तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियते । असौनामा ऽयम् इदंरूप इति ॥ १५ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एतावतोक्तस्य व्याकृतस्य जगतः अव्याकृतावस्थां बीजभूतां- सबीजसंसारोद्धरणायाह- तद्धेदं तर्हीति । तदिदं व्याकृतं जगत् ‘तर्हि’ तदा उत्पत्तेः प्राक्काले अव्याकृतमनभिव्यक्तनामरूपं- ‘ह’ किल- आसीद्बभूव । तदव्याकृतं जगत् ‘नामरूपाभ्यां’ नाम्ना रूपेण च स्वयमेव ‘व्याक्रियत’ । व्याक्रियत- इति कर्मकर्तुः प्रयोगात् आत्मनैव विस्पष्टं नामरूपविशेषावधारणमर्यादं व्यक्तिभावमापद्यत । तदेव स्पष्टयति- असौनामेति । अयं पुरुषादिपदार्थः असौनामा देवदत्तो यज्ञदत्त इति वा नामास्येत्यसौनामा । इदं शुक्लं कृष्णं वा रूपमस्येत्यसाविदंरूप इत्येवं- व्याक्रियतेति सम्बन्धः । असौशब्दः श्रौतो ऽतो ऽव्ययत्वेन ज्ञेयः । अव्याकृतमेव व्याकृतात्मना व्यक्तं इत्येतत्सुप्तप्रबुद्धदृष्टान्तेन स्पष्टयति- तदिदमप्येतर्हीति । ‘तदिदं’ सुप्तमव्याकृतं वस्तु ‘एतर्हि’ एतस्मिन्नपि काले नामरूपाभ्यामेव व्याक्रियते । ‘असौनामा ऽयमिदंरूपः’ इति उक्तार्थम् ॥ १५ ॥

१६

विश्वास-प्रस्तुतिः

स᳘ ऽएष᳘ ऽइह प्प्र᳘विष्टः॥
(ष्ट ऽआ᳘) आ᳘ नखाग्ग्रे᳘भ्यो य᳘था क्षुरः᳘ क्षुरधाने᳘ ऽवहितः स्या᳘द्विश्वम्भरो᳘ वा व्विश्वम्भरकुलाये तन्न प᳘श्यन्त्य᳘कृत्स्नो हि सः᳘॥

मूलम् - श्रीधरादि

स᳘ ऽएष᳘ ऽइह प्प्र᳘विष्टः॥
(ष्ट ऽआ᳘) आ᳘ नखाग्ग्रे᳘भ्यो य᳘था क्षुरः᳘ क्षुरधाने᳘ ऽवहितः स्या᳘द्विश्वम्भरो᳘ वा व्विश्वम्भरकुलाये तन्न प᳘श्यन्त्य᳘कृत्स्नो हि सः᳘॥

मूलम् - Weber

स᳘ एष᳘ इह प्र᳘विष्टः॥
आ᳘ नखाग्रे᳘भ्यो य᳘था क्षुरः᳘ क्षुरधाने᳘ऽवहितः स्या᳘द्विश्वम्भरो᳘ वा विश्वम्भरकुलाये तं न प᳘श्यन्त्य᳘कृत्स्नो हि सः᳟॥

मूलम् - विस्वरम्

स एष इह प्रविष्ट आ नखाग्रेभ्यः । यथा क्षुरः क्षुरधाने अवहितः स्यात् । विश्वम्भरो वा विश्वम्भरकुलाये । तं न पश्यन्ति । अकृत्स्नो हि सः ॥ १६ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

तद्धेदमि (कं. १५) त्यत्र मूलकारणमुक्त्वा तन्नामरूपाभ्यामि (कं. १५) त्यादिना तत्कार्यमुक्तम् । इदानीं तस्मिन् कार्यस्रष्टुः प्रवेशमाह- स एष इह प्रविष्ट इति । ‘स एषः’ स्रष्टा परमात्मैव ‘इह’ ब्रह्मादिस्तंवपर्यन्तेषु- देहेषु अव्याकृते नामरूपे व्याकुर्वन् ‘प्रविष्टः’ । यथा जलादौ सूर्यादेः प्रतिबिम्बलक्षणः प्रवेशो दृश्यते तथा ऽऽत्मनो ऽपि सृष्टे कार्ये काल्पनिकः प्रवेश इत्यर्थः । का पुनरस्य प्रवेशस्य मर्यादा इत्याशङ्क्याह- आ नखाग्रेभ्य इति । ‘आ नखाग्रेभ्यः’ नखाग्रं मर्यादीकृत्य प्रविष्टः । नखाग्रमर्यादं हि आत्मनश्चैतन्यमुपलभ्यते । तत्र कथमिव प्रविष्ट इत्याकाङ्क्षापूर्वकं दृष्टान्तद्वयमुत्थापयति- यथेति । यथा लोके ‘क्षुरधाने’ क्षुरो धीयते ऽस्मिन्निति क्षुरधानं तस्मिन् नापितोपस्कराधाने क्षुरः एकदेशे ‘अवहितः’ प्रवेशितो ऽवस्थितः स्यात् (१)’ यथा वा जाठरत्वेन विश्वस्य भरणात् ‘विश्वम्भरो ऽग्निः’ ‘विश्वम्भरकुलाये’ अग्न्याधारभूतकोष्ठादिलक्षणे नीडे सर्वतो व्याप्यावस्थितः (२) तथा ऽऽत्मा सामान्यतो विशेषतश्च सुषुप्त्यादौ देहं व्याप्य अवस्थित इत्यर्थः । इदानीं व्याकृताज्जगतः आत्मानं पृथक्कर्तुं- तन्न पश्यन्तीति वाक्यम् । ‘तं’ प्राणनादिक्रियाविशिष्टमात्मानं तत्रैव प्रविष्टं सन्तं पश्यन्तो ऽपि केवलं पूर्णमात्मानं ‘न पश्यन्ति’ नोपलभन्ते । तत्र प्राणनादिक्रियाविशिष्टस्यादर्शने हेतुमाह- अकृत्स्नो हीति । ‘हि’ यस्मात् ‘सः’ प्राणनादिक्रियाविशिष्ट आत्मा ‘अकृत्स्नः’ असमस्तः असम्पूर्ण इति यावत् ॥ १६ ॥

१७

विश्वास-प्रस्तुतिः

(स᳘) प्प्राण᳘न्नेव᳘ प्प्राणो ना᳘म भ᳘वति॥
व्व᳘दन्वाक्प᳘श्यंश्च᳘क्षुः शृण्वञ्छ्रो᳘त्रम्मन्वानो म᳘नस्ता᳘न्यस्यैता᳘नि कर्म्मना᳘मान्येव[[!!]] स यो᳘ ऽत ऽए᳘कैकमुपा᳘स्ते न स᳘ व्वेदा᳘कृत्स्नो᳘ ह्येषो᳘ ऽत ऽए᳘कैकेन भ᳘वति॥

मूलम् - श्रीधरादि

(स᳘) प्प्राण᳘न्नेव᳘ प्प्राणो ना᳘म भ᳘वति॥
व्व᳘दन्वाक्प᳘श्यंश्च᳘क्षुः शृण्वञ्छ्रो᳘त्रम्मन्वानो म᳘नस्ता᳘न्यस्यैता᳘नि कर्म्मना᳘मान्येव[[!!]] स यो᳘ ऽत ऽए᳘कैकमुपा᳘स्ते न स᳘ व्वेदा᳘कृत्स्नो᳘ ह्येषो᳘ ऽत ऽए᳘कैकेन भ᳘वति॥

मूलम् - Weber

प्राण᳘न्नेव᳘ प्राणो ना᳘म भ᳘वति॥
व᳘दन्वाक्प᳘श्यंश्च᳘क्षुः शृण्वञ्छ्रो᳘त्रम् मन्वानो म᳘नस्ता᳘न्यस्यैता᳘नि कर्मनामा᳘न्येव स यो᳘ऽत ए᳘कैकमुपा᳘स्ते न स᳘ वेदा᳘कृत्स्नोॗ ह्येषो᳘ऽत ए᳘कैकेन भ᳘वति॥

मूलम् - विस्वरम्

प्राणन्नेव प्राणो नाम भवति । वदन् वाक् । पश्यन् चक्षुः । शृण्वन् श्रोत्रम् । मन्वानो मनः । तान्यस्यैतानि कर्मनामान्येव । स यः अतः एकैकमुपास्ते न स वेद । अकृत्स्नो ह्येषः । अतः एकैकेन भवति ॥ १७ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

कुतः पुनस्तस्याकृत्स्नत्वमित्यत आह- प्राणन्नेवेति । ‘प्राणन्नेव’ प्राणनक्रियामेव कुर्वन्नात्मा ‘प्राणो नाम’ प्राणाभिधानो भवति । नान्यां क्रियां कुर्वन्, प्राणितीति व्युत्पत्तेः । ‘वदन्’ वदनक्रियां कुर्वन्नात्मा ‘वाक्’ वक्तीति व्युत्पत्तेः । प्राणनवदनाभ्यामनूक्तकर्मेन्द्रियव्यापार उपलक्ष्यते । ‘पश्यन्’ दर्शनक्रियां कुर्वन् आत्मा ‘चक्षुः’- चष्टे इति व्युत्पत्तेः । ‘शृण्वन्नात्मा’ ‘श्रोत्रं’ शृणोतीति व्युत्पत्तेः । दृष्टिश्रुतिभ्यां अनूक्तज्ञानेन्द्रियव्यापार उपलक्ष्यते । ‘मन्वानः’ मननक्रियां कुर्वन्नात्मा ‘मनः’ मनुत इति व्युत्पत्तेः । तान्येतानि प्राणादिनामानि- अस्यात्मनः ‘कर्मनामान्येव’ कर्मजानि नामान्येव पाचकपाठकादिवत् न वस्तुविषयाणि । अतो न कृत्स्नवस्त्ववद्योतकानि । अकृत्स्नदर्शी नात्मदर्शीत्याह- स यो ऽत इति । ‘स यः’ अतो ऽस्मात् प्राणनादिक्रिया समुदायात् ‘एकैकं’ प्राणमिति वा चक्षुरिति वा विशिष्टं अनुपसंहृतेतरविशिष्टक्रियात्मकमात्मानं मनसा अयमात्मेति ‘उपास्ते’ चिन्तयति- ‘स न वेद’ न जानाति कृत्स्नमात्मानम् । कुत इत्यत आह- अकृत्स्नो हीति । ‘हि’ यस्मात् एष आत्मा अतो ऽस्मात् प्राणनादिसमुदायात् प्रविभक्तः ‘एकैकेन’ प्राणादिविशेषणेन विशिष्टो ‘भवति’ । तस्मादकृत्स्नो ऽसमस्तः इतरधर्मानुपसंहारात् । अकृत्स्नदर्शी तु न ब्रह्मात्मतत्त्वदर्शीत्यर्थः ॥ १७ ॥

१८

विश्वास-प्रस्तुतिः

(त्या) आत्मे᳘त्येवोपासीत[[!!]]॥
(ता᳘) अ᳘त्र᳘ ह्येते स᳘र्व्व ऽए᳘कम्भ᳘वन्ति त᳘देत᳘त्पदनी᳘यमस्य स᳘र्व्वस्य य᳘दय᳘मा᳘त्मा ऽने᳘न᳘ ह्येतत्स᳘र्व्वम्वे᳘द य᳘था ह वै᳘ प᳘देनानुविन्दे᳘देव᳘ङ्कीर्त्तिᳫँ᳭ श्लो᳘कम्विन्दते य᳘ ऽएवम्वे᳘द॥

मूलम् - श्रीधरादि

(त्या) आत्मे᳘त्येवोपासीत[[!!]]॥
(ता᳘) अ᳘त्र᳘ ह्येते स᳘र्व्व ऽए᳘कम्भ᳘वन्ति त᳘देत᳘त्पदनी᳘यमस्य स᳘र्व्वस्य य᳘दय᳘मा᳘त्मा ऽने᳘न᳘ ह्येतत्स᳘र्व्वम्वे᳘द य᳘था ह वै᳘ प᳘देनानुविन्दे᳘देव᳘ङ्कीर्त्तिᳫँ᳭ श्लो᳘कम्विन्दते य᳘ ऽएवम्वे᳘द॥

मूलम् - Weber

आत्मे᳘त्येवो᳘पासीत॥
अ᳘त्रॗ ह्येते स᳘र्व ए᳘कम् भ᳘वन्ति त᳘देत᳘त्पदनी᳘यमस्य स᳘र्वस्य य᳘दय᳘माॗत्माने᳘नॗ ह्येतत्स᳘र्वम् वे᳘द य᳘था ह वै᳘ प᳘देनानुविन्दे᳘देवं᳘ कीर्तिं श्लो᳘कम् विन्दते य᳘ एवम् वे᳘द॥

मूलम् - विस्वरम्

आत्मेत्येवोपासीत । अत्र ह्येते सर्व एकं भवन्ति । तदेतत्पदनीयमस्य सर्वस्य । यदयमात्मा । अनेन ह्येतत्सर्वं वेद । यथा ह वै पदेनानुविन्देत् । एवं कीर्तिं श्लोकं विन्दते । य एवं वेद ॥ १८ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

