०१
विश्वास-प्रस्तुतिः
स वै᳘ तृतीये᳘ ऽहन्॥
(न्ष) षष्ठे᳘ वा द्वादशे᳘ वा प्प्रवर्ग्योपस᳘दौ सम᳘स्य प्प्रव᳘र्ग्यमु᳘त्सादयत्यु᳘त्सन्नमिव᳘ हीदᳫँ᳭ शि᳘रस्तद्य᳘देत᳘मभि᳘तो भ᳘वति तत्स᳘र्व्वᳫँ᳭ समादाया᳘ग्ग्रेण शा᳘लामन्तर्व्वे᳘द्युपसमा᳘यन्ति॥
मूलम् - श्रीधरादि
स वै᳘ तृतीये᳘ ऽहन्॥
(न्ष) षष्ठे᳘ वा द्वादशे᳘ वा प्प्रवर्ग्योपस᳘दौ सम᳘स्य प्प्रव᳘र्ग्यमु᳘त्सादयत्यु᳘त्सन्नमिव᳘ हीदᳫँ᳭ शि᳘रस्तद्य᳘देत᳘मभि᳘तो भ᳘वति तत्स᳘र्व्वᳫँ᳭ समादाया᳘ग्ग्रेण शा᳘लामन्तर्व्वे᳘द्युपसमा᳘यन्ति॥
मूलम् - Weber
स वै᳘ तृतीये᳘ऽहन्॥
षष्ठे᳘ वा द्वादशे᳘ वा प्रवर्ग्योपस᳘दौ सम᳘स्य प्रव᳘र्ग्यमु᳘त्सादयत्यु᳘त्सन्नमिवॗ हीदं शि᳘रस्तद्य᳘देत᳘मभि᳘तो भ᳘वति तत्स᳘र्वᳫं समादाया᳘ग्रेण शा᳘लामन्तर्वेॗद्युपसमा᳘यन्ति॥
मूलम् - विस्वरम्
अथ घर्मोद्वासनम् ।
स वै तृतीये ऽहन् षष्ठे वा द्वादशे वा प्रवर्ग्योपसदौ समस्य प्रवर्ग्यमुत्सादयति । उत्सन्नमिव हीदं शिरः । तद्यदेतमभितो भवति । तत्सर्वं समादाय । अग्रेण शालामन्तर्वेद्युपसमायन्ति ॥ १ ॥
सायणः
यस्य निश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
इत्थं द्वितीयाध्याये घर्म्मस्य प्रवृंजनमुक्तम् 1 । अथ तृतीये तदुद्वासनमुच्यते । अत्र तावत् कस्मिन् काले तत् कर्तव्यमिति तदाह- स वै तृतीये ऽहन्० हीदँ शिर इति । एकाहानां 2 त्र्युपसत्कत्वात् त्रिरात्रं सायंप्रातःकालयोः प्रवर्ग्यानुष्ठानम् । साग्निचित्यानां 3 च तेषां षडुपसत्कत्वेन तत्र षट्सु अहःसु कालद्वये प्रवर्ग्यानुष्ठानम् । अहीनानां 4 द्वादशोपसत्कत्वात् द्वादशरात्रे सायंप्रातःकालयोः प्रवर्ग्यः कर्तव्यः । तथा चायमर्थः- ‘स वै’ स खलु अध्वर्युः तृतीये ऽहनि षष्ठे ऽहनि वा द्वादशे ऽहनि वा पौर्वाह्णिकाभ्यां प्रवर्ग्योपसद्भ्यां चरित्वा तदानीमेव आपराह्णिकौ ‘प्रवर्ग्योपसदौ समस्य’ एकीकृत्य अनुष्ठाय ‘प्रवर्ग्यमुत्सादयति’ 5 उत्सन्नं उद्वासितं करोति । ननु-यज्ञांतरस्य उद्वासनादर्शनात् कुत उद्वासनम् ? इति चेत् उच्यते- ‘इदं’ यज्ञशिरः प्रवर्ग्याख्यं ‘उत्सन्नमिव हि’ तिरोहितमिव हि । तस्मात् अस्य तिरोधानापेक्षणात् तदर्थमुद्वासनं कार्यमित्यर्थः । तत्र प्रवर्ग्यं उद्वासयितुं घर्मोपयुक्तानां द्रव्याणां एकीकरणं विधत्ते- तद्यदेतमभितो भवति० द्युपसमायंतीति । ‘एतं’ प्राग्वंशं ‘अभितः’ परितः सर्वासु दिक्षु ‘तत् यत्’ यत् किमपि घर्मोपयुक्तं वस्तुजातं भवति ‘तत्सर्वं समादाय’ एकीकृत्य ‘शालामग्रेण’ प्राचीनवंशगृहस्य पुरस्तादंतर्वेदि 6 सौमिकवेद्यां मध्ये ‘उपसमायन्ति’ सर्वे प्रवर्ग्यकर्तारः उपागच्छेयुः ॥ १ ॥
Eggeling
- Now, on the third, or the sixth, or the twelfth day 7, having combined (the two performances of) the Pravargya and Upasads 8, he ‘sets out 9’ the Pravargya, for set out (removed), as it were, is this head (from the trunk). Having gathered together all around it 10 (the Mahāvīra pot), they
meet together upon the Vedi in the Śālā, (entering) by the front door.
०२
विश्वास-प्रस्तुतिः
(न्त्य᳘) अथा᳘ग्नीध्रः॥
(ऽ) आहवनी᳘ये त्री᳘ञ्छालाकानु᳘पकल्पयते ते᳘षामे᳘कमुज्ज्वल᳘य्य मुखदघ्ने᳘ धार᳘यमाणो जुहोति यज्ञ᳘स्य शीर्षच्छिन्न᳘स्य शुगु᳘दक्राम᳘त्सेमां᳘ल्लोकाना᳘विशत्त᳘यै᳘वैनमेत᳘च्छुचा स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥
मूलम् - श्रीधरादि
(न्त्य᳘) अथा᳘ग्नीध्रः॥
(ऽ) आहवनी᳘ये त्री᳘ञ्छालाकानु᳘पकल्पयते ते᳘षामे᳘कमुज्ज्वल᳘य्य मुखदघ्ने᳘ धार᳘यमाणो जुहोति यज्ञ᳘स्य शीर्षच्छिन्न᳘स्य शुगु᳘दक्राम᳘त्सेमां᳘ल्लोकाना᳘विशत्त᳘यै᳘वैनमेत᳘च्छुचा स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥
मूलम् - Weber
अथा᳘ग्नीध्रः॥
आहवनी᳘ये त्री᳘ञ्छालाकानु᳘पकल्पयते ते᳘षामे᳘कमुज्ज्वल᳘य्य मुखदघ्ने᳘ धार᳘यमाणो जुहोति यज्ञ᳘स्य शीर्षछिन्न᳘स्य शुगु᳘दक्रामॗत्सेमां᳘लोकाना᳘विशत्त᳘यैॗवैनमेत᳘छुचा स᳘मर्धयति कृत्स्नं᳘ करोति॥
मूलम् - विस्वरम्
अथाग्नीध्रः आहवनीये त्रीञ्छालाकानुपकल्पयते । तेषामेकमुज्ज्वलय्य मुखदघ्ने धारयमाणो जुहोति । यज्ञस्य शीर्षच्छिन्नस्य शुगुदक्रामत् । सेमांल्लोकानाविशत् । तयैवैनमेतच्छुचा समर्द्धयति । कृत्स्नं करोति ॥ २ ॥
सायणः
अथ घर्मोद्वासनांगत्वेनाहुतित्रयं विधित्सुः तदर्थं दर्भमुष्टित्रयोपकल्पनमाह- अथाग्नीध्र ऽआहवनीये० कल्पयते इति । ‘अथ’ सर्वेषां समागमनानंतरं ‘आग्नीध्रः’ आहवनीयदेशे गत्वा तत्र ‘त्रीन् शालाकान्’ दर्भशलाकामुष्टीन् ‘उपकल्पयते’ संपाद्य धारयेदित्यर्थः । अथ तेषां एकं प्रज्वाल्य तद्गते ऽग्नौ प्रथमाहुतिर्होतव्येति विधत्ते- तेषामेकमुज्ज्वलय्य० जुहोतीति । ‘तेषां’ शलाकामुष्टीनां मध्ये ‘एकं’ मुष्टिमुज्ज्वलय्य आहवनीये आदीप्य तं ‘मुखदघ्ने’ मुखप्रमाणे उन्नतदेशे मुखसमं ‘धारयमाणः’ तद्गते ऽग्नौ “या ते घर्म दिव्या शुक्” इति मन्त्रेण प्रथमाहुतिं ‘जुहोति’ । अस्य होमस्य किं प्रयोजनमित्यत आह- यज्ञस्य शीर्ष० करोतीति । छिन्नशिरस्कस्य ‘यज्ञस्य’ सकाशात् ‘शुक्’ शोकः उदक्रामदुदगच्छत् । ‘सा’ उत्क्रांता सती ‘इमान्’ पृथिव्यंतरिक्षद्युलोकान् ‘आविशत्’ आविष्टवती । ‘एतत्’ एतैर्होमैः ‘तयैव’ लोकत्रयगतया ‘शुचा’ ‘एनं’ यज्ञं ‘समर्द्धयति’ । अनेन होमेन लोकत्रयसकाशात् शुचमाकृष्य पुनः यज्ञे एव स्थापितवान् भवति । तथा च तं यज्ञं ‘कृत्स्नं’ संपूर्णं ‘करोति’ ॥ २ ॥
Eggeling
- The Āgnīdhra then brings three bundles of faggots to the Āhavanīya, and kindling one of them, he offers (thereon) whilst holding it 11 on a level with (the Sacrificer’s) mouth. When the sacrifice had its head cut off its heat went out of it, and entered these worlds: it is with that heat he thus supplies and completes it.
०३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘न्मुखदघ्ने᳘॥
(घ्न᳘ ऽउ) उप᳘रीव वै तद्य᳘न्मुखदघ्न᳘मुप᳘रीव तद्य᳘दसौ᳘ लोकस्त᳘द्या ऽमुं[[!!]] लोकᳫँ᳭ शुगा᳘विशत्त᳘यै᳘वैनमेत᳘च्छुचा स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘न्मुखदघ्ने᳘॥
(घ्न᳘ ऽउ) उप᳘रीव वै तद्य᳘न्मुखदघ्न᳘मुप᳘रीव तद्य᳘दसौ᳘ लोकस्त᳘द्या ऽमुं[[!!]] लोकᳫँ᳭ शुगा᳘विशत्त᳘यै᳘वैनमेत᳘च्छुचा स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥
मूलम् - Weber
अ᳘थ य᳘न्मुखदघ्ने᳟॥
उप᳘रीव वै तद्य᳘न्मुखदघ्न᳘मुप᳘रीव तद्य᳘दसौ᳘ लोकस्तॗद्यामुं᳘ लोकं शुगा᳘विशत्त᳘यैॗवैनमेत᳘छुचा 12 स᳘मर्धयति कृत्स्नं᳘ करोति॥
मूलम् - विस्वरम्
अथ यन्मुखदघ्ने । उपरीव वै तत् । यन्मुखदघ्नम् । उपरीव तत् । यदसौ लोकः । तद्या ऽमुं लोकं शुगाविशत् । तयैवैनमेतच्छुचा समर्द्धयति । कृत्स्नं करोति ॥ ३ ॥
सायणः
ननु- प्रथमया आहुत्या कुतः सकाशात् शुक् अपनीयते इत्यत आह- अथ यन्मुखदघ्न० करोतीति । ‘अथ’ इत्यारंभे । ‘मुखदघ्ने’ मुखप्रमाणं आस्यसम्मितं धारणमिति यत् तत् उपपाद्यत इति शेषः । ‘यन्मुखदघ्नं’ मुखप्रमाणं तत् ‘उपरीव वै’ उन्नतमिव खलु । ‘असौ’ द्युलोकः इति यत् ‘तत्’ ‘उपरीव’ उपरिष्टात् स्थितः खलु । तत्तथा च मुखदघ्नधारणविशिष्टस्य प्रथमहोमस्य द्युलोकस्य च उपरिष्टादेशत्वसाम्ये सति पुरा या शुक् यज्ञसकाशात् अपगता अमुं स्वर्गं लोकं ‘आविशत्’ आविष्टवती । सिद्धमन्यत् ॥ ३ ॥
Eggeling
- And as to why (it is held) on a level with the mouth,–well, what is level with the mouth is, as it were, above; and above, as it were, is yonder (heavenly) world: thus he thereby supplies and completes it (the Pravargya) with that heat which had entered yonder world.
०४
विश्वास-प्रस्तुतिः
या᳘ ते घर्म दिव्या शुगि᳘ति᳘॥
यैव᳘ दिव्या शुग्या᳘ गायत्र्या᳘ᳫँ᳘ हविर्द्धा᳘न ऽइ᳘ति᳘ यैव᳘ गायत्र्या᳘ᳫँ᳘ हविर्द्धा᳘ने सा᳘ त ऽआ᳘प्यायतान्नि᳘ष्ट्यायतान्त᳘स्यै ते स्वाहे᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥
मूलम् - श्रीधरादि
या᳘ ते घर्म दिव्या शुगि᳘ति᳘॥
यैव᳘ दिव्या शुग्या᳘ गायत्र्या᳘ᳫँ᳘ हविर्द्धा᳘न ऽइ᳘ति᳘ यैव᳘ गायत्र्या᳘ᳫँ᳘ हविर्द्धा᳘ने सा᳘ त ऽआ᳘प्यायतान्नि᳘ष्ट्यायतान्त᳘स्यै ते स्वाहे᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥
मूलम् - Weber
या᳘ ते घर्म दिव्या शुगि᳘ति॥
यैव᳘ दिव्या शुग्या᳘ गायत्र्या᳘ᳫं᳘हविर्धा᳘न इ᳘तिॗ यैव᳘ गायत्र्या᳘ᳫं᳘ हविर्धा᳘ने सा᳘ त आ᳘प्यायतां नि᳘ष्ट्यायतां त᳘स्यै ते स्वाहे᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥
मूलम् - विस्वरम्
“या ते घर्म दिव्या शुक्”- इति । यैव दिव्या शुक् । “या गायत्र्यां हविर्द्धाने”- इति । यैव गायत्र्यां हविर्द्धाने । “सा त आप्यायतां निष्ट्यायतां तस्यै ते स्वाहा"- इति । नात्र तिरोहितमिवास्ति ॥ ४ ॥
सायणः
अथ मन्त्रस्य प्रथमभागमनूद्य व्याचष्टे- या ते घर्म० शुगिति । “या ते घर्म्म” इत्यनेन मंत्रावयवेन ‘दिव्या’ दिवि भवा घर्म्मस्वभूता ‘यैव’ शुगिति अयमर्थः प्रतिपाद्यते । अथ द्वितीयभागमनूद्य व्याचष्टे- या गायत्र्याँ० र्द्धाने इति । पूर्ववाक्यवद्योज्यम् । अथ तृतीयभागमनूद्य स्पष्टार्थत्वात् न व्याख्यानांतरमपेक्षते इत्याह- सा त आप्यायतां० तिरोहितमिवास्तीति । अयमर्थः- हे घर्म्म ! ‘ते’ त्वदीया द्युप्रभृतिषु आश्रिता या शुक् ‘सा’ ‘आप्यायतां’ शाम्यतु । तथा ‘निष्ट्यायतां’ “स्त्यै ष्ट्यै शब्दसंघातयोः”- (धा. पा. भ्वा. प. ९३५ । ९३६) इति धातुः । नितरांस्त्यायतां संधीभवतु । ‘तस्यै’ शुचे तद्वते ‘ते’ तुभ्यं ‘स्वाहा’ इत्यस्यार्थस्य प्रसिद्धत्वात् तिरोहितमप्रसिद्धमत्रास्मिन्मंत्रभागे नास्तीत्यर्थः ॥ ४ ॥
Eggeling
- [He offers, with Vāj. S. XXXVIII, 18,] ‘What heavenly fire of thine there is, O Gharma,’–just the fire which is heavenly;–‘what is in the Gāyatrī and in the Havirdhāna,’–
just that which is in the Gāyatrī (metre) and Havirdhāna (shed);–‘may that (fire) of thine increase and become firm: to that (fire) of thine, hail!’ in this there is nothing hidden, so to speak.
०५
विश्वास-प्रस्तुतिः
(स्त्य᳘) अ᳘थ द्विती᳘यमुज्ज्वल᳘य्य॥
नाभिदघ्ने᳘ धार᳘यमाणो जुहोति म᳘ध्यमिव वै तद्य᳘न्नाभिदघ्नम्म᳘ध्यमिवान्तरिक्षलोकस्त᳘द्या ऽन्तरिक्षलोकᳫँ᳭ शुगा᳘विशत्त᳘यै᳘वैनमेत᳘च्छुचा स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥
मूलम् - श्रीधरादि
(स्त्य᳘) अ᳘थ द्विती᳘यमुज्ज्वल᳘य्य॥
नाभिदघ्ने᳘ धार᳘यमाणो जुहोति म᳘ध्यमिव वै तद्य᳘न्नाभिदघ्नम्म᳘ध्यमिवान्तरिक्षलोकस्त᳘द्या ऽन्तरिक्षलोकᳫँ᳭ शुगा᳘विशत्त᳘यै᳘वैनमेत᳘च्छुचा स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥
मूलम् - Weber
अ᳘थ द्विती᳘यमुज्ज्वल᳘य्य॥
नाभिदघ्ने᳘ धार᳘यमाणो जुहोति म᳘ध्यमिव वै तद्य᳘न्नाभिदघ्नं म᳘ध्यमिवान्तरिक्षलोकस्तॗद्यान्तरिक्षलोकं शुगा᳘विशत्त᳘यैॗवैनमेत᳘छुचा स᳘मर्धयति कृत्स्नं᳘ करोति॥
मूलम् - विस्वरम्
अथ द्वितीयमुज्ज्वलय्य नाभिदघ्ने धारयमाणो जुहोति । मध्यमिव वै तत् । यन्नाभिदघ्नम् । मध्यमिवान्तरिक्षलोकः । तद्या ऽन्तरिक्षलोकं शुगाविशत् । तयैवैनमेतच्छुचा समर्द्धयति । कृत्स्नं करोति ॥ ५ ॥
सायणः
अथ द्वितीयामाहुतिं विधत्ते- अथ द्वितीयमुज्ज्वलय्य नाभि० जुहोतीति । ‘अथ’ प्रथमाहुत्यनंतरं ‘द्वितीयं’ दर्भशलाकामुष्टिं उज्ज्वलय्यादीप्य ‘नाभिदघ्ने’ नाभिप्रमाणे ‘धारयमाणः’ तद्गते अग्नौ “या ते घर्म्मांतरिक्षे” इति मंत्रेण जुहोति । अनेन मंत्रहोमेन अंतरिक्षस्थायाः शुचः अपनयनमाह- मध्यमिव० करोतीति । ‘यत् नाभिदघ्नं’ नाभिप्रमाणं तत् ‘मध्यमिव वै’ देहस्य मध्यदेशः खलु । अंतरिक्षलोको ऽपि ‘मध्यमिव’ भूलोकस्वर्ल्लोकयोर्मध्ये वर्तमानत्वात् । ‘तत्’ तथा च द्वितीयाहुत्या अंतरिक्षलोकस्य च मव्यत्वसाम्यात्, या शुक् अंतरिक्षलोकं पूर्वं प्राप्नोत् । गतमन्यत् ॥ ५ ॥
Eggeling
- Then, having kindled the second (bundle), he offers (thereon) whilst holding it navel-high; for in the middle, as it were, is what is navel-high, and in the middle, as it were, is the air-world: thus he thereby supplies and completes it with that heat which had entered the air-world.
०६
विश्वास-प्रस्तुतिः
या᳘ ते घर्मान्त᳘रिक्षे शुगि᳘ति᳘॥
यै᳘वान्त᳘रिक्षे शुग्या᳘ त्रिष्टुब्भ्या᳘ग्नीध्र ऽइ᳘ति᳘ यैव᳘ त्रिष्टुब्भ्या᳘ग्नीध्रे सा᳘ त ऽआ᳘प्यायतान्नि᳘ष्ट्यायतान्त᳘स्यै ते स्वाहे᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥
मूलम् - श्रीधरादि
या᳘ ते घर्मान्त᳘रिक्षे शुगि᳘ति᳘॥
यै᳘वान्त᳘रिक्षे शुग्या᳘ त्रिष्टुब्भ्या᳘ग्नीध्र ऽइ᳘ति᳘ यैव᳘ त्रिष्टुब्भ्या᳘ग्नीध्रे सा᳘ त ऽआ᳘प्यायतान्नि᳘ष्ट्यायतान्त᳘स्यै ते स्वाहे᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥
मूलम् - Weber
या᳘ते घर्मान्त᳘रिक्षे शुगि᳘ति॥
यैॗवान्त᳘रिक्षे शुग्या᳘ त्रिष्टुभ्या᳘ग्नीध्र इ᳘तिॗ यैव᳘ त्रिष्टुभ्या᳘ग्नीध्रे सा᳘ त आ᳘प्यायतां नि᳘ष्ट्यायतां त᳘स्यै ते स्वाहे᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥
मूलम् - विस्वरम्
“या ते घर्मान्तरिक्षे शुक्”- इति । यैवान्तरिक्षे शुक् । “या त्रिष्टुब्भ्याग्नीध्रे”- इति । यैव त्रिष्टुब्भ्या ऽग्नीध्रे । “सा त आप्यायतां निष्ट्यायतां तस्यै ते स्वाहा”- इति । नात्र तिरोहितमिवास्ति ॥ ६ ॥
सायणः
अथ होममंत्रं पूर्वमंत्रवत्त्रेधाकृत्य व्याचष्टे- या ते घर्म्मांतरिक्षे० तिरोहितमिवास्तीति । “या ते घर्म्म दिव्या शुक्” इति मंत्रव्याख्यानेन ब्राह्मणेन एतदपि व्याख्यातप्रायम् ॥ ६ ॥
Eggeling
- ‘What fire of thine is in the air,’–just the fire which is in the air;–‘what is in the Trishṭubh and in the Āgnīdhra,’ just that which is in the Trishṭubh (metre) and Āgnīdhra (fire-shed);–‘may that (fire) of thine increase and become firm: to that (fire) of thine, hail!’ in this there is nothing hidden, so to speak.
