०१

विश्वास-प्रस्तुतिः

स य᳘त्रैताᳫँ᳭ हो᳘ता ऽन्वा᳘ह॥
प्रै᳘तु ब्र᳘ह्मणस्प᳘तिः प्र᳘ दे᳘व्येतु सूनृते᳘ति त᳘दध्वर्य्युः᳘ प्राङुदाय᳘न्वातनामा᳘नि जुहोत्येतद्वै᳘ देवा᳘ ऽअबिभयुर्य्यद्वै᳘ न ऽइम᳘मन्तरा र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘मेत᳘त्पु᳘रै᳘वाहवनी᳘यात्स्वाहाकारे᳘णाजुहवुस्त᳘ᳫँ᳘ हुत᳘मेव स᳘न्तमग्ना᳘वजुहवुस्त᳘थो ऽए᳘वैनमेष᳘ ऽएत᳘त्पुरै᳘वाहवनी᳘यात्स्वाहाकारे᳘ण[[!!]] जुहोति त᳘ᳫँ᳘ हुत᳘मेवस᳘न्तमग्नौ᳘ जुहोति॥

मूलम् - श्रीधरादि

स य᳘त्रैताᳫँ᳭ हो᳘ता ऽन्वा᳘ह॥
प्रै᳘तु ब्र᳘ह्मणस्प᳘तिः प्र᳘ दे᳘व्येतु सूनृते᳘ति त᳘दध्वर्य्युः᳘ प्राङुदाय᳘न्वातनामा᳘नि जुहोत्येतद्वै᳘ देवा᳘ ऽअबिभयुर्य्यद्वै᳘ न ऽइम᳘मन्तरा र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘मेत᳘त्पु᳘रै᳘वाहवनी᳘यात्स्वाहाकारे᳘णाजुहवुस्त᳘ᳫँ᳘ हुत᳘मेव स᳘न्तमग्ना᳘वजुहवुस्त᳘थो ऽए᳘वैनमेष᳘ ऽएत᳘त्पुरै᳘वाहवनी᳘यात्स्वाहाकारे᳘ण[[!!]] जुहोति त᳘ᳫँ᳘ हुत᳘मेवस᳘न्तमग्नौ᳘ जुहोति॥

मूलम् - Weber

स य᳘त्रैताᳫं हो᳘तान्वा᳘ह॥
प्रै᳘तु ब्र᳘ह्मणस्प᳘तिः प्र᳘ देॗव्येतु सूनृते᳘ति त᳘दध्वर्युः प्रा᳘ङुदाय᳘न्वातनामा᳘नि जुहोत्येतद्वै᳘ देवा᳘ अबिभयुर्यद्वै᳘ न इम᳘मन्तरा 1 र᳘क्षांसि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘मेत᳘त्पुॗरैॗवाहवनी᳘यात्स्वाहाकारे᳘णाजुहवुस्त᳘ᳫं᳘ हुत᳘मेव स᳘न्तमग्ना᳘व जुहुवुस्त᳘थो एॗवैनमेष᳘ एत᳘त्पुॗरैवाहवनी᳘यात्स्वाहाकारे᳘ण जुहोति तᳫं हुत᳘मेव स᳘न्तमग्नौ᳘ जुहोति॥

मूलम् - विस्वरम्

अथ घर्मप्रचरणम् ।

स यत्रैतां होता ऽन्वाह- “प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता”- (वा. सं. ३७ । ७) इति । तदध्वर्युः प्राङुदायन् वातनामानि जुहोति । एतद्वै देवा अबिभयुः । यद्वै न इममन्तरा रक्षांसि नाष्ट्रा न हन्युरिति । तमेवैतत्पुरैवाहवनीयात्स्वाहाकारेणाजुहवुः । तं हुतमेव संतमग्नावजुहबुः । तथा उ एवैनमेष एतत्पुरैवाहवनीयात्स्वाहाकारेण जुहोति । तं हुतमेव संतमग्नौ जुहोति ॥ १ ॥

सायणः

एवं तप्ते साज्ये महावीरे पयो ऽवनयनेन प्रवृंजनमुक्तम् । अथ द्वितीयब्राह्मणे तेन हविषा प्रचार उच्यते । तत्रादौ वातनामसंज्ञकानां मन्त्राणां जयं विधत्ते- स यत्रैतां० जुहोतीति । ‘यत्र’ यस्मिन् काले ‘सः’ होता “प्रैतु ब्रह्मणस्पतिः” इत्येतामृचमनुब्रूयात् । ‘तत्’ तत्र तस्मिन् समये अध्वर्युः शफाभ्यां महावीरं धृत्वा ‘प्राङुदायन्’ आहवनीयं प्रति प्राङ्मुखो गच्छन् “समुद्राय त्वा” इत्यादीनि ‘वातनामानि’ यजूंषि ‘जुहोति’ । मन्त्रगतैः स्वाहाकारैः मनसा घर्म जुह्वत् वातनामानि जपतीत्यर्थः । तथा च सूत्रकृतोक्तम्- “प्रैतु ब्रह्मणस्पतिरित्युच्यमाने समुद्राय त्वेति वातनामानि जपति गच्छन्नाहवनीयम् (का. श्रौ. सू. २६ । ८८) इति । तदेतत् आख्यायिकया उपपादयति- एतद्वै० जुहोतीति । “एतद्वा०” इत्यादि “न हन्युः” इत्यंतं पूर्वं व्याख्यातम् । एवं नाष्ट्रासुरेभ्यो भीता देवाः तं घर्माख्यं आहवनीयप्राप्तेः पुरस्तादेव गार्हपत्याहवनीययोर्मध्यदेशे गच्छन्त एव “समुद्राय त्वा वाताय स्वाह” इत्यादिना ‘स्वाहाकारेण’ ‘अजुहवुः’ हुतवन्तः देवतामुद्दिश्य मनसा त्यक्तवन्त इत्यर्थः । एवं सकृद्धुतमेव ‘संतं’ आहवनीये ऽग्नौ पश्चाद्वषट्कारेणाजुहवुः । यत एवं ‘पुरा’ देवा अकुर्वन् । तथैव खलु ‘एषः’ अध्वर्युः ‘एनं’ घर्मं ‘एतत्’ एतर्हि आहवनीयप्राप्तेः पूर्वमेव स्वाहाकारेण ‘जुहोति’ मनसा देवतार्थं हुतमिति भावयति । स्पष्टमन्यत् ॥ १ ॥

Eggeling
  1. And when the Hotr̥ recites this (verse), ‘Let Brahmaṇaspati go forward, let the goddess Sūnr̥tā go forward,’–the Adhvaryu, stepping forward, makes offering (by muttering) the wind-names. For at this time the gods were afraid lest the Rakshas, the fiends, might injure that (Pravargya) of theirs in the middle (of the sacrifice): they offered it with the Svāhā-call before (its being taken to) the Āhavanīya, being thus offered they offered it (again) in the fire; and in like manner does this one now offer it with the Svāhā-call before

(its being taken to) the Āhavanīya, and being thus offered he offers it (again) in the fire.

०२

विश्वास-प्रस्तुतिः

समुद्द्रा᳘य त्वा व्वा᳘ताय स्वाहे᳘ति॥
(त्य) अयम्वै᳘ समुद्द्रो᳘ यो ऽयम्प᳘वत ऽएत᳘स्माद्वै᳘ समुद्द्रात्स᳘र्व्वे देवाः स᳘र्व्वाणि भूता᳘नि समु᳘द्द्रवन्ति त᳘स्मा ऽए᳘वैनञ्जुहोति त᳘स्मादाह समुद्द्रा᳘य त्वा व्वा᳘ताय स्वा᳘हा॥

मूलम् - श्रीधरादि

समुद्द्रा᳘य त्वा व्वा᳘ताय स्वाहे᳘ति॥
(त्य) अयम्वै᳘ समुद्द्रो᳘ यो ऽयम्प᳘वत ऽएत᳘स्माद्वै᳘ समुद्द्रात्स᳘र्व्वे देवाः स᳘र्व्वाणि भूता᳘नि समु᳘द्द्रवन्ति त᳘स्मा ऽए᳘वैनञ्जुहोति त᳘स्मादाह समुद्द्रा᳘य त्वा व्वा᳘ताय स्वा᳘हा॥

मूलम् - Weber

समुद्रा᳘य त्वा वा᳘ताय स्वाहे᳘ति॥
अयम् वै᳘ समुद्रोॗ योऽयम् प᳘वत एत᳘स्माद्वै᳘ समुद्रात्स᳘र्वे देवाः स᳘र्वाणि भूता᳘नि समु᳘द्द्रवन्ति 2 त᳘स्मा एॗवैनं जुहोति त᳘स्मादाह समुद्रा᳘य त्वा वा᳘ताय स्वा᳘हा॥

मूलम् - विस्वरम्

“समुद्राय त्वा वाताय स्वाहा”- (वा. सं. ३८ । ७) इति । अयं वै समुद्रः । यो ऽयं पवते । एतस्माद्वै समुद्रात् सर्वे देवाः सर्वाणि भूतानि समुद्द्रवन्ति । तस्मा एवैनं जुहोति । तस्मादाह- “समुद्राय त्वा वाताय स्वाहा” ॥ २ ॥

सायणः

ननु कथं एतेषां वातनामत्वं समुद्रादिशब्दानां रूढ्या अर्थांतराभिधायकत्वात् ? इत्याशंक्य सर्वेषां वातपरत्वं विवक्षुः तावत् प्रथममन्त्रमनूद्य तस्य वातनामत्वं उपपादयति- समुद्राय त्वा० स्वाहेतीति । ‘यः अयं’ वायुः ‘पवते’ सततं गच्छति ‘अयं वै’ अयमेव खलु ‘समुद्रः’ । कस्मादसौ समुद्रः इति चेत् ? उच्यते । एतस्मात्खलु समुद्रात्समुद्रशब्दाभिधेयात् वायोः सकाशात् ‘सर्वे देवाः’ ‘सर्वाणि’ इमानि च भूतजातानि ‘समुद्द्रवन्ति’ सम्यगुद्गच्छंति उत्पद्यन्ते । लिंगशरीरभूतप्राणवाय्वधीनत्वात् सर्वदेवानाम् । “व्वायुर्व्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायञ्च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवंति” । (श. प. १४ । ६ । ७ । ६) इति श्रुतेः । सूत्रात्मनि तस्मिन्वायौ कृत्स्नजगतः अवस्थानात् । अतः समुद्द्रवंत्यस्मादिति व्युत्पत्त्या समुद्रवत्सर्वाश्रयत्वेन वा समुद्रशब्देन वायुरेवोच्यते । अतस्तस्मै एव वायवे ‘एनं’ घर्मं “समुद्राय त्वा” इति मन्त्रेण ‘जुहोति’ । “तस्मात्” इत्यादि निगमनम् ॥ २ ॥

Eggeling
  1. [Vāj. S. XXXVIII, 7,] ‘To the wind Ocean (I offer) thee, hail!’–the (aerial) ocean (samudra) indeed is he who blows here, for from out of that ocean all the gods and all the beings issue forth (samud-dru): it is to him (Vāyu, the wind) he thus offers it, and therefore he says, ‘To the wind Ocean (I consecrate) thee, hail!’

०३

विश्वास-प्रस्तुतिः

सरिरा᳘य त्वा व्वा᳘ताय स्वाहे᳘ति॥
(त्य) अयम्वै᳘ सरिरो᳘ यो ऽयम्प᳘वत ऽएत᳘स्माद्वै᳘ सरिरात्स᳘र्व्वे देवाः स᳘र्व्वाणि भूता᳘नि स᳘हेरते त᳘स्मा ऽए᳘वैनञ्जुहोति त᳘स्मादाह सरिरा᳘य त्वा व्वा᳘ताय स्वा᳘हा॥

मूलम् - श्रीधरादि

सरिरा᳘य त्वा व्वा᳘ताय स्वाहे᳘ति॥
(त्य) अयम्वै᳘ सरिरो᳘ यो ऽयम्प᳘वत ऽएत᳘स्माद्वै᳘ सरिरात्स᳘र्व्वे देवाः स᳘र्व्वाणि भूता᳘नि स᳘हेरते त᳘स्मा ऽए᳘वैनञ्जुहोति त᳘स्मादाह सरिरा᳘य त्वा व्वा᳘ताय स्वा᳘हा॥

मूलम् - Weber

सरिरा᳘य त्वा वा᳘ताय स्वाहे᳘ति॥
अयम् वै᳘ सरिरोॗ योऽयम् प᳘वत एत᳘स्माद्वै᳘ सरिरात्स᳘र्वे देवाः स᳘र्वाणि भूता᳘नि सॗहेरते त᳘स्मा एॗवैनं जुहोति त᳘स्मादाह सरिरा᳘य त्वा वा᳘ताय स्वा᳘हा॥

मूलम् - विस्वरम्

“सरिराय त्वा वाताय स्वाहा”- इति । अयं वै सरिरः । यो ऽयं पवते । एतस्माद्वै सरिरात् सर्वे देवाः सर्वाणि भूतानि सहेरते । तस्मा एवैनं जुहोति । तस्मादाह- “सरिराय त्वा वाताय स्वाहा” ॥ ३ ॥

सायणः

अथ द्वितीयस्य यजुषः वातनामत्वमुपपादयन् तस्य तात्पर्यमाह- सरिराय० स्वाहेतीति । आद्यंतयोरुपादानोपसंहारार्थं द्विर्मन्त्रपाठः । ‘यः अयं’ वायुः ‘पवते’ । अयमेव खलु ‘सरिरः’ सरणशीलः मन्त्रे सरिरशब्दवाच्यः 3 । श्रुतिस्तु “सहेरणात्” सरिर इति वातस्य सरिरसंज्ञां निर्वक्ति । एतस्मात्खलु ‘सरिरात्’ सरिरशब्दाभिधेयाद्वायोः सकाशात्सर्वे ‘देवाः’ अग्न्यादयः ‘सर्वाणि’ च भूतजातानि ‘सहेरते’ सहिताश्चेष्टन्ते । अतः अयं सहेरणत्वात्सरिरः । अन्यद्गतम् ॥ ३ ॥

Eggeling
  1. ‘To the wind Flood–thee, hail!’–the flood (sarira) indeed is he who blows here, for from out of that flood all the gods and all the creatures come forth together (saha irate): it is to him he thus offers it, and therefore he says, ‘To the wind Flood–thee, hail!’

०४

विश्वास-प्रस्तुतिः

(हा ऽना) अनाधृष्या᳘य त्वा व्वा᳘ताय स्वा᳘हा ऽप्रतिधृष्या᳘य त्वा व्वा᳘ताय स्वाहे᳘ति॥
(त्य) अयम्वा᳘ ऽअनाधृ᳘ष्यो ऽप्रतिधृ᳘ष्यो᳘ यो ऽयम्प᳘वते त᳘स्मा ऽए᳘वैनञ्जुहोति त᳘स्मादाहानाधृष्या᳘य त्वा व्वा᳘ताय स्वा᳘हा ऽप्रतिधृष्या᳘य त्वा व्वा᳘ताय स्वाहे᳘ति॥

मूलम् - श्रीधरादि

(हा ऽना) अनाधृष्या᳘य त्वा व्वा᳘ताय स्वा᳘हा ऽप्रतिधृष्या᳘य त्वा व्वा᳘ताय स्वाहे᳘ति॥
(त्य) अयम्वा᳘ ऽअनाधृ᳘ष्यो ऽप्रतिधृ᳘ष्यो᳘ यो ऽयम्प᳘वते त᳘स्मा ऽए᳘वैनञ्जुहोति त᳘स्मादाहानाधृष्या᳘य त्वा व्वा᳘ताय स्वा᳘हा ऽप्रतिधृष्या᳘य त्वा व्वा᳘ताय स्वाहे᳘ति॥

मूलम् - Weber

अनाधृष्या᳘य त्वा वा᳘ताय स्वा᳘हाप्रतिधृष्या᳘य त्वा वा᳘ताय स्वाहे᳘ति॥
अयम् वा᳘ अनाधृॗष्योऽप्रतिधृष्योॗ योऽयम् प᳘वते त᳘स्मा एॗवैनं जुहोति त᳘स्मादाहानाधृष्या᳘य त्वा वा᳘ताय स्वा᳘हाप्रतिधृष्या᳘य त्वा वा᳘ताय स्वाहेति॥

मूलम् - विस्वरम्

“अनाधृष्याय त्वा वाताय स्वाहा ऽप्रतिधृष्याय त्वा वाताय स्वाहा”- इति । अयं वा अनाधृष्यो ऽप्रतिधृष्यः । यो ऽयं पवते । तस्मा एवैनं जुहोति । तस्मादाह- “अनाधृष्याय त्वा वाताय स्वाहा ऽप्रतिधृष्याय त्वा वाताय स्वाहा” इति ॥ ४ ॥

सायणः

अथान्ययोर्यजुषोर्वातनामत्वं निर्ब्रुवन् पूर्ववत् वाक्यतात्पर्यमाह- अनाधृष्याय० स्वाहेतीति । पूर्ववत् उपक्रमोपसंहारयोर्द्विर्मन्त्रपाठः । ‘यः अयं’ वायुः ‘पवते’ । अयमेव खलु ‘अनाधृष्यः’ आधर्षितुमशक्यः स्प्रष्टुमशक्य इत्यर्थः । ‘अप्रतिधृष्यः’ प्रतिधर्षणं प्रतिकूलाचरणं तद्विषयो ऽपि न भवति । न हि कश्चित् वायुं आधर्षितुं प्रतिधर्षितुं वा शक्नोति । गतमन्यत् ॥ ४ ॥

Eggeling
  1. ‘To the wind Unassailable–thee, hail! To the wind Irresistible–thee, hail!’–unassailable and irresistible indeed is he who blows here: it is to him he thus offers it, and therefore he says, ‘To the wind Unassailable–thee, hail! To the wind Irresistible–thee, hail!’

०५

विश्वास-प्रस्तुतिः

(त्य) अवस्य᳘वे त्वा व्वा᳘ताय स्वा᳘हा ऽशिमिदा᳘य त्वा व्वा᳘ताय स्वाहे᳘ति॥
(त्य) अयम्वा᳘ ऽअवस्यु᳘रशिमिदो᳘ यो ऽयम्प᳘वते त᳘स्मा ऽए᳘वैनञ्जुहोति त᳘स्मादाहावस्य᳘वे त्वा व्वा᳘ताय स्वा᳘हा ऽशिमिदा᳘य त्वा व्वा᳘ताय स्वाहे᳘ति॥

मूलम् - श्रीधरादि

(त्य) अवस्य᳘वे त्वा व्वा᳘ताय स्वा᳘हा ऽशिमिदा᳘य त्वा व्वा᳘ताय स्वाहे᳘ति॥
(त्य) अयम्वा᳘ ऽअवस्यु᳘रशिमिदो᳘ यो ऽयम्प᳘वते त᳘स्मा ऽए᳘वैनञ्जुहोति त᳘स्मादाहावस्य᳘वे त्वा व्वा᳘ताय स्वा᳘हा ऽशिमिदा᳘य त्वा व्वा᳘ताय स्वाहे᳘ति॥

मूलम् - Weber

अवस्य᳘वे त्वा वा᳘ताय स्वा᳘हाशिमिदा᳘य त्वा वा᳘ताय स्वाहे᳘ति॥
अयम् वा᳘ अवस्यु᳘रशिमिदोॗ योऽयम् प᳘वते त᳘स्मा एॗवैनं जुहोति त᳘स्मादाहावस्य᳘वे त्वा वा᳘ताय स्वा᳘हाशिमिदा᳘य त्वा वा᳘ताय स्वाहेति॥

मूलम् - विस्वरम्

“अवस्यवे त्वा वाताय स्वाहा ऽशिमिदाय त्वा वाताय स्वाहा”- (वा. सं. ३८ । ७) इति । अयं वा अवस्युरशिमिदः । यो ऽयं पवते । तस्मा एवैनं जुहोति । तस्मादाह- “अवस्यवे वाताय स्वाहा ऽशिमिदाय त्वा वाताय स्वाहा” इति ॥ ५ ॥

सायणः

अथ अन्यस्य नामद्वयस्य वायुपरत्वं सिद्धवत् अनूद्य तात्पर्यमाह- अवस्यवे त्वा० स्वाहेतीति । ‘यः अयं’ वायुः ‘पवते’ । अयं खलु ‘अवस्युः’ अवनेच्छुः । यद्वा अवति तप्यति अनेनेति अवनं तदिच्छुः । प्राणभावमापन्नस्य वायोः तदिच्छोः अन्नं तत्राम्नास्यते । “अथात्मने ऽन्नाद्यमागायत्” (श. प. १४ । ४ । १ । १८) इत्यादिना । तथा अयमेव वायुः ‘अशिमिदः’ अशनं न प्राप्तः सर्वदा संचरणशील इत्यर्थः । यद्वा शिमीति कर्मनाम । शिमि कर्म 4 ददातीति शिमिदः नास्ति अस्मादन्यः शिमिदः इत्यशिमिदः । तस्मादेतौ शब्दौ उक्तव्युत्पत्त्या वायोर्नामनी । गतमन्यत् ॥ ५ ॥

Eggeling
  1. ‘To the wind Favourable–thee, hail! To the wind Ogress-ridder–thee, hail!’–favourable and an ogress-ridder indeed is he who blows here: it is to him he thus offers it, and therefore he says, ‘To the wind Favourable–thee, hail! To the wind Ogress-ridder–thee, hail!’

०६

विश्वास-प्रस्तुतिः

(ती᳘) इ᳘न्द्राय त्वा व्व᳘सुमते रुद्र᳘वते स्वाहे᳘ति॥
(त्य) अयम्वा ऽइ᳘न्द्रो᳘ यो ऽयम्प᳘वते त᳘स्मा ऽए᳘वैनञ्जुहोति त᳘स्मादाहे᳘न्द्राय त्वे᳘ति व्व᳘सुमते रुद्र᳘वत ऽइ᳘ति तदि᳘न्द्रमेवा᳘नु व्व᳘सूंश्च रुद्रांश्चा᳘भजत्य᳘थो प्रातःसवन᳘स्य चै᳘वैतन्मा᳘ध्यन्दिनस्य च स᳘वनस्य रूपङ्क्रियते॥

मूलम् - श्रीधरादि

(ती᳘) इ᳘न्द्राय त्वा व्व᳘सुमते रुद्र᳘वते स्वाहे᳘ति॥
(त्य) अयम्वा ऽइ᳘न्द्रो᳘ यो ऽयम्प᳘वते त᳘स्मा ऽए᳘वैनञ्जुहोति त᳘स्मादाहे᳘न्द्राय त्वे᳘ति व्व᳘सुमते रुद्र᳘वत ऽइ᳘ति तदि᳘न्द्रमेवा᳘नु व्व᳘सूंश्च रुद्रांश्चा᳘भजत्य᳘थो प्रातःसवन᳘स्य चै᳘वैतन्मा᳘ध्यन्दिनस्य च स᳘वनस्य रूपङ्क्रियते॥

मूलम् - Weber

इ᳘न्द्राय त्वा व᳘सुमते रुद्र᳘वते स्वाहे᳘ति॥
अयम् वा इ᳘न्द्रोॗ योऽयम् प᳘वते त᳘स्मा एॗवैनं जुहोति त᳘स्मादाहे᳘न्द्राय त्वे᳘ति व᳘सुमते रुद्र᳘वत इ᳘ति तदि᳘न्द्रमेवा᳘नु व᳘सूंश्च रुद्रांश्चा᳘भजत्य᳘थो प्रातःसवन᳘स्य चैॗवैतन्मा᳘ध्यन्दिनस्य च स᳘वनस्य रूपं᳘ क्रियते॥

मूलम् - विस्वरम्

“इन्द्राय त्वा वसुमते रुद्रवते स्वाहा”- इति । अयं वा इन्द्रः । यो ऽयं पवते । तस्माएवैनं जुहोति । तस्मादाह- “इन्द्राय त्वा”- इति । “वतुमते रुद्रवते”- इति । तदिन्द्रमेवानु वसूंश्च रुद्रांश्चाभजति । अथो प्रातःसवनस्य चैवैतन्माध्यंदिनस्य च सवनस्य रूपं क्रियते ॥ ६ ॥

सायणः

अथान्यद्यजुरनूद्य तस्य वातपरत्वं दर्शयन् पूर्ववद्वाक्यार्थमाह- इन्द्राय त्वा वसु० हेन्द्राय त्वेतीति । अयमेव वायुः ‘इन्द्रः’ परमैश्वर्ययोगादिन्द्रशब्दाभिधेयः । यः अयमंतरिक्षे ‘पवते’ ज्योतिश्चक्रप्रवहणरूपेण वर्तते ‘तस्मै’ एव वायवे ‘एनं’ घर्मं ‘जुहोति’ स्वाहाकारेण हुतवान् भवति । तस्मात् “इन्द्राय त्वा” इत्यमुं मंत्रभागं ब्रूयात् । अथ इंद्रविशेषणयोः तात्पर्यं प्रयोजनं चाह- वसुमते रुद्रवते० क्रियते- इति । यत् एतत् ‘वसुमते, रुद्रवते’ इति विशेषणद्वयं, तत्तेन इंद्रमेव वस्वाख्यान्देवान् रुद्राख्यान् देवांश्च ‘अन्वाभजति’ प्रापयति । यथेन्द्रशब्दाभिधेयस्य मघवतः वस्वाख्याः सेवकाः । एवं इंद्रशब्दाभिधेयस्य अस्य वायोरपि ताननुचरान् करोतीत्यर्थः । यद्वा इंद्रमनु इंद्रस्य घर्मप्राप्तेः पश्चात् वस्वादीनपि घर्मं ‘आभजति’ भागयुक्तान् करोति । ‘अथो’ अपि च यदेतत् देवगणद्वयकीर्तनं तत् ‘प्रातःसवनस्य माध्यंदिनसवनस्य च’ ‘रूपं’ स्वरूपं अस्मिन् प्रवर्ग्ये ‘क्रियते’ । “वसवः प्रातःसवनँ रुद्रा माध्यंदिनँ सवनम्”- (श. प. १४ । १ । १ । १५) इति द्वयोः सवनयोः तद्भागत्वस्य प्रागाम्नातत्वात् 5 । अतः वसुसंबंधः रुद्रसंबंधश्च सवनद्वयलिंगम् । तस्मादेव सौत्ये ऽहनि आवाहननिगदे “इंद्रं वसुमंतमावह, इंद्रं रुद्रवंतमावह”- इति वसुरुद्रविशिष्टेन्द्रस्यावाहनं च श्रूयते । एवं चात्रापि “वसुमते रुद्रवते” इति विशेषणद्वयेन भाविसवनद्वयस्य रूपं कृतं भवति इत्यर्थः ॥ ६ ॥

Eggeling
  1. [Vāj. S. XXXVIII, 8,] ‘To Indra, accompanied by the Vasus and Rudras, (I offer) thee, hail!’–Indra indeed is he who blows here: it is to him he thus offers it, and therefore he says, ‘To Indra–thee;’ and when he says, ‘accompanied by the Vasus and Rudras,’ thereby he allows a share to the Vasus and Rudras along with Indra; and,

moreover, it is thereby made to be like the morning Soma-pressing, and the midday-pressing 6.