कथं पुनर्ब्रह्मात्मतत्त्वदर्शीत्याकाङ्क्षापूर्वकं विद्यासूत्रमवतारयति- आत्मेत्येवोपासीतेति । यस्य प्राणादीनिविशेषणानि यान्युक्तानि स तानि सर्वाण्याप्नुवन् आत्मेत्युच्यते । तं ‘आत्मा इत्येवोपासीत’ । न केनचिद्विशेषणेन विशिष्टमात्मानं चिन्तयेदित्यर्थः । एवं हि असौ स्वेन वस्तुरूपेण गृह्यमाणः कृत्स्नो भवति । कृस्नत्वे हेतुमाह- अत्र हीति । ‘हि’ यस्मात् अत्रास्मिन्निरुपाधिके आत्मनि ‘एते सर्वे’ प्राणनादिकर्मजनामाभिधेयाः प्राणाद्युपाधिकृता विशेषाः ‘एकं भवन्ति’ अभिन्नतां प्रतिपद्यन्ते । जलसूर्यप्रतिबिम्बभेदा इवादित्ये । तस्मादात्मेत्येवोपासीत । ननु- अनात्मनो ऽपि विद्यमानत्वात् कथमात्मन एवोपासने नियमविधानं क्रियते इत्यत आह- तदेतदिति । ‘अस्य सर्वस्य’ अनात्मपदार्थस्य तदेतत्प्रकृतमात्मस्वरूपं ‘पदनीयं’ गमनीयं अन्वेषणीयमिति यावत् । नान्यत् । अस्य सर्वस्येति निर्द्धारणार्था षष्ठी । अस्मिन् सर्वस्मिन्नित्यर्थः । किं तत् ? ‘यदयमात्मा’ यदेतदात्मतत्त्वम् । अस्यैव पदनीयत्वे हेतुमाह- अनेन ह्येतदिति । अनेनेतीयमित्थंभावे तृतीया । अनेनात्मज्ञानेन ‘हि’ यस्मात् सर्वमनात्मजातमन्यत् ‘एतत्सर्वं’ समस्तं ‘वेद’ जानाति । कथं ? पुनरेतत्पदनीयमित्यत आह- यथा ह वा इति । ‘यथा ह वै’ लोके गवादिखुराङ्कितो देशः पदमित्युच्यते । तेन पदेनान्विष्यमाणो नष्टं विवित्सितं गोसुवर्णादिवस्तु अनुविन्देल्लभेत । अयमनेन प्रकारेण श्रुत्यादिना आत्मनि लब्धे सर्वमनुलभते इत्यर्थः । इदानीं विज्ञानस्य गुणफलमाह- कीर्तिं श्लोकमिति । ‘य एवं’ यथोक्तं नामरूपानुप्रवेशेन ख्यातिं गतं आत्मेत्यादिनामरूपाभ्यां प्राणनादिसङ्गतिं श्लोकं च प्राप्तवन्तमात्मानं ‘वेद’ । स तद्वदेव ‘कीर्तिं’ प्रख्यातिं ‘श्लोकं’ च मित्रैः सह सङ्घातं ‘विन्दते’ लभते इत्यर्थः ॥ १८ ॥

१९

विश्वास-प्रस्तुतिः

त᳘देतत्प्रे᳘यः पुत्रात्॥
(त्प्रे᳘) प्प्रे᳘यो व्वित्तात्प्रे᳘यो ऽन्य᳘स्मात्स᳘र्व्वस्माद᳘न्तरतरं य᳘दय᳘मात्मा स᳘ यो ऽन्य᳘मात्म᳘नः प्प्रिय᳘म्ब्रुवाण᳘म्ब्रूया᳘त्प्रिय᳘ᳫँ᳘ रोत्स्यती᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यादात्मा᳘नमेव᳘ प्प्रियमु᳘पासीत स य᳘ ऽआत्मा᳘नमेव᳘ प्प्रिय᳘मुपा᳘स्ते न᳘ हास्य प्प्रिय᳘म्प्रमा᳘युकं भवति॥

मूलम् - श्रीधरादि

त᳘देतत्प्रे᳘यः पुत्रात्॥
(त्प्रे᳘) प्प्रे᳘यो व्वित्तात्प्रे᳘यो ऽन्य᳘स्मात्स᳘र्व्वस्माद᳘न्तरतरं य᳘दय᳘मात्मा स᳘ यो ऽन्य᳘मात्म᳘नः प्प्रिय᳘म्ब्रुवाण᳘म्ब्रूया᳘त्प्रिय᳘ᳫँ᳘ रोत्स्यती᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यादात्मा᳘नमेव᳘ प्प्रियमु᳘पासीत स य᳘ ऽआत्मा᳘नमेव᳘ प्प्रिय᳘मुपा᳘स्ते न᳘ हास्य प्प्रिय᳘म्प्रमा᳘युकं भवति॥

मूलम् - Weber

त᳘देतत्प्रे᳘यः पुत्रात्॥
प्रे᳘यो वित्तात्प्रे᳘योऽन्य᳘स्मात्स᳘र्वस्माद᳘न्तरतरं य᳘दय᳘मात्मा सॗ योऽन्य᳘मात्म᳘नः प्रिय᳘म् ब्रुवाण᳘म् ब्रूया᳘त्प्रियं᳘ रोत्स्यती᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यादात्मा᳘नमेव᳘ प्रियमु᳘पासीत स य᳘ आत्मा᳘नमेव᳘ प्रिय᳘मुपा᳘स्ते न᳘ हास्य प्रिय᳘म् प्रमा᳘युकम् भवति॥

मूलम् - विस्वरम्

तदेतत्प्रेयः पुत्रात्, प्रेयो वित्तात्, प्रेयो ऽन्यस्मात्सर्वस्मात् । अन्तरतरम्- यदयमात्मा । स यो ऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात् । प्रियं रोत्स्यतीति । ईश्वरो ह । तथैव स्यात् । आत्मानमेव प्रियमुपासीत । स य आत्मानमेव प्रियमुपास्ते । न हास्य प्रियं प्रमायुकं भवति ॥ १९ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

कुतो ऽन्यत्सर्वमनादृत्यात्मतत्त्वमेव विज्ञेयमित्याशङ्कायां लोकदृष्टिमवष्टभ्याह- तदेतदिति । तदेतदात्मतत्त्वं ‘पुत्रात्’ प्रियत्वेन प्रसिद्धात् ‘प्रेयः’ प्रियतरम् । पुत्रो हि लोके प्रियः प्रसिद्धः । तस्मादपि प्रियतरमिति निरतिशयप्रियत्वं दर्शयति । तथा ‘वित्तात्’ दैवमानुषादपरो ऽक्षज्ञानहिरण्यरत्नादेः ‘प्रेयः’ प्रियतरम् । तथा पुत्रादेः अन्यस्मात्प्रियत्वेन प्रसिद्धात् ‘सर्वस्मात् प्रेयः’ प्रियतरम् । तत्कस्मादात्मतत्त्वमेव प्रियतरं न प्राणादीति । उच्यते- ‘अन्तस्तरम्’ बाह्यात् पुत्रवित्तादेः प्राणपिण्डसमुदायो हि अन्तरो ऽभ्यन्तर आत्मनः सन्निकृष्टः तस्मादप्यन्तरातिशयेनान्तरमन्तरतरं ‘यदयमात्मा’ यदेतदात्मतत्त्वम् । यो हि लोके निरतिशयप्रियः स सर्वप्रयत्नेनोपलब्धव्यो भवति । तथा अयमात्मा सर्वलौकिकप्रियेभ्यः प्रियतमः । तस्मात्तल्लाभे महान् यत्न आस्थेय इत्यर्थः । ननु- अनात्मनो ऽपि पुत्रवित्तादेः प्रियत्वमनुभूयते इति । कस्मात्पुनरात्मप्रियोपादानेनैव इतरहानं क्रियत इत्यत आह-स यो ऽन्यमिति । ‘यः’ कश्चिदात्मप्रियवादी ‘सः’ ‘अन्यं’ अनात्मविषयं पुत्रादिकं ‘आत्मनः’ सकाशात् ‘प्रियं ब्रुवाणं’ प्रति ‘ब्रूयात्’ वदेत् । किं ? तव पुत्रादिलक्षणं प्रियमभिमतं तर्हि मन्दो ऽसि । यतस्तत्प्रियं ‘रोत्स्यति’ आवरणं प्राणसंरोधं प्राप्स्यति विनङ्क्ष्यतीति यावत् । स कस्मादेवं ब्रवीतीत्यपेक्षायामाह- ईश्वरो हेति । यस्मादेवं वक्तुं असौ ‘ईश्वरो ह’ समर्थः पर्याप्त एव । तस्मादेवं वदेत् । कुतो ऽस्येश्वरत्वमवगम्यते इत्याशङ्कायां यथार्थवादित्वादित्याह- तथैवेति । यस्मात्प्रियत्वेन कल्पितमनात्मवस्तु विनङ्क्ष्यतीति यत्तेनोक्तं तत्तथैव स्यात् । अविसंवाद्येव भवेत् । यथाभूतार्थवादी हि सः- तस्मादस्येश्वरत्वमवगम्यते । एवमनात्मनि अमुख्या प्रीतिरिति स्थिते फलितमाह- आत्मानमेवेति । तस्मादन्यत्प्रियमुज्झित्वा ‘आत्मानमेव प्रियमुपासीत’ चिन्तयेत् । तत्फलमाह- स य आत्मानमेवेति । अस्योपासकस्य ‘प्रियं’ प्राणादिकं ‘प्रमायुकं’ प्रमरणशीलं ‘ह’ किल ‘न भवति’ इत्येतत्प्रियगुणफलविधानार्थं मुखस्य फलस्य सर्वभावापत्तेर्वक्ष्यमाणत्वादित्यर्थः ॥ १९ ॥

२०

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र्य्य᳘) य᳘द्ब्रह्मविद्य᳘या स᳘र्व्वम्भविष्य᳘न्तो मनु᳘ष्या म᳘न्यन्ते कि᳘मु तद्ब्र᳘ह्मावेद्य᳘स्मात्तत्स᳘र्व्वम᳘भवदि᳘ति॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र्य्य᳘) य᳘द्ब्रह्मविद्य᳘या स᳘र्व्वम्भविष्य᳘न्तो मनु᳘ष्या म᳘न्यन्ते कि᳘मु तद्ब्र᳘ह्मावेद्य᳘स्मात्तत्स᳘र्व्वम᳘भवदि᳘ति॥

मूलम् - Weber

त᳘दाहुः॥
य᳘द्ब्रह्मविद्य᳘या स᳘र्वम् भविष्य᳘न्तो मनुॗष्या म᳘न्यन्ते कि᳘मु तद्ब्र᳘ह्मावेद्य᳘स्मात्तत्स᳘र्वम᳘भवदि᳘ति॥

मूलम् - विस्वरम्

तदाहुः- यत् ब्रह्मविद्यया सर्वे भविष्यन्तो मनुष्या मन्यन्ते । किमु तत् ब्रह्मावेत् ? यस्मात्तत्सर्वमभवदिति ॥ २० ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“आत्मेत्येवोपासीत” (कं. १८) इति सूत्रिता ब्रह्मविद्या । यदर्था कृत्स्ना ऽप्युपनिषत् तस्यैतस्य सूत्रस्य व्याचिख्यासुः श्रुतिः प्रयोजनाभिधित्सयोपोद्धातङ्करोति- तदाहुरिति । ‘तदिति’ अनन्तरवाक्ये । अवेदित्यन्तं वक्ष्यमाणं वस्तु । ब्रह्म विविदिषवो नित्यनिरतिशयश्रेयः प्रतिपित्सवो ब्राह्मणा ‘आहुः’ । किमाहुरित्याह- यद्ब्रह्मविद्यया इति । यद्ब्रह्म परमात्मा तद्यया वेद्यते सा ब्रह्मविद्या तया महाविद्यया ‘सर्वं’ निरवशेषं- ‘भविष्यन्तः’ सर्वात्मका भविष्याम इत्येवं ‘मनुष्याः’ यन्मन्यन्ते सम्भावयन्ति । मनुष्यग्रहणं विशेषतो ऽविकारिज्ञापनार्थम् । मनुष्या एव हि विशेषतः अभ्युदयनिःश्रेयससाधने अधिकृता इत्यभिप्रायः । तत्र विप्रतिषिद्धं वस्तु लक्ष्यते अतः पृच्छामः- किमु तद्ब्रह्मेति । ‘उ’ इति प्रश्ने । ‘तद्ब्रह्म’ किं ? यस्य विज्ञानात् सर्वं भविष्यन्तः ‘मनुष्या मन्यन्ते’ । तद्ब्रह्म किमवेत् किमज्ञासीत् यस्माद्विज्ञानात् तद्ब्रह्म सर्वमभवत् इति त्रयः प्रश्नाः । तद्ब्रह्म किमात्मस्वरूपमतिरिक्तं वेति प्रथमः (१) । किं वा अवेत् इति स्वरूपं तदतिरिक्तं वा अज्ञासीदिति द्वितीयः (२) । यस्मात्तत्सर्वमभवदिति सर्वभावापत्तिरपि किं विद्यमानैवा ऽभिव्यज्यते नूतना वोत्पद्यते इति तृतीयः (३) इत्यर्थः ॥ २० ॥