०७
विश्वास-प्रस्तुतिः
(स्त्य᳘) अ᳘थ तृती᳘यमभ्याधा᳘य॥
त᳘स्मिन्ना᳘सीनो जुहोत्यध᳘ ऽइव वै तद्यदा᳘सीनो ऽध᳘ ऽइव तद्य᳘दयं᳘ लोकस्त᳘द्येमं᳘ लोकᳫँ᳭ शुगा᳘विशत्त᳘यै᳘वैनमेत᳘च्छुचा स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥
मूलम् - श्रीधरादि
(स्त्य᳘) अ᳘थ तृती᳘यमभ्याधा᳘य॥
त᳘स्मिन्ना᳘सीनो जुहोत्यध᳘ ऽइव वै तद्यदा᳘सीनो ऽध᳘ ऽइव तद्य᳘दयं᳘ लोकस्त᳘द्येमं᳘ लोकᳫँ᳭ शुगा᳘विशत्त᳘यै᳘वैनमेत᳘च्छुचा स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥
मूलम् - Weber
अ᳘थ तृती᳘यमभ्याधा᳘य॥
त᳘स्मिन्ना᳘सीनो जुहोत्यध᳘-इव वै तद्यदा᳘सीनोऽध᳘-इव तद्य᳘दयं᳘ लोकस्तॗद्येमं᳘ लोकं शुगा᳘विशत्त᳘यैॗवैनमेत᳘छुचा स᳘मर्धयति कृत्स्नं᳘ करोति॥
मूलम् - विस्वरम्
अथ तृतीयमभ्याधाय तस्मिन्नासीनो जुहोति । अध इव वै तत् । यदासीनः । अध इव तत् । यदयं लोकः । तद्येमं लोकं शुगाविशत् । तयैवैनमेतच्छुचा समर्द्धयति । कृत्स्नं करोति ॥ ७ ॥
सायणः
तृतीयामाहुतिं विधत्ते- अथ तृतीयम० जुहोतीति । अथानंतरं ‘तृतीयं’ दर्भशलाकामुष्टिं ‘अभ्याधाय’ अग्नौ प्रक्षिप्य स्वयमासीनः तस्मिन्नग्नौ “या ते घर्म्म पृथिव्याम्”- इति मंत्रेण तृतीयामाहुतिं ‘जुहोति’ । अनेन मंत्रहोमेन भूलोक्यायाः घर्म्मस्य शुचः अपनयनं क्रियते इत्याह- अध इव वै० करोतीति । ‘आसीनः’ इति यत् तत् ‘अध इव वै’ अधस्तादिव खलु । तथा ‘अयं लोकः’ इति यत् तदपि ‘अध इव’ अधस्तादेव खलु । ‘तत्’ तस्मात् उभयोः साम्यात् । अन्यत्पूर्ववत् ॥ ७ ॥
Eggeling
- Then, having put the third (bundle) on the fire, he offers on it whilst sitting; for below, as it were, is he who is sitting; and below, as it were, is this (terrestrial) world: thus the thereby supplies and completes it with that heat which had entered this (terrestrial) world.
०८
विश्वास-प्रस्तुतिः
या᳘ ते घर्म्म पृथिव्याᳫँ᳭ शुगि᳘ति᳘॥
यैव᳘ पृथिव्याᳫँ᳭ शुग्या ज᳘गत्याᳫँ᳭ सदस्ये᳘ति[[!!]] यैव ज᳘गत्याᳫँ᳭ सद᳘स्या सा᳘ त᳘ ऽआ᳘प्यायतान्नि᳘ष्ट्यायतान्त᳘स्यै ते स्वाहे᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥
मूलम् - श्रीधरादि
या᳘ ते घर्म्म पृथिव्याᳫँ᳭ शुगि᳘ति᳘॥
यैव᳘ पृथिव्याᳫँ᳭ शुग्या ज᳘गत्याᳫँ᳭ सदस्ये᳘ति[[!!]] यैव ज᳘गत्याᳫँ᳭ सद᳘स्या सा᳘ त᳘ ऽआ᳘प्यायतान्नि᳘ष्ट्यायतान्त᳘स्यै ते स्वाहे᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥
मूलम् - Weber
या᳘ ते घर्म पृथिव्यां शुगि᳘ति॥
यैव᳘ पृथिव्यां शुग्या ज᳘गत्याᳫं सदस्ये᳘तिॗ यैव ज᳘गत्याᳫं सदॗस्या सा᳘ त᳘आ᳘प्यायतां नि᳘ष्ट्यायतां त᳘स्यै ते स्वाहे᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥
मूलम् - विस्वरम्
“या ते घर्म पृथिव्यां शुक्”- इति । यैव पृथिव्यां शुक् । “या जगत्यां सदस्या”- इति । यैव जगत्यां सदस्या । “सा त आप्यायतां निष्ट्यायतां तस्यै ते स्वाहा”- (वा. सं. ३८ । १८) इति । नात्र तिरोहितमिवास्ति ॥ ८ ॥
सायणः
अथ पूर्ववन्मंत्रं त्रेधाकृत्य व्याचष्टे- या ते घर्म्म पृथिव्याँ शुगिति० मिवास्तीति । ‘हे घर्म्म !’ ‘पृथिव्यां’ वर्तमाना त्वदीया ‘यैव’ शुक् इति द्वितीयभागस्यार्थः । गतमन्यत् । एतत् विहितं आहुतित्रयं कात्यायनेन स्पष्टीकृतम्- “आहवनीये त्रीञ्छालाकान्प्रदीप्याग्नीध्रो धारयति शतरुद्रियवत्प्रतिलोमं प्रमाणेषु । “चतुर्गृहीतेनाभिजुहोति या ते घर्म्म दिव्या शुगिति प्रतिमंत्रम्” । “प्रास्य तृतीयमुपविश्य” (का. श्रौ. सू. २६ । ११७-११८) इति ॥ ८ ॥
Eggeling
- ‘What fire of thine is in the earth,’–just that fire which is in the earth;–‘what is in the Jagatī and in the Sadas,’ just that which is in the Jagatī (metre) and the Sadas (shed);–‘may that (fire) of thine increase and become firm: to that (fire) of thine, hail!’ in this there is nothing hidden, so to speak.
०९
विश्वास-प्रस्तुतिः
(स्त्य᳘) अ᳘थोपनि᳘ष्क्रामति॥
क्षत्त्र᳘स्य त्वा परस्पाये᳘त्येतद्वै दै᳘वं क्षत्त्रं य᳘ ऽएष त᳘पत्यस्य᳘ त्वा मानुष᳘स्य क्षत्त्र᳘स्य परस्पायत्वाये᳘त्ये᳘वैत᳘दाह ब्र᳘ह्मणस्तन्व᳘म्पाही᳘ति ब्र᳘ह्मण ऽआत्मा᳘नङ्गोपाये᳘त्ये᳘वैत᳘दाह व्वि᳘शस्त्वा ध᳘र्म्मणा व्वयमि᳘ति यज्ञो वै व्वि᳘ड्यज्ञ᳘स्य त्वा᳘ ऽरिष्ट्या ऽइ᳘त्ये᳘वैत᳘दाहानुक्रामाम सुविता᳘य न᳘व्यस ऽइ᳘ति यज्ञ᳘स्य त्वा ऽरिष्ट्या ऽअ᳘ह्वलाया ऽइ᳘त्ये᳘वैत᳘दाह[[!!]]॥
मूलम् - श्रीधरादि
(स्त्य᳘) अ᳘थोपनि᳘ष्क्रामति॥
क्षत्त्र᳘स्य त्वा परस्पाये᳘त्येतद्वै दै᳘वं क्षत्त्रं य᳘ ऽएष त᳘पत्यस्य᳘ त्वा मानुष᳘स्य क्षत्त्र᳘स्य परस्पायत्वाये᳘त्ये᳘वैत᳘दाह ब्र᳘ह्मणस्तन्व᳘म्पाही᳘ति ब्र᳘ह्मण ऽआत्मा᳘नङ्गोपाये᳘त्ये᳘वैत᳘दाह व्वि᳘शस्त्वा ध᳘र्म्मणा व्वयमि᳘ति यज्ञो वै व्वि᳘ड्यज्ञ᳘स्य त्वा᳘ ऽरिष्ट्या ऽइ᳘त्ये᳘वैत᳘दाहानुक्रामाम सुविता᳘य न᳘व्यस ऽइ᳘ति यज्ञ᳘स्य त्वा ऽरिष्ट्या ऽअ᳘ह्वलाया ऽइ᳘त्ये᳘वैत᳘दाह[[!!]]॥
मूलम् - Weber
अ᳘थोपनि᳘ष्क्रामति॥
क्षत्र᳘स्य त्वा परस्पाये᳘त्येतद्वै दै᳘वं क्षत्रं य᳘ एष त᳘पत्यस्य᳘ त्वा मानुष᳘स्य क्षत्र᳘स्य परस्पत्वाये᳘त्येॗवैत᳘दाह ब्र᳘ह्मणस्तन्व᳘म् पाही᳘ति ब्र᳘ह्मण आत्मा᳘नं गोपाये᳘त्येॗवैत᳘दाह वि᳘शस्त्वा ध᳘र्मणा वयमि᳘ति यज्ञो वै वि᳘ड्यज्ञ᳘स्य त्वा᳘रिष्ट्या इ᳘त्येॗवैत᳘दामा᳘नुक्रामाम सुविता᳘य न᳘व्यस इ᳘ति यज्ञ᳘स्य त्वा᳘रिष्ट्या अ᳘ह्वलाया इ᳘त्येॗवैत᳘दाह॥
मूलम् - विस्वरम्
अथोपनिष्क्रामति । क्षत्त्रस्य त्वा परस्पाय”- इति । एतद्वै दैवं क्षत्त्रम् । य एष तपति । अस्य त्वा मानुषस्य क्षत्त्रस्य परस्पायत्वाय इत्येवैतदाह । “ब्रह्मणस्तन्वं पाहि”- इति । ब्रह्मण आत्मानं गोपाय इत्येवैतदाह । “विशस्त्वा धर्मणा वयम्"- इति । यज्ञो वै विट् । यज्ञस्य त्वा ऽरिष्ट्यै इत्येवैतदाह । “अनुक्रामाम सुविताय नव्यसे" (वा. सं. ३८-१९)- इति । यज्ञस्य त्वा ऽरिष्ट्या अह्वलायै इत्येवैतदाह ॥ ९ ॥
सायणः
अथ घर्म्मोद्वासनदेशं प्रति गमनं 13 विधत्ते- अथोपनिष्क्रामति० परस्पायेति । एवमंतर्वेदि सर्वं परिघर्म्यमेकीकृत्य निधाय आहवनीये आहुतित्रयं हुत्वा, अथानंतरं “क्षत्त्रस्य त्वा” इति मंत्रेण ‘उपनिष्क्रामति’ प्राङ्मुखो गच्छति । उपात्तस्य मंत्रभागस्य तात्पर्यं व्याचष्टे- एतद्वै दैवं० तदाहेति । ‘य एषः’ सूर्यस्तपति ‘एतद्वै’ एतत् खलु ‘दैवं’ देवसंबंधि देवानां मध्ये वर्तमानं ‘क्षत्त्रं’ क्षत्रियजातिः । स एव सूर्यो घर्मः । तथा च घर्म्मस्य क्षत्रियजात्यभिमानित्वात् ‘अस्य मानुषस्य’ मनुष्यसंबंधिनः ‘क्षत्त्रस्य’ क्षत्रियजातेः, ‘परस्पायत्वाय’ अतिशयेन रक्षणाय हे घर्म ! त्वां ‘अनुक्रामाम’ इति अमुमेवार्थं एतन्मंत्रवाक्यमाह । अथ द्वितीयं भागमनूद्य व्याचष्टे- ब्रह्मणस्तन्वं० तदाहेति । ‘ब्रह्मणः’ ब्राह्मणजातेः ‘आत्मानं’ शरीरं ‘गोपाय’ रक्ष इति अमुमेवार्थं “ब्रह्मणस्तन्वं पाहि” इति एतद्वाक्यमाह । अथ तृतीयभागमनूद्य व्याचष्टे- विशस्त्वा घर्म्मणा० तदाहेति । ‘विट्’ वैश्यजातिः ‘यज्ञो वै" यज्ञात्मिका खलु तत्साधनाज्यक्षीरहविःसंपादकत्वात् । तथा च “व्विशस्त्वा घर्म्मणा” इत्यस्यायमर्थ इत्याह- यज्ञस्य त्वेति । यज्ञात्मिकायाः वैश्यजातेः ‘अरिष्ट्यै’ अहिंसायै त्वां वयमनुक्रामामेति । गतमन्यत् । अथ चतुर्थभागमनूद्य व्याचष्टे- अनुक्रामाम सुविताय० तदाहेति । ‘सुविताय’ शोभनप्राप्तये ‘यज्ञस्यारिष्ट्यै’ अहिंसायै ‘नव्यसे’ नवीयसे यज्ञस्य ‘अह्वलायै “ह्मल ह्वल चलने”- (धा. पा. भ्वा. प. ८०७ । ८०८) इति धातुः । चलनाभावाय स्थैर्यार्थं त्वां अनुक्रामामेति इममेवार्थमेतदाह ॥ ९ ॥
Eggeling
- He (the Adhvaryu) then steps out 14, with
(Vāj. S. XXXVIII, 19), ‘Thee (we will follow) for the protection of the Kshatra,’–for he who shines yonder 15 is indeed the divine ruler: ‘for the protection of this human ruler,’ he thereby means to say;–‘guard thou the Brahman’s body!’–that is to say, ‘preserve thou the Brahman’s person (ātman);’–‘Thee (we will follow) as a stay for the Viś,’–the Viś (people, clan) doubtless is the sacrifice: ‘for the safety of the sacrifice,’ he thus means to say;–‘we will follow to new prosperity,’–it is for the safety and the stability of the sacrifice that the says this.
१०
विश्वास-प्रस्तुतिः
(हा᳘) अ᳘थाह सा᳘म गाये᳘ति॥
सा᳘म ब्रूही᳘ति वा गाये᳘ति᳘ त्वेव᳘ ब्रूयाद्गा᳘यन्ति हि सा᳘म तद्यत्सा᳘म गा᳘यति ने᳘दिमा᳘न्बहिर्द्धा᳘ यज्ञाच्छ᳘रीरान्नाष्ट्रा र᳘क्षाᳫँ᳭सि हिन᳘सन्नि᳘ति सा᳘म हि᳘ नाष्ट्रा᳘णाᳫँ᳭ र᳘क्षसामपह᳘न्ता॥
मूलम् - श्रीधरादि
(हा᳘) अ᳘थाह सा᳘म गाये᳘ति॥
सा᳘म ब्रूही᳘ति वा गाये᳘ति᳘ त्वेव᳘ ब्रूयाद्गा᳘यन्ति हि सा᳘म तद्यत्सा᳘म गा᳘यति ने᳘दिमा᳘न्बहिर्द्धा᳘ यज्ञाच्छ᳘रीरान्नाष्ट्रा र᳘क्षाᳫँ᳭सि हिन᳘सन्नि᳘ति सा᳘म हि᳘ नाष्ट्रा᳘णाᳫँ᳭ र᳘क्षसामपह᳘न्ता॥
मूलम् - Weber
अ᳘थाह सा᳘म गाये᳘ति॥
सा᳘म ब्रूही᳘ति वा गाये᳘तिॗ त्वेव᳘ ब्रूयाद्गा᳘यन्ति हि सा᳘म तद्यत्सा᳘म गा᳘यति ने᳘दिमा᳘न्बहिर्धा᳘ यज्ञाछ᳘रीरान्नाष्ट्रा 16 र᳘क्षांसि हिन᳘सन्नि᳘ति सा᳘म हि᳘ नाष्ट्रा᳘णां र᳘क्षसामपहन्ता॥
मूलम् - विस्वरम्
अथाह साम गायेति । साम ब्रूहीति वा । गायेति त्वेव ब्रूयात् । गायंति हि साम । तद्यत्साम गायति । नेदिमान्बहिर्द्धा यज्ञाच्छरीरान्नाष्ट्रा रक्षाँसि हिनसन्निति । साम हि नाष्ट्राणां रक्षसामपहंता ॥ १० ॥
सायणः
एवमनेन मन्त्रेण सर्वं प्रवर्ग्यसंभारमादाय उपनिष्क्रम्य प्रस्तोतारं प्रेष्येदिति विधत्ते- अथाह साम गायेतीति । ‘अथ’ उपनिष्क्रमणानंतरं ‘साम’ रक्षोहननक्षमं साम हे प्रस्तोतः ! ‘गायेति’ एतं प्रैषमन्त्रमाह इति ब्रूयात् । अथ पक्षांतरमुपन्यस्य 17 इममेव पक्षं निगमयति- साम ब्रूहीति० हि सामेति । “साम ब्रूहि” इत्येवं वा प्रैषं ब्रूयात् । तुशब्दः पक्षव्यावृत्त्यर्थः । साम गायेत्येव ब्रूयात् । न ब्रूहीति । कुतः ‘हि’ यस्मात् ‘साम गायन्ति’ गानेनोच्चरंति । न तु केवलं ऋगादिवत्पठंति । तस्मात् साम्नो गीत्यात्मकत्वात् ‘साम गाय’ इत्येव प्रेष्येदित्यर्थः । अथ सामगानस्य प्रयोजनमाह- तद्यत्साम गायति० रक्षसामपहंतेति । ‘तत्’ तत्र गमनकाले ‘यत्साम गायति’ । तत् किमर्थमिति चेत्; उच्यते- ‘शरीरात्’ शरीरभूतात् यज्ञात् ‘बहिर्द्धा’ बाह्यदेशे ‘नाष्ट्राः’ नाशकारिण्यः राक्षस्यः प्रजाः अन्यानि च ‘रक्षांसि’ ‘न हिनसन्’ न हिंस्युः इत्येवमर्थम् । ननु- अन्येष्वपि मन्त्रेषु सत्सु किमिति साम्नो गानमिति चेत् उच्यते- ‘साम’ खलु तेजोरूपत्वात् ‘नाष्ट्राणां रक्षसामपहंता’ विनाशकम् । तस्य च तेजोरूपत्वं तैत्तिरीयके स्पष्टमाम्नायते 18- “सर्वं तेजः सामरूप्यँ ह शश्वत्” (तै. का. प्र. ३ अनु. अन्त्य.) इति । अयमर्थः- सूर्यस्य यत्तेजोमंडलं तत्सर्वं सामात्मकमेवेति ॥ १० ॥
Eggeling
- He then says (to the Prastotr̥), ‘Sing the Sāman!’ or ‘Recite the Sāman!’ but let him rather say, ‘Sing the Sāman!’ for they indeed sing the Sāman. When he sings the Sāman it is in order that the fiends, the Rakshas, should not injure these
outside the sacrifice, the body; for the Sāman is a repeller of the fiends, the Rakshas.
११
विश्वास-प्रस्तुतिः
(न्ता ऽऽग्ने) आग्नेय्या᳘ङ्गायति॥
(त्य) अग्निर्हि र᳘क्षसामपहन्ता᳘ ऽतिच्छन्दसि गायत्येषा वै स᳘र्व्वाणि च्छ᳘न्दाᳫँ᳭सि यद᳘तिच्छन्दास्त᳘स्माद᳘तिच्छन्दसि गायति॥
मूलम् - श्रीधरादि
(न्ता ऽऽग्ने) आग्नेय्या᳘ङ्गायति॥
(त्य) अग्निर्हि र᳘क्षसामपहन्ता᳘ ऽतिच्छन्दसि गायत्येषा वै स᳘र्व्वाणि च्छ᳘न्दाᳫँ᳭सि यद᳘तिच्छन्दास्त᳘स्माद᳘तिच्छन्दसि गायति॥
मूलम् - Weber
आग्नेय्यां᳘ गायति॥
अग्निर्हि र᳘क्षसामपहन्ता᳘तिछन्दसि गायत्येषा वै स᳘र्वाणि छ᳘न्दांसि यदव्तिछन्दास्त᳘स्माद᳘तिछन्दसि गायति॥
मूलम् - विस्वरम्
आग्नेय्यां गायति । अग्निर्हि रक्षसामपहंता । अतिच्छन्दसि गायति । एषा वै सर्वाणि च्छन्दांसि । यदतिच्छन्दाः । तस्मादतिच्छन्दसि गायति ॥ ११ ॥
सायणः
अथ विहितस्य साम्नः आधारभूतमन्त्रलिंगद्वारेणापि रक्षोनिबर्हकत्वमाह- आग्नेय्यां गायति० मपहंतेति । आग्नेय्यामग्निदेवतायां “अग्निँ होतारं मन्ये" इत्यस्यामृचि तत्साम गायति । ‘अग्निः’ खलु ‘रक्षसां’ राक्षसानां ‘अपहंता’ विनाशकः । अथ तस्या अतिच्छंदस्त्वं स्तौति- अतिच्छन्द० गायतीति । ‘अतिच्छन्दसि छंदःपरिमाणमतीत्य वर्तमानं छन्दो यस्याः सा अतिच्छन्दाः तथाविधायामृचि एतत्साम ‘गायति’ । ‘एषा वै’ एषा खलु अतिच्छन्दस्का ऋक् ‘सर्वाणि छन्दांसि’ सर्वच्छन्दोरूपा गायत्र्यादीनामन्येषां तत्रान्तर्भावात् । ‘यत्’ या अतिच्छन्दस्का । अन्यच्छन्दस्कायामृचि गाने तु अस्मात् अधिकाक्षराणामन्तर्भावात् सर्वेषां छन्दसां परिग्रहो न सिध्येत् । यस्मादेवं ‘तस्मात्’ ‘अतिच्छन्दसि’ “अग्निँ होतारं” इत्यस्यामेव अतिच्छन्दस्कायामृचि तत्साम गायेत् ॥ ११ ॥
Eggeling
- He sings it on a (verse) relating to Agni, for Agni is the repeller of the Rakshas. On an Aticchandas (verse) he sings it, for that–to wit, the Aticchandas (redundant metre) is all metres, therefore he sings it on an Aticchandas (verse).