०७

विश्वास-प्रस्तुतिः

(त ऽइ᳘) इ᳘न्द्राय त्वा ऽऽदित्य᳘वते स्वाहे᳘ति॥
(त्य) अयम्वा ऽइ᳘न्द्रो᳘ यो ऽयम्प᳘वते त᳘स्मा ऽए᳘वैनञ्जुहोति त᳘स्मादाहे᳘न्द्राय त्वे᳘त्यादित्य᳘वत ऽइ᳘ति तदि᳘न्द्रमेवा᳘न्वादित्याना᳘भजत्य᳘थो तृतीयसवन᳘स्यै᳘वैत᳘द्रूप᳘ङ्क्रियते॥

मूलम् - श्रीधरादि

(त ऽइ᳘) इ᳘न्द्राय त्वा ऽऽदित्य᳘वते स्वाहे᳘ति॥
(त्य) अयम्वा ऽइ᳘न्द्रो᳘ यो ऽयम्प᳘वते त᳘स्मा ऽए᳘वैनञ्जुहोति त᳘स्मादाहे᳘न्द्राय त्वे᳘त्यादित्य᳘वत ऽइ᳘ति तदि᳘न्द्रमेवा᳘न्वादित्याना᳘भजत्य᳘थो तृतीयसवन᳘स्यै᳘वैत᳘द्रूप᳘ङ्क्रियते॥

मूलम् - Weber

इ᳘न्द्राय त्वादित्य᳘वते स्वाहे᳘ति॥
अयम् वा इ᳘न्द्रोॗ योऽयम् प᳘वते त᳘स्मा एॗवैनं जुहोति त᳘स्मादाहे᳘न्द्राय त्वे᳘त्यादित्य᳘वत इ᳘ति तदि᳘न्द्रमेवा᳘न्वादित्याना᳘भजत्य᳘थो तृतीयसवन᳘स्यैॗवैत᳘द्रूपं᳘ क्रियते॥

मूलम् - विस्वरम्

“इन्द्राय त्वा ऽऽदित्यवते स्वाहा”- इति । अयं वा इन्द्रः । यो ऽयं पवते । तस्मा एवैनं जुहोति । तस्मादाह- “इन्द्राय त्वा”- इति । “आदित्यवते”- इति । तदिन्द्रमेवान्वादित्यानाभजति । अथो तृतीयसवनस्यैवैतद्रूपं क्रियते ॥ ७ ॥

सायणः

अथ मंत्रांतरस्य वायुपरत्वं दर्शयन् तत्रत्यविशेषणेन तृतीयसवनस्यापि प्रवर्ग्ये रूपं क्रियते इत्याह- इन्द्राय त्वा ऽऽदित्यव० दित्यवत इतीति । “अयं वा इंद्रः” इत्यादि “इंद्राय त्वा” इत्यंतं पूर्ववत् । आदित्यवत इति यत् इंद्रविशेषणं तत्तेन ‘इंद्रमनु’ इंद्रस्य पश्चात् देवानादित्यान् ‘आभजति’ घर्मे भागयुक्तान् करोति । ‘अथो’ अपि च तृतीयसवनस्यैव एतत् ‘रूपं’ स्वरूपं ‘क्रियते’ “आदित्यास्तृतीयसवनम्”- (श. प. १४ । १ । १ । १५) इति श्रुतिः । तृतीयसवनस्य आदित्यसंबंधं लिंगम् । अतः ‘आदित्यवते’ इति विशेषणेन तृतीयसवनस्यैव लिंगं प्रवर्ग्ये कृतं भवति ॥ ७ ॥

Eggeling
  1. ‘To Indra, accompanied by the Ādityas,–thee, hail!’–Indra indeed is he who blows here: it is to him he thus offers it, and therefore he says, ‘To Indra–thee;’ and when he says, ‘accompanied by the Ādityas,’ thereby he allows a share to the Ādityas along with Indra; and, moreover, it is made like the evening-pressing 6.

०८

विश्वास-प्रस्तुतिः

(त ऽइ᳘) इ᳘न्द्राय त्वा ऽभिमातिघ्ने स्वाहे᳘ति॥
(त्य) अयम्वा ऽइ᳘न्द्रो᳘ यो ऽयम्प᳘वते त᳘स्मा ऽए᳘वैनञ्जुहोति त᳘स्मादाहे᳘न्द्राय त्वे᳘त्यभि᳘मातिघ्न ऽइ᳘ति सप᳘त्नो वा᳘ ऽअभि᳘मातिरि᳘न्द्राय त्वा सपत्नघ्न ऽइ᳘त्ये᳘वैत᳘दाह᳘ सो ऽस्योद्धारो य᳘था श्रे᳘ष्ठस्योद्धार᳘ ऽएव᳘मस्यैष᳘ ऽऋते᳘ देवे᳘भ्यः॥

मूलम् - श्रीधरादि

(त ऽइ᳘) इ᳘न्द्राय त्वा ऽभिमातिघ्ने स्वाहे᳘ति॥
(त्य) अयम्वा ऽइ᳘न्द्रो᳘ यो ऽयम्प᳘वते त᳘स्मा ऽए᳘वैनञ्जुहोति त᳘स्मादाहे᳘न्द्राय त्वे᳘त्यभि᳘मातिघ्न ऽइ᳘ति सप᳘त्नो वा᳘ ऽअभि᳘मातिरि᳘न्द्राय त्वा सपत्नघ्न ऽइ᳘त्ये᳘वैत᳘दाह᳘ सो ऽस्योद्धारो य᳘था श्रे᳘ष्ठस्योद्धार᳘ ऽएव᳘मस्यैष᳘ ऽऋते᳘ देवे᳘भ्यः॥

मूलम् - Weber

इ᳘न्द्राय त्वाभिमातिघ्ने स्वाहे᳘ति॥
अयम् वा इ᳘न्द्रो योऽयम् प᳘वते त᳘स्मा एॗवैनं जुहोति त᳘स्मादाहे᳘न्द्राय त्वे᳘त्यभिमातिघ्न इ᳘ति सप᳘त्नो वा᳘अभि᳘मातिरि᳘न्द्राय त्वा सपत्नघ्न इ᳘त्येॗवैत᳘दाह सोऽस्योद्धारो य᳘था श्रे᳘ष्ठस्योद्धार᳘ एव᳘मस्यैष᳘ ऋते᳘ देवे᳘भ्यः॥

मूलम् - विस्वरम्

“इन्द्राय त्वा ऽभिमातिघ्ने स्वाहा”- इति । अयं वा इन्द्रः । यो ऽयं पवते । तस्मा एवैनं जुहोति । तस्मादाह- “इन्द्राय त्वा”- इति । “अभिमातिघ्ने”- इति । सपत्नो वा अभिमातिः । इन्द्राय त्वा सपत्नघ्न इत्येवैतदाह । सो ऽस्योद्धारः । यथा श्रेष्ठस्योद्धारः । एवमस्यैषः । ऋते देवेभ्यः ॥ ८ ॥

सायणः

अथ उत्तरस्मिन् मंत्रे अभिमातिघ्न इति विशेषणस्य तात्पर्यं व्याचक्षाणो मंत्रस्य वातनामत्वं उपपादयति- इन्द्राय त्वा ऽभिमातिघ्ने० तदाहेति । इंद्राय त्वेत्यादि इंद्राय त्वेत्यंतं पूर्ववत् । “अभिमातिघ्ने” इति व्याख्यानार्थमुपादानम् । तत्र पदार्थमाह- सपत्नो वा ऽअभिमातिरिति । ‘यः अयं’ सपत्नः शत्रुः । असावत्र अभिमातिशब्दार्थः । तथा च यः अर्थः संपद्यते तं दर्शयति- इंद्राय त्वेति । “इंद्राय त्वा ऽभिमातिघ्ने” इति यदेत् वाक्यमेतत् । “इंद्राय त्वा सपत्नघ्ने” इत्यमुमेवार्थमाह प्रतिपादयति । अन्यान् देवान् परित्यज्य समुद्रादिसर्वशब्दैः वायुरेव प्रतिपाद्यते । तस्यैव घर्मभाक्त्वे च कारणमाह- सो ऽस्योद्धारो० देवेभ्य इति । ‘सो ऽस्य’ घर्म्मस्य वायोरुद्धारः । उद्धृत्य स्थापितः उत्कृष्टो भागः, ‘यथा’ शौर्यादिगुणैः ‘श्रेष्ठस्य’ राजपुरुषादेः उद्धार उत्कृष्टो धनभागः शस्यते, एवं ‘अस्य’ वायोः ‘देवेभ्य ऋते’ अन्यान् देवान् वर्जयित्वा, ‘एषः’ घर्मः ‘उद्धारः’ उद्धृत्य भागत्वेन क्रियते । देवांतरात् अस्य को विशेषः ? इति तत्रोक्तम् “अभिमातिघ्ने” इति । यतः अयम् अभिमातिहा अतः अयम् उत्कृष्टः धर्मतः कृपया लोके शत्रुं हतवान् उत्कृष्टं वस्त्रधनादिकं लभते तथेत्यर्थः ॥ ८ ॥

Eggeling
  1. ‘To Indra, the slayer of the evil-minded,–thee, hail!’–Indra indeed is he who blows here: it is to him he thus offers it, and therefore he says, ‘To Indra–thee;’ and as to his saying, ’to the slayer of the evil-minded,’ the evil-minded one being an enemy, he thereby means to say, ‘To Indra, the slayer of enemies,–thee!’ This is his (Indra’s) special share: even as there is a share for a chief 7, so is this his (share) apart from the (other) gods.

०९

विश्वास-प्रस्तुतिः

सवित्रे᳘ त्व ऽऋभुम᳘ते व्विभुम᳘ते व्वा᳘जवते स्वाहे᳘ति॥
(त्य) अयम् वै᳘ सविता᳘ यो ऽयम्प᳘वते त᳘स्मा ऽए᳘वैनञ्जुहोतित᳘स्मादाह सवित्रे त्वे᳘त्यृभुम᳘ते विभुम᳘ते वा᳘जवत इ᳘ति त᳘दस्मिन्वि᳘श्वान्देवा᳘नन्वा᳘भजति॥

मूलम् - श्रीधरादि

सवित्रे᳘ त्व ऽऋभुम᳘ते व्विभुम᳘ते व्वा᳘जवते स्वाहे᳘ति॥
(त्य) अयम् वै᳘ सविता᳘ यो ऽयम्प᳘वते त᳘स्मा ऽए᳘वैनञ्जुहोतित᳘स्मादाह सवित्रे त्वे᳘त्यृभुम᳘ते विभुम᳘ते वा᳘जवत इ᳘ति त᳘दस्मिन्वि᳘श्वान्देवा᳘नन्वा᳘भजति॥

मूलम् - Weber

सवित्रे᳘ त्व ऋभुम᳘ते विभुम᳘ते वा᳘जवते स्वाहे᳘ति॥
अयम् वै᳘ सविताॗ योऽयम् प᳘वते त᳘स्मा एॗवैनं जुहोति त᳘स्मादाह सवित्रे त्वे᳘त्यृभुम᳘ते विभुम᳘ते वा᳘जवत इ᳘ति त᳘दस्मिन्वि᳘श्वान्देवा᳘नन्वा᳘भजति॥

मूलम् - विस्वरम्

“सवित्रे त्वा- ऋभुमते विभुमते वाजवते स्वाहा”- इति । अयं वै सविता । यो ऽयं पवते । तस्मा एवैनं जुहोति । तस्मादाह- “सवित्रे त्वा”- इति । “ऋभुमते विभुमते वाजवते”- इति । तदस्मिन् विश्वान्देवानन्वाभजति ॥ ९ ॥

सायणः

अथान्यमंत्रस्य वातनामत्वं दर्शयति- सवित्रे त्व ऽऋभुमते० सवित्रे त्वेति इति । यः अयं वायुः ‘पवते’ अयमेव खलु प्रेरयितृत्वात्सविता । अन्यत्पूर्ववत् । ऋभुमत इत्यादिविशेषणत्रयेण लभ्यमर्थमाह- ऋभुमते विभुमते० भजतीति । ऋभुर्विभुर्वाज इति सुधन्वन आंगिरसस्य पुत्राः तपसा देवत्वं प्राप्ताः तृतीयसवनभाजो देवाः । तैर्योगस्य सवितुः प्रतिपादकं यत् एतत् विशेषणत्रयम् । ‘तत्’ तेन ‘अस्मिन्’ घर्मे ‘विश्वान्’ सर्वान् ‘देवान्’ ऋभुप्रभृतीन् “अन्वाभजति” सवितुः पश्चात् भागयुक्तान् करोति ॥ ९ ॥

Eggeling
  1. ‘To Savitr̥, accompanied by the R̥bhus, the Vibhus (lords), and the Vājas (powers),–thee, hail!’–Savitr̥ (the sun) indeed is he who blows here: it is to him he thus offers it, and therefore he says, ‘To Savitr̥, accompanied by the R̥bhus, the Vibhus, and the Vājas,–thee!’ He thus allows a share therein to all the gods along (with Savitr̥).

१०

विश्वास-प्रस्तुतिः

बृ᳘हस्प᳘तये त्वा विश्व᳘देव्यावते स्वाहे᳘ति॥
अयम् वै बृ᳘हस्प᳘ति᳘र्योऽयम् प᳘वते त᳘स्मा ऽए᳘वैनञ्जुहोतित᳘स्मादाह बृ᳘हस्प᳘तये त्वे᳘ति विश्व᳘देव्यावत इ᳘ति त᳘दस्मिन्वि᳘श्वान्त्स᳘र्वान्देवा᳘न्न्वा᳘भजति॥

मूलम् - श्रीधरादि

बृ᳘हस्प᳘तये त्वा विश्व᳘देव्यावते स्वाहे᳘ति॥
अयम् वै बृ᳘हस्प᳘ति᳘र्योऽयम् प᳘वते त᳘स्मा ऽए᳘वैनञ्जुहोतित᳘स्मादाह बृ᳘हस्प᳘तये त्वे᳘ति विश्व᳘देव्यावत इ᳘ति त᳘दस्मिन्वि᳘श्वान्त्स᳘र्वान्देवा᳘न्न्वा᳘भजति॥

मूलम् - Weber

बृ᳘हस्प᳘तये त्वा विश्व᳘देव्यावते स्वाहे᳘ति॥
अयम् वै बृ᳘हस्प᳘तिॗर्योऽयम् प᳘वते त᳘स्मा एॗवैनं जुहोति त᳘स्मादाह बृ᳘हस्प᳘तये त्वे᳘ति विश्व᳘देव्यावत इ᳘ति त᳘दस्मिन्वि᳘श्वान्त्स᳘र्वान्देवा᳘न्न्वा᳘भजति॥

मूलम् - विस्वरम्

“बृहस्पतये त्वा विश्वदेव्यावते स्वाहा”- (वा. सं. ३८ । ८) इति । अयं वै बृहस्पतिः । यो ऽयं पवते । तस्मा एवैनं जुहोति । तस्मादाह- “बृहस्पतये त्वा”- इति । “विश्वदेव्यावते”- इति । तदस्मिन् विश्वान्देवानन्वाभजति ॥ १० ॥

सायणः

अथ मंत्रांतरस्य देवतांतररूढत्वात् वातनामत्वं न संभवति इत्याशंक्य तत् उपपादयति- बृहस्पतये त्वा० नन्वाभजतीति । ‘यः अयं’ वायुः ‘पवते’ । अयमेव बृहस्पतिः बृहतां महतां सर्वेषां भूतजातानां पतिरधिपतिः । गतमन्यत् । अथ विशेषणलभ्यमर्थमाह- विश्वदेव्यावत० भजतीति । ‘ऋभुमते, विभुमते’ इत्यादिपूर्वोक्तविशेषणवाक्यशेषवत् व्याख्येयम् । इयांस्तु विशेषः “विश्वदेव्यावते” इति विश्वे देवाः गणशो वर्तमाना देवाः तद्योगात् बृहस्पतेर्विशेषेण मान्यता इति ॥ १० ॥

Eggeling
  1. ‘To Br̥haspati, accompanied by the All-gods,–thee, hail!’–Br̥haspati indeed is he who blows here: it is to him he thus offers

it, and therefore he says, ‘To Br̥haspati–thee;’ and when he says, ‘accompanied by the All-gods,’ he thereby allows a share therein to all the gods along (with Br̥haspati).

११

विश्वास-प्रस्तुतिः

यमा᳘य त्वा᳘ ऽङ्गिरस्वते पितृम᳘ते स्वाहे᳘ति॥
(त्य) अयम्वै᳘ यमो᳘ यो ऽयम्प᳘वते त᳘स्मा ऽए᳘वैनञ्जुहोति त᳘स्मादाह यमा᳘य त्वेत्य᳘ङ्गिरस्वते पितृम᳘त ऽइ᳘ति यज्ञ᳘स्य शीर्षच्छिन्न᳘स्य र᳘सो᳘ व्व्यक्षरत्स᳘[[!!]] पितॄ᳘नगच्छत्त्रया वै᳘ पित᳘रस्ता᳘ने᳘वैत᳘दन्वा᳘भजति॥

मूलम् - श्रीधरादि

यमा᳘य त्वा᳘ ऽङ्गिरस्वते पितृम᳘ते स्वाहे᳘ति॥
(त्य) अयम्वै᳘ यमो᳘ यो ऽयम्प᳘वते त᳘स्मा ऽए᳘वैनञ्जुहोति त᳘स्मादाह यमा᳘य त्वेत्य᳘ङ्गिरस्वते पितृम᳘त ऽइ᳘ति यज्ञ᳘स्य शीर्षच्छिन्न᳘स्य र᳘सो᳘ व्व्यक्षरत्स᳘[[!!]] पितॄ᳘नगच्छत्त्रया वै᳘ पित᳘रस्ता᳘ने᳘वैत᳘दन्वा᳘भजति॥

मूलम् - Weber

यमा᳘य त्वा᳘ङ्गिरस्वते पितृम᳘ते स्वाहे᳘ति॥
अयम् वै᳘ यमोॗ योऽयम् प᳘वते त᳘स्मा एॗवैनं जुहोति त᳘स्मादाह यमा᳘य त्वेत्य᳘ङ्गिरस्वते पितृम᳘त इ᳘ति यज्ञ᳘स्य शीर्षछिन्न᳘स्य [र᳘सो व्य᳘क्षरत्स᳘] पितॄ᳘नगछत्त्रया वै᳘ पित᳘रस्ता᳘नेॗवैत᳘दन्वा᳘भजति॥

मूलम् - विस्वरम्

“यमाय त्वा ऽङ्गिरस्वते पितृमते स्वाहा”- इति । अयं वै यमः । यो ऽयं पवते । तस्मा एवैनं जुहोति । तस्मादाह- “यमाय त्वा”- इति । “अंगिरस्वते पितृमते” इति । यज्ञस्य । शीर्षच्छिन्नस्य रसो व्यक्षरत् स पितॄनगच्छत् । त्रया वै पितरः । तानेवैतदन्वाभजति ॥ ११ ॥

सायणः

अथ अंतिमस्य यजुषः वातनामत्वं उपपादयति- यमाय त्वा० यमाय त्वेतीति । नियमनात् अयमेव वायुर्यमः । गतमन्यत् । विशेषणयोस्तात्पर्यमाह- अंगिरस्वते पि० नन्वाभजतीति । यमस्य अंगिरोभिः पितृभिश्च योगः अनेन विशेषणद्वयेन प्रतिपाद्यते । छिन्नशिरस्कस्य ‘यज्ञस्य’ रसः पुरा ‘पितॄन्’ प्राप्नोत् । ते च ‘पितरः’ ‘त्रयाः’ त्रिविधाः अंगिरस्वद्बर्हिषदग्निष्वात्तभेदेन पितृपितामहादिभेदेन वा । ‘एतत्’ एतेन विशेषणद्वयेन ‘तानेव’ पितॄन् अस्मिन् घर्मे ‘अन्वाभजति’ । यमस्यानंतरं भागयुक्तान् करोति । एवं द्वादशसु मन्त्रेषु अर्थांतरे प्रसिद्धा अपि शब्दा योगवृत्त्या वायुपरत्वेन ब्राह्मणेन व्याख्याताः । अतः एतानि वातनामानि यजूंषि जपन् तत्तच्छब्दाभिधेये वायौ तेन तेन स्वाहाकारेण घर्मं जुहोमीति गार्हपत्याहवनीययोरंतराले गच्छन् अध्वर्युश्चिंतयेत् इति तात्पर्यार्थः ॥ ११ ॥

Eggeling
  1. [Vāj. S. XXXVIII, 9,] ‘To Yama, accompanied by the Aṅgiras and the Fathers,–thee, hail!’–Yama indeed is he who blows here: it is to him he thus offers it, and therefore he says, ‘To Yama–thee;’ and as to his saying, ‘accompanied by the Aṅgiras and the Fathers,’–when the sacrifice had its head cut off, its life-sap flowed away, and went to the Fathers,–the Fathers being three in number 8: thus it is to these he thereby allows a share along (with Yama).

१२

विश्वास-प्रस्तुतिः

द्वा᳘दशैता᳘नि ना᳘मानि भवन्ति॥
द्वा᳘दश वै मा᳘साः सम्वत्स᳘रस्य सम्वत्स᳘र ऽएष य᳘ ऽएष त᳘पत्येष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्माद्द्वा᳘दश भवन्ति॥

मूलम् - श्रीधरादि

द्वा᳘दशैता᳘नि ना᳘मानि भवन्ति॥
द्वा᳘दश वै मा᳘साः सम्वत्स᳘रस्य सम्वत्स᳘र ऽएष य᳘ ऽएष त᳘पत्येष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्माद्द्वा᳘दश भवन्ति॥

मूलम् - Weber

द्वा᳘दशैता᳘नि ना᳘मानि भवन्ति॥
द्वा᳘दश वै मा᳘साः सम्वत्स᳘रस्य सम्वत्स᳘र एष य᳘ एष त᳘पत्येष᳘ उ प्रव᳘र्ग्यस्त᳘देत᳘मेॗवैत᳘त्प्रीणाति त᳘स्माद्द्वा᳘दश भवन्ति॥

मूलम् - विस्वरम्

द्वादशैतानि नामानि भवन्ति । द्वादश वै मासाः संवत्सरस्य । संवत्सर एषः । य एष तपति । एष उ प्रवर्ग्यः । तदेतमेवैतत्प्रीणाति । तस्माद्द्वादश भवन्ति ॥ १२ ॥

सायणः

अथ एतानि संहत्य अनूद्य स्तौति- द्वादशैतानि नामानि भवन्ति० त्प्रीणातीति । ‘द्वादश एतानि’ “समुद्राय त्वा” इत्यादीनि वातनामानि ‘भवंति’ । ‘संवत्सरस्य’ अवयवभूताः मासाश्चैत्राद्या द्वादशसंख्याकाः खलु । अतो द्वादशभिर्मासस्थानीयैः संवत्सरः संपद्यते । स च ‘संवत्सरः एषः’ सूर्यात्मकः । सिद्धमन्यत् । “तस्मात्” इत्यादि निगमनम् ॥ १२ ॥

Eggeling
  1. These are twelve names,–twelve months are in a year, and the year is he that shines yonder, and the Pravargya also is that (sun): thus it is him he thereby pleases, and therefore there are twelve (names).

१३

विश्वास-प्रस्तुतिः

(न्त्य᳘) अ᳘थोपय᳘मन्या महावीर ऽआ᳘नयति॥
स्वा᳘हा घर्माये᳘त्येष वै᳘ घर्मो य᳘ ऽएष त᳘पत्येष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह स्वा᳘हा घर्मायेत्य᳘वरᳫँ᳭ स्वाहाकार᳘ङ्करो᳘ति प᳘रान्देव᳘तामसा᳘वेव ब᳘न्धुः॥

मूलम् - श्रीधरादि

(न्त्य᳘) अ᳘थोपय᳘मन्या महावीर ऽआ᳘नयति॥
स्वा᳘हा घर्माये᳘त्येष वै᳘ घर्मो य᳘ ऽएष त᳘पत्येष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह स्वा᳘हा घर्मायेत्य᳘वरᳫँ᳭ स्वाहाकार᳘ङ्करो᳘ति प᳘रान्देव᳘तामसा᳘वेव ब᳘न्धुः॥

मूलम् - Weber

अ᳘थोपय᳘मन्या महावीर आ᳘नयति॥
स्वा᳘हा घर्माये᳘त्येष वै᳘ घर्मो य᳘ एष त᳘पत्येष᳘ उ प्रव᳘र्ग्यस्त᳘देत᳘मेॗवैत᳘त्प्रीणाति त᳘स्मादाह स्वा᳘हा घर्मायेत्य᳘वरᳫं स्वाहाकारं᳘ करो᳘ति प᳘रां देव᳘तामसा᳘वेव ब᳘न्धुः॥

मूलम् - विस्वरम्

अथोपयमन्या महावीर आनयति- “स्वाहा घर्माय”- इति । एष वै घर्मः । य एष तपति । एष उ प्रवर्ग्यः । तदेतमेवैतत्प्रीणाति । तस्मादाह- “स्वाहा घर्माय”- इति । अवरं स्वाहाकारं करोति । परां देवताम् । असावेव बंधुः ॥ १३ ॥

सायणः

यदुक्तं सूत्रकारेण “स्वाहा घर्म्मायेत्युपयमन्या सिञ्चति घर्म्मे” (का. श्रौ. सू. २६ । ८९) इति । तद्विधत्ते- अथोपयमन्या महावीरे० घर्म्मायेति । “अथ’ वातनामजपानंतरं ‘उपयमन्या’ स्रुचा ‘महावीरे’ प्रत्यानयति पुनरासिञ्चति । पयआसेचनसमये महावीरात् विष्यन्दनेन निर्गतं यत् हविर्घृतं आसीत् तदिदानीं “स्वाहा घर्म्माय” इति मन्त्रेण महावीरे पुनरासिंचेदित्यर्थः । अथैतत् स्तौति- एष वै घर्म्मो० वेव बंधुरिति । घर्म्मशब्दस्य दीप्यमानसूर्यवाचकत्वात् प्रवर्ग्यस्य च तदात्मकत्वात्, “घर्माय” इत्यनेन प्रवर्ग्यमेव तर्प्पयति । “तस्मादाह” इति निगमनम् । “अवरँ स्वाहाकारम्” इत्यादि मन्त्रादिगतस्वाहाकारप्रशंसा । एतत्सर्वं व्याख्यातम् ॥ १३ ॥

Eggeling
  1. He then pours (the spilt milk and ghee) from the tray into the Mahāvīra (pot) with, ‘Hail to the Gharma!’–the Gharma (hot draught) is he who shines yonder, and the Pravargya also is that (sun): thus it is him he thereby pleases, and therefore he says, ‘Hail to the Gharma!’–the call of ‘hail!’ he places first, and the deity last: the significance of this is the same as before 9.

