०१

विश्वास-प्रस्तुतिः

स᳘र्व्वेषाम्वा᳘ ऽएष᳘ भूता᳘नाम्॥
(ᳫँ᳭) स᳘र्व्वेषान्देवा᳘नामात्मा य᳘द्यज्ञस्त᳘स्य स᳘म्मृद्धिम᳘नु य᳘जमानः प्प्रज᳘या पशु᳘भिर्ऋध्यते वि वा᳘ ऽएष᳘ प्प्रज᳘या पशु᳘भिर्ऋध्यते य᳘स्य घर्म्मो᳘ व्विदीर्य्य᳘ते त᳘त्र प्प्रा᳘यश्चित्तिः॥

मूलम् - श्रीधरादि

स᳘र्व्वेषाम्वा᳘ ऽएष᳘ भूता᳘नाम्॥
(ᳫँ᳭) स᳘र्व्वेषान्देवा᳘नामात्मा य᳘द्यज्ञस्त᳘स्य स᳘म्मृद्धिम᳘नु य᳘जमानः प्प्रज᳘या पशु᳘भिर्ऋध्यते वि वा᳘ ऽएष᳘ प्प्रज᳘या पशु᳘भिर्ऋध्यते य᳘स्य घर्म्मो᳘ व्विदीर्य्य᳘ते त᳘त्र प्प्रा᳘यश्चित्तिः॥

मूलम् - Weber

स᳘र्वेषाम् वा एष᳘ भूता᳘नाम्॥
स᳘र्वेषां देवा᳘नामात्मा य᳘द्यज्ञस्त᳘स्य स᳘मृद्धिम᳘नु य᳘जमानः प्रज᳘या पशु᳘भिरृध्यते वि वा᳘ एष᳘ प्रज᳘या पशु᳘भिरृध्यते य᳘स्य घर्मो᳘ विदीर्य᳘ते त᳘त्र प्रा᳘यश्चित्तिः॥

मूलम् - विस्वरम्

अथ घर्मभेदे प्रायश्चित्तम् ।

सर्वेषां वा एष भूतानां सर्वेषां देवानामात्मा- यद्यज्ञः । तस्य समृद्धिमनु यजमानः प्रजया पशुभिर्ऋध्यते । वि वा एष प्रजया पशुभिर्ऋध्यते- यस्य घर्मो विदीर्यते । तत्र प्रायश्चित्तिः ॥ १ ॥

सायणः

इत्थं तृतीये 1 घर्म्मोत्सादनमुक्तम् । अथ चतुर्थे 2 तत्प्रायश्चित्तमुच्यते । तत्र तावत् प्रायश्चित्तं कर्तव्यमिति विधित्सुः, उपोद्धातत्वेन तदुपपादयति- सर्वेषां वा ऽएष भूतानां० तत्र प्रायश्चित्तिरिति । ‘यत्’ यः अयं ‘यज्ञः’ ‘एषः सर्वेषां’ खलु भूतानां भूतजातानां मनुष्यपश्वादीनां प्राणिनां ‘सर्वेषां देवानां’ इन्द्रादीनां च ‘आत्मा’ स्वरूपं यज्ञक्रियापरिणामरूपत्वात्तेषाम् । तथा च स्मर्यते- “अग्नौ प्रास्ता ऽऽहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः”- (म. स्मृ. ३ । ७६) इति । ‘तस्य’ तथाविधस्य यज्ञस्य ‘समृद्धिं’ संपूर्तिं ‘अनु’ पश्चात् ‘यजमानः’ यज्ञफलभूतया ‘प्रजया’ पुत्राद्यात्मिकया गवादिभिः ‘पशुभिश्च’ ‘ऋध्यते’ समृद्धो भवति । ‘यस्य’ खलु यजमानस्य यज्ञे ‘घर्म्मः’ महावीरः ‘विदीर्यते’ भिद्यते । ‘एषः’ यजमानः यज्ञांगवैकल्येन समृद्ध्यभावात् स्वयमपि प्रजापश्वादिभिः ‘व्यृध्यते’ श्रद्धेर्विहीनो भवति । तस्मात् महावीरे विदीर्णे सति ‘प्रायश्चित्तिः’ विकलस्य समाधानलक्षणं प्रायश्चित्ताख्यं कर्म वक्ष्यमाणं कुर्यात् । तदुक्तं कात्यायनेन सूत्रकृता- “घर्मभेदे यथोक्तम् 3 । उखावच्चान्यं कुर्यात् । अभिन्नेन चरेत् । स्वाहा प्राणेभ्यः साधिपतिकेभ्य इति पूर्णाहुतिमाद्यामुत्तमां च मनसः काममाकूतिमिति"- (का. श्रौ. सू. २६ । १४४-१४७) इति । अस्यायमर्थः- प्रचरणीयस्य महावीरस्य भेदे सति तं संपिष्य अन्यया मृदा संसृज्य अन्यं महावीरं पूर्ववत् कुर्यात् । अभिन्नेन द्वितीयेन तृतीयेन वा महावीरेण तु प्रवृंजनं कुर्यात् । भेदनप्रायश्चित्त्यर्थं “स्वाहा प्राणेभ्यः” इत्यादिभिः द्वादशसंख्याका आहुतीः जुहोति । तासामाद्यामुत्तमां च “मनसः काममाकूतिम्” इति मंत्राभ्यां, आज्यपूर्णया स्रुचा पूर्णाहुतिं जुहोतीति ॥ १ ॥

Eggeling
  1. Now this–to wit, the sacrifice–is the self of all beings, and of all gods: after its successful consummation the Sacrificer prospers in offspring (or, people) and cattle; but he whose Gharma (pot) is shattered is deprived of his offspring and cattle. In that case there is an expiation.

०२

विश्वास-प्रस्तुतिः

पूर्ण्णाहुति᳘ञ्जुहोति॥
स᳘र्व्वम्वै᳘ पूर्ण्णᳫँ᳭ स᳘र्व्वेणै᳘वैत᳘द्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं य᳘ज्ञस्य॥

मूलम् - श्रीधरादि

पूर्ण्णाहुति᳘ञ्जुहोति॥
स᳘र्व्वम्वै᳘ पूर्ण्णᳫँ᳭ स᳘र्व्वेणै᳘वैत᳘द्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं य᳘ज्ञस्य॥

मूलम् - Weber

पूर्णाहुतिं᳘ जुहोति॥
स᳘र्वम् वै᳘ पूर्णᳫं स᳘र्वेणैॗवैत᳘द्भिषज्यति यत्किं᳘ च वि᳘वृढं य᳘ज्ञस्य॥

मूलम् - विस्वरम्

पूर्णाहुतिं जुहोति । सर्वं वै पूर्णम् । सर्वेणैवैतद्भिषज्यति । यत्किंच विवृढं यज्ञस्य ॥ २ ॥

सायणः

तत्राद्यां पूर्णाहुतिं विधाय स्तौति- पूर्णाहुतिञ्जुहोति० यज्ञस्येति । अस्याः पूर्णाहुतेः अयं मन्त्रः दर्शयिष्यते । तेन मन्त्रेण आज्यपूर्णया स्रुचा ‘पूर्णाहुतिं’ जुहोति । ‘पूर्णं’ परिपूर्णं यत्तत्त्वं तत्सर्वं वै सर्वजगदात्मकम् । अतः पूर्णत्वगुणविशिष्टया आहुत्या प्रायश्चित्तं कुर्वन्; यज्ञसम्बन्धि यत् किञ्चित् अङ्गजातं ‘विवृढं’ विकलं भग्नं आसीत् । ‘एतत् सर्वेणैव’ वस्तुजातेन ‘भिषज्यति’ चिकित्सति । “भिषज् चिकित्सायां”- (धा. पा. कण्ड्वा० २४) इति धातुः ॥ २ ॥

Eggeling
  1. He offers an oblation of a full (spoon of ghee); for the full means everything: with everything he thus heals whatever has been unsuccessful in the sacrifice.

०३

विश्वास-प्रस्तुतिः

स्वा᳘हा प्प्राणे᳘भ्यः सा᳘धिपतिकेभ्य ऽइ᳘ति॥
म᳘नो वै᳘ प्प्राणा᳘नाम᳘धिपतिर्म्म᳘नसि हि स᳘र्व्वे प्प्राणाः प्प्र᳘तिष्ठितास्तन्मनसै᳘वैत᳘द्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य॥

मूलम् - श्रीधरादि

स्वा᳘हा प्प्राणे᳘भ्यः सा᳘धिपतिकेभ्य ऽइ᳘ति॥
म᳘नो वै᳘ प्प्राणा᳘नाम᳘धिपतिर्म्म᳘नसि हि स᳘र्व्वे प्प्राणाः प्प्र᳘तिष्ठितास्तन्मनसै᳘वैत᳘द्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य॥

मूलम् - Weber

स्वा᳘हा प्राणे᳘भ्यः सा᳘धिपतिकेभ्य इ᳘ति॥
म᳘नो वै᳘ प्राणा᳘नाम᳘धिपतिर्म᳘नसि हि स᳘र्वे प्राणाः प्र᳘तिष्ठितास्तन्मनसैॗवैत᳘द्भिषज्यति यत्किं᳘ च वि᳘वृढं यज्ञ᳘स्य॥

मूलम् - विस्वरम्

“स्वाहा प्राणेभ्यः साधिपतिकेभ्यः”- इति । मनो वै प्राणानामधिपतिः । मनसि हि सर्वं प्राणाः प्रतिष्ठिताः । तन्मनसैवैतत् भिषज्यति । यत्किञ्च विवृढं यज्ञस्य ॥ ३ ॥

सायणः

अस्याः पूर्णाहुत्या अनन्तरं “त्रयोदशैता आहुतीर्जुहोति”- इति काण्वपाठः (अ. २ । ४ । १५) इति वाक्येन त्रयोदशाहुतयो होतव्या इति विधास्यति । तासामाद्या पूर्णाहुतिश्चतुर्दशी । प्रथमं तावन्मन्त्राणां महावीरभेदलक्षणवैकल्यसमाधानक्षमं सामर्थ्यमस्तीति दर्शयितुं तान् क्रमेणानूद्य व्याचष्टे- तत्र प्रथमं मन्त्रं पूर्णाहुतौ करणभूतं अनूद्य तेन भैषज्यप्रकारमाह- स्वाहा प्राणेभ्यः साधिपतिके० यज्ञस्येति । अधिपतिसहितेभ्यः ‘प्राणेभ्यः’ इदं हविः त्यजामि इति मन्त्रार्थः । तत्र को ऽसौ प्राणानामधिपतिरिति चेत् उच्यते- ‘मनो वै’ सुखाद्यपरोक्षसाधनं आन्तरं इन्द्रियं खलु ‘प्राणानां’ चक्षुरादीनामधिपतिः ईशिता । तेषामन्वयत्र्यतिरेकाभ्यां मनःसाहित्येनैव विषयप्रकाशनसामर्थ्यदर्शनात् । तत्तस्मात् मन्त्रे अधिपतिशब्देन मनसो निर्द्दिष्टत्वात् ‘मनसैव’ साधनेन । शिष्टं पूर्वेण समानम् ॥ ३ ॥

Eggeling
  1. [He offers, with Vāj. S. XXXIX, 1,] ‘Hail to the vital airs with their over-lord!’–the over-lord of the vital airs, doubtless, is the mind (soul), for in the mind all the vital airs are established: it is thus by means of the mind that he thereby heals whatever has been unsuccessful in the sacrifice.

०४

विश्वास-प्रस्तुतिः

प्पृथिव्यै स्वाहे᳘ति॥
प्पृथिवी वै स᳘र्व्वेषान्देवा᳘नामाय᳘तनन्तत्स᳘र्व्वाभिरे᳘वैत᳘द्देव᳘ताभिर्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य॥

मूलम् - श्रीधरादि

प्पृथिव्यै स्वाहे᳘ति॥
प्पृथिवी वै स᳘र्व्वेषान्देवा᳘नामाय᳘तनन्तत्स᳘र्व्वाभिरे᳘वैत᳘द्देव᳘ताभिर्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य॥

मूलम् - Weber

पृथिव्यै स्वाहे᳘ति॥
पृथिवी वै स᳘र्वेषां देवा᳘नामाय᳘तनं तत्स᳘र्वाभिरेॗवैत᳘द्देव᳘ताभिर्भिषज्यति 4 यत्किं᳘ च वि᳘वृढं यज्ञ᳘स्य॥

मूलम् - विस्वरम्

“पृथिव्यै स्वाहा”- इति । पृथिवी वै सर्वेषां देवानामायतनम् । तत् सर्वाभिरेवैतद्देवताभिर्भिषज्यति । यत्किञ्च विवृढं यज्ञस्य ॥ ४ ॥

सायणः

अथ द्वितीयमन्त्रभागमनूद्य व्याचष्टे- पृथिव्यै स्वाहेति० यज्ञस्येति । “पृथिव्यै स्वाहा” इति द्वितीयो मन्त्रः । तत्प्रतिपाद्या ‘पृथिवी’ । सा तु ‘सर्वेषां देवानामायतनं’ निवासस्थानं हविःस्वीकरणाय तैस्तत्र सर्वदा अवस्थानात् पृथिव्यास्तदायतनत्वम् । तत्तस्मात् पृथिव्यै स्वाहा इति मन्त्रेण सर्वाभिरेव देवताभिरित्यादि गतम् ॥ ४ ॥

Eggeling
  1. ‘To the Earth hail!’–the earth, doubtless, is a place of abode for all the gods: it is thus by means of all the deities that he heals whatever has been unsuccessful in the sacrifice.

