परिचयः
अस्य “उत्तरकाण्डम्” इत्यपि नामान्तरम् । “ततः षष्टिपथं कृत्स्नं सरहस्यं ससङ्ग्रहम् । चक्रे सपरिशेषं च सोत्तरं च प्रहर्षतः” ॥ इति (म. भा. शां. प. मो. ध. ४३ । १६) इत्यत्र प्रतिपादितम् ॥
इयमुपनिषन्माध्यन्दिनब्राह्मणोपनिषदिति नाम्ना ऽपि प्रसिद्धा ।
अनयोर्द्वयोरध्याययोर्मधुविद्याप्रतिपादकत्वान्मधुकाण्डमिति संज्ञा व्यवहारार्था ।
अस्या बृहदारण्यकोपनिषदः श्रीमत्सायणाचार्यकृतं भाष्यं विद्यत इति “उषा वा अश्वस्य०”- “नैवेह किञ्चनाग्रे०” (श. प. १० । ६ । ४ । ५ ।) इत्येतद्ब्राह्मणद्वयमधिकृत्य- “अक्षरार्थस्तु- उत्तरत्र बृहदारण्यके” तथा प्रवर्ग्ये-घर्मभेदप्रायश्चित्तं प्रकृत्य- “एतच्चोत्तरस्मिन्नध्याये स्पष्टयिष्यते” (श. प. १४ (१) ३ । २ । १६) इति श्रीसायणाचार्यैरेवासकृदुक्त्वाज्ज्ञायते । परं तच्चान्विष्यापि नोपलभामहे स्म । यदि केषाञ्चन महाभागानां सविधे ऽस्ति, तर्दीयेत चेत्पुनर्मुद्रणावसरे ऽवश्यं संयोजयिष्यामः । इति ॥
०१
विश्वास-प्रस्तुतिः
द्वया᳘ ह प्राजापत्याः᳘॥
(०) देवाश्चा᳘सुराश्च त᳘तः कानीयसा᳘ ऽएव᳘ देवा᳘ ज्यायसा ऽअ᳘सुरास्त᳘ ऽएषु᳘ लोके᳘ष्वस्पर्द्धन्त॥
मूलम् - श्रीधरादि
द्वया᳘ ह प्राजापत्याः᳘॥
(०) देवाश्चा᳘सुराश्च त᳘तः कानीयसा᳘ ऽएव᳘ देवा᳘ ज्यायसा ऽअ᳘सुरास्त᳘ ऽएषु᳘ लोके᳘ष्वस्पर्द्धन्त॥
मूलम् - Weber
द्वया᳘ ह प्राजापत्याः᳟॥
देवाश्चा᳘सुराश्च त᳘तः कानीयसा᳘ एव᳘ देवा᳘ ज्यायसा अ᳘सुरास्त᳘एषु᳘ लोके᳘ष्वस्पर्धन्त॥
मूलम् - विस्वरम्
उद्गीथब्राह्मणम् । वैराजब्राह्मणं वा ।
द्वया ह प्राजापत्याः । देवाश्चासुराश्च । ततः कानीयसा एव देवाः । ज्यायसा असुराः । त एषु लोकेष्वस्पर्धंत ॥ १ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
ॐ नमो ब्रह्मादिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो वंशर्षिभ्यो नमो गुरुभ्यः ॥
द्वया ह प्राजापत्या इत्येवमाद्या षडध्यायी माध्यन्दिनीयब्राह्मणोपनिषत् । तस्या इयमल्पग्रन्था वृत्तिरारभ्यते । उपनिषच्छब्देन मुख्यया वृत्त्या ब्रह्मविद्यैव वाच्या । उप समीपस्थं प्रत्यगात्मैकत्वं नीति निश्चितं सत् तत्पराणां सहेतुं संसारं सादयतीत्युपनिषदिति व्युत्पत्तेः । ग्रन्थस्तु विद्यासमर्थकत्वेनोपचारादुपनिषदित्युच्यते । बृहत्त्वञ्चास्य ब्रह्मविद्याहेतूनामन्तरङ्गबहिरङ्गभूतानां बहूनामिहोपदेशात् अर्थतो ग्रन्थपरिमाणतश्च बहुत्वात् । आरण्यकत्वञ्चास्य नियमपूर्वकमरण्ये ऽनूच्यमानत्वात् । अथ कर्मकाण्डज्ञानकाण्डयोर्नियतपौर्वापर्ये सम्बन्धो ऽभिधीयते । विद्योत्पत्त्यपेक्षितविवेकवैराग्यशमदमादिमुमुक्षुत्वसम्पत्तिहेतुसत्त्वशुद्धिसम्पादकतया कर्मकाण्डस्य प्राथम्यम् । तज्जनितशुद्ध्यपेक्षया तत्त्वज्ञानजनकत्वात् ज्ञानकाण्डस्य नियतमुत्तरभावित्वमित्युपायोपेयभावः काण्डयोः सम्बन्ध इति ब्रूमः ॥ पूर्वमग्निरहस्यकाण्डसमाप्तावश्वमेधाग्निब्राह्मणाभ्यां (श. प. १० । ६ । ४ । ५ ।) समुच्चितयोः केवलयोर्वा ज्ञानकर्मणोर्मृत्य्वात्मभावः परं फलमित्युक्तम् । अथेदानीम्मृत्य्वात्मभावसाधनभूतयोः कर्मज्ञानयोर्यत उद्भवः तस्योद्भावकस्योपास्यस्य प्राणस्य स्वरूपनिर्णयार्थमुद्गीथब्राह्मणमारभ्यते । प्राणोपास्तर्हि ज्ञानकर्मोत्पत्तिप्रतिबन्धकीभूतरागाद्यपध्वस्तिहेतुः । तस्याः पाप्ममृत्य्वतिक्रमणावान्तरफलत्वात् । को ऽसौ पाप्मा मृत्युः, कुतो वा तस्योद्भवः, केन वा तस्यातिक्रमणं कथं वेति वीक्षायामेतत्सर्वं स्पष्टयितुमाख्यायिकामनुसृत्य द्वया हेत्यादिश्रुतिः प्रवर्तते । अत्र हशब्दः पूर्ववृत्तावद्योतकः । प्रजापतिशब्दश्च भविष्यद्वृत्तिमाश्रित्य यजमानविषयकः । तथा च ‘द्वयाः’ द्विप्रकाराः ‘ह’ किल ‘प्राजापत्याः’ प्रजापतेर्हिरण्यगर्भस्य अतीतजन्मनि यजमानावस्थस्य अपत्यभूता गोलकावस्था वागादयः प्राजापत्याः । के ते द्विप्रकारा इत्यत आह- देवाश्चासुराश्चेति । शास्त्रीयज्ञानकर्मवासनावासिताः द्योतनात्मका देवाः । प्रत्यक्षानुमानजनितदृष्टप्रयोजकस्वाभाविकज्ञानकर्मवासनावासिता असुराः । स्वेष्वेवासुषु रमणात् देवेभ्यो ऽन्यत्वाद्वा असुराः । नेन्द्रविरोचनादयः प्राणाधिकारादित्यर्थः । ‘चौ’ समुच्चये । मिथः यस्माद्वागादीनामासुरी वृत्तिर्बहुला । ततस्तस्मात् ‘देवाः कानीयसा एव’ अल्पीयांस एव कनीयांस एव । कानीयसाः । स्वार्थे ऽणि वृद्धिः । अल्पा एव देवाः शास्त्रप्रवृत्तेरत्यन्तं यत्नसाध्यत्वात् । ‘ज्यायसाः’ ज्यायांसो बहुतराः ‘असुराः’ शास्त्रानाधेयस्वाभाविकप्रवृत्तेर्बहुलत्वात् । ‘ते’ देवासुराः ‘एषु लोकेषु’ ब्रह्मादिस्थावरान्तेषु शास्त्रीयाशास्त्रीयज्ञानकर्मसाध्येषु निमित्तभूतेषु सत्सु ‘अस्पर्द्धन्त’ स्पर्द्धां कृतवन्तः । तेषां देवासुराणां सात्त्विकतामसत्वानुसारेण शमकामादिवृत्त्युद्भवाभिभवौ स्पर्द्धा । कदाचित्प्राणानां शास्त्रजनितवृत्त्युद्भवाद्देवानाञ्जये सति धर्मवृद्धेर्वागाद्युपहितस्य यजमानस्य धर्मप्राधान्यादामानुषादाप्रजापतेश्चोत्कर्षः । तद्विपरीतवृत्त्युद्भवाच्चासुराणां जये सति अधर्मवृद्धेरामानुषादारथाणोश्चापकर्षः । साम्ये च मनुष्यत्वप्राप्तिरित्यर्थः ॥ १ ॥
०२
विश्वास-प्रस्तुतिः
ते᳘ ह देवा᳘ ऽऊचुः॥
(र्ह) हन्ता᳘सुरान्यज्ञ᳘ ऽउद्गीथे᳘नात्य᳘यामे᳘ति॥
मूलम् - श्रीधरादि
ते᳘ ह देवा᳘ ऽऊचुः॥
(र्ह) हन्ता᳘सुरान्यज्ञ᳘ ऽउद्गीथे᳘नात्य᳘यामे᳘ति॥
मूलम् - Weber
ते᳘ ह देवा᳘ ऊचुः॥
हन्ता᳘सुरान्यज्ञ᳘ उद्गीथे᳘नात्य᳘यामे᳘ति॥
मूलम् - विस्वरम्
ते ह देवा ऊचुः । हन्त ! असुरान् यज्ञ उद्गीथेनात्ययामेति ॥ २ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
असुराणां बाहुल्यात् तैरभिभूयमाना अल्पा देवाः किं कृतवन्त इत्यत आह- ते ह देवा ऊचुरित्यादिना । ‘ते देवाः’ असुरैरभिभूयमानाः ‘ह’ किल ‘ऊचुः’ उक्तवन्तः । हन्तेदानीमस्मिन्यज्ञे ज्योतिष्टोमाख्ये उद्गीथेनोद्गीथकर्मपदार्थकर्तृप्राणस्वरूपाश्रयणेनासुरानत्ययामातिगच्छामः । असुरानभिभूय स्वं देवभावं प्रतिपद्यामहे इत्यन्योन्यमुक्तवन्त इत्यर्थः । उद्गीथकर्मपदार्थकर्तृस्वरूपाश्रयणञ्च ज्ञानकर्मभ्यां भवति । तत्र कर्म “तदेतानि जपेत्” (श. प. बृ. १४ । १ । १ । ३०) इति विधास्यमानं मन्त्रजपलक्षणम् । ज्ञानं तु इहाख्यायिकया परीक्ष्यमाणमशुद्धवागादिप्रत्याख्यानेन प्राणोपासनरूपमित्यर्थः ॥ २ ॥
०३
विश्वास-प्रस्तुतिः
ते᳘ ह व्वा᳘चमूचुः॥
(स्त्वं᳘) त्व᳘न्न ऽउ᳘द्गाये᳘ति तथे᳘ति ते᳘भ्यो व्वागुदगायद्यो᳘[[!!]] व्वाचि भो᳘गस्त᳘न्देवे᳘भ्य ऽआ᳘गायद्य᳘त्कल्या᳘णम्व᳘दति त᳘दात्म᳘ने᳘ ते ऽविदुरने᳘न वै᳘ न ऽउद्गात्रा᳘ ऽत्येष्यन्तीति त᳘मभिद्रु᳘त्य पाप्म᳘ना ऽविध्यन्त्स[[!!]] यः स᳘ पाप्मा य᳘दे᳘वेदम᳘प्रतिरूपम्व᳘दति स᳘ ऽएव स᳘ पाप्मा॥
मूलम् - श्रीधरादि
ते᳘ ह व्वा᳘चमूचुः॥
(स्त्वं᳘) त्व᳘न्न ऽउ᳘द्गाये᳘ति तथे᳘ति ते᳘भ्यो व्वागुदगायद्यो᳘[[!!]] व्वाचि भो᳘गस्त᳘न्देवे᳘भ्य ऽआ᳘गायद्य᳘त्कल्या᳘णम्व᳘दति त᳘दात्म᳘ने᳘ ते ऽविदुरने᳘न वै᳘ न ऽउद्गात्रा᳘ ऽत्येष्यन्तीति त᳘मभिद्रु᳘त्य पाप्म᳘ना ऽविध्यन्त्स[[!!]] यः स᳘ पाप्मा य᳘दे᳘वेदम᳘प्रतिरूपम्व᳘दति स᳘ ऽएव स᳘ पाप्मा॥
मूलम् - Weber
ते᳘ ह वा᳘चमूचुः॥
त्वं᳘ न उ᳘द्गाये᳘ति तथे᳘ति ते᳘भ्यो वागु᳘दगायद्यो᳘ वाचि भो᳘गस्तं᳘ देवे᳘भ्य आ᳘गायद्य᳘त्कल्या᳘णम् व᳘दति त᳘दात्म᳘नेॗ तेऽविदुरने᳘न वै᳘ न उद्गात्रा᳘त्येष्यन्तीति त᳘मभिद्रु᳘त्य पाप्म᳘नाविध्यन्त्स᳘ यः स पाप्मा य᳘देॗवेदम᳘प्रतिरूपम् व᳘दति स᳘ एव स᳘ पाप्मा॥
मूलम् - विस्वरम्
ते ह वाचमूचुः । त्वं न उद्गायेति । तथेति । तेभ्यो वागुदगायत् । यो वाचि भोगः । तं देवेभ्य आगायत् । यत्कल्याणं वदति । तदात्मने । ते अविदुः- अनेन वै न उद्गात्रा अत्येष्यन्तीति । तमभिद्रुत्य पाप्मना अविध्यन् । स यः स पाप्मा । यदेवेदमप्रतिरूपं वदति । स एव स पाप्मा ॥ ३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