१४

विश्वास-प्रस्तुतिः

(रा᳘) आ᳘नीते जपति॥
स्वा᳘हा घर्मः᳘ पित्र ऽइ᳘ति यज्ञ᳘स्य शीर्षच्छिन्न᳘स्य र᳘सो᳘ व्व्यक्षरत्स᳘[[!!]] पितॄ᳘नगच्छत्त्रया वै᳘ पित᳘रस्ता᳘ने᳘वैत᳘त्प्रीणात्य᳘वरᳫँ᳭ स्वाहाकार᳘ङ्करो᳘ति प᳘रान्देव᳘तामसा᳘वेव ब᳘न्धुः॥

मूलम् - श्रीधरादि

(रा᳘) आ᳘नीते जपति॥
स्वा᳘हा घर्मः᳘ पित्र ऽइ᳘ति यज्ञ᳘स्य शीर्षच्छिन्न᳘स्य र᳘सो᳘ व्व्यक्षरत्स᳘[[!!]] पितॄ᳘नगच्छत्त्रया वै᳘ पित᳘रस्ता᳘ने᳘वैत᳘त्प्रीणात्य᳘वरᳫँ᳭ स्वाहाकार᳘ङ्करो᳘ति प᳘रान्देव᳘तामसा᳘वेव ब᳘न्धुः॥

मूलम् - Weber

आ᳘नीते जपति॥
स्वा᳘हा घर्मः᳘ पित्र इ᳘ति यज्ञ᳘स्य शीर्षछिन्न᳘स्य [र᳘सो व्य᳘क्षरत्स᳘] पितॄ᳘नगछत्त्रया वै᳘ पित᳘रस्ता᳘नेॗवैत᳘त्प्रीणात्य᳘वरᳫं स्वाहाकारं᳘ करो᳘ति प᳘रां देव᳘तामसा᳘वेव ब᳘न्धुः॥

मूलम् - विस्वरम्

आनीते जपति- “स्वाहा घर्मः पित्रे”- (वा. सं. ३८ । ९) इति । यज्ञस्य शीर्षच्छिन्नस्य रसो व्यक्षरत् । स पितॄनगच्छत् । त्रया वै पितरः । तानेवैतत्प्रीणाति । अवरं स्वाहाकारं करोति । परां देवताम् । असावेव बंधुः ॥ १४ ॥

सायणः

इत्थं प्रत्यानयनानंतरं आम्नातस्य मन्त्रस्य विनियोगमाह- आनीते जपति 10 स्वाहा घर्म्मः पित्र इति । उपयमन्या महावीरे प्रत्यानीते सति “स्वाहा घर्म्मः पित्रे” इति मंत्रं ‘जपति’ । अस्य मन्त्रस्य पितृसंबंधं पुरस्तात् स्वाहाकारं च प्रशंसति- यज्ञस्य शीर्ष० वेव बंधुरिति । व्याख्यातमेतत् ॥ १४ ॥

Eggeling
  1. When it has been poured in, he mutters, ‘Hail, the Gharma to the Fathers!’ When the sacrifice had its head cut off, its life-sap flowed

away, and went to the Fathers–the Fathers being three in number: it is these he thus pleases. The call of ‘hail!’ he places first, and the deity last: the significance of this is the same as before.

१५

विश्वास-प्रस्तुतिः

(र्न्ना) नानुवा᳘क्याम᳘न्वाह॥
सकृ᳘दु ह्येव प᳘राञ्चः पित᳘रस्त᳘स्मा᳘न्नानुवा᳘क्याम᳘न्वाहातिक्र᳘म्याश्रा᳘व्याह घर्म्म᳘स्य यजे᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - श्रीधरादि

(र्न्ना) नानुवा᳘क्याम᳘न्वाह॥
सकृ᳘दु ह्येव प᳘राञ्चः पित᳘रस्त᳘स्मा᳘न्नानुवा᳘क्याम᳘न्वाहातिक्र᳘म्याश्रा᳘व्याह घर्म्म᳘स्य यजे᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - Weber

नानुवाॗक्याम᳘न्वाह॥
सकृ᳘दु ह्येव प᳘राञ्चः पित᳘रस्त᳘स्माॗन्नानुवाॗक्याम᳘न्वाहातिक्र᳘म्याश्रा᳘व्याह घर्म᳘स्य यजे᳘ति व᳘षट्कृते जुहोति॥

मूलम् - विस्वरम्

नानुवाक्यामन्वाह । सकृत उ ह्येव परांचः पितरः । तस्मान्नानुवाक्यामन्वाह । अतिक्रम्याश्राव्याह । घर्मस्य यजेति । वषट्कृते जुहोति ॥ १५ ॥

सायणः

अथ अस्य घर्मयागस्य वषट्कारप्रदानत्वात् प्रसक्तामनुवाक्यां निषेधति- नानुवाक्यामन्वाहेति । ‘पराञ्चः’ पराङ्मुखाः ‘पितरः’ ‘सकृत् उ’ सकृत् खलु सकृत्करणप्रियाः एकवारानुष्ठानेनैव तृप्यंति । अत्र च याज्ययैव तत्स्मरणसिद्धौ पुनरनुवाक्यायामनूच्यमानायां सकृत्त्वनियमो भज्येत । ‘तस्मात्’ अनुवाक्यां न ब्रूयात् । अथ महावीरस्थेन हविषा होमं विधत्ते- अतिक्रम्याश्राव्या० जुहोतीति । “व्विश्वा आशा दक्षिणसत्” इति । अपरेणाहवनीयं दक्षिणा ‘अतिक्रम्य आश्राव्य’ आश्रावणं कृत्वा ‘घर्म्मस्य यजेति’ होतारमुद्दिश्याह । तेन च याज्यांते ‘वषट्कृते’ वषट्कारे उक्ते सति “विश्वा ऽआशाः” इति मन्त्रेण घर्मं जुहोति 11 ॥ १५ ॥

Eggeling
  1. He recites no anuvākyā (invitatory) formula, for once for all the Fathers have passed away: therefore he recites no anuvākyā. Having stepped across 12, and called (on the Āgnīdhra) for the Sraushaṭ 13, he (the Adhvaryu) says (to the Hotr̥), ‘Pronounce the offering-formula (yājyā) of the Gharma;’ and on the Vashaṭ-call being uttered he offers–

१६

विश्वास-प्रस्तुतिः

व्वि᳘श्वा ऽआ᳘शा दक्षिणसदि᳘ति॥ स᳘र्व्वा ऽआ᳘शा दक्षिणसदि᳘त्ये᳘वैत᳘दाह व्वि᳘श्वान्देवा᳘नयाडिहे᳘ति स᳘र्व्वान्देवा᳘नयाक्षीदिहे᳘त्ये᳘वैत᳘दाह स्वा᳘हाकृतस्य घर्म्मस्य म᳘धोः पिबतमश्विने᳘त्यश्वि᳘नावे᳘वैत᳘दाहाश्वि᳘नौ᳘ ह्येत᳘द्यज्ञ᳘स्य शि᳘रः प्र᳘त्यधत्तां ता᳘वे᳘वैत᳘त्प्रीणात्य᳘वरᳫँ᳭ स्वाहाकार᳘ङ्करो᳘ति प᳘रान्देव᳘तामसा᳘वेव ब᳘न्धुः॥

मूलम् - श्रीधरादि

व्वि᳘श्वा ऽआ᳘शा दक्षिणसदि᳘ति॥ स᳘र्व्वा ऽआ᳘शा दक्षिणसदि᳘त्ये᳘वैत᳘दाह व्वि᳘श्वान्देवा᳘नयाडिहे᳘ति स᳘र्व्वान्देवा᳘नयाक्षीदिहे᳘त्ये᳘वैत᳘दाह स्वा᳘हाकृतस्य घर्म्मस्य म᳘धोः पिबतमश्विने᳘त्यश्वि᳘नावे᳘वैत᳘दाहाश्वि᳘नौ᳘ ह्येत᳘द्यज्ञ᳘स्य शि᳘रः प्र᳘त्यधत्तां ता᳘वे᳘वैत᳘त्प्रीणात्य᳘वरᳫँ᳭ स्वाहाकार᳘ङ्करो᳘ति प᳘रान्देव᳘तामसा᳘वेव ब᳘न्धुः॥

मूलम् - Weber

वि᳘श्वा आ᳘शा दक्षिणसदि᳘ति स᳘र्वा आ᳘शा दक्षिणसदि᳘त्येॗवैत᳘दाह वि᳘श्वान्देवा᳘नयाडिहे᳘ति स᳘र्वान्देवा᳘नयाक्षीदिहे᳘त्येॗवैत᳘दाह स्वा᳘हाकृतस्य घर्म᳘स्य म᳘धोः पिबतमश्विने᳘त्यश्वि᳘नावेॗवैत᳘दाहाश्वि᳘नौॗ ह्येत᳘द्यज्ञ᳘स्य शि᳘रः प्र᳘त्यधत्तां ता᳘वेॗवैत᳘त्प्रीणात्य᳘वरᳫं स्वाहाकारं᳘ करो᳘ति प᳘रां देव᳘तामसा᳘वेव ब᳘न्धुः॥

मूलम् - विस्वरम्

“विश्वा आशा दक्षिणसत्”- इति । सर्वा आशा दक्षिणसत् इत्येवैतदाह । “विश्वान्देवानयाडिह”- इति । सर्वान्देवानयाक्षीदिह इत्येवैतदाह । “स्वाहाकृतस्य घर्मस्य मधोः पिबतमश्विना”- (वा. सं. ३८ । १०) इति । अश्विनावेवैतदाह । अश्विनौ ह्येतद्यज्ञस्य शिरः प्रत्यधत्ताम् । तावेवैतत्प्रीणाति । अवरं स्वाहाकारं करोति । परां देवताम् । असावेव बंधुः ॥ १६ ॥

सायणः

विश्वा आशा दक्षिणसदिति । अथोपात्तस्यास्य मन्त्रस्य प्रथमभागस्य तात्पर्यमाह- सर्व्वा आशा० तदाहेति । ‘दक्षिणसत्’ आहवनीयस्य दक्षिणदेशे सीदन् ब्रह्मा अध्वर्युर्वा ‘विश्वाः’ सर्वाः ‘आशाः’ प्रीणाति इममेवार्थमेतदाह । विश्वशब्दः सर्वशब्दपर्याय इति ब्राह्मणाभिप्रायः । अथ द्वितीयपादमनूद्य व्याचष्टे- विश्वान्देवानयाडि० तदाहेति । अयाडिति पदस्य ‘अपाक्षीत्’ इष्टवानस्मीत्यर्थः इति श्रुतेरभिप्रायः । स्पष्टमन्यत् । अथोत्तरार्द्धमनूद्य व्याचष्टे- स्वाहाकृतस्य घर्मस्य तदाहेति । हे ‘अश्विनौ’ युवां ‘स्वाहाकृतस्य’ स्वाहाकारेण हुतस्य घर्मलक्षणस्य ‘मधोः’ मधुनः रसं पिबतमिति अश्विनावेव हविर्भोक्तारौ एतन्मन्त्रवाक्यं ‘आह’ ब्रूते सत्स्वपि अन्येषु देवेषु । तस्मात् इमावश्विनौ अत्र प्रतिपाद्येते । अस्यार्द्धर्चस्यादौ किमर्थः स्वाहाशब्दप्रयोगः ? इति तत्राह- अश्विनौ ह्येत० वेव बंधुरिति ॥ सिद्धमेतत् ॥ १६ ॥

Eggeling
  1. With (Vāj. S. XXXVIII, 10), ‘All regions (hath he worshipped), seated in the south,’–that is to say, ’every region (has he worshipped), seated on the south;’–‘all gods hath he worshipped here,’–that is, ’every god has he worshipped here;’–‘of the sweet Gharma, consecrated by Svāhā (hail!), drink ye, O Aśvins!’–with regard to the Aśvins he says this; for the Aśvins restored the head of the sacrifice: it is them he thus pleases. The call of ‘hail!’ he places first, and the deity last: the significance of this is the same as before.

१७

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ हु᳘त्वोर्ध्वमुत्कम्पयति[[!!]]॥
दिवि᳘ धा ऽइमं᳘ यज्ञ᳘मिमं᳘ यज्ञ᳘न्दिवि᳘ धा ऽइ᳘त्यसौ वा᳘ ऽआदित्यो᳘ घर्मो᳘ यज्ञो᳘ दिवि वा᳘ ऽएष᳘ हितो᳘ दिवि प्र᳘तिष्ठितस्त᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह दिवि᳘ धा ऽइमं᳘ यज्ञ᳘मिमं᳘ यज्ञ᳘न्दिवि᳘ धा ऽइ᳘त्यनुव᳘षट्कृते जुहोति॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ हु᳘त्वोर्ध्वमुत्कम्पयति[[!!]]॥
दिवि᳘ धा ऽइमं᳘ यज्ञ᳘मिमं᳘ यज्ञ᳘न्दिवि᳘ धा ऽइ᳘त्यसौ वा᳘ ऽआदित्यो᳘ घर्मो᳘ यज्ञो᳘ दिवि वा᳘ ऽएष᳘ हितो᳘ दिवि प्र᳘तिष्ठितस्त᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह दिवि᳘ धा ऽइमं᳘ यज्ञ᳘मिमं᳘ यज्ञ᳘न्दिवि᳘ धा ऽइ᳘त्यनुव᳘षट्कृते जुहोति॥

मूलम् - Weber

अ᳘थ हुॗत्वोर्ध्वमु᳘त्कम्पयति॥
दिवि᳘ धा इमं᳘ यज्ञ᳘मिमं᳘ यज्ञ᳘म् दिवि᳘ धा इ᳘त्यसौ वा᳘ आदित्यो᳘ घर्मो᳘ यज्ञो᳘ दिवि वा᳘ एष᳘ हितो᳘ दिवि प्र᳘तिष्ठितस्त᳘मेॗवैत᳘त्प्रीणाति त᳘स्मादाह दिवि᳘ धा इमं᳘ यज्ञ᳘मिमं᳘ यैञं᳘ दिवि᳘ धा इ᳘त्यनुव᳘षट्कृते जुहोति॥

मूलम् - विस्वरम्

अथ हुत्वोर्ध्वमुत्कंपयति- “दिवि धा इमं यज्ञमिमं यज्ञं दिवि धाः”- इति । असौ वा आदित्यो घर्मो यज्ञः दिवि वा एष हितः दिवि प्रतिष्ठितः । तमेवैतत्प्रीणाति । तस्मादाह- “दिवि धा इमं यज्ञमिमं यज्ञं दिवि धाः”- इति । अनुवषट्कृते जुहोति ॥ १७ ॥

सायणः

अथोत्कंपनं विधत्ते- अथ हुत्वोर्ध्व० दिवि धा इतीति । ‘अथ हुत्वा’ होमानंतरं “दिवि धा इमम्”- इति ‘मंत्रेण ऊर्ध्वं’ ऊर्ध्वाभिमुखं अग्निं 14 त्रिः ‘उत्कम्पयति’ उज्ज्वालयति । तथा च कात्यायनः- “दिवि धा इति त्रिरुत्कम्पयति” (का. श्रौ. सू. २६ । ९२) । अथ मन्त्रं व्याचष्टे- असौ वा आदित्यो घर्म्मो० दिवि धा इतीति । असावादित्यः खलु घर्मात्मको यज्ञः । ‘दिवि’ अंतरिक्षे खलु ‘एषः’ आदित्यः ‘हितः’ निहितः तस्मिन्नेव द्युलोके प्रतिष्ठितश्च । अतः ‘इमं’ प्रवर्ग्यात्मकं ‘यज्ञं, दिवि, धाः’ धेहि स्थापय इति । द्युस्थं तमेवादित्यं एतेन ‘प्रीणाति’ । “तस्मात्” इत्यादि निगमनम् । अथानुवषट्कारे होमं विधत्ते- अनुवषट्कृते जुहोति स्वाहा ऽग्नये यज्ञियायेतीति । ‘अनुवषट्कृते’ “घर्म्मस्याग्ने व्वीहि ३ वौ ३ षट्” इति होत्रा अनुवषट्कारे कृते “स्वाहा ऽग्नये” इति मंत्रेण जुहोति 15 ॥ अयमनुवषट्कारे यो होमः स स्विष्टकृत्स्थानीयः, इति वदन् अत्र तात्पर्यमाचष्टे- तत्स्विष्टकृद्भाजन० वेव बंधुरिति । ‘तत्’ अनुवषट्कारेण हवनं ‘स्विष्टकृद्भाजनं’ स्विष्टकृद्यागस्थानीयम् । ‘अग्निः’ खलु ‘स्विष्टकृत्’ स्विष्टकृद्यागदेवता स चाग्निः अस्मिन्मंत्रे दृश्यते इति यागमन्त्रयोः संगतिः । “शं यजुर्भ्यः” व्याख्यानार्थमुपादानम् । ‘शं’ सुखं यजुर्मंत्रेभ्यः अस्त्विति तदर्थः । ‘एषः’ प्रवर्ग्यः यजुर्मंत्रैः ‘हि’ ‘अस्मिन् लोके प्रतिष्ठितः’ यजमानेषु लब्धास्पदो वर्तते । अतः तत्प्रतिष्ठाहेतून् ‘तानि’ यजूंषि एव अनेन मन्त्रभागेन ‘प्रीणाति’ । गतमन्यत् ॥ १७ ॥ १८ ॥

Eggeling
  1. And, having offered, he (thrice) shakes (the Mahāvīra) upwards, with (Vāj. S. XXXVIII, 11), ‘In heaven place thou this sacrifice! this sacrifice place thou in heaven!’–for the Gharma (hot milk-draught), the sacrifice, is yonder sun, and he indeed is ‘placed’ in the heavens, is

established in the heavens: it is thus him he thereby pleases, and therefore he says, ‘In heaven place thou this sacrifice! this sacrifice place thou in heaven!’ On the repetition of the Vashaṭ, he offers–

१८

विश्वास-प्रस्तुतिः

स्वा᳘हा ऽग्न᳘ये यज्ञि᳘याये᳘ति॥
त᳘त्स्विष्टकृद्भाजन᳘मग्निर्हि᳘ स्विष्टकृच्छं य᳘जुर्भ्भ्य ऽइ᳘ति य᳘जुर्भ्भि᳘र्ह्ये᳘षो ऽस्मिं᳘ल्लोके प्र᳘तिष्ठितस्ता᳘न्ये᳘वैत᳘त्प्रीणात्य᳘वरᳫँ᳭ स्वाहाकार᳘ङ्करो᳘ति प᳘रान्देव᳘तामसा᳘वेव ब᳘न्धुः॥

मूलम् - श्रीधरादि

स्वा᳘हा ऽग्न᳘ये यज्ञि᳘याये᳘ति॥
त᳘त्स्विष्टकृद्भाजन᳘मग्निर्हि᳘ स्विष्टकृच्छं य᳘जुर्भ्भ्य ऽइ᳘ति य᳘जुर्भ्भि᳘र्ह्ये᳘षो ऽस्मिं᳘ल्लोके प्र᳘तिष्ठितस्ता᳘न्ये᳘वैत᳘त्प्रीणात्य᳘वरᳫँ᳭ स्वाहाकार᳘ङ्करो᳘ति प᳘रान्देव᳘तामसा᳘वेव ब᳘न्धुः॥

मूलम् - Weber

स्वा᳘हाग्न᳘ये यज्ञियाये᳘ति॥
त᳘त्स्विष्टकृद्भाजन᳘मग्निर्हि᳘ स्विष्टकृछं य᳘जुर्भ्य इ᳘ति य᳘जुर्भिॗर्ह्येॗषोऽस्मिं᳘लोके प्र᳘तिष्ठितस्ता᳘न्येॗवैत᳘त्प्रीणात्य᳘वरᳫं स्वाहाकारं᳘ करो᳘ति प᳘रां देव᳘तामसा᳘वेव ब᳘न्धुः॥

मूलम् - विस्वरम्

“स्वाहा ऽग्नये यज्ञियाय”- इति । तत्स्विष्टकृद्भाजनम् । अग्निर्हि स्विष्टकृत् । “शं यजुर्भ्यः”- (वा. सं. ३८ । ११) इति । यजुर्भिर्ह्येषो ऽस्मिंल्लोके प्रतिष्ठितः । तान्येवैतत्प्रीणाति । अवरं स्वाहाकारं करोति । परां देवताम् । असावेव बंधुः ॥ १८ ॥

सायणः

[व्याख्यानं सप्तदशे]

Eggeling
  1. With, ‘Hail to Agni, worthy of sacrifice!’–this is in lieu of the Svishṭakr̥t (offering), for Agni is the maker of good offering;–‘may blessing result from the sacrificial texts!’ for by the sacrificial texts that (sun) is established (as the Mahāvīra) in this world: thus it is them he thereby pleases. The call of ‘hail!’ he places first, and the deity last: the significance of this is the same as before.

१९

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ ब्रह्मा᳘ ऽनुमन्त्रयते॥
ब्रह्मा वा᳘ ऽऋत्वि᳘जाम्भिष᳘क्तमस्तद्य᳘ ऽएव᳘र्त्वि᳘जाम्भिष᳘क्तमस्ते᳘नै᳘वैनमेत᳘द्यज्ञ᳘म्भिषज्यति॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ ब्रह्मा᳘ ऽनुमन्त्रयते॥
ब्रह्मा वा᳘ ऽऋत्वि᳘जाम्भिष᳘क्तमस्तद्य᳘ ऽएव᳘र्त्वि᳘जाम्भिष᳘क्तमस्ते᳘नै᳘वैनमेत᳘द्यज्ञ᳘म्भिषज्यति॥

मूलम् - Weber

अ᳘थ ब्रह्मा᳘नुमन्त्रयते॥
ब्रह्मा वा᳘ ऋत्वि᳘जाम् भिष᳘क्तमस्तद्य᳘ एव᳘र्त्वि᳘जाम् भिष᳘क्तमस्ते᳘नैॗवैनमेत᳘द्यज्ञ᳘म् भिषज्यति॥

मूलम् - विस्वरम्

अथ ब्रह्मा ऽनुमंत्रयते । ब्रह्मा वा ऋत्विजां भिषक्तमः । तद्य एवर्त्विजां भिषक्तमः । तेनैवैनमेतद्यज्ञं भिषज्यति ॥ १९ ॥

सायणः

अथ यदुक्तं सूत्रकारेण- “अश्विना घर्म्ममिति ब्रह्मा ऽनुमंत्रयते” (का. श्रौ. सू. २६ । ९४) इति, तद्विधत्ते- अथ ब्रह्मा ऽनुमंत्रयते इति । अथानुवषट्कारमन्त्रानंतरं ‘ब्रह्मा’ वक्ष्यमाणेन मन्त्रेण घर्म्ममनुमन्त्रयते । ननु सन्ति अन्ये बहव ऋत्विजः, किमिति स एवानुमन्त्रणे विधीयते ? इत्यत आह- ब्रह्मा वा० भिषज्यतीति । ‘ऋत्विजां अध्वर्युप्रभृतीनां मध्ये ‘ब्रह्मा’ खलु ‘भिषक्तमः’ अतिशयेन भैषज्यकरः । छेदनभेदनविस्मरणादिना यज्ञस्य यदंगं दूषितं तस्य सर्वस्य तत्प्रायश्चित्तकरणेन समाधातृत्वात् । ‘तत्’ तथा च ‘ऋत्विजां’ मध्ये ‘यः एव’ ‘भिषक्तमः’ । ‘तेनैव’ ‘यज्ञं’ छिन्नशिरस्कं एतेनानुमन्त्रणेन ‘भिषज्यति’ चिकित्सति । पुनः समादधातीत्यर्थः । “भिषज् चिकित्सायाम्” (धा. पा. कण्ड्वा. २२) इति धातुः ॥ १९ ॥

Eggeling
  1. The Brahman (priest) pronounces the anumantraṇa (formula of consecration); for the Brahman is the best physician among the officiating priests: thus he heals this sacrifice by means of him who is the best physician among the priests.

२०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘श्विना घर्म्म᳘म्पातमि᳘ति॥
(त्य) अश्वि᳘नावे᳘वैत᳘दाहाश्वि᳘नौ᳘ ह्येत᳘द्यज्ञ᳘स्य शि᳘रः प्र᳘त्यधत्तान्ता᳘वे᳘वैत᳘त्प्रीणाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘श्विना घर्म्म᳘म्पातमि᳘ति॥
(त्य) अश्वि᳘नावे᳘वैत᳘दाहाश्वि᳘नौ᳘ ह्येत᳘द्यज्ञ᳘स्य शि᳘रः प्र᳘त्यधत्तान्ता᳘वे᳘वैत᳘त्प्रीणाति॥

मूलम् - Weber

अ᳘श्विना घर्म᳘म् 16 पातमि᳘ति॥
अश्वि᳘नाॗवेवैत᳘दाहाश्वि᳘नौॗ ह्येत᳘द्यज्ञ᳘स्य शि᳘रः प्र᳘त्यधत्तां ता᳘वेॗवैत᳘त्प्रीणाति॥

मूलम् - विस्वरम्

“अश्विना घर्मं पातम्”- इति । अश्विनावेवैतदाह । अश्विनौ ह्येतद्यज्ञस्य शिरः प्रत्यधत्ताम् । तावेवैतत्प्रीणाति ॥ २० ॥

सायणः

अथ मंत्रस्य प्रथमभागमनूद्य व्याचष्टे- अश्विना घर्म्मं० त्प्रीणातीति । ‘अश्विना घर्म्ममिति अश्विशब्दयोगात् अनेनाश्विनावेव ‘प्रीणाति’ । सिद्धमन्यत् ॥ २० ॥

Eggeling
  1. [He does so, with Vāj. S. XXXVIII, 12.] ‘O Aśvins, drink ye the Gharma!’–with regard to the Aśvins he says this, for the Aśvins restored the head of the sacrifice: it is them he thus pleases.