०५

विश्वास-प्रस्तुतिः

(स्या) अग्न᳘ये स्वाहे᳘ति॥
(त्य) अग्निर्व्वै स᳘र्व्वेषान्देवा᳘नामात्मा तत्स᳘र्व्वाभिरे᳘वैत᳘द्देव᳘ताभिर्भ्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य॥

मूलम् - श्रीधरादि

(स्या) अग्न᳘ये स्वाहे᳘ति॥
(त्य) अग्निर्व्वै स᳘र्व्वेषान्देवा᳘नामात्मा तत्स᳘र्व्वाभिरे᳘वैत᳘द्देव᳘ताभिर्भ्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य॥

मूलम् - Weber

अग्न᳘ये स्वाहे᳘ति॥
अग्निर्वै स᳘र्वेषां देवा᳘नामात्मा तत्स᳘र्वाभिरेॗवैत᳘द्देव᳘ताभिर्भिषज्यति 5 यत्किं᳘ च वि᳘वृढं यज्ञ᳘स्य॥

मूलम् - विस्वरम्

“अग्नये स्वाहा"- इति । अग्निर्वै सर्वेषां देवानामात्मा । तत् सर्वाभिरेवैतद्देवताभिर्भिषज्यति । यत्किञ्च विवृढं यज्ञस्य ॥ ५ ॥

सायणः

अथ तृतीयं मन्त्रमनूद्य व्याचष्टे- अग्नये स्वाहेति० यज्ञस्येति । ‘अग्निः’ खलु ‘सर्वषां देवानामात्मा’ स्वरूपभूतः । तथा च तैत्तिरीयके- “ते देवा बिभ्यतो ऽग्निं प्राविशन् तस्मादाहुरग्निः सर्वा देवता इति । (तै. सं. ६ । २ । २) तत्तथा च “अग्नये स्वाहा” इति मन्त्रेण सर्वाभिरेव देवताभिरित्यादि गतम् ॥ ५ ॥

Eggeling
  1. ‘To Agni hail!’–Agni, doubtless, is the self of all the gods: it is thus by means of all the deities that he heals whatever has been unsuccessful in the sacrifice.

०६

विश्वास-प्रस्तुतिः

(स्या) अन्त᳘रिक्षाय स्वाहे᳘ति॥
(त्य) अन्त᳘रिक्षम्वै स᳘र्व्वेषान्देवा᳘नामाय᳘तनन्तत्स᳘र्व्वाभिरे᳘वैत᳘द्देव᳘ताभिर्भ्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य ॥

मूलम् - श्रीधरादि

(स्या) अन्त᳘रिक्षाय स्वाहे᳘ति॥
(त्य) अन्त᳘रिक्षम्वै स᳘र्व्वेषान्देवा᳘नामाय᳘तनन्तत्स᳘र्व्वाभिरे᳘वैत᳘द्देव᳘ताभिर्भ्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य ॥

मूलम् - Weber

अन्त᳘रिक्षाय स्वाहे᳘ति॥
अन्त᳘रिक्षम् वै स᳘र्वेषां देवा᳘नामाय᳘तनं तत्स᳘र्वाभिरेॗवैत᳘द्देव᳘ताभिर्भिषज्यति यत्किं᳘ च वि᳘वृढं यज्ञ᳘स्य ॥

मूलम् - विस्वरम्

“अन्तरिक्षाय स्वाहा”- इति । अन्तरिक्षं वै सर्वेषां देवानामायतनम् । तत्सर्वाभिरेवैतद्देवताभिर्भिषज्यति । यत्किञ्च विवृढं यज्ञस्य ॥ ६ ॥

सायणः

अथ चतुर्थं मन्त्रमनूद्य व्याचष्टे- अन्तरिक्षाय स्वा० यज्ञस्येति ॥ ६ ॥

Eggeling
  1. ‘To the Air hail!’–the air, doubtless, is a place of abode for all the gods: it is thus by means of all the deities that he heals whatever has been unsuccessful in the sacrifice.

०७

विश्वास-प्रस्तुतिः

व्वाय᳘वे स्वाहे᳘ति॥
व्वायुर्व्वै स᳘र्व्वेषान्देवा᳘नामात्मा तत्स᳘र्व्वाभिरे᳘वैत᳘द्देव᳘ताभिर्भ्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य ॥

मूलम् - श्रीधरादि

व्वाय᳘वे स्वाहे᳘ति॥
व्वायुर्व्वै स᳘र्व्वेषान्देवा᳘नामात्मा तत्स᳘र्व्वाभिरे᳘वैत᳘द्देव᳘ताभिर्भ्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य ॥

मूलम् - Weber

वाय᳘वे स्वाहे᳘ति॥
वायुर्वै स᳘र्वेषां देवा᳘नामात्मा तत्स᳘र्वाभिरेॗवैत᳘द्देव᳘ताभिर्भिषज्यति यत्किं᳘ च वि᳘वृढं यज्ञ᳘स्य ॥

मूलम् - विस्वरम्

“वायवे स्वाहा”- इति । वायुर्वै सर्वेषां देवानामात्मा । तत् सर्वाभिरेवैतद्देवताभिर्भिषज्यति । यत्किञ्च विवृढं यज्ञस्य ॥ ७ ॥

सायणः

अथ पञ्चमं मन्त्रमनूद्य व्याचष्टे- वायवे स्वा० यज्ञस्येति । ‘वायुः’ खलु ‘सर्वेषां’ देवानामात्मा स्वरूपम् । तस्य सर्वदा तदावासहेतुत्वात् ॥ ७ ॥

Eggeling
  1. ‘To Vāyu hail!’–Vāyu (the wind), doubtless, is the self of all the gods: it is thus by means of all the deities that he heals whatever has been unsuccessful in the sacrifice.

०८

विश्वास-प्रस्तुतिः

दिवे स्वाहे᳘ति॥
द्यौर्व्वै स᳘र्व्वेषान्देवा᳘नामाय᳘तनन्तत्स᳘र्व्वाभिरे᳘वैत᳘द्देव᳘ताभिर्भ्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य ॥

मूलम् - श्रीधरादि

दिवे स्वाहे᳘ति॥
द्यौर्व्वै स᳘र्व्वेषान्देवा᳘नामाय᳘तनन्तत्स᳘र्व्वाभिरे᳘वैत᳘द्देव᳘ताभिर्भ्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य ॥

मूलम् - Weber

दिवे स्वाहे᳘ति॥
द्यौर्वै स᳘र्वेषां देवा᳘नामाय᳘तनं तत्स᳘र्वाभिरेॗवैत᳘द्देव᳘ताभिर्भिषज्यति यत्किं᳘ च वि᳘वृढं यज्ञ᳘स्य ॥

मूलम् - विस्वरम्

“दिवे स्वाहा”- इति । द्यौर्वै सर्वेषां देवानामायतनम् । तत् सर्वाभिरेवैतत् देवताभिर्भिषज्यति । यत्किञ्च विवृढं यज्ञस्य ॥ ८ ॥

सायणः

अथ षष्ठं मन्त्रमनूद्य व्याचष्टे- दिवे स्वाहे० यज्ञस्येति । तत्तथा च “दिवे स्वाहा” इति मन्त्रेणेत्यादि पूर्ववत् ॥ ८ ॥

Eggeling
  1. ‘To the Sky hail!’–the sky, doubtless, is a place of abode for all the gods: it is thus by means of all the deities that he heals whatever has been unsuccessful in the sacrifice.

०९

विश्वास-प्रस्तुतिः

सू᳘र्य्याय स्वाहे᳘ति॥
सू᳘र्य्यो वै स᳘र्व्वेषान्देवा᳘नामात्मा तत्स᳘र्व्वाभिरे᳘वैत᳘द्देव᳘ताभिर्भ्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य ॥

मूलम् - श्रीधरादि

सू᳘र्य्याय स्वाहे᳘ति॥
सू᳘र्य्यो वै स᳘र्व्वेषान्देवा᳘नामात्मा तत्स᳘र्व्वाभिरे᳘वैत᳘द्देव᳘ताभिर्भ्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य ॥

मूलम् - Weber

सू᳘र्याय स्वाहे᳘ति॥
सू᳘र्यो वै स᳘र्वेषां देवा᳘नामात्मा तत्स᳘र्वाभिरेॗवैत᳘द्देव᳘ताभिर्भिषज्यति यत्किं᳘ च वि᳘वृढं यज्ञ᳘स्य ॥

मूलम् - विस्वरम्

“सूर्याय स्वाहा”- (वा. सं. ३९ । १) इति । सूर्यो वै सर्वेषां देवानामात्मा । तत् सर्वाभिरेवैतत् देवताभिर्भिषज्यति । यत्किञ्च विवृढं यज्ञस्य ॥ ९ ॥

सायणः

अथ सप्तमं मन्त्रमनूद्य व्याचष्टे- सूर्याय स्वाहे० यज्ञस्येति । ‘सूर्यो वै’ प्रेरक आदित्यः खलु ‘सर्वेषां देवानामात्मा’ स्वरूपभूतः । तथा च मन्त्रान्तरं “सूर्य ऽआत्मा जगतस्तस्थुषश्च” (मां. सं. । १३ । ४६) इति । गतमन्यत् ॥ ९ ॥

Eggeling
  1. ‘To Sūrya hail!’–Sūrya (the sun), doubtless, is the self of all the gods: it is thus by means of all the deities that he heals whatever has been unsuccessful in the sacrifice.

१०

विश्वास-प्रस्तुतिः

दिग्भ्यः स्वाहे᳘ति॥
दि᳘शो वै स᳘र्व्वेषान्देवा᳘नामाय᳘तनन्तत्स᳘र्व्वाभिरे᳘वैत᳘द्देव᳘ताभिर्भ्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य ॥

मूलम् - श्रीधरादि

दिग्भ्यः स्वाहे᳘ति॥
दि᳘शो वै स᳘र्व्वेषान्देवा᳘नामाय᳘तनन्तत्स᳘र्व्वाभिरे᳘वैत᳘द्देव᳘ताभिर्भ्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य ॥

मूलम् - Weber

दिग्भ्यः स्वाहे᳘ति॥
दि᳘शो वै स᳘र्वेषां देवा᳘नामाय᳘तनं तत्स᳘र्वाभिरेॗवैत᳘द्देव᳘ताभिर्भिषज्यति यत्किं᳘ च वि᳘वृढं यज्ञ᳘स्य ॥

मूलम् - विस्वरम्

“दिग्भ्यः स्वाहा”- इति । दिशो वै सर्वेषां देवानामायतनम् । तत् सर्वाभिरेवैतत् देवताभिर्भिषज्यति । यत् किञ्च विवृढं यज्ञस्य ॥ १० ॥

सायणः

इत्थं पृथिव्यादयस्त्रयो लोकाः तदधिष्ठायकाः अग्निर्वायुः सूर्यश्चेत्येते त्रयो देवाः गतैर्मन्त्रैः प्रतिपादिताः । अथ तेषु लोकेषु व्याप्य वर्तमानानां दिगादीनां चेति सम्पादनमुत्तरैर्मन्त्रैः क्रियते । तत्र “दिग्भ्यः स्वाहा” इति मन्त्रस्य तात्पर्यं व्याचष्टे- दिग्भ्यः स्वाहेति० यज्ञस्येति । प्राच्याद्याः ‘दिशः’ खलु ‘सर्वेषां देवानामायतनं’ स्थानम् । प्राक्पश्चिमादिव्यवहारार्थमपेक्षितत्वात् । अथवा इन्द्रादीनां प्रागादिदिगीशत्वात् दिशां देवायतनत्वम् । गतमन्यत् ॥ १० ॥

Eggeling
  1. [Vāj. S. XXXIX, 2,] ‘To the Regions hail!’–the regions, doubtless, are a place of abode for all the gods: it is thus by means of all the deities that he heals whatever has been unsuccessful in the sacrifice.

११

विश्वास-प्रस्तुतिः

च᳘न्द्राय स्वाहे᳘ति॥
च᳘न्द्रो वै स᳘र्व्वेषान्देवा᳘नामात्मा तत्स᳘र्व्वाभिरे᳘वैत᳘द्देव᳘ताभिर्भ्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य ॥

मूलम् - श्रीधरादि

च᳘न्द्राय स्वाहे᳘ति॥
च᳘न्द्रो वै स᳘र्व्वेषान्देवा᳘नामात्मा तत्स᳘र्व्वाभिरे᳘वैत᳘द्देव᳘ताभिर्भ्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य ॥

मूलम् - Weber

च᳘न्द्राय स्वाहे᳘ति॥
च᳘न्द्रो वै स᳘र्वेषां देवा᳘नामात्मा तत्स᳘र्वाभिरेॗवैत᳘द्देव᳘ताभिर्भिषज्यति यत्किं᳘ च वि᳘वृढं यज्ञ᳘स्य ॥

मूलम् - विस्वरम्

“चन्द्राय स्वाहा”- इति । चन्द्रो वै सर्वेषां देवानामात्मा । तत् सर्वाभिरेवैतत् देवताभिर्भिषज्यति । यत्किञ्च विवृढं यज्ञस्य ॥ ११ ॥

सायणः

चन्द्राय स्वाहेति यज्ञस्येति । ‘चन्द्रः’ सोमराजः खलु ‘सर्वेषां देवानां’ ‘आत्मा’ स्वरूपभूतः अमृतमयत्वेन तैरुपभोज्यत्वात् । तथा च मन्त्रान्तरं “यमादित्या ऽअंशुमाप्याययन्ति यमक्षितमक्षितयः पिबन्ति” इति ॥ ११ ॥

Eggeling
  1. ‘To Candra hail!’–Candra (the moon), doubtless, is the self of all the gods: it is thus by means of all the deities that he heals whatever has been unsuccessful in the sacrifice.

१२

विश्वास-प्रस्तुतिः

न᳘क्षत्रेभ्यः स्वाहे᳘ति॥
न᳘क्षत्राणि वै स᳘र्व्वेषान्देवा᳘नामाय᳘तनन्तत्स᳘र्व्वाभिरे᳘वैत᳘द्देव᳘ताभिर्भ्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य ॥

मूलम् - श्रीधरादि

न᳘क्षत्रेभ्यः स्वाहे᳘ति॥
न᳘क्षत्राणि वै स᳘र्व्वेषान्देवा᳘नामाय᳘तनन्तत्स᳘र्व्वाभिरे᳘वैत᳘द्देव᳘ताभिर्भ्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य ॥

मूलम् - Weber

न᳘क्षत्रेभ्यः स्वाहे᳘ति॥
न᳘क्षत्राणि वै स᳘र्वेषां देवा᳘नामाय᳘तनं तत्स᳘र्वाभिरेॗवैत᳘द्देव᳘ताभिर्भिषज्यति यत्किं᳘ च वि᳘वृढं यज्ञ᳘स्य ॥

मूलम् - विस्वरम्

“नक्षत्रेभ्यः स्वाहा”- इति । नक्षत्राणि वै सर्वेषां देवानामायतनम् । तत् सर्वाभिरेवैतत् देवताभिर्भिषज्यति । यत्किञ्च विवृढं यज्ञस्य ॥ १२ ॥

सायणः

अथान्यं मन्त्रमनूद्य व्याचष्टे- नक्षत्रेभ्यः स्वाहेति० यज्ञस्येति । ‘नक्षत्राणि’ तारकाः खलु ‘सर्वेषां देवानामात्मा’ स्वरूपभूताः तेषां तद्गृहात्मकत्वात् । तथा च श्रूयते “देवगृहा वै नक्षत्राणि” इति । अन्ये तु सुकृतवशेन देवत्वं प्राप्तानां जनानां ज्योतींषि नक्षत्राणि इति वर्णयन्ति । तत्र श्रुतिमप्युदाहरन्ति- “सुकृतां वा एतानि ज्योतींषि यन्नक्षत्राणि” (तै. सं. ५ । ४ । १ । ३) इति वर्णयन्ति । तदानीं तज्ज्योतीरूपत्वात् नक्षत्राणां तदात्मत्वम् । गतमन्यत् ॥ १२ ॥

Eggeling
  1. ‘To the Nakshatras hail!’–the Nakshatras

(lunar asterisms), doubtless, are a place of abode for all the gods: it is thus by means of all the deities that he heals whatever has been unsuccessful in the sacrifice.