इह शुद्धादिगुणविशिष्टप्राणविज्ञानस्य विधित्सितत्वात् तस्य स्वरूपनिर्द्धारणाय परीक्षाप्रकार आरभ्यते- ते ह वाचमित्यादिकण्डिकाषट्केन । तत्र प्रथमं वाग्देवतापरीक्षामाह- ते ह वाचमूचुरिति । ‘ते’ पूर्वोक्ता देवाः ‘ह’ उक्तप्रकारेण विनिश्चित्य ‘वाचं’ वागभिमानिनीमग्न्याख्यामेवोद्गानकर्त्री “असतो मा सद्गमय’ (श. प. बृ. १४ । १ । १ । ३०) इत्यादिमन्त्रप्रकाश्यां च देवतां मत्वा ‘त्वं’ नो ऽस्मभ्यं ‘उद्गाय’ औद्गात्रं कर्म कुरु ‘इत्यूचुः’ उक्तवन्तः । एवं देवैर्नियुक्ता वाग्देवता ‘तथेति’ तथा ऽस्त्विति तान्नियोक्तॄन् प्रति उक्त्वा स्वसामर्थ्यमविचार्य उद्गानकर्तृत्वं मन्त्रप्रकाश्यत्वं चात्मनो ऽङ्गीकृत्य तेभ्यो ऽर्थिभ्यो ऽर्थाय उदगायदुद्गानं कृतवती । कः पुनरनेन कर्मणा कार्यविशेषः कृत इत्यपेक्षायां- यथा प्रकृते ज्योतिष्टोमे द्वादशस्तोत्रात्मके उद्गात्रा त्रिषु पवमानाख्येषु स्तोत्रेषु यजमानार्थमुद्गानं क्रियते । अवशिष्टेषु नवसु स्तोत्रेषु वाचनिकार्त्विज्यफलकं स्वार्थं तद्वदत्रापि द्विविधमुद्गानमिति कथयितुं तं तं कार्यविशेषमाह- यो वाचि भोग इति । ‘यो वाचि’ निमित्तभूतायां सत्यां वागादिसमुदायस्य ‘भोगः’ सुखविशेषः । ‘तं’ देवेभ्यः, अर्थिभ्यो ऽर्थाय ‘आगायत्’ उद्गानेन प्रापितवती । यत्पुनः ‘कल्याणं’ शोभनं ‘वदति’ यथाशास्त्रं वर्णानभिनिर्वर्त्तयति ‘तदात्मने’ स्वार्थमेव । तद्धि असाधारणं वह्निवाग्देवतायाः कर्म- यत्सम्यग्वर्णोच्चारणम् । एवं वाग्देवतायाः कल्याणवदनरूपासाधारणविषयासङ्गलक्षणं रन्ध्रस्यावसरं प्रतिलभ्यासुराः स्वकार्योद्युक्ता जाता इत्याह- ते ऽविदुरिति । ‘ते’ असुराः कामादिप्रवृत्तेः देवैः शमादिना कृत्वा प्रच्याव्यमानाः देवहृद्गतमविदुर्विदितवन्तः । किन्तदित्यत आह-अनेन वै न ऽउद्गात्रा ऽत्येष्यन्तीति । ‘अनेन वै उद्गात्रा’ शास्त्रजनितकर्मज्ञानरूपेण नो ऽस्मान् स्वाभाविककर्मज्ञानात्मकान् देवाः ‘अत्येष्यन्ति’ अतिगमिष्यन्ति इत्येवं विदित्वा तमुद्गातारं वाग्रूपं ‘अभिद्रुत्य’ वेगेनाभिगम्य स्वेनासङ्गलक्षणेन ‘पाप्मना अविध्यन्’ ताडितवन्तः संयोजितवन्त इति यावत् । एवमसुरैः प्रजापतेर्वाचि पाप्मा क्षिप्त इति कुतो गम्यते ? तत्राह- स यः स पाप्मेति । ‘यः स पाप्मा’ साधकावस्थस्य प्रजापतेर्वाचि प्रक्षिप्तः । ‘सः’ एषः अनुमानेन प्रत्यक्षीक्रियते । को ऽसौ ‘यदेव’ येनैव प्रयुक्ता सती इयं वाग् इदमप्रतिरूपमननुरूपं शास्त्रप्रतिषिद्धं असभ्यस्त्रीवर्णनप्रेतादिवर्णनानृतादि ‘वदति’- ‘स एव’ । य एवं प्रजासु प्रतिकूलवदनहेतुत्वेनानुमितः ‘स एव पाप्मा’ । सः कारणभूतप्रजापतिवाचि गतः । तथा च- आद्यसकाराभ्यां 1 कारणस्थं पाप्मानमनूद्य तस्यैव कार्यस्थत्वमुच्यते । उत्तराभ्यां तु कार्यस्थं पाप्मानमनूद्य तस्यैव कारणस्थत्वमुच्यत इति भावः । कारणानुविधायि हि कार्यमिति ॥ ३ ॥
०४
विश्वास-प्रस्तुतिः
(प्मा᳘ ऽथ) अ᳘थ ह प्राण᳘मूचुः॥
(स्त्वं᳘) त्व᳘न्न ऽउ᳘द्गाये᳘ति तथे᳘ति ते᳘भ्यः प्राण ऽउ᳘दगायद्यः᳘ प्राणे भो᳘गस्त᳘न्देवे᳘भ्य ऽआ᳘गायद्य᳘त्कल्या᳘णञ्जि᳘घ्रति त᳘दात्म᳘ने᳘ ते ऽविदुरने᳘न वै᳘ न ऽउद्गात्रा᳘ ऽत्येष्यन्ती᳘ति त᳘मभिद्रु᳘त्य पाप्म᳘ना ऽविध्यन्त्स यः स᳘ पाप्मा य᳘दे᳘वेदम᳘प्रतिरूपञ्जि᳘घ्रति स᳘ ऽएव स᳘ पाप्मा॥
मूलम् - श्रीधरादि
(प्मा᳘ ऽथ) अ᳘थ ह प्राण᳘मूचुः॥
(स्त्वं᳘) त्व᳘न्न ऽउ᳘द्गाये᳘ति तथे᳘ति ते᳘भ्यः प्राण ऽउ᳘दगायद्यः᳘ प्राणे भो᳘गस्त᳘न्देवे᳘भ्य ऽआ᳘गायद्य᳘त्कल्या᳘णञ्जि᳘घ्रति त᳘दात्म᳘ने᳘ ते ऽविदुरने᳘न वै᳘ न ऽउद्गात्रा᳘ ऽत्येष्यन्ती᳘ति त᳘मभिद्रु᳘त्य पाप्म᳘ना ऽविध्यन्त्स यः स᳘ पाप्मा य᳘दे᳘वेदम᳘प्रतिरूपञ्जि᳘घ्रति स᳘ ऽएव स᳘ पाप्मा॥
मूलम् - Weber
अ᳘थ ह प्राण᳘मूचुः॥
त्वं᳘ न उ᳘द्गाये᳘ति तथे᳘ति ते᳘भ्यः प्राण उ᳘दगायद्यः᳘ प्राणे भो᳘गस्तं᳘ देवे᳘भ्य आ᳘गायद्य᳘त्कल्या᳘णं जि᳘घ्रति त᳘दात्म᳘नेॗ तेऽविदुरनेन वै᳘ न उद्गात्रा᳘त्येष्यन्ती᳘ति त᳘मभिद्रु᳘त्य पाप्म᳘नाविध्यन्त्स यः स᳘ पाप्मा य᳘देॗवेदम᳘प्रतिरूपं जि᳘घ्रति स᳘ एव स᳘ पाप्मा॥
मूलम् - विस्वरम्
अथ ह प्राणमूचुः । त्वं न उद्गायेति । तथेति । तेभ्यः प्राण उदगायत् । यः प्राणे भोगः । तं देवेभ्य आगायत् । यत्कल्याणं जिघ्रति । तदात्मने । ते अविदुः- अनेन वै न उद्गात्रा अत्येष्यन्तीति । तमभिद्रुत्य पाप्मना अविध्यन् । स यः स पाप्मा । यदेवेदमप्रतिरूपं जिघ्रति । स एव स पाप्मा ॥ ४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘अथ ह प्राणं’- प्राणदेवतां- ‘ऊचुः’ इत्यारभ्य (कं. ४) ‘एवमु खलु’ (कं. ७) इत्यतः प्राक्तनो ग्रन्थः समानार्थकः ॥ ४ ॥
०५
विश्वास-प्रस्तुतिः
(प्मा᳘ ऽथ) अ᳘थ ह च᳘क्षुरूचुः॥
(स्त्वं᳘) त्व᳘न्न ऽउ᳘द्गाये᳘ति तथे᳘ति ते᳘भ्यश्च᳘क्षुरु᳘दगायद्यश्च᳘क्षुषि भो᳘गस्त᳘न्देवे᳘भ्य ऽआ᳘गायद्य᳘त्कल्या᳘णम्प᳘श्यति त᳘दात्म᳘ने᳘ ते ऽविदुरने᳘न वै᳘ न ऽउद्गात्रा᳘ ऽत्येष्यन्ती᳘ति त᳘मभिद्रु᳘त्य पाप्म᳘ना ऽविध्यन्त्स यः स᳘ पाप्मा य᳘दे᳘वेदम᳘प्रतिरूपम्प᳘श्यति स᳘ ऽएव स᳘ पाप्मा॥
मूलम् - श्रीधरादि
(प्मा᳘ ऽथ) अ᳘थ ह च᳘क्षुरूचुः॥
(स्त्वं᳘) त्व᳘न्न ऽउ᳘द्गाये᳘ति तथे᳘ति ते᳘भ्यश्च᳘क्षुरु᳘दगायद्यश्च᳘क्षुषि भो᳘गस्त᳘न्देवे᳘भ्य ऽआ᳘गायद्य᳘त्कल्या᳘णम्प᳘श्यति त᳘दात्म᳘ने᳘ ते ऽविदुरने᳘न वै᳘ न ऽउद्गात्रा᳘ ऽत्येष्यन्ती᳘ति त᳘मभिद्रु᳘त्य पाप्म᳘ना ऽविध्यन्त्स यः स᳘ पाप्मा य᳘दे᳘वेदम᳘प्रतिरूपम्प᳘श्यति स᳘ ऽएव स᳘ पाप्मा॥
मूलम् - Weber
अ᳘थ ह च᳘क्षुरूचुः॥
त्वं᳘ न उ᳘द्गाये᳘ति तथे᳘ति ते᳘भ्यश्च᳘क्षुरु᳘दगायद्यश्च᳘क्षुषि भो᳘गस्तं᳘ देवे᳘भ्य आ᳘गायद्य᳘त्कल्या᳘णम् प᳘श्यति त᳘दात्म᳘नेॗ तेऽविदुरने᳘न वै᳘ न उद्गात्रा᳘त्येष्यन्ती᳘ति त᳘मभिद्रु᳘त्य पाप्म᳘नाविध्यन्त्स यः स᳘ पाप्मा य᳘देॗवेदम᳘प्रतिरूपम् प᳘श्यति स᳘ एव स᳘ पाप्मा॥
मूलम् - विस्वरम्
अथ ह चक्षुरूचुः । त्वं न उद्गायेति । तथेति । तेभ्यश्चक्षुरुदगायत् । यश्चक्षुषि भोगः । तं देवेभ्य आगायत् । यत्कल्याणं पश्यति । तदात्मने । ते अविदुः- अनेन वै न उद्गात्रा अत्येष्यन्तीति । तमभिद्रुत्य पाप्मना अविध्यन् स यः । स पाप्मा । यदेवेदमप्रतिरूपं पश्यति । स एव स पाप्मा ॥ ५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
अथ ह चक्षुरूचुः ॥ ५ ॥
०६
विश्वास-प्रस्तुतिः
(प्मा᳘ ऽथ) अ᳘थ ह श्रो᳘त्रमूचुः॥
(स्त्वं᳘) त्व᳘न्न ऽउ᳘द्गाये᳘ति तथे᳘ति ते᳘भ्यः श्रो᳘त्रमु᳘दगायद्यः᳘ श्रोत्रे[[!!]] भो᳘गस्त᳘न्देवे᳘भ्य ऽआ᳘गायद्य᳘त्कल्या᳘णᳫँ᳭ शृणो᳘ति त᳘दात्म᳘ने᳘ ते ऽविदुरने᳘न वै᳘ न ऽउद्गात्रा᳘ ऽत्येष्यन्ती᳘ति त᳘मभिद्रुत्य[[!!]] पाप्म᳘ना ऽविध्यन्त्स यः स᳘ पाप्मा य᳘दे᳘वेदम᳘प्रतिरूपᳫँ᳭ शृणो᳘ति स᳘ ऽएव स᳘ पाप्मा॥
मूलम् - श्रीधरादि
(प्मा᳘ ऽथ) अ᳘थ ह श्रो᳘त्रमूचुः॥
(स्त्वं᳘) त्व᳘न्न ऽउ᳘द्गाये᳘ति तथे᳘ति ते᳘भ्यः श्रो᳘त्रमु᳘दगायद्यः᳘ श्रोत्रे[[!!]] भो᳘गस्त᳘न्देवे᳘भ्य ऽआ᳘गायद्य᳘त्कल्या᳘णᳫँ᳭ शृणो᳘ति त᳘दात्म᳘ने᳘ ते ऽविदुरने᳘न वै᳘ न ऽउद्गात्रा᳘ ऽत्येष्यन्ती᳘ति त᳘मभिद्रुत्य[[!!]] पाप्म᳘ना ऽविध्यन्त्स यः स᳘ पाप्मा य᳘दे᳘वेदम᳘प्रतिरूपᳫँ᳭ शृणो᳘ति स᳘ ऽएव स᳘ पाप्मा॥
मूलम् - Weber
अ᳘थ ह श्रो᳘त्रमूचुः॥
त्वं᳘ न उ᳘द्गाये᳘ति तथे᳘ति ते᳘भ्यः श्रो᳘त्रमु᳘दगायद्यः श्रो᳘त्रे भो᳘गस्तं᳘ देवे᳘भ्य आ᳘गायद्य᳘त्कल्या᳘णं शृणो᳘ति त᳘दात्म᳘नेॗ तेऽविदुरने᳘न वै᳘ न उद्गात्रा᳘त्येष्यन्ती᳘ति त᳘मभिद्रु᳘त्य पाप्म᳘नाविध्यन्त्स यः स᳘ पाप्मा य᳘देॗवेदम᳘प्रतिरूपं शृणो᳘ति स᳘ एव स᳘ पाप्मा॥
मूलम् - विस्वरम्
अथ ह श्रोत्रमूचुः । त्वं न उद्गायेति । तथेति । तेभ्यः श्रोत्रमुदगायत् । यः श्रोत्रे भोगः । तं देवेभ्य आगायत् । यत्कल्याणं शृणोति । तदात्मने । ते अविदुः- अनेन वै न उद्गात्रा अत्येष्यन्तीति । तमभिद्रुत्य पाप्मना अविध्यन् । स यः स पाप्मा । यदेवेदमप्रतिरूपं शृणोति । स एव स पाप्मा ॥ ६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
अथ ह श्रोत्रमूचुः ॥ ६ ॥
०७
विश्वास-प्रस्तुतिः
(प्मा᳘ ऽथ) अ᳘थ ह म᳘न ऽऊचुः॥
(स्त्वं᳘) त्व᳘न्न ऽउ᳘द्गाये᳘ति तथे᳘ति ते᳘भ्यो म᳘न ऽउ᳘दगायद्यो म᳘नसि भो᳘गस्त᳘न्देवे᳘भ्य ऽआ᳘गायद्य᳘त्कल्या᳘णᳫँ᳭ सङ्कल्प᳘यति त᳘दात्म᳘ने᳘ ते ऽविदुरने᳘न वै᳘ न ऽउद्गात्रा᳘ ऽत्येष्यन्ती᳘ति त᳘मभिद्रु᳘त्य पाप्म᳘ना ऽविध्यन्त्स यः स᳘ पाप्मा य᳘दे᳘वेदम᳘प्रतिरूपᳫँ᳭ सङ्कल्प᳘यति स᳘ ऽएव स᳘ पा᳘प्मैव᳘मु ख᳘ल्वेता᳘ देव᳘ताः पाप्म᳘भिरु᳘पासृजन्नेव᳘मेनाः पाप्म᳘ना ऽविध्यन्॥
मूलम् - श्रीधरादि
(प्मा᳘ ऽथ) अ᳘थ ह म᳘न ऽऊचुः॥
(स्त्वं᳘) त्व᳘न्न ऽउ᳘द्गाये᳘ति तथे᳘ति ते᳘भ्यो म᳘न ऽउ᳘दगायद्यो म᳘नसि भो᳘गस्त᳘न्देवे᳘भ्य ऽआ᳘गायद्य᳘त्कल्या᳘णᳫँ᳭ सङ्कल्प᳘यति त᳘दात्म᳘ने᳘ ते ऽविदुरने᳘न वै᳘ न ऽउद्गात्रा᳘ ऽत्येष्यन्ती᳘ति त᳘मभिद्रु᳘त्य पाप्म᳘ना ऽविध्यन्त्स यः स᳘ पाप्मा य᳘दे᳘वेदम᳘प्रतिरूपᳫँ᳭ सङ्कल्प᳘यति स᳘ ऽएव स᳘ पा᳘प्मैव᳘मु ख᳘ल्वेता᳘ देव᳘ताः पाप्म᳘भिरु᳘पासृजन्नेव᳘मेनाः पाप्म᳘ना ऽविध्यन्॥
मूलम् - Weber
अ᳘थ ह म᳘न ऊचुः॥
त्व᳘म् न उ᳘द्गाये᳘ति तथे᳘ति ते᳘भ्यो म᳘न उ᳘दगायद्यो म᳘नसि भो᳘गस्तं᳘ देवे᳘भ्य आ᳘गायद्य᳘त्कल्या᳘णᳫं सङ्कल्प᳘यति त᳘दात्म᳘नेॗ तेऽविदुरने᳘न वै᳘ न उद्गात्रा᳘त्येष्यन्ती᳘ति त᳘मभिद्रु᳘त्य पाप्म᳘नाविध्यन्त्स यः स᳘ पाप्मा य᳘देॗवेदम᳘प्रतिरूपᳫं सङ्कल्प᳘यति स᳘ एव स᳘ पाॗप्मैव᳘मु ख᳘ल्वेता᳘ देव᳘ताः पाप्म᳘भिरु᳘पासृजन्नेव᳘मेनाः पाप्म᳘नाविध्यन्॥