२१

विश्वास-प्रस्तुतिः

हार्द्द्वान᳘महर्द्दिवा᳘भिरूति᳘भिरिति॥
(त्य᳘) अ᳘निरुक्तम᳘निरुक्तो वै᳘ प्रजा᳘पतिः प्रजा᳘पतिर्य्यज्ञस्त᳘त्प्रजा᳘पतिमे᳘वैत᳘द्यज्ञ᳘म्भिषज्यति॥

मूलम् - श्रीधरादि

हार्द्द्वान᳘महर्द्दिवा᳘भिरूति᳘भिरिति॥
(त्य᳘) अ᳘निरुक्तम᳘निरुक्तो वै᳘ प्रजा᳘पतिः प्रजा᳘पतिर्य्यज्ञस्त᳘त्प्रजा᳘पतिमे᳘वैत᳘द्यज्ञ᳘म्भिषज्यति॥

मूलम् - Weber

हार्द्वान᳘महर्दिवा᳘भिरूति᳘भिरिति 17
अ᳘निरुक्तम᳘न् रुक्तो वै᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञस्त᳘त्प्रजा᳘पतिमेॗवैत᳘द्यज्ञं᳘ भिषज्यति॥

मूलम् - विस्वरम्

“हार्द्वानमहर्द्दिवाभिरूतिभिः”- इति । अनिरुक्तम् अनिरुक्तो वै प्रजापतिः । प्रजापतिर्यज्ञः । तत्प्रजापतिमेवैतद्यज्ञं भिषज्यति ॥ २१ ॥

सायणः

अथ द्वितीयभागमनूद्य व्याचष्टे- हार्द्वानमह० भिषज्यतीति । “हार्द्वानम्”- इति मंत्रभागे देवतावाचकशब्दाभावात् “अनिरुक्तं” निःशेषेणोक्तं निरुक्तं तद्विलक्षणं एतन्मंत्रवाक्यम् । प्रजापतिश्च सर्वात्मकत्वात् केनचित् आकारविशेषेण ‘अनिरुक्तः’ निरुक्तिरहितः । स एव प्रजापतिर्यज्ञः । तत्तस्मात् अनिरुक्तेन अनिरुक्तं प्रजापत्यात्मकं इमं यज्ञमेव ‘भिषज्यति’ चिकित्सति ॥ २१ ॥

Eggeling
  1. ‘The hearty 18 one with daily 19 favours,’–

this is indistinct, for Prajāpati is indistinct (undefined), and the sacrifice is Prajāpati: Prajāpati, the sacrifice, he thus heals;–

२२

विश्वास-प्रस्तुतिः

तन्त्रायि᳘ण ऽइ᳘ति॥
(त्ये) एष वै᳘ तन्त्रायी य᳘ ऽएष त᳘पत्येष᳘ हीमां᳘ल्लोकांस्त᳘न्त्रमिवानुसञ्च᳘रत्येष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह तन्त्रायि᳘ण ऽइ᳘ति॥

मूलम् - श्रीधरादि

तन्त्रायि᳘ण ऽइ᳘ति॥
(त्ये) एष वै᳘ तन्त्रायी य᳘ ऽएष त᳘पत्येष᳘ हीमां᳘ल्लोकांस्त᳘न्त्रमिवानुसञ्च᳘रत्येष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह तन्त्रायि᳘ण ऽइ᳘ति॥

मूलम् - Weber

तन्त्रायि᳘ण इ᳘ति॥
एष वै᳘ तन्त्रायी य᳘ एष त᳘पत्येषॗ हीमां᳘लोकांस्त᳘न्त्रमिवानुस᳘ञ्चरत्येष᳘ उ प्रव᳘र्ग्यस्त᳘देत᳘मेॗवैत᳘त्प्रीणाति त᳘स्मादाह तन्त्रायि᳘ण इ᳘ति॥

मूलम् - विस्वरम्

“तंत्रायिणे”- इति । एष वै तंत्रायी । य एष तपति । एष हीमांल्लोकांस्तंत्रमिवानुसंचरति । एष उ प्रवर्ग्यः । तदेतमेवैतत्प्रीणाति । तस्मादाह- “तंत्रायिणे”- इति ॥ २२ ॥

सायणः

अथ तृतीयभागमनूद्य व्याचष्टे- तंत्रायिण० तंत्रायिण इतीति । ‘य एषः’ सूर्यस्तपति ‘एषः’ खलु ‘तंत्रायी’ तन्यते अनेनेति व्युत्पत्त्या तंत्रमिति तंतुपूर्णा तुरी अभिधीयते । सा यथा वस्त्रवानसमये 20 प्रतिसूत्रं दक्षिणोत्तरभागौ अभिलक्ष्य पुनः पुनरावर्तते । एवमयते सर्वान् लोकान् गच्छतीति तंत्रायी सूर्यः । इममेवार्थं स्वयमेव व्याचष्टे- एष हीति । ‘एषः’ खलु ‘इमान्’ पृथिव्यादीन् ‘लोकान्’ ‘तंत्रमिव’ तंतुसाधनभूता तुरीव ‘अनुसंचरति’ क्रमेण पर्यावर्तते । गतमन्यत् ॥ २२ ॥

Eggeling
  1. ‘To the web-weaver,’–the web-weaver, doubtless, is he that shines yonder, for he moves along these worlds as if along a web; and the Pravargya also is that (sun): thus it is him he thereby pleases, and therefore he says, ‘To the web-weaver’–

२३

विश्वास-प्रस्तुतिः

न᳘मो द्या᳘वापृथिवी᳘भ्यामि᳘ति॥
त᳘दाभ्यान्द्या᳘वापृथिवी᳘भ्यान्नि᳘ह्नुते य᳘योरिदᳫँ᳭ स᳘र्व्वम᳘धि॥

मूलम् - श्रीधरादि

न᳘मो द्या᳘वापृथिवी᳘भ्यामि᳘ति॥
त᳘दाभ्यान्द्या᳘वापृथिवी᳘भ्यान्नि᳘ह्नुते य᳘योरिदᳫँ᳭ स᳘र्व्वम᳘धि॥

मूलम् - Weber

न᳘मो द्या᳘वापृथिवी᳘भ्यामि᳘ति॥
त᳘दाभ्यां द्या᳘वापृथिवी᳘भ्यां नि᳘ह्नुते य᳘योरिदᳫं स᳘र्वम᳘धि॥

मूलम् - विस्वरम्

“नमो द्यावापृथिवीभ्याम्”- (वा. सं. ३८ । १२) इति । तदाभ्यां द्यावापृथिवीभ्यां निह्नुते । ययोरिदं सर्वमधि ॥ २३ ॥

सायणः

अथ चतुर्थभागमनूद्य व्याचष्टे- नमो द्यावापृथिवी० सर्वमधीति । “नमो द्यावापृथिवीभ्याम्” इति यद्वाक्यं तत्तेन ‘आभ्यां’ द्यावापृथिवीभ्यां नमस्करोति । सुखावस्थानार्थं ययोर्द्यावापृथिव्योः ‘अधि’ उपरि सर्वमिदं भूतजातं वर्तते ॥ २३ ॥

Eggeling
  1. ‘To Heaven and Earth be reverence!’ he thus propitiates heaven and earth, within which everything here is contained.

२४

विश्वास-प्रस्तुतिः

(द्ध्य᳘) अ᳘थ य᳘जमानः॥
(नो) यज्ञो वै य᳘जमानो यज्ञे᳘ने᳘वैत᳘द्यज्ञ᳘म्भिषज्यति॥

मूलम् - श्रीधरादि

(द्ध्य᳘) अ᳘थ य᳘जमानः॥
(नो) यज्ञो वै य᳘जमानो यज्ञे᳘ने᳘वैत᳘द्यज्ञ᳘म्भिषज्यति॥

मूलम् - Weber

अ᳘थ य᳘जमानः॥
यज्ञो वै य᳘जमानो यज्ञे᳘नेॗवैत᳘द्यज्ञ᳘म् भिषज्यति॥

मूलम् - विस्वरम्

अथ यजमानः । यज्ञो वै यजमानः । यज्ञेनैवैतद्यज्ञं भिषज्यति ॥ २४ ॥

सायणः

अथ यजमानकर्तृकमनुमंत्रणं विधत्ते- अथ यजमान इति । ‘अनुमंत्रयते’ इत्यनुषंगः । ‘अथ’ अनुवषट्कारहोमानंतरं, ‘यजमानः’ “अपातामश्विना” इति मंत्रेण अनुमंत्रयते । तदुक्तं कात्यायनेन- “अश्विना घर्ममिति ब्रह्मा ऽनुमंत्रयते 20 अपातामिति यजमानः (का. श्रौ. सू. २६ । ९४ ।९५) इति । अथैतदनु मंत्रणमुपपादयति- यज्ञो वै यज० भिषज्यतीति । ‘यज्ञः’ एव खलु ‘यजमानः’ तत्स्वामित्वात् । तत्तस्मात् यजमानेनानुमंत्रणे ‘यज्ञेनैव’ यजमानलक्षणेन ‘यज्ञं भिषज्यति’ चिकित्सति ॥ २४ ॥

Eggeling
  1. Thereupon the Sacrificer (mutters),–the Sacrificer being the sacrifice, he thus heals the sacrifice by means of the sacrifice;–

२५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘पातामश्वि᳘ना घर्म्ममि᳘ति॥
(त्य) अश्वि᳘नावे᳘वैत᳘दाहाश्वि᳘नौ᳘ ह्येत᳘द्यज्ञ᳘स्य शि᳘रः प्रत्य᳘धत्तान्ता᳘वे᳘वैत᳘त्प्रीणाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘पातामश्वि᳘ना घर्म्ममि᳘ति॥
(त्य) अश्वि᳘नावे᳘वैत᳘दाहाश्वि᳘नौ᳘ ह्येत᳘द्यज्ञ᳘स्य शि᳘रः प्रत्य᳘धत्तान्ता᳘वे᳘वैत᳘त्प्रीणाति॥

मूलम् - Weber

अ᳘पातामश्वि᳘ना घर्ममि᳘ति॥
अश्वि᳘नावेॗवैत᳘दाहाश्वि᳘नौॗ ह्येत᳘द्यज्ञ᳘स्य शि᳘रः प्रत्य᳘धत्तां ता᳘वेॗवैत᳘त्प्रीणाति॥

मूलम् - विस्वरम्

“अपातामश्विना घर्मम्”- इति । अश्विनावेवैतदाह । अश्विनौ ह्येतद्यज्ञस्य शिरः प्रत्यधत्ताम् । तावेवैतत्प्रीणाति ॥ २५ ॥

सायणः

अथ मन्त्रस्य प्रथमभागमनूद्य व्याचष्टे- अपातामश्विना० प्रीणातीति । “अपातामश्विना घर्म्मम्” इति एतद्वाक्यं अश्विनावेव ‘आह’ प्रतिपादयति । गतमन्यत् ॥ २५ ॥

Eggeling
  1. [Vāj. S. XXXVIII, 13,] ‘The Aśvins drank the Gharma,’–he says this with regard to the Aśvins, for the Aśvins restored the head of the sacrifice: it is them he thus pleases.

२६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘नु द्या᳘वापृथिवी᳘ ऽअमᳫँ᳭सातामि᳘ति॥
त᳘दिमे द्या᳘वापृथिवी᳘ ऽआह य᳘योरिदᳫँ᳭ स᳘र्व्वम᳘धी᳘हैव᳘ रात᳘यः सन्त्वि᳘ती᳘हैव᳘ नो ध᳘नानि सन्त्वि᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘नु द्या᳘वापृथिवी᳘ ऽअमᳫँ᳭सातामि᳘ति॥
त᳘दिमे द्या᳘वापृथिवी᳘ ऽआह य᳘योरिदᳫँ᳭ स᳘र्व्वम᳘धी᳘हैव᳘ रात᳘यः सन्त्वि᳘ती᳘हैव᳘ नो ध᳘नानि सन्त्वि᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

अ᳘नुद्या᳘वापृथिवी᳘ अमंसातामि᳘ति॥
त᳘दिमे द्या᳘वापृथिवी᳘ आह य᳘योरिदᳫं स᳘र्वम᳘धीॗहैव᳘ रात᳘यः सन्त्वि᳘तीॗहैव᳘ नो ध᳘नानि सन्त्वि᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

“अनु द्यावापृथिवी अमंसाताम्”- इति । तदिमे द्यावापृथिवी आह । ययोरिदं सर्वमधि । “इहैव रातयः सन्तु” (वा. सं. ३८ । १३) इति । इहैव नो धनानि सन्तु इत्येवैतदाह ॥ २६ ॥

सायणः

अथ द्वितीयभागमनूद्य व्याचष्टे- अनु द्यावापृथिवी० सर्व्वमधीति । “अनु द्यावापृथिवी” इत्येतद्वाक्यं ‘तत् इमे’ दृश्यमाने ‘द्यावापृथिवी’ द्यावापृथिव्यौ ‘आह’ प्रतिपादयति । अन्यद्गतम् । अथ तृतीयभागमनूद्य तात्पर्यमाह- इहैव रातयः सं० तदाहेति । “रा दाने” (धा. पा. अ. प. ४७) इति धातुः । रायन्ते दीयन्ते इति रातयो धनानि । तथा च “इहैव” इत्येतद्वाक्यम् इहैवास्मिन्नेव लोके ‘नः’ अस्माकं ‘धनानि सन्तु’ भवन्तु इति इममेवार्थम् ‘आह’ प्रतिपादयति ॥ २६ ॥

Eggeling
  1. ‘Heaven and Earth have approved of it 21’–he says this with regard to heaven and earth, within which everything here is contained;–‘may gifts accrue here!’–whereby he means to say, ‘may there be riches for us here.’

२७

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थ पि᳘न्वमानम᳘नुमन्त्रयते॥
(त ऽइ) इषे᳘ पिन्वस्वे᳘ति व्वृ᳘ष्ट्यै त᳘दाह यदा᳘हेषे᳘ पिन्वस्वे᳘त्यूर्ज्जे᳘ पिन्वस्वे᳘ति यो᳘ व्वृष्टादूर्ग्र᳘सो जा᳘यते त᳘स्मै त᳘दाह ब्र᳘ह्मणे पिन्वस्वे᳘ति तद्ब्र᳘ह्मण ऽआह क्षत्त्रा᳘य पिन्वस्वे᳘ति त᳘त्क्षत्त्रा᳘याह द्या᳘वापृथिवी᳘भ्याम्पिन्वस्वे᳘ति त᳘दाभ्यान्द्या᳘वापृथिवी᳘भ्यामाह य᳘योरिदᳫँ᳭ स᳘र्व्वम᳘धि॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘थ पि᳘न्वमानम᳘नुमन्त्रयते॥
(त ऽइ) इषे᳘ पिन्वस्वे᳘ति व्वृ᳘ष्ट्यै त᳘दाह यदा᳘हेषे᳘ पिन्वस्वे᳘त्यूर्ज्जे᳘ पिन्वस्वे᳘ति यो᳘ व्वृष्टादूर्ग्र᳘सो जा᳘यते त᳘स्मै त᳘दाह ब्र᳘ह्मणे पिन्वस्वे᳘ति तद्ब्र᳘ह्मण ऽआह क्षत्त्रा᳘य पिन्वस्वे᳘ति त᳘त्क्षत्त्रा᳘याह द्या᳘वापृथिवी᳘भ्याम्पिन्वस्वे᳘ति त᳘दाभ्यान्द्या᳘वापृथिवी᳘भ्यामाह य᳘योरिदᳫँ᳭ स᳘र्व्वम᳘धि॥

मूलम् - Weber

अ᳘थ पि᳘न्वमानम᳘नुमन्त्रयते॥
इषे᳘ पिन्वस्वे᳘ति वृ᳘ष्ट्यै त᳘दाह यदा᳘हेषे᳘ पिन्वस्वे᳘त्यूर्जे᳘ पिन्वस्वे᳘ति यो᳘ वृष्टादूर्ग्र᳘सो जा᳘यते त᳘स्मै त᳘दाह ब्र᳘ह्मणे पिन्वस्वे᳘ति तद्ब्र᳘ह्मण आह क्षत्रा᳘य पिन्वस्वे᳘ति त᳘त्क्षत्रा᳘याह द्या᳘वापृथिवी᳘भ्याम् पिन्वस्वे᳘ति त᳘दाभ्यां द्या᳘वापृथिवी᳘भ्यामाह य᳘योरिदᳫं स᳘र्वम᳘धि॥

मूलम् - विस्वरम्

अथ पिन्वमानमनुमन्त्रयते । “इषे पिन्वस्व”- इति । वृष्ट्यै तदाह । यदाह । “इषे पिन्वस्व”- इति । “ऊर्जे पिन्वस्व”- इति । यो वृष्टादूर्ग्रसो जायते । तस्मै तदाह । “ब्रह्मणे पिन्वस्व”- इति । तत् ब्रह्मण आह । “क्षत्त्राय पिन्वस्व”- इति । तत् क्षत्रायाह । “द्यावापृथिवीभ्यां पिन्वस्व”- (वा. सं. ३८ । १४) इति । तदाभ्यां द्यावापृथिवीभ्यामाह । ययोरिदं सर्वमधि ॥ २७ ॥

सायणः

एवं वषट्कारानुवषट्कारयोः महावीरस्थं हविः हुत्वा यत् तत्र अवशिष्टं तेन प्रतिदिशं पिन्वनं कार्यम् । तस्मिन् समये यजमानस्य पिन्वमानानुमंत्रणं 22 विधत्ते- अथ पिन्वमानमनुमन्त्रयते इति । ‘अथ’ होमानंतरं पिन्वमानं “पिवि सेचने” (धा. पा. भ्वा. आ. ५८९) आहवनीये सिच्यमानं घर्म्मं “इषे पिन्वस्व” इति मन्त्रेण अनुमन्त्रयते । अथ तस्य प्रथमभागमनूद्य व्याचष्टे- इषे पिन्वस्वेति । “इषे पिन्वस्व” इति अनुमन्त्रणमन्त्रप्रतीकग्रहणम् । तत्र इषै पिन्वस्वेति यदाह । इष्यते सर्वप्राणिभिः इति इट् । तथा च ‘वृष्ट्यै’ वर्षणार्थं ‘पिन्वस्व’ सिञ्चस्व इत्येवार्थमेतत् वाक्यमाह । अथ द्वितीयभागमनूद्य व्याचष्टे- ऊर्ज्जे पिन्वस्व० तदाहेति । मेघैः ‘वृष्टात्’ भूम्यां सिक्तात् उदकात् यः ‘ऊर्क् रसः’ अन्नरसः ‘जायते’ उत्पद्यते । तत् अस्मिन्मंत्रे ऊर्क्शब्देनोच्यते । अतः ‘तस्मै’ तथाविधाय ‘ऊर्ज्जे’ रसाय ‘पिन्वस्व’ इति तद्वाक्यमाह । तृतीयभागमनूद्य व्याचष्टे- ब्रह्मणे पिन्वस्वेति । “ब्रह्मणे पिन्वस्व” इति यद्वाक्यं तत् ‘ब्रह्मणे’ ब्राह्मणजातये तं ऊर्ग्ग्रसं पिन्वस्व इति अमुमर्थमाह । अथ चतुर्थभागमनूद्य व्याचष्टे- क्षत्त्राय पिन्वस्वेति तत् क्षत्त्रायाहेति । “क्षत्त्राय पिन्वस्व” इति यत् तत् ‘क्षत्त्राय’ क्षत्रियजातये ‘पिन्वस्व’ इत्याह । अथ पंचमभागमनूद्य व्याचष्टे- द्यावापृथिवीभ्यां पिन्वस्वेति० सर्वमधीति । “द्यावापृथिवीभ्यां पिन्वस्व” इति यद्वाक्यं तत् ‘आभ्यां’ दृश्यमानाभ्यां ‘द्यावापृथिवीभ्यां’ द्यावापृथिव्योः अर्थं लोकद्वयप्रीणनार्थं पिन्वस्वेति अमुमर्थमाह ॥ २७ ॥

Eggeling
  1. The rising (milk) he then consecrates by the anumantraṇa 23, ‘For freshness swell thou!’

–whereby he means to say, ‘For rain . . .;’–‘for vigour swell thou!’–he thereby means the vigour, the life-sap, which results from the rain;–‘for the Brahman swell thou!’—he thereby means the priesthood;–‘for the Kshatra swell thou!’–he thereby means the nobility;–‘for Heaven and Earth swell thou!’–he thereby means these two, the heaven and the earth, within which everything here is contained.

२८

विश्वास-प्रस्तुतिः

स य᳘दूर्द्धः पि᳘न्वते॥
तद्य᳘जमानाय पिन्वते यत्प्राङ्त᳘द्देवे᳘भ्यो य᳘द्दक्षिणा त᳘त्पितृ᳘भ्यो य᳘त्प्रत्यङ्त᳘त्पशु᳘भ्यो यदु᳘दङ्त᳘त्प्रजा᳘या ऽअनपरा᳘द्धन्न्वेव य᳘जमानस्योर्द्ध्वो᳘ ह्येष᳘ पिन्वत्या᳘ ऽथ यान्दि᳘शम्पि᳘न्वते ताम्पिन्वते[[!!]] यदा शा᳘म्यन्ति व्विप्रुषः॥

मूलम् - श्रीधरादि

स य᳘दूर्द्धः पि᳘न्वते॥
तद्य᳘जमानाय पिन्वते यत्प्राङ्त᳘द्देवे᳘भ्यो य᳘द्दक्षिणा त᳘त्पितृ᳘भ्यो य᳘त्प्रत्यङ्त᳘त्पशु᳘भ्यो यदु᳘दङ्त᳘त्प्रजा᳘या ऽअनपरा᳘द्धन्न्वेव य᳘जमानस्योर्द्ध्वो᳘ ह्येष᳘ पिन्वत्या᳘ ऽथ यान्दि᳘शम्पि᳘न्वते ताम्पिन्वते[[!!]] यदा शा᳘म्यन्ति व्विप्रुषः॥

मूलम् - Weber

स य᳘दूर्ध्वः पि᳘न्वते॥
तद्य᳘जमानाय पिन्वते यत्प्राङ्त᳘द्देवे᳘भ्यो य᳘द्दक्षिणा त᳘त्पितृ᳘भ्यो य᳘त्प्रत्यङ् त᳘त्पशु᳘भ्यो यदु᳘दङ् त᳘त्प्रजा᳘या अनपराॗद्धं न्वेव य᳘जमानस्योर्ध्वोॗ ह्येव᳘ पिन्वत्या᳘थ यां दि᳘शम् पि᳘न्वते ता᳘म् पिन्वते यदा शा᳘म्यन्ति विप्रुषः॥

मूलम् - विस्वरम्

स यदूर्ध्वः पिन्वते । तद्यजमानाय पिन्वते । यत्प्राङ् तद्देवेभ्यः । यद्दक्षिणा तत्पितृभ्यः । यत्प्रत्यङ् तत्पशुभ्यः । यदुदङ् तत्प्रजायै । अनपराद्धं न्वेव यजमानस्योर्ध्वो ह्येषः । पिन्वित्वा ऽथ यां दिशं पिन्वते । तां पिन्वते । यदा शाम्यंति विप्रुषः ॥ २८ ॥

सायणः

अथ प्रागादिदिक्षु मध्ये च पिन्वनं अर्थवादेन उन्नयति- स यदूर्ध्वः पिन्वते इति । यद्यदि ‘सः’ घर्म्मः ‘ऊर्ध्वः’ ऊर्ध्वाभिमुखः मध्ये ‘पिन्वते’ । तत्तदा ‘यजमानाय’ यजमानस्य श्रेयो ऽर्थमेव ‘पिन्वते’ । यद्यदि ‘प्राड्’ प्राङ्मुखः प्राग्दिगवस्थितः पिन्वते, तत्तदा ‘देवेभ्यः’ हविर्भोक्तृभ्यः एष घर्मः पिन्वते इति विद्यात् । यद्यदि ‘दक्षिणा’ दक्षिणतः दक्षिणदिग्भागे पिन्वते, तत्तदा ‘पितृभ्यः’ पितृप्रीत्यर्थं पिन्वते इति विद्यात् । यद्यदि ‘प्रत्यङ्’ प्रत्यङ्मुखः पश्चिमदिग्भागे पिन्वते तत्तदा ‘पशुभ्यः’ गवादिपशुतृप्त्यर्थं पिन्वते इति विद्यात् । यद्यदि ‘उदङ्’ उदङ्मुख उत्तरदिग्भागे घर्मः पिन्वते, तत्तदा ‘प्रजायै’ पुत्रपौत्रादिरूपायै तद्वर्द्धनार्थम् पिन्वते इति विद्यात् । एवं अनेन क्रमेण पिन्वने सति यजमास्य “अनपराद्धं न्वेव” अपराधरहितमेव तु कर्म कृतं भवति । कुतः ? यतः ‘एषः’ यजमानः ‘ऊर्ध्वः’ ऊर्ध्वदेशावस्थितः स्वर्गाभिमुखः । तस्मात् यजमानार्थम् ऊर्ध्वं पिन्वते इत्येव युक्तम् । अन्यथाकरणे अपराधः स्यादिति भावः । यस्मादेवं तस्मादेव कारणात्, एतत् ऊर्ध्वाभिमुखं प्रथमं ‘पिन्वित्वा’ पिन्वनं कृत्वा अथानंतरमेव ‘यां दिशं पिन्वते’ । प्राच्यादिषु यस्यां दिशि पिन्वनं करोति ‘तां पिन्वते’ तस्यां दिशि घर्मं सिंचेत् । यजमानफलार्थं प्रथमम् ऊर्ध्वं पिन्वनं कृत्वा पश्चात्प्रागादिदिक्षु देवादितृप्त्यर्थं पिन्वनं कुर्यात् । इति विधिरुन्नीतो भवति । एवं कुर्वतो दक्षिणतो ऽवस्थितस्याध्वर्योः प्रत्याक्रमणं विधत्ते- यदा शाम्यन्ति विप्रुषः इति । ‘यदा’ यस्मिन् काले ‘विप्रुषः’ महावीरस्था बिंदवः कथिताः ‘शाम्यन्ति’ शांताः उपरताः भवंति ॥ २८ ॥

Eggeling
  1. When it rises upwards; it rises for (the benefit of) the Sacrificer; when on the front side, it does so for the gods; when on the right (south) side, it does so for the Fathers; when at the back (west side), it does so for the cattle; when on the left (north) side, it does so for (the Sacrificer’s) offspring: in any case no fault is incurred by the Sacrificer, for it always rises upwards; and in whatever direction it rises in that it rises. When the drops cease,–

२९

विश्वास-प्रस्तुतिः

(षो᳘ ऽथ) अ᳘थ प्रा᳘ङिवो᳘दङु᳘त्क्रामति॥ ध᳘र्म्मा ऽसि सुधर्म्मे᳘त्येष वै ध᳘र्म्मो य᳘ ऽएष त᳘पत्येष᳘ हीदᳫँ᳭ स᳘र्व्वं धार᳘यत्येते᳘नेदᳫँ᳭ स᳘र्व्वन्धृत᳘मेष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह ध᳘र्म्मा ऽसि सुधर्म्मेति॥

मूलम् - श्रीधरादि

(षो᳘ ऽथ) अ᳘थ प्रा᳘ङिवो᳘दङु᳘त्क्रामति॥ ध᳘र्म्मा ऽसि सुधर्म्मे᳘त्येष वै ध᳘र्म्मो य᳘ ऽएष त᳘पत्येष᳘ हीदᳫँ᳭ स᳘र्व्वं धार᳘यत्येते᳘नेदᳫँ᳭ स᳘र्व्वन्धृत᳘मेष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह ध᳘र्म्मा ऽसि सुधर्म्मेति॥

मूलम् - Weber

अ᳘थ प्रा᳘ङिवो᳘दङ्ङु᳘त्क्रामति 24 ध᳘र्मासि सुधर्मे᳘त्येष वै ध᳘र्मो य᳘ एष त᳘पत्येषॗ हीदᳫं स᳘र्वं धार᳘यत्येते᳘नेदᳫं स᳘र्वं धृत᳘मेष उ प्रव᳘र्ग्यस्त᳘देत᳘मेॗवैत᳘त्प्रीणाति त᳘स्मादाह ध᳘र्मासि सुधर्मेति॥

मूलम् - विस्वरम्

अथ प्राङिवोदङुत्क्रामति- “धर्मा ऽसि सुधर्मा”- इति । एष वै धर्मः । य एष तपति । एष हीदं सर्वं धारयति । एतेनेदं सर्वं धृतम् । एष उ प्रवर्ग्यः । तदेतमेवैतत्प्रीणाति । तस्मादाह- “धर्मा ऽसि सुधर्मा”- इति ॥ २९ ॥

सायणः

अथ प्राङिवोदङुत्क्रामति धर्म्मा ऽसि सुधर्म्मेतीति ‘अथ प्राङिवोदङ्’ प्राङ्मुख इव भूत्वा उदङ्मुखः ‘उत्क्रामति’ 25 आहवनीयदक्षिणदेशात् वेदिमतिक्रम्य वेदेरुत्तरतो गच्छेत् “धर्मा ऽसि” इति मन्त्रेण । अथ अस्योपात्तस्य मन्त्रभागस्य तात्पर्यगम्यमर्थं दर्शयन् प्रवर्ग्ये संगतिमाह- एष वै धर्म्मो० सुधर्म्मेतीति । ‘यः एषः’ सूर्यस्तपति ‘एषः’ खलु धर्मः धर्मशब्दाभिधेयः । कुत इति चेत् ? उच्यते- ‘हि’ यस्मात् ‘इदं सर्वं’ जगत् ‘एष धारयति’ प्रवर्षणप्रकाशादिना पोषयति । ‘इदं सर्वं’ च जगत् ‘एतेनैव’ सूर्येण ‘धृतं’ पोषितं दृश्यते । तस्मात् एष एव धारकत्वात् धर्म्मः । गतमन्यत् ॥ २९ ॥

Eggeling
  1. He steps out towards the north-east with, ‘A well-supporting support thou art,’–he who shines yonder is indeed a support, for he supports everything here, and by him everything here is supported; and the Pravargya also is that (sun): thus it is him he thereby, pleases, and therefore he says, ‘A well-supporting support thou art.’