१२
विश्वास-प्रस्तुतिः
स᳘ गायति॥
(त्य) अग्नि᳘ष्टपति प्र᳘तिदहत्यहा᳘वो ऽहा᳘व ऽइ᳘ति त᳘न्नाष्ट्रा᳘ ऽए᳘वै तद्र᳘क्षाᳫँ᳭स्यतो᳘ ऽपहन्ति॥
मूलम् - श्रीधरादि
स᳘ गायति॥
(त्य) अग्नि᳘ष्टपति प्र᳘तिदहत्यहा᳘वो ऽहा᳘व ऽइ᳘ति त᳘न्नाष्ट्रा᳘ ऽए᳘वै तद्र᳘क्षाᳫँ᳭स्यतो᳘ ऽपहन्ति॥
मूलम् - Weber
स᳘ गायति॥
अग्नि᳘ष्टपति प्र᳘तिदहत्यहा᳘वोऽहा᳘व इ᳘ति त᳘न्नाष्ट्रा वै तद्र᳘क्षांस्यतो᳘ऽपहन्ति॥
मूलम् - विस्वरम्
स गायति- “अग्निष्टपति प्रतिदहत्यहावो ऽहावः”- इति । तन्नाष्ट्रा एवैतद्रक्षांस्यतो ऽपहंति ॥ १२ ॥
सायणः
तत्साम्नः आद्यं स्तोमपदं 19 उदाहृत्य रक्षोविनाशहेतुत्वमाह- स गायत्यग्निष्ट०स्यतो ऽपहंतीति । ‘सः’ प्रेषितः प्रस्तोता गायति 20 “अग्निष्टपति” इत्यादि स्तोममारभ्य । तत्र च ‘अग्निष्टपति प्रतिदहति’ इत्यग्निकर्तृकस्य तापस्य दाहस्य च श्रवणात् ‘तत्’ साम ‘नाष्ट्रा एव’ ‘रक्षांसि’ च एतेनापहंति तापेन दाहेन च नाशयति ॥ १२ ॥
Eggeling
१३
विश्वास-प्रस्तुतिः
त ऽउ᳘दञ्चो नि᳘ष्क्रामन्ति॥
जघ᳘नेन चा᳘त्वालम᳘ग्ग्रेणा᳘ग्नीध्रमेषा हि᳘ यज्ञ᳘स्य द्वाः स य᳘स्यान्त᳘तो दिश्या᳘पो भ᳘वन्ति त᳘द्यन्ति॥
मूलम् - श्रीधरादि
त ऽउ᳘दञ्चो नि᳘ष्क्रामन्ति॥
जघ᳘नेन चा᳘त्वालम᳘ग्ग्रेणा᳘ग्नीध्रमेषा हि᳘ यज्ञ᳘स्य द्वाः स य᳘स्यान्त᳘तो दिश्या᳘पो भ᳘वन्ति त᳘द्यन्ति॥
मूलम् - Weber
त उ᳘दञ्चो नि᳘ष्क्रामन्ति॥
जघ᳘नेन चा᳘त्वालम᳘ग्रेणा᳘ग्नीध्रमेषा हि᳘ यज्ञ᳘स्य द्वाः स य᳘स्यां ततो दिश्या᳘पो भ᳘वन्ति त᳘द्यन्ति॥
मूलम् - विस्वरम्
त उदंचो निष्क्रामन्ति । जघनेन चात्वालम् । अग्रेणाग्नीध्रम् । एषा हि यज्ञस्य द्वाः । स यस्यां ततो दिश्यापो भवंति । तद्यंति ॥ १३ ॥
सायणः
अथ प्रवर्ग्यमुद्वासयिष्यतामध्वर्युप्रभृतीनां गमनमार्गं विधत्ते- त उदञ्चो० यज्ञस्य द्वारिति । ‘ते’ अध्वर्युप्रभृतयः प्रथमं “क्षत्त्रस्य त्वा” इति मन्त्रेण त्रिचतुराणि पदानि प्रांचो गत्वा पश्चात् ‘उदंचः’ उदङ्मुखाः संतः ‘निष्क्रामन्ति’ वेदीसकाशात् निर्गच्छेयुः । केन मार्गेण इति चेत् उच्यते ‘चात्वालं जघनेन’ चात्वालस्य पश्चात् ‘आग्नीध्रमग्रेण’ आग्नीध्रीयचात्वालीययोर्मध्यदेशेनेत्यर्थः । ‘एष हि’ एष खलु देशः ‘यज्ञस्य द्वाः । यज्ञगृहस्य द्वारं यो य ऋत्विक् देवयजनं प्रविशति निर्गच्छति वा स सर्वो ऽपि अनेनैव प्रवेशनिर्गमने करोति’ तस्मात् अनेनैव पथा उदंचो बहिः प्रवर्ग्यकर्तारो निर्गच्छेयुरित्यर्थः । अथोदकसमीपगमनं विधत्ते- स यस्यां० तद्यंतीति । ‘सः’ व्यत्ययेनैकवचनम् । वेदेर्निष्क्रांतास्ते सर्वे प्रवर्ग्यकर्तारः । ‘ततः’ अनंतरं ‘यस्यां’ दिशि ‘आपो भवन्ति’ नदीतडागाद्या वर्तंते तत्तत्र ‘यन्ति’ गच्छेयुः ॥ १३ ॥
Eggeling
- They walk out (from the sacrificial ground) northwards 22, along the back of the pit and the front side of the Āgnīdhra (fire-house)–for this is the gate of the sacrifice–and proceed in whatever direction from there water is (to be found).
१४
विश्वास-प्रस्तुतिः
तम्वै᳘ परिष्यन्द ऽउ᳘त्सादयेत्॥
(त्त) तप्तो वा᳘ ऽएष᳘ शुशुचानो᳘ भवति तं य᳘दस्या᳘मुत्साद᳘येदिमा᳘मस्य शु᳘गृच्छेद्य᳘द᳘प्सूत्साद᳘येद᳘पो ऽस्य शु᳘गृच्छेद᳘थ य᳘त्परिष्यन्द᳘ ऽउत्साद᳘यति त᳘थो ह᳘ नै᳘वापो᳘ हिन᳘स्ति᳘ नेमां यद᳘हाप्सु न प्रा᳘स्यति ते᳘नापो न᳘ हिनस्त्य᳘थ य᳘त्समन्तमा᳘पः परिय᳘न्ति शा᳘न्तिर्व्वा ऽआ᳘पस्ते᳘नो ऽइमान्न᳘ हिनस्ति त᳘स्मात्परिष्यन्द ऽउ᳘त्सादयेत्॥
मूलम् - श्रीधरादि
तम्वै᳘ परिष्यन्द ऽउ᳘त्सादयेत्॥
(त्त) तप्तो वा᳘ ऽएष᳘ शुशुचानो᳘ भवति तं य᳘दस्या᳘मुत्साद᳘येदिमा᳘मस्य शु᳘गृच्छेद्य᳘द᳘प्सूत्साद᳘येद᳘पो ऽस्य शु᳘गृच्छेद᳘थ य᳘त्परिष्यन्द᳘ ऽउत्साद᳘यति त᳘थो ह᳘ नै᳘वापो᳘ हिन᳘स्ति᳘ नेमां यद᳘हाप्सु न प्रा᳘स्यति ते᳘नापो न᳘ हिनस्त्य᳘थ य᳘त्समन्तमा᳘पः परिय᳘न्ति शा᳘न्तिर्व्वा ऽआ᳘पस्ते᳘नो ऽइमान्न᳘ हिनस्ति त᳘स्मात्परिष्यन्द ऽउ᳘त्सादयेत्॥
मूलम् - Weber
तम् वै᳘ परिष्यन्द उ᳘त्सादयेत्॥
तप्तो वा एष᳘ शुशुचानो᳘ भवति तं य᳘दस्या᳘मुत्साद᳘येदिमा᳘मस्य शु᳘गृछेद्य᳘दॗप्सूत्साद᳘येदॗपोऽस्य शु᳘गृछेद᳘थ य᳘त्परिष्यन्द᳘ उत्साद᳘यति त᳘थो हॗ नैवापो᳘ हिन᳘स्तिॗ नेमां यद᳘हाप्सु न प्रा᳘स्यति ते᳘नापो न᳘ हिनस्त्य᳘थ य᳘त्समन्तमापः परिय᳘न्ति शा᳘न्तिर्वा आ᳘पस्ते᳘नो इमां न᳘ हिनस्ति त᳘स्मात्परिष्यन्द उ᳘त्सादयेत्॥
मूलम् - विस्वरम्
तं वै परिष्यन्द उत्सादयेत् । तप्तो वा एष शुशुचानो भवति । तं यदस्यामुत्सादयेत् । इमामस्य शुगृच्छेत् । यदप्सूत्सादयेत् । अपो ऽस्य शुगृच्छेत् । अथ यत्परिष्यंद उत्सादयति । तथा उ ह नैवापो हिनस्ति, नेमाम् । यदहाप्सु न प्रास्यति । तेनापो न हिनस्ति । अथ यत्समन्तमापः परियन्ति । शांतिर्वा आपः । तेन उ न इमान् हिनस्ति । तस्मात्परिष्यंद उत्सादयेत् ॥ १४ ॥
सायणः
परितो जलयुक्ते द्वीपे घर्मोद्वासनं विधाय विपक्षे बाधोपन्यासपुरःसरं तदुपपाद्य निगमयति- तं वै परिष्यंद उत्सादयेदिति । ‘परिष्यंदेः’ परितः स्यंदते प्रभूतं जलमस्मिन्निति परिष्यंदः द्वीपः । तस्मिन् ‘तं’ प्रवर्ग्यं ‘उत्सादयेत्’ उत्सादनं उद्वासनं कुर्यात् । अथ परिष्यंदव्यतिरिक्तभूभाग एव कस्मादसौ नोद्वास्यते, कस्माच्च उदकेषु च नोद्वासनम् ? इति चेत् अत्र उच्यते- अग्निना संतप्तः ‘एषः’ धर्मः ‘शुशुचानः’ शोचनशीलः दाहशीलः दग्धुं समर्थो भवति । ‘तं’ तथाविधं प्रवर्ग्यं यद्यदि ‘अस्यां’ पृथिव्यां ‘उत्सादयेत्’ तर्हि ‘इमां’ पृथिवीं ‘अस्य’ घर्मस्य ‘शुक्’ शोको दाहः ऋच्छेत्प्राप्नुयात् । तथा यद्यदि ‘अप्सु’ उदकेषु ‘उत्सादयेत्’ तदा ‘अस्य शुक्’ शोकः ‘अपः’ उदकानि ‘ऋच्छेत्’ गच्छेत् । यद्वा अयमाङुपसर्गरहितो ऽपि ऋच्छतिरत्र हिंसार्थः । आर्तिं प्राप्नुयात् । ‘अथ’ एवं सति यद्यस्मात् ‘परिष्यंदे’ परिष्यंदनयुक्ते द्वीपे ‘उत्सादयति’ तं प्रवर्ग्यं उद्वासयति । ‘तथा उ ह’ तस्मादेव अपो ऽपि ‘नैव हिनस्ति’ ‘इमां’ पृथिवीमपि ‘नैव हिनस्ति’ । एतदेव विव्रियते- ‘यदह’ यस्मादेव अप्सूदकेषु प्रवर्ग्यं ‘न प्रास्यति’ न प्रक्षिपति । ‘तेन’ कारणेन ‘अपः’ उदकानि ‘न हिनस्ति’ अपां प्रवर्ग्यसंबन्धाभावात् । ‘अथ’ यद्यपि पृथिव्यां प्रास्यति तथापि ‘समन्तम्’ अभितः ‘आपः’ ‘परियन्ति’ परिवेष्ट्य गच्छन्तीति यत् ‘तेन’ तेनैव कारणेन ‘इमां’ पृथिवीं ‘न हिनस्ति’ न बाधते । कुतः ? ‘शांतिर्वा आपः’ यतः तापस्य शमनहेतुत्वेन आपः प्रसिद्धाः । तस्मात् पृथिव्या घर्मसंस्पर्शकृतस्तापः अभितो वर्तमानैरुदकैः परिह्रियते इत्यर्थः । यस्मादेवं तस्मादेव कारणात् ‘परिष्यन्दे’ परिष्यंद एव ‘उत्सादयेत्’ ॥ १४ ॥
Eggeling
- Let him ‘set out’ that (Pravargya) on an island; for, when heated, it becomes burning-hot 23; and were he to set it out on this (earth), its heat would enter this (earth); and were he to set it out on water, its heat would enter the water; but when he sets it out on an island–thus, indeed, it does not injure either the water or this (earth), for inasmuch as he does not throw it into the water, it does not injure the water; and inasmuch as the water flows all round it–water being a means
of soothing–it does not injure this (earth): let him therefore set it out on an island.
१५
विश्वास-प्रस्तुतिः
(दु) उत्तरवेदौ᳘ त्वेवो᳘त्सादयेत्॥
(द्य) यज्ञो वा᳘ ऽउत्तरवेदिः शि᳘रः प्रव᳘र्ग्यो यज्ञ᳘ ऽए᳘वैतच्छि᳘रः प्र᳘तिदधाति॥
मूलम् - श्रीधरादि
(दु) उत्तरवेदौ᳘ त्वेवो᳘त्सादयेत्॥
(द्य) यज्ञो वा᳘ ऽउत्तरवेदिः शि᳘रः प्रव᳘र्ग्यो यज्ञ᳘ ऽए᳘वैतच्छि᳘रः प्र᳘तिदधाति॥
मूलम् - Weber
उत्तरवेदौॗ त्वेवो᳘त्सादयेत्॥
यज्ञो वा᳘ उत्तरवेदिः शिरः प्रव᳘र्ग्यो यज्ञ᳘ एव᳘तछि᳘रः प्र᳘तिदधाति॥
मूलम् - विस्वरम्
उत्तरवेदौ त्वेवोत्सादयेत् । यज्ञो वा उत्तरवेदिः । शिरः प्रवर्ग्यः । यज्ञ एवैतच्छिरः प्रतिदधाति ॥ १५ ॥
सायणः
इत्थं नदीद्वीपे उत्सादनमुक्त्वा 24 पक्षांतरमाह- उत्तरवेदौ त्वेवोत्सादयेदिति । तुशब्दः पक्षव्यावृत्त्यर्थः । उत्तरवेद्यामेवोत्सादयेत् । न तु परिष्यंदे इत्यर्थः । अथैतदुपपादयति- यज्ञो वा उत्तरवेदि० दधातीति । या इयमुत्तरवेदिः महावेदेः पूर्वभागे वर्तते । एषा यज्ञः खलु सर्वाहुत्याधारत्वात् यज्ञात्मकत्वम् । ‘प्रवर्ग्यः’ अस्य यज्ञस्य ‘शिरः’ तथा च उत्तरवेद्यां उद्वासनेन ‘यज्ञ एव’ एतत्प्रवर्ग्याख्यं ‘शिरः’ ‘प्रतिदधाति’ संदधाति ॥ १५ ॥
Eggeling
- But let him rather set it out on the Uttaravedi 25; for the Uttara-vedi is the sacrifice, and the Pravargya is its head: he thus restores to the sacrifice its head.
१६
विश्वास-प्रस्तुतिः
(त्यु) उत्तरनाभ्या स᳘ᳫँ᳘स्पृष्टम्प्रथमं᳘ प्रव᳘र्ग्यमु᳘त्सादयति ॥
व्वाग्वा᳘ ऽउत्तरनाभिः शि᳘रः प्रव᳘र्ग्यः शीर्षंस्तद्वा᳘चन्दधाति॥
मूलम् - श्रीधरादि
(त्यु) उत्तरनाभ्या स᳘ᳫँ᳘स्पृष्टम्प्रथमं᳘ प्रव᳘र्ग्यमु᳘त्सादयति ॥
व्वाग्वा᳘ ऽउत्तरनाभिः शि᳘रः प्रव᳘र्ग्यः शीर्षंस्तद्वा᳘चन्दधाति॥
मूलम् - Weber
उत्तरनाभ्या स᳘ᳫं᳘स्पृष्टम्॥
प्रथम᳘म् प्रव᳘र्ग्यमु᳘त्सादयति वाग्वा᳘ उत्तरनाभिः शि᳘रः प्रव᳘र्ग्यः शीर्षंस्तद्वा᳘चं दधाति॥
मूलम् - विस्वरम्
उत्तरनाभ्या संस्पृष्टं प्रथमं प्रवर्ग्यमुत्सादयति । वाग्वा उत्तरनाभिः । शिरः प्रवर्ग्यः । शीर्षंस्तद्वाचं दधाति ॥ १६ ॥
सायणः
अथ प्रथमस्य महावीरस्य उद्वासनप्रकारमाह 24- उत्तरनाभ्या संस्पृष्टं० मुत्सादयतीति । महावीरादिभिः घर्मसाधनैः सार्द्धं उत्तरवेदिं प्राप्य तदुद्वासनं कार्यं इत्युक्तम् । तत्र ‘प्रथमं’ प्रवर्ग्यप्रवृंजनसाधनं महावीरं ‘उत्तरनाभ्या’ उत्तरवेद्या मध्ये प्रादेशमात्रेण कृता चतुरस्रभूमिः उत्तरनाभिरित्युच्यते । तया ‘संस्पृष्टं’ संबद्धं ‘उत्सादयति’ उद्वासयति निदधातीत्यर्थः । तदेतत् स्तौति- वाग्वा उत्तर० दधातीति । या ‘वाक् उत्तरनाभिः’ सा चाग्नेः पुरुषावयवस्य नाभिस्थानस्य शब्दोत्पत्तिस्थानत्वात् तत्सामान्येन उत्तरनाभेरपि तदुत्पत्तिस्थानत्वेन वागात्मकत्वम् । प्रवर्ग्यश्च यज्ञशिरः । तत् तथा च उत्तरवेद्यां प्रवर्ग्यसंस्पर्शने सति ‘शीर्षन्’ यज्ञस्य शीर्ष्णि शिरस्येव ‘वाचं दधाति’ वागिन्द्रियं तद्व्यवहार्यं शब्दं वा, तया च धारितवान् भवति ॥ १६ ॥
Eggeling
- The first Pravargya (pot) he sets out so as to be close to (the front side of) the navel (of the Uttara-vedi), for the northern (upper) navel is the voice, and the Pravargya is the head: he thus places the voice in the head.