२१

विश्वास-प्रस्तुतिः

ब्ब्र᳘ह्म वा᳘ ऽइदम᳘ग्र ऽआसीत्॥
(त्त᳘) त᳘दात्मा᳘नमे᳘वावेदहम्ब्र᳘ह्मास्मी᳘ति त᳘स्मात्तत्स᳘र्व्वमभवत्तद्यो᳘ यो देवा᳘नाम्प्रत्य᳘बुध्यत स᳘ स ऽएव त᳘दभवत्तथ᳘र्षीणान्त᳘था मनु᳘ष्याणाम्॥

मूलम् - श्रीधरादि

ब्ब्र᳘ह्म वा᳘ ऽइदम᳘ग्र ऽआसीत्॥
(त्त᳘) त᳘दात्मा᳘नमे᳘वावेदहम्ब्र᳘ह्मास्मी᳘ति त᳘स्मात्तत्स᳘र्व्वमभवत्तद्यो᳘ यो देवा᳘नाम्प्रत्य᳘बुध्यत स᳘ स ऽएव त᳘दभवत्तथ᳘र्षीणान्त᳘था मनु᳘ष्याणाम्॥

मूलम् - Weber

ब्र᳘ह्म वा᳘ इदम᳘ग्र आसीत्॥
त᳘दात्मा᳘नमेॗवावेदहम् ब्र᳘ह्मास्मी᳘ति त᳘स्मात्तत्स᳘र्वमभवत्तद्यो᳘-यो देवा᳘नाम् प्रत्य᳘बुध्यत स᳘ एव त᳘दभवत्तथ᳘र्षीणां त᳘था मनुॗष्याणाम्॥

मूलम् - विस्वरम्

ब्रह्म वा इदमग्र आसीत् । तदात्मानमेवावेत्- “अहं 3 ब्रह्मास्मि”- इति । तस्मात् तत्सर्वमभवत् । तत् यो यो देवानां प्रत्यबुध्यत । स स एव तदभवत् । तथा ऋषीणाम् । तथा मनुष्याणाम् ॥ २१ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एतेषां प्रश्नानां क्रमेण सर्वदोषानागन्धितं प्रतिवचनमाह- ब्रह्म वा इदमिति । ‘अग्रे’ प्राक् प्रतिबोधादपि ‘इदं’ शरीरस्थं प्रमात्रादिसाक्षिभूतं त्वंपदलक्ष्यं ‘ब्रह्म वै’ ब्रह्मैवासीत् । वैशब्दः अवधारणार्थः । तत् ब्रह्मविद्याविशिष्टतया अधिकारित्वेन व्यवस्थितम् । नासि त्वं संसारी । किन्तु सकलधर्मरहितं चिदानन्दैकरसं ब्रह्मैवासि । इति दयालुना आचार्येण कथञ्चित्प्रतिबोधितं ‘आत्मानमेव’- ‘अहं ब्रह्म’ प्रमात्रादिसाक्षि अशनायाद्यतीतं नेति नेति अस्थूलादिलक्षणं ‘अस्मि’ भवामि इत्येवमवेत् अज्ञासीत् । ‘तस्मात्’ एवं विज्ञानात् तद्ब्रह्म ‘सर्वमभवत्’ । अब्रह्मारोपणाविद्यापगमात्तत्कार्यस्यासर्वत्वस्य निर्वृत्त्या स्वाभाविकं सर्वत्वं प्राप्तवदित्यर्थः । “यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते” इति यत्पृष्टं “किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवदिति” इति च तन्निर्णीतम् । ब्रह्मविद्यायां अग्निहोत्रादाविव मनुष्यत्वाद्यधिकारिविशेषणनियमो नास्ति, इत्याह- तद्यो यो देवानामिति । तत्तत्र ‘देवानां’ मध्ये ‘यो यः’ देवः ‘प्रत्यबुध्यत’ प्रतिबुद्धवान् आत्मानं यथोक्तेन विधिना आत्मबोधनादेव ‘स स एव’ देवः तद्ब्रह्म सर्वात्मकमभवत् । न साधनान्तरेणेति । ‘तथा ऋषीणां तथा मनुष्याणां’ मध्ये यो यः प्रत्युबुध्यत स स तद्ब्रह्म अभवदिति पूर्वेण सम्बन्धः ॥ २१ ॥

२२

विश्वास-प्रस्तुतिः

(न्त᳘) त᳘द्धैतत्प᳘श्यन्नृ᳘षिर्व्वाम᳘देवः प्प्रति᳘पेदे[[!!]]॥
(दे ऽहं) अहम्म᳘नुरभवᳫँ᳭ सू᳘र्य्यश्चे᳘ति त᳘दिदम᳘प्येत᳘र्हि य᳘ ऽएवम्वे᳘दाहम्ब्र᳘ह्मास्मी᳘ति स᳘ ऽइदᳫँ᳭ स᳘र्व्वम्भवति त᳘स्य ह न᳘ देवा᳘श्चना᳘भूत्या ऽईशत ऽआत्मा᳘ ह्येषाᳫँ᳭ स भ᳘वत्य᳘थ᳘ यो ऽन्या᳘न्देव᳘तामुपा᳘स्ते᳘ ऽन्या ऽसा᳘व᳘न्यो ऽह᳘मस्मी᳘ति न स᳘ व्वेद य᳘था पशु᳘रेᳫँ᳭ स᳘ देवा᳘नां य᳘था ह वै᳘ बह᳘वः पश᳘वो मनु᳘ष्यम्भुञ्ज्यु᳘रेवमे᳘कैकः[[!!]] पु᳘रुषो देवा᳘न्भुनक्त्ये᳘कस्मिन्नेव᳘ पशावादीय᳘माने᳘ ऽप्रियम्भ᳘वति[[!!]] कि᳘मु बहु᳘षु त᳘स्मादेषान्तन्न᳘ प्प्रियं य᳘देत᳘न्मनु᳘ष्या व्विद्युः॥

मूलम् - श्रीधरादि

(न्त᳘) त᳘द्धैतत्प᳘श्यन्नृ᳘षिर्व्वाम᳘देवः प्प्रति᳘पेदे[[!!]]॥
(दे ऽहं) अहम्म᳘नुरभवᳫँ᳭ सू᳘र्य्यश्चे᳘ति त᳘दिदम᳘प्येत᳘र्हि य᳘ ऽएवम्वे᳘दाहम्ब्र᳘ह्मास्मी᳘ति स᳘ ऽइदᳫँ᳭ स᳘र्व्वम्भवति त᳘स्य ह न᳘ देवा᳘श्चना᳘भूत्या ऽईशत ऽआत्मा᳘ ह्येषाᳫँ᳭ स भ᳘वत्य᳘थ᳘ यो ऽन्या᳘न्देव᳘तामुपा᳘स्ते᳘ ऽन्या ऽसा᳘व᳘न्यो ऽह᳘मस्मी᳘ति न स᳘ व्वेद य᳘था पशु᳘रेᳫँ᳭ स᳘ देवा᳘नां य᳘था ह वै᳘ बह᳘वः पश᳘वो मनु᳘ष्यम्भुञ्ज्यु᳘रेवमे᳘कैकः[[!!]] पु᳘रुषो देवा᳘न्भुनक्त्ये᳘कस्मिन्नेव᳘ पशावादीय᳘माने᳘ ऽप्रियम्भ᳘वति[[!!]] कि᳘मु बहु᳘षु त᳘स्मादेषान्तन्न᳘ प्प्रियं य᳘देत᳘न्मनु᳘ष्या व्विद्युः॥

मूलम् - Weber

त᳘द्धैतत्प᳘श्यन्नृ᳘षिर्वाम᳘देवः प्र᳘तिपेदे॥
अहम् म᳘नुरभवᳫं सू᳘र्यश्चे᳘ति त᳘दिदम᳘प्येत᳘र्हि य᳘ एवम् वे᳘दाहम् ब्र᳘ह्मास्मी᳘ति स᳘ इदᳫं स᳘र्वम् भवति त᳘स्य ह न᳘ देवा᳘श्चना᳘भूत्या ईशत आत्माॗ ह्येषाᳫं स भ᳘वत्य᳘थॗ योऽन्यां᳘ देव᳘तामुपा᳘स्तेॗऽन्योऽसा᳘वॗन्योऽह᳘मस्मी᳘ति न स᳘ वेद य᳘था पशु᳘रेवᳫं स᳘ देवा᳘नां य᳘था ह वै᳘ बह᳘वः पश᳘वो मनुष्य᳘म् भुञ्ज्यु᳘रेवमे᳘कैकः पु᳘रुषो देवा᳘न्भुनक्त्ये᳘कस्मिन्नेव᳘ पशा᳘वादीय᳘माने᳘ऽप्रियम् भवति कि᳘मु बहु᳘षु त᳘स्मादेषां तन्न᳘ प्रियम् य᳘देत᳘न्मनुॗष्या विद्युः॥

मूलम् - विस्वरम्

तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे- “अहं मनुरभवं सूर्यश्च”- (ऋ. सं. ४ । १६ । १) इति । तदिदमप्येतर्हि य एवं वेद । अहं ब्रह्मास्मीति । स इदं सर्वं भवति । तस्य ह न देवाश्चनाभूत्या ईशते । आत्मा ह्येषां स भवति । अथ यो ऽन्यां देवतामुपास्ते । अन्या ऽसौ । अन्यो ऽहमस्मीति । न स वेद । यथा पशुः । एवं स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युः । एवमेकैकः पुरुषो देवान् भुनक्ति । एकस्मिन्नेव पशावादीयमाने ऽप्रियं भवति । किमु बहुषु ? तस्मादेषां तन्न प्रियम् । यदेतन्मनुष्या विद्युः ॥ २२ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

अस्या ब्रह्मविद्यायाः सर्वभावापत्तिः कथमित्येतस्यार्थस्य दार्ढ्याय श्रुतिर्मन्त्रमुदाहरति-तद्धैतत्पश्यन्निति । तद्ब्रह्म ‘एतत्’ आत्मानमेव “अहं ब्रह्मास्मि” इति ‘पश्यन्’ एतस्मादेव ब्रह्मणो दर्शनादृषिर्वामदेवाख्यः “अहं मनुरभवं सूर्यश्च” (ऋ. सं. ४ । १६ । १) इति मन्त्रं ‘प्रतिपेदे’ प्रतिपन्नवान् ‘ह’ किल । स एतस्मिन् ब्रह्मात्मदर्शने अवस्थितः एतं मन्त्रं ददर्श । तदेतद्ब्रह्म पश्यन्निति ब्रह्मविद्या परामृश्यते, सर्वात्मभावफलं च प्रतिपेदे इत्यर्थः । ननु- महतां देवादीनां वीर्यातिशयत्वात् ब्रह्मविद्यया सर्वभावापत्तिर्युज्यते । कथं ? पुनरिदानीं कलिकालवर्तिनां मनुष्याणां विशेषतो ऽल्पवीर्यत्वात् सर्वभावापत्तिः इत्यत आह- तदिदमप्येतर्हीति । ‘तदिदं’ प्रकृतं यत् सर्वभूतानुप्रविष्टं ब्रह्म ‘एतर्हि’ एतस्मिन्नपि वर्तमाने काले यः कश्चित् व्यावृत्य बाह्यौत्सुक्यः आत्मानमेव उपाधिजनितभ्रान्तिविज्ञानाध्यारोपितविशेषवर्जितं सकलसंसारधर्मातीतं ब्रह्मैवाहमस्मि- इति ‘वेद’ अनुसन्धत्ते । स एतादृक् ब्रह्मविज्ञानात् अविद्याकृतासर्वत्वनिवृत्त्या ‘इदं सर्वं भवति’ । ननु- अविद्यावतः कर्मिणः अमृतत्वप्राप्तिमुद्दिश्य कर्मभ्यो व्युत्थानमिच्छतो देवकृतविघ्नसम्भववत् विद्यावतो ऽपि वर्तमानिकस्य पुरुषस्य देवकृतविघ्नसम्भवान्न फलप्राप्तिरित्यत आह-तस्य ह नेति । ‘तस्य’ यथोक्तप्रकारेण ब्रह्मात्मज्ञानवतो देवाश्च न महावीर्या देवा अपि- ‘अभूत्यै’ सर्वात्मकब्रह्मभावस्याभवनाय ‘नेशते’ ‘ह’ किल न पर्याप्ताः । किमुतान्ये ? ब्रह्मविद्याफलप्राप्तौ विघ्नकरणे देवादय ईशते इति का शङ्केत्यर्थः । तत्र हेतुः । ‘हि’ यस्मात् ब्रह्मवित् ‘एषां’ देवानां ‘आत्मा’ शास्त्रप्रकाशितब्रह्मस्वरूपः ‘भवति’ । एवं सोपपत्तिकं- विद्यासूत्रमुक्त्वा सम्प्रति अविद्यासूत्रमाह- अथ यो ऽन्यामिति । ‘अथ’ सोपपत्तिकविद्यासूत्रकथनानन्तरं ‘यः’ कश्चित् अब्रह्मवित् स्वात्मनि कर्तृत्वमङ्गीकृत्य अन्यामात्मनो व्यतिरिक्तां ‘देवतां’ अन्यो ऽहमुपास्यदेवतायाः सकाशादस्मि अन्यो ऽसौ मत्त उपासनीयो देवः इत्येवं भेददृष्ट्योपास्ते स्तुतिनमस्कारयागबल्युपहारप्रणिधानध्यानादिना, ‘सः’ उपासकः ‘न वेद’ उपास्योपासकयोस्तत्त्वं न विजानाति । न केवलं एवम्भूतोपासकः अविद्यादोषवानेव- किं तर्हि पशुसदृशो ऽपि भवतीत्याह- यथा पशुरिति । ‘यथा’ पशुर्गवाश्वादिः दोहनवाहनाद्युपकारैरुपभुज्यते एवमेव सो ऽविद्वान् ‘देवानां’ मध्ये एकैकस्यापि देवस्य पशुवदनेकैरुपकारैरुपभोग्यो भवति । लोकपशोर्मनुष्यपशौ यथोक्तं विशेषं वक्तुं श्रुतिः स्वयमेवाह- यथा ह वा इति । ‘यथा ह वै’ लोके ‘बहवः’ गवाश्वादयः ‘पशवः’ मनुष्यमात्मनो ऽधिष्ठातारं स्वामिनं दोहनवाहनादिना ‘भुञ्ज्युः’ पालयेयुः । ‘एवं’ बहुपशुस्थानीयो ऽयङ्कर्मी पुरुषः ‘एकैकः’ एव ‘देवान्’ इन्द्रादीन् स्तुतिनमस्कारादिक्रियया ‘भुनक्ति’ पालयति । देवग्रहणमृषिपित्रादीनामप्युपलक्षणपरम् । अत एव मनुष्याणां पशुभावात् व्युत्थानं देवा द्विषन्तीत्याह- एकस्मिन्नेवेति । यथा लोके बहुपशुमतो ऽपि एकस्मिन्नपि ‘पशौ’ व्याघ्रादिना ‘आदीयमाने’ अपह्रियमाणे ‘अप्रियं भवति’ ‘किमु बहुषु’ तथा बहुषु बहुपशुस्थानीये एकैकस्मिन्पुरुषे पशुभावात् व्युत्तिष्ठति देवानामप्रियं भवतीति किमु वक्तव्यम् । अत एवाविद्यावतां पशुभावात् व्युत्थानसाधनं तत्त्वज्ञानमपि देवा द्विषन्तीत्याह- तस्मादेषामिति । यस्मात् मनुष्याणां पशुभावात् व्युत्थानं देवानामप्रियं ‘तस्मात्’ कारणात् यदेतद्ब्रह्मात्मतत्त्वं ‘मनुष्याः’ कथञ्चन विद्युर्विजानीयुः । तदेषां देवानां न प्रियं नेष्टमित्यर्थः ॥ २२ ॥