३०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ ख᳘रे सादयति॥
(त्य) अमे᳘न्यस्मे᳘ नृम्णा᳘नि धारयेत्य᳘क्रुध्यन्नो ध᳘नानि धारये᳘त्ये᳘वैत᳘दाह ब्र᳘ह्म धारय क्षत्त्रं᳘न्धारय व्वि᳘शन्धारये᳘त्येतत्स᳘र्व्वन्धारये᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ ख᳘रे सादयति॥
(त्य) अमे᳘न्यस्मे᳘ नृम्णा᳘नि धारयेत्य᳘क्रुध्यन्नो ध᳘नानि धारये᳘त्ये᳘वैत᳘दाह ब्र᳘ह्म धारय क्षत्त्रं᳘न्धारय व्वि᳘शन्धारये᳘त्येतत्स᳘र्व्वन्धारये᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

अ᳘थ ख᳘रे सादयति॥
अमेॗन्य् अस्मे᳘ नृम्णा᳘नि धारयेत्य᳘क्रुध्यन्नो ध᳘नानि धारये᳘त्येॗवैत᳘दाह ब्र᳘ह्म धारय क्षत्रं᳘ धारय वि᳘शं धारये᳘त्येतत्स᳘र्वं धारये᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

अथ खरे सादयति- “अमेन्यस्मे नृम्णानि धारय”- इति । अक्रुध्यन्नो धनानि धारय । इत्येतदाह । “ब्रह्म धारय क्षत्त्रं धारय विशन्धारय”- (वा. सं. ३८ । १४) इति । एतत्सर्वं धारयेत्येवैतदाह ॥ ३० ॥

सायणः

एवमुत्तरत अतिक्रम्य आहवनीयस्योत्तरस्यां दिशि सिकतया उप्ते स्थले महावीरस्य सादनं 25 विधत्ते- अथ खरे सादयति० तदाहेति । ‘अथ’ अनंतरं ‘खरे’ आहवनीयमुत्तरेण सिकताभिः कृते धिष्ण्ये ‘सादयति’ महावीरं निदधाति “अमेन्यस्मे” इति मन्त्रेण । “अक्रुध्यन्” इत्याद्यस्य व्याख्यानम्- “अमेनि” शब्दस्य को ऽर्थः तमाह- ‘अमेनि’ अक्रुध्यन् “मीञ् हिंसायाम्” (धा. पा. क्र्या. उ. ४) मीनाति हिनस्तीति मेनिः न मेनिरमेनिः “सुपां सुलुक्” (पा. सू. ७ । १ । ३९) इति सुलोपः । ‘अमेनि’ अहिंसन् अक्रुध्यन् सन् । ‘अस्मे’ इति चतुर्थीबहुवचनस्य शे आदेशे रूपम् । ‘नः’ अस्मभ्यं ‘नृम्णानि’ धनानि ‘धारय’ दातुं हस्ते गृहाण इति इममेवार्थम् एतन्मन्त्रवाक्यं ‘आह’ । अथावशिष्टं मन्त्रभागमनूद्य व्याचष्टे- ब्रह्म धारय० तदाहेति । ‘ब्रह्म’ ब्राह्मणजातिः । ‘क्षत्त्रं’ क्षत्रियजातिः ‘विट्’ वैश्यजातिः । ‘एतत्’ वर्णत्रयोपलक्षितं ‘सर्वं’ जगत् हे धर्म्म ! धारय इति एतमेवार्थमेतन्मंत्रवाक्यमाह ॥ ३० ॥

Eggeling
  1. He then places (the Mahāvīra) on the mound with, ‘Incapable of injuring, preserve thou our powers!’–‘Not angry 26, preserve our wealth,’

is what he thereby means to say;–‘preserve the priesthood, preserve the nobility, preserve the people!’–‘preserve all that,’ is what he thereby means to say.

३१

विश्वास-प्रस्तुतिः

(हा᳘ ऽथ) अ᳘थ शाकलै᳘र्ज्जुहोति॥
प्राणा वै᳘ शाकलाः᳘ प्राणा᳘ने᳘वास्मिन्नेत᳘द्दधाति॥

मूलम् - श्रीधरादि

(हा᳘ ऽथ) अ᳘थ शाकलै᳘र्ज्जुहोति॥
प्राणा वै᳘ शाकलाः᳘ प्राणा᳘ने᳘वास्मिन्नेत᳘द्दधाति॥

मूलम् - Weber

अ᳘थ शाकलै᳘र्जुहोति॥
प्राणा वै᳘ शाकलाः᳘ प्राणा᳘नेॗवास्मिन्नेत᳘द्दधाति॥

मूलम् - विस्वरम्

अथ शाकलैर्जुहोति । प्राणा वै शाकलाः । प्राणानेवास्मिन्नेतद्दधाति ॥ ३१ ॥

सायणः

अथ कात्यायनेन यदुक्तं- “विकङ्कतशकलैर्जुहोति घर्म्मे न्यज्य न्यज्य स्वाहा पूष्णे शरस इति प्रतिमंत्रम् । हुत्वा हुत्वा प्रथमपरिधा ऽउपश्रयति” (का. श्रौ. सू. २६ । ९९ । १००) इति च । तदाह- अथ शाकलैर्जुहोशकलैर्जुहोतीति । । ‘अथ’ खरे सादनानंतरं ‘शाकलै’ शाकलहोमसाधनैर्मंत्रैः “स्वाहा पुष्णे शरसे” इत्यादिभिः सप्तभिः शकलैर्जुहोति । तदेतत्स्तौति- प्राणा वै शाकलाः० तद्दधातीति । ‘शाकलाः’ शकलहोमार्था मंत्राः ‘प्राणा वै’ प्राणप्रतिपादकत्वात् तदात्मकाः खलु । तस्मात् हुते ऽस्मिन् घर्म्मे ‘एतत्’ एतेन शाकलहोमेन ‘प्राणान्’ शीर्षण्यान् सप्त प्राणान् चक्षुःश्रोत्रप्रमुखानेव ‘दधाति’ स्थापयति ॥ ३१ ॥

Eggeling
  1. He then offers by means of the pieces of (split) wood 27,–the pieces of wood being the vital airs, it is the vital airs he thus bestows upon him;–

३२

विश्वास-प्रस्तुतिः

स्वा᳘हा पूष्णे श᳘रस ऽइ᳘ति॥
(त्य) अयम्वै᳘ पूषा᳘ यो ऽयम्प᳘वत ऽएष᳘ हीदᳫँ᳭ स᳘र्व्वम्पु᳘ष्यत्येष᳘ ऽउ प्राणः᳘ प्राण᳘मे᳘वास्मिन्नेत᳘द्दधाति त᳘स्मादाह स्वा᳘हा पूष्णे श᳘रस ऽइत्य᳘वरᳫँ᳭ स्वाहाकार᳘ङ्करो᳘ति प᳘रान्देव᳘तामसा᳘वेव ब᳘न्धुर्हुत्वा᳘ मध्यमे᳘ परिधा ऽउ᳘पश्रयति॥

मूलम् - श्रीधरादि

स्वा᳘हा पूष्णे श᳘रस ऽइ᳘ति॥
(त्य) अयम्वै᳘ पूषा᳘ यो ऽयम्प᳘वत ऽएष᳘ हीदᳫँ᳭ स᳘र्व्वम्पु᳘ष्यत्येष᳘ ऽउ प्राणः᳘ प्राण᳘मे᳘वास्मिन्नेत᳘द्दधाति त᳘स्मादाह स्वा᳘हा पूष्णे श᳘रस ऽइत्य᳘वरᳫँ᳭ स्वाहाकार᳘ङ्करो᳘ति प᳘रान्देव᳘तामसा᳘वेव ब᳘न्धुर्हुत्वा᳘ मध्यमे᳘ परिधा ऽउ᳘पश्रयति॥

मूलम् - Weber

स्वा᳘हा पूष्णे श᳘रस इ᳘ति॥
अयम् वै᳘ पूषाॗ योऽयम् प᳘वत एष᳘ हीदᳫं स᳘र्वम् पु᳘ष्यत्येष᳘ उ प्राणः᳘ प्राण᳘मेॗवास्मिन्नेत᳘द्दधाति त᳘स्मादाह स्वा᳘हा पूष्णे श᳘रस इत्य᳘वरᳫं स्वाहाकारं᳘ करो᳘ति प᳘रां देव᳘तामसा᳘वेव ब᳘न्धुर्हुत्वा᳘ मध्यमे᳘ परिधाउ᳘पश्रयति॥

मूलम् - विस्वरम्

“स्वाहा पूष्णे शरसे”- इति । अयं वै पूषा । यो ऽयं पवते । एष हीदं सर्वं पुष्यति । एष उ प्राणः । प्राणमेवास्मिन्नेतदधाति । तस्मादाह- “स्वाहा पूष्णे शरसे”- इति । अवरं स्वाहाकारं करोति परां देवताम् । असावेव बंधुः । हुत्वा मध्यमे परिधा उपश्रयति ॥ ३२ ॥

सायणः

तदेतत्प्रतिमंत्रं दर्शयितुकामः तावत् प्रथममंत्रं दर्शयति- स्वाहा पूष्णे शरसे० तद्दधातीति । ‘यो ऽयं’ वायुः पवते ‘अयं’ खलु वृष्ठ्यादिना जगत्पोषकत्वात् ‘पूषा’ ‘एष उ’ एष एव ‘प्राणः’ । “यो वायुः स प्राणः” इति श्रुतेः । अतः ‘एतत्’ एतेन पूषदेवताकेन मंत्रेण ‘अस्मिन्’ घर्म्मे ‘प्राणमेव’ ‘दधाति’ स्थापयति । उक्तमर्थं हेतूकृत्य मंत्रपाठं निगमयंस्तस्य पुरस्तात्स्वाहाकारत्वं पूर्ववत्स्तौति- तस्मादाह स्वाहा पूष्णे शरसे० मसावेव बंधुरिति । गतमेतत् । अथ पूर्वोक्तं लेपनिर्मार्जनं विधत्ते- हुत्वा मध्यमे परिधा उपश्रयतीति । “स्वाहा पूष्णे” इति मंत्रेण घर्म्मरसे अभ्यक्तं शकलं हुत्वा अग्नौ प्रक्षिप्य हस्तगतं लेपं ‘परिधौ उपश्रयति’ निर्मार्ष्टि ॥ ३२ ॥

Eggeling
  1. With (Vāj. S. XXXVIII, 15), ‘Hail to Pūshan, to the cream!’–Pūshan, doubtless, is he who blows here, for he (the wind) supports (push) everything here; and the breath also is that (wind): it is breath he thus bestows upon him, whence he says, ‘Hail to Pūshan, to the cream!’ The call of ‘hail!’ he places first, and the deity last: the significance of this is the same as before. Having offered (by means of the first piece) he leans it against the middle enclosing-stick 28 (paridhi).

३३

विश्वास-प्रस्तुतिः

स्वा᳘हा ग्ग्रा᳘वभ्य ऽइ᳘ति॥
प्राणा वै ग्ग्रा᳘वाणः प्राणा᳘ने᳘वास्मिन्नेत᳘द्दधाति हुत्वा᳘ मध्यमे᳘ परिधा ऽउ᳘पश्रयति॥

मूलम् - श्रीधरादि

स्वा᳘हा ग्ग्रा᳘वभ्य ऽइ᳘ति॥
प्राणा वै ग्ग्रा᳘वाणः प्राणा᳘ने᳘वास्मिन्नेत᳘द्दधाति हुत्वा᳘ मध्यमे᳘ परिधा ऽउ᳘पश्रयति॥

मूलम् - Weber

स्वा᳘हा ग्रा᳘वभ्य इ᳘ति॥
प्राणा वै ग्रा᳘वाणः प्राणा᳘नेॗवास्मिन्नेत᳘द्दधाति हुत्वा᳘ मध्यमे᳘ परिधाउ᳘पश्रयति॥

मूलम् - विस्वरम्

“स्वाहा ग्रावभ्यः”- इति । प्राणा वै ग्रावाणः । प्राणानेवास्मिन्नेतद्दधाति । हुत्वा मध्यमे परिधा उपश्रयति ॥ ३३ ॥

सायणः

अथ द्वितीयमन्त्रस्य प्राणपरत्वं दर्शयन् तत्रापि लेपनिर्मार्जनं विधत्ते- स्वाहा ग्रावभ्य० उपश्रयतीति । “स्वाहा ग्रावभ्यः” इति द्वितीयः शकलहोममन्त्रः । शरणस्वभावत्वात् ‘प्राणाः’ एव खलु ‘ग्रावाणः’ अस्मिन्मंत्रे ग्रावशब्दाभिधेयाः । शिष्टं पूर्वेण समानम् ॥ ३३ ॥

Eggeling
  1. ‘Hail to the pressing-stones!’–the pressing-stones being the vital airs, it is the vital airs he thus bestows upon him. Having offered (with the second stick) he leans it against the middle enclosing-stick.

३४

विश्वास-प्रस्तुतिः

स्वा᳘हा प्प्रतिरवे᳘भ्य ऽइ᳘ति॥
प्प्राणा वै᳘ प्रतिरवाः᳘ प्राणा᳘न्हीदᳫँ᳭ स᳘र्व्वं प्प्रतिरतं᳘ प्प्राणा᳘ने᳘वास्मिन्नेत᳘द्दधाति हुत्वा᳘ मध्यमे᳘ परिधा ऽउ᳘पश्रयति॥

मूलम् - श्रीधरादि

स्वा᳘हा प्प्रतिरवे᳘भ्य ऽइ᳘ति॥
प्प्राणा वै᳘ प्रतिरवाः᳘ प्राणा᳘न्हीदᳫँ᳭ स᳘र्व्वं प्प्रतिरतं᳘ प्प्राणा᳘ने᳘वास्मिन्नेत᳘द्दधाति हुत्वा᳘ मध्यमे᳘ परिधा ऽउ᳘पश्रयति॥

मूलम् - Weber

स्वा᳘हा प्रतिरवे᳘भ्य इ᳘ति॥
प्राणा वै᳘ प्रतिरवाः᳘ प्राणाॗन्हीदᳫं स᳘र्वम् प्रतिरत᳘म् 29 प्राणा᳘नेॗवास्मिन्नेत᳘द्दधाति हुत्वा᳘ 30 मध्यमे᳘ परिधाउ᳘पश्रयति॥

मूलम् - विस्वरम्

“स्वाहा प्रतिरवेभ्यः”- इति । प्राणा वै प्रतिरवाः । प्राणान् हीदं सर्वं प्रति रतम् । प्राणानेवास्मिन्नेतद्दधाति । हुत्वा मध्यमे परिधा उपश्रयति ॥ ३४ ॥

सायणः

अथ तृतीयस्य शकलहोममन्त्रस्य प्राणपरत्वं होमानंतरं लेपनिर्मार्गं च दर्शयति- स्वाहा प्रतिरवेभ्य इति० उपश्रयतीति । “स्वाहा प्रतिरवेभ्यः” इति तृतीयः शकलहोममंत्रः । तत्र देवतात्वेन निर्द्दिष्टाः ‘प्रतिरवाः’ ‘प्राणा वै’ प्रतिरवशब्देन प्राणा एवोच्यंते इत्यर्थः । ‘हि’ यस्मात् ‘इदं सर्वं’ जगत् ‘प्राणान् प्रति रतं’ प्राणेषु रममाणं सत् दृश्यते । तस्मात् प्रतिरवशब्देन प्राणा अभिधेयाः । अन्यत्पूर्ववत् ॥ ३४ ॥

Eggeling
  1. ‘Hail to the sounding-holes 31!’–the

sounding-holes (pratirava), doubtless, are the vital airs, for everything here is pleased (pratirata) with the vital airs: it is the vital airs he thus bestows upon him. Having offered (with the third stick) he leans it against the middle enclosing-stick.

३५

विश्वास-प्रस्तुतिः

स्वा᳘हा पितृ᳘भ्य ऽऊर्द्ध्व᳘बर्हिर्भ्यो घर्म्मपा᳘वभ्य ऽइ᳘ति॥
(त्य᳘) अ᳘हु᳘त्वैवो᳘दङ्ङी᳘क्षमाणो दक्षिणार्द्धे᳘ बर्हि᳘ष ऽउ᳘पगूहति यज्ञ᳘स्य शीर्षच्छिन्न᳘स्य र᳘सो᳘ व्व्यक्षरत्स᳘[[!!]] पितॄ᳘नगच्छत्त्रया वै᳘ पित᳘रस्ता᳘ने᳘वैत᳘त्प्रीणात्य᳘थ यन्न प्प्रे᳘क्षते सकृ᳘दु᳘ ह्येव प᳘राञ्चः पित᳘रः॥

मूलम् - श्रीधरादि

स्वा᳘हा पितृ᳘भ्य ऽऊर्द्ध्व᳘बर्हिर्भ्यो घर्म्मपा᳘वभ्य ऽइ᳘ति॥
(त्य᳘) अ᳘हु᳘त्वैवो᳘दङ्ङी᳘क्षमाणो दक्षिणार्द्धे᳘ बर्हि᳘ष ऽउ᳘पगूहति यज्ञ᳘स्य शीर्षच्छिन्न᳘स्य र᳘सो᳘ व्व्यक्षरत्स᳘[[!!]] पितॄ᳘नगच्छत्त्रया वै᳘ पित᳘रस्ता᳘ने᳘वैत᳘त्प्रीणात्य᳘थ यन्न प्प्रे᳘क्षते सकृ᳘दु᳘ ह्येव प᳘राञ्चः पित᳘रः॥

मूलम् - Weber

स्वा᳘हा पितृ᳘भ्य ऊर्ध्व᳘बर्हिर्भ्यो घर्मपा᳘वभ्य इति॥
अ᳘हुत्वैवो᳘दङ्ङी᳘क्षमाणो 32 दक्षिणार्धे᳘ बर्हि᳘ष उ᳘पगूहति यज्ञ᳘स्य शीर्षछिन्न᳘स्य [र᳘सो व्य᳘क्षरत्स᳘] पितॄ᳘नगछत्त्रया वै᳘ पित᳘रस्ता᳘नेॗवैत᳘त्प्रीणात्य᳘थ यन्न प्रे᳘क्षते सकृ᳘दुॗ ह्येव प᳘राञ्चः पित᳘रः॥

मूलम् - विस्वरम्

“स्वाहा पितृभ्य ऊर्ध्वबर्हिर्भ्यो घर्मपावभ्यः”- इति । अहुत्वैव उदङ्ङीक्षमाणो दक्षिणार्द्धे बर्हिष उपगूहति । यज्ञस्य शीर्षच्छिन्नस्य रसो व्यक्षरत् । स पितॄनगच्छत् । त्रया वै पितरः । तानेवैतत्प्रीणाति । अथ यन्न प्रेक्षते । सकृत् उ ह्येव परांचः पितरः ॥ ३५ ॥

सायणः

अथ यदुक्तं कात्यायनेन- “चतुर्थमहुतमुदङ्ङीक्षमाणो दक्षिणतो बर्हिष्युपगूहति” (का. श्रौ. सू. २६ । १०१) इति । अयमर्थः- चतुर्थशकलं घर्मे अभ्यज्य अग्नावहुतं संतं वेद्यामास्तीर्णे बर्हिषि दक्षिणभागे स्वयं उदीचीं दिशमीक्षमाणः ‘उपगूहति’ संवृणोति । यथा शकलो न दृश्यते तथा बर्हिषः अधस्तात् निदध्यादित्यर्थः । तदेतत् विधित्सुराह- स्वाहा पितृभ्य० त्प्रीणातीति । “स्वाहा पितृभ्यः” इत्यनेन मन्त्रेण चतुर्थशकलं अग्नौ ‘अहुत्वा’ अप्रक्षिप्यैव स्वयमुदङ्मुखः ‘ईक्षमाणः’ शकलमपश्यन् ‘बर्हिषः’ वेद्यामास्तीर्णस्य दर्भमुष्टेः ‘दक्षिणा ऽर्द्वे उपगूहति’ अदृश्यं करोति । गतमन्यत् । अथ शकलस्य प्रोक्षणमनूद्य स्तौति- अथ यन्न प्रेक्षते० पितर इति । ‘अथ’ च ‘न प्रेक्षते’ शकलस्य प्रेक्षणं न कुर्यादिति ‘यत्’ यदुक्तं तत्रहेतुः- ‘पराञ्चः’ स्वतः पराङ्मुखलोकाः अभिमुखं पितरः “सकृदु हि” सकृद्भूताः खलु । एकवारकरणमेव तेषां प्रियं तच्छकलस्य पुनः पुनः प्रेक्षणे क्रियमाणे तत् व्याहन्येतेति । तस्मादादानसमये शकलं प्रेक्षित्वा पश्चात् उदूहनसमये पुनर्न प्रेक्षेतेत्यर्थः ॥ ३५ ॥

Eggeling
  1. ‘Hail to the Fathers, (seated) upon the Barhis 33, and drinking the Gharma!’–even without offering he secretes (this, the fourth stick) under the barhis of the south part (of the vedi 34) whilst looking towards the north 35. When the sacrifice had its head cut off, its life-sap flowed away, and went to the Fathers–the Fathers being three in number: it is them he thus pleases. And

as to why he does not look at it,–once for all the Fathers have passed away.

३६

विश्वास-प्रस्तुतिः

स्वा᳘हा द्या᳘वापृथिवी᳘भ्यामि᳘ति॥
प्प्राणोदानौ वै द्या᳘वापृथिवी᳘ प्प्राणोदाना᳘वे᳘वास्मिन्नेत᳘द्दधाति[[!!]] हुत्वा᳘ मध्यमे᳘ परिधा ऽउ᳘पश्रयति॥

मूलम् - श्रीधरादि

स्वा᳘हा द्या᳘वापृथिवी᳘भ्यामि᳘ति॥
प्प्राणोदानौ वै द्या᳘वापृथिवी᳘ प्प्राणोदाना᳘वे᳘वास्मिन्नेत᳘द्दधाति[[!!]] हुत्वा᳘ मध्यमे᳘ परिधा ऽउ᳘पश्रयति॥

मूलम् - Weber

स्वा᳘हा द्या᳘वापृथिवी᳘भ्यामि᳘ति॥
प्राणोदानौ वै द्या᳘वापृथिवी᳘प्राणोदाना᳘वेवा᳘स्मिन्नेत᳘द्दधाति हुत्वा᳘ मध्यमे᳘ परिधाउ᳘पश्रयति॥

मूलम् - विस्वरम्

“स्वाहा द्यावापृथिवीभ्याम्”- इति । प्राणोदानौ वै द्यावापृथिवी । प्राणोदानावेवास्मिन्नेतद्दधाति । हुवा मध्यमे परिधा उपश्रयति ॥ ३६ ॥

सायणः

अथ पंचमशकलहोममन्त्रमनूद्य व्याचष्टे- स्वाहा द्यावापृथिवी० दधातीति । “स्वाहा द्यावापृथिवीभ्यां” इत्यस्मिन्मन्त्रे द्यावापृथिवीशब्देन शरीरस्थौ प्राणोदानवायू उच्येते । हृदि वर्तमानः प्राणवायुरेव पृथिवी । कंठे वर्तमान उदानवायुरेव द्यौः । उभयोरधऊर्ध्वसाम्यात् द्यावापृथिव्यात्मकत्वम् । तथैव च अनयोः अधरोत्तरस्थभावेन अवस्थानमुक्तमभिज्ञैः । “हृदि प्राणो गुदे ऽपानः समानो नाभिमंडले । उदानः कंठदेशस्यो व्यानः सर्वशरीरगः” इति । तथा च अनेन मन्त्रेण ‘अस्मिन्’ घर्मे ‘प्राणोदानावेव’ वायू ‘दधाति’ स्थापयति । अथ पूर्ववल्लेपस्य निर्मार्जनं विधत्ते- हुत्वा मध्यमे परिधा ऽउपश्रयतीति ॥ ३६ ॥

Eggeling
  1. ‘Hail to Heaven and Earth!’–heaven and earth being the out (and in)-breathing and the up-breathing, it is the out and up-breathing he thus bestows upon him. Having offered (with the fifth stick) he leans it against the middle enclosing-stick.

३७

विश्वास-प्रस्तुतिः

स्वा᳘हा व्वि᳘श्वेभ्यो देवे᳘भ्य ऽइ᳘ति॥
प्प्राणा वै व्वि᳘श्वे देवाः᳘ प्प्राणा᳘ने᳘वास्मिन्नेत᳘द्दधाति हुत्वा᳘ मध्यमे᳘ परिधा ऽउ᳘पश्रयति॥

मूलम् - श्रीधरादि

स्वा᳘हा व्वि᳘श्वेभ्यो देवे᳘भ्य ऽइ᳘ति॥
प्प्राणा वै व्वि᳘श्वे देवाः᳘ प्प्राणा᳘ने᳘वास्मिन्नेत᳘द्दधाति हुत्वा᳘ मध्यमे᳘ परिधा ऽउ᳘पश्रयति॥

मूलम् - Weber

स्वा᳘हा वि᳘श्वेभ्यो देवे᳘भ्य इ᳘ति॥
प्राणा वै वि᳘श्वे देवाः᳘ प्राणा᳘नेॗवास्मिन्नेत᳘द्दधाति हुत्वा᳘ मध्यमे᳘ परिधाउ᳘पश्रयति॥

मूलम् - विस्वरम्

“स्वाहा विश्वेभ्यो देवेभ्यः”- (वा. सं. ३८ । १५) इति । प्राणा वै विश्वे देवाः । प्राणानेवास्मिन्नेतद्दधाति । हुत्वा मध्यमे परिधा उपश्रयति ॥ ३७ ॥

सायणः

अथ षष्ठमन्त्रस्य शकलहोमार्थस्य प्राणपरत्वं दर्शयन् पूर्ववल्लेपनिमार्जनं विधत्ते- स्वाहा विश्वेभ्यो देवेभ्य इति० उपश्रयतीति । अत्र ‘विश्वे देवाः’ ‘प्राणा वै’ देवनशीलत्वात् विषयाभिद्योतीनि चक्षुरादीनीन्द्रियाणि विश्वदेवशब्दवाच्यानि । तथा च “प्राणानेव” इत्यादि पूर्ववत् ॥ ३७ ॥

Eggeling
  1. ‘Hail to the All-gods!’–the Viśve Devāḥ being the vital airs, it is the vital airs he thus bestows upon him. Having offered (with the sixth stick) he leans it against the middle enclosing-stick.