१७
विश्वास-प्रस्तुतिः
च᳘तुःस्रक्तिरि᳘ति॥
(त्ये) एष वै च᳘तुःस्रक्तिर्य्य᳘ ऽएष त᳘पति दि᳘शो᳘ ह्येत᳘स्य स्रक्त᳘यस्त᳘स्मादाह च᳘तुःस्रक्तिरि᳘ति॥
मूलम् - श्रीधरादि
च᳘तुःस्रक्तिरि᳘ति॥
(त्ये) एष वै च᳘तुःस्रक्तिर्य्य᳘ ऽएष त᳘पति दि᳘शो᳘ ह्येत᳘स्य स्रक्त᳘यस्त᳘स्मादाह च᳘तुःस्रक्तिरि᳘ति॥
मूलम् - Weber
च᳘तुःस्रक्तिरि᳘ति॥
एष वै च᳘तुःस्रक्तिर्य᳘ एष त᳘पति दि᳘शोॗ ह्येत᳘स्य स्रक्त᳘यस्त᳘स्मादाह च᳘तुःस्रक्तिरि᳘ति॥
मूलम् - विस्वरम्
“चतुःस्रक्तिः”- इति । एष वै चतुःस्रक्तिः । य एष तपति । दिशो ह्येतस्य स्रक्तयः । तस्मादाह- “चतुःस्रक्तिः”- इति ॥ १७ ॥
सायणः
अथैतन्महावीरोत्सादनमन्त्रं पंचधा कृत्वा व्याचष्टे- चतुःस्रक्तिरित्येष इति । “चतु:स्रक्तिर्नाभिः” इत्यनेन मन्त्रेण प्रथमस्य महावीरस्य उत्सादनं कुर्यात् । तत्र चतुःस्रक्तिरिति को ऽर्थः इत्याशंक्य व्याचष्टे- एष वा इति । ‘य एषः’ सूर्यस्तपति ‘एषः’ खलु ‘चतुःस्रक्तिः’ । चतस्रः स्रक्तयः अस्राणि यस्य स तथोक्तः । काः पुनरस्य स्रक्तयः इति तदुच्यते- ‘एतस्य’ सूर्यस्य प्राच्याद्याश्चतस्रो महादिशः खलु स्रक्तयः एव । सूर्ये समवेतार्थत्वेन तदात्मके महावीरे संबन्धो योग्यः । यस्मादेव ‘तस्मात्’ “चतुःस्रक्तिः” इति मन्त्रभागं ‘आह’ अध्वर्युर्ब्रूयात् । अथवा मन्त्र एव चतुःस्रक्तिरिति अनेन पदेन इममर्थं ‘आह’ प्रतिपादयति ॥ १७ ॥
Eggeling
- [He does so, with Vāj. S. XXXVIII, 20,] ‘The four-cornered,’–four-cornered, indeed, is he who shines yonder, for the quarters are his corners: therefore he says, ‘Four-cornered’;–
१८
विश्वास-प्रस्तुतिः
ना᳘भिर्ऋत᳘स्य सप्र᳘था ऽइ᳘ति॥
सत्यम्वा᳘ ऽऋत᳘ᳫँ᳘ सत्य᳘स्य ना᳘भिः सप्र᳘था ऽइ᳘त्ये᳘वैत᳘दाह स᳘ नो व्विश्वा᳘युः सप्र᳘था ऽइ᳘ति स᳘ नः सर्व्वा᳘युः सप्र᳘था ऽइ᳘त्ये᳘वैत᳘दाह॥
मूलम् - श्रीधरादि
ना᳘भिर्ऋत᳘स्य सप्र᳘था ऽइ᳘ति॥
सत्यम्वा᳘ ऽऋत᳘ᳫँ᳘ सत्य᳘स्य ना᳘भिः सप्र᳘था ऽइ᳘त्ये᳘वैत᳘दाह स᳘ नो व्विश्वा᳘युः सप्र᳘था ऽइ᳘ति स᳘ नः सर्व्वा᳘युः सप्र᳘था ऽइ᳘त्ये᳘वैत᳘दाह॥
मूलम् - Weber
ना᳘भिरृत᳘स्य सप्र᳘था इ᳘ति॥
सत्यम् वा᳘ ऋतᳫं सत्य᳘स्य ना᳘भिः सप्र᳘था इ᳘त्येॗवैत᳘दाह स᳘ नो विश्वा᳘युः सप्र᳘था इ᳘ति स᳘ नः सर्वा᳘युः सप्र᳘था इ᳘त्येॗवैत᳘दाह॥
मूलम् - विस्वरम्
“नाभिर्ऋतस्य सप्रथाः”- इति । सत्यं वा ऋतम् । सत्यस्य नाभिः सप्रथाः इत्येवैतदाह । “स नो विश्वायुः सप्रथाः”- इति । स नः सर्वायुः सप्रथाः इत्येवैतदाह ॥ १८ ॥
सायणः
“नाभिर्ऋतस्य" इति द्वितीयभागे ऋतशब्दस्य तावत्पदार्थमाह- सत्यं वा इति । सत्यमनश्वरं सूर्यस्य रूपं खलु अत्र ‘ऋतं’ ऋतशब्दवाच्यम् । अथ वाक्यार्थमाह- ‘सत्यस्य’ ‘नाभिः’ बंधकः ‘सप्रथाः’ सर्वतः पृथुः ‘इति’ इममेवार्थं एतन्मंत्रवाक्यमाह । अथ “स नो विश्वायुः” इति तृतीयभागे विश्वायुरिति शब्दस्य पदार्थं ब्रुवन् वाक्यार्थमाह- स नः सर्वायुरिति । अयमर्थः- ‘सः’ सूर्यात्मको घर्मः ‘सर्वायुः’ ‘नः’ अस्मदर्थं सर्वायुः संपूर्णायुष्ट्वयुक्तः । ‘सप्रथाः’ सर्वतः प्रख्यातः भवतु इत्येवार्थं एतन्मंत्रवाक्यमाहेति ॥ १८ ॥
Eggeling
- –‘Mighty navel of the divine order,’–the divine order being the truth, he thereby means to say, ‘The mighty navel of the truth;’–’that mighty one (be) unto us of all life;’–’that mighty one (be) unto us (a bestower) of the complete (term of) life,’ he thereby means to say 26;
१९
विश्वास-प्रस्तुतिः
(हा᳘) अ᳘प द्वे᳘षो ऽअ᳘प ह्व᳘र ऽइ᳘ति॥
ना᳘त्र तिरो᳘हितमिवास्त्यन्य᳘व्व्रतस्य सश्चिमे᳘त्यन्यद्वा᳘ ऽएत᳘स्य व्व्रत᳘मन्य᳘न्मनु᳘ष्याणान्त᳘स्मादाहान्य᳘व्व्रतस्य सश्चिमे᳘त्येवमि᳘तरौ प्प्रा᳘ञ्चौ त᳘त्त्रिवृ᳘त्त्रिवृ᳘द्धीदᳫँ᳭ शि᳘रः॥
मूलम् - श्रीधरादि
(हा᳘) अ᳘प द्वे᳘षो ऽअ᳘प ह्व᳘र ऽइ᳘ति॥
ना᳘त्र तिरो᳘हितमिवास्त्यन्य᳘व्व्रतस्य सश्चिमे᳘त्यन्यद्वा᳘ ऽएत᳘स्य व्व्रत᳘मन्य᳘न्मनु᳘ष्याणान्त᳘स्मादाहान्य᳘व्व्रतस्य सश्चिमे᳘त्येवमि᳘तरौ प्प्रा᳘ञ्चौ त᳘त्त्रिवृ᳘त्त्रिवृ᳘द्धीदᳫँ᳭ शि᳘रः॥
मूलम् - Weber
अ᳘प द्वे᳘षो अ᳘प ह्व᳘र इ᳘ति॥
ना᳘त्र तिरो᳘हितमिवास्त्यन्य᳘व्रतस्य सश्चिमे᳘त्यन्यद्वा᳘ एत᳘स्य व्रत᳘मन्य᳘न्मनुॗष्याणां त᳘स्मादाहान्य᳘व्रतस्य सश्चिमे᳘त्येवमि᳘तरौ प्रा᳘ञ्चौ त᳘त्त्रिवृ᳘त्त्रिवृॗद्धीदं शि᳘रः॥
मूलम् - विस्वरम्
“अप द्वेषो अप ह्वरः”- इति । नात्र तिरोहितमिवास्ति । अन्यव्रतस्य सश्चिम"- (वा. सं. ३८ । २०) इति । अन्यद्वा एतस्य व्रतम् । अन्यन्मनुष्याणाम् । तस्मादाह- “अन्यव्रतस्य सश्चिम”- इति । एवमितरौ प्रांचौ । तत्त्रिवृत् । त्रिवृद्धीदं शिरः ॥ १९ ॥
सायणः
चतुर्थभागं अनूद्य स्पष्टार्थतामाह- ‘द्वेषः’ द्वेष्टॄन् ‘ह्वरः’ कुटिलान् ‘अपजहि’ इत्यस्यार्थस्य स्पष्टत्वात् । अत्रास्मिन्मंत्रभागे तिरोहितमंतर्हितमिव किमपि व्याख्यानापेक्षं नास्तीत्यर्थः । “अन्यव्रतस्य” इति मंत्रभागस्य को ऽर्थः इति चेत्; उच्यते- ‘एतस्य’ सूर्यात्मकस्य घर्म्मस्य ‘व्रतं’ कर्म अतो ऽन्यत् । अन्यत् व्रतं यस्य असावन्यव्रतः इति पदार्थः । कर्मणि षष्ठी । अन्यव्रतं सूर्यात्मकं घर्म्मं वयं ‘सश्चिम’ संभजेमहि इत्ययमर्थः सिद्धो भवति । यस्मादेवं ‘तस्मात्’ “अन्यव्रतस्य” इति मंत्रभागमाह । एवमुत्तरयोरपि महावीरयोरुत्सादनं 27 कार्यं इति विधाय संहत्य स्तौति- एवमितरौ० दँ शिर इति । एवमनेनैव प्रकारेण ‘इतरौ’ द्वितीयतृतीयावपि महावीरौ ‘प्राञ्चौ’ प्राङ्मुखौ ‘उद्वासयति’ । तन्महावीरत्रितयं मिलित्वा ‘त्रिवृत्’ त्रिगुणितं भवति । ‘हि’ यस्मात् ‘इदं’ मनुष्यादिसंबंधि ‘शिरः’ ‘त्रिवृत्’ त्रिगुणितं लोमास्थित्वचां समुदायात्मकम् । तथा च तैत्तिरीयके श्रूयते- “त्रैधाविहितँ हि शिरः । लोम च्छविरस्थि” इति । तस्मादनेन महावीरत्रितयेनोद्वासितेन त्रिवृच्छिर एव यज्ञस्य संपादितं भवति ॥ १९ ॥
Eggeling
- –‘from the hatred, from the guile,’–in this there is nothing hidden, so to speak;–‘of him of another law, let us free ourselves!’–another law, indeed, is his (Pravargya’s and the Sun’s), and another that of men 28: therefore he says, ‘Of him of another law, let us free ourselves.’ In this way the other two (pots are placed) east of it: this is threefold, for the head is threefold 29.
२०
विश्वास-प्रस्तुतिः
पुर᳘स्तादुपशयाम्मृ᳘दम्॥
(म्माᳫँ᳭) माᳫँ᳭स᳘मे᳘वास्मिन्नेत᳘द्दधाति त᳘दभि᳘तः परीशासौ᳘ बाहू᳘ ऽए᳘वास्मिन्नेत᳘द्दधात्यभि᳘तः प᳘रे रौहिणह᳘वन्यौ स्रु᳘चौ ह᳘स्तावे᳘वास्मिन्नेत᳘द्दधाति॥
मूलम् - श्रीधरादि
पुर᳘स्तादुपशयाम्मृ᳘दम्॥
(म्माᳫँ᳭) माᳫँ᳭स᳘मे᳘वास्मिन्नेत᳘द्दधाति त᳘दभि᳘तः परीशासौ᳘ बाहू᳘ ऽए᳘वास्मिन्नेत᳘द्दधात्यभि᳘तः प᳘रे रौहिणह᳘वन्यौ स्रु᳘चौ ह᳘स्तावे᳘वास्मिन्नेत᳘द्दधाति॥
मूलम् - Weber
पुर᳘स्तादुपशयाम् मृ᳘दम्॥
मांस᳘मेॗवास्मिन्नेत᳘द्दधाति त᳘दभि᳘तः परीशासौ᳘ बाहू᳘ एॗवास्मिन्नेत᳘द्दधात्यभि᳘तः प᳘रे रौहिणह᳘वन्यौ स्रु᳘चौ ह᳘स्तावेॗवास्मिन्नेत᳘द्दधाति॥
मूलम् - विस्वरम्
पुरस्तादुपशयां मृदम् । मांसमेवास्मिन्नेतद्दधाति । तदभितः परीशासौ । बाहू एवास्मिन्नेतद्दधाति । अभितः परे रौहिणहवन्यौ स्रुचौ । हस्तावेवास्मिन्नेतद्दधाति ॥ २० ॥
सायणः
या पूर्वं महावीरादिनिर्म्माणकाले अवशिष्टा मृत् निहिता तस्या 27 अपि अत्र निधानं विधाय स्तौति- पुरस्तादुपशयां मृदं माँसमेवास्मिन्नेतद्दधातीति । प्रयोजनाभावेन उपशेते इत्युपशया । महावीरादिनिर्माणावशिष्टामेतामुपशयां ‘मृदं’ महावीराणां पुरस्तात्पूर्वभागे उत्सादयतीति वर्तते स्थापयतीत्यर्थः । ‘एतत्’ एतेन अस्मिन्महावीरलक्षणे यज्ञशिरसि ‘मांसमेव’ ‘दधाति’ स्थापितवान् भवति । सा मृत् शिरसो ऽन्तर्वर्तमानमांसस्थानीयेत्यर्थः । अथान्यैरपि प्रवर्ग्यसाधनैः शिरोव्यतिरिक्तं सर्वमवयवजातं रूपकत्वेन संपादयन् एकैकस्योद्वासनं विधाय तन्निष्पाद्यमवयवमपि दर्शयति- तदभितः परीशासौ० 30 द्दधातीति । तन्महावीरलक्षणशिरो ऽभितः तस्याधस्तात् पार्श्वयोः ‘परीशासौ’ स वै ‘निदधाति’ अस्मिन्प्रवर्ग्ये ‘बाहू’ बाहुदंडावेव एतेन ‘दधाति’ धारितवान् भवति । अथ रौहिणपुरोडाशहोमार्थयोः 31 स्रुचोरुद्वासनं ताभ्यां संपादितं अवयवं च दर्शयति- अभितः परे रौहिणहव० तद्दधातीति । ‘अभितः’ पार्श्वद्वये ‘रौहिणहवन्यौ’ रौहिणपुरोडाशहोमार्थौ ‘स्रुचौ’ ‘परे’ शफयोः पाश्चात्त्ये ‘निदधाति’ । अस्मिन् प्रवर्ग्ये ‘हस्तावेव दधाति’ । अंगुलिभिर्युक्तः अरत्निर्हस्तः । तत ऊर्ध्वभागो बाहुरिति तयोर्विवेकः ॥ २० ॥
Eggeling
- In front thereof (he places) the reserve (lump of) clay, whereby he puts flesh upon it (Pravargya); on the two sides thereof the two lifting-sticks, whereby he gives two arms to it; and on the two sides yet further away the two Rauhiṇa offering-ladles, whereby he gives two hands to it.
२१
विश्वास-प्रस्तुतिः
(त्यु) उत्तरतो᳘ ऽब्भ्रिम्॥
(न्त) तद्धि त᳘स्या ऽआय᳘तनं दक्षिणतः᳘ सम्म्राडासन्दीन्तद्धि त᳘स्या ऽआय᳘तनमुत्तरतः᳘ कृष्णाजिनन्तद्धि त᳘स्याय᳘तनᳫँ᳭ सर्व्व᳘तो धवि᳘त्राणि प्प्राणा वै᳘ धवि᳘त्राणि प्प्राणा᳘ने᳘वास्मिन्नेत᳘द्दधाति त्री᳘णि भवन्ति त्र᳘यो वै᳘ प्प्राणाः᳘ प्प्राण᳘ ऽउदानो᳘ व्व्यानस्ता᳘ने᳘वास्मिन्नेत᳘द्दधाति॥
मूलम् - श्रीधरादि
(त्यु) उत्तरतो᳘ ऽब्भ्रिम्॥
(न्त) तद्धि त᳘स्या ऽआय᳘तनं दक्षिणतः᳘ सम्म्राडासन्दीन्तद्धि त᳘स्या ऽआय᳘तनमुत्तरतः᳘ कृष्णाजिनन्तद्धि त᳘स्याय᳘तनᳫँ᳭ सर्व्व᳘तो धवि᳘त्राणि प्प्राणा वै᳘ धवि᳘त्राणि प्प्राणा᳘ने᳘वास्मिन्नेत᳘द्दधाति त्री᳘णि भवन्ति त्र᳘यो वै᳘ प्प्राणाः᳘ प्प्राण᳘ ऽउदानो᳘ व्व्यानस्ता᳘ने᳘वास्मिन्नेत᳘द्दधाति॥
मूलम् - Weber
उत्तरतो᳘ऽभ्रिम्॥
तद्धि त᳘स्या आय᳘तनं दक्षिणतः᳘ सम्राडासन्दीं तद्धि त᳘स्या आय᳘तनमुत्तरतः᳘ कृष्णाजिनं तद्धि त᳘स्याय᳘तनᳫं सर्व᳘तो धवि᳘त्राणि प्राणा वै᳘ धवित्राणि प्राणा᳘नेॗवास्मिन्नेत᳘द्दधाति त्री᳘णि भवन्ति त्र᳘यो वै᳘ प्राणाः᳘ प्र्:ण᳘ उदानो᳘ व्यानस्ता᳘नेॗवास्मिन्नेत᳘द्दधाति॥
मूलम् - विस्वरम्
उत्तरतो ऽब्भ्रिम् । तद्धि तस्या आयतनम् । दक्षिणतः संम्राडासंदीम् । तद्धि तस्या आयतनम् । उत्तरतः कृष्णाजिनम् । तद्धि तस्या यतनम् । सर्वतो धवित्राणि । प्राणा वै धवित्राणि । प्राणानेवास्मिन्नेतद्दधाति । त्रीणि भवंति । त्रयो वै प्राणाः । प्राण उदानो व्यानः । तानेवास्मिन्नेतद्दधाति ॥ २१ ॥
सायणः
अथाभ्रेरुद्वासनं 32 विधत्ते- उत्तरतो ऽभ्रि० आयतनमिति । ‘उत्तरतः’ महावीरस्योत्तरभागे ‘अभ्रिं’ मृत्खननार्थमानीतां काष्ठमयीं ‘निदधाति’ । ‘तद्धि’ तत् खलु ‘तस्या’ अभ्रेः ‘आयतनं’ स्थानम् । खाताया मृदः उत्तरस्यां दिशि अवस्थानात् त साधनभूताया अपि अभ्रेः तदायतनत्वम् । अथ संम्राडासंद्याः उद्वासनं 33 विधत्ते- दक्षिणतः संम्राडा० आयतनमिति । ‘दक्षिणतः’ महावीरस्य दक्षिणभागे ‘संम्राडासंदी’ निदधाति । ‘तद्धि’ तत्खलु ‘तस्याः’ संम्राडासंद्याः ‘आयतनं’ स्थानम् । आहवनीयस्य दक्षिणतः दक्षिणभागे हि पूर्वं स्थापिता । अतः दक्षिणा दिक् तस्याः स्थानमित्यर्थः । अथ कृष्णाजिनस्योद्वासनं 34 विधत्ते- उत्तरतः कृष्णाजिनं० स्यायतनमिति ‘उत्तरतः’ उत्तरभागे, ‘कृष्णाजिनं’ संम्राडासंद्या उपरिष्टात्पूर्वमास्तीर्णं कृष्णमृगस्याजिनं निदधाति ! ‘तद्धि’ तत्खलु ‘तस्य’ कृष्णाजिनस्य ‘आयतनं’ स्थानम् । हविरवहननादिषु उत्तरतः कृष्णाजिनस्य स्तीर्यमाणत्वात् उत्तरदिशस्तदायतनत्वम् । अथ धवित्राणामुद्वासनं 35 विधत्ते- सर्वतो धवित्राणि० तद्दधातीति । ‘धवित्राणि’ घर्म्मसमिंधनार्थानि व्यजनानि कृष्णाजिननिर्मितानि ‘सर्वतः’ सर्वमहावीरादिपात्रसमुदायस्य उपरि निदध्यात् । तानि ‘धवित्राणि’ ‘प्राणा वै’ वायुजनकत्वात् प्राणवाय्वात्मकानि । तथा च अस्मिन्प्रवर्ग्ये सर्वत्र प्राणानेव धारितवान् भवति ॥ २१ ॥
Eggeling
- On the left (north) side (he places) the spade, for there is its place of rest; on the right (right) side the imperial throne, for there is its place of rest; on the left side the black antelope-skin, for there is its place of rest; on all sides (save the front side) the fans, for, the fans being the vital airs, he thereby bestows vital airs on it; there are three of them, for there are three vital airs, the out- (and in-) breathing, the up-breathing, and the through-breathing: it is these he thus bestows on him.
२२
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थैत᳘द्रज्जुसन्दान᳘म्॥
(मु) उपय᳘मन्यामाधा᳘य पश्चात्प्रा᳘चीमा᳘सादयत्युद᳘रमे᳘वास्मिन्नेत᳘द्दधाति त᳘दभि᳘तः पि᳘न्वने ऽआण्डा᳘वे᳘वास्मिन्नेत᳘द्दधात्याण्डा᳘भ्याᳫँ᳭ हि व्वृ᳘षा पि᳘न्वते पश्चा᳘त्स्थूणामयूख᳘मूरू᳘ ऽए᳘वास्मिन्नेत᳘द्दधाति पश्चा᳘द्रौहिणकपाले जा᳘नुनी ऽए᳘वास्मिन्नेत᳘द्दधाति ते यदे᳘ककपाले भ᳘वत ऽए᳘ककपाले ऽइव᳘ हीमे जा᳘नुनी पश्चाद्धृ᳘ष्टी पा᳘दावे᳘वास्मिन्नेत᳘द्दधाति पा᳘दाभ्याᳫँ᳭ हि धृ᳘ष्टम्प्रह᳘रत्युत्तरतः ख᳘रौ प्रचरणी᳘यौ तद्धि त᳘योराय᳘तनन्दक्षिणतो᳘ मार्ज्जाली᳘यन्तद्धि त᳘स्याय᳘तनम्॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थैत᳘द्रज्जुसन्दान᳘म्॥
(मु) उपय᳘मन्यामाधा᳘य पश्चात्प्रा᳘चीमा᳘सादयत्युद᳘रमे᳘वास्मिन्नेत᳘द्दधाति त᳘दभि᳘तः पि᳘न्वने ऽआण्डा᳘वे᳘वास्मिन्नेत᳘द्दधात्याण्डा᳘भ्याᳫँ᳭ हि व्वृ᳘षा पि᳘न्वते पश्चा᳘त्स्थूणामयूख᳘मूरू᳘ ऽए᳘वास्मिन्नेत᳘द्दधाति पश्चा᳘द्रौहिणकपाले जा᳘नुनी ऽए᳘वास्मिन्नेत᳘द्दधाति ते यदे᳘ककपाले भ᳘वत ऽए᳘ककपाले ऽइव᳘ हीमे जा᳘नुनी पश्चाद्धृ᳘ष्टी पा᳘दावे᳘वास्मिन्नेत᳘द्दधाति पा᳘दाभ्याᳫँ᳭ हि धृ᳘ष्टम्प्रह᳘रत्युत्तरतः ख᳘रौ प्रचरणी᳘यौ तद्धि त᳘योराय᳘तनन्दक्षिणतो᳘ मार्ज्जाली᳘यन्तद्धि त᳘स्याय᳘तनम्॥
मूलम् - Weber
अ᳘थैत᳘द्रज्जुसन्दान᳘म्॥
उपय᳘मन्यामाधा᳘य पश्चात्प्रा᳘चीमा᳘सादयत्युद᳘रमेॗवास्मिन्नेत᳘द्दधाति त᳘दभि᳘तः पि᳘न्वने आण्डा᳘वेॗवास्मिन्नेत᳘द्दधात्याण्डा᳘भ्याᳫं हि वृ᳘षा पि᳘न्वते 36 पश्चा᳘त्स्थूणामयूख᳘मूरू᳘ एॗवास्मिन्नेत᳘द्दधाति पश्चा᳘द्रौहिणकपाले जा᳘नुनी एॗवास्मिन्नेत᳘द्दधाति ते यदे᳘ककपाले भ᳘वत ए᳘ककपाले इवॗ हीमे जा᳘नुनी पश्चाद्धृ᳘ष्टी पा᳘दावेॗवास्मिन्नेत᳘द्दधाति पा᳘दाभ्याᳫं हि धृ᳘ष्टम् प्रह᳘रत्युत्तरतः ख᳘रौ प्रचरणी᳘यौ तद्धि त᳘योराय᳘तनं दक्षिणतो᳘ मार्जाली᳘यं तद्धि त᳘स्याय᳘तनम्॥
मूलम् - विस्वरम्
अथैतद्रज्जुसंदानम् उपयमन्यामाधाय पश्चात्प्राचीमासादयति । उदरमेवास्मिन्नेतद्दधाति । तदभितः पिन्वने । आण्डावेवास्मिन्नेतद्दधाति । आण्डाभ्यां हि वृषा पिन्वते । पश्चात्स्थूणामयूखम् । ऊरू एवास्मिन्नेतद्दधाति । पश्चाद्रौहिणकपाले । जानुनी एवास्मिन्नेतद्दधाति । ते यदेककपाले भवतः । एककपाले इव हीमे जानुनी । पश्चाद्धृष्टी । पादावेवास्मिन्नेतद्दधाति । पादाभ्यां हि धृष्टं प्रहरति । उत्तरतः खरौ प्रचरणीयौ । तद्धि तयोरायतनम् । दक्षिणतो मार्जालीयम् । तद्धि तस्यायतनम् ॥ २२ ॥
सायणः
अथ उपयमन्या सार्द्धं गवादिबंधनार्थाया रज्जोरुद्वासनं 32 विधत्ते- अथैतद्रज्जुसंदानं० तद्दधातीति । अथानंतरं रज्जुश्च संदानानि च रज्जुसंदानं एतत्सर्वं घर्मोपयुक्तं गृहीत्वा ‘उपयमन्यां’ स्रुचि ‘आधाय’ प्रक्षिप्य ‘पश्चात्’ महावीरस्य पश्चाद्भागे ‘प्राचीं’ प्रागग्रां तां ‘आसादयति’ निदधाति । ‘एतत्’ एतेन आंत्रैर्युक्तमुदरमेव अस्मिन्प्रवर्ग्ये धारितवान् भवति । अथ दोहनार्थयोः पात्रयोरुद्वासनं 37 विधत्ते- तदभितः पिन्वने० वृषा पिन्वते इति । ‘तदभितः’ तस्योदरस्य पार्श्वयोः ‘पिन्वने’ दोहनसाधने मृण्मयपात्रे ‘निदधाति’ स्थापयति । ताभ्यां पात्राभ्यां ‘अस्मिन्’ प्रवर्ग्ये पुंसि ‘आंडौ’ मुष्कावेव धारितवान् भवति । कुतः ? ‘हि’ यस्मात् ‘वृषा’ सेचनसमर्थो युवा ‘आंडाभ्यां’ ‘पिन्वते’ रेतः सिंचति । तस्मात्पिन्वनसाधनत्वसाम्यात्पिन्वने पात्रे आंडस्थानीय इत्यर्थः । अथ गवादिबंधनार्थानां स्थूणादीनामुद्वासनं 38 विधाय तन्निर्वर्त्यावयवसंपादनमाह-पश्चात्स्थूणामयूख० तद्दधातीति । पिन्वनयोः पश्चात्पश्चिमभागे गोबंधनार्थाः स्थूणा वत्सादिबंधनार्था मयूखशब्दाभिधेयाः शंकवः तत् ‘स्थूणामयूखं’ तन्निदधाति । तथा च ‘ऊरू एव’ ‘अस्मिन्’ प्रवर्ग्ये धारितवान् भवति । अथ रौहिणपुरोडाशयोरुद्वासनं विधाय अवयवोक्तिमाह- पश्चाद्रौहिणकपाले० द्दधातीति । स्थूणामयूखानां ‘पश्चात्’ पश्चिमभागे रौहिणपुरोडाशाधिश्रपणार्थे ‘कपाले’ 39 ‘निदधाति’ । तेनास्मिन्प्रवर्ग्ये ‘‘जानुनी एव’ स्थापितवान् भवति । रौहिणकपालयोर्जान्वोश्च साम्यं ब्रुवन् उक्तमर्थं उपपादयति- ते यदेककपाले० जानुनी इति । ‘ते’ रौहिणकपाले यद्यस्मात् ‘एककपाले’ एकैककपालात्मके भवतः । तस्मादेव खलु ‘इमे जानुनी’ ‘एककपाले इव’ दृश्येते । अथ धृष्ट्योरुद्वासनं विधत्ते 40- पश्चाद्धृष्टी पादावे० प्रहरतीति । ‘पश्चात्’ रौहिणकपालयोः पश्चिमभागे अंगारविहरणार्थे ‘धृष्टी’ निदधाति । ‘एतत्’ एतेन ‘अस्मिन्’ प्रवर्ग्ये जान्वोरधस्तनौ ‘पादावेव’ स्थापितवान् भवति । धृष्ठ्योः पादयोश्च कथं साम्यं इति चेदुच्यते- ‘धृष्टं’ प्रगल्भं ‘पादाभ्यां’ खलु ‘प्रहरति’ । अतः धृष्ट्योः पादयोश्च कर्षणसाधनत्वसाम्यात् धृष्टी पादस्थानीये इत्यर्थः । अथ खरत्रयस्यापि उद्वासनं 41 विधत्ते- उत्तरतः खरौ प्र० यतनमिति । ‘उत्तरतः’ महावीरस्योत्तरदेशे ‘प्रचरणीयौ’ प्रवर्ग्यप्रचरणोपयुक्तौ ‘खरौ’ निदधाति । यौ पूर्वं गार्हपत्याहवनीययोरुत्तरतः सिकताभिः निर्मितौ तावपि उद्धृत्य आनीय महावीरोत्तरभागे निदध्यादित्यर्थः । ‘तत्’ खलु ‘तयोः’ खरयोः ‘आयतनं’ स्थानं प्रवर्ग्यप्रचरणसमये गार्हपत्याहवनीयतोः उत्तरतः तयोर्निर्मितत्वात् । यो ऽयं उच्छिष्टखराख्यो 42 धिष्ण्यं ‘मार्ज्जालीयं’ तद्दक्षिणतः मार्ज्जालीयस्य दक्षिणभागे निदध्यात् । तत्खलु तस्योच्छिष्टखरस्यायतनम् । प्राग्वंशस्य दक्षिणभागे । तस्य पुरा ऽवस्थितत्वात् । इत्थं घर्मोपयुक्तानां पात्राणामुद्वासनं तैश्च पुरुषाकृतिनिर्माणं च प्रतिपादितम् ॥ २२ ॥
Eggeling
- He then puts the cords and halter on the supporting-tray, and places (the latter) behind (the
navel) with its point towards the east: a belly he thus gives to it. On the two sides thereof the two milking-bowls (pinvana): two testicles he thereby gives to it, for by means of his testicles the male overflows (pinv). Behind (them he places) the post and peg: whereby he gives two thighs to it; behind (them) the two Rauhiṇa-plates, whereby he gives two knees to it; and as to their being single plates, it is because these knees consist, as it were, of single plates (bones). Behind (them) the two poking-sticks (dhr̥shṭi), whereby he gives two feet to it, for with the feet one strikes out boldly (dhr̥shṭam). On the left side the two mounds 43 used in the performance,. for there is their place of rest; on the right side the Mārjālīya 44, for there is its place of rest.