२३ क्षत्रोत्पत्तिः

विश्वास-प्रस्तुतिः

ब्र᳓ह्म वा᳓ इद᳓म् अ᳓ग्र आसीद् ए᳓कम् एव᳓॥
त᳓द् ए᳓कँ स᳓न् न᳓ व्य᳓भवत्॥

त᳓च् छ्रे᳓यो रूप᳓म् अ᳓त्यसृजत क्षत्र᳓म्।

या᳓न्य् एता᳓नि देवत्रा᳓ क्षत्रा᳓णी᳓न्द्रो व᳓रुणः सो᳓मो रुद्रः᳓ पर्ज᳓न्यो यमो᳓ मृत्यु᳓र् ई᳓शान इ᳓ति,
त᳓स्मात् क्षत्रा᳓त् प᳓रं ना᳓स्ति।
त᳓स्माद् ब्राह्मणः᳓ क्षत्रि᳓यं अध᳓स्ताद् उ᳓पास्ते राज-सू᳓ये॥

क्षत्र᳓ एव᳓ त᳓द् य᳓शो दधाति,
सै᳓षा᳓ क्षत्र᳓स्य यो᳓निर् य᳓द् ब्र᳓ह्म॥

त᳓स्माद् य᳓द्य् अ᳓पि रा᳓जा परम᳓तां ग᳓च्छति,
ब्र᳓ह्मैवा᳓न्तत᳓ उपनि᳓श्रयति स्वां᳓ यो᳓निम्॥ य᳓ उ एनँ हिन᳓स्ति, स्वाँ᳓ स᳓ यो᳓निम् ऋच्छति॥
स᳓ पा᳓पीयान् भवति, य᳓था श्रे᳓याँसँ हिँसित्वा᳓॥

मूलम् - श्रीधरादि

(र्ब्ब्र᳘) ब्ब्र᳘ह्म वा᳘ ऽइदम᳘ग्ग्र ऽआसीत्॥
(दे᳘) ए᳘कमेव तदे᳘कᳫँ᳭ सन्न᳘ व्व्यभवत्तच्छ्रे᳘योरूपम᳘त्यसृजत᳘ क्षत्त्रं या᳘न्येता᳘नि देवत्रा᳘ क्षत्त्राणी᳘न्द्रो व्व᳘रुणः सो᳘मो रुद्रः᳘ पर्ज्ज᳘न्यो यमो᳘ मृत्युरी᳘शान ऽइ᳘ति[[!!]] त᳘स्मात्क्षत्त्रा᳘त्प᳘र᳘न्नास्ति त᳘स्माद्ब्राह्मणः᳘ क्षत्त्रि᳘यमध᳘स्तादुपा᳘स्ते राजसू᳘ये क्षत्त्र᳘ ऽएव तद्य᳘शो दधाति᳘ सैषा᳘ क्षत्त्र᳘स्य यो᳘निर्य्यद्ब्र᳘ह्म त᳘स्माद्यद्य᳘पि रा᳘जा परम᳘ताङ्ग᳘च्छति ब्ब्र᳘ह्मै᳘वान्तत᳘ ऽउपनि᳘श्रयति स्वां यो᳘निं य᳘ ऽउ ऽएनᳫँ᳭ हिन᳘स्ति स्वाᳫँ᳭ स यो᳘निमृच्छति स पा᳘पीयान्भवति य᳘था श्रे᳘याᳫँ᳭सᳫँ᳭ हिᳫँ᳭सित्वा॥

मूलम् - Weber

ब्र᳘ह्म वा इदम᳘ग्र आसीत्॥
ए᳘कमेव तदे᳘कᳫं सन्न व्य᳘भवत्तछ्रे᳘यो रूपम᳘त्यसृजत क्षत्रं या᳘न्येता᳘नि देवत्रा᳘ क्षत्राणी᳘न्द्रो व᳘रुणः सो᳘मो रुद्रः᳘ पर्ज᳘न्यो यमो᳘ मृत्युरीशा᳘न इ᳘ति त᳘स्मात्क्षत्राॗत्प᳘रं नास्ति त᳘स्माद्ब्राह्मणः᳘ क्षत्रि᳘यमध᳘स्तादुपा᳘स्ते राजसू᳘ये क्ष᳘त्र एव तद्य᳘शो दधातिॗ सैषा᳘ क्षत्र᳘स्य यो᳘निर्यद्ब्र᳘ह्म त᳘स्माद्यद्य᳘पि रा᳘जा परम᳘तां ग᳘छति ब्र᳘ह्मैॗवान्तत᳘ उपनि᳘श्रयति स्वां यो᳘निं य᳘ उ एनᳫं हिन᳘स्ति स्वाᳫं स यो᳘निमृछति स पा᳘पीयान्भवति य᳘था श्रे᳘यांसᳫं हिंसित्वा॥

मूलम् - विस्वरम्

ब्रह्म वा इदमग्र आसीदेकमेव । तदेकं सन्न व्यभवत् । तत् श्रेयोरूपमत्यसृजत क्षत्त्रम् । यान्येतानि देवत्रा क्षत्त्राणि । इन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति । तस्मात् क्षत्त्रात्परं नास्ति । तस्मात् ब्राह्मणः क्षत्रियमधस्तादुपास्ते राजसूये । क्षत्त्र एव तद्यशो दधाति । सैषा क्षत्त्रस्य योनिः । यत् ब्रह्म । तस्माद्यद्यपि राजा परमतां गच्छति । ब्रह्मैवान्तत उपनिश्रयति स्वां योनिम् । य उ एनं हिनस्ति । स्वां स योनिमृच्छति । स पापीयान् भवति यथा श्रेयांसं हिंसित्वा ॥ २३ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“अथेत्यभ्यमन्थत्” (ब्रा. २ कं. ११) इत्यत्रानुग्राहकदेवतासर्गं प्रक्रम्याग्नेरेव सृष्टिरुक्ता । नेन्द्रादीनाम् । अत्र तु- अविद्यां प्रस्तुत्य तेषां सृष्टिरुच्यते- ब्रह्म वा इदमग्र ऽआसीदेकमेव इत्यादिना । अविद्वान् कैः कर्मभिः केषां देवानां भोग्य इति- “अथो ऽअयं वा ऽआत्मा” (ब्रा. २ कं. २९) इत्यादिना विशेषतो दर्शयितुं “आत्मैवेदमग्र ऽआसीत्” (ब्रा. २ कं. १) इत्यत्र यदात्मशब्देनोक्तं स्रष्टृ ब्रह्म तदग्निं सृष्ट्वा- अग्निरूपापन्नं ब्राह्मणजात्यभिमानवत् अस्मिन् वाक्ये ब्रह्मशब्देनाभिधीयते । ‘वै’ निश्चितं ‘अग्रे’ क्षत्त्रादिसर्गात्पूर्वं- ‘इदं’ क्षत्त्रादिभेदजातं ब्रह्मैवैकमभिन्नमासीत्, नासीत् क्षत्त्रादिभेदः । ‘तत्’ ब्राह्मणजात्यभिमानि अग्न्यात्मकं ब्रह्म ‘एकं’ केवलं परिपालयितृक्षत्त्रादिभेदशून्यं सत्- ‘न व्यभवत्’ न विभूतवत् । कर्मणे नालमासीदित्यर्थः । ‘तत्’ ब्रह्म ब्राह्मणः अस्मिन्ममेत्थं कर्तव्यं इत्यात्मनो ब्राहाणजातिनिमित्तकर्मकर्तृत्वविभूत्यै ‘श्रेयोरूपं’ प्रशस्तरूपं ‘अत्यसृजत’ अतिशयेन सृष्टवत् । किं तत् यत् सृष्टवत् ? ‘क्षत्त्रं’ क्षत्रियजातिम् । तदेव क्षत्त्रं व्यक्तिभेदेन प्रदर्शयति । ‘यान्येतानि’ प्रसिद्धानि ‘देवत्रा’ देवेषु ‘क्षत्त्राणीति’ जात्याख्यापेक्षया बहुवचनस्मरणात् व्यक्तिबहुत्वाद्वा भेदोपचारेण बहुवचनम् । कानि पुनस्तानीत्यपेक्षायां तत्राभिषिक्ता एव विशेषतो निर्द्दिश्यन्ते- इन्द्रो वरुणः सोम इत्यादिना । ‘इन्द्रः’ देवानां राजा । ‘वरुणः’ यादसाम् । ‘सोमः’ ब्राह्मणानाम् । ‘रुद्रः’ पशूनाम् । ‘पर्ज्यन्यः’ विद्युदादीनाम् । ‘यमः’ धर्मराजः पितॄणाम् । ‘मृत्युः’ यमदूतो रोगादीनाम् । ‘ईशानः’ ईश्वरो भासां राजा । इत्येवमादीनि देवेषु क्षत्त्राणि । तदनु इन्द्रादिक्षत्त्रदेवता ऽधिष्ठितानि मनुष्यक्षत्त्राणि सोमसूर्यवंश्यानि पुरूरवःप्रभृतीनि सृष्टान्येव द्रष्टव्यानि । तदर्थ एव हि देवक्षत्त्रसर्गः प्रवृत्तः । यस्मात् ब्रह्मणा ब्राह्मणेभ्यो ऽप्यतिशयेन क्षत्त्रं सृष्टं तस्मात्कारणात् क्षत्त्रात्परमुत्कृष्टं नास्ति । क्षत्त्रस्य नियन्तृत्ववदुत्कर्षे हेत्वंतरमाह- तस्माद्ब्राह्मण इति । यस्मात् क्षत्त्रं ब्राह्मणजातेरपि नियन्तृ । तस्मात् ‘ब्राह्मणः’ क्षत्रियस्य कारणभूतो ऽपि ‘अधस्तात्’ व्यवस्थितः सन् ‘राजसूये’ यज्ञे उपरिस्थितं क्षत्रियमुपास्ते । ब्राह्मणस्तदात्मीयं ब्राह्मणाख्यं ‘यशः’ ख्यातिरूपं ‘क्षत्त्रे’ एवं ‘दधाति’ स्थापयति । राजसूयाभिषिक्तेन आसन्द्यां स्थितेन राज्ञा- “स ब्रह्मन्नित्येव प्रथममामन्त्रयते”- इत्यादिना आमन्त्रितः ऋत्विक् “राजँस्त्वं ब्रह्मा ऽसि- इतीतरः प्रत्याह”- (श. प. ५ । ८ । ८ । १ ।) इति । यत् तदेतदभिधीयते- क्षत्त्र एव तद्यशो दधातीति । नन्वेवं क्षत्त्रे स्वकीयं यशः समर्पयतो ब्राह्मणस्यापकृष्टत्वं स्यात् इत्यत आह- सैषेति । ‘यत् ब्रह्म’ ब्राह्मणजातिः- ‘सैषा’ ‘क्षत्त्रस्य योनिः’ उत्पत्तिकारणम् । अत उत्कृष्ट एव ब्राह्मणः ‘तस्मात् यद्यपि राजा’ राजसूयाभिषेककाले ‘परमतां’ राजसूयाभिषेकगुणं परमत्वं ‘गच्छति’ प्राप्नोति तथापि ‘अन्ततः’ अन्ते कर्मसमाप्तौ ‘ब्रह्मैव’ ब्राह्मणजातिमेव ‘स्वां योनिं’ पुरोहितं उपनिश्रयत्याश्रयसि । पुर एनं दधातीति पुरोहित इति व्युत्पत्तेः । ‘य उ’ ‘यः’ पुनः बलाभिमानात् प्रमादाद्वा ‘एनं’ स्वयोनिभूतं ब्राह्मणं ‘हिनस्ति’ तिर्यग्भावेन पश्यति । ‘सः’ स्वामात्मीयामेव योनिं ऋच्छति स्वं प्रसवं विच्छिनत्ति विनाशयति । स एतत्कर्म्मकृत्वा ‘पापीयान्’ पापतरः ‘भवति’ पूर्वमपि क्षत्रियः क्रूरत्वात्पाप एव आत्मप्रसवहिंसया तु सुतरां पाप इति तरबर्थस्य ईयसुनः प्रयोगः सार्थकः । यथा लोके ‘श्रेयांसं’ प्रशस्ततरं ‘हिंसित्वा’ परिभूय पापतरो भवति तद्वदित्यर्थः ॥ २३ ॥