मूलम् - विस्वरम्
अथ ह मन ऊचुः । त्वं न उद्गायेति । तथेति । तेभ्यो मन उदगायत् । यो मनसि भोगः । तं देवेभ्य आगायत् । यत्कल्याणं सङ्कल्पयति । तदात्मने । ते अविदुः अनेन वै न उद्गात्रा अत्येष्यन्तीति । तमभिद्रुत्य पाप्मना अविध्यन् । स यः स पाप्मा । यदेवेदमप्रतिरूपं सङ्कल्पयति । स एव स पाप्मा । एवमु खल्वेता देवताः पाप्मभिरुपासृजन् । एवमेनाः पाप्मना ऽविध्यन् ॥ ७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
अथ ह मन ऽऊचुः । एताः कण्डिकाः स्पष्टार्थाः । कल्याणाकल्याणकार्यदर्शनात् अनुक्तेषु त्वगादिष्वपि असुरवेधो ऽनुमीयते, इत्याह- एवमु खल्वेता देवताः पाप्मभिरुपासृजन्निति । ‘एवं’ वागादिवदेव ‘खलु’ अनुक्ता अपि ‘एताः’ त्वगादिदेवताः कर्मभूताः ‘पाप्मभिः’ स्वैः स्वैरिन्द्रियासङ्गैरुपासृजन् संसर्गं कृतवन्तः असुरा इति शेषः । तेषामपि कल्याणाकल्याणस्पर्शवत्त्वात् । भेदभ्रमव्यावृत्त्यर्थमेतदेव व्याचष्टे- एवमेनाः पाप्मना ऽविध्यन्निति । एनास्त्वगादिदेवताः कर्मभूताः ‘एवं’ वागादिवत्पाप्मना ‘अविध्यन्’ विद्धवन्तो ऽसुरा इत्यर्थः ॥ ७ ॥
०८
विश्वास-प्रस्तुतिः
(न्न᳘थ) अ᳘थ हेम᳘मासन्य᳘म्प्राण᳘मूचुः॥
(स्त्वं᳘) त्व᳘न्न ऽउ᳘द्गाये᳘ति तथे᳘ति ते᳘भ्य ऽएष᳘ प्प्राण ऽउ᳘दगाय᳘त्ते ऽविदुरने᳘न वै᳘ न ऽउद्गात्रा᳘ ऽत्येष्यन्ती᳘ति त᳘मभिद्रु᳘त्य पाप्म᳘ना ऽविव्यत्सन्त्स यथा᳘ ऽश्मानमृत्वा᳘ लोष्टो᳘ व्विध्व᳘ᳫँ᳘सेतैव᳘ᳫँ᳘ हैव᳘ व्विध्व᳘ᳫँ᳘समाना व्वि᳘ष्वञ्चो व्वि᳘नेशुस्त᳘तो देवा ऽअ᳘भवन्परा᳘ ऽसुरा भ᳘वत्यात्म᳘ना प᳘रा ऽस्य द्विषन्भ्रा᳘तृव्यो भवति य᳘ ऽएवम्वे᳘द॥
मूलम् - श्रीधरादि
(न्न᳘थ) अ᳘थ हेम᳘मासन्य᳘म्प्राण᳘मूचुः॥
(स्त्वं᳘) त्व᳘न्न ऽउ᳘द्गाये᳘ति तथे᳘ति ते᳘भ्य ऽएष᳘ प्प्राण ऽउ᳘दगाय᳘त्ते ऽविदुरने᳘न वै᳘ न ऽउद्गात्रा᳘ ऽत्येष्यन्ती᳘ति त᳘मभिद्रु᳘त्य पाप्म᳘ना ऽविव्यत्सन्त्स यथा᳘ ऽश्मानमृत्वा᳘ लोष्टो᳘ व्विध्व᳘ᳫँ᳘सेतैव᳘ᳫँ᳘ हैव᳘ व्विध्व᳘ᳫँ᳘समाना व्वि᳘ष्वञ्चो व्वि᳘नेशुस्त᳘तो देवा ऽअ᳘भवन्परा᳘ ऽसुरा भ᳘वत्यात्म᳘ना प᳘रा ऽस्य द्विषन्भ्रा᳘तृव्यो भवति य᳘ ऽएवम्वे᳘द॥
मूलम् - Weber
अ᳘थ हेम᳘मासन्य᳘म् प्राण᳘मूचुः॥
त्वं᳘ न उ᳘द्गाये᳘ति तथे᳘ति ते᳘भ्य एष᳘ प्राण उ᳘दगायॗत्तेऽविदुरने᳘न वै᳘ न उद्गात्रा᳘त्येष्यन्ती᳘ति त᳘मभिद्रु᳘त्य पाप्म᳘नाविव्यत्सन्त्स यथा᳘श्मानमृत्वा᳘ लोष्टो᳘ विध्व᳘ᳫं᳘सेतैव᳘ᳫं᳘ हैव᳘ विध्व᳘ᳫं᳘समाना वि᳘ष्वञ्चो वि᳘नेशुस्त᳘तो देवा अ᳘भवन्परा᳘सुरा भ᳘वत्यात्म᳘ना प᳘रास्य द्विषन्भ्रा᳘तृव्यो भवति य᳘ एवम् वे᳘द॥
मूलम् - विस्वरम्
अथ ह इममासन्यं प्राणमूचुः । त्वं न उद्गायेति । तथेति । तेभ्य एष प्राण उदगायत् । ते अविदुः- अनेन वै न उद्गात्रा अत्येष्यन्तीति । तमभिद्रुत्य पाप्मना ऽविव्यत्सन् । स यथा अश्मानमृत्वा लोष्टो विध्वंसेत । एवं हैव विध्वंसमाना विष्वञ्चो विनेशुः । ततो देवा अभवन् । परा ऽसुराः । भवत्यात्मना । परा ऽस्य द्विषन् भ्रातृव्यो भवति । य एवं वेद ॥ ८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं वागादयो मृत्योरतिक्रमणे असमर्था इति निश्चित्य अशरणाः सन्तो देवाः मृत्य्वतिगमनाय मुख्यं प्राणं प्रार्थितवन्त इत्याह- अथ हेममासन्यम्प्राणमूचुरिति । ‘अथ’ वागादिषु नैराश्यानन्तरं ‘ह इमं’ इत्यभिनयप्रदर्शनार्थम् । ‘आसन्यं’ आस्नि आस्ये भवमासन्यं मुखान्तर्बिलस्थं मुख्यम्प्राणमूचुः इत्यादि समानम् । ततस्ते असुराः पूर्वाभ्यासवशात् मुख्यं प्राणमभिद्रुत्य ‘पाप्मना’ उक्तलक्षणेन ‘अविव्यत्सन्’ व्यधनं कर्तुमिष्टवन्तः । तं च दोषासंसर्गिणं सन्तं मुख्यं प्राणं स्वेनासङ्गदोषेण संसिसृक्षमाणाः सन्तः ‘विष्वञ्चः’ नानागतयो विनेशुर्विनष्टा विध्वस्ताः इत्यन्वयः । तत्र कथमिवेति- ‘सः’ प्रसिद्धो दृष्टान्तः । ‘यथा’ लोके पाषाणचूर्णनाय प्रक्षिप्तः ‘लोष्टः’ पांसुपिण्डः ‘अश्मानं’ पाषाणंः ‘ऋत्वा’ गत्वा प्राप्य स्वयं ‘विध्वंसेत’ विचूर्णीभवेत् ‘एवं हैव’ एवमेव खलु ‘विध्वंसमानाः’ विशीर्यमाणाः ‘असुराः’ अपि विनष्टाः । असुरविनाशे सति यत् वृत्तं तदाह- ततो देवा ऽअभवन्परा ऽसुरा इति । ततस्तस्मादसुरविनाशात् देवत्वप्रतिबन्धकपाप्मभ्यो वियोगात् मुख्यप्राणाश्रयबलात् ‘देवाः’ वागादयो वक्ष्यमाणस्वस्वरूपेणाग्न्याद्यात्मकेन ‘अभवन्’ । ‘असुराः’ ‘परा’ अभवन् इत्यनुषङ्गः 2 । पराभूता विनष्टाः न पुनः प्ररोहिण इत्यर्थः । उक्ताख्यायिकाक्रमेण यजमानावस्थप्रजापतिवत् अन्यो ऽप्याधुनिकस्तत्प्राप्तिकामः (कं. १७) श्रुतिप्रकाशितेन मार्गेण मुख्यं प्राणमात्मत्वेनोपगम्य “अहमस्मि प्राणः” इत्युपासीतेति सफलामुपासनां विदधाति- भवत्यात्मना, परा ऽस्य द्विषन्भ्रातृव्यो भवति य एवं वेदेति । ‘एवं’ यथोक्तं वक्ष्यमाणदूर्नामादिगुणं च प्राणं ‘यो वेद’ उपास्ते । सः ‘आत्मना’ प्रजापतिस्वरूपेण ‘भवति’ । अस्योपासकस्य प्रजापतित्वप्रतिपक्षभूतः पाप्मा ‘द्विषन् भ्रातृव्यः’ द्वेष्टा शत्रुर्यः स च पराभवति लोष्टवत् विशीर्यते इत्यर्थः ॥ ८ ॥
०९
विश्वास-प्रस्तुतिः
ते᳘ होचुः᳘॥
क्व नु᳘ सो ऽभूद्यो᳘ न ऽइत्थम᳘सक्ते᳘त्यय᳘मा᳘स्ये ऽन्तरि᳘ति᳘ सो ऽया᳘स्य ऽआङ्गिरसो᳘ ऽङ्गानाᳫँ᳭ हि र᳘सः॥
मूलम् - श्रीधरादि
ते᳘ होचुः᳘॥
क्व नु᳘ सो ऽभूद्यो᳘ न ऽइत्थम᳘सक्ते᳘त्यय᳘मा᳘स्ये ऽन्तरि᳘ति᳘ सो ऽया᳘स्य ऽआङ्गिरसो᳘ ऽङ्गानाᳫँ᳭ हि र᳘सः॥
मूलम् - Weber
ते᳘ होचुः॥
क्व नु सोऽभूद्यो᳘ न इत्थम᳘सक्ते᳘त्यय᳘माॗस्येऽन्तरि᳘तिॗ 3 सोऽया᳘स्य आङ्गिरसो᳘ऽङ्गानाᳫं हि र᳘सः॥
मूलम् - विस्वरम्
ते होचुः । क्व नु सो ऽभूत् । यो न इत्थमसक्तेति । अयमास्ये ऽन्तरिति । सो ऽयास्यः । अङ्गिरसः । अङ्गानां हि रसः ॥ ९ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं वक्ष्यमाणत्वेन स्थितैः अयास्याङ्गिरसद्र्भिर्गुणैर्विशिष्टं प्राणकर्मकमुपासनं विधानपूर्वकं “भवत्या त्मना” (कं. ८) इत्यादिनोक्तम् । अथाख्यायिकामेवानुसृत्य विविधं फलं स्फुटयति- ते होचुः इत्यारभ्य (कं. ९) अथात्मने ऽन्नाद्यम् (कं. १८) इत्यतः प्राक्तनेन ग्रन्थेन । तत्र देवताभावफलासाधारणगुणकथनार्थमाह- ते इति । ‘ते’ देवाः वागादयः प्रजापतिप्राणाः मुख्येन प्राणेन परिप्रापितदेवस्वरूपाः फलावस्थाः सन्तः ‘ह’ इत्येवं ऊचुरुक्तवन्तः । किमित्याह- क्व न्विति । ‘नु’ इति वितर्के, ‘यः’ नो ऽस्मानित्थं असक्त संयोजितवान् देवभावायात्मत्वेनोपगमितवान् । ‘स क्व’ कस्मिन् अभूदित्येवं लोकवदेवोपकारिणं स्मरन्तो विचारयमाणाः सन्तः ‘अयं’ प्राणः ‘आस्ये’ मुखे य आकाशः तस्मिन्नन्तर्मध्ये प्रत्यक्षो वर्तत इति अध्यवस्यन्ति स्म । अनया आख्यायिकया गुणद्वयं सिद्धमित्याह- सो ऽयास्य इति । यस्मादेवं वागादयः प्राणं ‘आस्ये’ अन्तरुपलभ्य अयमास्ये ऽन्तरिति व्याजह्रुः । तस्मात्स अयास्यः । अत एवाङ्गिरसः कार्यकारणानामात्मा । तत्र हेतुः- ‘हि’ यस्मात् ‘अङ्गानां’ कार्यकारणानां ‘रसः’ सारः । तस्मादाङ्गिरस इत्यर्थः ॥ ९ ॥
१०
विश्वास-प्रस्तुतिः
सा वा᳘ ऽएषा᳘ देव᳘ता दूर्न्ना᳘म॥
दूर᳘ᳫँ᳘ ह्यस्या[[!!]] मृ᳘त्युर्दूर᳘ᳫँ᳘[[!!]] ह वा᳘ ऽअस्मान्मृत्युर्भ्भवति[[!!]] य᳘ ऽएवम्वे᳘द॥
मूलम् - श्रीधरादि
सा वा᳘ ऽएषा᳘ देव᳘ता दूर्न्ना᳘म॥
दूर᳘ᳫँ᳘ ह्यस्या[[!!]] मृ᳘त्युर्दूर᳘ᳫँ᳘[[!!]] ह वा᳘ ऽअस्मान्मृत्युर्भ्भवति[[!!]] य᳘ ऽएवम्वे᳘द॥
मूलम् - Weber
सा वा᳘ एषा᳘ देव᳘ता दूः॥
ना᳘म दूरᳫं ह्य᳘स्या मृत्यु᳘र्दूर᳘ᳫं᳘ ह वा अस्मान्मृत्यु᳘र्भवति य᳘ एवम् वे᳘द॥
मूलम् - विस्वरम्
सा वा एषा देवता दूर्नाम । दूरं ह्यस्या मृत्युः । दूरं ह वा अस्मान्मृत्युर्भवति । य एवं वेद ॥ १० ॥
श्रीमद्वासुदेवब्रह्मभगवान्
प्राणस्य स्वतःशुद्धत्वे ऽपि अशुद्धवागादिसम्बन्द्धादशुद्धत्वं स्यादिति शङ्कां वारयितुं पाप्महानिफलासाधारणगुणकं विशिष्टोपासनमाह- सेति । यां प्राप्यासुरा विनष्टाः । वै इति “अयमास्ये ऽन्तरिति” (कं. ९) निर्द्धारिता ‘सा वै एषा’ वर्तमानोपासकशरीरस्था प्राणरूपा ‘देवता’ ‘दूर्नाम’- दूरित्येवं ख्याता । अतः शुद्धा । कथं दूर्नामत्वभित्यत आह- दूरं हीति । ‘हि’ यस्मात्, ‘अस्याः’ प्राणदेवतायाः सकाशात् मृत्युरासङ्गलक्षणः पाप्मा ‘दूरं’ दूरे भवति । एतद्गुणविशिष्टप्राणविदः फलमाह- दूरं हेति । ‘यः’ एवमुक्तप्रकारेण विशुद्धिगुणं प्राणं वेदोपास्ते । अस्मादुपासकात् ‘मृत्युः’ दूरं ह वै दूरे एव किल भवतीत्यर्थः ॥ १० ॥
११
विश्वास-प्रस्तुतिः