२३
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थास्मिन्प᳘य ऽआ᳘नयति॥
घ᳘र्म्मैत᳘त्ते पु᳘रीषमित्य᳘न्नम्वै पु᳘रीषम᳘न्नमे᳘वास्मिन्नेत᳘द्दधाति ते᳘न व्व᳘र्द्धस्व चा᳘ च प्यायस्वे᳘ति ना᳘त्र तिरो᳘हितमिवास्ति व्वर्द्धिषीम᳘हि च व्वयमा᳘ च प्यासिषीमही᳘त्याशि᳘षमे᳘वैतदा᳘शास्ते॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थास्मिन्प᳘य ऽआ᳘नयति॥
घ᳘र्म्मैत᳘त्ते पु᳘रीषमित्य᳘न्नम्वै पु᳘रीषम᳘न्नमे᳘वास्मिन्नेत᳘द्दधाति ते᳘न व्व᳘र्द्धस्व चा᳘ च प्यायस्वे᳘ति ना᳘त्र तिरो᳘हितमिवास्ति व्वर्द्धिषीम᳘हि च व्वयमा᳘ च प्यासिषीमही᳘त्याशि᳘षमे᳘वैतदा᳘शास्ते॥
मूलम् - Weber
अ᳘थास्मिन्प᳘य आ᳘नयति॥
घ᳘र्मैत᳘त्ते पु᳘रीषमित्य᳘न्नम् वै पु᳘रीषम᳘न्नमेॗवास्मिन्नेत᳘द्दधाति ते᳘न व᳘र्धस्व चा᳘ च प्यायस्वे᳘ति ना᳘त्र तिरो᳘हितमिवास्ति वर्धिषीम᳘हि च वयमा᳘ च प्यासिषीमही᳘त्याशि᳘षमेॗवैतदा᳘शास्ते॥
मूलम् - विस्वरम्
अथास्मिन्पय आनयति- “घर्मैतत्ते पुरीषम्”- इति । अन्नं वै पुरीषम् । अन्नमेवास्मिन्नेतद्दधाति । “तेन वर्धस्व चा व प्यायस्व”- इति । नात्र तिरोहितमिवास्ति । “वर्द्धिषीमहि च वयमा च प्यासिषीमहि”- (वा. सं. ३८ । २१) इति । आशिषमेवैतदाशास्ते ॥ २३ ॥
सायणः
अथ प्रचरणीये महावीरे पयस 45 आसेचनं विधत्ते- अथास्मिन् पय आनयति० तद्दधातीति । ‘अथ’ एवं सर्वपात्रोद्वासनानंतरं अस्मिन्प्रचरणीये प्रथमे महावीरे “घर्मैतत्ते” इति मंत्रेण ‘पयः’ क्षीरं ‘आनयति’ आसिंचति । अथास्मिन्मंत्रभागे पुरीषशब्दस्यार्थं ब्रुवन् स्तौति- अन्नं वै पुरीष० तद्दधातीति । ‘अन्नं’ अदनीयं वस्तु हि कृत्स्नदेहपूरकत्वात् पुरीषमित्युच्यते । अतः एतेन मंत्रभागेन अस्मिन्महावीरे अन्नमेव निदधाति । अथ द्वितीयभागमनूद्य स्पष्टार्थमाह- तेन वर्द्धस्व० मिवास्तीति । गतमेतत् । अथ तृतीयभागमनूद्याशीःप्रतिपादनमनेन क्रियते इत्याह- वर्द्धिषीमहि० तदाशास्ते इति । ‘वर्द्धिषीमहि’ एवं वृद्धाः भूयास्मेति एतादृशीमाशिषमेव ‘एतत्’ एतेन मंत्रभागेन ‘आशास्ते’ ॥ २३ ॥
Eggeling
- He then pours milk into that (chief pot), with (Vāj. S. XXXVIII, 21), ‘This, O Gharma, is the contents of thy bowels,’–the contents of the bowels being food, it is food he thus puts into it;–‘Grow thou, and fill out thereby!’–in this there is nothing hidden, so to speak;–‘and may we ourselves grow, and fill out!’–it is a blessing he thereby invokes.
२४
विश्वास-प्रस्तुतिः
स वै न स᳘र्व्वमिवा᳘नयेत्॥
(न्ने) नेद्य᳘जमानात्प᳘राग᳘न्नम᳘सदि᳘त्यर्द्ध᳘म्वा भू᳘यो वा प᳘रिशिनष्टि त᳘स्मिन्नपराह्णे य᳘जमानाय᳘ व्व्रत᳘मभ्युत्सि᳘च्य प्प्र᳘यच्छति तद्य᳘जमान ऽए᳘वैत᳘दन्ना᳘द्यन्दधाति त᳘थो ह य᳘जमानान्न प᳘राग᳘न्नम्भवति॥
मूलम् - श्रीधरादि
स वै न स᳘र्व्वमिवा᳘नयेत्॥
(न्ने) नेद्य᳘जमानात्प᳘राग᳘न्नम᳘सदि᳘त्यर्द्ध᳘म्वा भू᳘यो वा प᳘रिशिनष्टि त᳘स्मिन्नपराह्णे य᳘जमानाय᳘ व्व्रत᳘मभ्युत्सि᳘च्य प्प्र᳘यच्छति तद्य᳘जमान ऽए᳘वैत᳘दन्ना᳘द्यन्दधाति त᳘थो ह य᳘जमानान्न प᳘राग᳘न्नम्भवति॥
मूलम् - Weber
स वै न स᳘र्वमिवा᳘नयेत्॥
नेद्य᳘जमानात्प᳘राग᳘न्नम᳘सदि᳘त्यर्ध᳘म् वा भू᳘यो वा प᳘रिषिनष्टि त᳘स्मिन्नपराह्णे य᳘जमानाय व्रत᳘मभ्युत्सि᳘च्य प्र᳘यछति तद्य᳘जमान एॗवैत᳘दन्ना᳘द्यं दधाति त᳘थो ह य᳘जमानान्न प᳘राग᳘न्नम् भवति॥
मूलम् - विस्वरम्
स वै न सर्वमिवानयेत् । नेद्यजमानात्परागन्नमसदिति । अर्द्धं वा भूयो वा परिशिनष्टि । तस्मिन्नपराह्णे यजमानाय व्रतमभ्युत्सिच्य प्रयच्छति । तद्यजमान एवैतदन्नाद्यं दधाति । तथा उ ह यजमानान्न परागन्नं भवति ॥ २४ ॥
सायणः
अथानेतव्यस्य पयसः परिमाणमाह- स वै न सर्व्व० परिशिनष्टीति । ‘स वै’ स खलु अध्वर्युः । ‘सर्वमिव’ सकलमेव पयो महावीरे ‘नानयेत्’ नासिञ्चेत् । ‘नेत्’ नैव ‘यजमानात्’ अन्नं पराक् परागतं वियुक्तं असद्भवेत् इति अनेनाभिप्रायेण । तर्हि कियत् आनेतव्यमिति चेत् उच्यते- ‘अर्द्धं’ वा पयसो ऽर्द्धभागं वा ‘भूयो वा’ ततो ऽप्यधिकं वा ‘परिशिनष्टि’ अवशेषयति । घर्म्मदुघायाः धेनोः पयसः अर्द्धभागं ततो ऽपि किंचिन्न्यूनं वा महावीरे अवनयेदित्यर्थः । अथ परिशेषितस्य पयसः कदोपयोगः ? इत्यत आह- तस्मिन्नपराह्णे० भवतीति । तस्मिन्नवशिष्टे पयसि अपराह्णकाले दातव्यं सायंकालीयं ‘व्रतं’ व्रतार्थं पयः ‘अभ्युत्सिच्य’ उपर्यासिच्य ‘यजमानाय’ 46 प्रयच्छेत् । तथा च सति तत्तेन घर्मावशेषितस्य पयसः व्रतपयसा मिश्रणेन ‘एतदन्नाद्यं’ घर्म्मदुघायाः पयोलक्षणं ‘यजमान एव दधाति’ स्थापयति । तथैव च सति यजमानसकाशात् ‘अन्नं पराक्’ पराग्भूतं परागतं वियुक्तं ‘न भवति’ ॥ २४ ॥
Eggeling
- Let him not pour in all (the milk), lest the food should turn away from the Sacrificer.–He leaves over half of it or more; and on that same afternoon he pours it to the fast-milk, and hands it to the Sacrificer: thereby he bestows food upon
the Sacrificer, and thus, indeed, food does not turn away from the Sacrificer,
२५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थैनमद्भिः प᳘रिषिञ्चति॥
शा᳘न्तिर्व्वा ऽआ᳘पः शम᳘यत्ये᳘वैनमेत᳘त्सर्व्व᳘तः प᳘रिषिञ्चति सर्व्व᳘त ऽए᳘वैनमेत᳘च्छमयति त्रिष्कृ᳘त्वः प᳘रिषिञ्चति त्रिवृद्धि᳘ यज्ञः॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थैनमद्भिः प᳘रिषिञ्चति॥
शा᳘न्तिर्व्वा ऽआ᳘पः शम᳘यत्ये᳘वैनमेत᳘त्सर्व्व᳘तः प᳘रिषिञ्चति सर्व्व᳘त ऽए᳘वैनमेत᳘च्छमयति त्रिष्कृ᳘त्वः प᳘रिषिञ्चति त्रिवृद्धि᳘ यज्ञः॥
मूलम् - Weber
अ᳘थैनमद्भिः प᳘रिषिञ्चति॥
शा᳘न्तिर्वा आ᳘पः शम᳘यत्येॗवैनमेत᳘त्सर्व᳘तः प᳘रिषिञ्चति सर्व᳘त एॗवैनमेत᳘छमयति त्रिष्कृ᳘त्वः प᳘रिषिञ्चति त्रिवृद्धि᳘ यज्ञः॥
मूलम् - विस्वरम्
अथैनमद्भिः परिषिंचति । शांतिर्वा आपः । शमयत्येवैनमेतत् । सर्वतः परिषिंचति । सर्वत एवैनमेतच्छमयति । त्रिष्कृत्वः परिषिंचति । त्रिवृद्धि यज्ञः ॥ २५ ॥
सायणः
अथोद्वासितस्य घर्मस्य परिषेचनं विधत्ते- अथैनमद्भिः परिषिञ्चतीति । ‘अथ’ एवमुद्वासनानंतरं ‘एनं’ प्रवर्ग्यं अद्भिरुदकैः ‘परिषिंचति’ । तदुक्तं सूत्रकृता- “उत्तरवेदिं त्रिः परिषिच्याचिक्रददिति” 46 (का. श्रौ. सू. २६ । २३) इति । अथ एतस्य परिषेचनस्य शमनहेतुत्वमाह- शांतिर्वा आप० त्येवैनमेतदिति । ‘शांतिर्वै’ शांतिहेतवः शांता आपः । किं तत इति चेत्; उच्यते- ‘एतत्’ एतेन अद्भिः परिषेचनेन ‘एनं’ तप्तं घर्म्मं ‘शमयत्येव’ उपशांतं करोत्येव । अथास्य परिषेचनस्य सर्वदिक्संबंधमनूद्य स्तौति- सर्वतः परि० च्छमयतीति । ‘सर्वतः’ सर्वासु दिक्षु उत्तरवेदिं ‘परिषिंचति’ । ‘एतत्’ ‘सर्वतः’ सर्वाभ्य एव दिग्भ्यः ‘एनं’ घर्म्मं ‘शमयति’ शांतं करोति । अथ तस्य परिषेचनस्यावृत्तिं विधाय स्तौति- त्रिष्कृत्वः परिषिञ्चति त्रिवृद्धि यज्ञ इति । त्रिष्कृत्वस्त्रिवारं ‘परिषिंचति’ ‘त्रिवृद्धि’ त्रिगुणितः खलु ‘यज्ञः’ सवनत्रयादिभिन्नत्वात् ॥ २५ ॥
Eggeling
- He then sprinkles it (the Pravargya apparatus) with water: water being a means of appeasement, he thus appeases it; he sprinkles it all over: all over he thus appeases it; three times he sprinkles, for threefold is the sacrifice.
२६
विश्वास-प्रस्तुतिः
(ज्ञो᳘ ऽथा) अ᳘थाह व्वार्षाहरᳫँ᳭ सा᳘म गाय᳘ति॥
(त्ये) एष वै व्वृ᳘षा ह᳘रिर्य्य᳘ ऽएष त᳘पत्येष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह व्वार्षाहरᳫँ᳭ सा᳘म गाये᳘ति॥
मूलम् - श्रीधरादि
(ज्ञो᳘ ऽथा) अ᳘थाह व्वार्षाहरᳫँ᳭ सा᳘म गाय᳘ति॥
(त्ये) एष वै व्वृ᳘षा ह᳘रिर्य्य᳘ ऽएष त᳘पत्येष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह व्वार्षाहरᳫँ᳭ सा᳘म गाये᳘ति॥
मूलम् - Weber
अ᳘थाह वार्षाहरᳫं सा᳘म गाय᳘ति॥
एष वै वृ᳘षा ह᳘रिर्य᳘ एष त᳘पत्येष᳘ उ प्रव᳘र्ग्यस्त᳘देत᳘मेॗवैत᳘त्प्रीणाति त᳘स्मादाह वार्षाहरᳫं 47 सा᳘म गायति॥
मूलम् - विस्वरम्
अथाह वार्षाहरं साम गायेति । एष वै वृषा हरिः । य एष तपति । एष उ प्रवर्ग्यः । तदेतमेवैतत्प्रीणाति । तस्मादाह- वार्षाहरं साम गायेति ॥ २६ ॥
सायणः
अथ परिषेचने क्रियमाणे प्रस्तोतारं प्रति सामगानार्थं 46 प्रेष्येत् इत्याह- अथाह वा० सामगायेतीति । वार्षाहरराख्यं ‘साम’ हे प्रस्तोतः ‘गाय’ इति अध्वर्युर्ब्रूयात् । तच्च “अचिक्रदद्वृषा हरिः” इत्यस्यां गीयते, तदेतत् स्तौति- एष वै वृषा० गायेतीति । ‘एष वै’ एष खलु सूर्यः मंत्रे वृषा हरिरित्युच्यते । वर्षणात्, रसहरणाच्च ‘एषः’ एव सूर्यः प्रवर्ग्यः । गतमन्यत् । यस्मादेवं “अचिक्रदद्वृषा हरिः” इति मंत्रः समवेतार्थः । ‘तस्मात्’ “वार्षाहरँ साम गाय” इति अध्वर्युर्ब्रूयात् ॥ २६ ॥
Eggeling
२७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ चा᳘त्वाले मार्ज्जयन्ते॥
सुमित्रिया᳘ न ऽआ᳘प ऽओ᳘षधयः सन्त्वि᳘त्यञ्जलि᳘ना ऽप ऽउ᳘पाचति व्व᳘ज्रो वा आ᳘पो व्व᳘ज्रेणै᳘वैत᳘न्मित्रधे᳘यङ्कुरुते दुर्म्मित्रियास्त᳘स्मै सन्तु᳘ यो ऽस्मान्द्वे᳘ष्टि य᳘ञ्च व्वय᳘न्द्विष्म ऽइ᳘ति या᳘मस्य दि᳘शन्द्वे᳘ष्यः स्यात्तान्दि᳘शम्प᳘रासिञ्चेत्ते᳘नैव तम्प᳘राभावयति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ चा᳘त्वाले मार्ज्जयन्ते॥
सुमित्रिया᳘ न ऽआ᳘प ऽओ᳘षधयः सन्त्वि᳘त्यञ्जलि᳘ना ऽप ऽउ᳘पाचति व्व᳘ज्रो वा आ᳘पो व्व᳘ज्रेणै᳘वैत᳘न्मित्रधे᳘यङ्कुरुते दुर्म्मित्रियास्त᳘स्मै सन्तु᳘ यो ऽस्मान्द्वे᳘ष्टि य᳘ञ्च व्वय᳘न्द्विष्म ऽइ᳘ति या᳘मस्य दि᳘शन्द्वे᳘ष्यः स्यात्तान्दि᳘शम्प᳘रासिञ्चेत्ते᳘नैव तम्प᳘राभावयति॥
मूलम् - Weber
अ᳘थ चा᳘त्वाले मार्जयन्ते॥
सुमित्रिया᳘ न आ᳘प ओ᳘षधयः सन्त्वि᳘त्यञ्जलि᳘नाप उ᳘पाचति 50 व᳘ज्रो वा आ᳘पो व᳘ज्रेणैॗवैत᳘न्मित्रधे᳘यं कुरुते दुर्मित्रियास्त᳘स्मै सन्तुॗ योऽस्मान्द्वे᳘ष्टि यं᳘ च वयं᳘ द्विष्म इ᳘ति या᳘मस्य दि᳘शं द्वे᳘ष्यः स्यात्तां दि᳘शं प᳘रासिञ्चेत्ते᳘नैव तम् प᳘राभावयति॥
मूलम् - विस्वरम्
अथ चात्वाले मार्जयन्ते- “सुमित्रिया न आप ओषधयः सन्तु”- इति अञ्जलिना ऽप उपाचति । वज्रो वा आपः। वज्रेणैवैतन्मित्रधेयं कुरुते । “दुर्मित्रियास्तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः”- (वा. सं. ३८ । २३) इति । यामस्य दिशं द्वेष्यः स्यात् । तां दिशं परासिञ्चेत् । तेनैव तं पराभावयति ॥ २७ ॥
सायणः
अथ चात्वाले प्रवर्ग्यकर्तॄणां मार्जनं विधत्ते- अथ चात्वाले 51 मार्ज्जयन्ते० सन्त्वितीति । अयानन्तरं चत्वाल नामके अवटे अपः उपस्पृशन्ति अद्भिर्मार्जयन्ते इत्यर्थः । “सुमित्रिया नः” इति तत्र मन्त्रः । (तदेतत्स्तौति 52- ‘यावत्’ यावन्तं कालं ‘एतेन’ प्रवर्ग्येण प्रचरन्ति तावत्पर्यन्तं अस्मात् स्थानात् आपश्च ओषधयश्च अपक्रम्य निर्गम्येव तिष्ठन्ति । ‘तदु’ तेनापामुपस्पर्शनेन अपक्रान्ताभिस्ताभिः ‘मित्रधेयं’ मैत्रीं ‘कुरुते’ कृतवान् भवति ।) अथ मार्जनशेषस्योदकस्य सेचनं विधत्ते- दुर्म्मित्रिया० तं पराभावयतीति । ‘अस्य’ यजमानस्य ‘द्वेष्यः’ शत्रुः ‘यां दिशं’ प्राप्तः ‘स्यात्’ । ‘तां दिशं परासिञ्चेत्’ तस्यां दिशि मार्जनशिष्टमुदकं “दुर्म्मित्रियाः” इत्यनेन मन्त्रेण पराचीनं निनयेत । ‘तेन’ परासेचनेन तमेव शत्रुं ‘पराभावयति’ पराभूतं कृतवान् भवति ॥ २७ ॥
Eggeling
- They then cleanse themselves at the pit. With (Vāj. S. XXXVIII, 23), ‘May the waters and plants be friendly unto us,’ he takes water in his joined hands; for water is a thunderbolt: he thus makes a covenant with the thunderbolt;–and with, ‘May they be unfriendly unto him who hateth us, and whom we hate!’ let him sprinkle it in whatever direction he who is hateful to him may be, and he thereby overthrows him.