१३

विश्वास-प्रस्तुतिः

(स्या) अद्भ्यः स्वाहे᳘ति॥
(त्या᳘) आ᳘पो वै स᳘र्व्वेषान्देवा᳘नामाय᳘तनन्तत्स᳘र्व्वाभिरे᳘वैत᳘द्देव᳘ताभिर्भ्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य ॥

मूलम् - श्रीधरादि

(स्या) अद्भ्यः स्वाहे᳘ति॥
(त्या᳘) आ᳘पो वै स᳘र्व्वेषान्देवा᳘नामाय᳘तनन्तत्स᳘र्व्वाभिरे᳘वैत᳘द्देव᳘ताभिर्भ्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य ॥

मूलम् - Weber

अद्भ्यः स्वाहे᳘ति॥
आ᳘पो वै स᳘र्वेषां देवा᳘नामाय᳘तनं तत्स᳘र्वाभिरेॗवैत᳘द्देव᳘ताभिर्भिषज्यति यत्किं᳘ च वि᳘वृढं यज्ञ᳘स्य ॥

मूलम् - विस्वरम्

“अद्भ्यः स्वाहा”- इति । आपो वै सर्वेषां देवानामायतनम् । तत् सर्वाभिरेवैतत् देवताभिर्भिषज्यति । यत् किञ्च विवृढं यज्ञस्य ॥ १३ ॥

सायणः

अथ समनन्तरं मन्त्रमनूद्य व्याचष्टे- अद्भ्यः स्वाहेत्यापो० यज्ञस्येति । ‘आपः’ उदकं खलु ‘सर्वेषां देवानामायतनं’ निवासस्थानं तेषाममृतमयशरीरत्वात् । अमृतस्य चाब्विकारित्वात् । गतमन्यत् ॥ १३ ॥

Eggeling
  1. ‘To the Waters hail!’–the waters, doubtless, are a place of abode for all the gods: it is thus by means of all the deities that he heals whatever has been unsuccessful in the sacrifice.

१४

विश्वास-प्रस्तुतिः

व्व᳘रुणाय स्वाहे᳘ति॥
व्व᳘रुणो वै स᳘र्व्वेषान्देवा᳘नामात्मा तत्स᳘र्व्वाभिरे᳘वैत᳘द्देव᳘ताभिर्भ्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य᳘ ॥

मूलम् - श्रीधरादि

व्व᳘रुणाय स्वाहे᳘ति॥
व्व᳘रुणो वै स᳘र्व्वेषान्देवा᳘नामात्मा तत्स᳘र्व्वाभिरे᳘वैत᳘द्देव᳘ताभिर्भ्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य᳘ ॥

मूलम् - Weber

व᳘रुणाय स्वाहे᳘ति॥
व᳘रुणो वै स᳘र्वेषां देवा᳘नामात्मा तत्स᳘र्वाभिरेॗवैत᳘द्देव᳘ताभिर्भिषज्यति यत्किं᳘ च वि᳘वृढं यज्ञ᳘स्य᳟᳟ ॥

मूलम् - विस्वरम्

“वरुणाय स्वाहा”- इति । वरुणो वै सर्वेषां देवानामात्मा । तत् सर्वाभिरेवैतत् देवताभिर्भिषज्यति । यत्किञ्च विवृढं यज्ञस्य ॥ १४ ॥

सायणः

अथान्यं मन्त्रमनूद्य व्याचष्टे- वरुणाय स्वाहेति० यज्ञस्येति । ‘वरुणः’ खलु देवः दुष्टनिग्राहकत्वात् ‘सर्वेषां देवानामात्मा’ स्वरूपभूतः । गतमन्यत् । यद्वा “पृथिव्यै स्वाहा” इत्यादयो मन्त्राः एवं व्याख्येयाः । पृथिव्यन्तरिक्षद्युदिगपां “पृथिव्यै स्वाहा” इत्यादिमन्त्रव्याख्याने सर्वदेवायतनत्वं प्रतिज्ञातं तदुपपादनं “अग्नये स्वाहा” इत्यादिमन्त्रव्याख्यानेन क्रियते अग्निवायुसूर्यचन्द्रनक्षत्रवरुणानां पृथिव्याद्यधिष्ठातृत्वात् उक्तप्रकारेण इतरेषां सर्वेषां देवानां तत्तादात्म्यात् । अग्न्याद्यायतनानि पृथिव्यादीनि सर्वेषां देवानामायतनानि भवन्तीति । एवं च तैः सर्वैर्मन्त्रैः सर्वदेवतासम्बद्धैः होमं कुर्वन् ‘सर्वाभिरेव देवताभिः’ विकलस्याङ्गस्य भैषज्यं कृतवान् भवतीत्यर्थः ॥ १४ ॥

Eggeling
  1. ‘To Varuṇa hail!’–Varuṇa, doubtless, is the self of all the gods: it is thus by means of all the deities that he heals whatever has been unsuccessful in the sacrifice.

१५

विश्वास-प्रस्तुतिः

ना᳘भ्यै स्वा᳘हा पूता᳘य स्वाहे᳘ति॥
(त्य᳘) अ᳘निरुक्तम᳘निरुक्तो वै᳘ प्प्रजा᳘पतिः प्प्रजा᳘पतिर्य्यज्ञस्त᳘त्प्रजा᳘पतिमे᳘वैत᳘द्यज्ञ᳘म्भिषज्यति॥

मूलम् - श्रीधरादि

ना᳘भ्यै स्वा᳘हा पूता᳘य स्वाहे᳘ति॥
(त्य᳘) अ᳘निरुक्तम᳘निरुक्तो वै᳘ प्प्रजा᳘पतिः प्प्रजा᳘पतिर्य्यज्ञस्त᳘त्प्रजा᳘पतिमे᳘वैत᳘द्यज्ञ᳘म्भिषज्यति॥

मूलम् - Weber

नाभ्यै स्वा᳘हा पूता᳘य स्वाहेति॥
अ᳘निरुक्तम᳘निरुक्तो वै᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञस्त᳘त्प्रजा᳘पतिमेॗवैत᳘द्यज्ञ᳘म् भिषज्यति॥

मूलम् - विस्वरम्

“नाभ्यै स्वाहा पूताय स्वाहा”- (वा. सं. ३९ । २) इत्यनिरुक्तम् । अनिरुक्तो वै प्रजापतिः । प्रजापतिर्यज्ञः । तत् प्रजापतिमेवैतद्यज्ञं भिषज्यति ॥ १५ ॥

सायणः

अथान्यमन्त्रद्वयमनूद्य व्याचष्टे- नाभ्यै स्वाहा पूताय स्वाहेति० भिषज्यतीति । “नाभ्यै स्वाहा” “पूताय स्वाहा” इति मन्त्रयोः पूर्वमन्त्रेष्विव कश्चित्प्रसिद्धतरः अर्थो न प्रतीयते । अतः एतन्मन्त्रद्वयं अनिरुक्तं अविस्पष्टार्थम् । प्रजापतिश्च ‘अनिरुक्तो वै’ सर्वजगदात्मकत्वात्, एकरूपत्वेन निर्वक्तुमशक्यः । अतः अनिरुक्तेन अनेन मन्त्रद्वयेन ‘अनिरुक्तः’ प्रजापतिरुच्यते । स एव प्रजापतिर्यज्ञः ओश्रावयादिसप्तदशाक्षर रूपेण यज्ञे अवस्थानात् । तत्तथा च ‘एतत्’ एतेन मन्त्रद्वयेन प्राजपत्यात्मकमेव ‘यज्ञं भिषज्यति’ चिकित्सति ॥ १५ ॥

Eggeling
  1. ‘To the Navel hail! To the Purified one 6 hail!’–This is undefined, for undefined is Prajāpati, and Prajāpati is the sacrifice: it is thus Prajāpati, the sacrifice, he thereby heals.

१६

विश्वास-प्रस्तुतिः

त्र᳘योदशैता ऽआ᳘हुतयो भवन्ति॥
त्र᳘योदशवै मा᳘साः सम्वत्सर᳘स्य सम्वत्सरः᳘ प्प्रजा᳘पतिः प्प्रजा᳘पतिर्य्यज्ञस्त᳘त्प्रजा᳘पतिमे᳘वैत᳘द्यज्ञ᳘म्भिषज्यति॥

मूलम् - श्रीधरादि

त्र᳘योदशैता ऽआ᳘हुतयो भवन्ति॥
त्र᳘योदशवै मा᳘साः सम्वत्सर᳘स्य सम्वत्सरः᳘ प्प्रजा᳘पतिः प्प्रजा᳘पतिर्य्यज्ञस्त᳘त्प्रजा᳘पतिमे᳘वैत᳘द्यज्ञ᳘म्भिषज्यति॥

मूलम् - Weber

त्र᳘योदशैता आ᳘हुतयो भवन्ति॥
त्र᳘योदश वै मा᳘साः सम्वत्सर᳘स्य सम्वत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञस्त᳘त्प्रजा᳘पतिमेॗवैत᳘द्यज्ञ᳘म् भिषज्यति॥

मूलम् - विस्वरम्

त्रयोदशैता आहुतयो भवन्ति । त्रयोदश वै मासाः संवत्सरस्य । संवत्सरः प्रजापतिः । प्रजापतिर्यज्ञः । तत् प्रजापतिमेवैतत् यज्ञं भिषज्यति ॥ १६ ॥

सायणः

इत्थं “पृथिव्यै स्वाहा” इति त्रयोदशमन्त्राणां भैषज्यहेतुत्वव्याख्यानेन प्रायश्चित्तविनियोगमात्रत्वमुक्तम् । अथ तन्मन्त्रसाध्यहोमं विधाय स्तौति- त्रयोदशैता ऽआहुतयो** 7 भवन्ति० भिषज्यतीति । ‘एताः’ “पृथिव्यै स्वाहा” इत्यादिमन्त्रसाध्यास्त्रयोदशाज्याहुतीर्जुहोति 8 । महावीरभेदनप्रायश्चित्तार्थं कुर्यादित्यर्थः । ‘संवत्सरस्य त्रयोदश वै मासाः’ चैत्राद्या द्वादश, त्रयोदशो ऽधिकमासः । अत आहुतीनां त्रयोदशसंख्यासाम्येन त्रयोदशमासात्मकः संवत्सर एव संपादितो भवति । स एव ‘संवत्सरः प्रजापतिः’ अण्डकटाहमध्ये सम्वत्सरपर्यन्तं गर्भरूपेण तस्यावस्थानात् । एतच्चोत्तरस्मिन्नध्याये 9 स्पष्टयिष्यते । स एव ‘प्रजापतिर्यज्ञः’ इत्युक्तम् । तत्तस्मात् प्रजापत्यात्मकमेव ‘यज्ञं’ ‘एतत्’ एतया त्रयोदशसंख्यया उक्तेन पारम्पर्येण ‘भिषज्यति’ ॥ १६ ॥

Eggeling
  1. These are thirteen oblations,–for there are thirteen months in the year, and the year is Prajāpati, and Prajāpati is the sacrifice: it is thus Prajāpati, the sacrifice, he thereby heals.

१७

विश्वास-प्रस्तुतिः

व्वाचे स्वाहे᳘ति॥
मु᳘खमे᳘वास्मिन्नेत᳘द्दधाति प्प्राणा᳘य स्वा᳘हा प्प्राणा᳘य स्वाहे᳘ति ना᳘सिके ऽए᳘वास्मिन्नेत᳘द्दधाति च᳘क्षुषे स्वा᳘हा च᳘क्षुषे स्वाहेत्य᳘क्षिणी ऽए᳘वास्मिन्नेत᳘द्दधाति श्रो᳘त्राय स्वा᳘हा श्रो᳘त्राय स्वाहे᳘ति क᳘र्ण्णावे᳘वास्मिन्नेत᳘द्दधाति॥

मूलम् - श्रीधरादि

व्वाचे स्वाहे᳘ति॥
मु᳘खमे᳘वास्मिन्नेत᳘द्दधाति प्प्राणा᳘य स्वा᳘हा प्प्राणा᳘य स्वाहे᳘ति ना᳘सिके ऽए᳘वास्मिन्नेत᳘द्दधाति च᳘क्षुषे स्वा᳘हा च᳘क्षुषे स्वाहेत्य᳘क्षिणी ऽए᳘वास्मिन्नेत᳘द्दधाति श्रो᳘त्राय स्वा᳘हा श्रो᳘त्राय स्वाहे᳘ति क᳘र्ण्णावे᳘वास्मिन्नेत᳘द्दधाति॥

मूलम् - Weber

वाचे स्वाहे᳘ति॥
मु᳘खमेॗवास्मिन्नेत᳘द्दधाति प्राणा᳘य स्वा᳘हा प्राणा᳘य स्वाहे᳘ति ना᳘सिके एॗवास्मिन्नेत᳘द्दधाति च᳘क्षुषे स्वा᳘हा च᳘क्षुषे स्वाहेत्य᳘क्षिणी एॗवास्मिन्नेत᳘द्दधाति श्रो᳘त्राय स्वा᳘हा श्रो᳘त्राय स्वाहे᳘ति क᳘र्णावेॗवास्मिन्नेत᳘द्दधाति॥

मूलम् - विस्वरम्

“वाचे स्वाहा”- इति । मुखमेवास्मिन्नेतद्दधाति । “प्राणाय स्वाहा प्राणाय स्वाहा’- इति । नासिके एवास्मिन्नेतद्दधाति । “चक्षुषे स्वाहा चक्षुषे स्वाहा”- इति । अक्षिणी एवास्मिन्नेतद्दधाति । “श्रोत्राय स्वाहा श्रोत्राय स्वाहा”- (वा. सं. ३९ । ३) इति । कर्णावेवास्मिन्नेतत् दधाति ॥ १७ ॥