२४ वैश्योत्पत्तिः

विश्वास-प्रस्तुतिः

स᳓ नै᳓व᳓ व्य᳓भवत्॥
स᳓ वि᳓शम् असृजत -
या᳓न्य् एता᳓नि देव-जाता᳓नि गणश᳓ आख्याय᳓न्ते,
व᳓सवो, रुद्रा᳓, आदित्या᳓, वि᳓श्वे देवा᳓, मरु᳓त इ᳓ति॥

मूलम् - श्रीधरादि

स᳘ नैव᳘ व्व्यभवत्[[!!]]॥
(त्स) स व्वि᳘शमसृजत या᳘न्येता᳘नि देवजाता᳘नि गणश᳘ ऽआख्याय᳘न्ते व्व᳘सवो रुद्रा᳘ ऽआदित्या व्वि᳘श्वे देवा᳘ मरु᳘त ऽइ᳘ति॥

मूलम् - Weber

सॗ नैव व्य᳘भवत्॥
स वि᳘शमसृजत या᳘न्येता᳘नि देवजाता᳘नि गणश᳘ आख्याय᳘न्ते व᳘सवो रुद्रा᳘ आदित्या वि᳘श्वे देवा᳘ मरु᳘त इ᳘ति॥

मूलम् - विस्वरम्

स नैव व्यभवत् । स विशमसृजत । यान्येतानि देवजातानि गणश आख्यायन्ते । वसवो रुद्रा आदित्या विश्वे देवा मरुत इति ॥ २४ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

कर्मङ्गभूतद्रव्योपार्जनार्थं वैश्यसृष्टिमाह- स नैवेति । ‘सः’ ब्राह्मणाभिमानी अग्निपुरुषः क्षत्त्रसर्गात् पूर्वमिव कर्म्मणे समर्थो ‘नैव व्यभवत्’ वित्तोपार्ज्जयितुरभावात् । तदर्थं ‘सः’ ब्राह्मणाभिमानी अग्निर्विशमसृजत । कः पुनरसौ विट् । ‘यान्येतानि देवजातानि’- ये एते देवजातिभेदा इत्यर्थः । देवजातानीति स्वार्थे निष्ठा । य एते ‘गणशः’ गणं गणं कृत्वा ‘आख्यायन्ते’ कथ्यन्ते । गणप्राया हि विशः प्रायेण संहता हि वित्तोपार्जने समर्थाः । नैकैकशः । ‘वसवः’- अष्टसंख्यो गणः ८ । एकादश ‘रुद्रा’ ११ । द्वादश ‘आदित्याः’ १२ । दश ‘विश्वे देवाः’ १० विश्वाया अपत्यानि सर्वे वा देवाः । ‘मरुतः’ सप्तसप्तसंख्याताः सप्त गणा ७- ४९ ॥ २४ ॥

२५ शूद्रोत्पत्तिः

विश्वास-प्रस्तुतिः

स᳓ नै᳓व᳓ व्य᳓भवत्॥
स᳓ शौ᳓द्रं व᳓र्णम् असृजत पूष᳓णम्॥
इयं᳓ वै᳓ पूषे᳙यँ᳓ हीदँ᳓ स᳓र्वं पु᳓ष्यति य᳓द् इदं᳓ कि᳓ञ्च॥

मूलम् - श्रीधरादि

स᳘ नैव व्व्यभवत्[[!!]]॥
(त्स) स शौ᳘द्रम्व᳘र्ण्णमसृजत पूष᳘णमियम्वै᳘ पू᳘षेय᳘ᳫँ᳘ हीदᳫँ᳭ स᳘र्व्वम्पु᳘ष्यति य᳘दिदङ्किं᳘ञ्च॥

मूलम् - Weber

सॗ नैव व्य᳘भवत्॥
स शौ᳘द्रम् व᳘र्णमसृजत पूष᳘णमियम् वै᳘ पूॗषेॗयᳫं हीदᳫं स᳘र्वम् पु᳘ष्यति य᳘दिदं किं᳘ च॥

मूलम् - विस्वरम्

स नैव व्यभवत् । स शौद्रं वर्णमसृजत पूषणम् । इयं वै पूषा । इयं हीदं सर्वं पुष्यति । यदिदं किञ्च ॥ २५ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

परिचारकसृष्टिमाह- स नैव व्यभवदिति । पूर्ववत् परिचारकाभावात् ‘स शौद्रं वर्णमसृजत’ । शूद्र एव शौद्रः । स्वार्थे ऽणि वृद्धिः । कः पुनरसौ शौद्रवर्णेयः सृष्टः ? तं देवशूद्रमाह- पूषणमिति । पुष्यतीति पूषा तं पूषणम् । कः पुनरसौ पूषेति विशेषतस्तन्निर्द्दिशति- इयमिति । ‘इयं वै’ पृथिवी ‘पूषा’ । कथमित्यपेक्षायां स्वयमेव निर्वचनमाह- इयं हीति । ‘इयं’ पृथिवी ‘हि’ खलु ‘इदं सर्वं’ ‘यदिदं किञ्च’ यत्किञ्चेदं प्राणिजातं ‘तत्पुष्यति’ पुष्णातीत्यर्थः ॥ २५ ॥

२६ धर्मः

विश्वास-प्रस्तुतिः

स᳓ नै᳓व᳓ व्य᳓भवत्॥
त᳓च् छ्रे᳓यो रूप᳓म् अ᳓त्यसृजत ध᳓र्मम्॥
त᳓द् एत᳓त् क्षत्र᳓स्य क्षत्रं᳓ य᳓द् ध᳓र्मः॥+++(5)+++
त᳓स्माद् ध᳓र्मात् प᳓रं ना᳓स्ति॥

अ᳓थो अ᳓बलीयान् ब᳓लीयाँसम् आ᳓शँसते ध᳓र्मेण - य᳓था रा᳓ज्ञैव᳓म्॥+++(5)+++

यो᳓ वै᳓ स᳓ ध᳓र्मः, सत्यं᳓ वै᳓त᳓त्॥+++(5)+++
त᳓स्मात् सत्यं᳓ व᳓दन्तम् आहुः - ध᳓र्मं वदती᳓ति,
ध᳓र्मं वा व᳓दन्तँ सत्यं᳓ वदती᳓ति।
एत᳓द् +ध्य् ए᳓वै᳓त᳓द् उभ᳓यं भ᳓वति॥

मूलम् - श्रीधरादि

स᳘ नैव व्व्यभवत्[[!!]]॥
(त्त) तच्छ्रे᳘योरूपम᳘त्यसृजत ध᳘र्म्मन्त᳘देत᳘त्क्षत्त्र᳘स्य क्षत्त्रं यद्ध᳘र्म्मस्त᳘स्माद्ध᳘र्म्मात्प᳘र᳘न्नास्त्य᳘थो ऽअ᳘बलीयान्ब᳘लीयाᳫँ᳭समा᳘शᳫँ᳭सते ध᳘र्म्मेण य᳘था रा᳘ज्ञैवं यो वै स ध᳘र्म्मः सत्यम्वै तत्त᳘स्मात्सत्यम्व᳘दन्तमाहुर्द्ध᳘र्म्मम्वदती᳘ति ध᳘र्म्मम्वा व्व᳘दन्तᳫँ᳭ सत्य᳘म्वदती᳘त्येत᳘द्ध्ये᳘वैत᳘दुभ᳘यम्भ᳘वति॥

मूलम् - Weber

सॗ नैव व्य᳘भवत्॥
तछ्रे᳘यो रूपम᳘त्यसृजत ध᳘र्मं त᳘देत᳘त्क्षत्र᳘स्य क्षत्रं यद्ध᳘र्मस्त᳘स्माद्ध᳘र्माॗत्प᳘रं नास्त्य᳘थो अ᳘बलीयान्ब᳘लीयांस्मम्:!शंसते ध᳘र्मेण य᳘था रा᳘ज्ञैवं यो वै स ध᳘र्मः सत्यम् वै तत्त᳘स्मात्सत्यम् व᳘दन्तमाहुर्ध᳘र्मम् वदती᳘ति ध᳘र्मम् वा व᳘दन्तᳫं सत्य᳘म् वदती᳘त्येतॗद्ध्येॗवैत᳘दुभ᳘यम् भ᳘वति॥

मूलम् - विस्वरम्

स नैव व्यभवत् । तत् श्रेयोरूपपत्यसृजत धर्मम् । तदेतत् क्षत्त्रस्य क्षत्त्रम् । यद्धर्मः । तस्माद्धर्मात्परं नास्ति । अथो अबलीयान् बलीयांसमाशंसते धर्मेण । यथा राज्ञैवम् । यो वै स धर्मः । सत्यं वै तत् । तस्मात्सत्यं वदन्तमाहुर्धर्मं वदतीति । धर्मं वा वदन्तं सत्यं वदतीति । एतद्ध्येवैतदुभयं भवति ॥ २६ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

क्षत्त्रस्योग्रत्वात् तन्नियन्तृधर्मसर्गमाह- स नेवैति । स चतुरो वर्णान् सृष्ट्वा ऽपि ‘नैव व्यभवत्’ । तत स्रष्टृ ब्रह्म क्षत्त्रस्य उग्रत्वात् अनियताशङ्कया ‘श्रेयोरूपं’ धर्ममत्यसृजत अतिशयेन सृष्टवत् । ‘तदेतत्’ सृष्टं श्रेयोरूपं ‘क्षत्त्रस्य क्षत्त्रं’ क्षत्त्रस्यापि नियन्तृ उग्रादप्युग्रं ‘यद्धर्मः’ यो धर्मश्चेतनभूतो देवात्मकः ‘तस्मात्’ क्षत्त्रस्यापि नियन्तृत्वाद्धर्मात् ‘परं’ नियन्तृभूतं किञ्चिन्नास्ति । धर्मेण हि नियम्यन्ते सर्वे । तत्कथमित्यत आह- अथो अबलीयानिति । ‘अथो’ अपि ‘अबलीयान्’ दुर्बलतरः बलीयांसमात्मनो बलवत्तरमपि ‘धर्मेण’ बलेन जेतुमाशंसते कामयते । इच्छतीति यावत् । तथैवोदाहरति- यथा राज्ञैवमिति । ‘यथा’ लोके ‘राज्ञा’ सर्वबलवत्तमेनापि स्पर्द्धमानः कुटुम्बिकः- एवं तस्माद्धर्मस्य सर्वबलवत्तरत्वात् सिद्धं सर्वनियंतृत्वम् । धर्मस्योत्कृष्टत्वेन नियन्तृत्वे सत्यात् अभिन्नत्वं हेत्वन्तरमाह- यो वै स धर्म्म इति । ‘यो वै स धर्मः’ शास्त्रार्थत्वेनानुष्ठीयमानः शास्त्रार्थत्वेन ज्ञायमानः तत्प्रसिद्धं ‘सत्यमेव’ । अत्र यथोक्ते विवेके लोकप्रसिद्धिं प्रमाणयति- तस्मात्सत्यमिति । यस्माद्धर्म्मसत्ययोरभेदः तस्मात् व्यवहारकाले ‘सत्यं’ यथाशास्त्रं ‘वदन्तं’ पुरुषं ‘धर्मं’ लोकानुष्ठेयत्वेन प्रसिद्धं लौकिकं न्यायं वदति इत्याहुः धर्म्मसत्यविवेकज्ञाः समीपस्थाः । तथा पूर्वोक्तवदनवैपरीत्येन धर्मं लौकिकं व्यवहारं वदन्तं ‘सत्यं वदति’ शास्त्रादनपेतं वदतीत्याहुः । उक्तमभेदमुपसंहरति- एतद्धीति । ‘हि’ यस्मादेवं तस्मादेतदुभयं सत्यधर्माख्यं ज्ञायमानमनुष्ठीयमानं च एतद्धर्म्म एव भवति । तस्मात्स धर्मो ज्ञानानुष्ठानलक्षणः । शास्त्रज्ञानतश्च सर्वानेव विनियमयति । तस्मात् क्षत्त्रस्यापि क्षत्त्रमित्यर्थः ॥ २६ ॥