सा वा᳘ ऽएषा᳘ देव᳘ता॥
(तै) एता᳘सान्देव᳘तानाम्पाप्मा᳘नम्मृत्युमपह᳘त्य[[!!]] य᳘त्रासा᳘न्दिशाम᳘न्तस्त᳘द्गमया᳘ञ्चकार त᳘दासाम्पाप्म᳘नो व्वि᳘न्यदधात्त᳘स्मान्न[[!!]] ज᳘नमियान्ना᳘न्तमियान्ने᳘त्पाप्मा᳘नंमृत्युमन्ववा᳘यानी᳘ति[[!!]]॥
मूलम् - श्रीधरादि
सा वा᳘ ऽएषा᳘ देव᳘ता॥
(तै) एता᳘सान्देव᳘तानाम्पाप्मा᳘नम्मृत्युमपह᳘त्य[[!!]] य᳘त्रासा᳘न्दिशाम᳘न्तस्त᳘द्गमया᳘ञ्चकार त᳘दासाम्पाप्म᳘नो व्वि᳘न्यदधात्त᳘स्मान्न[[!!]] ज᳘नमियान्ना᳘न्तमियान्ने᳘त्पाप्मा᳘नंमृत्युमन्ववा᳘यानी᳘ति[[!!]]॥
मूलम् - Weber
सा वा᳘ एषा᳘ देव᳘ता॥
एता᳘सां देव᳘तानाम् पाप्मा᳘नम् मृत्यु᳘मपह᳘त्य य᳘त्रासां᳘ दिशाम᳘न्तस्त᳘द्गमयां᳘ चकार त᳘दासाम् पाप्म᳘नो विन्य᳘दधात्त᳘स्मान्न ज᳘नमियान्ना᳘न्तमियान्ने᳘त्पाप्मा᳘नम् मृत्यु᳘मन्ववा᳘यानी᳘ति॥
मूलम् - विस्वरम्
सा वा एषा देवता, एतासां देवतानां पाप्मानं मृत्युमपहत्य, यत्रासां दिशामन्तः, तद्गमयाञ्चकार । तदासां पाप्मनो विन्यदधात् । तस्मान्न जनमियात् । नान्तमियात् । नेत् पाप्मानं मृत्युमन्ववायानीति ॥ ११ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एतदेव स्पष्टयति- सा वा एषा देवतेति । उक्तार्था । ‘एतासां’ वागादीनां देवतानां पाप्मानं ‘मृत्युमपहत्य’ अपच्छिद्य यत्रासान्दिशामन्तः शास्त्रीयज्ञानकर्मसंस्कृतजनाधिष्ठितो देशो मध्यदेशः तस्मादतिरिक्तो देशो ‘दिशां’ प्राच्यादीनामन्तः परा काष्ठा । तत्तत्र दिशामन्ते तदन्तस्थे जने च ‘गमयाञ्चकार’ गमनं कृतवती । तत्तत्र दिगन्तस्थे ऽन्त्यजने च ‘आसां’ वागादीनां ‘पाप्मनः’ कर्मभूतान् ‘विन्यदधात्’ विविधं न्यग्भावेनादधात् स्थापितवती । तस्मात्तमन्त्यजनं ‘न इयात्’ दर्शनसंभाषणादिभिर्न संसृज्येत । तथा ‘अन्तं’ तज्जननिवासस्थानं नेयान्न गच्छेत् । ‘नेदिति’ परिभयार्थो निपातः । यदि अहं गच्छेयम् तदा ‘पाप्मानं मृत्युं’ ‘अन्ववायानि’ अनुगच्छेयम् इति भीत्या जनमन्तं वा ‘नेयात्’ न गच्छेत् शिष्टमात्र इत्यर्थः ॥ ११ ॥
१२
विश्वास-प्रस्तुतिः
सा वा᳘ ऽएषा᳘ देव᳘ता॥
(तै) एता᳘सान्देव᳘तानाम्पाप्मा᳘नम्मृत्यु᳘मपहत्या᳘थैना मृत्युम᳘त्यवहत्॥
मूलम् - श्रीधरादि
सा वा᳘ ऽएषा᳘ देव᳘ता॥
(तै) एता᳘सान्देव᳘तानाम्पाप्मा᳘नम्मृत्यु᳘मपहत्या᳘थैना मृत्युम᳘त्यवहत्॥
मूलम् - Weber
सा वा᳘ एषा᳘ देव᳘ता॥
एता᳘सां देव᳘तानाम् पाप्मा᳘नम् मृत्यु᳘मपहत्या᳘थैना मृत्युम᳘त्यवहत्॥
मूलम् - विस्वरम्
सा वा एषा देवता, एतासां देवतानां पाप्मानं मृत्युमपहत्य, अथैना मृत्युमत्यवहत् ॥ १२ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
सम्प्रति देवताभावफलमाह- सा वा एषेति कण्डिकया । ‘अथ’ पापविमोकानन्तरं ‘एनाः’ वागादि देवताः कर्मभूताः ‘मृत्युं’ पूर्वोक्तमतीत्य अवहत्प्रापयत् स्वस्वमपरिच्छिन्नमग्न्यादिदेवता ऽऽत्मरूपं प्रापितवतीत्यर्थः ॥ १२ ॥
१३
विश्वास-प्रस्तुतिः
(त्स) स वै व्वा᳘चमेव᳘ प्रथमाम᳘त्यवहत्॥
(त्सा᳘) सा᳘ यदा᳘ मृत्यु᳘मत्यमुच्यत᳘[[!!]] सो ऽग्नि᳘रभव᳘त्सो ऽय᳘मग्निः प᳘रेण मृत्युम᳘तिक्रान्तो दीप्यते॥
मूलम् - श्रीधरादि
(त्स) स वै व्वा᳘चमेव᳘ प्रथमाम᳘त्यवहत्॥
(त्सा᳘) सा᳘ यदा᳘ मृत्यु᳘मत्यमुच्यत᳘[[!!]] सो ऽग्नि᳘रभव᳘त्सो ऽय᳘मग्निः प᳘रेण मृत्युम᳘तिक्रान्तो दीप्यते॥
मूलम् - Weber
स वै वा᳘चमेव᳘ प्रथमाम᳘त्यवहत्॥
सा᳘ यदा᳘ मृत्यु᳘मत्य᳘मुच्यतॗ सोऽग्नि᳘रभवॗत्सोऽय᳘मग्निः प᳘रेण मृत्युम᳘तिक्रान्तो दीप्यते॥
मूलम् - विस्वरम्
स वै वाचमेव प्रथमामत्यवहत् । सा यदा मृत्युमत्यमुच्यत । सो ऽग्निरभवत् । सो ऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते ॥ १३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं सामान्योक्तमतिवहनं प्रत्येकमाह- स वै वाचमिति । ‘सः’ प्राणः ‘वाचमेव’ वाग्देवतामेव ‘प्रथमां’ उद्गातुरत्यन्तसन्निहितत्वात्प्रधानभूतामत्यवहत् प्रापयत् वहनं कृतवान् । ‘सा’ वाक् ‘यदा’ यस्मिन् काले ‘मृत्युं’ पाप्मानं अतीत्यामुच्यत मोचिता स्वयं तदा वागेव पूर्वमप्यग्निरेव सती ‘सः’ प्रसिद्धः ‘अग्निरभवत्’ । तर्हि पूर्वस्मात्को विशेष इत्यत आह- सो ऽयमिति । सो ऽयमतिक्रान्तः पाप्मा ऽतिक्रान्तो ऽग्निः ‘परेण’ मृत्योः परस्तात् ‘दीप्यते’ राजते प्राङ्मोक्षादध्यात्मं वागात्मना मृत्युप्रतिबद्धो नेदानीमिव दीप्तिमानासीदित्यर्थः ॥ १३ ॥
१४
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ प्राणम᳘त्यवहत्॥
(त्स᳘) स᳘ यदा᳘ मृत्युमत्य᳘मुच्यत[[!!]] स᳘ व्वायु᳘रभव᳘त्सो ऽय᳘म्वायुः प᳘रेण मृत्युम᳘तिक्रान्तः पवते॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ प्राणम᳘त्यवहत्॥
(त्स᳘) स᳘ यदा᳘ मृत्युमत्य᳘मुच्यत[[!!]] स᳘ व्वायु᳘रभव᳘त्सो ऽय᳘म्वायुः प᳘रेण मृत्युम᳘तिक्रान्तः पवते॥
मूलम् - Weber
अ᳘थ प्राणम᳘त्यवहत्॥
स᳘ यदा᳘ मृत्यु᳘मत्य᳘मुच्यत स᳘ वायु᳘रभवॗत्सोऽय᳘म् वायुः प᳘रेण मृत्युम᳘तिक्रान्तः पवते॥
मूलम् - विस्वरम्
अथ प्राणमत्यवहत् । स यदा मृत्युमत्यमुच्यत । स वायुरभवत् । सो ऽयं वायुः परेण मृत्युमतिक्रान्तः पवते ॥ १४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
अथानन्तरं ‘प्राणं’ नासिकान्तःसञ्चारिणं घ्राणम् । ‘सः वायुरभवत्’ । स तु मृत्योः परस्तात् ‘पवते’ तिर्यग्गच्छतीत्यर्थः । अन्यत्सर्वमुक्तार्थम् ॥ १४ ॥
१५
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ च᳘क्षुर᳘त्यवहत्॥
(त्त᳘) त᳘द्यदा᳘ मृत्यु᳘मत्य᳘मुच्यत स᳘ ऽआदि᳘त्यो ऽभव᳘त्सो ऽसा᳘वादित्यः प᳘रेण मृत्युम᳘तिक्रान्तस्तपति॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ च᳘क्षुर᳘त्यवहत्॥
(त्त᳘) त᳘द्यदा᳘ मृत्यु᳘मत्य᳘मुच्यत स᳘ ऽआदि᳘त्यो ऽभव᳘त्सो ऽसा᳘वादित्यः प᳘रेण मृत्युम᳘तिक्रान्तस्तपति॥
मूलम् - Weber
अ᳘थ च᳘क्षुर᳘त्यवहत्॥
त᳘द्यदा᳘ मृत्यु᳘मत्य᳘मुच्यत स᳘ आदिॗत्योऽभवॗत्सोऽसा᳘वादित्यः प᳘रेण मृत्युम᳘तिक्रान्तस्तपति॥
मूलम् - विस्वरम्
अथ चक्षुरत्यवहत् । तद्यदा मृत्युमत्यमुच्यत । स आदित्यो ऽभवत् । सोसावादित्यः परेण मृत्युमतिक्रान्तस्तपति ॥ १५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
चक्षुरादित्यो ऽभवत् । स तु ‘तपति’ द्योतते ॥ १५ ॥
१६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ श्रो᳘त्रम᳘त्यवहत्॥
(त्त᳘) त᳘द्यदा᳘ मृत्यु᳘मत्य᳘मुच्यत ता दि᳘शोऽभवँस्ता᳘ ऽइमा दि᳘शः प᳘रेण मृत्युम᳘तिक्रान्ताः॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ श्रो᳘त्रम᳘त्यवहत्॥
(त्त᳘) त᳘द्यदा᳘ मृत्यु᳘मत्य᳘मुच्यत ता दि᳘शोऽभवँस्ता᳘ ऽइमा दि᳘शः प᳘रेण मृत्युम᳘तिक्रान्ताः॥
मूलम् - Weber
अ᳘थ श्रो᳘त्रम᳘त्यवहत्॥
त᳘द्यदा᳘ मृत्यु᳘मत्य᳘मुच्यत ता दि᳘शोऽभवंस्ता᳘ इमा दि᳘शः प᳘रेण मृत्युम᳘तिक्रान्ताः॥
मूलम् - विस्वरम्
अथ श्रोत्रमत्यवहत् । तद्यदा मृत्युमत्यमुच्यत । ता दिशो ऽभवन् । ता इमा दिशः परेण मृत्युमतिक्रान्ताः ॥ १६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तथा ‘श्रोत्रं’ ‘दिशः’ ‘अभवन्’ दिशः प्राच्यादिविभागेनावस्थिताः ॥ १६ ॥
१७
विश्वास-प्रस्तुतिः
(न्ता ऽअ᳘) अ᳘थ मनो᳘ ऽत्यवहत्॥
(त्त᳘) त᳘द्यदा᳘ मृत्यु᳘मत्य᳘मुच्यत स᳘ चन्द्र᳘मा ऽअभव᳘त्सो ऽसौ᳘ चन्द्रः प᳘रेण मृत्युम᳘तिक्रान्तो भात्येव᳘ᳫँ᳘ ह वा᳘ ऽएनमेषा᳘ देव᳘ता मृत्युम᳘तिवहति य᳘ ऽएवम्वे᳘द॥
मूलम् - श्रीधरादि
(न्ता ऽअ᳘) अ᳘थ मनो᳘ ऽत्यवहत्॥
(त्त᳘) त᳘द्यदा᳘ मृत्यु᳘मत्य᳘मुच्यत स᳘ चन्द्र᳘मा ऽअभव᳘त्सो ऽसौ᳘ चन्द्रः प᳘रेण मृत्युम᳘तिक्रान्तो भात्येव᳘ᳫँ᳘ ह वा᳘ ऽएनमेषा᳘ देव᳘ता मृत्युम᳘तिवहति य᳘ ऽएवम्वे᳘द॥
मूलम् - Weber
अ᳘थ मनो᳘ऽत्यवहत्॥
त᳘द्यदा᳘ मृत्यु᳘मत्य᳘मुच्यत स᳘ चन्द्र᳘मा अभवॗत्सोऽसौ᳘ 4 चन्द्रः प᳘रेण मृत्युम᳘तिक्रान्तो भात्येव᳘ᳫं᳘ ह वा᳘ एनमेषा᳘ देव᳘ता मृत्युम᳘तिवहति य᳘ एवम् वेद॥
मूलम् - विस्वरम्
अथ मनो ऽत्यवहत् । तद्यदा मृत्युमत्यमुच्यत । स चन्द्रमा अभवत् । सोसौ चन्द्रः परेण मृत्युमतिक्रान्तौ भाति । एवं ह वा एनमेषा देवता मृत्युमतिवहति । य एवं वेद ॥ १७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तथा मनश्चन्द्रमाः ‘भाति’ । वागादीनामग्न्यादिदेवतात्वप्राप्तावपि उपासकस्य किमायातमित्यत आह- एवमिति । ‘यः’ उपासकः एवमग्न्याद्यात्मकवागादिपञ्चकविशिष्टं प्राणं आत्मत्वेन ‘वेद’ प्राणो ऽहमित्युपास्ते तमेनमुपासकं ‘एवं ह वै’ यजमानवदेव ‘एषा’ प्राणदेवता मृत्युमतीत्य ‘वहति’ वैराजं पदं प्रापयतीति यावत् । “तं यथायथोपासते तदेव भवति” (श. प. १० । ५ । २ । २०) इति श्रुतेः ॥ १७ ॥
१८
विश्वास-प्रस्तुतिः