सायणः

अथान्याः सप्ताहुतीराधास्यन् तन्मन्त्रान् क्रमेण व्याचष्टे- तत्र प्रथमं मन्त्रमनूद्य, तल्लभ्यं प्रयोजनं दर्शयति- वाचे स्वाहेति मुखमेवास्मिन्नेतद्दधातीति । मन्त्रे वाक्शब्देन मुखे अवस्थितस्य वागिंद्रियस्याभिधानात् अस्मिन्महावीरे तदिन्द्रियविशिष्टं मुखमास्यमेव एतेन मन्त्रेण ‘दधाति’ स्थापयति । अथ द्वितीयतृतीयमन्त्रौ अनूद्य व्याचष्टे- प्राणाय स्वाहा प्राणाय स्वाहेति नासिके एवास्मिन्नेतद्दधाति इति । प्राणः प्राणनव्यापारेण सह वर्तमानं प्राणेन्द्रियं तत्र नासिकयोर्वर्तते । अधिष्ठानद्वयविशिष्टप्राणस्य मन्त्राभ्यां प्रतिपादनात् प्राणेन्द्रियाधिष्ठिते ‘नासिके’ एवास्मिन् महावीरे स्थापितवान् भवति । अथ चतुर्थपञ्चमौ मन्त्रौ अनूद्य व्याचष्टे- चक्षुषे स्वाहा चक्षुषे स्वाहेत्यक्षिणी एवास्मिन्नेतद्दधाति इति । अनेन मन्त्रद्वयेन क्रमेण गोलकद्वयवर्तिचक्षुरिन्द्रियप्रतिपादकेन अस्मिन्महावीरे ‘अक्षिणी’ चक्षुरिन्द्रियविशिष्टे अक्षिमण्डले एव स्थापयति । अथ षष्ठसप्तमौ मन्त्रौ अनूद्य व्याचष्टे- श्रोत्राय स्वाहा श्रोत्राय स्वाहेति कर्णावेवास्मिन्नेतद्दधाति इति । अनेन मन्त्रद्वयेन कर्णशष्कुलीद्वयविशिष्टश्रोत्रेन्द्रियप्रतिपादकेन श्रोत्रेन्द्रियविशिष्टौ ‘कर्णौ एव’ अस्मिन्महावीरे स्थापयति ॥ १७ ॥

Eggeling
  1. [Vāj. S. XXXIX, 3,] ‘To the Voice hail!’–a mouth he thereby gives to it;–’to the Breath hail! to the Breath hail!’–two nostrils (a nose) he thereby gives to it;–’to the Eye hail! to the Eye hail!’–two eyes he thereby gives to it;–’to the Ear hail! to the Ear hail!’–two ears he thereby gives to it.

१८

विश्वास-प्रस्तुतिः

स᳘प्तैता आ᳘हुतयो भवन्ति॥
सप्त वा᳘ ऽइमे᳘ शीर्ष्ष᳘न्प्राणास्ता᳘ने᳘वास्मिन्नेत᳘द्दधाति पूर्ण्णाहुति᳘मुत्तमा᳘ञ्जुहोति स᳘र्व्वम्वै᳘ पूर्ण्णᳫँ᳭ स᳘र्व्वेणै᳘वैत᳘द्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य॥

मूलम् - श्रीधरादि

स᳘प्तैता आ᳘हुतयो भवन्ति॥
सप्त वा᳘ ऽइमे᳘ शीर्ष्ष᳘न्प्राणास्ता᳘ने᳘वास्मिन्नेत᳘द्दधाति पूर्ण्णाहुति᳘मुत्तमा᳘ञ्जुहोति स᳘र्व्वम्वै᳘ पूर्ण्णᳫँ᳭ स᳘र्व्वेणै᳘वैत᳘द्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य॥

मूलम् - Weber

सॗप्तैता आ᳘हुतयो भवन्ति॥
सप्त वा᳘ इमे᳘ शीर्ष᳘न्प्राणास्ता᳘नेॗवास्मिन्नेत᳘द्दधाति पूर्णाहुति᳘मुत्तमां᳘ जुहोति स᳘र्वम् वै᳘ पूर्णᳫं स᳘र्वेणैॗवैत᳘द्भिषज्यति यत्किं᳘ च वि᳘वृढं यज्ञ᳘स्य॥

मूलम् - विस्वरम्

सप्तैता आहुतयो भवन्ति । सप्त वा इमे शीर्षन्प्राणाः । तानेवास्मिन्नेतद्दधाति । पूर्णाहुतिमुत्तमां जुहोति । सर्वं वै पूर्णम् । सर्वेणैवैतद्भिषज्यति । यत् किञ्च विवृढं यज्ञस्य ॥ १८ ॥

सायणः

अथ एतन्मन्त्रसामर्थ्यहोमं विधाय सप्तसङ्ख्याद्वारेण स्तौति- सप्तैता आहुत० द्दधाति इति । ‘एताः’ “वाचे स्वाहा” “इत्यादिमन्त्रसाध्याः सप्तसङ्ख्याः आहुतीर्जुहोति । ‘सप्त’ खलु ‘इमे, शीर्षन्’ शीर्ष्णि ‘प्राणाः’ इन्द्रियाणि । मुखं, नासिके, चक्षुषी, श्रोत्रे चेति गोलकभेदात् तेषां सप्तत्वम् । अतः एतैर्होमैः ‘तानेव’ प्राणान् अस्मिन्महावीरे स्थापयति । पूर्णाहुतिमुत्तमां जुहोतीति । आज्यपूर्णया स्रुचा “मनसः काममाकृतिम्” इति पूर्णाहुतिं जुहुयादित्यर्थः । तदेतत् स्तौति- सर्वं वै पूर्णं० विवृढं यज्ञस्येति । एतत् प्रथमपूर्णाहुतिवाक्यशेषवत् व्याख्येयम् ॥ १८ ॥

Eggeling
  1. These are seven oblations,–now seven in number are these vital airs in the head: it is them he thereby gives to it. He offers a last oblation of a full (spoon),–the full means everything:

with everything he thus heals whatever has been unsuccessful in the sacrifice,–

१९

विश्वास-प्रस्तुतिः

म᳘नसः का᳘ममा᳘कूतिमि᳘ति॥
म᳘नसा वा᳘ ऽइदᳫँ᳭ स᳘र्व्वमाप्तन्तन्म᳘नसै᳘वैत᳘द्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य॥

मूलम् - श्रीधरादि

म᳘नसः का᳘ममा᳘कूतिमि᳘ति॥
म᳘नसा वा᳘ ऽइदᳫँ᳭ स᳘र्व्वमाप्तन्तन्म᳘नसै᳘वैत᳘द्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य॥

मूलम् - Weber

म᳘नसः का᳘ममा᳘कूतिमि᳘ति॥
म᳘नसा वा᳘ इदᳫं स᳘र्वमाप्तं तन्म᳘नसैॗवैत᳘द्भिषज्यति यत्किं᳘ च वि᳘वृढं 10 यज्ञ᳘स्य॥

मूलम् - विस्वरम्

“मनसः काममाकूतिम्”- इति । मनसा वा इदं सर्वमाप्तम् । तन्मनसैवैतद्भिषज्यति । यत्किञ्च विवृढं यज्ञस्य ॥ १९ ॥

सायणः

अथ पूर्णाहुतिमन्त्रस्यास्य प्रथमं पादमनूद्य व्याचष्टे- मनसः काममा० विवृढं यज्ञस्येति । अस्मिन्पादे ‘मनसः’ इति मनः प्रतिपाद्यते । तेन च ‘मनसा’ ‘इदं सर्वं’ जगद् व्याप्तम् । न हि अविषयं मनसः किञ्चिदस्ति । तत्तथा च सर्वव्यापकेन ‘मनसैव’ एतद्विकलं ‘भिषज्यति’ । ‘यत्किञ्च’ यत्किमपि अङ्गजातं यज्ञसम्बन्धि विकलमासीदित्यर्थः ॥ १९ ॥

Eggeling
  1. With (Vāj. S. XXXIX, 4), ‘The mind’s purpose,’–by the mind, indeed, everything is gained here: by the mind he thus heals whatever has been unsuccessful in the sacrifice;–

२०

विश्वास-प्रस्तुतिः

व्वाचः᳘ सत्य᳘मशीये᳘ति॥
व्वाचा वा᳘ ऽइदᳫँ᳭ स᳘र्व्वमाप्तन्त᳘द्वा᳘चै᳘वैत᳘द्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य पशूना᳘ᳫँ᳘ रूपम᳘न्नस्य र᳘सो य᳘शः श्रीः᳘ श्रयतां म᳘यि स्वाहे᳘त्याशि᳘षमे᳘वैतदा᳘शास्ते॥

मूलम् - श्रीधरादि

व्वाचः᳘ सत्य᳘मशीये᳘ति॥
व्वाचा वा᳘ ऽइदᳫँ᳭ स᳘र्व्वमाप्तन्त᳘द्वा᳘चै᳘वैत᳘द्भिषज्यति यत्कि᳘ञ्च व्वि᳘व्वृढं यज्ञ᳘स्य पशूना᳘ᳫँ᳘ रूपम᳘न्नस्य र᳘सो य᳘शः श्रीः᳘ श्रयतां म᳘यि स्वाहे᳘त्याशि᳘षमे᳘वैतदा᳘शास्ते॥

मूलम् - Weber

वाचः᳘ सत्य᳘मशीये᳘ति॥
वाचा वा᳘ इदᳫं स᳘र्वमाप्तं त᳘द्वाॗचैॗवैत᳘द्भिषज्यति यत्किं᳘ च वि᳘वृढं 11 यज्ञ᳘स्य पशूनां᳘ रूपम᳘न्नस्य र᳘सो य᳘शः श्रीः᳘ श्रयताम् म᳘यि स्वाहे᳘त्याशि᳘षमेॗवैतदा᳘शास्ते॥

मूलम् - विस्वरम्

“वाचः सत्यमशीय”- इति । वाचा वा इदं सर्वमाप्तम् । तद्वाचैवैतत् भिषज्यति । यत्किञ्च विवृढं यज्ञस्य । “पशूनां रूपमन्नस्य रसो यशः श्रीः श्रयतां मयि स्वाहा”- (वा. सं. ३९ । ४) इति । आशिषमेवैतदाशास्ते ॥ २० ॥

सायणः

अथ द्वितीयं पादमनूद्य व्याचष्टे- वाचः सत्यमशीयेति० विवृढं यज्ञस्येति । “वचः सत्यमशीय” इत्यस्मिन्पादे वाक् प्रतिपाद्यते । तया च ‘वाचा’ वागिन्द्रियेण, अभिवदनव्यवहारद्वारा ‘इदं सर्वं’ जगत् ‘आप्तं’ व्याप्तम् । न हि शब्दस्याविषयं किञ्चिद्वस्तु लोके दृश्यते । गतमन्यत् । अथोत्तरार्द्धमनूद्य तात्पर्यमाह- पशूनाँ रूप० तदाशास्ते इति । गवादिपशूनां सम्बन्धि यद्रूपं ‘अन्नस्य’ च यः ‘रसः’ यच्च ‘यशः’ कीर्तिः या च ‘श्रीः’ संपत् तत्सर्वं ‘मयि श्रयतां’ सेवताम् इत्यस्यार्थस्य प्रतिपादकत्वात् अनेनार्थेन एतादृशीमाशिषमेव ‘आशास्ते’ आशंसते ॥ २० ॥

Eggeling
  1. ‘The truth of speech may I freely obtain,’–by speech everything is gained here: by speech he thus heals whatever has been unsuccessful in the sacrifice;–‘may the form of cattle, the essence of food, fame, and prosperity accrue unto me, hail!’–a blessing he thereby invokes.

२१

विश्वास-प्रस्तुतिः

(स्ते᳘ ऽथ) अ᳘थ त᳘ञ्चोपशया᳘ञ्च पिष्ट्वा᳘॥
मार्त्स्न᳘या मृदा᳘ सᳫँ᳭सृ᳘ज्याव्वृ᳘ता करोत्याव्वृ᳘ता पचत्युत्सा᳘दनार्थम᳘थ य ऽउपशय᳘योर्दृ᳘ढः[[!!]] स्यात्ते᳘न प्प्र᳘चरेत्॥

मूलम् - श्रीधरादि

(स्ते᳘ ऽथ) अ᳘थ त᳘ञ्चोपशया᳘ञ्च पिष्ट्वा᳘॥
मार्त्स्न᳘या मृदा᳘ सᳫँ᳭सृ᳘ज्याव्वृ᳘ता करोत्याव्वृ᳘ता पचत्युत्सा᳘दनार्थम᳘थ य ऽउपशय᳘योर्दृ᳘ढः[[!!]] स्यात्ते᳘न प्प्र᳘चरेत्॥

मूलम् - Weber

अ᳘थ तं᳘ चोपशयां᳘ च पिष्ट्वा᳟॥
मार्त्स्न᳘या 12 मृदा᳘ संसृ᳘ज्यावृ᳘ता करोत्यावृ᳘ता पचत्युत्सा᳘दनार्थम᳘थ य᳘ उपशय᳘योर्दृ᳘ढः स्यात्ते᳘न प्र᳘चरेत्॥

मूलम् - विस्वरम्

अथ तं चोपशयां च पिष्ट्वा, मार्त्स्नया मृदा संसृज्य, आवृता करोति । आवृता पचति । उत्सादनार्थम् । अथ य उपशययोर्दृढः स्यात् । तेन प्रचरेत् ॥ २१ ॥

सायणः

एवं महावीरस्य भेदननिमित्तप्रायश्चित्तं कृत्वा पुनस्तस्य 13 निर्माणमनुष्ठानप्रकारं च दर्शयति- अथ तं चोपशयां च पिष्ट्वा तेन प्रचरेदिति । ‘अथ’ एवं प्रायश्चित्तकरणानन्तरं ‘तं च’ भिन्नं महावीरं ‘उपशयां च’ पुरा महावीरनिर्माणकाले या मृत् तदर्थकत्वेन स्थापिता तां च ‘पिष्ट्वा’ चूर्णीकृत्य ‘मार्त्स्नया मृदा’ घटशरावाद्युपादानभूता लौकिकी मृत् मृत्स्ना तत्सम्बन्धिन्या ‘मृदा’ चूर्णीकृतं ‘संसृज्य’ मिश्रीकृत्य ‘आवृता’ क्रियया ‘करोति’ । येन प्रकारेण पूर्वं महावीरः कृतः तेनैव प्रकारेण तं भिन्नं महावीरं पुनः कुर्यादित्यर्थः । “आवृता पचति” इत्येतदप्येवं योज्यम् । तत्किमर्थं पुनः तस्य करणमिति चेदुच्यते- ‘उत्सादनार्थं’ उद्वासनार्थम् । एवं महावीरं पुनः कृत्वा अथानन्तरं ‘यः’ महावीरः उपशयासमीपे शयानः यः प्रचरणीयः द्वितीयस्तृतीयो वा महावीरः ‘दृढः’ प्रचरणसमर्थो दृढावयवः स्यात् तेनोपशयेन महावीरेण भेदनात् ऊर्ध्वभाविना प्रवर्ग्येण ‘प्रचरेत्’ 14 ॥ २१ ॥

Eggeling
  1. Thereupon, having pounded that spare (clay), and mixed it with powdered clay, he makes (a pot) in proper form, and bakes it in proper form for the purpose of the ‘setting out’; and let him perform (the sacrifice) with whichever of the two reserve (pots) may be firm.