२८
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ प्रा᳘ङिवो᳘दङ्ङु᳘त्क्रामति॥
(त्यु᳘) उ᳘द्वयन्त᳘मसस्प᳘रीति पाप्मा वै त᳘मः पाप्मा᳘नमेव तमो᳘ ऽपहते᳘ स्वः[[!!]] प᳘श्यन्त ऽउ᳘त्तरमि᳘त्ययम्वै᳘ लो᳘को ऽद्भ्य ऽउ᳘त्तरो ऽस्मि᳘न्नेव᳘ लोके प्प्र᳘तितिष्ठति देव᳘न्देवत्रा सू᳘र्य्यम᳘गन्म ज्यो᳘तिरुत्तममि᳘ति स्वर्ग्गो वै᳘ लोकः सू᳘र्य्यो ज्यो᳘तिरुत्तम᳘ᳫँ᳘ स्वर्ग्ग᳘ ऽएव᳘ लो᳘के ऽन्ततः प्प्र᳘तितिष्ठत्य᳘नपेक्षमे᳘त्याहवनी᳘ये समि᳘धमभ्या᳘दधाति समि᳘दसि ते᳘जो ऽसि ते᳘जो म᳘यि धेही᳘त्याशि᳘षमे᳘वैतदा᳘शास्ते᳘॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ प्रा᳘ङिवो᳘दङ्ङु᳘त्क्रामति॥
(त्यु᳘) उ᳘द्वयन्त᳘मसस्प᳘रीति पाप्मा वै त᳘मः पाप्मा᳘नमेव तमो᳘ ऽपहते᳘ स्वः[[!!]] प᳘श्यन्त ऽउ᳘त्तरमि᳘त्ययम्वै᳘ लो᳘को ऽद्भ्य ऽउ᳘त्तरो ऽस्मि᳘न्नेव᳘ लोके प्प्र᳘तितिष्ठति देव᳘न्देवत्रा सू᳘र्य्यम᳘गन्म ज्यो᳘तिरुत्तममि᳘ति स्वर्ग्गो वै᳘ लोकः सू᳘र्य्यो ज्यो᳘तिरुत्तम᳘ᳫँ᳘ स्वर्ग्ग᳘ ऽएव᳘ लो᳘के ऽन्ततः प्प्र᳘तितिष्ठत्य᳘नपेक्षमे᳘त्याहवनी᳘ये समि᳘धमभ्या᳘दधाति समि᳘दसि ते᳘जो ऽसि ते᳘जो म᳘यि धेही᳘त्याशि᳘षमे᳘वैतदा᳘शास्ते᳘॥
मूलम् - Weber
अ᳘थ प्रा᳘ङिवो᳘दङ्ङु᳘त्क्रामति॥
उ᳘द्वयं त᳘मसस्प᳘रीति पाप्मा वै त᳘मः पाप्मा᳘नमेव तमो᳘ऽपहते स्वः᳘ प᳘श्यन्त उत्तरमि᳘त्ययम् वै᳘ लोॗकोऽद्भ्य उ᳘त्तरोऽस्मि᳘न्नेव᳘ लोके प्र᳘तितिष्ठति देवं᳘ देवत्रा सू᳘र्यम᳘गन्म ज्यो᳘तिरुत्तममि᳘ति स्वर्गो वै᳘ लोकः सू᳘र्यो ज्यो᳘तिरुत्तम᳘ᳫं᳘ स्वर्ग᳘ एव᳘ लोॗकेऽन्ततः प्र᳘तितिष्ठत्य᳘नपेक्षमे᳘त्याहवनी᳘ये समि᳘धमभ्या᳘दधाति समि᳘दसि ते᳘जोऽसि ते᳘जो म᳘यि धेही᳘त्याशि᳘षमेॗवैतदा᳘शास्ते॥
मूलम् - विस्वरम्
अथ प्राङिवोदङ्ङुत्क्रामति- “उद्वयं तमसस्परि”- इति । पाप्मा वै तमः । पाप्मानमेव तमो ऽपहते । “स्वः पश्यंत उत्तरम्”- इति । अयं वै लोको ऽद्भ्य उत्तरः । अस्मिन्नेव लोके प्रतितिष्ठति । “देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम्”- (वा. सं. ३८ । २४) इति । स्वर्गो वै लोकः सूर्यो ज्योतिरुत्तमम् । स्वर्ग एव लोके ऽन्ततः प्रतितिष्ठति । अनपेक्षमेत्य आहवनीये समिधमभ्यादधाति- “समिदसि तेजो ऽसि तेजो मयि धेहि”- (वा. सं. ३८ । २५) इति । आशिषमेवैतदाशास्ते ॥ २८ ॥
सायणः
अथ मार्जनदेशान्निर्गमनं विधत्ते- अथ प्राङिवोदङ्ङुत्क्रामतीति । ‘प्राङिव’ प्राङ्मुख इव ‘उदङ्’ उदङ्मुखः उत्तरपूर्वदिगभिमुखः “उद्वयमिति” मन्त्रेण ‘उत्क्रामति’ उत्प्लुत्य गच्छति । सर्वे प्रवर्ग्यकर्तारो ऽनेन 53 मन्त्रेणोत्क्रामेयुरित्यर्थः । अथास्य मन्त्रभागस्य तात्पर्यमाह- पाप्मा वै तमः पाप्मानमेव तमो ऽपहते इति । मालिन्यहेतुत्वात् पाप्मैवात्र तमःशब्देनोच्यते । ‘वयं तमसः’ 53 उपरि उत्क्रांताः अभूमेति तद्वाक्यस्यार्थः । अतः ‘पाप्मानं’ पापरूपमेव ‘तमः अपहते’ विवासयति । अथ द्वितीयपादमनूद्य व्याचष्टे- स्वः पश्यंत ऽउत्तर० प्रतितिष्ठतीति । ‘अयं वै’ अयं खलु भूलोकः ‘अद्भ्यः’ सामुद्रीभ्यः सकाशात् ‘उत्तरः’ उपरिदेशस्थः । तस्मादत्रोत्तरशब्देनायमेव लोकः प्रतिपाद्यत इति द्यौः ‘अस्मिन्नेव लोके प्रतितिष्ठति’ प्रतिष्ठिता भवति । अथोत्तरार्द्धमनूद्य व्याचष्टे- देवन्देवत्रा० प्रतितिष्ठतीति । अस्मिन् घर्मे प्राप्यत्वेन निर्द्दिष्टं यत्सूर्यात्मकमुत्तमं ‘ज्योतिः’ असावेव स्वर्गो लोकः । तथा च अंततो ऽवसाने यागफलभूते स्वर्गलोक एव ‘प्रतितिष्ठति’ प्रतिष्ठितो भवति । अनेन 53 मन्त्रेण चात्वालदेशादुत्क्रांतानां समिदाधानं विधत्ते- अनपेक्षमेत्याहव० समिधमिति । ‘अनपेक्षं’ अपेक्षां पृष्ठभागस्यावेक्षणमकृत्वा एत्याहवनीयदेशं प्राप्य तस्मिन्नाहवनीये एकां ‘समिधं “समिदसि" इत्यनेन मन्त्रेणाभ्यादधाति । एतया समिधा अग्निमेव समिंधे संदीपयति । स च समिद्धो ऽग्निः एनं यजमानं तेजसा दीप्त्या समिंद्धे प्रकाशयति, यजमानस्तेजस्वी भवतीत्यर्थः ॥ २८ ॥
Eggeling
- He (the Sacrificer) then steps out towards the north-east, with (Vāj. S. XXXVIII, 24), ‘From out of the gloom have we risen,’–gloom is
evil: it is gloom, evil, he thus drives away;–‘beholding the higher light,’–this (terrestrial) world is higher than the water: it is on this world he thus establishes himself;–‘God Sūrya, with the gods, the highest light,’–Sūrya, the highest light, is the heavenly world: it is in the heavenly world he thus finally establishes himself. He walks along without looking back, and puts a log of wood on the Āhavanīya 54, with (Vāj. S. XXXVIII, 25), ‘A kindler thou art, fire thou art: lay thou fire into me!’ it is a blessing he thereby invokes.
२९
विश्वास-प्रस्तुतिः
(स्ते᳘ ऽथ) अ᳘थ प्र᳘सुते दधिघर्म्मे᳘ण प्प्रचरन्ति॥
यज्ञो वै सो᳘मः शि᳘रः प्प्रव᳘र्ग्यो यज्ञ᳘ ऽए᳘वैतच्छि᳘रः प्प्र᳘तिदधाति मा᳘ध्यन्दिने स᳘वन ऽएतद्वा ऽइ᳘न्द्रस्य नि᳘ष्केवल्यᳫँ᳭ स᳘वनं यन्मा᳘ध्यन्दिनᳫँ᳭ स᳘वनᳫँ᳭ स्व᳘ ऽए᳘वैनमेत᳘द्भागे᳘ प्प्रीणाति स्तुते मा᳘ध्यन्दिने प᳘वमाने प्प्राणो वै मा᳘ध्यन्दिनः प᳘वमानः प्प्राण᳘मे᳘वास्मिन्नेत᳘द्दधात्यग्निहोत्रह᳘वण्या मु᳘खम्वा᳘ ऽएत᳘द्यज्ञा᳘नां य᳘दग्निहोत्र᳘ᳫँ᳘ शीर्षंस्तन्मु᳘खन्दधाति॥
मूलम् - श्रीधरादि
(स्ते᳘ ऽथ) अ᳘थ प्र᳘सुते दधिघर्म्मे᳘ण प्प्रचरन्ति॥
यज्ञो वै सो᳘मः शि᳘रः प्प्रव᳘र्ग्यो यज्ञ᳘ ऽए᳘वैतच्छि᳘रः प्प्र᳘तिदधाति मा᳘ध्यन्दिने स᳘वन ऽएतद्वा ऽइ᳘न्द्रस्य नि᳘ष्केवल्यᳫँ᳭ स᳘वनं यन्मा᳘ध्यन्दिनᳫँ᳭ स᳘वनᳫँ᳭ स्व᳘ ऽए᳘वैनमेत᳘द्भागे᳘ प्प्रीणाति स्तुते मा᳘ध्यन्दिने प᳘वमाने प्प्राणो वै मा᳘ध्यन्दिनः प᳘वमानः प्प्राण᳘मे᳘वास्मिन्नेत᳘द्दधात्यग्निहोत्रह᳘वण्या मु᳘खम्वा᳘ ऽएत᳘द्यज्ञा᳘नां य᳘दग्निहोत्र᳘ᳫँ᳘ शीर्षंस्तन्मु᳘खन्दधाति॥
मूलम् - Weber
अ᳘थ प्र᳘सुते 55 दधिघर्मे᳘ण चरन्ति॥
यज्ञो वै सो᳘मः शि᳘रः प्रव᳘र्ग्यो यज्ञ᳘ एॗवैतछि᳘रः प्र᳘तिदधाति मा᳘ध्यन्दिने स᳘वन एतद्वा इ᳘न्द्रस्य नि᳘ष्केवल्यᳫं स᳘वनं यन्मा᳘ध्यन्दिनᳫं स᳘वनᳫं स्व᳘ एॗवैनमेत᳘द्भागे᳘ प्रीणाति स्तुते मा᳘ध्यन्दिने प᳘वमाने प्राणो वै मा᳘ध्यन्दिनः प᳘वमानः प्राण᳘मेॗवास्मिन्नेत᳘द्दधात्यग्निहोत्रह᳘वण्या मु᳘खम् वा᳘ एत᳘द्यज्ञा᳘नां य᳘दग्निहोत्रं᳘ शीर्षंस्तन्मु᳘खं दधाति॥
मूलम् - विस्वरम्
अथ प्रवर्ग्यशेषो दधिघर्मः ।
अथ प्रसुते दधिघर्मेण प्रचरन्ति । यज्ञो वै सोमः । शिरः प्रवर्ग्यः । यज्ञ एवैतच्छिरः प्रतिदधाति । माध्यन्दिने सवने । एतद्वा इन्द्रस्य निष्केवल्यं सवनम् । यन्माध्यन्दिनं सवनम् । स्व एवैनमेतद्भागे प्रीणाति । स्तुते माध्यन्दिने पवमाने । प्राणो वै माध्यन्दिनः पवमानः । प्राणमेवास्मिन्नेतद्दधाति । अग्निहोत्रहवण्या । मुखं वा एतद्यज्ञानाम् । यदग्निहोत्रम् । शीर्षंस्तन्मुखं दधाति ॥ २९ ॥
सायणः
इत्थं प्रवर्ग्यतदुद्वासने उक्ते, अथ सौत्ये अहनि कर्तव्यं दधिघर्म्माख्यं यागं विधत्ते- अथ प्रसुते दधिघर्म्मेण प्रचरन्तीति । ‘प्रसुते’ अभिषुते सोमे सुत्यादिवसे ‘दधिघर्म्मेण’ तप्तदधिद्रव्यकेण दधिघर्म्माख्येन यागेन अध्वर्युप्रभृतयः ‘प्रचरन्ति’ चरेयुः । सुत्यादिवसानुष्ठेयस्याप्यत्रानुविधानं दधिघर्म्मस्य प्रवर्ग्यशेषत्वद्योतनार्थम् । तेन प्रवर्ग्यप्रवृत्तौ 56 अस्यापि प्रवृत्तिः । अत एवापस्तंबेन दधिघर्म्मं प्रस्तुत्योक्तं- “निः प्रवर्ग्यो ऽस्यादित्यपरम्”- इति तदेतत् सोमयागानां मध्ये घर्म्मानुष्ठानं स्तौति- यज्ञो वै सोमः शि० प्रतिदधातीति । यज्ञात्मक एव सोमः प्राधान्येन यज्ञनिष्पादकत्वात् । प्रवर्ग्यश्च यज्ञस्य शिरः इत्युक्तम् । तथा च- दधिघर्म्मो ऽपि प्रवर्ग्यशिर एवेति सोमयाग एव एतच्छिरः प्रतिहितं भवति । तत्रापि माध्यन्दिनसवने एव दधिघर्मः कार्यः इत्याह- माध्यन्दिने सवन इति । दधिघर्म्मेण प्रचरन्तीत्यनुवर्तते । तदेतत् स्तौति- एतद्वा ऽइन्द्रस्य० प्रीणातीति । ‘एतत्’ खलु सवनं ‘इन्द्रस्य निष्केवल्यं’ केवलमिन्द्रस्यैव निष्कृष्य स्वभूतं माध्यन्दिनं ‘सवनं’ इति यत् । अतस्तेन दधिघर्म्मेण हविषा ‘स्वे’ स्वकीये ‘एव भागे’ भागभूते एव सवने ‘एनं’ इन्द्रं ‘प्रीणाति’ तर्पयति । तत्रापि पवमानस्यानन्तरं दधिघर्म्मः 57 कार्य इत्याह- स्तुते माध्यन्दिने पवमाने इति । माध्यन्दिनाख्ये पवमानस्तोत्रे ‘स्तुते’ सति दधिघर्म्मेण चरितव्यं, तदेतत्स्तौति- प्राणो वै माध्यन्दि० तद्दधातीति । प्राणात्मकः खलु ‘माध्यन्दिनः पवमानः,’ गायत्रामहीयवरौखयौधाजयौशनसाख्यैः 58 पंचभिः सामभिः प्राणापानादिपंचवृत्त्यात्मकैः उपेतत्वात् । अतः पंचवृत्त्यात्मकं मुख्यं ‘प्राणमेव’ ‘अस्मिन्’ घर्म्मे स्थापितवान् भवति । अथ तस्मिन् दधिघर्म्मे साधनत्वेन पात्रविशेषं 59 विधाय स्तौति- अग्निहोत्रहवण्या० तन्मुखं दधातीति । अग्निहोत्रहोमो यया स्रुचा हूयते सा अग्निहोत्रहवणी तया दधिघर्माख्यं हविर्जुहोति । अग्निहोत्रमिति यत्कर्म ‘एतद्यज्ञानां मुखं वै’ वक्रस्थानीयं तत्संबंधात्स्रुगपि मुखस्थानीया । अतः तत्तया ‘अग्निहोत्रहवण्या’ स्रुचा होमेन ‘शीर्षन्’ शीर्ष्णि यज्ञस्य शिरसि मुखमेव ‘दधाति’ स्थापितवान् भवति ॥ २९ ॥
Eggeling
- And at a continued pressing of Soma they also perform the Gharma of curds and whey (Dadhi-gharma),–for Soma is the sacrifice, and the Pravargya is its head: he thus restores to the sacrifice its head,–at the midday-pressing, for that–to wit, the midday-pressing–is Indra’s special pressing: he thus pleases him in his own share;–when the Mādhyandina-pavamāna has been chanted, for the Mādhyandina-pavamāna is the breath: it is breath he thereby lays into him;–with the Agnihotra-ladle, for the Agnihotra is the mouth of sacrifices: he thus puts a mouth in the head.
३०
विश्वास-प्रस्तुतिः
स᳘ ऽआनीय᳘मान ऽआह॥
हो᳘तर्व्व᳘दस्व य᳘त्ते व्वा᳘द्यमि᳘ति व्व᳘दते ह्य᳘त्र होता᳘ ऽथोपोत्ति᳘ष्ठन्नाह श्रात᳘ᳫँ᳘ हविरि᳘ति श्रातᳫँ᳭ हि भ᳘वत्यतिक्र᳘म्याश्रा᳘व्याह दधिघर्म्म᳘स्य यजे᳘ति व्व᳘षट्कृते जुहोत्यनुव᳘षट्कृत ऽआ᳘हरति भक्षं तं य᳘जमानाय प्प्र᳘यच्छति॥
मूलम् - श्रीधरादि
स᳘ ऽआनीय᳘मान ऽआह॥
हो᳘तर्व्व᳘दस्व य᳘त्ते व्वा᳘द्यमि᳘ति व्व᳘दते ह्य᳘त्र होता᳘ ऽथोपोत्ति᳘ष्ठन्नाह श्रात᳘ᳫँ᳘ हविरि᳘ति श्रातᳫँ᳭ हि भ᳘वत्यतिक्र᳘म्याश्रा᳘व्याह दधिघर्म्म᳘स्य यजे᳘ति व्व᳘षट्कृते जुहोत्यनुव᳘षट्कृत ऽआ᳘हरति भक्षं तं य᳘जमानाय प्प्र᳘यच्छति॥
मूलम् - Weber
स᳘ आनीय᳘मान आह॥
हो᳘तर्व᳘दस्व य᳘त्ते वा᳘द्यमि᳘ति व᳘दते ह्य᳘त्र होता᳘थोपोत्ति᳘ष्ठन्नाह श्रात᳘ᳫं᳘ हविरि᳘ति श्रातᳫं हि भ᳘वत्यतिक्र᳘म्याश्रा᳘व्याह दधिघर्म᳘स्य यजे᳘ति व᳘षट्कृते जुहोत्यनुव᳘षट्कृत आ᳘हरति भक्षं तं य᳘जमानाय प्र᳘यछति॥
मूलम् - विस्वरम्
स आनीयमान आह- “होतर्वदस्व यत्ते वाद्यम्”- इति । वदते ह्यत्र होता । अथोपोत्तिष्ठन्नाह- “श्रातं हविः”- इति । श्रातं हि भवति । अतिक्रम्याश्राव्याह । दधिघर्मस्य यजेति । वषट्कृते जुहोति । अनुवषट्कृते आहरति भक्षम् । तं यजमानाय प्रयच्छति ॥ ३० ॥
सायणः
इत्थं दधिघर्म्मयागस्य कालः साधनं चोक्तम् । अथ तस्य यागभक्षणे 60 विधित्सुराह- स ऽआनीयमान० यजमानाय प्रयच्छतीति । सो ऽध्वर्युः ‘आनीयमाने’ दधिघर्मे स्रुच्यासिच्यमाने “होतर्वदस्व यत्ते वाद्यम्” इति ब्रूयात् । अस्यायमर्थः- हे होतः ! तद्वदस्व ब्रूहि । ‘ते’ तव दधिघर्म्मग्रहणसमये ‘यत्’ ‘वाद्यं’ वक्तव्यं अस्तीति । प्रैषांतरवत् ब्रूहीति चोदनां परित्यज्य किं कारणं वदस्वेति चोद्यते ? इत्याशंक्याह- अत्रास्मिन् समये ‘होता वदते हि’ केवलं वृत्तमर्थं कथयति हि । न तु अनुवक्ति यजति वा । तथाहि- “होतर्वदस्व” इत्युक्ते होता “उत्तिष्ठतावपश्यत” इत्येतामृचं ब्रूते । तस्याश्चायमर्थः- हे अध्वर्युप्रभृतयः ‘उत्तिष्ठत’ उत्थिता भवत । ततश्च ‘अवपश्यत’ अधिश्रितं दधिघर्म्ममवाङ्मुखं आलोकयत । यदि असौ श्रातः पक्वः तर्हि जुहुत । यदि अश्रातः अपक्वः । तदा सुखेन तूष्णीमुपविशतेति । तथा चाभिवदनमात्रस्य होत्रा क्रियमाणत्वात् “होतर्वदस्व” इत्येव प्रैषं ब्रूयात् । अथानन्तरं अध्वर्युः ‘उपोत्तिष्ठन्’ आसनादूर्ध्वं तिष्ठन् “श्रातँ हविः” इति होतारं प्रत्याह । हे होतः ! श्रातं पक्वं हविरिति हि तस्यार्थः । ‘हि’ यस्मात्, दधिघर्म्माख्यं हविः ‘श्रातं’ परिपक्वं ‘भवति’ । ‘तस्मात्’ श्रातं हविरिति होत्रे निवेदयेदित्यर्थः । एवमुक्त्वा दक्षिणा ‘अतिक्रम्य’ आश्राव्याश्रावणं कृत्वा प्रत्याश्राविते सति “दधिघर्म्मस्य यज” इति इमं प्रैषमाह ब्रूयात् । ततो याज्यांत ‘वषट्कृते’ सति अग्निहोत्रहवण्या तद्धविः ‘जुहोति’ । एवं वषट्कारानुवषट्कारयोः किञ्चित्किञ्चिद्धुत्वा शिष्टं ‘भक्षं’ भक्षणार्थमाहरति । यजमानसमीपं गमयति । आहृत्य च ‘तं’ भक्षं ‘यजमानाय 61 प्रयच्छति’ ददाति ॥ ३० ॥
Eggeling
- On its being brought, he says, ‘Hotār, speak what thou hast to speak!’ for the Hotr̥ speaks on this occasion. Then, stepping up, he says, ‘Cooked is the offering-food;’ for cooked, indeed, it is. Having stepped across (behind the Āhavanīya), and called for the Śraushaṭ, he says, ‘Pronounce the offering-formula!’ and offers on the Vashaṭ being uttered. When the Vashaṭ is
repeated, he brings the draught, and hands it to the Sacrificer.