३८

विश्वास-प्रस्तुतिः

स्वा᳘हा रुद्रा᳘य रुद्र᳘हूतय ऽइ᳘ति॥
(त्य᳘) अ᳘हु᳘त्वैव᳘ दक्षिणे᳘क्षमाणः प्प्रतिप्प्रस्थात्रे प्प्र᳘यच्छति तᳫँ᳭ स᳘ ऽउत्तरतः शा᳘लाया ऽउ᳘दञ्चन्नि᳘रस्यत्येषा᳘ ह्येत᳘स्य देव᳘स्य दिक्स्वा᳘यामे᳘वैनमेत᳘द्दिशि᳘ प्प्रीणात्य᳘थ यन्न प्प्रे᳘क्षते ने᳘न्मा रुद्रो᳘ हिन᳘सदि᳘ति॥

मूलम् - श्रीधरादि

स्वा᳘हा रुद्रा᳘य रुद्र᳘हूतय ऽइ᳘ति॥
(त्य᳘) अ᳘हु᳘त्वैव᳘ दक्षिणे᳘क्षमाणः प्प्रतिप्प्रस्थात्रे प्प्र᳘यच्छति तᳫँ᳭ स᳘ ऽउत्तरतः शा᳘लाया ऽउ᳘दञ्चन्नि᳘रस्यत्येषा᳘ ह्येत᳘स्य देव᳘स्य दिक्स्वा᳘यामे᳘वैनमेत᳘द्दिशि᳘ प्प्रीणात्य᳘थ यन्न प्प्रे᳘क्षते ने᳘न्मा रुद्रो᳘ हिन᳘सदि᳘ति॥

मूलम् - Weber

स्वा᳘हा रुद्रा᳘य रुद्र᳘हूतय इति॥
अ᳘हुत्वैव᳘ दक्षिणे᳘क्षमाणः प्रतिप्रस्थात्रे प्र᳘यछति तᳫं स᳘ उत्तरतः शा᳘लाया उ᳘दञ्चं नि᳘रस्यत्येषाॗ ह्येत᳘स्य देव᳘स्य दिक्स्वा᳘यामेॗवैनमेत᳘द्दिशि᳘ प्रीणात्य᳘थ यन्न प्रे᳘क्षते ने᳘न्मा रुद्रो᳘ हिन᳘सदि᳘ति॥

मूलम् - विस्वरम्

“स्वाहा रुद्राय रुद्रहूतये”- इति । अहुत्वैव दक्षिणेक्षमाणः प्रतिप्रस्थात्रे प्रयच्छति । तं स उत्तरतः शालाया उदंचं निरस्यति । एषा ह्येतस्य देवस्य दिक् । स्वायामेवैनमेतद्दिशि प्रीणाति । अथ यन्न प्रेक्षते । नेन्मा रुद्रो हिनसदिति ॥ ३८ ॥

सायणः

अथ सप्तमस्य शकलस्य 36 होमं निषिध्य निरसनं विधित्सुराह- स्वाहा रुद्राय रुद्र० निरस्यतीति । “स्वाहा रुद्राय” इति मन्त्रं पठन् सर्वेषु लेपेषु अक्तं सप्तमं शकलं अग्नौ ‘अहुत्वैव’ दक्षिणां दिशमीक्षमाणः स्वयं शकलमपश्यन् अध्वर्युः ‘प्रतिप्रस्थात्रे’ ‘प्रयच्छति’ । स च प्रतिप्रस्थाता ‘तं’ शकलं शालायाः ‘उत्तरतः’ प्राग्वंशगृहस्योत्तरभागे ‘उदञ्चं’ उदगग्रं ‘निरस्यति’ 37 क्षिपेत् । कुतः उदीच्यामेव दिशि निरसनं, कस्माच्च शकलस्य न प्रेक्षणम् ? इति तदुभयमुपपादयति- एषा ह्येतस्य देव० हिनसदितीति । ‘एषा’ खलु उदीची ‘एतस्य’ रुद्रस्य ‘देवस्य दिक्’ । उत्तरपूर्वार्द्धाया दिशो रुद्रेण पाल्यमानत्वाच्च उत्तरा ऽपि दिक् तत्संबंधिनी इत्यभिप्रायः । ‘अथ’ रुद्रार्थं निरस्यमानं शकलमध्वर्युः ‘न प्रेक्षते’ इति ‘यत्’ तत् ‘मा’ मां अध्वर्युं ‘रुद्रः’ रोदनकारी उग्रो देवः ‘नेत्’ नैव ‘हिनसत्’ हिंस्यात् इत्यनेनाभिप्रायेण ॥ ३८ ॥

Eggeling
  1. [Vāj. S. XXXVIII, 16,] ‘Hail to Rudra, praised by the Rudras 38!’–even without offering (with this, the seventh stick), he, looking southwards, hands it to the Pratiprasthātr̥, and the latter throws it outside (the offering-ground) northwards to the north of the hall, for this is the region of that god: he thus gratifies him in his own region. And as to why he does not look at it, he does so thinking, ‘Lest Rudra should do me harm.’

३९

विश्वास-प्रस्तुतिः

स᳘प्तैता ऽआ᳘हुतयो भ्वन्ति॥
सप्त वा᳘ ऽइमे᳘ शीर्ष᳘न्प्राणास्ता᳘ने᳘वास्मिन्नेत᳘द्दधाति॥

मूलम् - श्रीधरादि

स᳘प्तैता ऽआ᳘हुतयो भ्वन्ति॥
सप्त वा᳘ ऽइमे᳘ शीर्ष᳘न्प्राणास्ता᳘ने᳘वास्मिन्नेत᳘द्दधाति॥

मूलम् - Weber

सॗप्तैता आ᳘हुतयो भ्वन्ति॥
सप्त वा इमे᳘ शीर्ष᳘न्प्राणास्ता᳘नेॗवास्मिन्नेत᳘द्दधाति॥

मूलम् - विस्वरम्

सप्तैता आहुतयो भवन्ति । सप्त वा इमे शीर्षन्प्राणाः । तानेवास्मिन्नेतद्दधाति ॥ ३९ ॥

सायणः

अथैतान् संहत्य स्तौति- सप्तैता ऽआहुतयो० दधातीति । ‘एताः’ “स्वाहा पूष्णे शरसे” इत्यादिमन्त्रसाध्याः शकलद्रव्यकाः ‘आहुतयः’ सप्तसंख्याः खलु भवन्ति । ‘इमे शीर्षन्’ शीर्ष्णि चक्षुरादिषु शकलगणेषु सप्तसु अवच्छेदकेषु वर्तमानाः प्राणाः । गतमन्यत् ॥ ३९ ॥

Eggeling
  1. There are seven of these oblations, for seven in number are these (channels of the) vital airs in the head: it is these he thus bestows upon him.

४०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ महावीरा᳘दुपय᳘मन्याम्प्रत्या᳘नयति॥
स्वा᳘हा सं ज्यो᳘तिषा ज्यो᳘तिरि᳘ति ज्यो᳘तिर्व्वा ऽइ᳘तरस्मिन्प᳘यो भ᳘वति ज्यो᳘तिरि᳘तरस्यां ते᳘ ह्येत᳘दुभे ज्यो᳘तिषी संग᳘च्छेते ऽअ᳘वरᳫँ᳭ स्वाहाकार᳘ङ्करो᳘ति प᳘रान्देव᳘तामसा᳘वेव ब᳘न्धुः॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ महावीरा᳘दुपय᳘मन्याम्प्रत्या᳘नयति॥
स्वा᳘हा सं ज्यो᳘तिषा ज्यो᳘तिरि᳘ति ज्यो᳘तिर्व्वा ऽइ᳘तरस्मिन्प᳘यो भ᳘वति ज्यो᳘तिरि᳘तरस्यां ते᳘ ह्येत᳘दुभे ज्यो᳘तिषी संग᳘च्छेते ऽअ᳘वरᳫँ᳭ स्वाहाकार᳘ङ्करो᳘ति प᳘रान्देव᳘तामसा᳘वेव ब᳘न्धुः॥

मूलम् - Weber

अ᳘थ महावीरा᳘दुपय᳘मन्याम् प्रत्या᳘नयति॥
स्वा᳘हा सं ज्यो᳘तिषा ज्यो᳘तिरि᳘ति ज्यो᳘तिर्वा इ᳘तरस्मिन्प᳘यो भ᳘वति ज्यो᳘तिरि᳘तरस्यां तेॗ ह्येत᳘दुभे ज्यो᳘तिषी सङ्ग᳘छेते अ᳘वरᳫं स्वाहाकारं᳘ करो᳘ति प᳘रां देव᳘तामसा᳘वेव ब᳘न्दुः॥

मूलम् - विस्वरम्

अथ महावीरादुपयमन्यां प्रत्यानयति- “स्वाहा सं ज्योतिषा ज्योतिः”- (वा. सं. ३८ । १६) इति । ज्योतिर्वा इतरस्मिन्पयो भवति । ज्योतिरितरस्याम् । ते ह्येतदुभे संगच्छेते । अवरं स्वाहाकारं करोति । परां देवताम् । असावेव बन्धुः ॥ ४० ॥

सायणः

अथ महावीरे वर्तमानस्य शिष्टस्य हविषः उपयमन्यामासेचनं 39 विधत्ते- अथ महावीरादुपयमन्यां० ज्योतिरितीति । “स्वाहा सञ्ज्योतिषा” इत्यनेन मन्त्रेण महावीरसकाशाद्भुतशिष्टं घर्मरसं ‘उपयमन्यां स्रुचि‘ प्रत्यानयति आसिञ्चति । अथैतत् मन्त्राभिप्रायकथनेन स्तौति- ज्योतिर्वा ऽइतर० बन्धुरिति । ‘इतरस्मिन्’ अन्यतरस्मिन्महावीरे ज्योतिस्तेजोरूपं खलु ‘पयो भवति’ । ‘इतरस्याम्’ उपयमन्याम् आज्यलक्षणं ज्योतिर्भवति । ‘एतत्’ एतेनासेचनेन ‘ते’ एव ‘ज्योतिषी’ ‘संगच्छेते’ परस्परं संयुज्येते । तथा च ‘ज्योतिषा’ उक्तलक्षणेन महावीरस्थेन ज्योतिरुपयमनीस्थं संगच्छते इति मन्त्रो व्याख्यातो भवति । अन्यत् पूर्ववत् ॥ ४० ॥

Eggeling
  1. He then pours (the remaining milk and ghee) from the Mahāvīra into the supporting-tray with, ‘Hail, light with light!’–for light indeed the milk was in the one (vessel), and light it is in the other, and these two lights thus unite with each other. The call of ‘hail!’ he places first, and the deity last: the mystic import of this is the same as before.

४१

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ रौहिणौ᳘ जुहोति॥
(त्य᳘) अ᳘हः केतु᳘ना जुषताᳫँ᳭ सुज्यो᳘तिर्ज्ज्यो᳘तिषा स्वाहे᳘त्यसा᳘वेव ब᳘न्धू रा᳘त्रिः केतु᳘ना जुषताᳫँ᳭ सुज्यो᳘तिर्ज्ज्यो᳘तिषा स्वाहे᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ रौहिणौ᳘ जुहोति॥
(त्य᳘) अ᳘हः केतु᳘ना जुषताᳫँ᳭ सुज्यो᳘तिर्ज्ज्यो᳘तिषा स्वाहे᳘त्यसा᳘वेव ब᳘न्धू रा᳘त्रिः केतु᳘ना जुषताᳫँ᳭ सुज्यो᳘तिर्ज्ज्यो᳘तिषा स्वाहे᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - Weber

अ᳘थ रौहिणौ᳘ जुहोति॥
अ᳘हः केतु᳘ना जुषताᳫं सुज्यो᳘तिर्ज्यो᳘तिषा स्वाहे᳘त्यसा᳘वेव ब᳘न्धू रा᳘त्रिः केतु᳘ना जुषताᳫं सुज्यो᳘तिर्ज्यो᳘तिषा स्वाहे᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - विस्वरम्

अथ रौहिणौ जुहोति- “अहः केतुना जुषतां सुज्योतिर्ज्योतिषा स्वाहा”- इति । असावेव बंधुः । रात्रिः केतुना जुषतां सुज्योतिर्ज्योतिषा स्वाहा"- (वा. सं. ३८ । १६) । इति । असावेव बंधुः ॥ ४१ ॥

सायणः

अथ सायंप्रातःकालयोः प्रवृंजनोपरिष्टात्काले होतव्यत्वेन विहितौ रौहिणपुरोडाशौ, तौ अस्मिन् काले होतव्यौ इत्यभिप्रेत्य 40 आह- अथ रौहिणा जुहोति बंधुरिति । ‘अथ’ प्रत्यानयनानंतरं सायंप्रातःकालीनयोः प्रवर्ग्ययोः उत्तरौ रौहिणपुरोडाशौ तयोरेकः घर्मदुहो दोहनात्प्राक्काले हुतः । अपरस्त्वस्मिन् काले होतव्य इति तयोः सायंप्रातःकालभेदेन यौ मंत्रौ विहितौ । तावेवात्रानूद्य पुनः स्तूयते- यः अयं “अहः केतुना” इति मंत्रः ‘असावेव’ खलु ‘बंधुः’ छिन्नस्य यज्ञशिरसो बंधकः । एवमुत्तरमंत्रस्यापि तात्पर्यं प्रतिपादनीयम् ॥ ४१ ॥

Eggeling
  1. He then offers (the second of) the two Rauhiṇa 41 (cakes) with, ‘May the day be pleased with its brightness, the well-lighted with its light, hail!’–the mystic import of this is the same as before;–‘may the night be pleased with its brightness, the well-lighted with its light, hail!’–the mystic import of this is the same as before.

४२

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ य᳘जमानाय घर्म्मोच्छिष्टम्प्र᳘यच्छति॥
स᳘ ऽउपहव᳘मिष्ट्वा᳘ भक्षयति म᳘धु हुतमि᳘न्द्रतमे ऽअग्नावि᳘ति म᳘धु हुत᳘मिन्द्रिय᳘वत्तमे ऽग्नावि᳘त्ये᳘वैत᳘दाहाश्या᳘म ते देव घर्म्म न᳘मस्ते ऽअस्तु मा᳘ मा हिᳫँ᳭सीरि᳘त्याशि᳘षमे᳘वैतदा᳘शास्ते॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ य᳘जमानाय घर्म्मोच्छिष्टम्प्र᳘यच्छति॥
स᳘ ऽउपहव᳘मिष्ट्वा᳘ भक्षयति म᳘धु हुतमि᳘न्द्रतमे ऽअग्नावि᳘ति म᳘धु हुत᳘मिन्द्रिय᳘वत्तमे ऽग्नावि᳘त्ये᳘वैत᳘दाहाश्या᳘म ते देव घर्म्म न᳘मस्ते ऽअस्तु मा᳘ मा हिᳫँ᳭सीरि᳘त्याशि᳘षमे᳘वैतदा᳘शास्ते॥

मूलम् - Weber

अ᳘थ य᳘जमानाय घर्मोछिष्टम् प्र᳘यछति॥
स᳘ उपहव᳘मिष्ट्वा᳘ भक्षयति म᳘धु हुतमि᳘न्द्रतमे अग्नावि᳘ति म᳘धु हुत᳘मिन्द्रिय᳘वत्तमेऽग्नावि᳘त्येॗवैत᳘दाहाश्या᳘म ते देव घर्म न᳘मस्ते अस्तु मा᳘ मा हिंसीरि᳘त्याशि᳘षमेॗवैतदा᳘शास्ते॥

मूलम् - विस्वरम्

अथ यजमानाय घर्मोच्छिष्टं प्रयच्छति । स उपहवमिष्ट्वा भक्षयति- “मधु हुतमिन्द्रतमे अग्नौ”- इति । मधु हुतमिन्द्रियवत्तमे ऽग्नौ, इत्येवैतदाह । “अश्याम ते देव घर्म नमस्ते अस्तु मा मा हिंसीः"- (वा. सं. ३८ । १६) इति, आशिषमेवैतदाशास्ते ॥ ४२ ॥

सायणः

अथोपयमन्यामानीतस्यावशिष्टस्य घर्म्मस्य यजमानेन सह भक्षणं 40 विधत्ते- अथ यजमानाय घर्म्मोच्छिष्टं० अग्नावितीति । अथोत्तररौहिणहोमानंतरं ‘यजमानाय’ यजमानार्थं ‘घर्म्मोच्छिष्टं’ होमातिरिक्तं घर्म्मं ‘प्रयच्छति’ अध्वर्युः प्रदद्यात् । ‘सः’ यजमानः ‘उपहवमिष्ट्वा’ “अध्वर्य उपह्वयस्व” इत्यादिना उपहवयाचनं कृत्वा “मधु हुतम्” इति मंत्रेण तं ‘भक्षयति’ । अथास्य मंत्रस्य विवक्षितमर्थमाह- मधु हुत० तदाहेति । “इंद्रतमे अग्नौ” इति को ऽर्थः । ‘इंद्रतमे’ इंद्रियवत्तमे ‘अग्नौ’ तदीये जाठरे तेजसि ‘मधु’ मधुरं ‘हुतं’ शिष्टं हविर्हुतमस्तु इत्येवार्थं एतन्मंत्रवाक्यमाह । अवशिष्टं मंत्रमनूद्य तस्य आशीराशासनपरत्वं आह- अश्याम ते० तदाशास्ते इति । ‘हे घर्म्म !’ ‘ते’ तुभ्यं ‘नमः अस्तु’ ‘मा’ मां मा ‘हिंसीः’ इति अहिंसाप्रतिपादनपरेण एतद्वाक्येन आशिषं अभीप्सितफलमेव आशास्ते ॥ ४२ ॥

Eggeling
  1. He then hands to the Sacrificer the remainder of the Gharma. He, having solicited an invitation 42 (to the meal), drinks it with, ‘Offered is the honey unto Agni, the greatest of Indras,’–‘Offered is the honey unto Agni, the most powerful,’ he thereby means to say; ’let us eat of thee, god Gharma: reverence be unto thee, injure us not!’–a blessing he thereby invokes.

४३

विश्वास-प्रस्तुतिः

(स्ते᳘ ऽथ) अ᳘थ दक्षिणतः सि᳘कता ऽउ᳘पकीर्ण्णा भवन्ति॥
त᳘न्मार्ज्जयन्ते य᳘ ऽएव᳘ मार्ज्जाली᳘ये ब᳘न्धुः सो᳘ ऽत्रानुप्र᳘हरति शाकलान᳘थोपस᳘दा चरन्त्येत᳘दु यज्ञ᳘स्य शि᳘रः स᳘ᳫँ᳘स्कृतं य᳘थायथैनत्त᳘दश्वि᳘नौ प्रत्य᳘धत्ताम्॥

मूलम् - श्रीधरादि

(स्ते᳘ ऽथ) अ᳘थ दक्षिणतः सि᳘कता ऽउ᳘पकीर्ण्णा भवन्ति॥
त᳘न्मार्ज्जयन्ते य᳘ ऽएव᳘ मार्ज्जाली᳘ये ब᳘न्धुः सो᳘ ऽत्रानुप्र᳘हरति शाकलान᳘थोपस᳘दा चरन्त्येत᳘दु यज्ञ᳘स्य शि᳘रः स᳘ᳫँ᳘स्कृतं य᳘थायथैनत्त᳘दश्वि᳘नौ प्रत्य᳘धत्ताम्॥

मूलम् - Weber

अ᳘थ दक्षिणतः सि᳘कता उ᳘पकीर्णा भवन्ति॥
त᳘न्मार्जयन्ते य᳘ एव᳘ मार्जाली᳘ये ब᳘न्धुः सो᳘ऽत्रानुप्र᳘हरति शाकलान᳘थोपस᳘दा चरन्त्येत᳘दु यज्ञ᳘स्य शि᳘रः स᳘ᳫं᳘स्कृतं य᳘था-यथैनं त᳘दश्वि᳘नौ प्रत्य᳘धत्ताम्॥

मूलम् - विस्वरम्

अथ दक्षिणतः सिकता उपकीर्णा भवंति, तन्मार्जयन्ते । य एव मार्जालीये बंधुः । सो ऽत्र । अनुप्रहरति शाकलान् । अथोपसदा चरंति । एतत् उ यज्ञस्य शिरः संस्कृतम् । यथायथैनत्तदश्विनौ प्रत्यधत्ताम् ॥ ४३ ॥

सायणः

अथ प्राग्वंशस्य दक्षिणदिग्भागे प्रवर्ग्यकर्तॄणां मार्ज्जनं 40 विधत्ते- अथ दक्षिणतः सिकता० बंधुः सो ऽत्रेति । ‘अथ’ यजमानस्य घर्म्मभक्षणानंतरं ‘दक्षिणतः’ दक्षिणभागे ‘सिकताः’ वालुकाः ‘उपकीर्णाः’ धिष्ण्याकारेण क्षिप्ताः ‘भवंति’ ‘तत्’ तत्र सिकताभिर्निर्मिते धिष्ण्ये सर्वे प्रवर्ग्यकर्तारः ‘मार्जयंते’ । सौत्ये अहनि ‘मार्ज्जालीये’ एतत्संज्ञे भक्षितानां सोमपात्राणां प्रक्षालनस्थाने ‘य एव बंधुः’ बंधनसामर्थ्यं, ‘सः अत्र’ अस्मिन् सिकतोपकीर्णे स्थाने द्रष्टव्यः । यथा सोमलिप्तानि ग्रहचमसादीनि पात्राणि मार्ज्जालीये प्रक्षाल्यन्ते, एवं उपयमन्यादि घर्म्मलिप्तं पात्रं अत्र प्रक्षालनीयं इत्यभिप्रायः । अथावशिष्टानां वैंककतशकलानां प्रहरणं 43 विधत्ते- अनुप्रहरति शाकलानिति । पूर्वं “स्वाहा पूष्णे” इत्यादिमंत्रैर्हुताः शकलाः तत्संबंधिनः अन्ये “शाकलाः’ परिश्रयणादयः । तानग्नौ प्रक्षिपेदित्यर्थः । इत्थं सोमयागे प्रवर्ग्याख्यं कर्म निर्वर्त्य तदनंतरं उपसदाख्यं कर्म कर्तव्यं इत्याह 44- अथोपसदा चरंतीति । ‘अथ’ प्रवर्ग्यानुष्ठानानंतरमेव ‘उपसदा’ उपसदाख्येन कर्मणा ‘चरंति’ अध्वर्युप्रभृतयश्चरेयुः । एवं प्रवर्ग्ये अनुष्ठिते सति छिन्नं यज्ञस्य शिरः पुनः संहितं भवतीति अमुमर्थं उपसंहरति- एतदु यज्ञस्य० प्रत्यधत्तामिति । तदेनद्यज्ञस्य ‘शिरः’ ‘यथायथा’ येन येन प्रकारेण पुरा ऽश्विनौ ‘प्रत्यधत्तां’ प्रतिहितवंतौ संयोजितवंतौ । तेनैव प्रकारेणानुष्ठितं कर्म ‘यज्ञस्य शिरः संस्कृतं’ संस्कारेण संयोजितं भवति ॥ ४३ ॥

Eggeling
  1. Now, on the south side sand has been strewn; there they cleanse themselves 45: in this there is the

same significance as in the Mārjālīya. The pieces of wood he throws into the fire. They then proceed with the Upasad. And thus the head of the sacrifice has been set right in the very same manner in which the Aśvins then restored it.

४४

विश्वास-प्रस्तुतिः

(न्त) तन्न᳘ प्रथमयज्ञे प्प्र᳘वृञ्ज्यात्॥
(दे) एन᳘स्यᳫँ᳭[[!!]] हि तद᳘थो ने᳘न्म ऽइ᳘न्द्रः शि᳘रश्छिन᳘ददि᳘ति द्विती᳘ये वैव᳘ तृती᳘ये वा᳘ ऽपशीर्ष्णा᳘ ह्येवा᳘ग्रे यज्ञे᳘न देवा ऽअ᳘र्च्चन्तः श्रा᳘म्यन्तश्चेरुस्त᳘स्माद्द्विती᳘ये वैव᳘ तृती᳘ये वा᳘ ऽथो तप्तो वा᳘ ऽएष᳘ शुशुचानो᳘ भवति॥

मूलम् - श्रीधरादि

(न्त) तन्न᳘ प्रथमयज्ञे प्प्र᳘वृञ्ज्यात्॥
(दे) एन᳘स्यᳫँ᳭[[!!]] हि तद᳘थो ने᳘न्म ऽइ᳘न्द्रः शि᳘रश्छिन᳘ददि᳘ति द्विती᳘ये वैव᳘ तृती᳘ये वा᳘ ऽपशीर्ष्णा᳘ ह्येवा᳘ग्रे यज्ञे᳘न देवा ऽअ᳘र्च्चन्तः श्रा᳘म्यन्तश्चेरुस्त᳘स्माद्द्विती᳘ये वैव᳘ तृती᳘ये वा᳘ ऽथो तप्तो वा᳘ ऽएष᳘ शुशुचानो᳘ भवति॥

मूलम् - Weber

तं न᳘ प्रथमयज्ञे प्र᳘वृञ्ज्यात्॥
एनस्य᳘ᳫं᳘ हि तद᳘थो ने᳘न्म इ᳘न्द्रः शि᳘रश्छिन᳘ददि᳘ति द्विती᳘ये वैव᳘ तृती᳘ये वा᳘पशीर्ष्णाॗ ह्येवा᳘ग्रे यज्ञे᳘न देवा अ᳘र्चन्तः श्रा᳘म्यन्तश्चेरुस्त᳘स्माद्द्विती᳘ये वैव᳘ तृती᳘ये वा᳘थो तप्तो वा एष᳘ शुशुचानो᳘ भवति॥

मूलम् - विस्वरम्

तं न प्रथमयज्ञे प्रवृंज्यात् । एनस्यं हि तत् । अथो नेन्म इन्द्रः शिरश्छिनददिति । द्वितीये वैव तृतीये वा । अपशीर्ष्णा ह्येवाग्रे यज्ञेन देवा अर्चंतः श्राम्यंतश्चेरुः । तस्मात् द्वितीये वैव तृतीये वा । अथो तप्तो वा एष शुशुचानो भवति ॥ ४४ ॥

सायणः

इत्थं प्रवर्ग्याख्यं कर्म सांगमुक्तम् । तच्च “पुरस्तादुपसदां 46 प्रवर्ग्यं प्रवृणक्ति” इति वाक्यात् सर्वेषु सोमयागेषु उपसद्यागात्पूर्वं अनुष्ठेयमिति चोक्तम् । अथ तस्य क्व करणं क्वचित् विषयविशेषे निषेधति- तन्न प्रथमयज्ञे प्रवृंज्यादिति । “चतुःसंस्थस्य 43 ज्योतिष्टोमस्य प्रथमकर्तव्यो 44 यो ऽतिरात्रसंस्थो यज्ञः तस्मिन् ‘तं’ प्रवर्ग्यं ‘न प्रवृंज्यात्’ प्रवृंजनं न कुर्यात् । अग्निष्टोमसंस्थे तु प्रथमयज्ञे अयं प्रतिषेधो न भवति । “अग्निष्टोमे प्रवृणक्ति” इति वाक्यान्तरेण प्रवृंजनस्य कठोक्तत्वात् इति मीमांसकानां 47 मतम् । प्रथमयज्ञे प्रवृंजने को दोषः इत्यत आह- एनस्य‍ँ हि तद० छिनददिति । तत्प्रवर्ग्यानुष्ठानं ‘एनस्यं हि’ पापार्हं पापावहं खलु आथर्वणेन दधीचा अत्यंतं सुगुप्तत्वात् इतः पूर्वं केनचिदपि यज्ञेन असंस्कृतस्य यजमानस्य प्रथममनुष्ठीयमाने यज्ञे प्रवर्ग्यानर्हक्रतौ तस्य करणं पापहेतुर्भवतीत्यर्थः । ‘अथो’ अपि च ‘मे’ मम अध्वर्योः ‘नेत्’ नैव ‘शिरः छिनदत्’ छिन्द्यात् इति भयेनापि ‘प्रथमयज्ञे न प्रवृंज्यात्’ । आथर्वणं दध्यञ्चं प्रति पुरा एवं खलु इंद्रेणोक्तं यदि इमां प्रवर्ग्यविद्यां अन्यस्मै उपदिशसि अथवा तत्प्रतिपाद्यं प्रवर्ग्याख्यं कर्म अन्यस्य यजमानस्य करोषि । तर्हि अहमागत्य तव शिरः छिन्द्यामिति । एवं सुगुप्तकर्म यदि अध्वर्युः अन्यदीये प्रथमयज्ञे प्रकटयति । तदा हि इन्द्र आगत्य तच्छिरः छिन्द्यात् । तस्मात् एतद्भयेनापि प्रथमयज्ञे न कुर्यादित्यर्थः । नन्वेवं सर्वत्रैव प्रवर्ग्यं न कार्यं ? नेत्याह- द्वितीये चैव तृतीये वा इति । द्वितीय एव वा तृतीय एव वा यज्ञे प्रवृंज्यात् । प्रथमं सोमयागमनुष्ठाय पुनः क्रियमाणे संस्थांतरे द्वितीये सोमयागे तृतीये वा प्रवृंजनं कार्यमित्यर्थः । अथैतदुपपाद्यते- ‘अग्रे’ पुरा खलु ‘देवाः’ ‘अपशीर्ष्णा’ अपगतशिरस्केन खलु ‘यज्ञेन’ ‘अर्चन्तः’ पूजयंतः ‘श्राम्यंतः’ श्रांताश्च संतः प्रथमं चेरुश्चरितवंतः । पश्चात्प्रवर्ग्यलक्षणशिरसा युक्तेनायजन् । तत्साम्यात् अस्मिन् काले ऽपि प्रथमयज्ञमप्रवर्ग्यं कृत्वा द्वितीय एव वा तृतीय एव वा यज्ञे प्रवर्ग्यं कुर्यात् । अथ विपक्षे बाधमुक्त्वा एतदेवोपसंहरति- तस्माद्द्वितीये वैव तृतीये वा इति । ‘एष’ घर्मस्तप्तः अग्निज्वालया संतप्तः ‘शुशुचानः’ शोचनशीलः भवति ॥ ४४ ॥