२२

विश्वास-प्रस्तुतिः

(त्स) सम्वत्सरो वै᳘ प्रव᳘र्ग्यः॥
स᳘र्व्वम्वै᳘ सम्वत्सरः स᳘र्व्वम्प्रव᳘र्ग्यः स यत्प्र᳘वृक्तस्त᳘द्वसन्तो य᳘द्रुचितस्त᳘द्ग्रीष्मो य᳘त्पिन्वितस्त᳘द्वर्षा᳘ यदा वै᳘ व्वर्षाः पि᳘न्वन्ते᳘ ऽथैनाः स᳘र्व्वे देवाः स᳘र्व्वाणि भूतान्युपजीवन्ति[[!!]] पि᳘न्वन्ते ह वा᳘ ऽअस्मै व्वर्षा य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - श्रीधरादि

(त्स) सम्वत्सरो वै᳘ प्रव᳘र्ग्यः॥
स᳘र्व्वम्वै᳘ सम्वत्सरः स᳘र्व्वम्प्रव᳘र्ग्यः स यत्प्र᳘वृक्तस्त᳘द्वसन्तो य᳘द्रुचितस्त᳘द्ग्रीष्मो य᳘त्पिन्वितस्त᳘द्वर्षा᳘ यदा वै᳘ व्वर्षाः पि᳘न्वन्ते᳘ ऽथैनाः स᳘र्व्वे देवाः स᳘र्व्वाणि भूतान्युपजीवन्ति[[!!]] पि᳘न्वन्ते ह वा᳘ ऽअस्मै व्वर्षा य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - Weber

संवत्सरो वै᳘ प्रव᳘र्ग्यः॥
स᳘र्वम् वै᳘ संवत्सरः स᳘र्वम् प्रव᳘र्ग्यः स यत्प्र᳘वृक्तस्त᳘द्वसन्तो य᳘द्रुचितस्त᳘द्ग्रीष्मो य᳘त्पिन्वितस्त᳘द्वर्षा᳘ यदा वै᳘ वर्षाह् पि᳘न्वन्ते᳘ऽथैनाः स᳘र्वे देवाः स᳘र्वाणि भूतान्यु᳘पजीवन्ति पि᳘न्वन्ते ह वा᳘अस्मै वर्षा य᳘ एव᳘मेतद्वे᳘द॥

मूलम् - विस्वरम्

अथ प्रवर्ग्यस्तुतिः ।

सम्वत्सरो वै प्रवर्ग्यः । सर्वं वै सम्वत्सरः । सर्वं प्रवर्ग्यः । स यत् प्रवृक्तः, तद्वसंतः । यत् रुचितः, तत् ग्रीष्मः । यत् पिन्वितः, तद्वर्षाः । यदा वै वर्षाः पिन्वन्ते । अथैनाः सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति । पिन्वन्ते ह वा अस्मै वर्षाः । य एवमेतद्वेद ॥ २२ ॥

सायणः

अथैतं प्रवर्ग्यं संवत्सरात्मना स्तौति- सम्वत्सरो वै प्रवर्ग्यः० न्युपजीवन्तीति । सम्वत्सरात्मकः खलु अयं ‘प्रवर्ग्यः’ । स च सम्वत्सरः ‘सर्वं वै’ सर्ववस्त्वात्मकः । कृत्स्नस्य जगतः कालनिवर्त्यत्वात् । अथवा कलामुहूर्तादिसर्वकालावयवसमुदायात्मकः खलु स सम्वत्सरः । तदात्मको ऽयं ‘प्रवर्ग्यः’ । कुत इत्यत आह- स यत्प्रवृक्त इत्यादि । ‘सः’ प्रवर्ग्यः यद्यदा ‘प्रवृक्तः’ पयस आसेचनेन प्रवृज्यते तत्तदा ‘वसन्तः’ सम्वत्सरावयवभूतवसन्तर्त्वात्मको भवति । यद्यदा ‘रुचितः’ समिन्धनेन सन्दीपितः तत्तदा असौ प्रवर्ग्यः ‘ग्रीष्मः’ ग्रीष्मर्त्वात्मको भवति । यद्यदा स घर्म्मः ‘पिन्वितः’ आहवनीये पिन्वनेन हुतो भवति । तत्तदा ‘वर्षाः’ वर्षर्त्वात्मको भवति । “अप्सु मनस्समासिकतावर्षाणां बहुत्वं च” (पा. लि. अ. २९) इति ह्यधिकारे वचनात् एकस्मिन्नपि ऋतौ वर्षा इति बहुवचनम् । ‘यदा वै’ यस्मिन् काले खलु ‘वर्षाः’ ‘पिन्वन्ते’ वर्षर्तुः सिञ्चति वृष्टिम् । अथानन्तरमेव ‘एनाः’ वर्षोद्भवा अपः ‘सर्वे देवाः’ ‘सर्वाणि’ चान्यानि पशुपक्षिमृगादीनि भूतजातानि ‘उपजीवन्ति’ । पिबन्ति एवमेव पिन्वितं घर्मं सर्वे देवा उपजीवन्तीत्यर्थः । अथैतद्वेदितुः फलमाह- पिन्वन्ते ह वा० मेतद्वेदेति । ‘अस्मै’ वेदित्रे ‘वर्षाः पिन्वन्ते’ वर्षर्तुः वृष्ट्युदकं सिञ्चति खलु । ‘यः’ एवमुक्तप्रकारेण घर्म्मस्य ‘एतत्’ वर्षर्त्वात्मकत्वं ‘वेद’ ॥ २२ ॥

Eggeling
  1. The Pravargya, indeed, is the year; for the year is everything, and the Pravargya is everything: when it is placed on the fire then it is spring; when it is burning-hot then it is summer; when it is flowing over then it is the rainy season;–but, indeed, when the rains overflow, all the gods and all beings subsist thereon; and, verily, the rains overflow for him who thus knows this.

२३

विश्वास-प्रस्तुतिः

(दे) इमे वै᳘ लोकाः᳘ प्प्रव᳘र्ग्यः॥
स᳘र्व्वम्वा᳘ इमे᳘ लोकाः स᳘र्व्वम्प्रव᳘र्ग्यः स यत्प्र᳘व्वृक्तस्त᳘दयं᳘ लोको य᳘द्रुचितस्त᳘दन्तरिक्षलोको य᳘त्पिन्वितस्त᳘दसौ᳘ लोको᳘ यदा वा᳘ ऽअसौ᳘ लोकः पि᳘न्वते᳘ ऽथैनᳫँ᳭ स᳘र्व्वे देवाः स᳘र्व्वाणि भूतान्यु᳘पजीवन्ति पि᳘न्वते ह वा᳘ ऽअस्मा ऽअसौ᳘ लोको य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - श्रीधरादि

(दे) इमे वै᳘ लोकाः᳘ प्प्रव᳘र्ग्यः॥
स᳘र्व्वम्वा᳘ इमे᳘ लोकाः स᳘र्व्वम्प्रव᳘र्ग्यः स यत्प्र᳘व्वृक्तस्त᳘दयं᳘ लोको य᳘द्रुचितस्त᳘दन्तरिक्षलोको य᳘त्पिन्वितस्त᳘दसौ᳘ लोको᳘ यदा वा᳘ ऽअसौ᳘ लोकः पि᳘न्वते᳘ ऽथैनᳫँ᳭ स᳘र्व्वे देवाः स᳘र्व्वाणि भूतान्यु᳘पजीवन्ति पि᳘न्वते ह वा᳘ ऽअस्मा ऽअसौ᳘ लोको य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - Weber

इमे वै᳘ लोकाः᳘ प्रव᳘र्ग्यः॥
स᳘र्वम् वा᳘ इमे᳘ लोकाः स᳘र्वम् प्रव᳘र्ग्यः स यत्प्र᳘वृक्तस्त᳘दयं᳘ लोको य᳘द्रुचितस्त᳘दन्तरिक्षलोको य᳘त्पिन्वितस्त᳘दसौ᳘ लोको᳘ यदा वा᳘ असौ᳘ लोकः पि᳘न्वते᳘ऽथैनᳫं स᳘र्वे देवाः स᳘र्वाणि भूतान्यु᳘पजीवन्ति पि᳘न्वते ह वा᳘ अस्म्: असौ᳘ लोको य᳘ एव᳘मेतद्वे᳘द॥

मूलम् - विस्वरम्

इमे वै लोकाः प्रवर्ग्यः । सर्वं वा इमे लोकाः । सर्वं प्रवर्ग्यः । स यत् प्रवृक्तः, तदयं लोकः । यदुचितः, तदन्तरिक्षलोकः । यत् पिन्वितः, तदसौ लोकः । यदा वा असौ लोकः पिन्वते । अथैनं सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति । पिन्वते ह वा अस्मा असौ लोकः । य एवमेतद्वेद ॥ २३ ॥

सायणः

अथैतं प्रवर्ग्यं लोकत्रयात्मना स्तौति- इमे वै लोकाः प्रवर्ग्यः सर्वं वा० जीवन्तीति । ‘इमे’ पृथिव्यादयः ‘लोकाः’ खलु ‘प्रवर्ग्यः’ । कथं लोकत्रयस्य प्रवर्ग्यस्य च तादात्म्यमुच्यते ? इति ब्रूमः । ‘इमे’ पृथिव्यादयः ‘लोकाः’ ‘सर्वं वै’ संपूर्णं सर्ववस्त्वाश्रयभूता इत्यर्थः । प्रवर्ग्यश्च ‘सर्वं’ सर्वजगदात्मकः । अतः सर्वात्मकत्वसाम्यात् उभयोस्तादात्म्यमेव । अपि च- यद्यदा ‘प्रवृक्तः’ तत्तदा ‘अयं लोकः’ पृथिव्यात्मको भवति । यद्यदा ‘रुचितः’ तदा अन्तरिक्षलोकात्मको भवति । यद्यदा ‘पिन्वितः’ तदा ‘असौ’ द्युलोकात्मको भवति । प्रवृक्तरुचितपिन्वितशब्दानामर्थाः पूर्वमेवोक्ताः । ‘यदा’ खलु ‘असौ’ द्युलोकः ‘पिन्वते’ स्वसम्बन्धिफलमुत्पादयति । अथानन्तरं ‘एनं’ द्युलोकात्मकं प्रवर्ग्यं ‘सर्वे देवाः’ ‘सर्वाणि’ च ‘भूतान्युपजीवन्ति’ । अथैतद्वेदितुः फलमाह- पिन्वते ह वा० तद्वेदेति । पूर्ववत् योज्यम् ॥ २३ ॥

Eggeling
  1. The Pravargya, indeed, is these worlds, for these worlds are everything, and the Pravargya is everything: when it is placed on the fire then it is this (terrestrial) world; when it is burning-hot then it is the air-world; and when it flows over then it is yonder (heavenly) world;–but,

indeed; when yonder world overflows, all the gods and all beings subsist thereon; and, verily, yonder world overflows for him who thus knows this.

२४

विश्वास-प्रस्तुतिः

(दै) एता वै᳘ देव᳘ताः प्प्रव᳘र्ग्यः॥
(र्ग्यो ऽग्नि) अग्नि᳘र्व्वायु᳘रादित्यः स᳘र्व्वम्वा᳘ ऽएता᳘ देव᳘ताः स᳘र्व्वम्प्रव᳘र्ग्यः स यत्प्र᳘व्वृक्तस्त᳘दग्निर्य्य᳘द्रुचितस्त᳘द्वायुर्य्य᳘त्पिन्वितस्त᳘दसा᳘वादित्यो᳘ यदा वा᳘ ऽअसा᳘वादित्यःपि᳘न्वते᳘ ऽथैनᳫँ᳭ स᳘र्व्वे देवाः स᳘र्व्वाणि भूतान्यु᳘पजीवन्ति पि᳘न्वते ह वा᳘ ऽअस्मा ऽअसा᳘वादित्यो य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - श्रीधरादि

(दै) एता वै᳘ देव᳘ताः प्प्रव᳘र्ग्यः॥
(र्ग्यो ऽग्नि) अग्नि᳘र्व्वायु᳘रादित्यः स᳘र्व्वम्वा᳘ ऽएता᳘ देव᳘ताः स᳘र्व्वम्प्रव᳘र्ग्यः स यत्प्र᳘व्वृक्तस्त᳘दग्निर्य्य᳘द्रुचितस्त᳘द्वायुर्य्य᳘त्पिन्वितस्त᳘दसा᳘वादित्यो᳘ यदा वा᳘ ऽअसा᳘वादित्यःपि᳘न्वते᳘ ऽथैनᳫँ᳭ स᳘र्व्वे देवाः स᳘र्व्वाणि भूतान्यु᳘पजीवन्ति पि᳘न्वते ह वा᳘ ऽअस्मा ऽअसा᳘वादित्यो य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - Weber

एता वै᳘ देव᳘ताः प्रव᳘र्ग्यः॥
अग्नि᳘र्वायु᳘रादित्यः स᳘र्वम् वा᳘ एता᳘ देव᳘ता स᳘र्वम् प्रव᳘र्ग्यः स यत्प्र᳘वृक्तस्त᳘दग्निर्य᳘द्रुचितस्त᳘द्वायुर्य᳘त्पिन्वितस्त᳘दसा᳘वादित्यो᳘ यदा वा᳘ असा᳘वादित्यःपि᳘न्वते᳘ऽथैनᳫं स᳘र्वे देवाः स᳘र्वाणि भूतान्यु᳘पजीवन्ति पि᳘न्वते ह वा᳘ अस्मा असा᳘वादित्यो य᳘ एव᳘मेतद्वे᳘द॥