(दा᳘था) अ᳘थात्म᳘ने ऽन्नाद्य᳘मा᳘गायत्॥
(द्य) यद्धि किञ्चा᳘न्नमद्य᳘ते ऽने᳘नैव त᳘दद्य᳘त ऽइह प्प्र᳘तितिष्ठति॥ शतम् ॥७१००॥
मूलम् - श्रीधरादि
(दा᳘था) अ᳘थात्म᳘ने ऽन्नाद्य᳘मा᳘गायत्॥
(द्य) यद्धि किञ्चा᳘न्नमद्य᳘ते ऽने᳘नैव त᳘दद्य᳘त ऽइह प्प्र᳘तितिष्ठति॥ शतम् ॥७१००॥
मूलम् - Weber
अ᳘थात्म᳘नेऽन्नाद्य᳘मा᳘गायत्॥
यद्धि किं चा᳘न्नमद्य᳘तेऽने᳘नैव त᳘दद्य᳘त इह प्र᳘तितिष्ठति॥
मूलम् - विस्वरम्
अथात्मने अन्नाद्यमागायत् । यद्धि किञ्चान्नमद्यते । अनेनैव तदद्यते । इह प्रतितिष्ठति ॥ १८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
उपास्यस्य प्राणस्य कार्यकारणसङ्घातविधारकत्वं नामगुणान्तरं वक्तुमाह- अथेति । यथा वागादिभिरात्मार्थमागानङ्कृतम् । तथा मुख्यो ऽपि प्राणः त्रिषु पवमानेषु सर्वप्राणसाधारणमागानंकृत्वा अथानन्तरं शिष्टेषु नवसु स्तोत्रेषु आत्मने आत्मार्थं ‘अन्नाद्यं आगायत्’ आगीतवान् । अन्नञ्च तत् आद्यञ्चान्नाद्यं अद्यमानमन्नमित्यर्थः । कथं पुनस्तदन्नाद्यं प्राणेनात्मार्थमागीतमिति गम्यते इत्यत्र हेतुमाह- यद्धीति । किञ्चेति सामान्यान्नमात्रपरामर्शार्थः । हीति हेतौ । ‘हि’ यस्मात् लोके प्राणिभिर्यत्किञ्चन सामान्यतः अन्नमात्रमद्यते भक्ष्यते तदन्नमात्रमनेनैव प्राणेनैवाद्यते तस्मा स्वार्थमेतदागानम् । अन इति प्राणस्याख्या प्रसिद्धा । अनःशब्दः सान्तः शकटवाची । यस्त्वन्यः स्वरान्तः स प्राणपर्यायः । अनितेर्धातोर्व्युत्पन्नत्वात् । एतेन इदंशब्दशङ्का ऽप्यपास्ता । ननु- तर्हि एतस्यापि वागादिवत्स्वार्थमागानादासङ्गपाप्मवेधः स्यादित्यत आह- इहेति । इहान्ने देहाकारपरिणते प्राणः ‘प्रतितिष्ठति’ तदनुसारिणश्च वागादयः स्थितिभाजः अतस्तत्स्थित्यर्थं प्राणस्यान्नम् । अतो न पाप्मवेधस्तस्मिन्नस्तीत्यर्थः ॥ १८ ॥
१९
विश्वास-प्रस्तुतिः
ते᳘ देवा᳘ ऽअब्रुवन्॥
(न्ने) एता᳘वद्वा᳘ ऽइदᳫँ᳭ स᳘र्व्वं यद᳘न्नन्त᳘दात्म᳘न ऽआ᳘गासीर᳘नु नो ऽस्मिन्न᳘न्न ऽआ᳘भजस्वे᳘ति ते वै᳘ मा ऽभिस᳘म्विशते᳘ति तथे᳘ति त᳘ᳫँ᳘ समन्त᳘म्परि᳘ण्यविशन्त[[!!]] त᳘स्माद्य᳘दनेना᳘न्नम᳘त्ति ते᳘नैता᳘स्तृप्यन्त्येव᳘ᳫँ᳘ ह वा᳘ ऽएनᳫँ᳭ स्वा᳘ ऽअभिस᳘म्विशन्ति भ᳘र्त्ता स्वा᳘नाᳫँ᳭ श्रे᳘ष्ठः पुर ऽएता᳘ भवत्यन्नादो᳘ ऽधिपतिर्य्य᳘ ऽएवम्वे᳘द॥
मूलम् - श्रीधरादि
ते᳘ देवा᳘ ऽअब्रुवन्॥
(न्ने) एता᳘वद्वा᳘ ऽइदᳫँ᳭ स᳘र्व्वं यद᳘न्नन्त᳘दात्म᳘न ऽआ᳘गासीर᳘नु नो ऽस्मिन्न᳘न्न ऽआ᳘भजस्वे᳘ति ते वै᳘ मा ऽभिस᳘म्विशते᳘ति तथे᳘ति त᳘ᳫँ᳘ समन्त᳘म्परि᳘ण्यविशन्त[[!!]] त᳘स्माद्य᳘दनेना᳘न्नम᳘त्ति ते᳘नैता᳘स्तृप्यन्त्येव᳘ᳫँ᳘ ह वा᳘ ऽएनᳫँ᳭ स्वा᳘ ऽअभिस᳘म्विशन्ति भ᳘र्त्ता स्वा᳘नाᳫँ᳭ श्रे᳘ष्ठः पुर ऽएता᳘ भवत्यन्नादो᳘ ऽधिपतिर्य्य᳘ ऽएवम्वे᳘द॥
मूलम् - Weber
ते᳘ देवा᳘ अब्रुवन्॥
एता᳘वद्वा᳘ इदᳫं स᳘र्वं यद᳘न्नं त᳘दात्म᳘न आ᳘गासीर᳘नु नोऽस्मिन्न᳘न्न आ᳘भजस्वे᳘ति ते वै᳘ माभिस᳘म्विशते᳘ति तथे᳘ति त᳘ᳫं᳘ समन्त᳘म् परिण्य᳘विशन्त त᳘स्माद्य᳘दनेना᳘न्नम᳘त्ति ते᳘नैता᳘स्तृप्यन्त्येव᳘ᳫं᳘ ह वा᳘ एनᳫं स्वा᳘ अभिस᳘म्विशन्ति भ᳘र्ता स्वा᳘नां श्रे᳘ष्ठः पुरएता᳘ भवत्यन्नादो᳘ऽधिपतिर्य᳘ एवम् वे᳘द॥
मूलम् - विस्वरम्
ते देवा अब्रुवन् । एतावद्वा इदं सर्वम् । यदन्नम् । तदात्मन आगासीः । अनु नो ऽस्मिन्नन्न आभजस्वेति । ते वै मा ऽभिसंविशतेति । तथेति । तं समन्तं परिण्यविशन्त । तस्माद्यदनेनान्नमत्तितेनैतास्तृप्यन्ति । एवं ह वा एनं स्वा अभिसंविशन्ति । भर्ता स्वानां श्रेष्ठः पुरएता भवत्यन्नादो ऽधि । पतिः । य एवं वेद ॥ १९ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
नन्वेवं प्राणस्यैव स्वातंत्र्येणान्नकृतोपकारभाजित्वं वागादीनां तु तद्द्वारकं इति कथं निश्चेतुं शक्यते ? यन्निश्चयादनेनैवेत्येवकारस्य सार्थकत्वं स्यादिति अतस्तन्निर्णयार्थमाह- ते देवा इति । ‘ते’ वागादयः स्वविषयद्योतनाः ‘देवाः’ ‘अब्रुवन्’ उक्तवन्तः मुख्यं प्राणम् । ‘इदं सर्वं वै’ प्रसिद्धं ‘यदन्नं’ प्राणिस्थितिकरं तदेतावत् । नातो ऽधिकमस्ति । यत्पुनस्त्वं ‘आत्मने’ आत्मार्थं आगासीरागीतवानसि आगानेनात्मसात्कृतवानसीत्यर्थः । वयञ्चान्नमन्तरेण स्थातुं नोत्सहामहे । अतः ‘अनु’ पश्चात् नो ऽस्मान् ‘अन्ने’ आत्मार्थे तवान्ने ‘आभजस्व’ आभाजयस्व । णिचो लोपश्छान्दसः । अस्मांश्चान्नभागिनः कुरु इति तैरुक्तः प्राणः ‘ते’ यूयं यदि अन्नार्थिनो वै तर्हि ‘मा’ मां ‘अभिसंविशत’ अभिमुखेन समन्ततो निविशत इति अब्रवीदिति शेषः । एवमुक्तवति प्राणे ते देवास्तथा ऽस्त्वित्यङ्गीकृत्य ‘तं’ प्राणं ‘समन्तं’ समन्तात् परिवेष्ट्य ‘न्यविशन्त’ निश्चयेनाविशन्त । तं प्राणं परिवेष्ट्य निविष्टवन्तो यस्मात् तस्माल्लोको यदन्नमनेन प्राणेनात्ति भक्षयति तेनैव प्राणान्नेनैवैता वागादयो देवतास्तृप्यन्ति । न स्वातन्त्र्येण वागादीनामन्नसम्बन्धः । अतः अनेनैवेत्यवधारणं (कं. १८) सार्थकम् । एतद्गुणविज्ञानफलं दर्शयन्ती श्रुतिः सफलं गुणजातमुपदिशति- एवमिति । ‘यः’ उपासको वागादयः प्राणाश्रयाः स च प्राणो ऽहमेवेति वेदोपास्ते । तमेनमुपासकं ‘एवं ह वै’ यथा प्राणं वागादयः एवमेव खलु ‘स्वाः’ ज्ञातयो ऽभिसंविशन्ति आश्रयन्ति ज्ञातीनामाश्रयणीयो भवतीत्यभिप्रायः । तथैवमभिसन्निविष्टानां ज्ञातीनां प्राणवदेव वागादीनां स्वान्नेन ‘भर्ता’ ‘भवति’ । ‘श्रेष्ठः’ पूज्यः । ‘पुरएता’ अग्रतो गन्ता ‘अन्नादः’ व्याधिरहितः दीप्ताग्निः अधिपतिरधिष्ठाय पालयिता स्वतन्त्रः पतिर्भवतीति प्राणवदेव वागादीनामिति च प्रत्येकं बोध्यम् ॥ १९ ॥
२०
विश्वास-प्रस्तुतिः
य᳘ ऽउ हैवम्वि᳘दᳫँ᳭ स्वे᳘षु प्रति प्प्रतिर्ब्बुभूषति॥
न᳘ हैवा᳘लम्भा᳘र्य्येभ्यो भवत्य᳘थ य᳘ ऽए᳘वैतम᳘नु भ᳘वति यो᳘ वैतम᳘नु भा᳘र्य्यान्बु᳘भूर्षति स᳘ हैवा᳘लं भा᳘र्य्येभ्यो भवति᳘॥
मूलम् - श्रीधरादि
य᳘ ऽउ हैवम्वि᳘दᳫँ᳭ स्वे᳘षु प्रति प्प्रतिर्ब्बुभूषति॥
न᳘ हैवा᳘लम्भा᳘र्य्येभ्यो भवत्य᳘थ य᳘ ऽए᳘वैतम᳘नु भ᳘वति यो᳘ वैतम᳘नु भा᳘र्य्यान्बु᳘भूर्षति स᳘ हैवा᳘लं भा᳘र्य्येभ्यो भवति᳘॥
मूलम् - Weber
य᳘ उ हैवम्वि᳘दम्॥
स्वे᳘षु प्रतिप्रतिर्बु᳘भूषति 5 नॗ हैवा᳘लम् भाॗर्येभ्यो भवत्य᳘थ य᳘ एॗवैतम᳘नु भ᳘वति यो᳘ वैतम᳘नु भाॗर्यान्बु᳘भूर्षति स᳘ हैवा᳘लम् भाॗर्येभ्यो भवति॥
मूलम् - विस्वरम्
य उ हैवंविदं स्वेषु प्रति प्रतिर्बुभूषति । न हैवालं भार्येभ्यो भवति । अथ य एवैतमनु भवति । यो वै तमनु भार्यान् बुभूर्षति । स हैवालं भार्येभ्यो भवति ॥ २० ॥
श्रीमद्वासुदेवब्रह्मभगवान्
सम्प्रति प्राणविद्यां स्तोतुं तद्विद्याविद्विद्वेषिणो दोषमाह- य ऽउ हेति । ‘उ’ आश्चर्ये । ‘ह’ निश्चयेन ‘यः’ ‘एवंविदं’ प्राणविदं ‘प्रति’ ‘स्वेषु’ ज्ञातिषु मध्ये ‘प्रतिः’ प्रतिकूलः ‘बभूषति’ प्रतिस्पर्द्धीभवितुमिच्छति । ‘सः’ प्राणप्रतिस्पर्द्धिनो ऽसुरा इव ‘भार्येभ्यः’ भरणीयेभ्यः आत्मीयेभ्यः ‘न हैवालं’ समर्थो भवति, भरणीयान् भर्तुं नैव पर्याप्तो भवतीर्थः । अथ प्राणविदनुरक्तस्य लाभन्दर्शयति- अथेति । ‘अथ’ पुनर्य एव ज्ञातीनां मध्ये ‘एतं’ प्राणविदं वागादय इव प्राणमनुगतः अनुरक्तः ‘भवति’ ‘यो वा’ अपि एतमेवंविदमनु एवानुवर्तयन्नेव आत्मीयान् ‘भार्यान्’ ‘बुभूर्षति’ भर्तुमिच्छति । यथैव प्राणानुवृत्त्या वागादय आत्मबुभूर्षव आसन् । ‘सः एवं’ ‘ह’ निश्चयेन ‘भार्येभ्यः’ भर्तुमलं पर्याप्तो भवतीति समानमित्यर्थः ॥ २० ॥
२१
विश्वास-प्रस्तुतिः
सो ऽया᳘स्य ऽआङिरसः᳘॥
(सो᳘ ऽङ्गा) अङ्गानाᳫँ᳭ हि र᳘सः प्प्राणो वा ऽअ᳘ङ्गानाᳫँ᳭ र᳘सः प्प्राणो हि वा ऽअ᳘ङ्गानाᳫँ᳭ र᳘सस्त᳘स्माद्य᳘स्मात्क᳘स्माच्चा᳘ङ्गात्प्राण᳘ ऽउत्क्रा᳘मति त᳘देव त᳘च्छुष्यत्येष᳘ हि वा ऽअ᳘ङ्गानाᳫँ᳭ र᳘सः॥
मूलम् - श्रीधरादि
सो ऽया᳘स्य ऽआङिरसः᳘॥
(सो᳘ ऽङ्गा) अङ्गानाᳫँ᳭ हि र᳘सः प्प्राणो वा ऽअ᳘ङ्गानाᳫँ᳭ र᳘सः प्प्राणो हि वा ऽअ᳘ङ्गानाᳫँ᳭ र᳘सस्त᳘स्माद्य᳘स्मात्क᳘स्माच्चा᳘ङ्गात्प्राण᳘ ऽउत्क्रा᳘मति त᳘देव त᳘च्छुष्यत्येष᳘ हि वा ऽअ᳘ङ्गानाᳫँ᳭ र᳘सः॥
मूलम् - Weber
सोऽया᳘स्य आङिरसो᳟॥
अङ्गानाᳫं हि र᳘सः प्राणो वा अ᳘ङ्गानां र᳘सः प्राणो हि वा अ᳘ङ्गानां र᳘सस्त᳘स्माद्य᳘स्मात्क᳘स्माच्चा᳘ङ्गात्प्राण᳘ उत्क्रा᳘मति त᳘देव त᳘छुष्यत्येष हि वा अ᳘ङ्गानां र᳘सः॥
मूलम् - विस्वरम्
सो ऽयास्य आङ्गिरसः । अङ्गानां हि रसः । प्राणो वा अङ्गानां रसः । प्राणो हि वा अङ्गानां रसः । तस्माद्यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति । तदेव तच्छुष्यति । एष हि वा अङ्गानां रसः ॥ २१ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