२७ मनुष्येष्वाविर्भावः

विश्वास-प्रस्तुतिः

त᳓द् एत᳓द् ब्र᳓ह्म क्षत्रं᳓ वि᳓ट् शूद्रः᳓॥

त᳓द् अग्नि᳓नैव᳓ देवे᳓षु ब्रह्मा᳙ ऽभवद्,
ब्राह्मणो᳓ मनुष्ये᳙षु,
क्षत्रि᳓येण क्षत्रि᳓यो,
वै᳓श्येन वै᳓श्यः,
शूद्रे᳓ण शूद्रः᳓॥
त᳓स्माद् अग्ना᳓व् एव᳓ देवे᳓षु लोक᳓म् इच्छन्ते,
ब्राह्मणे᳓ मनुष्ये᳓षु।+++(5)+++
एता᳓भ्याँ हि᳓ रूपा᳓भ्यां ब्रह्मा᳙ ऽभवत्॥

मूलम् - श्रीधरादि

त᳘देतद्ब्र᳘ह्म क्षत्त्रम्वि᳘ट्छूद्रः॥
(स्त᳘) त᳘दग्नि᳘नैव᳘ देवे᳘षु ब्ब्रह्मा᳘ ऽभवद्ब्राह्मणो᳘ मनु᳘ष्येषु क्षत्त्रि᳘येण क्षत्त्रि᳘यो व्वै᳘श्येन व्वै᳘श्यः शूद्रे᳘ण शूद्रस्त᳘स्मादग्नावेव᳘[[!!]] देवे᳘षु लोक᳘मिच्छन्ते ब्ब्राह्मणे᳘ मनुष्येष्वेता᳘भ्याᳫँ᳭[[!!]] हि᳘ रूपा᳘भ्याम्ब्रह्मा᳘ ऽभवत्॥

मूलम् - Weber

त᳘देतद्ब्र᳘ह्म क्षत्रम् वि᳘ट् शूद्रः॥
त᳘दग्नि᳘नैव᳘ देवे᳘षु ब्रह्मा᳘भवद्ब्राह्मणो᳘ मनुॗष्येषु क्षत्रि᳘येण क्षत्रि᳘यो वै᳘श्येन वै᳘श्यः शूद्रे᳘ण शूद्रस्त᳘स्मादग्ना᳘वेव᳘ देवे᳘षु लोक᳘मिछन्ते ब्राह्मणे᳘ मनुॗष्येष्वेता᳘भ्याᳫं हि᳘ रूपा᳘भ्याम् ब्रह्मा᳘भवत्॥

मूलम् - विस्वरम्

तदेतत् ब्रह्म क्षत्त्रं विट् शूद्रः । तदग्निनैव देवेषु ब्रह्मा ऽभवत् ब्राह्मणः । मनुष्येषु क्षत्रियेण क्षत्रियः । वैश्येन वैश्यः । शूद्रेण शूद्रः । तस्मादग्नावेव देवेषु लोकमिच्छन्ते । ब्राह्मणे मनुष्येषु एताभ्यां हि रूपाभ्यां ब्रह्मा ऽभवत् ॥ २७ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

ननु- पुनरुक्तिर्व्यर्थेत्याशङ्कायां पूर्वत्र देवेषु दर्शितस्य वर्णविभागस्य मनुष्येषु योजनार्थं उक्तानुवादपूर्वकं देवसर्गमुपसंहरति- तदेतद्ब्रह्मेति । ब्रह्म क्षत्रं विट् शूद्र इति । तदेतच्चातुर्वर्ण्यं सृष्टं सृष्टवर्णचतुष्टयनिविष्टमवान्तरविभागमभिधातुमारभते- तदग्निनैवेति । तदग्निरूपापन्नं स्रष्टृ ‘ब्रह्म’ ‘अग्निनैव’ नान्यद्देवतान्तरस्वरूपेण क्षत्त्रादिविकारप्राप्तिमन्तरेण केवलमग्निरूपेणैव ‘देवेषु ब्रह्म’ ब्राह्मणजातिरभवत् । तदेवाग्निरुपापन्नं स्रष्टृ ब्रह्म तेनैव रूपेण ‘मनुष्येषु ब्राह्मणः’ ब्राह्मणजातिरभवत् इत्यनुषज्यते । इतरेषु वर्णेषु तु अग्निब्राह्मणलक्षणं विकारान्तरं प्राप्य स्रष्टृ ब्रह्माभवदिति दर्शयति- क्षत्रियेण क्षत्रिय इत्यादिना । ‘क्षत्रियेण’ इन्द्रादिदेवक्षत्रियेण नियन्त्रितो ऽनुगृहीतश्च ‘क्षत्रियः’ मनुष्यः क्षत्रियः सोमसूर्यवंश्यः पुरूरवइक्ष्वाकुप्रभृतिको दैवमानुषब्राह्मणरूपेण विकृतात् स्रष्टृब्रह्मणः सकाशादभवत् । तथा ‘वैश्येन’ वस्वादिदेववैश्येनाधिष्ठितो ‘वैश्यः’ मनुष्यवैश्यः अभवत् । एवं ‘शूद्रेण’ देवशूद्रेण पूष्णा अधिष्ठितः ‘शूद्रः’ मनुष्यशूद्रो ऽभवदित्यर्थः । यस्मात् क्षत्त्रादिषु विकारापन्नं स्रष्टृ ब्रह्म अग्नौ ब्राह्मणे एव चाविकृतं ‘तस्माद्देवेषु’ देवानां मध्ये ‘अग्नावेव’ अग्निसम्बद्धं कर्म्म कृत्वैव ‘लोकं’ कर्मफलं- ‘इच्छन्ते’ प्रार्थयन्ते । कर्म्मफलदानार्थमेव हि तद्ब्रह्म कर्म्माधिकरणत्वेनाग्निरूपेण व्यवस्थितं तस्मात्तस्मिन्नग्नौ कर्म कृत्वा तत्फलं प्रार्थयन्ते इत्युपपन्नम् । मनुष्याणां मध्ये कमपि मनुष्यमवलम्ब्य कर्मफलभोगापेक्षायां अग्न्यादिनिमित्तक्रियापेक्षामन्तरेणापि ‘ब्राह्मणे’ ब्राह्मणजातौ ब्राह्मण्यप्रयुक्तजप्यादिकर्ममात्रेण लोकमिच्छन्ते इति सम्बध्यते । कथमग्निब्राह्मणयोरेव कर्मफलमिच्छन्ति इत्यत्र हेतुमाह- एताभ्यां हीति । ‘हि’ यस्मात्- यत् स्रष्टृ ब्रह्म तत् ‘एताभ्यां’ अग्निब्राह्मणलक्षणाभ्यां ‘रूपाभ्यां’ साक्षात् रूपवदभवत् ॥ २७ ॥

२८

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थ यो᳘ ह वा᳘ ऽअस्मा᳘ल्लोकात्स्वं᳘ लोकम᳘दृष्ट्वा प्रै᳘ति॥
स᳘ ऽएनम᳘विदितो न᳘ भुनक्ति य᳘था व्वे᳘दो वा᳘ ऽननूक्तो ऽन्य᳘द्वा कर्म्मा᳘कृतं य᳘दु ह वा ऽअप्य᳘नेवम्विन्महत्पु᳘ण्यङ्क᳘र्म्म करो᳘ति त᳘द्धास्यान्ततः क्षी᳘यत ऽए᳘वात्मा᳘नमेव᳘ लोकमु᳘पासीत स य᳘ ऽआत्मा᳘नमेव᳘ लोक᳘मुपा᳘स्ते न᳘ हास्य क᳘र्म्म क्षीयते ऽस्मा᳘द्ध्ये᳘वात्म᳘नो य᳘द्यत्काम᳘यते त᳘त्तत्सृजते॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थ यो᳘ ह वा᳘ ऽअस्मा᳘ल्लोकात्स्वं᳘ लोकम᳘दृष्ट्वा प्रै᳘ति॥
स᳘ ऽएनम᳘विदितो न᳘ भुनक्ति य᳘था व्वे᳘दो वा᳘ ऽननूक्तो ऽन्य᳘द्वा कर्म्मा᳘कृतं य᳘दु ह वा ऽअप्य᳘नेवम्विन्महत्पु᳘ण्यङ्क᳘र्म्म करो᳘ति त᳘द्धास्यान्ततः क्षी᳘यत ऽए᳘वात्मा᳘नमेव᳘ लोकमु᳘पासीत स य᳘ ऽआत्मा᳘नमेव᳘ लोक᳘मुपा᳘स्ते न᳘ हास्य क᳘र्म्म क्षीयते ऽस्मा᳘द्ध्ये᳘वात्म᳘नो य᳘द्यत्काम᳘यते त᳘त्तत्सृजते॥

मूलम् - Weber

अ᳘थ यो᳘ ह वा᳘ अस्मा᳘ल्लोकात्स्वं᳘ लोकम᳘दृष्ट्वा प्रै᳘ति॥
स᳘ एनम᳘विदितो न᳘ भुनक्ति य᳘था वे᳘दो वा᳘ननूक्तोऽन्य᳘द्वा कर्मा᳘कृतम् य᳘दि ह वा 4 अप्य᳘नेवम्विन्महत्पु᳘ण्यं क᳘र्म करो᳘ति त᳘द्धास्यान्ततः क्षी᳘यत एॗवात्मा᳘नमेव᳘ लोकमु᳘पासीत स य᳘ आत्मा᳘नमेव᳘ लोक᳘मुपा᳘स्ते न᳘ हास्य क᳘र्म क्षीयतेऽस्माॗद्ध्येॗवात्म᳘नो य᳘द्यत्काम᳘यते त᳘त्तत्सृजते॥

मूलम् - विस्वरम्

अथ यो ह वा अस्माल्लोकात्स्वलोकमदृष्ट्वा प्रैति । स एनमविदितो न भुनक्ति । यथा वेदो वा अननूक्तः । अन्यद्वा कर्माकृतम् । यदु ह वा अपि । अनेवंवित् महत् पुण्यं कर्म करोति । तद्धास्यान्ततः क्षीयत एव । आत्मानमेव लोकमुपासीत । स य आत्मानमेव लोकमुपास्ते । न हास्य कर्म क्षीयते । अस्माध्येवात्मनो यद्यत्कामयते । तत्तत्सृजते ॥ २८ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

केचित् अग्न्यादिसाध्यकर्म्मणा मोक्षमिच्छन्ति, तान्प्रत्याह- अथ यो ह वा इति । अथशब्दः पूर्वपक्षव्यावृत्त्यर्थः । ‘यो ह वै’ ‘यः’ कश्चित् ‘स्वं लोकं’ परमात्माख्यं “अहं ब्रह्मास्मि” इति ‘अदृष्ट्वा’ अस्माल्लोकात्सांसारिकात् पिण्डग्रहणलक्षणात् ‘प्रैति’ म्रियते । तमेनं ‘सः’ स्वो लोकः परमात्मा ‘अविदितः’ अविद्यया व्यवहितः सन् शोकमोहभयादिदोषापनयनेन ‘न भुनक्ति’ न पालयति । अत्र दृष्टान्तमाह- यथा वेद इति । ‘यथा’ लोके ‘वेदः’ ‘अननूक्तः’ अनधीतः कर्माद्यवबोधकत्वेन न भुनक्ति ‘अन्यद्वा’ कृष्यादि कर्म्म ‘अकृतं’ स्वात्मना अनभिव्यञ्जितं आत्मीयफलप्रदानेन न भुनक्ति । तद्वदात्मा स्वो लोकः स्वेनैव नित्यात्मस्वरूपेणानभिव्यञ्जितो ऽविद्यादिप्रहाणेन न भुनक्त्येव । तथापि अश्वमेधादेर्महतः कर्म्मणो ऽनुष्ठानान्मोक्षो भविष्यतीत्यत आह- यदु ह वा अपीति । ‘उ’ पुनः ‘ह’ किल ‘वै’ निश्चितं संसारमण्डले यः कश्चिन्महात्मा ऽपि ‘अनेवंवित्’ यथोक्तेन विधानेन स्वं लोकमविद्वान् यत् महद्बहु अश्वमेधादि ‘पुण्यं कर्म्म’ प्रकृष्टफलमेव नैरन्तर्येण ‘करोति’ । अनेनैवानन्त्यं मम भविष्यतीति तत्कर्म अस्याविदुषः ‘ह’ निश्चितं ‘अन्ततः’ फलभोगस्यावसाने ‘क्षीयत एव’ कृतकत्वात् स्वप्नविभूतिवत् । तस्मादात्मानमेव ‘लोकं’- प्रत्यग्ब्रह्मैकत्वलक्षणं ‘उपासीत’ । अशेषानात्मदृष्टिपरिहारेण निरन्तरमनुसन्दधीत । तत्फलमाह- स य आत्मानमेवेति । ‘स यः’ कश्चित् उक्तरीत्या ‘आत्मानमेव’ लोकं ‘उपास्ते’ । अस्योपासकस्य ‘ह’ निश्चितं ‘कर्म न क्षीयते’ कर्माभावादेव । किञ्च स आत्मोपासको यद्यदिष्टं ‘कामयते’- ‘तत्तत्’ ‘अस्मात् हि एव’ आत्मनः सकाशात्सृजते न साधनान्तरमपेक्षते इत्यर्थः ॥ २८ ॥