मूलम् - विस्वरम्

एता वै देवताः प्रवर्ग्यः । अग्निर्वायुरादित्यः । सर्वं वा एता देवताः । सर्वं प्रवर्ग्यः । स यत् प्रवृक्तः, तदग्निः । यदुचितः, तद्वायुः । यत् पिन्वितः, तदसावादित्यः । यदा वा असावादित्यः पिन्वते । अथैनं सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति । पिन्वते ह वा अस्मा असावादित्यः । य एवमेतद्वेद ॥ २४ ॥

सायणः

अथेमं प्रवर्ग्यं अग्निवाय्वादित्यात्मना स्तौति- एता वै देवताः प्रव० जीवन्तीति । अग्निर्वायुरादित्य इति पूर्वोक्तलोकत्रयाभिमानिन्यो या देवताः । ‘एताः’ खलु ‘देवताः’ ‘प्रवर्ग्यः’ । एतद्देवतात्रयात्मक इत्यर्थः । कुतः ? ‘एताः’ अग्न्यादिदेवताः ‘सर्वं वै’ स्वमहिम्ना सर्वजगदात्मिकाः । प्रवर्ग्यश्च सर्वम् । अतः सार्वात्म्येन तादात्म्यम् । अपि च- ‘सः’ घर्म्मो यद्यदा ‘प्रवृक्तः’ तत्तदा ‘अग्निः’ अग्न्यात्मको भवति । यद्यदा ‘रुचितः’ तत्तदा वाय्वात्मकः । यद्यदा ‘पिन्वितः’ तत्तदा असावादित्यात्मकः द्युलोकस्थः सूर्य एव भवति । ‘यदा’ खलु ‘असौ’ आदित्यात्मकः प्रवर्ग्यः ‘पिन्वते’ । अथानन्तरमेवेत्यादि पूर्ववत् । अथैतद्वेदनफलमाह- पिन्वते ह वा० तद्वेदेति । गतमेतत् ॥ २४ ॥

Eggeling
  1. The Pravargya, indeed, is those deities–Agni, Vāyu, and Āditya; for those deities are everything, and the Pravargya is everything: when it is placed on the fire then it is Agni; when it is burning-hot then it is Vāyu (the wind); and when it flows over then it is Āditya (the sun);–but, indeed, when yonder sun overflows, all the gods and all beings subsist upon him; and, verily, yonder sun overflows for him who thus knows this.

२५

विश्वास-प्रस्तुतिः

य᳘जमानो वै᳘ प्प्रव᳘र्ग्यः॥
(स्त᳘) त᳘स्यात्मा᳘ प्प्रजा᳘ पश᳘वः स᳘र्व्वम्वै य᳘जमानः स᳘र्व्वम्प्रव᳘र्ग्यः स यत्प्र᳘व्वृक्तस्त᳘दात्मा य᳘द्रुचितस्त᳘त्प्रजा य᳘त्पिन्वितस्त᳘त्पश᳘वो यदा वै᳘ पश᳘वः पि᳘न्वते᳘ ऽथैनान्त्स᳘र्व्वे देवाः स᳘र्व्वाणि भूतान्युपजीवन्ति[[!!]] पि᳘न्वन्ते ह वा᳘ ऽअस्मै पश᳘वो य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - श्रीधरादि

य᳘जमानो वै᳘ प्प्रव᳘र्ग्यः॥
(स्त᳘) त᳘स्यात्मा᳘ प्प्रजा᳘ पश᳘वः स᳘र्व्वम्वै य᳘जमानः स᳘र्व्वम्प्रव᳘र्ग्यः स यत्प्र᳘व्वृक्तस्त᳘दात्मा य᳘द्रुचितस्त᳘त्प्रजा य᳘त्पिन्वितस्त᳘त्पश᳘वो यदा वै᳘ पश᳘वः पि᳘न्वते᳘ ऽथैनान्त्स᳘र्व्वे देवाः स᳘र्व्वाणि भूतान्युपजीवन्ति[[!!]] पि᳘न्वन्ते ह वा᳘ ऽअस्मै पश᳘वो य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - Weber

य᳘जमानो वै᳘ प्रव᳘र्ग्यः॥
त᳘स्यात्मा᳘ प्रजा᳘ पश᳘वः स᳘र्वम् वै य᳘जमानः स᳘र्वम् प्रव᳘र्ग्यः स यत्प्र᳘वृक्तस्त᳘दात्मा य᳘द्रुचितस्त᳘त्प्रजा य᳘त्पिन्वितस्त᳘त्पश᳘वो यदा वै᳘ पश᳘वः पि᳘न्वते᳘ऽथैनान्त्स᳘र्वे देवाः स᳘र्वाणि भूतान्यु᳘पजीवन्ति पि᳘न्वन्ते ह वा᳘ अस्मै पश᳘वो य᳘ एव᳘मेतद्वे᳘द॥

मूलम् - विस्वरम्

यजमानो वै प्रवर्ग्यः । तस्यात्मा प्रजा पशवः । सर्वं वै यजमानः । सर्वं प्रवर्ग्यः । स यत् प्रवृक्तः, तदात्मा । यदुचितः, तत् प्रजा । यत्पिन्वितः, तत्पशवः । यदा वै पशवः पिन्वन्ते । अथैनान् सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति । पिन्वन्ते ह वा अस्मै पशवः । य एवमेतद्वेद ॥ २५ ॥

सायणः

अथैतं प्रवर्ग्यं यजमानात्मना स्तौति- यजमानो वै प्रवर्ग्य० न्युपजीवन्तीति । यजमानात्मकः खलु अयं ‘प्रवर्ग्यः’ । ‘तस्य’ च यजमानस्य ‘आत्मा प्रजा पशवः’ इति वस्तुत्रयमस्ति । तद्वस्तुत्रयात्मको ‘यजमानः’ ‘सर्वं वै’ सम्पूर्णः खलु । प्रवर्ग्यश्च सर्वम् । अनयोः सर्वत्वसाम्यात् तादात्म्यम् । अपि च- यद्यदा ‘सः’ प्रवर्ग्यः ‘प्रवृक्तः’ तत्तदा यजमानस्यात्मा भवति । यदा असौ ‘रुचितः’ तदा यजमानस्य प्रजात्मको भवति । यदा ‘पिन्वितः’ तदा प्रवर्ग्यो यजमानस्य पश्वात्मको भवति । ‘यदा’ खलु प्रवर्ग्यतादात्म्यमापन्नाः ‘पशवः पिन्वन्ते’ पयो दुहन्ति । अथानन्तरमेव ‘एनान्पशून्’ क्षीराद्युपभोगद्वारेण ‘सर्वे देवाः’ इत्यादि गतम् । अथैतद्वेदनफलमाह- पिन्वन्ते ह वा० तद्वेद इति । पूर्ववत् योज्यम् ॥ २५ ॥

Eggeling
  1. The Pravargya, indeed, is the Sacrificer, his own self, his offspring (or people) and cattle; for the Sacrificer is everything, and the Pravargya is everything when it is placed on the fire then it is his own self; when it is burning-hot then it is his offspring; and when it flows over then it is his cattle;–but, indeed, when the cattle overflow (with milk) all the gods and all beings subsist thereon; and, verily, the cattle overflow for him who thus knows this.

२६

विश्वास-प्रस्तुतिः

(दा) अग्निहोत्रम्वै᳘ प्प्रव᳘र्ग्यः॥
स᳘र्व्वम्वा᳘ ऽअग्निहोत्रᳫँ᳭ स᳘र्व्वम्प्रव᳘र्ग्यः स यद᳘धि᳘श्रितन्तत्प्र᳘व्वृक्तो यदु᳘न्नीतन्त᳘द्रुचितो य᳘द्धुतन्त᳘त्पिन्वितो᳘ यदा वा᳘ ऽअग्निहोत्रम्पि᳘न्वते᳘ ऽथैनत्स᳘र्व्वे देवाः स᳘र्व्वाणि भूतान्यु᳘पजीवन्ति पि᳘न्वते ह वा᳘ ऽअस्मा ऽअग्निहोत्रं य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - श्रीधरादि

(दा) अग्निहोत्रम्वै᳘ प्प्रव᳘र्ग्यः॥
स᳘र्व्वम्वा᳘ ऽअग्निहोत्रᳫँ᳭ स᳘र्व्वम्प्रव᳘र्ग्यः स यद᳘धि᳘श्रितन्तत्प्र᳘व्वृक्तो यदु᳘न्नीतन्त᳘द्रुचितो य᳘द्धुतन्त᳘त्पिन्वितो᳘ यदा वा᳘ ऽअग्निहोत्रम्पि᳘न्वते᳘ ऽथैनत्स᳘र्व्वे देवाः स᳘र्व्वाणि भूतान्यु᳘पजीवन्ति पि᳘न्वते ह वा᳘ ऽअस्मा ऽअग्निहोत्रं य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - Weber

अग्निहोत्रम् वै᳘ प्रव᳘र्ग्यः॥
स᳘र्वम् वा᳘अग्निहोत्रᳫं स᳘र्वम् प्रव᳘र्ग्यः स यद᳘धिश्रितं 15 तत्प्र᳘वृक्तो यदु᳘न्नीतं त᳘द्रुचितो य᳘द्धुतं त᳘त्पिन्वितो᳘ यदा वा᳘अग्निहोत्रम् पि᳘न्वते᳘ऽथैनत्स᳘र्वे देवाः स᳘र्वाणि भूतान्यु᳘पजीवन्ति पि᳘न्वते ह वा᳘ अस्मा अग्निहोत्रं य एव᳘मेतद्वे᳘द॥

मूलम् - विस्वरम्

अग्निहोत्रं वै प्रवर्ग्यः । सर्वं वा अग्निहोत्रम् । सर्वं प्रवर्ग्यः । स यदधिश्रितं, तत् प्रवृक्तः । यदुन्नीतं, तदुचितः । यद्धुतं तत्पिन्वितः । यदा वा अग्निहोत्रं पिन्वते । अथैनत् सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति । पिन्वते ह वा अस्मा अग्निहोत्रम् । य एवमेतद्वेद ॥ २६ ॥

सायणः

अथेमं अग्निहोत्रात्मना स्तौति- अग्निहोत्रं वै प्रवर्ग्य० न्युपजीवन्तीति । अग्निहोत्रात्मकं यत् कर्म सायंप्रातःकालयोरनुष्ठेयम्, तदात्मकः खलु असौ प्रवर्ग्यः । सर्वदेवताप्रीतिकरत्वात् ‘अग्निहोत्रं सर्वं’ सर्वात्मकम् । प्रवर्ग्यश्च यज्ञसाकल्यार्थत्वात् ‘सर्वं’ सर्वावस्थात्मकः । अत उभयोः सर्वत्वसाम्यात् तादात्म्यव्यपदेशः । अपि च- यद्यदा तु अग्निहोत्रार्थं पयः पाकार्थं अग्नावधिश्रितं भवति । तत्तदा ‘सः’ घर्मः ‘प्रवृक्तः’ । यद्यदा स्रुचि ‘उन्नीतं’ उन्नयनेन गृहीतं भवति । तत्तदा असौ ‘रुचितः’ भवति । यद्यदा तदग्निहोत्रार्थं पयः ‘हुतं’ भवति । तत्तदा असौ घर्मः ‘पिन्वितः’ सिक्तो भवति । अधिश्रयणोन्नयनहोमरूपेणाग्निहोत्रकर्मणो ऽनुष्ठानेन सायंप्रातःकालयोः प्रवृञ्जनरोचनपिन्वनात्मकः प्रवर्ग्य एवानुष्ठितो भवतीत्यर्थः । एवमग्निहोत्रस्य प्रवर्ग्यात्मना स्तुतौ सत्यां प्रवर्ग्यस्यापि अग्निहोत्रतादात्म्येन स्तुतिः सिद्धा भवति । सायंप्रातःकालयोः यदग्निहोत्रमनुष्ठीयते असावेव घर्म इति । ‘यदा’ खलु एतदग्निहोत्रात्मकं प्रवर्ग्यहविः ‘पिन्वते’ सिच्यते । अथानन्तरमेव ‘एनत्’ हविः ‘सर्वे देवाः’ इत्यादि समानं पूर्वेण । अथैतद्वेदितुः फलमाह- पिन्वते ह वा० तद्वेदेति । ‘यः’ खलु ‘एवं’ उक्तप्रकारेण ‘एतत्’ प्रवर्ग्यस्याग्निहोत्रात्मकत्वं ‘वेद’ जानाति ‘अस्मै’ तदग्निहोत्रं ‘पिन्वते’ फलं सिञ्चति प्रयच्छतीत्यर्थः ॥ २६ ॥

Eggeling
  1. The Pravargya, indeed, is the Agnihotra, for the Agnihotra is everything, and the Pravargya is everything: when it (the Agnihotra milk) is put on the fire then it is the (Gharma) placed thereon; when it is ladled out then it is the burning-hot (Gharma); and when it is offered then it is the overflowing (Gharma);–but, indeed, when the Agnihotra overflows all the gods and all beings subsist thereon; and, verily, the Agnihotra overflows for him who thus knows this.