पूर्वोक्तायास्यत्वेन प्रतिज्ञातं यदाङ्गिरसत्वं तदेव “सो ऽयास्य आङ्गिरसो ऽङ्गानां हि रसः” इत्यनेनानूद्य ‘प्राणो वै’ प्रसिद्धः ‘अङ्गानां रसः’ इति प्रतिज्ञायते । तत्कथमिति हेत्वपेक्षायां प्राणो हीत्यादि वाक्यम् । अत्रैवमन्वयः । ‘यस्मात्कस्माच्चाङ्गात्’ यतः कुतश्चित् अनिर्द्धारिताच्छरीरावयवात् ‘प्राण उत्क्रामति’ अपसर्पति । ‘तदेव’ तत्रैव तदङ्गं ‘शुष्यति’ शोषमुपैति नीरसं भवति । नान्यत् । इत्यन्वयव्यतिरेकाभ्यां ‘हि’ यस्मात् प्राणो वै एव अङ्गानां रसः प्रसिद्धः । तस्मात् ‘एष वै’ प्राणो ऽङ्गानां कार्यं स्थूलशरीरं प्रत्यक्षतो रूप्यमाणं रूपात्मकं कारणञ्च ज्ञानक्रियाशक्तिमत् कर्म्मभूतम् । तयोरात्मा प्राणः इति समुदायार्थः ॥ २१ ॥
२२
विश्वास-प्रस्तुतिः
(स ऽए) एष᳘ ऽउ ऽएव ब्बृ᳘हस्प᳘तिः॥
(र्व्वा) व्वाग्वै᳘ ब्बृ᳘हती त᳘स्या ऽएष पतिस्त᳘स्मादु[[!!]] ब्बृ᳘हस्प᳘तिः॥
मूलम् - श्रीधरादि
(स ऽए) एष᳘ ऽउ ऽएव ब्बृ᳘हस्प᳘तिः॥
(र्व्वा) व्वाग्वै᳘ ब्बृ᳘हती त᳘स्या ऽएष पतिस्त᳘स्मादु[[!!]] ब्बृ᳘हस्प᳘तिः॥
मूलम् - Weber
एष᳘ उ एव बृ᳘हस्प᳘तिः॥
वाग्वै᳘ बृहती त᳘स्या एष प᳘तिस्त᳘स्मादु बृ᳘हस्प᳘तिः॥
मूलम् - विस्वरम्
एष उ एव बृहस्पतिः । वाग्वै बृहती । तस्या एष पतिः । तस्मादु बृहस्पतिः ॥ २२ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
अथ बृहस्पत्यादिनामराशिधर्मकं प्राणोपासनं वक्तुं “एष उ एव” इत्यादि कण्डिकाचतुष्टयम् २२-२५ । तत्र न केवलं रूपकर्मभूतयोः कार्यकारणयोरेवात्मा प्राणः । किं तर्हि ? नामभूतानामृग्यजुःसाम्नामात्मेति सर्वात्मकतया प्राणं स्तुवंस्तत्र तावत् ऋगात्मत्वं प्राणस्य तत्त्वेनोपास्यत्वायाह- एष ऽउ एव इति । उरप्यर्थः । ‘एषः’ प्रकृत आङ्गिरसः । “बृहस्पतिर्द्देवानां पुरोहित आसीत्” (तै. सं. ६ । ४ । १०) इति श्रुतिप्रसिद्धं देवपुरोहितत्वं व्यावर्तयितुमाह- वाग्वै बृहतीति । सप्त हि गायत्र्यादीनि प्रधानानि छन्दांसि । तेषां मध्यमं छन्दो बृहतीत्युच्यते । सा च बृहती षट्त्रिंशदक्षरा प्रसिद्धा । “वाग्वा ऽअनुष्टुप्”- (श. प. ७ । १ । २ । १८)- इति चयनप्रकरणे उक्तत्वात् अनुष्टुभो ऽपि वाक्त्वं प्रसिद्धम् । सा द्वात्रिंशदक्षरा अष्टाक्षरैश्चतुर्भिः पादैः (८-४) षट्त्रिंशदक्षरायां बृहत्यामन्तर्भवति । अवान्तरसङ्ख्यायाः महासङ्ख्यायामन्तर्भावात् । इत्येवं वागनुष्टुब्बृहत्योश्चैक्येन वागात्मिका बृहती । “स ऋचो व्यौहद्द्वादश बृहतीसहस्राण्येतात्यो हर्च्चो याः प्रजापतिसृष्टाः”- (श. प. १० ।४ । २ । २३) इति श्रुतबृहत्यां सर्वा ऋचो ऽन्तर्भवन्ति । ‘तस्याः’ बृहत्या वाग्रूपायाः ‘एषः’ प्राणः ‘पतिः’ स्थित्युत्पादन उपात् । तमादु बृहस्पा परित्युपहार ॥ २२ ॥
२३
विश्वास-प्रस्तुतिः
(तिरे) एष᳘ ऽउ ऽएव ब्ब्र᳘ह्मणस्प᳘तिः॥
(तिर्व्वा) व्वाग्वै ब्ब्र᳘ह्म त᳘स्या ऽएष प᳘तिस्त᳘स्मादु ब्ब्र᳘ह्मणस्प᳘तिः॥
मूलम् - श्रीधरादि
(तिरे) एष᳘ ऽउ ऽएव ब्ब्र᳘ह्मणस्प᳘तिः॥
(तिर्व्वा) व्वाग्वै ब्ब्र᳘ह्म त᳘स्या ऽएष प᳘तिस्त᳘स्मादु ब्ब्र᳘ह्मणस्प᳘तिः॥
मूलम् - Weber
एष᳘ उ एव ब्र᳘ह्मणस्प᳘तिः॥
वाग्वै ब्र᳘ह्म त᳘स्या एष प᳘तिस्त᳘स्मादु ह ब्र᳘ह्मणस्प᳘तिः॥
मूलम् - विस्वरम्
एष उ एव ब्रह्मणस्पतिः । वाग्वै ब्रह्म । तस्या एष पतिः । तस्मादु ब्रह्मणस्पतिः ॥ २३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तथा यजुर्वेदात्मकत्वमाह- एष उ एवेति । ‘ब्रह्मणः’ यजुर्वेदस्य ‘पतिः’ । कथं ‘व्वाग्वै वाग्विशेषरूपं यजुरेव ‘ब्रह्म’ वेदः । वेदाधिकारात्- तस्या एष पतिरित्यादि समानम् ॥ २३ ॥
२४
विश्वास-प्रस्तुतिः
(तिरे) एष᳘ ऽउ ऽएव सा᳘म॥
व्वाग्वै सा᳘ ऽमैष᳘ सा चा᳘मश्चे᳘ति तत्सा᳘म्नः सामत्वं य᳘द्वेव᳘ समः प्लु᳘षिणा समो᳘ मश᳘केन समो᳘ नागे᳘न सम᳘ ऽएभि᳘स्त्रिभि᳘र्ल्लोकैः᳘ स᳘मो ऽने᳘न स᳘र्व्वेण त᳘स्माद्वेव सा᳘मा ऽश्नुते सा᳘म्नः सा᳘युज्यᳫँ᳭ सलोक᳘तां य᳘ ऽएव᳘मेतत्सा᳘म व्वे᳘द॥
मूलम् - श्रीधरादि
(तिरे) एष᳘ ऽउ ऽएव सा᳘म॥
व्वाग्वै सा᳘ ऽमैष᳘ सा चा᳘मश्चे᳘ति तत्सा᳘म्नः सामत्वं य᳘द्वेव᳘ समः प्लु᳘षिणा समो᳘ मश᳘केन समो᳘ नागे᳘न सम᳘ ऽएभि᳘स्त्रिभि᳘र्ल्लोकैः᳘ स᳘मो ऽने᳘न स᳘र्व्वेण त᳘स्माद्वेव सा᳘मा ऽश्नुते सा᳘म्नः सा᳘युज्यᳫँ᳭ सलोक᳘तां य᳘ ऽएव᳘मेतत्सा᳘म व्वे᳘द॥
मूलम् - Weber
एष᳘ उ एव सा᳘म॥
वाग्वै सा᳘मैष सा चा᳘मश्चे᳘ति तत्सा᳘म्नः सामत्वं य᳘द्वेव᳘ समः प्लु᳘षिणा समो᳘ मश᳘केन समो᳘ नागे᳘न सम᳘ एभि᳘स्त्रिभि᳘र्लोकैः᳘ सॗमोऽने᳘न स᳘र्वेण त᳘स्माद्वेव सामाश्नुते सा᳘म्नः सा᳘युज्यᳫं सलोक᳘तां य᳘ एव᳘मेतत्सा᳘म वे᳘द॥
मूलम् - विस्वरम्
एष उ एव साम । वाग्वै सा । अमैषः । सा चामश्चेति तत्साम्नः सामत्वम् । यत् उ एव समः प्लुषिणा । समो मशकेन । समो नागेन । सम एभिस्त्रिभिर्लोकैः । समो ऽनेन सर्वेण । तस्मात् उ एव साम । अश्नुते साम्नः सायुज्यं सलोकताम् । य एवमेतत्साम वेद ॥ २४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
अथास्य सामवेदात्मकत्वमाह- एष उ एव सामेति । कथं ‘वाग्वै’ ‘सा’ सर्वस्त्रीलिङ्गशब्दाभिधेयवस्तुविषयो हि सर्वनामसाशब्दः । ‘सा वै वाक्’ सर्वपुंल्लिङ्गशब्दाभिधेयवस्तुविषयो ऽमशब्दः । ‘अम एषः’ प्राणः । “केन मे पौंस्नानि नामान्याप्नोषीति प्राणेनेति ब्रूयात्केन मे स्त्रीनामानीति वाचा” () इति श्रुत्यन्तरात् वाक्प्राणाभिधानभूतौ सामशब्दौ । तथा सति प्राणनिर्वर्त्यस्वरपदवाक्यादिसमुदायमात्रं गीतिः सामशब्देनाभिधीयते । ननु- एतावता कस्य सामत्व मुख्यमित्यत आह- सा चामश्चेति । एतद्व्युत्पत्तेर्वागुपसर्जनः प्राण एव मुख्यसामशब्दवाच्यः, एकवचननिर्द्देशादिति भावः । यस्माद्वागुपसर्जनस्य प्राणस्य सामत्वं मुख्यं तत्तस्मादध्येतृप्रसिद्धस्यापि साम्नो मुख्यसामशब्दवाच्यप्राणनिर्वर्त्यत्वेन गौणमेव सामत्वम् । अस्यैव प्राणस्य प्रकारान्तरेण सामत्वमुपासनार्थमाह- यद्वेवेति । यत् उ एषेति च्छेदः । उशब्दो विकल्पार्थः प्रकारान्तरद्योतकः । यद्यस्मात् वा अयं प्राणः सूत्रात्मा लिङ्गात्मना ‘प्लुषिणा’ पुत्तिकाशरीरेण समस्तुल्यः । ‘मशकेन’ मशकशरीरेण ‘समः’ । ‘नागेन’ हस्तिशरीरेण ‘समः’ । ‘एभिस्त्रिभिर्लोकैः’ त्रैलोक्यात्मकप्राजापत्यशरीरेण ‘समः’ । ‘अनेन सर्वेण’ हिरण्यगर्भजगद्रूपेण समस्तुल्य एव । पुत्तिकादिशरीरेषु गोत्वादिवत् कार्त्स्न्येन परिसमाप्तः । तस्मादेव साम । एवं प्राणस्य सामत्वं सिद्धमित्यर्थः। एतद्गुणकप्राणोपासनफलमाह- अश्नुत इति । ‘य एवं’ यथोक्तं एतत्सामगुणकं प्राणं वेदोपास्ते । सः ‘साम्नः’ प्राणस्य ‘सायुज्यं’ सयुग्भावं समानदेहेन्द्रियाभिमानितामश्नुते व्याप्नोति । ‘सलोकतां’ प्राणसमानलोकतां वा ‘अश्नुते’ । भावनाविशेषतः फलविशेष इति भावः ॥ २४ ॥
२५
विश्वास-प्रस्तुतिः
(दैष᳘) एष᳘ ऽउ वा᳘ ऽउद्गीथः᳘॥
प्प्राणो वा ऽउ᳘त्प्राणे᳘न᳘ हीदᳫँ᳭ स᳘र्व्वमुत्तब्धम्वा᳘गेव[[!!]] गीथो᳘च्च गी᳘था चे᳘ति स᳘ ऽउद्गीथः᳘॥
मूलम् - श्रीधरादि
(दैष᳘) एष᳘ ऽउ वा᳘ ऽउद्गीथः᳘॥
प्प्राणो वा ऽउ᳘त्प्राणे᳘न᳘ हीदᳫँ᳭ स᳘र्व्वमुत्तब्धम्वा᳘गेव[[!!]] गीथो᳘च्च गी᳘था चे᳘ति स᳘ ऽउद्गीथः᳘॥
मूलम् - Weber
एष᳘ उ वा᳘ उद्गीथः᳟॥
प्राणो वा उ᳘त्प्राणे᳘नॗ हीदᳫं स᳘र्वमु᳘त्तब्धम् वा᳘गेव गीथो᳘च्च गी᳘था चे᳘ति स᳘ उद्गीथः॥
मूलम् - विस्वरम्
एष उ वा उद्गीथः । प्राणो वा उत् । प्राणेन हीदं सर्वमुत्तब्धम् । वागेव गीथा । उच्च गीथा चेति । स उद्गीथः ॥ २५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
इदं च फलं मध्यप्रदीपन्यायेन उभयतः सम्बद्धमवधेयमिति इमामेव फलश्रुतिमनुसृत्य गुणान्तरमाह- एष उ वा उद्गीथ इति । ‘एषः’ प्राणः ‘वै’ ‘उद्गीथः’ । उद्गीथो नाम सामावयवो भक्तिविशेषः नोद्गानम्, सामाधिकारात् । कथमुद्गीथः प्राणः ? ‘हि’ यस्मात् ‘प्राणेनेदं सर्वं’ जगत् ‘उत्तब्धं’ उदूर्ध्वं स्तब्ध मुत्तम्भितं विधृतमिति यावत् । तस्मात्प्राणो वा उत् । तथा ‘वागेव गीथा’ अभिव्यक्तिरूपा गायतेः शब्दार्थत्वात् सा वागेव गीथा । उद्गीथाशब्दाभ्यां प्राण एव वाच्य इत्याह- उच्च गीथा चेति । एतद्विग्रहात् स वागुपसर्जनः प्राण एव उद्गीथ इत्यर्थः ॥ २५ ॥
२६
विश्वास-प्रस्तुतिः
(थ᳘स्त) तद्धा᳘पि ब्रह्मदत्त᳘श्चैकितानेयः॥
(यो) रा᳘जानम्भक्ष᳘यन्नुवाचायन्त्य᳘स्य रा᳘जा मूर्द्धा᳘नम्वि᳘पातयताद्य᳘दि᳘तो ऽया᳘स्य ऽआङ्गिर᳘सो ऽन्ये᳘नोद᳘गायदि᳘ति व्वाचा᳘ च᳘ ह्येव स᳘ प्प्राणे᳘न चोद᳘गायदि᳘ति[[!!]]॥
मूलम् - श्रीधरादि
(थ᳘स्त) तद्धा᳘पि ब्रह्मदत्त᳘श्चैकितानेयः॥