२९

विश्वास-प्रस्तुतिः

(ते᳘ ऽथो) अ᳘थो ऽअयम्वा᳘ ऽआत्मा॥
स᳘र्व्वेषाम्भूता᳘नां लोकः स य᳘ज्जुहो᳘ति यद्य᳘जते ते᳘न देवा᳘नां लोको᳘ ऽथ य᳘दनुब्रूते तेन᳘ ऽऋर्षीणाम᳘थ य᳘त्प्रजा᳘मिच्छ᳘ते य᳘त्पितृ᳘भ्यो निपृणा᳘ति ते᳘न पितॄणाम᳘थ य᳘न्मनु᳘ष्यान्वास᳘यते य᳘देभ्यो ऽशनन्द᳘दाति[[!!]] ते᳘न मनुष्याणाम᳘थ[[!!]] य᳘त्पशुभ्यस्तृणोदक᳘म्विन्द᳘ति ते᳘न पशूनां य᳘दस्य गृहे᳘षु श्वा᳘पदा व्व᳘याᳫँ᳭स्या[[!!]] पिपी᳘लिकाभ्य ऽउपजी᳘वन्ति ते᳘न ते᳘षां लोको य᳘था ह वै स्वा᳘य लोकाया᳘रिष्टिमिच्छे᳘देव᳘ᳫँ᳘ हैवम्वि᳘दे सर्व्वदा स᳘र्व्वाणि भूतान्य᳘रिष्टिमिच्छन्ति तद्वा᳘ ऽएत᳘द्विदित᳘म्मीमाᳫँ᳭सितम्[[!!]]॥

मूलम् - श्रीधरादि

(ते᳘ ऽथो) अ᳘थो ऽअयम्वा᳘ ऽआत्मा॥
स᳘र्व्वेषाम्भूता᳘नां लोकः स य᳘ज्जुहो᳘ति यद्य᳘जते ते᳘न देवा᳘नां लोको᳘ ऽथ य᳘दनुब्रूते तेन᳘ ऽऋर्षीणाम᳘थ य᳘त्प्रजा᳘मिच्छ᳘ते य᳘त्पितृ᳘भ्यो निपृणा᳘ति ते᳘न पितॄणाम᳘थ य᳘न्मनु᳘ष्यान्वास᳘यते य᳘देभ्यो ऽशनन्द᳘दाति[[!!]] ते᳘न मनुष्याणाम᳘थ[[!!]] य᳘त्पशुभ्यस्तृणोदक᳘म्विन्द᳘ति ते᳘न पशूनां य᳘दस्य गृहे᳘षु श्वा᳘पदा व्व᳘याᳫँ᳭स्या[[!!]] पिपी᳘लिकाभ्य ऽउपजी᳘वन्ति ते᳘न ते᳘षां लोको य᳘था ह वै स्वा᳘य लोकाया᳘रिष्टिमिच्छे᳘देव᳘ᳫँ᳘ हैवम्वि᳘दे सर्व्वदा स᳘र्व्वाणि भूतान्य᳘रिष्टिमिच्छन्ति तद्वा᳘ ऽएत᳘द्विदित᳘म्मीमाᳫँ᳭सितम्[[!!]]॥

मूलम् - Weber

अ᳘थो अयम् वा᳘ आत्मा॥
स᳘र्वेषाम् भूता᳘नां लोकः स य᳘ज्जुहो᳘ति यद्य᳘जते ते᳘न देवा᳘नां लोको᳘ऽथ य᳘दनुब्रूते तेन᳘र्षीणाम᳘थ य᳘त्प्रजा᳘मिछ᳘ते य᳘त्पितृ᳘भ्यो निपृणा᳘ति ते᳘न पितॄणाम᳘थ य᳘न्मनुॗष्यान्वास᳘यते य᳘देभ्यो᳘ऽशनं द᳘दाति ते᳘न मनुॗष्याणाम᳘थ य᳘त्पशु᳘भ्यस्तृणोदक᳘म् विन्द᳘ति ते᳘न पशूनां य᳘दस्य गृहे᳘षु श्वा᳘पदा व᳘यांस्या᳘ पिपी᳘लिकाभ्य उपजी᳘वन्ति ते᳘न ते᳘षां लोको य᳘था ह वै स्वा᳘य लोकाया᳘रिष्टिमिछे᳘देव᳘ᳫं᳘ हैवम्वि᳘दे सर्वदा स᳘र्वाणि भूतान्य᳘रिष्टिमिछन्ति तद्वा᳘ एत᳘द्विदित᳘म् मीमांसित᳘म् 5

मूलम् - विस्वरम्

अथो अयं वा आत्मा सर्वेषां भूतानां लोकः । स यज्जुहोति । यद्यजते । तेन देवानां लोकः । अथ यदनुब्रूते । तेन ऋषीणाम् । अथ यत्प्रजामिच्छते । यत्पितृभ्यो निपृणाति । तेन पितॄणाम् । अथ यन्मनुष्यान् वासयते । यदेभ्यो ऽशनं ददाति । तेन मनुष्याणाम् । अथ यत्पशुभ्यस्तृणोदर्कं विन्दति । तेन पशूनाम् । यदस्य गृहेषु श्वापदा वयांसि आ पिपीलिकाभ्थ उपजीवन्ति । तेन तेषां लोकः । यथा ह वै स्वाय लोकायारिष्टिमिच्छेत् । एवं हैवंविदे सर्वदा सर्वाणि भूतान्यरिष्टिमिच्छन्ति । तद्वा एतद्विदितं मीमांसितम् ॥ २९ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

अत्राविद्वान् वर्णाश्रमाद्यभिमानी धर्म्मेण नियम्यमानो देवादिकर्मकर्तव्यतया पशुवत्परतन्त्र इत्युक्तम् । कानि पुनस्तानि कर्म्माणि यत्कर्तव्यतया परतन्त्रो भवति । के वा ते देवादयः येषां कर्मभिः पशुवदुपकरोतीति तदुभयं प्रपञ्चयति- अथो अयं वा आत्मेति । ‘अथो’ इति अयं वाक्योपन्यासार्थः । ‘अयं’- यः प्रकृतो गृही कर्म्माधिकृतो ऽविद्वान् शरीरेन्द्रियसङ्घातविशिष्टः पिण्ड आत्मेत्युच्यते । अयं वै ‘सर्वेषां’ देवादीनां पिपीलिकान्तानां ‘भूतानां’ प्राणिनां ‘लोकः’ भोग्य आत्मेत्यर्थः । सर्वेषां वर्णाश्रमादिविहितैः कर्म्मभिः उपकारित्वात् । कैः पुनः कर्म्मविशेषैरुपकुर्वन् केषां भूतविशेषाणां लोक इत्याह- स यज्जुहोतीति । ‘सः’ गृही ‘यज्जुहोति’ ‘यद्यजते’ यागो देवतामुद्दिश्य द्रव्यपरित्यागः । स एवाज्यासेचनादिको होमः । ‘तेन’ होमयागलक्षणेन कर्म्मणा अवश्यकर्तव्यत्वेन प्रतिबद्धः सन् पशुवत्परतन्त्रो देवानामिन्द्रादीनां ‘लोकः’ भोग्यः । अथापि- ‘यदनुब्रूते’- स्वाध्यायमधीते ऽहरहः- ‘तेन ऋषीणां’ लोकः । लोक इति प्रत्येकं सम्बध्यते । ‘अथ यत्प्रजामिच्छते’- प्रजार्थमुद्यमं करोति । इच्छा चोत्पत्त्युपलक्षणार्था । प्रजामुत्पादयतीत्यर्थः । ‘यत्पितृभ्यो निपृणाति’ पिण्डोदकादि प्रयच्छति तेनोभयविधकर्म्मणा अवश्यकर्तव्यत्वेन ‘पितॄणां’ भोज्यत्वेन परतन्त्रः । ‘अथ यन्मनुष्यान्’- गृहे भूम्युदकादिदानेन ‘वासयते’ । यच्च ‘एभ्यः’ वसद्भ्यो ऽर्थिभ्यो वा ‘अशनं’ भोजनं ‘ददाति’ । तेनोभयविधकर्मणा ‘मनुष्याणाम्’ । ‘अथ यत्पशुभ्यस्तृणोदकं विन्दति’ लम्भयति ‘तेन पशूनाम्’ । ‘यदस्य’ कर्मिणः ‘गृहेषु’ ‘आ पिपीलिकाभ्यः’ पिपीलिकाभिः सह ‘श्वापदाः’ मार्ज्जारादयः ‘वयांसि’ पक्षिणश्च कणबलिमाण्डप्रक्षालनादिकं ‘उपजीवन्ति’ । ‘तेन तेषां लोकः’ उपभोग्यः । एवमुपकारिणं देवादयो ऽप्युपकुर्वंतीत्याह- यथा ह वा इति । ‘यथा ह वै’ लोके ‘स्वाय लोकाय’ स्वस्मै देहाय ‘अरिष्टिं’ अविनाशं ‘इच्छेत्’ पोषणरक्षणादिभिः सर्वतः परिपालयेत् । ‘एवं ह’ एवमेव ‘एवंविदे’ सर्वभूतभोग्यो ऽहं अनेन प्रकारेण मया अवश्यमृणिवत् प्रतिकर्तव्यं इत्येवमात्मानं परिकल्पितवते ‘सर्वाणि भूतानि’ देवादीनि यथोक्तानि ‘अरिष्टिं’ अविनाशमिच्छन्ति सर्वतः संरक्षन्ति कुटुम्बिनः पशूनिव । ननु- तथापि नास्य होमादेरवश्यकर्तव्यत्वमित्यत आह- तद्वा एतदिति । ‘तद्वै एतत्’ तदेतदेव यथोक्तानां कर्म्मणां ऋणवदवश्यकर्तव्यत्वम् “भूतयज्ञो मनुष्ययज्ञः पितृयज्ञो देवयज्ञो ब्रह्मयज्ञः” (श. प. ११ । ७ । २ । १ ।) इति पञ्चमहायज्ञप्रकरणे ‘विदितं’ विज्ञातम् । ननु- श्रुतमपि अविचारितं अनुष्ठेयमित्यत आह- मीमांसितमिति । “ऋणं ह वै जायते यो ऽस्ति स जायमान एव देवेभ्य ऋषिभ्यः पितृभ्यो मनुष्येभ्यः” (श. प. ११ । ७ । २ । १ ।) इत्यादिना अर्थवादेन एतदवश्यकर्तव्यत्वं अवदानप्रकरणे विचारितमित्यर्थः ॥ २९ ॥

३० जाया-प्रजा-वित्त-कर्म

विश्वास-प्रस्तुतिः

आत्मै᳓वे᳓द᳓म् अ᳓ग्र आसीद् ए᳓क एव᳓॥ सो᳙ऽकामयत - जाया᳓ मे स्याद् अ᳓थ प्र᳓जायेया᳓थ वित्तं᳓ मे स्याद् अ᳓थ क᳓र्म कुर्वीये᳓ति॥

एता᳓वान् वै᳓ का᳓मो, ने᳙च्छँ᳓श् च ना᳓तो भू᳓यो विन्देत्॥

त᳓स्माद् अ᳓प्य् एत᳓र्ह्य् एकाकी᳓ कामयते - जाया᳓ मे स्याद्, अ᳓थ प्र᳓जायेया᳓थ वित्तं᳓ मे स्याद्, अ᳓थ क᳓र्म कुर्वीये᳓ति॥

स᳓ या᳓वद् अ᳓प्य् एते᳓षाम् ए᳓कैकं न᳓ प्राप्नो᳓ति
अ᳓कृत्स्न एव᳓ ता᳓वन् मन्यते॥
त᳓स्यो कृत्स्न᳓ता॥

मूलम् - श्रीधरादि

(मा᳘) आ᳘त्मै᳘वेदम᳘ग्ग्र ऽआसीत्॥
(दे᳘) ए᳘क ऽएव᳘ सो ऽकामयत जाया᳘ मे स्याद᳘थ प्प्र᳘जायेया᳘थ व्वित्त᳘म्मे स्याद᳘थ क᳘र्म्म कुर्व्वीये᳘त्येता᳘न्वावै का᳘मो᳘ नेच्छं᳘श्चनातो[[!!]] भू᳘यो व्विन्देत्त᳘स्माद᳘प्येतर्ह्येकाकी᳘ कामयते जाया᳘ मे स्याद᳘थ प्प्र᳘जायेया᳘थ व्वित्त᳘म्मे स्याद᳘थ क᳘र्म्म कुर्व्वीये᳘ति स या᳘वद᳘प्येते᳘षामे᳘कैकन्न᳘ प्राप्नोत्य᳘कृत्स्न ऽएव ता᳘वन्मन्यते त᳘स्यो कृत्स्न᳘ता॥

मूलम् - Weber

आॗत्मैॗवेदम᳘ग्र आसीत्॥
ए᳘क एवॗ सोऽकामयत जाया᳘ मे स्याद᳘थ प्र᳘जायेया᳘थ वित्त᳘म् मे स्याद᳘थ क᳘र्म कुर्वीये᳘त्येता᳘न्वावै का᳘मोॗ नेछं᳘श्चना᳘तो भू᳘यो विन्देत्त᳘स्माद᳘प्येतर्ह्येकाकी᳘ कामयते जाया᳘ मे स्याद᳘थ प्र᳘जायेया᳘थ वित्त᳘म् मे स्याद᳘थ क᳘र्म कुर्वीये᳘ति स या᳘वद᳘प्येते᳘षामे᳘कैकं न᳘ प्राप्नोत्य᳘कृत्स्न एव ता᳘वन्मन्यते त᳘स्यो कृत्स्न᳘ता॥