Eggeling
  1. One must not perform the Pravargya at one’s first Soma-sacrifice, since that would be sinful, and lest Indra should cut off his head; but at the second or the third (Soma-sacrifice); for at first the gods went on worshipping and toiling with the headless sacrifice, therefore (he should do so) at the second or the third (sacrifice). Moreover, it will become heated and ablaze;–

४५

विश्वास-प्रस्तुतिः

तं᳘ य᳘त्प्रथमयज्ञे[[!!]] प्प्रवृञ्ज्यात्[[!!]]॥
(दे᳘) ए᳘षो ऽस्य तप्तः᳘ शुशुचानः᳘ प्प्रजा᳘ञ्च पशूँ᳘श्च प्प्र᳘दहेद᳘थो ऽआ᳘हुः प्प्रमा᳘युको य᳘जमानः स्यात्त᳘स्माद्द्विती᳘ये वैव᳘ तृती᳘ये वा॥

मूलम् - श्रीधरादि

तं᳘ य᳘त्प्रथमयज्ञे[[!!]] प्प्रवृञ्ज्यात्[[!!]]॥
(दे᳘) ए᳘षो ऽस्य तप्तः᳘ शुशुचानः᳘ प्प्रजा᳘ञ्च पशूँ᳘श्च प्प्र᳘दहेद᳘थो ऽआ᳘हुः प्प्रमा᳘युको य᳘जमानः स्यात्त᳘स्माद्द्विती᳘ये वैव᳘ तृती᳘ये वा॥

मूलम् - Weber

तं᳘ यत्प्रथमयज्ञे᳘ प्रवृञ्ज्या᳘त्॥
एॗषोऽस्य तप्तः᳘ शुशुचानः᳘ प्रजां᳘ च पशूं᳘श्च प्र᳘दहेद᳘थो आ᳘युः प्रमा᳘युको 48 य᳘जमानः स्यात्त᳘स्माद्द्विती᳘ये वैव᳘ तृती᳘ये वा॥

मूलम् - विस्वरम्

तं यत्प्रथमयज्ञे प्रवृंज्यात् । एषो ऽस्य तप्तः शुशुचानः प्रजां च पशूंश्च प्रदहेत् । अथो आहुः । प्रमायुको यजमानः स्यात् । तस्मात् द्वितीये वैव तृतीये वा ॥ ४५ ॥

सायणः

यद्यदि ‘तं’ तथाविधं घर्मं ‘प्रथमयज्ञे’ प्रवृंज्यात् ‘एष तप्तः’ शोचनशीलो घर्मः तर्हि अस्य यजमानस्य पुत्रादिरूपां ‘प्रजां च’ गवाश्वादिरूपान्पशूंश्च ‘प्रदहेत्’ प्रदग्धुं शक्नुयात् । ‘अथो’ अपि च अभिज्ञाः ब्रह्मवादिनः ‘आहुः’ कथयन्ति । ‘यजमानः’ सः ‘प्रमायुकः’ मरणशीलः ‘स्यात्’ इति । यस्मात् प्रथमयज्ञे प्रवृंजनस्य एवं दोषजातमस्ति । तस्मात् 49 द्वितीय एव वा तृतीय एव वा सोमयागे प्रवर्ग्यं कुर्यात् ॥ ४५ ॥

Eggeling
  1. And were he to perform the Pravargya at the first Soma-sacrifice, that (Mahāvīra) of his, when heated and ablaze, would burn up his family and cattle, and also his life, and the Sacrificer would be liable to perish: therefore (let him perform it) at the second or third (sacrifice).

४६

विश्वास-प्रस्तुतिः

तन्न स᳘र्व्वस्मा ऽइव प्प्र᳘वृञ्ज्यात्॥
(त्स᳘) स᳘र्व्वम्वै᳘ प्प्रव᳘र्ग्यो नेत्स᳘र्व्वस्मा ऽइव स᳘र्व्वङ्कर᳘वाणी᳘ति यो᳘ ऽन्वेव᳘ ज्ञातस्त᳘स्मै प्प्र᳘वृञ्ज्याद्यो᳘ वा ऽस्य प्प्रियः स्याद्यो᳘ वा ऽनूचानो᳘ ऽनूक्तेनैनम्प्राप्नुया᳘त्॥

मूलम् - श्रीधरादि

तन्न स᳘र्व्वस्मा ऽइव प्प्र᳘वृञ्ज्यात्॥
(त्स᳘) स᳘र्व्वम्वै᳘ प्प्रव᳘र्ग्यो नेत्स᳘र्व्वस्मा ऽइव स᳘र्व्वङ्कर᳘वाणी᳘ति यो᳘ ऽन्वेव᳘ ज्ञातस्त᳘स्मै प्प्र᳘वृञ्ज्याद्यो᳘ वा ऽस्य प्प्रियः स्याद्यो᳘ वा ऽनूचानो᳘ ऽनूक्तेनैनम्प्राप्नुया᳘त्॥

मूलम् - Weber

तं न स᳘र्वस्मा इव प्र᳘वृञ्ज्यात्॥
स᳘र्वम् वै᳘ प्रव᳘र्ग्यो नेत्स᳘र्वस्मा इव स᳘र्वं कर᳘वाणी᳘ति योॗ न्वेव᳘ ज्ञतस्त᳘स्मै प्र᳘वृञ्ज्याद्यो वास्य प्रियः स्याद्यो᳘ वानूचानो᳘ऽनूक्तेनैनम् प्राप्नुया᳘त्॥

मूलम् - विस्वरम्

तं न सर्वस्मा इव प्रवृंज्यात् । सर्वं वै प्रवर्ग्यः । नेत्सर्वस्मा इव सर्वं करवाणीति । यो ऽन्वेव ज्ञातः । तस्मै प्रवृंज्यात् । यो वा ऽस्य प्रियः स्यात् । यो वा ऽनूचानः अनूक्तेनैनं प्राप्नुयात् ॥ ४६ ॥

सायणः

द्वितीयतृतीयादिष्वपि किं सर्वेषां यजमानानां अविशेषेण एतत्कर्तव्यं नेत्याह- तन्न सर्वस्मा ऽइव प्रवृंज्यादिति । ‘तं’ प्रवर्ग्यं ‘सर्वस्मै’ यजमानजनाय ‘न प्रवृंज्यात्’ । दीक्षणीयाद्यंगकलापवत् अविशेषेण यजमानजनानां प्रवृञ्जनं न कार्यमित्यर्थः । कुतो ऽसौ नियमः ? इत्यत आह- सर्वम्वै० करवाणीति । ‘प्रवर्ग्यः’ खलु सूर्यात्मकत्वात् ‘सर्वं वै’ सर्वजगदात्मकः खलु । तादृशो ऽसौ यदि अविशेषेण सर्वयजमानजने प्रयुज्येत । तदा सर्वमेव सर्वस्य सर्वाकांक्षाया अभावात् असंगतं स्यात् । एकदेशं हि तस्य सार्वात्म्यमन्विच्छति । तस्मात् नेन्नैव सर्वस्यैव यजमानजनस्य ‘सर्वं’ सर्वात्मकं प्रवर्ग्यं ‘करवाणि’ कुर्याम् । इतिशब्दो हेतौ । अस्माद्धेतोः ‘सर्वस्मै’ एव न प्रवृंज्यादित्यर्थः । तर्हि कीदृशाय 49 यजमानजनाय प्रवृंजनं कार्यमिति तदाह- यो ऽन्वेव ज्ञात० नूक्तेनैनं प्राप्नुयादिति ॥ ४६ ॥

Eggeling
  1. Let him not perform the Pravargya for any and every one, lest he should do everything for every one, for the Pravargya is everything; but let him only perform it for him who is known, or to whoever may be dear to him, or who has studied sacred writ: by means of the study of sacred writ he would thus gain it.

४७

विश्वास-प्रस्तुतिः

(त्स) सह᳘स्रे प्प्र᳘व्वृञ्ज्यात्॥
(त्सं᳘) स᳘र्व्वम्वै᳘ सह᳘स्रᳫँ᳭ स᳘र्व्वमेष᳘ सर्व्ववेदसे प्प्र᳘व्वृञ्ज्यात्स᳘र्व्वम्वै᳘ सर्व्ववेदसᳫँ᳭ स᳘र्व्वमेष᳘ व्विश्वजि᳘ति स᳘र्व्वपृष्ठे प्प्र᳘व्वृञ्ज्यात्स᳘र्व्वम्वै᳘ व्विश्वजित्स᳘र्व्वपृष्ठः स᳘र्व्वमेष᳘ व्वाजपे᳘ये राजसू᳘ये प्प्र᳘व्वृञ्ज्यात्स᳘र्व्वᳫँ᳭ हि त᳘त्सत्रे प्प्र᳘व्वृञ्ज्यात्स᳘र्व्वम्वै᳘ सत्रᳫँ᳭ स᳘र्व्वमेष᳘ ऽएता᳘न्यस्य प्प्रव᳘र्ज्जनान्य᳘तो᳘ नान्य᳘त्र॥

मूलम् - श्रीधरादि

(त्स) सह᳘स्रे प्प्र᳘व्वृञ्ज्यात्॥
(त्सं᳘) स᳘र्व्वम्वै᳘ सह᳘स्रᳫँ᳭ स᳘र्व्वमेष᳘ सर्व्ववेदसे प्प्र᳘व्वृञ्ज्यात्स᳘र्व्वम्वै᳘ सर्व्ववेदसᳫँ᳭ स᳘र्व्वमेष᳘ व्विश्वजि᳘ति स᳘र्व्वपृष्ठे प्प्र᳘व्वृञ्ज्यात्स᳘र्व्वम्वै᳘ व्विश्वजित्स᳘र्व्वपृष्ठः स᳘र्व्वमेष᳘ व्वाजपे᳘ये राजसू᳘ये प्प्र᳘व्वृञ्ज्यात्स᳘र्व्वᳫँ᳭ हि त᳘त्सत्रे प्प्र᳘व्वृञ्ज्यात्स᳘र्व्वम्वै᳘ सत्रᳫँ᳭ स᳘र्व्वमेष᳘ ऽएता᳘न्यस्य प्प्रव᳘र्ज्जनान्य᳘तो᳘ नान्य᳘त्र॥

मूलम् - Weber

सह᳘स्रे प्र᳘वृञ्ज्यात्॥
स᳘र्वम् वै᳘ सह᳘स्रᳫं स᳘र्वमेष᳘ सर्ववेदसे प्र᳘वृञ्ज्यात्स᳘र्वम् वै᳘ सर्ववेदसᳫं स᳘र्वमेष᳘ विश्वजि᳘ति स᳘र्वपृष्थे प्र᳘वृञ्ज्यात्स᳘र्वम् वै᳘ विश्वजित्स᳘र्वपृष्ठः स᳘र्वमेष᳘ वाजपे᳘ये राजसू᳘ये प्र᳘वृञ्ज्यात्स᳘र्वᳫं हि त᳘त्सत्त्रे प्र᳘वृञ्ज्यात्स᳘र्वम् वै᳘ सत्त्रᳫं स᳘र्वमेष᳘ एता᳘न्यस्य प्रव᳘र्जनान्य᳘तोॗ नान्यत्र॥

मूलम् - विस्वरम्

सहस्रे प्रवृंज्यात् । सर्वं वै सहस्रम् । सर्वमेषः । सर्ववेदसे प्रवृंज्यात् । सर्वं वै सर्ववेदसम् । सर्वमेषः । विश्वजिति सर्वपृष्ठे प्रवृंज्यात् । सर्वं वै विश्वजित्सर्वपृष्ठः । सर्वमेषः । वाजपेये राजसूये प्रवृंज्यात् । सर्वं हि तत् । सत्रे प्रवृंज्यात् । सर्वं वै सत्रम् । सर्वमेषः । एतान्यस्य प्रवर्जनानि । अतो नान्यत्र ॥ ४७ ॥

सायणः

सहस्रे प्रवृञ्ज्यात्० नान्यत्रेति । ‘सहस्रे’ गोसहस्रदक्षिणे 49 क्रतौ प्रवृंजनं कुर्यात् । ‘सहस्रं सहस्रदक्षिणाकं कर्म ‘सर्वं वै’ सर्वात्मकं बहुदक्षिणाकत्वात्, ‘सर्वं’ सर्वजगदात्मकः । अत उभयोः साम्येन संबंधयोग्यत्वात् सहस्रे प्रवृंजनं युक्तमित्यर्थः । एवमुत्तरेष्वपि वाक्यविशेषेषु योजना । वेदः इति धननाम । सर्वं यजमानधनं यस्मिन् क्रतौ दक्षिणात्वेन विधीयते तस्मिन् सर्ववेदसे 50 क्रतावपि प्रवृंजनं कार्यम् । सर्ववेदसं सर्वस्वदक्षिणं कर्म ‘सर्वं वै’ सर्वात्मकं खलु । अपरिमितधनयुक्तत्वात् । तथा ‘सर्वपृष्ठे’ 51 रथंतर-बृहत्-वैरूप-वैराज-शाक्वर-रैवतानि पृष्ठसामानि यस्मिन् संहन्यंते तादृशे ‘विश्वजिति’ एतत्संज्ञके एकाहे प्रवृंजनं कुर्यात् । सर्वपृष्ठो विश्वजित् पृष्ठसामबाहुल्यात् ‘सर्वं’ सर्वात्मकं खलु । तथा वाजपेयराजसूययोः क्रत्वोः प्रवृंजनं कुर्यात् । ‘क्रतुद्वयं’ ‘सर्वं’ सर्वात्मकं खलु । आग्नेयाद्यग्निष्टोमादिसवनीयपशुभिः सर्वात्मकप्रजापतिदैवत्यैः पशुभिश्च [^४_९२] यागात् वाजपेयस्य सर्वत्वम् । राजसूयस्य 52 च इष्टिपशुदर्वीहोमसोमसमुदायरूपत्वात् सर्वेषां कर्मभेदानामंतर्भावात् सर्वत्वम् । तथा ‘सत्रे’ बहुयजमानकर्तृके सत्रयागे प्रवृंजनं कुर्यात् । ‘सत्रं’ सत्रयागः 53 बहुकर्तृकत्वात् ‘सर्वं’ सर्वात्मकं खलु । ‘एतानि’ सहस्रादीनि स्थानानि ‘अस्य’ प्रवर्ग्यस्य नित्यप्रवृंजनस्थानानि । ‘अतः’ एभ्यः ‘अन्यत्र’ न नित्यं प्रवृंजनमित्यर्थः ॥ ४७ ॥

[^४_९२] : “अतिरात्रपशूनुपाकृत्य वशां पृश्निं मरुद्भ्य उज्जेषेभ्यः” । का. श्रौ. सू. ६४ । २ । ११ । “तदभावे ऽपृश्निं” का. श्रौ. सू. १४ । २ । १२ । “प्राजापत्यांश्च सप्तदश श्यामतूपरान् वस्तान्” । का. श्रौ. सू. १४ । २ । १३ । अतिरात्रपशवः कात्यायनेनोक्ताः । ते च “आग्नेयो ऽग्निष्टोमे सवनीयः पशुः” । “ऐन्द्राग्नश्चोक्थ्ये द्वितीयः” । “ऐन्द्रो वृष्णिः षोडशिनि तृतीयः” । “सरस्वत्यै चतुर्थो ऽतिरात्रे मेषी वा” । का. श्रौ. सू. ९ । ८ । २ । ३ । ४ । ५ ।

Eggeling
  1. One may perform the Pravargya for a thousand (head of cattle) 54, for a thousand means everything, and that (Pravargya) is everything. One may

perform it for all (the Sacrificer’s) property; for all one’s property means everything, and this (Pravargya) is everything. One may perform it at a Viśvajit with all the Pr̥shṭḥas 55; for the Viśvajit (all-conquering day) with all the Pr̥shṭḥas means everything, and this (Pravargya) is everything One may perform it at the Vājapeya (and) Rājasūya, for such (a ceremony) means everything. One may perform it at a sacrificial session, for the session means everything, and this (Pravargya) is everything. These are (the occasions for) his performances of the Pravargya, and (let him perform it) nowhere else but at these.

४८

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र्य्य) यद᳘पशिरा ऽअ᳘प्रवर्ग्यो᳘ ऽथ के᳘नास्याग्निहोत्र᳘ᳫँ᳘ शीर्षण्व᳘द्भवती᳘त्याहवनी᳘येने᳘ति ब्रूयात्कथं᳘ दर्शपूर्ण्णमासावित्या᳘ज्येन च पुरोडा᳘शेन चे᳘ति ब्रूयात्कथ᳘ञ्चातुर्म्मास्यानी᳘ति पय᳘स्यये᳘ति[[!!]] ब्रूयात्कथ᳘म्पशुबन्ध ऽइ᳘ति पशु᳘ना च पुरोडा᳘शेन चे᳘ति ब्रूयात्क᳘थ᳘ᳫँ᳘ सौ᳘म्यो ऽध्वर ऽइ᳘ति हविर्द्धा᳘नेने᳘ति ब्रूयात्॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र्य्य) यद᳘पशिरा ऽअ᳘प्रवर्ग्यो᳘ ऽथ के᳘नास्याग्निहोत्र᳘ᳫँ᳘ शीर्षण्व᳘द्भवती᳘त्याहवनी᳘येने᳘ति ब्रूयात्कथं᳘ दर्शपूर्ण्णमासावित्या᳘ज्येन च पुरोडा᳘शेन चे᳘ति ब्रूयात्कथ᳘ञ्चातुर्म्मास्यानी᳘ति पय᳘स्यये᳘ति[[!!]] ब्रूयात्कथ᳘म्पशुबन्ध ऽइ᳘ति पशु᳘ना च पुरोडा᳘शेन चे᳘ति ब्रूयात्क᳘थ᳘ᳫँ᳘ सौ᳘म्यो ऽध्वर ऽइ᳘ति हविर्द्धा᳘नेने᳘ति ब्रूयात्॥

मूलम् - Weber

त᳘दाहुः॥
यद᳘पशिरा अ᳘प्रवर्ग्यो᳘ऽथ 56 के᳘नास्याग्निहोत्रं᳘ शीर्षण्व᳘द्भवती᳘त्याहवनी᳘येने᳘ति ब्रूयात्कथं᳘ दर्शपूर्णमासावित्या᳘ज्येन च पुरोडा᳘शेन चे᳘ति ब्रूयात्कथं᳘ चातुर्मास्यानी᳘ति पयस्य᳘ये᳘ति ब्रूयात्कथ᳘म् पशुबन्ध इ᳘ति पशु᳘ना च पुरोडा᳘शेन चे᳘ति ब्रूयात्कथ᳘ᳫं᳘ सौॗम्योऽध्वर इ᳘ति हविर्धा᳘नेने᳘ति ब्रूयात्॥

मूलम् - विस्वरम्

तदाहुः- यदपशिरा अप्रवर्ग्यः । अथ केनास्याग्निहोत्रं शीर्षण्वद्भवतीति ?; आहवनीयेनेति ब्रूयात् । कथं दर्शपूर्णमासाविति ? आज्येन च पुरोडाशेन चेति ब्रूयात् । कथं चातुर्मास्यानीति ?; पयस्ययेति ब्रूयात् । कथं पशुबंध इति ?; पशुना च पुरोडाशेन चेति ब्रूयात् । कथं सौम्यो ऽध्वर इति ?; हविर्द्धानेनेति ब्रूयात् ॥ ४८ ॥

सायणः

नन्वेवं अप्रवर्ग्यस्य यज्ञस्याशिरस्कत्वे कथमग्निहोत्रस्य सशिरस्त्वम् इत्याशंक्य तदुपपादयति- तदाहु० हवनीयेनेति ब्रूयादिति । तत्तत्र आहुश्चोदयंति ब्रह्मवादिनः । ‘अप्रवर्ग्यः’ प्रवर्ग्यरहितः क्रतुः यद्यदि ‘अपशिराः’ अपगतशिरस्कः स्यात् । ‘अथ’ तर्हि ‘अग्निहोत्रं’ सायंप्रातःकालयोरनुष्ठीयमानं हविर्यज्ञानामादिभूतं कर्म ‘अस्य’ यजमानस्य ‘केन’ किंलक्षणेन शिरसा ‘शीर्षण्वत्’ शिरसा युक्तं भवतीति । एवं ब्रुवतां तेषां आहवनीयेनाग्निना अग्निहोत्रं सशिरस्कं इत्युत्तरं ब्रूयात् । अथ दर्शपूर्णमासयोरपि अग्निहोत्रवत् सशिरस्कत्वमाह- कथं दर्शपूर्ण० ब्रूयादिति । ‘दर्शपूर्णमासौ’ अप्रवर्ग्यत्वात् ‘कथं’ सशिरस्काविति ब्रह्मवादिनां प्रश्नः । तस्य ‘आज्येन च पुरोडाशेन च’ इत्युत्तरं ‘ब्रूयात्’ । तथा च पुरोडाशस्य 57 यज्ञशिरस्त्वं तैत्तिरीयके स्पष्टमाम्नायते- “मखस्य शिरो ऽसीत्याह । यज्ञो वै मखः । तस्यैतच्छिरः । यत्पुरोडाशः । तस्मादेवमाह” इति । तथा आधारानंतरं तच्छेषेणाज्येन ध्रुवासमंजने विनियुक्ते मंत्रे- “मखस्य शिरो ऽसि सञ्ज्योतिषा ज्योतिरङ्क्ताम्” इति श्रवणात् आज्यस्यापि तच्छिरस्त्वमवगंतव्यम् । अथ चातुर्म्मास्यानामपि सशिरस्कत्वमाह- कथञ्चातुर्मास्यानीति पयस्ययेति ब्रूयादिति । चतुर्षु चतुर्षु मासेषु क्रियंत इति ‘चातुर्मास्यानि’ वैश्वदेवादीनि चत्वारि पर्वाणि । तानि कथमप्रवर्ग्यत्वात्सशिरस्कानीति प्रश्नस्योत्तरं ‘पयस्ययेति ब्रूयात्’ । तत्र या वैश्वदेवी आमिक्षा सैव पयस्या इत्युच्यते । तया चातुर्मास्यानि सशिरस्कानीत्यर्थः । पशुबंधस्यापि प्रवर्ग्यराहित्यादशिरस्कत्वमाशंक्याह- कथं पशुबंध इति पशुना च पुरोडाशेन चेति ब्रूयादिति । पशुः पशुपुरोडाशश्च पशुयागस्य शिरःस्थानीय इत्यर्थः । स्पष्टमन्यत् । अप्रवर्ग्यो यः सोमयागः स किं अशिरस्क एव ? नेत्याह- कथ‍ँ सौम्यो ऽध्वर ऽइति हविर्द्धानेनेति ब्रूयादिति । ‘सौम्यो ऽध्वरः’ प्रवर्ग्यरहितः सोमयागः ‘कथं’ केन खलु शिरसा सशिरस्क इति प्रश्नः । हविर्द्धानेनेति तस्योत्तरम् । ग्रहचमसादीनां सोमपूर्णानां आसादनस्थानं हविर्द्धानम् । तेन अप्रवर्ग्यो ऽपि सोमयागः सशिरस्कः इत्यर्थः । हविर्द्धानस्य यज्ञशिररत्वं तैत्तिरीये स्पष्टमाम्नातम् 58- “शिरो वा ऽएतद्यज्ञस्य यद्धविर्द्धानम्” (तै. सं. ६ । २ । ११) इति ॥ ४८ ॥

Eggeling
  1. Here now they say, ‘Seeing that the Pravargya is headless, whereby, then, does the Agnihotra become possessed of a head for him?’ Let him say, ‘By the Āhavanīya.’–‘How the New and Full-moon sacrifices?’ Let him say, ‘By the ghee and the cake.’–‘How the Seasonal sacrifices?’ Let him say, ‘By the oblation of clotted curds 59.’–‘How the animal sacrifice?’ Let him say, ‘By the victim and the cake.’–‘How the Soma-sacrifice?’ Let him say, ‘By the Havirdhāna 60.’