२७

विश्वास-प्रस्तुतिः

दर्शपूर्ण्णमासौ वै᳘ प्प्रव᳘र्ग्यः॥
स᳘र्व्वम्वै᳘ दर्शपूर्ण्णमासौ स᳘र्व्वम्प्रव᳘र्ग्यः स यद᳘धिश्रितन्तत्प्र᳘व्वृक्तो यदा᳘सन्नं त᳘द्रुचितो य᳘द्धुतं त᳘त्पिन्वितो᳘ यदा वै᳘ दर्शपूर्ण्णमासौ पि᳘न्वेते ऽअ᳘थैनौ स᳘र्व्वे देवाः स᳘र्व्वाणि भूतान्यु᳘पजीवन्ति पि᳘न्वेते ह वा᳘ ऽअस्मै दर्शपूर्ण्णमासौ य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - श्रीधरादि

दर्शपूर्ण्णमासौ वै᳘ प्प्रव᳘र्ग्यः॥
स᳘र्व्वम्वै᳘ दर्शपूर्ण्णमासौ स᳘र्व्वम्प्रव᳘र्ग्यः स यद᳘धिश्रितन्तत्प्र᳘व्वृक्तो यदा᳘सन्नं त᳘द्रुचितो य᳘द्धुतं त᳘त्पिन्वितो᳘ यदा वै᳘ दर्शपूर्ण्णमासौ पि᳘न्वेते ऽअ᳘थैनौ स᳘र्व्वे देवाः स᳘र्व्वाणि भूतान्यु᳘पजीवन्ति पि᳘न्वेते ह वा᳘ ऽअस्मै दर्शपूर्ण्णमासौ य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - Weber

दर्शपूर्णमासौ वै᳘ प्रव᳘र्ग्यः॥
स᳘र्वम् वै᳘ दर्शपूर्णमासौ स᳘र्वम् प्रव᳘र्ग्यः स यद᳘धिश्रितं 16 तत्प्र᳘वृक्तो यदा᳘सन्नं त᳘द्रुचितो य᳘द्धुतं त᳘त्पिन्वितो᳘ यदा वै᳘ दर्शपूर्णमासौ पि᳘न्वेते अ᳘थैनौ स᳘र्वे देवाः स᳘र्वाणि भूतान्यु᳘पजीवन्ति पि᳘न्वेते ह वा᳘ अस्मै दर्शपूर्णमासौ य᳘ एव᳘मेतद्वे᳘द॥

मूलम् - विस्वरम्

दर्शपूर्णमासौ वै प्रवर्ग्यः । सर्वं वै दर्शपूर्णमासौ । सर्वं प्रवर्ग्यः । स यदधिश्रितं, तत् प्रवृक्तः । यदासन्नं, तत् रुचितः । यद्धुतं तत्पिन्वितः । यदा वै दर्शपूर्णमासौ पिन्वेते । अथैनौ सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति । पिन्वेते ह वा अस्मै दर्शपूर्णमासौ । य एवमेतद्वेद ॥ २७ ॥

सायणः

अथ दर्शपूर्णमासात्मना प्रवर्ग्यं स्तौति- दर्शपूर्णमासौ वै प्रव० न्युपजीवन्तीति । दर्शपूर्णमासाख्यौ यौ यागौ तदात्मकः खलु अयं ‘प्रवर्ग्यः’ । तौ दर्शपूर्णमासयागौ ‘सर्वं वै’ सर्ववस्त्वात्मकौ । प्रवर्ग्यश्च ‘सर्वं’ सर्ववस्त्वात्मकः । ततः उभयोः साम्यात् परस्परतादात्म्यम् । यद्यदा तद्दर्शपूर्णमाससम्बन्धि हविरग्नावधिश्रितं भवति तत्तदा स घर्मः ‘प्रवृक्तः’ भवति । अधिश्रयणं प्रवृञ्जनस्थानीयमित्यर्थः । यद्यदा ‘आसन्नं’ तद्धविर्वेद्यामासादितं भवतिः तत्तदानीं प्रवर्ग्यः ‘रुचितः’ भवति । यद्यदा तद्धविर्हुतमग्नौ प्रक्षिप्तं भवति तदानीमसौ ‘पिन्वितः’ भवति । एतौ ‘दर्शपूर्णमासौ’ प्रवर्ग्यात्मकौ यतो भवतः । अत एव प्रवर्ग्यो ऽपि दर्शपूर्णमासात्मक इत्येवमर्थो ऽर्थादुपपादितो भवति । यदा च ‘दर्शपूर्णमासौ’ प्रवर्ग्यात्मकौ ‘पिन्वेते’ । यदा स्वफलसम्प्रदानाय सम्पद्येते । अथानन्तरं ‘एनौ’ दर्शपूर्णमासौ । अन्यद्गतम् । अथैतद्वेदितुः फलमाह- पिन्वेते ह वा० तद्वेदेति पूर्ववद्योज्यम् ॥ २७ ॥

Eggeling
  1. The Pravargya, indeed, is the New and Full-moon sacrifices; for the New and Full-moon sacrifices

are everything, and the Pravargya is everything: when it (the havis) is put on the fire then it is the (Gharma) placed thereon; when it is standing ready then it is the burning-hot (Gharma); and when it is offered then it is the overflowing (Gharma); but, indeed, when the New and Full-moon sacrifices overflow all the gods and all beings subsist thereon; and, verily, the New and Full-moon sacrifices overflow for him who thus knows this.

२८

विश्वास-प्रस्तुतिः

चातुर्म्मास्या᳘नि वै᳘ प्प्रव᳘र्ग्यः॥
स᳘र्व्वम्वै᳘ चातु᳘र्म्मास्या᳘नि स᳘र्व्वम्प्रव᳘र्ग्यः स य᳘दधि᳘श्रितन्तत्प्र᳘व्वृक्तो[[!!]] यदा᳘सन्नन्त᳘द्रुचितो य᳘द्धुतन्त᳘त्पिन्वितो᳘ यदा वै᳘ चातुर्म्मास्या᳘नि पि᳘न्वन्ते᳘ ऽथैना᳘नि स᳘र्व्वे देवाः स᳘र्व्वाणि भूतान्यु᳘पजीवन्ति पि᳘न्वन्ते ह वा᳘ ऽअस्मै चातुर्म्मास्या᳘नि य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - श्रीधरादि

चातुर्म्मास्या᳘नि वै᳘ प्प्रव᳘र्ग्यः॥
स᳘र्व्वम्वै᳘ चातु᳘र्म्मास्या᳘नि स᳘र्व्वम्प्रव᳘र्ग्यः स य᳘दधि᳘श्रितन्तत्प्र᳘व्वृक्तो[[!!]] यदा᳘सन्नन्त᳘द्रुचितो य᳘द्धुतन्त᳘त्पिन्वितो᳘ यदा वै᳘ चातुर्म्मास्या᳘नि पि᳘न्वन्ते᳘ ऽथैना᳘नि स᳘र्व्वे देवाः स᳘र्व्वाणि भूतान्यु᳘पजीवन्ति पि᳘न्वन्ते ह वा᳘ ऽअस्मै चातुर्म्मास्या᳘नि य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - Weber

चातुर्मास्या᳘नि वै᳘ प्रव᳘र्ग्यः॥
स᳘र्वम् वै᳘ चातुर्मास्या᳘नि स᳘र्वम् प्रव᳘र्ग्यः स यद᳘धिश्रितं 17 तत्प्र᳘वृक्तो यदा᳘सन्नं त᳘द्रुचितो य᳘द्धुतं त᳘त्पिन्वितो᳘ यदा वै᳘ चातुर्मास्या᳘नि पि᳘न्वन्ते᳘ऽथैनानि स᳘र्वे देवाः स᳘र्वाणि भूतान्यु᳘पजीवन्ति पि᳘न्वन्ते ह वा᳘ अस्मै चातुर्मास्या᳘नि य᳘ एव᳘मेतद्वे᳘द॥

मूलम् - विस्वरम्

चातुर्मास्यानि वै प्रवर्ग्यः । सर्वं वै चातुर्मास्यानि । सर्वं प्रवर्ग्यः । स यदधिश्रितं, तत् प्रवृक्तः । यदासन्नं, तत् रुचितः । यद्धुतं, तत् पिन्वितः । यदा वै चातुर्मास्यानि पिन्वन्ते । अथैनानि सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति । पिन्वन्ते ह वा अस्मै चातुर्मास्यानि । य एवमेतद्वेद ॥ २८ ॥

सायणः

अथैतं चातुर्मास्यात्मना स्तौति- चातुर्मास्यानि वै प्रव० न्युपजीवन्तीति । चतुर्षु मासेषु क्रियन्त इति वैश्वदेववरुणप्रघाससाकमेधशुनासीरीयाख्यानि चातुर्म्मास्यानि तदात्मकः खलु अयं ‘प्रवर्ग्यः’ । तानि च प्रवर्ग्यात्मकानि इति परस्परतादात्म्येन स्तुतिः । तानि च ‘चातुर्मास्यानि’ ‘सर्वं वै’ बहुप्रदानकत्वात् सर्वात्मकानि । अन्यत्सर्वं पूर्ववद्योज्यम् । अथैतद्वेदितुः फलमाह- पिन्वन्ते ह वा० तद्वेदेति । ‘अस्मै’ वेदित्रे ‘चातुर्मास्यानि’ कर्माणि वैश्वदेवादीनि ‘पिन्वन्ते ह वै’ स्वफलं प्रयच्छन्ति । गतमन्यत् ॥ २८ ॥

Eggeling
  1. The Pravargya, indeed, is the Seasonal sacrifices, for the Seasonal sacrifices are everything, and the Pravargya is everything: when it (the havis) is put on the fire then it is the (Gharma) placed thereon; when it is standing ready then it is the burning-hot (Gharma); and when it is offered then it is the overflowing (Gharma);–but, indeed, when the Seasonal sacrifices overflow then all the gods and all beings subsist thereon; and, verily, the Seasonal sacrifices overflow for him who thus knows this.

२९

विश्वास-प्रस्तुतिः

पशुबन्धो वै᳘ प्प्रव᳘र्ग्यः॥
स᳘र्व्वम्वै᳘ पशुबन्धः स᳘र्व्वम्प्रव᳘र्ग्यः स य᳘द᳘धि᳘श्रितस्तत्प्र᳘व्वृक्तो यदा᳘सन्नस्त᳘द्रुचितो य᳘द्धुतस्त᳘त्पिन्वितो᳘ यदा वै᳘ पशुबन्धः पि᳘न्वते᳘ ऽथैनᳫँ᳭ स᳘र्व्वे देवाः स᳘र्व्वाणि भूतान्यु᳘पजीवन्ति पि᳘न्वते ह वा᳘ ऽअस्मै पशुबन्धो य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - श्रीधरादि

पशुबन्धो वै᳘ प्प्रव᳘र्ग्यः॥
स᳘र्व्वम्वै᳘ पशुबन्धः स᳘र्व्वम्प्रव᳘र्ग्यः स य᳘द᳘धि᳘श्रितस्तत्प्र᳘व्वृक्तो यदा᳘सन्नस्त᳘द्रुचितो य᳘द्धुतस्त᳘त्पिन्वितो᳘ यदा वै᳘ पशुबन्धः पि᳘न्वते᳘ ऽथैनᳫँ᳭ स᳘र्व्वे देवाः स᳘र्व्वाणि भूतान्यु᳘पजीवन्ति पि᳘न्वते ह वा᳘ ऽअस्मै पशुबन्धो य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - Weber

पशुबन्धो वै᳘ प्रव᳘र्ग्यः॥
स᳘र्वम् वै᳘ पशुबन्धः स᳘र्वम् प्रव᳘र्ग्यः स यद᳘धिश्रितस्तत्प्र᳘वृक्तो 18 यदा᳘सन्नस्त᳘द्रुचितो य᳘द्धुतस्त᳘त्पिन्वितो᳘ यदा वै᳘ पशुबन्धः पि᳘न्वते᳘ऽथैनᳫं स᳘र्वे देवाः स᳘र्वाणि भूतान्यु᳘पजीवन्ति पि᳘न्वते ह वा᳘ अस्मै पशुबन्धो य᳘ एव᳘मेतद्वे᳘द॥

मूलम् - विस्वरम्

पशुबन्धो वै प्रवर्ग्यः । सर्वं वै पशुबन्धः । सर्वं प्रवर्ग्यः । स यदद्धिश्रितः, तत्प्रवृक्तः । यदासन्नः, तत् रुचितः । यत् हुतः, तत् पिन्वितः । यदा वै पशुबन्धः पिन्वते । अथैनं सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति । पिन्वते ह वा अस्मै पशुबन्धः । य एवमेतत् वेद ॥ २९ ॥

सायणः

अथैनं पशुबन्धात्मना स्तौति- पशुबन्धो वै प्रव० न्युपजीवन्तीति । पशुर्बध्यते यज्ञार्थे यस्मिन् कर्मविशेषे । असौ पशुबन्धाख्यः । तदात्मकः खलु अयं ‘प्रवर्ग्यः’ । प्रवर्ग्यश्च सः । इति परस्परतादात्म्येन स्तुतिः । स च ‘पशुबन्धः’ ‘सर्वं वै’ सम्पूर्णावयवत्वात् सर्वात्मकः । अतः सर्वत्वसाम्यात् उभयोस्तादात्म्यव्यपदेशः । तत्र यदा हविर्भूतपशुरधिश्रितः पाकार्थमग्नौ तदा स घर्म्मः ‘प्रवृक्तः’ । यद्यदा ‘आसन्नः’ पाकानन्तरं वेद्यामासादितः पशुः तदा असौ घर्मः ‘रुचितः’ भवति । यद्यदा ‘हुतः’ तदा असौ घर्मः ‘पिन्वितः’ पिन्वनेन सिक्तो भवति । अन्यत्सर्वं पूर्ववद्योज्यम् । अथैतद्वेदनफलमाह- पिन्वते ह वा० तद्वेदेति । गतमेतत् ॥ २९ ॥

Eggeling
  1. The Pravargya, indeed, is the Animal sacrifice, for the Animal sacrifice is everything, and the Pravargya is everything: when it (the meat) is put on the fire then it is the (Gharma) placed thereon; and when it is standing ready then it is the burning-hot (Gharma); and when it is offered then it is the overflowing (Gharma);–but, indeed, when the animal offering overflows all the gods and all beings subsist thereon; and, verily, the animal offering overflows for him who thus knows this.