(यो) रा᳘जानम्भक्ष᳘यन्नुवाचायन्त्य᳘स्य रा᳘जा मूर्द्धा᳘नम्वि᳘पातयताद्य᳘दि᳘तो ऽया᳘स्य ऽआङ्गिर᳘सो ऽन्ये᳘नोद᳘गायदि᳘ति व्वाचा᳘ च᳘ ह्येव स᳘ प्प्राणे᳘न चोद᳘गायदि᳘ति[[!!]]॥
मूलम् - Weber
तद्धा᳘पि ब्रह्मदत्त᳘श्चैकितानेयो॥
रा᳘जानम् भक्ष᳘यन्नुवाचायं त्य᳘स्य रा᳘जा मूर्धा᳘नम् वि᳘पातयताद्य᳘दिॗतोऽया᳘स्य आङ्गिरॗसोऽन्ये᳘नोद᳘गायदि᳘ति वाचा᳘ चॗ ह्येव स᳘ प्राणे᳘न चो᳘दगायदि᳘ति॥
मूलम् - विस्वरम्
तद्धापि ब्रह्मदत्तश्चैकितानेयो राजानं भक्षयन्नुवाच । अयं त्यस्य राजा मूर्द्धानं विपातयतात् यदितो ऽयास्य आङ्गिरसो ऽन्येनोदगायदिति । वाचा च ह्येव स प्राणेन चोदगायदिति ॥ २६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
अथ “तद्धापि” इत्यादिवाक्यस्य प्रकृतानुपयोगमाशङ्क्य उद्गीथदेवता प्राण एव न वागादिः इत्युक्तार्थदार्ढ्याय आख्यायिकामाह- तद्धापीति । तत्तत्र एतस्मिन्नुक्ते ऽर्थे ‘ह’ आख्यायिका ऽपि श्रूयते ह स्म । चिकितानस्यापत्यं चैकितानिः तस्यापत्यं युवा ‘चैकितानेयः’ ब्रह्मदत्तनामा विश्वसृजां पूर्वर्षीणां सत्रे ‘राजानं’ सोमं भक्षयन्नुवाचोक्तवान् । किं ? अत्रायास्याङ्गिरसशब्देनोद्गातोच्यते । एतादृक्प्राणोपासकत्वात्तस्य । ‘यत्’ यदि सः ‘अथास्य आङ्गिरसः’ उद्गाता विश्वसृजां पूर्वर्षीणां सत्रे इतो ऽस्मात्पूर्वोक्तात् वागुपसर्जनात्प्राणात् ‘अन्येन’ देवतान्तरेणोदगायत् उद्गानं कृतवान् ‘इति’ यदि स्यात्तदा ‘त्यस्य’ तस्यानृतवादी स्यामित्यर्थः । तस्यानृतवादिनो मम ‘मूर्द्धानं’ शिरः ‘अयं’ भक्ष्यमाणः सोमः ‘राजा’ ‘विपातयतात्’ विस्पष्टं पातयतु । ‘विपातयतादिति’ आशिषि तोः स्थाने तातङ्ङादेशः । एवमुद्गीथदेवता प्राण एव इत्याख्यायिकया निर्द्धारितमर्थं श्रुतिः स्वेन वचसोपसंहरति- वाचेति । सो ऽयास्य आङ्गिरस उद्गाता ‘वाचा च’ प्राणप्रधानया ‘प्राणेन च’ स्वस्यात्मभूतेनोदगायदित्येषो ऽर्थः शपथेन निर्द्धारित इत्यर्थः ॥ २६ ॥
२७
विश्वास-प्रस्तुतिः
त᳘स्य हैत᳘स्य सा᳘म्नो यः᳘ स्वम्वे᳘द भ᳘वति॥
हास्य स्वन्त᳘स्य वै स्व᳘र ऽएव स्वन्त᳘स्मादा᳘र्त्विज्यङ्करिष्य᳘न्वाचि स्व᳘रमिच्छेत[[!!]] त᳘या व्वाचा स्व᳘रसम्पन्नया᳘ ऽऽर्त्विज्यङ्कुर्य्यात्त᳘स्माद्यज्ञे स्व᳘रवन्तन्दि᳘दृक्षन्त ऽएवा᳘थो य᳘स्य स्वम्भ᳘वति भवति[[!!]] हास्य स्वं य᳘ ऽएव᳘मेतत्सा᳘म्नः स्वम्वे᳘द॥
मूलम् - श्रीधरादि
त᳘स्य हैत᳘स्य सा᳘म्नो यः᳘ स्वम्वे᳘द भ᳘वति॥
हास्य स्वन्त᳘स्य वै स्व᳘र ऽएव स्वन्त᳘स्मादा᳘र्त्विज्यङ्करिष्य᳘न्वाचि स्व᳘रमिच्छेत[[!!]] त᳘या व्वाचा स्व᳘रसम्पन्नया᳘ ऽऽर्त्विज्यङ्कुर्य्यात्त᳘स्माद्यज्ञे स्व᳘रवन्तन्दि᳘दृक्षन्त ऽएवा᳘थो य᳘स्य स्वम्भ᳘वति भवति[[!!]] हास्य स्वं य᳘ ऽएव᳘मेतत्सा᳘म्नः स्वम्वे᳘द॥
मूलम् - Weber
त᳘स्य हैत᳘स्य सा᳘म्नो यः स्वम् वे᳘द॥
भ᳘वति हास्य स्वं त᳘स्य वै स्व᳘र एव स्वं त᳘स्मादा᳘र्त्विज्यं करिष्य᳘न्वाचि स्व᳘र᳘मिछेत त᳘या वाचा स्व᳘रसम्पन्नया᳘र्त्विज्यं कुर्यात्त᳘स्माद्यज्ञे स्व᳘रवन्तं दि᳘दृक्षन्त एवा᳘थो य᳘स्य स्वम् भ᳘वति भ᳘वति हास्य स्वम् य᳘ एव᳘मेतत्सा᳘मनः स्वम् वे᳘द॥
मूलम् - विस्वरम्
तस्य हैतस्य साम्नो यः स्वं वेद । भवति हास्य स्वम् । तस्य वै स्वर एव स्वम् । तस्मादार्त्विज्यं करिष्यन् वाचि स्वरमिच्छेत । तया वाचा स्वरसम्पन्नया आर्त्विज्यं कुर्यात् । तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त एव । अथो यस्य स्वं भवति । भवति हास्य स्वम् । य एवमेतत्साम्नः स्वं वेद ॥ २७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवमुद्गीथदेवता प्राण एवेति निर्द्धार्य तस्य स्वसुवर्णप्रतिष्ठागुणविधानार्थमुत्तरकण्डिकात्रयम् (२७-२९) अवतारयति-तस्येत्यादिना । ‘तस्य’ विशुद्ध्यादिगुणवत्तया प्रकृतस्य ‘ह एतस्य’ बृहस्पत्यादिगुणवत्तया निरूपितस्य ‘साम्नः’ सामशब्दवाच्यस्य प्राणस्य ‘स्वं’ धनं ‘यः वेद’ ‘अस्य’ विज्ञातुः ‘ह’ ‘स्वं’ धनं ‘भवति’ । एवं फलेन प्रलोभ्याभिमुखीकृतं शुश्रूषुं प्रत्याह- तस्य वै इति । ‘वै’ साम्नः ‘स्वर एव’ कण्ठगतमाधुर्यमेव ‘स्वं’ विभूषणम् । तेन हि भूषितमुद्गानमृद्धिमल्लक्ष्यते । यस्मादेवं तस्मादार्त्विज्यमृत्विक्कर्म्मोद्गानं ‘करिष्यन्’ वाचि विषये ‘स्वरमिच्छेत’ । इच्छामात्रेण सौस्वर्यासम्भवात् तद्धेतुदन्तधावनतैलपानादि कुर्यादित्यर्थादवगम्यते । एतत्तु प्रासङ्गिकं फलम् । ‘तया’ एवं संस्कृतया ‘स्वरसम्पन्नया वाचा’ आर्त्विज्यमृत्विक्कर्म्म कुर्यात् । सौस्वर्यस्य सामभूषणत्वे गमकमाह- तस्मादिति । यस्मात् स्वभूतेन स्वरेण भूषितं साम ‘तस्माद्यज्ञे’ स्वरवन्तमुद्गातारं ‘दिदृक्षन्त एव’ द्रष्टुमिच्छन्त एव धनिनमिव जनाः । प्रसिद्धं हि लोके ‘अथो’ अपि ‘यस्य स्वं’ धनं ‘भवति’ तं धनिनं दिदृक्षन्ते लौकिका इति । एवं गुणविज्ञानफलसम्बन्धमुपसंहरति- भवति हास्य स्वमिति । ‘य एवमेतत्साम्नः स्वं वेद’ इत्युक्तार्थमेव । एतच्च कण्ठनिष्ठमाधुर्यं बाह्यं धनं सौस्वर्यस्य ध्वनिगतत्वादित्यर्थः ॥ २७ ॥
२८
विश्वास-प्रस्तुतिः
त᳘स्य हैत᳘स्य सा᳘म्नो यः᳘ सुव᳘र्ण्णम्वे᳘द॥
भ᳘वति हास्य सुव᳘र्ण्णन्त᳘स्य वै स्व᳘र ऽएव᳘ सुव᳘र्ण्णम्भव᳘ति हास्य सुव᳘र्ण्णं य᳘ ऽएव᳘मेतत्सा᳘म्नः सुव᳘र्ण्णम्वे᳘द॥
मूलम् - श्रीधरादि
त᳘स्य हैत᳘स्य सा᳘म्नो यः᳘ सुव᳘र्ण्णम्वे᳘द॥
भ᳘वति हास्य सुव᳘र्ण्णन्त᳘स्य वै स्व᳘र ऽएव᳘ सुव᳘र्ण्णम्भव᳘ति हास्य सुव᳘र्ण्णं य᳘ ऽएव᳘मेतत्सा᳘म्नः सुव᳘र्ण्णम्वे᳘द॥
मूलम् - Weber
त᳘स्य हैत᳘स्य सा᳘म्नो यः᳘ सुव᳘र्णम् वे᳘द॥
भ᳘वति हास्य सुव᳘र्णं त᳘स्य वै स्व᳘र एव᳘ सुव᳘र्णम् भव᳘ति हास्य सुव᳘र्णं य᳘ एव᳘मेतत्सा᳘म्नः सुव᳘र्णम् वे᳘द॥
मूलम् - विस्वरम्
तस्य हैतस्य साम्नो यः सुवर्णं वेद । भवति हास्य सुवर्णम् । तस्य वै स्वर एव सुवर्णम् । भवति हास्य सुवर्णम् । य एवमेतत्साम्नः सुवर्णं वेद ॥ २८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
इदानीं लाक्षणिकवर्णज्ञानपूर्वकं वर्णोच्चारणं वर्णनिष्ठत्वादान्तरं धनमित्याह- तस्येति । ‘तस्य ह एतस्य साम्नः सुवर्णं’- कण्ठ्यो ऽयं दन्त्यो ऽयं इति लक्षणज्ञानपूर्वकं सुष्ठुवर्णोच्चारणं सामशब्दवाच्यस्य प्राणस्य आन्तरं धनमिति ‘यो वेद’ अस्योपासकस्य ‘सुवर्णं’ लोकप्रसिद्धमेव हिरण्यं ‘भवति’ । किं तत्सुवर्णमिति शुश्रूषवे प्राह- तस्येति । ‘तस्य’ साम्नः ‘स्वर एव’ कण्ठ्यादिलक्षणव्याख्यातः ‘सुवर्णं’ । ‘भवति हास्य सुवर्णं य एवमेतत्साम्नः सुवर्णं वेद’ इति पूर्ववदुपसंहारः ॥ २८ ॥
२९
विश्वास-प्रस्तुतिः
त᳘स्य हैत᳘स्य सा᳘म्नो यः᳘ प्रतिष्ठाम्वे᳘द॥
प्र᳘ति ह तिष्ठति त᳘स्य वै व्वा᳘गेव᳘ प्रतिष्ठा᳘ व्वाचि हि ख᳘ल्वेष᳘ ऽएत᳘त्प्राणः प्प्र᳘तिष्ठितो गीयते᳘ ऽन्न ऽइ᳘त्यु है᳘क ऽआहुः॥
मूलम् - श्रीधरादि
त᳘स्य हैत᳘स्य सा᳘म्नो यः᳘ प्रतिष्ठाम्वे᳘द॥
प्र᳘ति ह तिष्ठति त᳘स्य वै व्वा᳘गेव᳘ प्रतिष्ठा᳘ व्वाचि हि ख᳘ल्वेष᳘ ऽएत᳘त्प्राणः प्प्र᳘तिष्ठितो गीयते᳘ ऽन्न ऽइ᳘त्यु है᳘क ऽआहुः॥
मूलम् - Weber
त᳘स्य हैत᳘स्य॥
सा᳘म्नो यः᳘ प्रतिष्ठाम् वे᳘द प्र᳘ति ह तिष्ठति त᳘स्य वै वा᳘गेव᳘ प्रतिष्ठा᳘ वाचि हि ख᳘ल्वेष᳘ एत᳘त्प्राणः प्र᳘तिष्ठितो गीयते᳘ऽन्न इ᳘त्यु है᳘क आहुः॥
मूलम् - विस्वरम्
तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद । प्रति ह तिष्ठति । तस्य वै वागेव प्रतिष्ठा । वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयते । अन्ने इत्यु हैक आहुः ॥ २९ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
प्रतितिष्ठति अस्यामिति ‘प्रतिष्ठा’ वाक् तां प्रतिष्ठां साम्नो गुणं ‘यो वेद’ ‘स प्रतितिष्ठति ह’ । पूर्ववत्फलेन प्रलोभिताय का प्रतिष्ठा इति शुश्रूषवे आह- तस्य वै इति । ‘तस्य वै’ साम्नो ‘वागेव’ जिह्वामूलादीन्यष्टौ स्थानानि ‘प्रतिष्ठा’ वागिति जिह्वामूलादीनां स्थानानामाख्या । सैव प्रतिष्ठा । ‘हि’ यस्मादेष ‘प्राणः’ ‘वाचि’ जिह्वामूलोरःशिरःकण्ठदन्तोष्ठनासिकातालुषु स्थानेषु ‘प्रतिष्ठितः’ सन् ‘खलु’ निश्चितं एतद्गानं ‘गीयते’ गीतिभावमापद्यते । तस्मात् साम्नो वागेत प्रतिष्ठेति सम्बन्धः । मतान्तरमाह । अन्न इति । ‘अन्ने’ अन्नपरिणामे देहे प्रतिष्ठितो गीयते ‘इत्येके’ अन्ये ‘उ ह’ खलु ‘आहुः’ । इत्येकीयपक्षस्यानिंदितत्वाद्विकल्पेन प्रतिष्ठागुणविज्ञानं कुर्यात् । वाग् वा प्रतिष्ठा अन्नं वेति ॥ २९ ॥
३०
विश्वास-प्रस्तुतिः
(र) अथा᳘तः प᳘वमानानामे᳘वाभ्यारोहः॥
स वै ख᳘लु प्रस्तोता सा᳘म प्प्र᳘स्तौति स य᳘त्र प्प्रस्तुयात्त᳘देता᳘नि जपेद᳘सतो मा स᳘द्गमय त᳘मसो मा ज्यो᳘तिर्ग्गमय मृत्यो᳘र्मा ऽमृ᳘तङ्गमये᳘ति॥
मूलम् - श्रीधरादि