३१
विश्वास-प्रस्तुतिः
स᳘ ऽउपहव᳘मिष्ट्वा᳘ भक्षयति॥
म᳘यि त्य᳘दिन्द्रिय᳘म्बृहदि᳘त्येतद्वा᳘ ऽइन्द्रिय᳘म्बृहद्य᳘ ऽएष त᳘पति म᳘यि द᳘क्षो म᳘यि क्र᳘तुरि᳘ति क्र᳘तूद᳘क्षावे᳘वात्म᳘न्द्धत्ते[[!!]] घ᳘र्म्मस्त्रिशुग्वि᳘राजती᳘ति घर्म्मो᳘ ह्येष᳘ त्रिशु᳘ग्विरा᳘जति व्विरा᳘जा ज्यो᳘तिषा सहे᳘ति व्विरा᳘जा᳘ ह्येष᳘ ज्यो᳘तिषा स᳘ह ब्र᳘ह्मणा ते᳘जसा सहे᳘ति ब्र᳘ह्मणा᳘ ह्येष ते᳘जसा स᳘ह प᳘यसो रे᳘त ऽआ᳘भृतमि᳘ति प᳘यसो᳘ ह्येतद्रे᳘त ऽआ᳘भृतन्त᳘स्य दो᳘हमशीमह्यु᳘त्तरामुत्तराᳫँ᳭ स᳘मामि᳘त्याशि᳘षमे᳘वैतदा᳘शास्ते᳘ ऽथ चा᳘त्वाले मार्ज्जयन्ते ऽसा᳘वेव ब᳘न्धुः॥
मूलम् - श्रीधरादि
स᳘ ऽउपहव᳘मिष्ट्वा᳘ भक्षयति॥
म᳘यि त्य᳘दिन्द्रिय᳘म्बृहदि᳘त्येतद्वा᳘ ऽइन्द्रिय᳘म्बृहद्य᳘ ऽएष त᳘पति म᳘यि द᳘क्षो म᳘यि क्र᳘तुरि᳘ति क्र᳘तूद᳘क्षावे᳘वात्म᳘न्द्धत्ते[[!!]] घ᳘र्म्मस्त्रिशुग्वि᳘राजती᳘ति घर्म्मो᳘ ह्येष᳘ त्रिशु᳘ग्विरा᳘जति व्विरा᳘जा ज्यो᳘तिषा सहे᳘ति व्विरा᳘जा᳘ ह्येष᳘ ज्यो᳘तिषा स᳘ह ब्र᳘ह्मणा ते᳘जसा सहे᳘ति ब्र᳘ह्मणा᳘ ह्येष ते᳘जसा स᳘ह प᳘यसो रे᳘त ऽआ᳘भृतमि᳘ति प᳘यसो᳘ ह्येतद्रे᳘त ऽआ᳘भृतन्त᳘स्य दो᳘हमशीमह्यु᳘त्तरामुत्तराᳫँ᳭ स᳘मामि᳘त्याशि᳘षमे᳘वैतदा᳘शास्ते᳘ ऽथ चा᳘त्वाले मार्ज्जयन्ते ऽसा᳘वेव ब᳘न्धुः॥
मूलम् - Weber
स᳘ उपहव᳘मिष्ट्वा᳘ भक्षयति॥
म᳘यि त्य᳘दिन्द्रिय᳘म् बृहदि᳘त्येतद्वा᳘ इन्द्रिय᳘म् बृहद्य᳘ एष त᳘पति म᳘यि द᳘क्षो म᳘यि क्र᳘तुरि᳘ति क्र᳘तूद᳘क्षावेवा᳘त्म᳘न्धत्ते घर्म᳘स्त्रिशुग्वि᳘राजती᳘ति घर्मोॗ ह्येष᳘ त्रिशु᳘ग्विरा᳘जति विरा᳘जा ज्यो᳘तिषा सहे᳘ति विरा᳘जाॗ ह्येष᳘ ज्यो᳘तिषा सह ब्र᳘ह्मणा ते᳘जसा सहे᳘ति ब्र᳘ह्मणाॗ 62 ह्येष ते᳘जसा सह प᳘यसो रे᳘त आ᳘भृतमि᳘ति प᳘यसोॗ ह्येतद्रे᳘त आ᳘भृतं त᳘स्य दो᳘हमशीमह्यु᳘त्तरामुत्तराᳫं स᳘मामि᳘त्याशि᳘षमेॗवैतदा᳘शास्ते᳘ऽथ चा᳘त्वाले मार्जयन्तेऽसा᳘वेव ब᳘न्धुः॥
मूलम् - विस्वरम्
स उपहवमिष्ट्वा भक्षयति- “मयि त्यदिन्द्रियं बृहत्”- इति । एतद्वा इन्द्रियं बृहत् । य एष तपति । “मयि दक्षो मयि क्रतुः"- इति । ऋतूदक्षावेवात्मन्धत्ते । “घर्मस्त्रिशुग्विराजति”- इति । घर्मो ह्येष त्रिशुग्विराजति । “विराजा ज्योतिषा सह”- इति । विराजा ह्येष ज्योतिषा सह । “ब्रह्मणा तेजसा सह”- (वा. सं. ३८ । २७) इति । ब्रह्मणा ह्येष तेजसा सह । “पयसो रेत आभृतम्”- इति । पयसो ह्येतद्रेत आभृतम् । तस्य दोहमशीमह्युत्तरामुत्तरां समाम्"- (वा. सं. ३८ । २८) इति । आशिषमेवैतदाशास्ते । अथ चात्वाले मार्जयन्ते । असावेव बन्धुः ॥ ३१ ॥
सायणः
‘सः’ यजमानः अध्वर्योरुपहवमिष्ट्वा 60 “अध्वर्य उपह्वयस्व” इत्येवमुपहवं याच्ञां कृत्वा “मयि त्यदिन्द्रियं” इति मन्त्रेण ‘भक्षयति’ । अथैतन्मन्त्रवाक्यं समुपादाय व्याचष्टे- एतद्वा ऽइन्द्रियं० तदाशास्ते इति । ‘य एषः’ सूर्यस्तपति एतत्खलु ‘बृहत्’ परिवृढं ‘इन्द्रियं’ वीर्यात्मकम् । अतः ईदृग्विधमिन्द्रियं ‘मयि’ भवतु इति प्रथमवाक्यस्यार्थः । “प्राणो वै यज्ञो ऽपानः क्रतुः" इति (तै. सं. २ । ५ । २) तैत्तिरीयश्रुतेः ‘क्रतूदक्षौ’ प्राणापानौ । अतः “मयि दक्षो मयि क्रतुः” इति मन्त्रभागेन तावेवात्मनि स्वस्मिन् यजमानः ‘धत्ते’ धारयति । ‘एषः’ खलु घर्म्मः ‘त्रिशुक्’ त्रिविधं शोचमानः वैद्युतपार्थिवाग्निसूर्यात्मना त्रेधा दीप्यमानो ‘विराजति’ । अतस्त्रिशुग्विराजतीति वाक्यं समवेतार्थमित्यर्थः । छंदसां मध्ये विराट् खलु ज्योतिः तेजोरूपा । “अग्निर्द्देवानांज्योतिर्विराट्छन्दसाञ्ज्योतिः” (तै. सं. ७ । १ । १) इति तैत्तिरीयश्रुतेः । अतः ‘विराजा’ विराडात्मकेन ‘ज्योतिषा’ यस्मादेष घर्म्मो विराजति । तस्मात् “विराजा ज्योतिषा सह” इति वाक्यमपि समवेतार्थम् । यद्वा ‘विराजा’ विराजमानेन ‘ज्योतिषा’ सूर्यात्मनेति योज्यम् । तथा ‘ब्रह्मणा’ ब्रह्मजात्या त्रयीरूपेण वा ‘तेजसा सह’ एष सूर्यात्मको घर्म्मो विराजति । सूर्यस्य च त्रयीसाहित्यं 63 तैत्तिरीयके स्पष्टमाम्नायते- “ऋग्भिः पूर्वाह्णे दिवि देव ईयते, यजुर्वेदे तिष्ठति मध्ये ऽह्नः, सामवेदेनास्तमये महीयते” (तै. का. प्र. ३ अनु. अन्त्य.) इत्यादि । तथा ‘पयसः’ क्षीरसकाशात् खलु ‘एतद्रेतः’ वीर्यहेतुभूतं दधिघर्माख्यं हविः ‘आभृतं’ सम्पादितम् । अतः “पयसो रेत आभृतम्” इति एतमर्थं प्रतिपादयति । ‘तस्य’ तथाविधस्योक्तलक्षणस्य दधिघर्म्मस्य ‘दोहं’ दोहनीयं भागं ‘अशीमहि’ प्राप्नुयाम । ‘उत्तरामुत्तराँ समाम्’ एतस्मिन् संवत्सरे इव आगामिन्यपि सर्वस्मिन् संवत्सरे तत्प्राप्नुयामेति एतादृशीं ‘आशिषमेव’ ‘एतत्’ एतेन मन्त्रभागेन यजमानः ‘आशास्ते’ आशंसते । अथ सर्वेषामृत्विजां चात्वाले 64 मार्जनं विधत्ते- अथ चात्वाले मा० बन्धुरिति । स्पष्टो ऽर्थः ॥ ३१ ॥
Eggeling
- Having solicited an invitation 65 (and received an answer from the priests), he drinks of it, with (Vāj. S. XXXVIII, 27), ‘May there be in me that great energy,’–a great energy, indeed, is he who shines yonder;–‘in me the fitness, in me the intelligence,’–fitness and intelligence he thus secures to himself;–’the Gharma of triple fires shineth,’–for this Gharma of triple fires indeed shines;–’together with the shining light,’–for together with the shining light (the sun) it indeed is;–’together with the fire, the Brahman,’–for together with the fire, the Brahman, it indeed is,–(Vāj. S. XXXVIII, 28), ‘The seed of the milk hath been brought,’–for this is indeed the seed of the milk that has been brought;–‘may we obtain the milking thereof year after year!’–it is a blessing he thereby invokes. They then cleanse themselves at the pit the significance of this is the same as before.
३२
विश्वास-प्रस्तुतिः
(र) अथा᳘तो द᳘क्षिणानाम्॥
(नाᳫँ᳭) सुव᳘र्ण्णᳫँ᳭ हि᳘रण्यᳫँ᳭ शत᳘मानम्ब्रह्म᳘णे ददात्या᳘सीनो वै᳘ ब्रह्मा य᳘शः श᳘यानᳫँ᳭ हि᳘रण्यन्त᳘स्मात्सुव᳘र्ण्णᳫँ᳭ हि᳘रण्यᳫँ᳭ शत᳘मानम्ब्रह्म᳘णे ददाति॥
मूलम् - श्रीधरादि
(र) अथा᳘तो द᳘क्षिणानाम्॥
(नाᳫँ᳭) सुव᳘र्ण्णᳫँ᳭ हि᳘रण्यᳫँ᳭ शत᳘मानम्ब्रह्म᳘णे ददात्या᳘सीनो वै᳘ ब्रह्मा य᳘शः श᳘यानᳫँ᳭ हि᳘रण्यन्त᳘स्मात्सुव᳘र्ण्णᳫँ᳭ हि᳘रण्यᳫँ᳭ शत᳘मानम्ब्रह्म᳘णे ददाति॥
मूलम् - Weber
अथा᳘तो द᳘क्षिणानाम्॥
सुव᳘र्णᳫं हि᳘रण्यं शत᳘मानम् ब्रह्म᳘णे ददात्या᳘सीनो वै᳘ ब्रह्मा य᳘शः श᳘यानᳫं हि᳘रण्यं त᳘स्मात्सुव᳘र्णᳫं हि᳘रण्यं शत᳘मानम् ब्रह्म᳘णे ददाति॥
मूलम् - विस्वरम्
अथ प्रवर्ग्याङ्गभूतं दक्षिणाद्रव्यदानम् ।
अथातो दक्षिणानाम् । सुवर्णं हिरण्यं शतमानं ब्रह्मणे ददाति । आसीनो वै ब्रह्मा । यशः शयानं हिरण्यम् । तस्मात्सुवर्णं हिरण्यं शतमानं ब्रह्मणे ददाति ॥ ३२ ॥
सायणः
अथ प्रवर्ग्यकर्तॄणां ऋत्विजां प्रवर्ग्याङ्गभूतदक्षिणानां दानमाह- अथातो दक्षिणानामिति । ‘अथ’ दधिघर्म्मयागानन्तरं यतो दक्षिणारहितो यज्ञो निर्वीर्यः अतः कारणात् ‘दक्षिणानां’ द्रव्याणां दानम् इतः परं प्रस्तूयते इति शेषः । तत्र तावद्ब्रह्मणो 66 यज्ञभिषक्त्वेन मुख्यत्वात् तस्मै दातव्यदक्षिणामाह- सुवर्णँ हिर० ददातीति । ‘सुवर्णं’ सुवर्णविकारं हेममयं ‘शतमानं’ रुक्मं ‘हिरण्यं’ रजतं ‘शतमानं’ च ‘ब्रह्मणे ददाति’ । तदेतदुपपाद्य निगमयति- आसीनो वै० ददातीति । ब्रह्मा सर्वर्त्विजां मध्ये सर्वेषु कर्मसु दक्षिणतः आस्ते । अतः प्राचुर्येण ‘ब्रह्मा आसीनः’ सर्वत्रोपविष्ट एव भवति । तथा सौवर्णं राजतं च शयनशालीनं भवति चोरादिभयात् सौवर्णराजतादीनि सर्वदा गृहेषु गूढं स्थाप्यत एव । न तत् द्रव्यांतरवत् प्रकटं व्यवह्रियते । ‘तस्मात्’ प्रतिग्राह्यप्रतिग्रहीत्रोः साधर्म्येण संबंधार्थत्वात् । गतमन्यत् ॥ ३२ ॥
Eggeling
- Now, then, as to the sacrificial gifts. The gold plate he gives to the Brahman; for the Brahman is seated, and gold is settled 67 glory: therefore he gives the gold plate to the Brahman.
३३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ᳘ यैषा᳘ घर्म्मदु᳘घा॥
ता᳘मध्वर्य्य᳘वे ददाति तप्त᳘ ऽइव वै᳘ घर्म्म᳘स्तप्त᳘मिवाध्वर्य्युर्नि᳘ष्क्रामति त᳘स्मात्ता᳘मध्वर्य्य᳘वे ददाति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ᳘ यैषा᳘ घर्म्मदु᳘घा॥
ता᳘मध्वर्य्य᳘वे ददाति तप्त᳘ ऽइव वै᳘ घर्म्म᳘स्तप्त᳘मिवाध्वर्य्युर्नि᳘ष्क्रामति त᳘स्मात्ता᳘मध्वर्य्य᳘वे ददाति॥
मूलम् - Weber
अ᳘थॗ यैषा᳘ घर्मदु᳘घा॥
ता᳘मध्वर्य᳘वे ददाति तप्त᳘-इव वै᳘ घर्म᳘स्तप्त᳘मिवाध्वर्युर्नि᳘ष्क्रामति 68 त᳘स्मात्ता᳘मध्वर्य᳘ वे ददाति॥
मूलम् - विस्वरम्
अथ यैषा घर्मदुघा । तामध्वर्यवे ददाति । तप्त इव वै घर्मः । सप्तमिवाध्वर्युर्निष्क्रामति । तस्मात्तामध्वर्यवे ददाति ॥ ३३ ॥
सायणः
अथाध्वर्यवे 66 दातव्यां दक्षिणां विधाय तदुपपाद्य निगमयति- अथ यैषा घर्म्म० ददातीति । ‘अथ’ सौवर्णराजतशतमानयोर्दानानन्तरं ‘या एषा’ गौः ‘घर्म्मदुघा’ प्रवर्ग्यार्थस्य पयसो दोह्या ‘तामध्वर्यवे’ दद्यात् । किमनयोः साधर्म्यमिति चेत्; उच्यते- घर्म्मस्तावत् ‘तप्त इव वै’ अंगारैः संतप्तो ऽग्निवर्ण इव भवति । अध्वर्युश्च घर्मसंदीपनादौ तप्तं तं घर्म्मं ‘निष्क्रामति’ नितरां प्राप्य स्वयमपि तदौष्ण्येन तप्त इव भूत्वा उत्क्रामति । तत्कृतं तापम् अतिक्रामति । तस्मादुभयोः तप्तत्वसाधर्म्यात् तप्यमानघर्मसंबंधिनीं ‘तां’ गामध्वर्यवे दद्यात् ॥ ३३ ॥
Eggeling
- And that cow which yielded the Gharma-milk he gives to the Adhvaryu; for scorched, as it were, is the Gharma, and the Adhvaryu comes forth (from the sacrificial ground) like something scorched 69: therefore he gives it to the Adhvaryu.
३४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ᳘ यैषा य᳘जमानस्य व्व्रतदु᳘घा॥
ताᳫँ᳭ हो᳘त्रे ददाति यज्ञो वै हो᳘ता यज्ञो य᳘जमानस्त᳘स्मात्ताᳫँ᳭ हो᳘त्रे ददाति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ᳘ यैषा य᳘जमानस्य व्व्रतदु᳘घा॥
ताᳫँ᳭ हो᳘त्रे ददाति यज्ञो वै हो᳘ता यज्ञो य᳘जमानस्त᳘स्मात्ताᳫँ᳭ हो᳘त्रे ददाति॥
मूलम् - Weber
अ᳘थॗ यैषा य᳘जमानस्य व्रतदु᳘घा॥
ताᳫं हो᳘त्रे ददाति यज्ञो वै हो᳘ता यज्ञो य᳘जमानस्त᳘स्मात्ताᳫं हो᳘त्रे ददाति॥
मूलम् - विस्वरम्
अथ यैषा यजमानस्य व्रतदुघा । तां होत्रे ददाति । यज्ञो वै होता । यज्ञो यजमानः । तस्मात्तां होत्रे ददाति ॥ ३४ ॥
सायणः
अथ 70 होत्रे देयां दक्षिणामाह- अथ यैषा यजमान० होत्रे ददातीति । ‘अथ’ अध्वर्यवे दानानन्तरं ‘या एषा यजमानस्य व्रतदुघा’ व्रतार्थस्य पयसो दोग्ध्री धेनुः ‘तां होत्रे’ दद्यात् । अथैतयोः साधर्म्यमभिधाय, उक्तमर्थं निगमयति- यज्ञो वै होता० होत्रे ददातीति । वषट्कारेण हि सर्वाणि हवींषि हूयन्ते । अतस्तस्य प्राधान्येन तत्कर्तुरपि प्राधान्यात् ‘होता यज्ञो वै’ यज्ञात्मक एव । यजमानो ऽपि फलस्य स्वामित्वात् यज्ञात्मकः । अतो यजमानार्था गौरपि यज्ञात्मिका । तस्याः उभयोर्यज्ञात्मकत्वसाम्यात् । गतमन्यत् ॥ ३४ ॥
Eggeling
- And that cow which yielded the Sacrificer’s
fast-milk he gives to the Hotr̥; for the Hotr̥ is the sacrifice, and the Sacrificer also is the sacrifice: therefore he gives it to the Hotr̥.