३०

विश्वास-प्रस्तुतिः

सो᳘मो वै᳘ प्प्रव᳘र्ग्यः॥
स᳘र्व्वम्वै᳘ सो᳘मः स᳘र्व्वम्प्रव᳘र्ग्यः स य᳘दभि᳘षुतस्तत्प्र᳘व्वृक्तो यदु᳘न्नीतस्त᳘द्रुचितो य᳘द्धुतस्त᳘त्पिन्वितो᳘ यदा वै सो᳘मः पि᳘न्वते᳘ ऽथैनᳫँ᳭ स᳘र्व्वे देवाः स᳘र्व्वाणि भूतान्युपजीवन्ति पि᳘न्वते ह वा᳘ ऽअस्मै सो᳘मो य᳘ ऽएव᳘मेतद्वे᳘द न᳘ ह वा᳘ ऽअस्या᳘प्रवर्ग्येण के᳘नचन᳘ यज्ञे᳘नेष्ट᳘म्भवति य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - श्रीधरादि

सो᳘मो वै᳘ प्प्रव᳘र्ग्यः॥
स᳘र्व्वम्वै᳘ सो᳘मः स᳘र्व्वम्प्रव᳘र्ग्यः स य᳘दभि᳘षुतस्तत्प्र᳘व्वृक्तो यदु᳘न्नीतस्त᳘द्रुचितो य᳘द्धुतस्त᳘त्पिन्वितो᳘ यदा वै सो᳘मः पि᳘न्वते᳘ ऽथैनᳫँ᳭ स᳘र्व्वे देवाः स᳘र्व्वाणि भूतान्युपजीवन्ति पि᳘न्वते ह वा᳘ ऽअस्मै सो᳘मो य᳘ ऽएव᳘मेतद्वे᳘द न᳘ ह वा᳘ ऽअस्या᳘प्रवर्ग्येण के᳘नचन᳘ यज्ञे᳘नेष्ट᳘म्भवति य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - Weber

सो᳘मो वै᳘ प्रव᳘र्ग्यः॥
स᳘र्वम् वै᳘ सो᳘मः स᳘र्वम् प्रव᳘र्ग्यः स य᳘दभि᳘षुतस्तत्प्र᳘वृक्तो यदु᳘न्नीतस्त᳘द्रुचितो य᳘द्धुतस्त᳘त्पिन्वितो᳘ यदा वै सो᳘मः पि᳘न्वते᳘ऽथैनᳫं स᳘र्वे देवाः स᳘र्वाणि भूतान्यु᳘पयुञ्जन्ति पि᳘न्वते ह वा᳘ अस्मै सो᳘मो य᳘ एव᳘मेतद्वे᳘द न᳘ ह वा᳘ अस्या᳘प्रवर्ग्येण के᳘न चन᳘ यज्ञे᳘नेष्ट᳘म् भवति य᳘ एव᳘मेतद्वेद॥

मूलम् - विस्वरम्

सोमो वै प्रवर्ग्यः । सर्वं वै सोमः । सर्वं प्रवर्ग्यः । स यदभिषुतः, तत्प्रवृक्तः । यदुन्नीतः, तद् रुचितः । यद्धुतः, तत् पिन्वितः । यदा वै सोमः पिन्वते । अथैनं सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति । पिन्वते ह वा अस्मै सोमः । य एवमेतद्वेद । न ह वा अस्याप्रवर्ग्येण केनचन यज्ञेनेष्टं भवति । य एवमेतद्वेद ॥ ३० ॥

सायणः

अथेमं प्रवर्ग्यं सोमात्मना स्तौति- सोमो वै प्रव० न्युपजीवन्तीति । यः अयं लताभूतो यागसाधनभूतः ‘सोमः’ तदात्मकः खलु अयं ‘प्रवर्ग्यः’ । कुतः इति चेत् उच्यते- सर्वं वै सर्वमेव खलु वस्तु सोमः सकलयागसाधनत्वात् । यद्वा आहुतिद्वारा सर्वस्य जगतः तत्परिणामत्वात् तस्य सर्वात्मकत्वम् । अत एव प्रवर्ग्यो ऽपि ‘सर्वम्’ तस्मादुभयोः सर्वत्वसाम्यात् तादात्म्येन स्तुतिः । अपि च- यद्यदा ‘सः’ सोमः ‘अभिषुतः’ अभिषवसंस्कारेण द्रवीकृतः भवति तदा असौ ‘प्रवृक्तः’ भवति । यदा तून्नीतः अभिषवानन्तरं चमसेषु गृहीतो भवति तदा असौ प्रवर्ग्यः ‘रुचितः’ भवति । यदा तु अग्नौ स सोमः ‘हुतः’ भवति तदा अयं ‘पिन्वितः’ सिक्तो भवति । एतदुक्तं भवति । सोमस्याभिषवोन्नयनहोमाः प्रवृञ्जनरोचनपिन्वनात्मकाः । अत एव एतानि प्रवृञ्जनादीनि तदात्मकानि । अन्यत् पूर्ववद्योज्यम् । अथैतद्वेदनफलमाह- पिन्वते ह वा० तद्वेदेति । एवमुक्तप्रकारेण ‘यः’ खलु ‘एतत्’ प्रवर्ग्यस्य सोमात्मकत्वं ‘वेद’ जानाति । ‘अस्मै’ जानते सः ‘सोमः’ ‘पिन्वते’ फलप्रदो भवति । इत्थं प्रवर्ग्यस्याग्निहोत्राद्यात्मकत्वमुक्त्वा तद्वेदितुः फलमुक्तम् । अथ तेषामग्निहोत्रादीनामपि यत्प्रवर्ग्यात्मकत्वमुक्तम् । तद्वेदनफलमाह- न ह वा अस्या० तद्वेदेति । ‘यः’ एवमुक्तप्रकारेण अग्निहोत्रादिकर्मसु अधिश्रयणादौ प्रवृञ्जनादिसम्पादनेन यत्प्रवर्ग्यात्मकत्वमुक्तम् । तद्वेद जानीयात् । ‘अस्य’ वेदितुः ‘केनचन’ केनापि अग्निहोत्रादिना ‘यज्ञेन’ ‘अप्रवर्ग्येण’ प्रवर्ग्यरहितेन खलु ‘न इष्टं’ भवति । सर्वेष्वपि यज्ञेषु उक्तप्रकारेण प्रवर्ग्यस्य सम्पादनात् सप्रवर्ग्येणैव सर्वेण यज्ञजातेन इष्टवान् भवतीत्यर्थः ॥ ३० ॥

Eggeling
  1. The Pravargya, indeed, is Soma, for Soma is everything, and the Pravargya is everything: when it is poured out then it is the (Gharma) placed on the fire; when it is drawn (into the

cups) then it is the burning-hot (Gharma); and when it is offered then it is the overflowing (Gharma);–but, indeed, when Soma overflows all the gods and all beings avail themselves thereof; and, verily, Soma overflows for him who thus knows this; and, verily, no sacrifice whatever is offered without the Pravargya for him who thus knows this.

३१

विश्वास-प्रस्तुतिः

(दा᳘) अ᳘थैतद्वै॥
(द्वा ऽआ᳘) आ᳘युरेतज्ज्यो᳘तिः प्प्र᳘विशति य᳘ ऽएतम᳘नु वा ब्रू᳘ते᳘ भक्ष᳘यति वा त᳘स्य व्व्रतचर्य्या या सृ᳘ष्टौ॥

मूलम् - श्रीधरादि

(दा᳘) अ᳘थैतद्वै॥
(द्वा ऽआ᳘) आ᳘युरेतज्ज्यो᳘तिः प्प्र᳘विशति य᳘ ऽएतम᳘नु वा ब्रू᳘ते᳘ भक्ष᳘यति वा त᳘स्य व्व्रतचर्य्या या सृ᳘ष्टौ॥

मूलम् - Weber

अ᳘थैतद्वै॥
आ᳘युरेतज्ज्यो᳘तिः प्र᳘विशति य᳘ एतम᳘नु वा ब्रूते᳘ भक्ष᳘यति वा त᳘स्य व्रतचर्या या सृ᳘ष्टौ॥

मूलम् - विस्वरम्

अथ एतद्वै आयुः, एतज्ज्योतिः प्रविशति । य एतमनु वा ब्रूते भक्षयति वा । तस्य व्रतचर्याया सृष्टौ ॥ ३१ ॥

इति सोमादिकर्मशेषाभिधायकं प्रवर्ग्यकाण्डं समाप्तम् ॥

सायणः

एतद्ब्राह्मणाध्ययनतदर्थानुष्ठानयोः कर्तुः प्रागुक्तां व्रतचर्यां पूर्ववदतिदिशति- अथैतद्वा आ० सृष्टाविति । अथेत्यारम्भे । यतः प्रागुक्तं प्रवर्ग्याख्यं तथैतच्च ब्राह्मणे स्तूयते । एतदुभयं आयुर्जीवनं तद्वेदभूतमित्यर्थः । अतस्तस्य व्रताचरणेन रक्षा कार्या इति भावः । कुतो ऽस्य रक्षणापेक्षेति तत्राह- एतज्ज्योतिरिति । ‘यः’ खलु पुमान् ‘एतं’ प्रवर्ग्यं ‘अनुब्रूते’ कर्मकाले अधीते वा । तत्रत्यं हुतशिष्टं हविर्भक्षयति वा । स एतज्ज्योतिः द्युलोके दृश्यमानं सौरं तेजः प्रविशति । प्रवर्ग्यस्य सूर्यात्मना अवस्थानस्य प्रागुक्तत्वात् । अतस्तस्य पुंसः व्रतचर्या कार्या । सा कीदृशीति चेदुच्यते ‘या व्रतचर्या सृष्टौ’ प्रवर्ग्यसृष्टिप्रतिपादके पूर्वाध्यायस्य प्रथमब्राह्मणे “नातपति प्रच्छादयेत” इत्यादिना प्रतिपादिता । सैवात्रादि द्रष्टव्या ॥ ३१ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये चतुर्दशकाण्डे तदन्तर्भूते प्रथमे प्रवर्ग्यकाण्डे तृतीये ऽध्याये द्वितीयं ब्राह्मणम् ॥ १४ । (१) ३ । २ ॥

वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये चतुर्दशकाण्डे तदन्तर्भूते प्रथमे प्रवर्ग्यकाण्डे तृतीयो ऽध्यायः समाप्तः ॥ (१४ (१)-३) ॥

इति माध्यन्दिनीयशतपथब्राह्मणे उत्तराख्ये भागे प्रथमं कर्मशेषं प्रवर्ग्यकाण्डं समाप्तिमगात्

Eggeling
  1. And, verily, whosoever either teaches, or partakes of, this (Pravargya) enters that life, and that light: the observance of the rule thereof is the same as at the creation 19.

  1. तृतीये इति काण्वपाठमनुसृत्य बोध्यम् । ↩︎

  2. चतुर्थे इत्यपि काण्वपाठमनुसृत्यैवेति ज्ञेयम् । ↩︎

  3. घर्मभेदे यथोक्तम् । का. श्रौ. सू. २६ । १४४ । यथोक्तमित्यप्याह कात्यायनः- “य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः । सङ्घाता सन्धिं मघवा पुरूवसुरिष्कर्ता विन्हुतं पुनरिति च घर्म्यम्” । का. श्रौ. सू. २५ । १३६ । चकारात् भूमिर्भूमिमिति च । तदपि आह कात्यायनः- “भूमिर्भूमिमवागान्माता मातरमप्यगात् । भूयाम पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति मृणमयं भिन्नमभिमृशेत्” । का. श्रौ. सू. २५ । १३५ । “परमेष्ठ्यादींश्च चतुस्त्रिँशतं जुहोति” । का. श्रौ. सू. २५ । १३७ । चकारादभिमर्शनानन्तरं चतुस्त्रिंशद्धोम इत्यर्थः । ताश्च (३४ मा. सं. अ. ८ कं. ५४) “परमेष्ठ्यभिधीतः” इत्यारभ्य “सलिलः प्रप्लुतः” (५९ ।) इत्यंताः । चतुस्त्रिंशद्धोमस्तु आदेश एवेत्यध्वर्युकर्तृकः । आदेशो नाम यत्र नामनिमित्तादेशपूर्वकं नैमित्तिकमादिश्यते । यथा “पृषदाज्यस्कंदने जुहुयादया विष्ठा जनयन्निति" । का. श्रौ. सू. २५ । १४६ । पृषदाज्यस्कन्दने ऽभिमृशेदिति च । का. श्रौ. सू. २५ । १४२ । स आदेशः इति “सोमेज्योपपाते" का. श्रौ. सू. २५ । १४३ । इति सूत्रभाष्ये कर्कः । “प्रजापतिः संभ्रियमाण इति च यथाकालम्” । “सविता प्रथमे ऽहन्निति च प्रत्यहम्” । का. श्रौ. सू. २६ । १४८ । १४९ । “सोमेज्योपपाते चैकैकां यथाकालँ हुत्वा यज्ञस्य दोह इति वाचयति । आग्नीध्रीये सुत्यासु” का. श्रौ. सू. २५ । १४३ । १४४ । सोमेज्यायामुपपातः सोमेज्योपपातः । न सोमयागोपपातः । इति कर्कः । सुत्यासु वर्तमानासु कालाहुतिराग्नीध्रीये । आहवनीयापवादो ऽयमिति कर्कः । ↩︎

  4. तत्स᳘र्वा - मात्मा is wanting in A., supplied by conjecture, confirmed by E. ↩︎

  5. तत्स᳘र्वा - मात्मा is wanting in A., supplied by conjecture, confirmed by E. ↩︎

  6. 506:1 Mahīdhara takes ‘pūta’ in the sense of ’the purifier (śodhaka)’ and apparently the name of a god (as he does also the Navel (nābhyai devatāyai)). ↩︎

  7. अयं माध्यन्दिनीयः पाठः । ↩︎

  8. अयं तु काण्वीयः पाठः । “त्रयोदशैता ऽआहुतीर्जुहोति” इति । ↩︎

  9. काण्वीयपाठमनुसृत्य बृहदारण्यकप्रथमाध्यायस्य द्वितीयब्राह्मणे चतुर्थकण्डिकायाम् । (का. श. प. १४ । १ । २ । ४ ।) “सो ऽकामयत द्वितीयो म ऽआत्मा जायेतेति स मनसा वाचं मिथुनँ समभवदशनाया मृत्युस्तद्यद्रेत ऽआसीत्स सम्वत्सरो ऽभवन्न ह पुरा ततः सम्वत्सर ऽआस तमेतावन्तं कालमबिभर्यावान् सम्वत्सरस्तमेतावतः कालस्य परस्तादसृजत” इति । ३ । एतावतः कालस्य सम्वत्सरमात्रस्य परस्तादूर्ध्वं तं वैराजं असृजत सृष्टवान् अण्डमभिनत् इति यावत् ॥ ↩︎

  10. यत्किं᳘ चि वि᳘. A. ↩︎

  11. यत्किं᳘ चि वि᳘. A. ↩︎

  12. माल्स᳘या A. मार्त्सया E. मार्त्स्न᳘या is my conjecture, see ६.१.३. ४. - ibid. दृढ is here paroxytonon! ↩︎

  13. उखावश्चान्यं कुर्यात् । का. श्रौ. सू. २६ । १४५ । उखावदित्यप्याह कात्यायनः- उखोपशये पिष्ट्वा मृदा सहोखां करोत्यावृतेति । का. श्रौ. सू. १६ । २०८ । आवृता अमन्त्रकं तूष्णीमिति यावत् । ↩︎

  14. अभिन्नेन चरेत् । का. श्रौ. सू. २६ । १४६ । ↩︎

  15. य᳘दधि᳘श्रितं! A. ↩︎

  16. य᳘दधि᳘श्रितं! A. ↩︎

  17. य᳘दधि᳘श्रितं! A. ↩︎

  18. य᳘दधि᳘श्रितं! A. ↩︎

  19. 510:1 See p. 458, note 1. ↩︎