(र) अथा᳘तः प᳘वमानानामे᳘वाभ्यारोहः॥
स वै ख᳘लु प्रस्तोता सा᳘म प्प्र᳘स्तौति स य᳘त्र प्प्रस्तुयात्त᳘देता᳘नि जपेद᳘सतो मा स᳘द्गमय त᳘मसो मा ज्यो᳘तिर्ग्गमय मृत्यो᳘र्मा ऽमृ᳘तङ्गमये᳘ति॥
मूलम् - Weber
अथा᳘तः प᳘वमानानामेॗवाभ्यारोहः॥
स वै ख᳘लु प्रस्तोता सा᳘म प्र᳘स्तौति स य᳘त्र प्रस्त्युआत्त᳘देता᳘नि जपेद᳘सतो मा स᳘द्गमय त᳘मसो मा ज्यो᳘तिर्गमय मृत्यो᳘र्मामृ᳘तं गमये᳘ति॥
मूलम् - विस्वरम्
अथातः पवमानानामेवाभ्यारोहः । स वै खलु प्रस्तोता साम प्रस्तौति । स यत्र प्रस्तुयात् । तदेतानि जपेत्- **“असतो मा सद्गमय (१) तमसो मा ज्योतिर्गमय (२) मृत्योर्मा ऽमृतं गमय (३)” ** इति ॥ ३० ॥
श्रीमद्वासुदेवब्रह्मभगवान्
इदानीमेवं प्राणविज्ञानवतो मन्त्रजपविधित्सया आह- अथात इति । ‘अथ’ प्राणविज्ञानकथनानन्तरम् । यस्माच्च एवं विदुषा प्रयुज्यमानं जपकर्म्म देवभावाभ्यारोहफलम् अतस्तस्मात्तद्विधीयते- तस्य चोद्गीयसम्बन्धात् सर्वत्रोद्गानकाले प्राप्तौ “पवमानानामेवाभ्यारोहः” इति वचनात् पवमानेषु त्रिष्वपि कर्तव्यतायां प्राप्तायां पुनः कालसङ्कोचं करोति । स वै खलु प्रस्तोता साम प्रस्तौतीति । वै एतत्प्रसिद्धम् । ततः । किं सिद्धमित्यत आह- सः इति । ‘सः’ प्रस्तोता ‘यत्र’ यस्मिन् काले साम ‘प्रस्तुयात्’ प्रारभेत । तत्तस्मिन् काले ‘एतानि जपेत्’ । अस्य च जपकर्मणो ऽभ्यारोह इत्याख्या । आभिमुख्येनारोहत्यनेन जपकर्मणा एवंवित् देवभावं इत्यभ्यारोहः । एतानीति बहुवचनात् त्रीणि यजूंषि द्वितीयानिर्द्देशात् ब्राह्मणोत्पन्नत्वाच्च यथापठित एव स्वरः प्रयोक्तव्यः । न मांत्रः । एतच्च जपकर्म याजमानम् । एतानि कानीत्यपेक्षायामाह- “असतो मा सद्गमय, तमसो मा ज्योतिर्गमय, मृत्योर्मा ऽमृतङ्गमय” इति । गमयेति शब्दो मन्त्रत्रयसमाप्तिद्योतकः ॥ ३० ॥
३१
विश्वास-प्रस्तुतिः
स यदाहास᳘तो मा स᳘द्गमये᳘ति॥
मृत्युर्व्वा ऽअ᳘सत्स᳘दमृ᳘तं मृत्यो᳘र्मा ऽमृ᳘तङ्गमयामृ᳘तम्मा कुर्व्वि᳘त्ये᳘वैत᳘दाह॥
मूलम् - श्रीधरादि
स यदाहास᳘तो मा स᳘द्गमये᳘ति॥
मृत्युर्व्वा ऽअ᳘सत्स᳘दमृ᳘तं मृत्यो᳘र्मा ऽमृ᳘तङ्गमयामृ᳘तम्मा कुर्व्वि᳘त्ये᳘वैत᳘दाह॥
मूलम् - Weber
स यदाहास᳘तो मा स᳘द्गमये᳘ति॥
मृत्युर्वा अ᳘सत्स᳘दमृ᳘तम् मृत्यो᳘र्मामृ᳘तं गमयामृ᳘तम् मा कुर्वि᳘त्येॗवैत᳘दाह॥
मूलम् - विस्वरम्
स यदा ऽह- असतो मा सद्गमयेति । मृत्युर्वा असत् । सदमृतम् । मृत्योर्मा अमृतं गमय । अमृतं मा कुरु । इत्येवैतदाह ॥ ३१ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
मन्त्रार्थस्य तिरोहितत्वात् ब्राह्मणप्रतीकग्रहणपूर्वकं श्रुतिः स्वयमेव व्याचष्टे- स यदिति । ‘सः’ मन्त्रः “असतो मा सद्गमय” इति ‘यदाह’ यदुक्तवान् । को ऽसावर्थ इत्युच्यते- मृत्युर्वा असदिति । स्वाभाविककर्मविज्ञानं मृत्युरित्युच्यते । अत्यन्ताधोभावहेतुत्वात् असच्छब्दवाच्यता । ‘सदमृतं’ सच्छास्त्रीयकर्मविज्ञानमुच्यते । अमरणधर्महेतुत्वादमृतम् । पदार्थमुक्त्वा वाक्यार्थमाह- मृत्योरिति । ‘मृत्योः’ स्वाभाविककर्मज्ञानात्मकात् ‘मा’ मां ‘अमृतं’ शास्त्रीयकर्म्मविज्ञानं ‘गमय’ देवभावसाधनात्मभावमापादयेत्यर्थः । अथ तात्पर्यार्थमाह- अमृतमिति । ‘मा’ माममृतं अमृतत्वसाधनयोग्यस्वभावं ‘कुरु’ संपादय- इत्येवैतन्मन्त्रवाक्यमाह ॥ ३१ ॥
३२
विश्वास-प्रस्तुतिः
त᳘मसो मा ज्यो᳘तिर्ग्गमये᳘ति॥
मृत्युर्व्वै त᳘मो ज्यो᳘तिरमृ᳘तम्मृत्यो᳘र्मा ऽमृ᳘तङ्गमयामृ᳘तं मा कुर्व्वि᳘त्ये᳘वैत᳘दाह मृत्यो᳘र्मा ऽमृ᳘तङ्गमये᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥
मूलम् - श्रीधरादि
त᳘मसो मा ज्यो᳘तिर्ग्गमये᳘ति॥
मृत्युर्व्वै त᳘मो ज्यो᳘तिरमृ᳘तम्मृत्यो᳘र्मा ऽमृ᳘तङ्गमयामृ᳘तं मा कुर्व्वि᳘त्ये᳘वैत᳘दाह मृत्यो᳘र्मा ऽमृ᳘तङ्गमये᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥
मूलम् - Weber
त᳘मसो मा ज्यो᳘तिर्गमये᳘ति॥
मृत्युर्वै त᳘मो ज्यो᳘तिरमृ᳘तम् मृत्यो᳘र्मामृ᳘तं गमयामृ᳘तम् मा कुर्वि᳘त्येॗवैत᳘दाह मृत्यो᳘र्मामृ᳘तं गमये᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥
मूलम् - विस्वरम्
तमसो मा ज्योतिर्गमयेति । मृत्युर्वै तमः । ज्योतिरमृतम् । मृत्योर्मा अमृतं गमय । अमृतं मा कुरु । इत्येवैतदाह । मृत्योर्मा अमृतं गमयेति । नात्र तिरोहितमिवास्ति ॥ ३२ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तथा द्वितीयं मन्त्रं व्याचष्टे- तमसो मा ज्योतिर्गमयेति । अस्मिन्मन्त्रे तमःशब्देनाशास्त्रीयकर्मज्ञानमूलमज्ञानमुच्यते आवरणात्मकत्वात्तस्य । तदेव ‘मृत्युर्वै’ मरणहेतुत्वात् । ‘ज्योतिरमृतं’ पूर्वोक्ततमोविपरीतं दैवस्वरूपज्ञानं ज्योतिरुच्यते प्रकाशत्वादेव । ‘अमृतं’ अविनाशात्मकत्वात् । इति पदार्थमुक्त्वा वाक्यार्थमाह-मृत्योरिति । मृत्योरज्ञानात्मकादसुरभावात् ‘अमृतं’ ज्ञानात्मकं देवभावं ‘गमय’ । तात्पर्यार्थमाह- अमृतमिति । ‘अमृतं’ देवं ‘मा’ मां ‘कुरु’ प्राजापत्यं फलभावमापादयेत्यर्थः । एवमुक्तमन्त्रद्वयेनानतिरिक्तार्थतया तृतीयमन्त्रार्थस्याव्याख्येयत्वमाह- मृत्योरिति । ‘मृत्योः’ असाधनभावादसाध्यभावाच्च ‘अमृतं’ साधनभावं साध्यभावं च ‘गमयेति’ प्रसिद्धार्थतयैव अत्रास्मिन् तृतीये मन्त्रे तिरोहितमिवान्तर्हितमिवार्थरूपं पूर्वयोरिव मन्त्रयोः अप्रकटं अपूर्वं ‘नास्ति’ । पूर्वयोरेव मन्त्रयोः समुच्चितो ऽर्थस्तृतीयेन मन्त्रेणोक्त इत्यर्थः ॥ ३२ ॥
३३
विश्वास-प्रस्तुतिः
(स्त्य᳘) अ᳘थ यानी᳘तराणि स्तोत्रा᳘णि॥
ते᳘ष्वात्म᳘ने ऽन्ना᳘द्यमा᳘गायेत्त᳘स्मादु ते᳘षु व्व᳘रम्वृणीत यङ्का᳘मङ्काम᳘येत तᳫँ᳭ स᳘ ऽएष᳘ ऽएवम्वि᳘दुद्गा᳘ता ऽत्म᳘ने वा य᳘जमानाय वा का᳘मङ्काम᳘यते तमा᳘गायति त᳘द्धैत᳘ल्लोकजि᳘देव न᳘ है᳘वालोक्य᳘ताया ऽआ᳘शा ऽस्ति य᳘ ऽएव᳘मेतत्सा᳘म व्वे᳘द॥
मूलम् - श्रीधरादि
(स्त्य᳘) अ᳘थ यानी᳘तराणि स्तोत्रा᳘णि॥
ते᳘ष्वात्म᳘ने ऽन्ना᳘द्यमा᳘गायेत्त᳘स्मादु ते᳘षु व्व᳘रम्वृणीत यङ्का᳘मङ्काम᳘येत तᳫँ᳭ स᳘ ऽएष᳘ ऽएवम्वि᳘दुद्गा᳘ता ऽत्म᳘ने वा य᳘जमानाय वा का᳘मङ्काम᳘यते तमा᳘गायति त᳘द्धैत᳘ल्लोकजि᳘देव न᳘ है᳘वालोक्य᳘ताया ऽआ᳘शा ऽस्ति य᳘ ऽएव᳘मेतत्सा᳘म व्वे᳘द॥
मूलम् - Weber
अ᳘थ यानी᳘तराणि स्तोत्रा᳘णि॥
ते᳘ष्वात्म᳘नेऽन्ना᳘द्यमा᳘गायेत्त᳘स्मादु ते᳘षु व᳘रम् वृणीत यम् का᳘मं काम᳘येत तᳫं स᳘ एष᳘ एवम्वि᳘दुद्गाॗतात्म᳘ने वा य᳘जमानाय वा यं का᳘मं काम᳘यते तमा᳘गायति त᳘द्धैत᳘ल्लोकजि᳘देव न᳘ हैॗवालोक्य᳘ताया आॗशास्ति य᳘ एव᳘मेतत्सा᳘म वे᳘द॥
मूलम् - विस्वरम्
अथ यानीतराणि स्तोत्राणि । तेषु आत्मने अन्नाद्यमागायेत् । तस्मादु तेषु वरं वृणीत । यं कामं कामयेत । तं स एष एवंविदुद्गाता आत्मने वा यजमानाय वा कामं कामयते । तमागायति । तद्धैतल्लोकजिदेव । न हैवालोक्यताया आशा ऽस्ति । य एवमेतत्साम वेद ॥ ३३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
प्राणवदुद्गातुरपि स्वार्थं गानमस्तीत्याह- अथ यानीति । ‘अथ’ त्रिषु पवमानेषु यजमानोद्गानकरणानन्तरं यानीतराण्यवशिष्टानि नव ‘स्तोत्राणि’ ‘तेषु’ स्तोत्रेषु प्राणविदुद्गाता ‘आत्मने’ आत्मार्थं अन्नाद्यमन्ना च तदाद्यं चान्नाद्यमागायेत् आगानेन सम्पादयेत् । अस्योद्गातुः सर्वफलसाधकत्वमाह- तस्मादिति । यस्मात् ‘स एषः’ ‘उद्गाता’ ‘एवंवित्’ यथोक्तप्राणवित् प्राणवदेवात्मने आत्मार्थं वा ‘यजमानाय वा’ यं ‘कामं’ ‘कामयते’ इच्छति ‘तमागायति’ आगानेन साधयति । ‘तरमादु’ तस्मादेव यजमानः ‘तेषु’ नवसु स्तोत्रेषु प्रयुज्यमानेषु ‘यं कामं कामयेत’ इच्छेत । तं कामं ‘वरं वृणीत’ प्रार्थयेदित्यन्वयार्थः । एवमेवं समुच्चितादुपासनात् फलसिद्धौ आशङ्कासम्भवाभावे ऽपि केवलादुपासनात्तत्सिद्धिशङ्का स्यात् तां निरस्यति- तद्धैतदिति । ‘यः’ ‘एतत्साम’ प्राणं यथोक्तं निर्द्धारितमहिमानं आ एवं अभिमानाभिव्यक्तेः “हमस्मि प्राणः” इति ‘वेद’ उपास्ते । तस्य कर्मानधिकृतस्यापि ‘तद्ध एतत्’ प्राणदर्शनं केवलमपि ‘लोकजिदेव’ लोकसाधनमेव । ‘न ह एवालोक्यतायै’ अलोकत्वाय ‘आशा ऽस्ति’ आशंसनं प्रर्थना नैवास्ति । तथा चोपासनासहितं कर्म सकृदेवानुष्ठितं सत् अदृष्टद्वारा फलसाधनम् । केवलोपासनं तु नैरन्तर्येण असकृदनुष्ठितं तत्साधनमित्यर्थः ॥ ३३ ॥
इति श्रीहृषीकेशब्रह्मभगवत्पूज्यपादशिष्यस्य श्रीपाठकानिरुद्धपुत्रस्य परमहंसपरिव्राजकाचार्यस्य श्रीवासुदेवब्रह्मभगवतः कृतौ माध्यन्दिनीयशतपथब्राह्मणान्तर्गतमाध्यन्दिनशाखोपनिषद्बृहदारण्यकटीकायां वासुदेवप्रकाशिकायां आद्ये मधुकाण्डे प्रथमे ऽध्याये प्रथममुद्गीथब्राह्मणं परिसमाप्तम् ॥ १४ । (४) १ । १ ॥