मूलम् - विस्वरम्

आत्मैवेदमग्र आसीदेक एव । सो ऽकामयत । जाया मे स्यात् । अथ प्रजायेय । अथ वित्तं मे स्यात् । अथ कर्म कुर्वीयेति । एतावान्वै कामः । नेच्छंश्चनातो भूयो विन्देत् । तस्मादप्येतर्हि एकाकी कामयते । जाया मे स्यात् । अथ प्रजायेय । अथ वित्तं मे स्यात् । अथ कर्म कुर्वीयेति । स यावदप्येतेषामेकैकं नाप्नोति । अकृत्स्त्र एव तावन्मन्यते । तस्य उ कृत्स्नता ॥ ३० ॥

श्रीमद्वासुदेवब्रह्मभगवान्

ननु- येन प्रयुक्तो मनुष्यो ग्रहग्रस्त इवावशः स्वात्मलोकबहिर्मुखीभूतो दुःखात्मके कर्म्मण्येव प्रवर्तत इति स कः प्रवर्तक इत्यपेक्षायां काम एव इति निर्णयार्थमाह-आत्मैवेदमग्र ऽआसीदिति । अत्रात्मशब्देन स्वाभाविक्या अविद्यया युक्तः कार्यकारणसङ्घातलक्षणो ब्रह्मचार्यभिधीयते । तथा चाग्रे दारसम्बन्धात्प्राक् इदं प्रसिद्धं जायादिभेदरूपं ब्रह्मचार्यात्मा ‘एक एवासीत्’ । नासीत्पृथग्भूतम् । ‘सः’ ब्रह्मचार्यात्मा स्वाभाविक्या अविद्यावासनया वासितः ‘अकामयत’ कामितवान् । कथमित्यत आह- जाया मे स्यादिति । ‘जाया’ कर्म्माधिकारहेतुभूता ‘मे’ मम कर्तुः ‘स्यात्’ तया विना अहमनधिकृत एव कर्म्मणि । अतः कर्म्माधिकारसम्पत्तये जाया मे भवेत् । ‘अथ’ पुत्रसाधनभूतजायासम्पत्त्यनन्तरं ‘प्रजायेय’ प्रजारूपेणाहमेवोत्पद्येय । ‘अथ’ कर्मानुष्ठानसाधनभूतं गवादिलक्षणं ‘वित्तं मे’ मम ‘स्यात्’ । ‘अथ’ पुत्रगवादिलक्षणमानुषवित्तसम्पत्त्यनन्तरं नित्यनैमित्तिककाम्याख्यं त्रिविधमपि कर्म्माहं ‘कुर्वीय’ । ‘एतावान् वै’ प्रसिद्धजायापुत्रवित्तकर्म्माण्येव हि ‘कामः’ कामयितव्यो विषयः । यद्यपि फलैषणा ऽप्यस्ति तथापीय साधनैषणैव मनुष्यलोकपितृलोकदेवलोकरूपफलविषया ऽपि भवति । साधने ऽपि कामानामानन्त्यात् कथमवधारणमित्यत आह- नेच्छंश्च नेति । यस्मादिच्छंश्चनेच्छन्नपि ‘अतः’ तत्फलं तत्साधनलक्षणात् ‘भूयः’ अधिकतरं न विन्देन्न लभेत । अतो ऽवधारणं युक्तम् । तथा च एवमविदुषः एषणा ऽपरपर्यायः काम एव कर्ममार्गप्रवृत्तिहेतुः इति निश्चिते ऽर्थे आधुनिकामपि कामपूर्वकप्रवृत्तिं प्रमाणयति- तस्मादप्येतर्हीति । यस्मादेवमविदुषः प्रजापतेश्च “स वै नैव रेमे” ……….. “स द्वितीयमैच्छत्” (श. प. १४ । ४ । २ । ३) इत्यादिना ख्यादिविषयेच्छा आसीत्- ‘तस्मादप्येतर्हि’ एतस्मिन्नपि काले स्वाभाविक्या अविद्यया युक्तः प्राक् दारक्रियातः ‘एकाकी’ सन् ‘कामयते’ “जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म्म कुर्व्वीय”- इति । उक्तार्थं वाक्यम् । ‘सः’ एवं कामयमानः सम्पादयंश्च जायादीन् ‘यावदेतेषां’ यथोक्तानां जायादीनां मध्ये एकैकमपि ‘न प्राप्नोति’ तावदकृत्स्नो ऽसम्पूर्णः अहमित्येवमात्मानं ‘मन्यते’ । पारिशेष्यात्समस्तानेव एतान् यदा सम्पादयति तदा ‘तस्य कृत्स्नता’ । यदा तु कृत्स्नतां सम्पादयितुं न शक्नोति- तदा तस्य कृत्स्नत्वसम्पादनोपायमाह- तस्यो कृत्स्नतेति । ‘उ’ पुनः तस्यात्तकृत्स्नत्वाभिमानिनः कृत्स्नतैवं भवति ॥ ३० ॥

३१

विश्वास-प्रस्तुतिः

म᳓न एवा᳓स्यात्मा᳓;
वा᳓ग् जाया᳓;
प्राणः᳓ प्रजा᳓।
च᳓क्षुर् मानुषं᳓ वित्तं᳓ -
च᳓क्षुषा हि᳓ त᳓द् विन्द᳓ति।
श्रो᳓त्रं दैवं᳓ - श्रो᳓त्रेण हि᳓ त᳓च् छृणो᳓ति।
आत्मै᳓वा᳓स्य क᳓र्मात्म᳓ना हि᳓ क᳓र्म करो᳓ति॥

स᳓ एष᳓ पा᳓ङ्क्तो यज्ञः᳓,
पा᳓ङ्क्तः पशुः᳓, पा᳓ङ्क्तः पु᳓रुषः, पा᳓ङ्क्तम् इदँ᳓ स᳓र्वं य᳓द् इदं᳓ कि᳓ञ् च॥ त᳓द् इदँ᳓ स᳓र्वम् आप्नोति, य᳓ एवं᳓ वे᳓द॥

मूलम् - श्रीधरादि

म᳘न ऽए᳘वास्यात्मा॥
व्वा᳘ग्जाया᳘ प्प्राणः᳘ प्प्रजा च᳘क्षुर्म्मानुष᳘म्वित्तञ्च᳘क्षुषा हि त᳘द्विन्द᳘ति श्रो᳘त्रन्दैवᳫँ᳭ श्रो᳘त्रेण हि त᳘च्छृणोत्या᳘त्मै᳘वास्य क᳘र्म्मात्म᳘ना हि क᳘र्म्म करो᳘ति स᳘ ऽएष पा᳘ङ्क्तो यज्ञः पा᳘ङ्क्तः पशुः पा᳘ङ्क्तः पु᳘रुषः पा᳘ङ्क्तमिदᳫँ᳭ स᳘र्व्वं य᳘दिदं कि᳘ञ्च त᳘दिदᳫँ᳭ स᳘र्व्वमाप्नोति य᳘दिदं कि᳘ञ्च य᳘ ऽएवम्वे᳘द॥

मूलम् - Weber

म᳘न एॗवास्यात्मा॥
वा᳘ग्जाया᳘ प्राणः᳘ प्रजा च᳘क्षुर्मानुष᳘म् वित्तम् च᳘क्षुषा हि त᳘द्विन्द᳘ति श्रो᳘त्रं दैवं श्रो᳘त्रेण हि त᳘छृणोत्याॗत्मैॗवास्य क᳘र्मात्म᳘ना हि क᳘र्म करो᳘ति स᳘ एष पा᳘ङ्क्तो यज्ञः पा᳘ङ्क्तः पशुः पा᳘ङ्क्तः पु᳘रुषः पा᳘ङ्क्तमिदं किं᳘ च त᳘दिदᳫं स᳘र्वमाप्नोति य᳘दिदं किं᳘ च य᳘ एवम् वे᳘द॥

मूलम् - विस्वरम्

मन एवास्यात्मा । वाक् जाया । प्राणः प्रजा । चक्षुर्मानुषं वित्तम् । चक्षुषा हि तद्विन्दति । श्रोत्रं दैवम् । श्रोत्रेण हि तत् शृणोति । आत्मैवास्य कर्म । आत्मना हि कर्म करोति । स एष पाङ्क्तो यज्ञः । पाङ्क्तः पशुः । पाङ्क्तः पुरुषः । पाङ्क्तमिदं सर्वम् । यदिदं किञ्च । तदिदं सर्वमाप्नोति । यदिदं किञ्च । य एवं वेद ॥ ३१ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

कथमित्यत आह- मन इति । अस्याकृत्स्नत्वाभिमानिनः ‘मन एव’ आत्मेवात्मा । मनो ऽनुवृत्ति हि इतरत् सर्वं कार्यकारणजातमिति मनसः प्रधानत्वात् । यथा कुटुम्बपतिर्जायादीनामात्मा एवं जायादिचतुष्टयस्य तदनुकारित्वात् । एवमिहापि ‘मन एवात्मा’ परिकल्प्यते कृत्स्नतायै । तथा ‘वाक् जाया’ वाचो मनो ऽनुवृत्तित्वसामान्यात् । वागिति चोदनालक्षणशब्दव्यापारवती मनसा श्रोत्रद्वारेण गृह्यते अवधार्यते प्रयुज्यते च इति मनसो जायेव वाक् । प्राणः प्रजेति । वाङ्मनसाभ्यां जायापतिस्थानीयाभ्यां प्रसूयते प्राणः कर्मार्थं इति ‘प्राणः’ चक्षुर्दर्शनक्रियावत्- ‘मानुषं’ मनुष्यसम्बन्धि ‘वित्तम्’ । कुतः ? ‘हि’ यस्मात् ‘चक्षुषा’ तत्प्रकृतं गवादिलक्षणं मानुषं वित्तं- ‘विन्दति’ लभते । ‘श्रोत्रं’ श्रवणक्रियावत्- ‘दैवं’ देवसम्बन्धि ‘वित्तम्’ कुतः ? ‘हि’ यस्मात् ‘तत्’ दैवं वित्तं देवतादिविषयविज्ञानलक्षणं ‘श्रोत्रेण शृणोति’ । विज्ञानस्य श्रोत्राधीनत्वात् श्रोत्रमेव तदिति । एवं साधनं सम्पादितवतो ऽस्य अकृत्स्नत्वाभिमानिनः ‘आत्मैव’ शरीरमेव आत्मादिवित्तान्तैर्निर्वृत्त्यं ‘कर्म्म’ । ‘हि’ यस्मात् ‘आत्मना’ शरीरेण कर्म्म करोति । एवं कृत्स्नता सम्पन्ना । तस्मात् ‘स एष पाङ्क्तः’ पञ्चभिर्निर्वृत्तो दर्शनात्मकः ‘यज्ञः’ । कथं ? पुनरस्य पञ्चत्वसम्पत्तिमात्रेणैव यज्ञत्वं इत्याशङ्कायां बाह्ययज्ञस्यापि पाङ्क्तत्वमाह- पाङ्क्तः पशुरिति । ‘पशुः’ पशुसाध्यो यज्ञः ‘पाङ्क्तः’ । ‘पाङ्क्तः पुरुषः’ । पुरुषसाध्यो यज्ञः पाङ्क्त एव । पशुर्गवादिपशुत्वे ऽप्यधिकृतत्वेन विशेषः पुरुषस्येति पृथग्ग्रहणम् । यथोक्तमनआदिपञ्चत्वयोगात् उभावपि पाङ्क्तौ । किं बहुना पञ्चभूतात्मकं हैरण्यगर्भं जगदपि पाङ्क्तमेवेत्याह- पाङ्क्तमिदं सर्वमिति । ‘इदं सर्वं’ कर्म्मफलसाधनात्मकं ‘यदिदं किञ्च’ यत्किञ्चिदस्ति तत्सर्वं पाङ्क्तमेव । एतत्सम्पादनफलमाह- तदिदं सर्वमिति । ‘यः’ एवमुक्तप्रकारेण पाङ्क्तं यज्ञम् आत्मानं ‘वेद’ सम्पादयति- सः ‘तदिदं’ सर्वं जगत् आत्मत्वेन ‘आप्नोति’ सर्वकर्म्मफलं प्राप्नोतीति यावत् ॥ ३१ ॥

इति श्रीहृषीकेशब्रह्मभगवत्पूज्यपादशिष्यस्य श्रीपाठकानिरुद्धपुत्रस्य परमहंसपरिव्राजकाचार्यस्य श्रीवासुदेवब्रह्मभगवतः कृतौ माध्यन्दिनीयशतपथब्राह्मणान्तर्गतमाध्यन्दिनशाखोपनिषद्बृहदारण्यकटीकायां वासुदेवप्रकाशिकायाम् आद्ये मधुकाण्डे प्रथमे ऽध्याये द्वितीयमात्मब्राह्मणं परिसमाप्तम् (॥ १४ । (४) । १ । २ ॥)


  1. इदं ब्राह्मणं- आत्मब्राह्मणं, सृष्टिब्राह्मणमित्यपि व्यवह्रियते प्राज्ञैः । ↩︎

  2. सा गौ᳘रभवत् A. M. ↩︎

  3. इदमेव शुक्लयजुषां महावाक्यम् इति बोध्यम् ॥ ↩︎

  4. य᳘दु ह वा. ↩︎

  5. मीमाᳫसितं A. M. ↩︎