३५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ᳘ यैषा प᳘त्न्यै व्व्रतदु᳘घा॥
ता᳘मुद्गातृ᳘भ्यो ददाति पत्नीक᳘र्म्मेव वा᳘ ऽएते᳘ ऽत्र कुर्व्वन्ति य᳘दुद्गाता᳘रस्त᳘स्मात्ता᳘मुद्गातृ᳘भ्यो ददाति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ᳘ यैषा प᳘त्न्यै व्व्रतदु᳘घा॥
ता᳘मुद्गातृ᳘भ्यो ददाति पत्नीक᳘र्म्मेव वा᳘ ऽएते᳘ ऽत्र कुर्व्वन्ति य᳘दुद्गाता᳘रस्त᳘स्मात्ता᳘मुद्गातृ᳘भ्यो ददाति॥
मूलम् - Weber
अ᳘थॗ यैषा प᳘त्न्यै व्रतदु᳘घा॥
ता᳘मुद्गातृ᳘भ्यो ददाति पत्नीकॗर्मेव वा᳘ एते᳘ऽत्र कुर्वन्ति य᳘दुद्गाता᳘रस्त᳘स्मात्ता᳘मुद्गातृ᳘भ्यो ददाति॥
मूलम् - विस्वरम्
अथ यैषा पत्न्यै व्रतदुघा । तामुद्गातृभ्यो ददाति । पत्नीकर्मेव वा एते ऽत्र कुर्वन्ति- यदुद्गातारः । तस्मात्तामुद्गातृभ्यो ददाति ॥ ३५ ॥
सायणः
अथोद्गातॄणां 70 दक्षिणादानं विधाय तदुपपाद्य निगमयति- अथ यैषा पत्न्यै व्रतदुघा० ददातीति । ‘अथ’ होत्रे दानानन्तरं ‘पत्न्यै’ पत्न्यर्थं ‘व्रतदुघा’ व्रतार्थस्य पयसः दोग्ध्री ‘या एषा’ गौः ‘तामुद्गातृभ्यः’ प्रस्तोतृप्रमुखेभ्यः सामगेभ्यो दद्यात् । ‘यत्’ ये ‘उद्गातारः’ अत्रास्मिन्प्रवर्ग्ये ‘पत्नीकर्मेव’ खलु स्वकीयं कर्माचरन्ति । यद्वा मुखवेष्टनादिकं पत्नीसम्बद्धं कर्म ‘एते कुर्वन्ति’ अतः पत्नीसम्बन्धात् गौः तेषां योग्या । ‘तस्मात्’ प्रतिग्राह्यप्रतिग्रहीत्रोः पत्नीसम्बन्धसाम्यात् ‘तां’ गां ‘उद्गातृभ्यः’ दद्यात् ॥ ३५ ॥
Eggeling
- And that cow which yielded the fast-milk for the (Sacrificer’s) wife he gives to the chanters, for it is they, the Udgātr̥s, that do, as it were, the wife’s work on this occasion: therefore he gives it to the chanters.
३६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थैतद्वै॥ (द्वा ऽआ᳘) आयुरेतज्ज्यो᳘तिः प्प्र᳘विशति[[!!]] य᳘ ऽएतम᳘नु वा[[!!]] ब्रूते᳘ भक्ष᳘यति वा[[!!]] त᳘स्य व्व्रतचर्य्या या सृ᳘ष्टौ॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थैतद्वै॥ (द्वा ऽआ᳘) आयुरेतज्ज्यो᳘तिः प्प्र᳘विशति[[!!]] य᳘ ऽएतम᳘नु वा[[!!]] ब्रूते᳘ भक्ष᳘यति वा[[!!]] त᳘स्य व्व्रतचर्य्या या सृ᳘ष्टौ॥
मूलम् - Weber
अ᳘थैतद्वै आ᳘युरेतज्ज्यो᳘तिः प्र᳘विशति य᳘ एतम᳘नु वा ब्रूते᳘ भक्ष᳘यति वा त᳘स्य व्रतचर्या या सृ᳘ष्टौ॥
मूलम् - विस्वरम्
अथैतद्वा आयुः, एतज्ज्योतिः प्रविशति । य एतमनु वा ब्रूते । भक्षयति वा । तस्य व्रतचर्याया सृष्टौ ॥ ३६ ॥
सायणः
ब्राह्मणान्तरवत् एतद्ब्राह्मणाध्ययनतदर्थानुष्ठानयोरङ्गत्वेन पूर्वोक्तां व्रतचर्यामत्राप्यतिदिशति- अथैतद्वा ऽआ० व्रतचर्या या सृष्टाविति । सिद्धमेतत् ॥ ३६ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये चतुर्दशे काण्डे तदन्तर्भूते प्रथमे प्रवर्ग्यकाण्डे तृतीये ऽध्याये प्रथमं ब्राह्मणम् ॥ १४ (१) । ३ । १ ॥
Eggeling
- And, verily, whosoever either teaches, or partakes of, this (Pravargya) enters that life, and that light: the observance thereof is the same as at the creation 71.
-
अत्र “प्रवृञ्जनं प्रवर्ग्यस्य तद्यागोद्वासने तथा । तत्स्तुतिश्चेत्यमी अर्थास्तृतीये ऽध्याय ईरिताः” ॥ १ ॥ अयं श्लोकः क्वचिदुपलभ्यते स च काण्वपाठाभिप्रायिको न तु माध्यन्दिनपाठाभिप्रायिकः । इति बोध्यम् ॥ ↩︎
-
एकाहस्त्र्युपसत्कः । का. श्रौ. सू. ८ । ५४ । ↩︎
-
सपुरीषा षट्स्वेकैका । का. श्रौ. सू. १७ । १४३ । ↩︎
-
द्वादश वा । का. श्रौ. सू. ८ । ५४ । “तिस्र एव साह्नस्योपसदो द्वादशाहीनस्य” इति (तै. सं. ६ । २ । ५) शाखांतरीयवाक्यात् ॥ ↩︎
-
उभाभ्यां चरिते प्रवर्ग्यमुत्सादयति यथोक्तं कुर्याच्चेत् । का. श्रौ. सू. ८ । ७२ । “उपसदन्ते प्रवर्ग्योत्सादनम् । ↩︎
-
अंतःपात्ये परिघर्म्यं निधाय दक्षिणेन नित्योच्छिष्टखरम् । का. श्रौ. सू. २६ । ११५ । ११६ । इति ॥ ↩︎
-
493:2 That is, according to whether there are three, six, or twelve Upasad days to the particular form of Soma-sacrifice about to be performed. On each of these days there would be two performances of the Upasads,–and in case the Pravargya is to be performed–as many performances of that sacrifice. ↩︎
-
493:3 On the day before the Soma-sacrifice, the two performances of the Pravargya and the Upasads are combined and gone through in the forenoon, instead of the forenoon and afternoon as is otherwise the case. Kāty. XXVI, 7, 1 does not refer to the performance of the Pravargya on this day, but merely remarks that ‘at the end of the Upasads (i.e. of the combination of the Upasads, comm.) the removal of the Pravargya’ takes place. Āpast. XV, 12, 4-6, on the other hand, states distinctly that the total number of performances of the Pravargya is to be double that of the Upasad days. ↩︎
-
493:4 The ‘setting out’ (utsādana) of the Pravargya is the technical phrase for the removal and orderly laying out (in the form of a man) of the apparatus used for the Pravargya ceremony. ↩︎
-
493:5 After collecting the implements they take them out of the śālā and lay them down near the Antaḥpātya peg, at a few steps from the front door (whilst Āpast. makes them to be put on the throne-seat placed north of the Āhavanīya). ↩︎
-
494:1 According to the comm. on Kāty. XXVI, 7, 4, it is the Adhvaryu who–after ladling four times into the offering-spoon–distributes this ghee successively over the three bundles of sticks,–viz. pouring some upon the first two whilst they are held, at the specified height over the Āhavanīya fire, by the Agnīdh (who immediately after the offering throws them into the fire), and upon the third after it has been held knee-high by the Agnīdh, and then thrown into the fire by the Adhvaryu. According to Āpastamba, who makes the Pratiprasthātr̥ and Adhvaryu the two performers, the third portion of the ghee is offered on the bundle of sticks whilst it is still held knee-high over the fire. As noted by Kātyāyana, the ceremony is analogous (though reversed as regards the order of height) to the offering on the three enclosing-stones at the Śatarudriya ceremony, IX, 1, 1, 5 seqq. ↩︎
-
द्यामुं᳘ कᳫ शुगा᳘ A. ↩︎
-
क्षत्त्रस्य त्वेति निष्क्रमणं पुरस्तात्पत्नीमन्तर्धाय । का. श्रौ. सू. २६ । ११९ । पत्नीमन्तर्धाय अग्रतः कृत्वेति कर्कः । ↩︎
-
495:1 Viz. out of the śālā, with the Sacrificer’s wife in front of him, and followed by the others. According to Āpast. XV, 13, 4, the Pratiprasthātr̥ now leads the Sacrificer’s wife within the enclosure; and whilst attendants carry away the objects not immediately connected with the Pravargya ceremony (post, peg, strings, sand, &c.), the Adhvaryu places the throne-seat (with the chief vessels) so as to stand with two feet on the Vedi, and with the other two outside it, and calls on the Prastotr̥ to sing the Sāman. This (as is usual in chanting) is done three times–the Adhvaryu, however, repeating his summons each time–and each time all of them (including the Patnī) sing or utter a special finale,–the first time in the śālā, the second time midway between the śālā and the Uttaravedi, and the third time when they have arrived behind the Uttaravedi; the finales corresponding to the formulas of this paragraph, viz.–‘For the protection (or protector) of heaven (we follow) thee!’–‘For the protection of the Brahman–thee!’–‘For the protection of the self–thee!’ ↩︎
-
496:1 It should be borne in mind that the Mahāvīra by which they are supposing themselves to be led now, is looked upon as a symbol of the sun. ↩︎
-
यज्ञाश्छ᳘री A. ↩︎
-
“साम प्रेष्यति गाय ब्रू ३ हीति वा" । का. श्रौ. सू. १० । १७० । साम प्रेष्यत्यवभृथवद्देशाः । का. श्रौ. सू. २६ । १२० । प्रतिपत्तव्या इति शेषः । देशानाह कात्यायनः । “व्यध्वोदकांतयोश्च" । का. श्रौ. सू. १० । १७१ । ततश्चादौ अंतःपात्यदेशे तत अर्द्धमार्गे तत उत्सादनदेशे इति यावत् । ↩︎
-
शतपथे ऽपि स्पष्टम् । मंडलब्राह्मणे- “अथ यदेतदर्चिर्द्दीप्यते तन्महाव्रतं तानि सामानि स साम्नां लोकः” । (श. प. १० । ५ । २ । १ ।) ↩︎
-
“ऋचो यदधिकं किंचित् द्विरुक्तं वा ऽपि दृश्यते । स्तोभत्वं तस्य मन्यन्ते क्रमशः शास्त्रचिंतकाः" । १ । १६ । इति स्तोभानुसंहारपरिशिष्टम् । स च स्तोभस्त्रिप्रकारः । वर्णस्तोभः १ पदस्तोभः २ वाक्यस्तोभः ३ इति । वर्णस्तोभः इकारादिः १ । पदस्तोभः हाई-हाउ-आदिः २ । वाक्यस्तोभो नवविधः । अशस्तिः १ स्तुतिः २ संख्यानं ३ प्रलयः ४ परिदेवनं ५ प्रैषः ६ अन्वेषणं ७ सृष्टिः ८ आख्यानं ९ इति । ततश्चायं द्वितीयः स्तुतिर्वाक्यस्तोभः ॥ ↩︎
-
विकारः १ विश्लेषः २ विकर्षणं ३ विरामः ४ अभ्यासः ५ लोपः ६ आगमः ७ स्तोभः ८ इति गानसमये मन्त्राणां स्वरूपपरिवर्तने अष्टौ कारणानि । एभिः कारणैः परिवर्तितो मन्त्रसमुदायो गानम् । तच्च गानं चतुर्द्धा । वेयं १ ऊहः २ ऊह्यं ३ आरण्यकं ४ चेति । विद्यमानस्य वर्णस्य स्थाने वर्णातरोच्चारणं विकारः १ संधिविच्छेदो विश्लेषः २ ह्रस्वस्थाने दीर्घस्योच्चारणं दीर्घस्थाने प्लुतस्योच्चारणं विकर्षणं ३ विश्रामो विरामः त्रिस्त्रिरुच्चारणं अभ्यासः ५ वर्णस्यानुच्चारणं लोपः ६ अधिकवर्णस्योच्चारणं आगमः ७ स्तोभस्तूक्तः ८ (१०३ पृष्ठे द्वितीयटिप्पण्याम् ।) ॥ ↩︎
-
497:1 The same Sāman is sung when they betake themselves to the expiatory bath at the end of the Soma-sacrifice, cf. IV, 4, 5, 8 where the stobha had better be altered to ‘ahāvo’ (though the Sandhi in the text is the same as of ‘ahāvas’). As on that former occasion, all the priests, as well as the Sacrificer, join in the finale. ↩︎ ↩︎
-
497:2 In doing so, they take the Pravargya-vessels and implements along with them. ↩︎
-
497:3 Hardly ‘is suffering pain,’ as it was taken at IX, 2, 1, 29; though ‘śuśucāna’ and ‘śuc’ evidently refer to internal heat, or passion, cf. p. 464, note 4 , p. 468, note 1. ↩︎
-
उत्सादनदशं गच्छत्यनग्ना ऽउत्तरवेदिम् । का. श्रौ. सू. २६ । १२२ । ↩︎ ↩︎
-
498:1 Kātyāyana only lays down the rule that, in the case of the sacrifice not being accompanied with the building of a fire-altar, the Pravargya apparatus should be removed to the Uttara-vedi; whilst, in the case of one who likewise performs the Agnicayana, he would doubtless follow the indication already laid down in the Brāhmaṇa, IX, 2, 1, 19; viz. that the pot may be removed to an island, but should rather be deposited on the fire-altar (in which case, however, the ‘setting out’ of the apparatus would apparently have to be deferred till after the performance of the Soma-sacrifice). Āpastamba treats of the Uttara-vedi as the place where the implements are to be deposited, but finally he allows an option of other places, including an island, but not the fire-altar. ↩︎
-
498:2 The words ‘sa naḥ sarvāyuḥ saprathāḥ,’ being here used as explanatory of ‘sa no viśvāyuḥ saprathāḥ,’ have probably got by mistake into the Saṁhitā. ↩︎
-
499:1 The author evidently understands the text more in accordance with Mahīdhara’s interpretation which makes ‘anyavratasya’ to refer to the Supreme Spirit (paramātmā) whose law, or ways, are different front men’s, and construes it with ‘saścima’ (we serve, are devoted, to that righteous one). The preceding part of the half-verse he would thus take independently of this:–‘Away hatred! away guile!’ ↩︎
-
499:2 Viz. consisting of bone, skin, and hair. ↩︎
-
परीशासावभितः । ↩︎
-
रौहिणहवन्यौ चावकृष्टे बाह्ये । (का. श्रौ. सू. २६ । १२६-१२९) । ↩︎
-
आसंदीं दक्षिणतः । ↩︎
-
कृष्णाजिनमुत्तरतः । ↩︎
-
सर्वतो धवित्राणि । परिधींश्च ॥ का. श्रौ. सू. २६ । १३० ॥ ↩︎
-
वृ᳘षा पि᳘न्वने A. - ibid. पश्चाद्वृ᳘षी A. E. - ibid. प्रवरणी᳘यौ A. ↩︎
-
पश्चात्पिन्वने चाभितो दंडम् । दंडं दीक्षादंडम् । का. श्रौ. सू. २६ । १३१ । ↩︎
-
स्थूणामयूखम् । का. श्रौ. सू. २६ । १३२ । ↩︎
-
पश्चात् रौहिणकपाले । का. श्रौ. सू. २६ । १३३ । ↩︎
-
धृष्टी च । मध्ये ऽन्यत् । का. श्रौ. सू. २६ । १३४ । १३५ । ↩︎
-
खरा उत्तरतः । का. श्रौ. सू. २६ । १३६ । खरौ प्रचरणीयौ खरौ । ↩︎
-
दक्षिणतो मार्जालीयदेशं बहिर्वेद्युच्छिष्टखरम् । का. श्रौ. सू. २६ । १३६ । शांतिकरणमाद्यंतयोः । स्वाध्यायदर्शनात्स्वाध्यायदर्शनात् । का. श्रौ. सू. २६ । १५५ । १५६ । तच्च शांतिकरणं द्वारापिधानोत्तरकाले आदिमं अंत्यं च । पात्राणामासंद्यामासादनानंतरं “ऋचं वाचम्” इत्यध्यायेन ॥ ↩︎
-
500:1 That is, the sand used for them, and brought thither in vessels. ↩︎
-
500:2 That is, the sand of the ‘mound of remains’ (ucchishṭakhara), see p. 489, note 3. ↩︎
-
आसेचनवन्ति पयसः पूरयति घर्म्मैतत्त इति । का. श्रौ. सू. २६ । १३७ । आसेचनवन्ति गर्तवन्ति तानि च पात्राणि सप्त त्रयो महावीराः द्वे पिन्वने उपयमनी स्रुक् स्रुवः चेति सप्त । पयस इति तृतीयार्थे षष्ठी पयसेत्यर्थः ॥ ↩︎
-
शेषं व्रतमिश्रं दीक्षिताय प्रयच्छति । प्रत्तं चेत्केवलम् । का. श्रौ. सू. २६ । १३८ । १३९ । ↩︎ ↩︎ ↩︎
-
वार्षहरᳫ A. ↩︎
-
501:1 Or, bull.–The Vāj. S. (XXXVIII, 22) here inserts the verse Rig-v. IX, 2, 6, to be used during the sprinkling,–‘The fallow stallion hath whinnied–or, the fallow bull hath roared–the mighty one, beautiful as Mitra, ṭḥe waṭer-ḥolḍiṇj veśśel hath shone like unto the sun." The italicised words, evidently added to suit the Mahāvīra vessel, are wanting in the R̥k. ↩︎
-
501:2 Kāty. XXVI, 7, 36 (doubtless in accordance with another śākhā) also prescribes here the Ishṭāhotrīya Sāman. ↩︎
-
उ᳘पावति A. ↩︎
-
चात्वाले मार्जयन्ते सपत्नीकाः सुमित्रिया न इति । का. श्रौ. सू. २६ । १४२ । ↩︎
-
तदेतत्स्तौतीत्यारभ्य कृतवान्भवतीत्यन्तं काण्वश्रुतिमनुसृत्य भाष्यं ज्ञेयम् । काण्वपाठश्च “यावद्वा ऽएतेन प्रचरन्त्यापश्च ह वा अस्मात्तावदोषधयश्चापक्रम्येव तिष्ठन्ति तदु ताभिर्मित्रधेयं कुरुते” इति । ↩︎
-
“सर्वे प्रवर्ग्यकर्तारो ऽनेन मन्त्रेणोत्क्रामेयुरित्यर्थ इति, वयं तमस उपरि उत्क्रांता अभूमेति, अनेन मन्त्रेण चात्वालदेशादुत्क्रांतानाम् ”इमास्तिस्रः पंक्तयः श्रुतिसूत्रपरिपठितेन “उत्क्रामति अभ्यादधाति” इत्येकवचनेनानन्वितार्थाः । तथा च कात्यायनसूत्रं- “उद्वयमित्युत्क्रामत्युत्तरपूर्वार्द्धम् । अनपेक्षमेत्यैधो ऽसीति समिधमादायाहवनीये ऽभ्यादधाति समिदसीति । पत्नी च गार्हपत्ये तूष्णीम्” इति । का. श्रौ. सू. २६ । १४२ । परं उद्वयमिति मन्त्रगतं वयं उदगन्म इति बहुवचनेनान्वितार्थाः । तथापि मन्त्रलिंगाच्छ्रुतेर्बलीयस्त्वेनात्र यजमानस्यैकस्यैव समंत्रं उत्क्रमणं समिदाधानं चेति विधिः न सर्वेषाम् । इति ॥ ↩︎ ↩︎ ↩︎
-
502:1 The Sacrificer’s wife (according to another śākhā) also silently puts one on the Gārhapatya fire. ↩︎
-
प्र᳘सूते A. ↩︎
-
सप्रवर्ग्ये दधिघर्मः । का. श्रौ. सू. १० । १८ । ↩︎
-
सदसि पवमानोपाकरणम् । अहर्गणे च सर्वत्र प्रायणीयोदयनीयवर्जम् का. श्रौ. सू. १० । १५-१७ । पशुनेहीत्यपकृष्य दधिघर्म्माय दध्याहर दक्षिणा उपावर्तयेति प्रैषोपचयः । ↩︎
-
उच्चा त इत्येततृचं गायत्रम् । पुनरुच्चा त इत्येतत् तृचमामहीयवम् । पुनानः सोमेति रौरवम् । पुनानः सोमेति यौधाजयम् । प्र तु द्रवेत्यौशनसम् । एतानि पंच सामानि तृचात्मकानि स्तुवन्ति यत्र स माध्यन्दिनः पवमानः इत्युच्यते । ↩︎
-
उपविश्य सदसः पुरस्तात्सपवित्रायामग्निहोत्रहवण्यां ग्रहणं यथोक्तम् । का. श्रौ. सू. २६ । १९ । यावतो द्यावापृथिवी ऽइति दधिघर्मग्रहणम् । का. श्रौ. सू. २६ । १५२ । ↩︎
-
होतर्वदस्व यते वाद्यमित्याह वाद्यांते श्रातँ हविरित्युत्तिष्ठन्नाह । दधिघर्म्मस्य यजेति । का. श्रौ. सू. १० । २० । ↩︎ ↩︎
-
शेषं व्रतमिश्रं दीक्षिताय प्रयच्छति । प्रत्तं चेत्केवलम् । का. श्रौ. सू. २६ । १३८ । १३९ । ↩︎
-
स᳘ह ब्र᳘ह्मणा and स᳘ह प᳘य A. ↩︎
-
सा वा ऽएषा वाक् त्रेधाविहिता ऋचो यजूँषि सामानि मण्डलमेव ऽर्चो ऽर्चिः सामानि पुरुषो यजूँषीति" । (श. प. । १० । ५ । १ । ५ ।) तथा “यदेतन्मंडलं तपति तन्महदुक्थं ता ऽऋचः स ऽऋचां लोको ऽथ यदेतदर्च्चिर्द्दीप्यते तन्महाव्रतं तानि सामानि स साम्नां लोको ऽथ य ऽएष ऽएतस्मिन्मंडले पुरुषः सो ऽग्निस्तानि यजूँषि स यजुषां लोकः सैषा त्रय्येव विद्या तपति तद्वैतदप्यविद्वाँस आहुस्त्रयी वा ऽएषा विद्या तपतीति” । (श. प. । १० । २ । २ । १ । २) ↩︎
-
चात्वाले मार्जनम् । का. श्रौ. सू. २६ । १५४ । ↩︎
-
503:1 See p. 489, note 2. ↩︎
-
प्रवृंजनीयौ शतमानौ ब्रह्मणे ददाति । का. श्रौ. सू. २६ । १४२ । ↩︎ ↩︎
-
503:2 Lit., lying, i.e. not standing or moving. ↩︎
-
ध्वर्युर्नि᳘क्रामति A. E. but see ११.२.७. ३२. ↩︎
-
503:3 Cf. XI, 2, 7, 32. ↩︎
-
यजमानव्रतदुघाँ होत्रे । का. श्रौ. सू. २६ । १४३ । गामिति शेषः । ↩︎ ↩︎
-
504:1 See p. 458, note 1. ↩︎