४९

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थो ऽआहुः॥
(र्य्य) यज्ञ᳘स्य शीर्षच्छिन्न᳘स्य शि᳘र ऽएत᳘द्देवाः प्र᳘त्यदधुर्य्य᳘दातिथ्यन्न᳘ ह वा᳘ ऽअस्या᳘पशीर्ष्णा के᳘नचन᳘ यज्ञे᳘नेष्ट᳘म्भवति य᳘ ऽएव᳘मे᳘तद्वे᳘द॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थो ऽआहुः॥
(र्य्य) यज्ञ᳘स्य शीर्षच्छिन्न᳘स्य शि᳘र ऽएत᳘द्देवाः प्र᳘त्यदधुर्य्य᳘दातिथ्यन्न᳘ ह वा᳘ ऽअस्या᳘पशीर्ष्णा के᳘नचन᳘ यज्ञे᳘नेष्ट᳘म्भवति य᳘ ऽएव᳘मे᳘तद्वे᳘द॥

मूलम् - Weber

अ᳘थो आहुः॥
यज्ञ᳘स्य शीर्षछिन्न᳘स्य शि᳘र एत᳘द्देवाः प्र᳘त्यदधुर्य᳘दातिथ्यं न᳘ ह वा᳘ अस्या᳘पशीर्ष्णा के᳘न चन᳘ यज्ञे᳘नेष्ट᳘म् भवति य᳘ एव᳘मे᳘तद्वे᳘द॥

मूलम् - विस्वरम्

अथो आहुः । यज्ञस्य शीर्षच्छिन्नस्य शिर एतद्देवाः प्रत्यदधुः; यदातिथ्यम् । न ह वा अस्यापशीर्ष्णा केनचन यज्ञेनेष्टं भवति । य एवमेतद्वेद ॥ ४९ ॥

सायणः

अथ प्रकारांतरेण सशिरस्कत्वमाह- अथ आहुर्यज्ञस्य० यदातिथ्यमिति । अथोशब्दः पक्षांतः परिग्रहे । ‘आहुः’ अभिज्ञा ब्रह्मवादिनः कथयन्ति । किमिति चेत्; उच्यते- ‘शीर्षच्छिन्नस्य’ छिन्नशिरस्कस्य ‘यज्ञस्य’ एतदेव ‘शिरः’ पुरा ‘देवाः’ ‘प्रत्यदधुः’ संदधुः । ‘यत्’ आतिथ्याख्यं हविः क्रियते, एतदेव यज्ञस्य शिरः । तेन देवैः पुरा प्रतिहितमित्यर्थः । अत एव तैत्तिरीयकं 61- “शिरो वा एतद्यज्ञस्य यदातिथ्यं नवकपालः पुरोडाशो भवति तस्मान्नवधा शिरो विष्यूतम् (तै. सं. ६ । २ । १)” इति । अथ एतद्वेदनफलमाह- न ह वा ऽअस्या० मेतद्वेदेति । ‘यः’ यजमानः ‘एवं’ उक्तप्रकारेण ‘एतत्’ अग्निहोत्रादीनां सशिरस्त्वं ‘वेद’ जानाति । ‘अस्य’ यजमानस्य ‘अशीर्ष्णा’ अपगतशिरस्केन ‘केनचन’ केनापि ‘यज्ञेन’ ‘इष्टं’ यजनं ‘न ह वै’ खलु ‘भवति’ अग्निहोत्रादिकम् एवं यज्ञं सशिरस्कमेव कृतवान् भवतीत्यर्थः ॥ ४९ ॥

Eggeling
  1. And they also say,–when the sacrifice had its head cut off, the gods on that occasion restored it as the hospitable reception 62 (of King Soma), and verily for him who so knows this offering is not made with any headless sacrifice whatever.

५०

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र्य्य) यत्प्र᳘णीताः प्प्रण᳘यन्ति यज्ञे᳘ ऽथ क᳘स्माद᳘त्र न प्प्र᳘णयती᳘ति शि᳘रो वा᳘ ऽएत᳘द्यज्ञ᳘स्य यत्प्र᳘णीताः शि᳘रः प्प्रव᳘र्ग्यो नेच्छि᳘रसा शि᳘रो ऽभ्यारोह᳘याणी᳘ति॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र्य्य) यत्प्र᳘णीताः प्प्रण᳘यन्ति यज्ञे᳘ ऽथ क᳘स्माद᳘त्र न प्प्र᳘णयती᳘ति शि᳘रो वा᳘ ऽएत᳘द्यज्ञ᳘स्य यत्प्र᳘णीताः शि᳘रः प्प्रव᳘र्ग्यो नेच्छि᳘रसा शि᳘रो ऽभ्यारोह᳘याणी᳘ति॥

मूलम् - Weber

त᳘दाहुः॥
यत्प्र᳘णीताः प्रण᳘यन्ति यज्ञे᳘ऽथ क᳘स्माद᳘त्र न प्र᳘णयती᳘ति शि᳘रो वा᳘ एत᳘द्यज्ञास्य यत्प्र᳘णीताः शि᳘रः प्रव᳘र्ग्यो नेछि᳘रसा शि᳘रोऽभ्यारोह᳘याणी᳘ति॥

मूलम् - विस्वरम्

तदाहुः- यत्प्रणीताः प्रणयन्ति यज्ञे । अथ कस्मादत्र न प्रणयतीति । शिरो वा एतद्यज्ञस्य । यत्प्रणीताः । शिरः प्रवर्ग्यः । नेच्छिरसा शिरो ऽभ्यारोहयाणीति ॥ ५० ॥

सायणः

सोमयागांगभूतेषु दीक्षणीयादिषु कर्मसु प्रणीता आपः प्रणीयन्ते । तथा च तदंगभूते प्रवर्ग्ये ऽपि तासामपि प्रणयनेन भवितव्यमित्याशंक्याह- तदाहुर्यत्प्रणीता० रोहयाणीतीति । तत्तत्र प्रवर्ग्ये ‘आहुः’ कथयन्ति ब्रह्मवादिनः । ‘यज्ञे’ दर्शपूर्णमासादौ दीक्षणीयादौ च यद्यस्मात् ‘प्रणीताः’ अपः ’ प्रणयन्ति’ यज्ञरक्षार्थम् 61 । तस्मात्प्रप्रवर्ग्याख्ये यज्ञे ऽपि प्रणीताप्रणयनं कार्यम् । ‘अथ’ च कस्मादेव कारणात् ‘अत्र’ प्रवर्ग्ये कर्मणि अध्वर्युस्ताः ‘न प्रणयतीति’ प्रश्नः । तस्योत्तरमेतत् “शिरो वा” 63 इत्यादिकम् । प्रणीता आप इति यत् ‘एतद्यज्ञस्य’ ‘शिरो वै’ प्रवर्ग्यश्च यज्ञस्य शिरः । न खलु शिरस उपरि अन्यच्छिरो भवति । एवं च ‘नेत्’ नैव ‘शिरसा’ अन्यच्छिरः ‘अभ्यारोहयाणि’ अधिरोहणं करवाणि इत्यनेनाभिप्रायेण प्रवर्ग्ये प्रणीतानां अप्रणयनम् ॥ ५० ॥

Eggeling
  1. And, again, they say, ‘Seeing that at the sacrifice they lead forward the Praṇītā 64 (water), wherefore do they not lead it forward on this occasion?’ Well, this–to wit, the Praṇītā (water)–being the head of the sacrifice, and the Pravargya also being its head, (he does so) thinking, ‘Lest I cause the head to be overtopped by a head.’

५१

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र्य्य᳘) य᳘त्प्रयाजानुयाजा᳘ ऽअन्य᳘त्र भ᳘वन्त्य᳘थ क᳘स्माद᳘त्र न᳘ भवन्ती᳘ति प्प्राणा वै᳘ प्प्रयाजानुयाजाः᳘ प्प्राणा᳘ ऽअवकाशाः᳘ प्प्राणाः᳘ शाकला ने᳘त्प्राणैः᳘ प्प्राणा᳘नभ्यारोह᳘याणी᳘ति॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र्य्य᳘) य᳘त्प्रयाजानुयाजा᳘ ऽअन्य᳘त्र भ᳘वन्त्य᳘थ क᳘स्माद᳘त्र न᳘ भवन्ती᳘ति प्प्राणा वै᳘ प्प्रयाजानुयाजाः᳘ प्प्राणा᳘ ऽअवकाशाः᳘ प्प्राणाः᳘ शाकला ने᳘त्प्राणैः᳘ प्प्राणा᳘नभ्यारोह᳘याणी᳘ति॥

मूलम् - Weber

त᳘दाहुः॥
य᳘त्प्रयाजानुयाजा᳘ अन्य᳘त्र भवन्त्य᳘थ क᳘स्माद᳘त्र न᳘ भवन्ती᳘ति प्राणा वै᳘ प्रयाजानुयाजाः᳘ प्राणा᳘ अवकाशाः᳘ प्राणाः᳘ शाकल॥
ने᳘त्प्राणैः᳘ प्राणा᳘नभ्यारोह᳘याणी᳘ति॥

मूलम् - विस्वरम्

तदाहुः- यत्प्रयाजानुयाजा अन्यत्र भवन्ति । अथ कस्मादत्र न भवन्तीति । प्राणा वै प्रयाजानुयाजाः । प्राणा अवकाशाः । प्राणाः शाकलाः । नेत्प्राणैः प्राणानभ्यारोहयाणीति ॥ ५१ ॥

सायणः

अथ प्रयाजानुयाजानां अभावकृतं यज्ञान्तरवैषम्यम् आशंक्य परिहरति- तदाहुर्यत्प्रयाजानुयाजा० भ्यारोहयाणीतीति । ‘अन्यत्र’ दीक्षणीयादौ यद्यस्मात् ‘प्रयाजानुयाजा भवन्ति’ तस्मात्प्रवर्ग्ये ऽपि तैर्भवितव्यम् । तथापि कस्मादेव कारणात् ‘अत्र’ प्रवर्ग्ये प्रयाजा अनुयाजाश्च ‘न भवंति’ नानुष्ठीयंते इति ब्रह्मवादिनामाक्षेपः । तस्यायं परिहारः । प्राणात्मकाः 65 खलु प्रयाजानुयाजाः । तथा “गर्भो देवानाम्”- इत्याद्याः अत्र क्रियमाणाः अवकाशाख्या मंत्राश्च प्राणात्मकाः । तथा ‘शाकलाः’ शकलहोममंत्राश्च “स्वाहा पूष्णे” इत्याद्याः प्राणात्मकाः । न हि प्राणेषूपरि प्राणा भवंति । अतः नेन्नैव ‘प्राणैः’ अन्यैः प्राणांतरैः अन्यान् ‘प्राणान्’ ‘अभ्यारोहयाणि’ अध्यारूढान् करवाणि इत्यनेनाभिप्रायेण प्राणसंस्तुतावकाशादियुक्ते प्रवर्ग्यकर्मणि प्राणसंस्तुताः प्रयाजानुयाजाः न क्रियंत इत्यर्थः ॥ ५१ ॥

Eggeling
  1. And, again, they say, ‘Seeing that elsewhere there are fore-offerings and after-offerings, wherefore are there not any on this occasion?’ Well, the fore-offerings and after-offerings being the vital airs, and so also the Avakāśas 66, and the pieces of wood, (it is so) lest he should cause the vital airs to be overtopped by vital airs.

५२

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र्य्य᳘) यदा᳘ज्यभागावन्य᳘त्र जु᳘ह्वत्यथ[[!!]] क᳘स्माद᳘त्र न᳘ जुहोती᳘ति च᳘क्षुषी वा᳘ ऽएते᳘ यज्ञ᳘स्य यदा᳘ज्यभागौ च᳘क्षुषी रौहिणौ नेच्च᳘क्षुषा च᳘क्षुरभ्यारोह᳘याणी᳘ति॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र्य्य᳘) यदा᳘ज्यभागावन्य᳘त्र जु᳘ह्वत्यथ[[!!]] क᳘स्माद᳘त्र न᳘ जुहोती᳘ति च᳘क्षुषी वा᳘ ऽएते᳘ यज्ञ᳘स्य यदा᳘ज्यभागौ च᳘क्षुषी रौहिणौ नेच्च᳘क्षुषा च᳘क्षुरभ्यारोह᳘याणी᳘ति॥

मूलम् - Weber

त᳘दाहुः॥
यदा᳘ज्यभागावन्य᳘त्र जु᳘ह्वत्य᳘थ क᳘स्माद᳘त्र न᳘ जुहोती᳘ति च᳘क्षुषी वा एते᳘ यज्ञ᳘स्य यदा᳘ज्यभागौ च᳘क्षुषी रौहिणौ नेच्च᳘क्षुषा च᳘क्षुरभ्यारोह᳘याणी᳘ति॥

मूलम् - विस्वरम्

तदाहुः- यदाज्यभागावन्यत्र जुह्वति । अथ कस्मादत्र न जुहोतीति । चक्षुषी वा एते यज्ञस्य- यदाज्यभागौ । चक्षुषी रौहिणौ । नेच्चक्षुषा चक्षुरभ्यारोहाणीति ॥ ५२ ॥

सायणः

अथ यज्ञान्तरवत् कस्मात् अत्राज्यभागौ न भवतः इत्याशंक्याह- तदाहुर्यदाज्यभागा० भ्यारोहयाणीतीति । तत्तत्र प्रवर्ग्ये पुनरन्यत् चोदयंति ब्रह्मवादिनः । यद्यस्मात्, ‘अन्यत्र’ स्थलांतरे दीक्षणीयादौ आग्नेयश्च सौम्यश्च इति द्वावाज्यभागौ ‘जुह्वति’ । अग्निं सोमं चोद्दिश्य आज्यभागाख्यं यागद्वयं कुर्वंति । एवं सति ‘कस्मात्’ कारणात् ‘अत्र’ प्रवर्ग्ये तौ न जुहोतीति । अस्योत्तरं ‘यत्’ यावेतौ ‘आज्यभागौ’ ‘एते’ यज्ञस्य ‘चंक्षुषी 65 वै’ तथा प्रवर्ग्ये क्रियमाणे रौहिणहोमौ च यज्ञस्य ‘चक्षुषी’ । न खलु चक्षुर्युक्तस्य पुनश्चक्षुरंतरमपेक्षितम् । अतो नेन्नैव ‘चक्षुषा’ चक्षुरंतरं ‘अभ्यारोहयाणि’ अध्यारूढं करवाणि इत्यनेनाभिप्रायेण आज्यभागयागावपि प्रवर्ग्ये न क्रियेते इत्यर्थः ॥ ५२ ॥

Eggeling
  1. And, again, they say, ‘Seeing that elsewhere they offer two butter-portions, wherefore does he not offer them on this occasion?’ Well, those two–to wit, the butter-portions–being the eyes of the sacrifice, and so also the two Rauhiṇa (cakes)–(it is so) lest he should overtop eye by eye.

५३

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र्य्य᳘) य᳘द्वानस्पत्यै᳘र्द्देवे᳘भ्यो जु᳘ह्वत्य᳘थ क᳘स्मादेत᳘न्मृण्म᳘येनैव᳘ जुहोती᳘ति यज्ञ᳘स्य शीर्षच्छिन्न᳘स्य र᳘सो᳘ व्व्यक्षरत्स᳘ ऽइमे[[!!]] द्या᳘वापृथिवी᳘ ऽअगच्छद्यन्मृ᳘दियन्तद्यदा᳘पो ऽसौ त᳘न्मृद᳘श्चापा᳘ञ्च महावीराः᳘ कृता᳘ भवन्ति ते᳘नै᳘वैनमेतद्र᳘सेन स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र्य्य᳘) य᳘द्वानस्पत्यै᳘र्द्देवे᳘भ्यो जु᳘ह्वत्य᳘थ क᳘स्मादेत᳘न्मृण्म᳘येनैव᳘ जुहोती᳘ति यज्ञ᳘स्य शीर्षच्छिन्न᳘स्य र᳘सो᳘ व्व्यक्षरत्स᳘ ऽइमे[[!!]] द्या᳘वापृथिवी᳘ ऽअगच्छद्यन्मृ᳘दियन्तद्यदा᳘पो ऽसौ त᳘न्मृद᳘श्चापा᳘ञ्च महावीराः᳘ कृता᳘ भवन्ति ते᳘नै᳘वैनमेतद्र᳘सेन स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥

मूलम् - Weber

त᳘दाहुः॥
य᳘द्वानस्पत्यै᳘र्देवे᳘भ्यो जु᳘ह्वत्य᳘थ क᳘स्मादेत᳘म् म्।न्म᳘येनैव᳘ जुहोती᳘ति यज्ञ᳘स्य शीर्षछिन्न᳘स्य र᳘सो व्य᳘क्षरत्स᳘ इमे द्या᳘वापृथिवी᳘ अगछद्यन्मृ᳘दियं तद्यदा᳘पोऽसौ त᳘न्मृद᳘श्चापां᳘ च महावीराः᳘ कृता भवन्ति ते᳘नैॗवैनमेतद्र᳘सेन स᳘मर्धयति कृत्स्नं᳘ करोति॥

मूलम् - विस्वरम्

तदाहुः- यद्वानस्पत्यैर्देवेभ्यो जुह्वति । अथ कस्मादेतन्मृण्मयेनैव जुहोतीति । यज्ञस्य शीर्षच्छिन्नस्य रसो व्यक्षरत् । स इमे द्यावापृथिवी अगच्छत् । यन्मृत् । इयं तत् । यदापः । असौ तत् । मृदश्चापां च महावीराः कृता भवंति । तेनैवैनमेतद्रसेन समर्द्धयति । कृत्स्नं करोति ॥ ५३ ॥

सायणः

अथ मृण्मयपात्रस्य होमानर्हतामाशंक्य घर्महोमे तदेव योग्यमित्युपपादयति- तदाहुर्यद्वानस्पत्यै० कृत्स्नं करोतीति । ‘तत्’ तत्र प्रवर्ग्यविषये ‘आहुः’ पुनरन्यच्चोदयंति । यद्यस्मात् ‘देवेभ्यः’ देवानामर्थं ‘वानस्पत्यैः’ वनस्पतिविकारैः दारुमयैः पात्रैः ‘जुह्वति’ । ‘अथ कस्मात्’ कारणात् अत्र ‘एतत्’ घर्मलक्षणं हविः ‘मृण्मयेन’ मृद्विकारेणैव महावीरादिना पात्रेण ‘जुहोति’ । न च एतत् युक्तम् । “न हि मृन्मयमाहुतिमानशे” (तै. सं. २ । ५ । ४) इति श्रुत्यंतरे मृण्मयस्य आहुत्यनर्हतायाः प्रतिपादितत्वादिति शंका । तस्योत्तरं- ‘यज्ञस्य शीर्षच्छिन्नस्य’ इत्यादिकम् । एतच्च प्रथमाध्यायस्य द्वितीयब्राह्मणे मृदाहरणप्रस्तावे व्याख्यातम् ॥ ५३ ॥

Eggeling
  1. And, again, they say, ‘Seeing that they make offering to the gods by means of wooden (vessels), wherefore does he offer this (Gharma) by means of one made of clay?’ When the Sacrifice had its head cut off, its life-sap flowed away and entered the heaven and the earth. Now this (earth) is clay, and yonder (sky) is water; and the Mahāvīra (vessels) are made of clay and water: thus he supplies and completes it (the Pravargya) with that life-sap.

५४

विश्वास-प्रस्तुतिः

स य᳘द्वानस्पत्यः स्यात्॥
(त्प्र᳘) प्प्र᳘दह्येत य᳘द्धिरण्म᳘यः स्यात्प्र᳘लीयेत य᳘ल्लोहम᳘यः स्यात्प्र᳘सिच्येत य᳘दयस्म᳘यः स्यात्प्र᳘दहेत्परीशासाव᳘थैष᳘ ऽए᳘वैत᳘स्मा ऽअ᳘तिष्ठत त᳘स्मादेत᳘न्मृण्म᳘येनैव᳘ जुहोति॥

मूलम् - श्रीधरादि

स य᳘द्वानस्पत्यः स्यात्॥
(त्प्र᳘) प्प्र᳘दह्येत य᳘द्धिरण्म᳘यः स्यात्प्र᳘लीयेत य᳘ल्लोहम᳘यः स्यात्प्र᳘सिच्येत य᳘दयस्म᳘यः स्यात्प्र᳘दहेत्परीशासाव᳘थैष᳘ ऽए᳘वैत᳘स्मा ऽअ᳘तिष्ठत त᳘स्मादेत᳘न्मृण्म᳘येनैव᳘ जुहोति॥

मूलम् - Weber

स य᳘द्वानस्पत्यः स्यात्॥
प्र᳘दह्येत य᳘द्धिरण्म᳘यः स्यात्प्र᳘लीयेत य᳘ल्लोहम᳘यः स्यात्प्र᳘सिच्येत य᳘दयस्म᳘यः स्यात्प्र᳘दहेत्परीशासाव᳘थैष᳘ एॗवैत᳘स्मा᳘अतिष्ठत त᳘स्मादेत᳘म् मृन्म᳘येनैव᳘ जुहोति॥

मूलम् - विस्वरम्

स यद्वानस्पत्यः स्यात्; प्रदह्येत । यद्धिरण्मयः स्यात्; प्रलीयेत । यल्लोहमयः स्यात्; प्रसिच्येत । यदयस्मयः स्यात्; प्रदहेत् परीशासौ । अथैष एवैतस्मा अतिष्ठत । तस्मादेतन्मृण्मयेनैव जुहोति ॥ ५४ ॥

सायणः

अथ विपक्षे बाधमुक्त्वा मृण्मयेनैव होतव्यमित्युपसंहरति- स यद्वानस्पत्य० जुहोतीति । ‘सः’ होमसाधनभूतो महावीरः यद्यदि ‘वानस्पत्यः’ वनस्पतिविकारो दारुमयः ‘स्यात्’ तदा तस्य तपने सति ‘प्रदह्येत’ प्रदग्धो भवेत् । यद्यदि ‘हिरण्मयः’ सुवर्णनिर्मितो महावीरः ‘स्यात्’ तदा तापात् ‘प्रलीयेत’ घृतवत् विलीनो भवेत् । यद्यदि ‘लोहमयः’ कांस्यादिनिर्मितः’ ‘स्यात्’ तदा ‘प्रसिच्येत’ प्रकर्षेण सिक्तो द्रुतो भवेत् । यद्यदि च ‘अयस्मयः’ अयसा निर्मितः ‘स्यात्’ तदा ‘परीशासौ’ महावीरपरिग्रहार्थौ संदंशौ ‘प्रदहेत्’ प्रदग्धौ कुर्यात् । ‘अथ’ यस्मात् कारणात् ‘एषः’ मृण्मय एव महावीरः ‘एतस्मै’ घर्म्माय ‘अतिष्ठत’ तापादिक्षमत्वेन स्थितः अभूत् । ‘तस्मात्’ कारणात् ‘एतत्’ घर्माख्यं हविः ‘मृण्मयेन’ मृद्विकारेण पात्रेण महावीराख्येनैव ‘जुहोति’ ॥ ५४ ॥

Eggeling
  1. But if it were made of wood, it would be

burnt; and if of gold, it would dissolve; and if of copper, it would melt; and if of stone, it would burn the two handling-sticks; and that (Gharma) itself submitted to that (earthen vessel): therefore it is by means of an earthen one that he offers it.

५५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैतद्वै॥ (द्वा ऽआ᳘) आयुरेतज्ज्यो᳘तिः प्र᳘विशति[[!!]] य᳘ ऽएतम᳘नु वा[[!!]] ब्रूते᳘ भक्ष᳘यति वा[[!!]] त᳘स्य व्व्रतचर्य्या या सृ᳘ष्टौ॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैतद्वै॥ (द्वा ऽआ᳘) आयुरेतज्ज्यो᳘तिः प्र᳘विशति[[!!]] य᳘ ऽएतम᳘नु वा[[!!]] ब्रूते᳘ भक्ष᳘यति वा[[!!]] त᳘स्य व्व्रतचर्य्या या सृ᳘ष्टौ॥

मूलम् - Weber

अ᳘थैतद्वै आयुरेतज्ज्योतिः प्रविशति᳘ य एतमनु वा᳘ ब्रूते भक्षयति वा᳘ तस्य व्रतचर्या᳘ या सृष्टौ॥

मूलम् - विस्वरम्

अथ एतद्वा आयुः, एतज्ज्योतिः प्रविशति । य एतमनु वा ब्रूते, भक्षयति वा । तस्य व्रतचर्याया सृष्टौ ॥ ५५ ॥

सायणः

अथ पूर्वब्राह्मणावसानेष्विव एतद्ब्राह्मणाध्येतुः तदर्थानुष्ठातुश्च प्रागुक्तां व्रतचर्यामादिशति- अथैतद्वै० सृष्टाविति । सिद्धमेतत् ॥ ५५ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये चतुर्दशकाण्डे तदन्तर्भूते प्रथमे प्रवर्ग्यकाण्डे द्वितीये ऽध्याये द्वितीयं ब्राह्मणम् ॥ १४ । (१) २ । २ ॥

वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये चतुर्दशकाण्डे तदन्तर्भूते प्रथमे प्रवर्ग्यकाण्डे द्वितीयो ऽध्यायः समाप्तः ॥ (१४ (१)-२) ॥

Eggeling
  1. And, verily, whosoever either, teaches, or partakes of, this (Pravargya) enters that life, and that light: the observance thereof is the same as at the creation 67.

  1. इम᳘मन्त र᳘क्षाᳫसि A. - ibid. त᳘त्पुरै᳘वाह A. ↩︎

  2. समु᳘द्रवन्ति A. E ↩︎

  3. उवटमहीधरादिभाष्येषु “सहेरते” इति श्रुतिमनुसृत्य सरिरशब्दार्थो भाषितः । सरिराय एतस्मात्सरिरात् सर्वाणि भूतानि लब्धकार्याणि संति सह ईरते गच्छंति इति उवटः । सरिराय सह ईरते गच्छंति सर्वभूतानि सिद्धार्थानि यस्मात् स सरिरः तस्मै वातायेति महीधरः ॥ ↩︎

  4. तच्च कर्म क्लेशात्मकं बोध्यम् । शिमीति कर्मनाम क्लेशात्मकं चैतत् अक्लेशदाय इति उवटभाष्यात् क्लेशात्मकं कर्म शिमि तन्न ददातीति अशिमिदः तस्मै क्लेशनिवर्तकाय वाताय इति महीधरभाष्याच्च ॥ ↩︎

  5. व्यक्तार्था अपरा ऽपि श्रुतिः । त्रया वै देवाः व्वसवो रुद्रा ऽआदित्याः तेषां विभक्तानि सवनानि वसूनामेव प्रातःसवन‍ँ रुद्राणाम्माध्यंदिनँ सवनमादित्यानां तृतीयसवनं तद्वा अभिन्नमेव वसूनाम्प्रातःसवनमामिश्रँ रुद्राणाम्माध्यंदिनँ सवनममिश्रमादित्यानां तृतीयसवनम्"- इति । श. प. ४ । ३ । ५ । १ ॥ ↩︎

  6. 480:1 See III, 4, 5, 1, where it is stated that the morning-pressing belongs to the Vasus, the midday-pressing to the Rudras, and the third pressing to the Ādityas. ↩︎ ↩︎

  7. 480:2 Or, for the best (or eldest brother). Cf. III, 9, 4, 9. ↩︎

  8. 481:1 See p. 465, note 2. ↩︎

  9. 481:2 See XIV, 1, 3, 26. ↩︎

  10. “स्वाहा घर्म्मः पित्रे” इति जपित्वा । का. श्रौ. सू. २६ । ९० । ↩︎

  11. अतिक्रम्याश्राव्याह घर्म्मस्य यजेति । व्वषट्कृते जुहोति व्विश्वा आशा इति । का. श्रौ. सू. २६ । ९० । ९१ । ↩︎

  12. 482:1 Viz. past the Āhavanīya, along its back (or western) side, to the south side of the fire. ↩︎

  13. 482:2 See part i, p. 132, note; III, 4, 4, 11 seqq. ↩︎

  14. दिवि धा इति त्रिरुत्कंपयति । का. श्रौ. सू. २६ । ९२ । इति सूत्रव्याख्याने महावीरं इति कर्कदेवयाज्ञिकमहीधरादयो भाष्यकृतः । ↩︎

  15. स्वाहा ऽग्नय ऽइत्यनुवषट्कृते । का. श्रौ. सू. २६ । ९३ । जुहोतीत्यर्थः । ↩︎

  16. अश्वि᳘ना घर्मं᳘ A. ↩︎

  17. According to the संहिता (३८. १२.) the accentuation ought to be thus : हा᳘र्द्वानम᳘हर्दिवा᳘भिरू. ↩︎

  18. 483:1 The exact meaning of ‘hārdvānam’ is doubtful. Mahīdhara analyses it by ‘hārd’ = ‘hr̥d’, + ‘vāna,’ blowing, going, hence ‘heart-wafting, going to the heart = dear to the heart.’ The St. Petersb. Dict. takes the word to be ‘hārd-van,’ in the sense of ‘herzstärkend’ (heart-sustaining, invigorating–? literally, ‘possessed of heartiness’). The Taitt. Ār. has ‘hārdivānam’ instead. The author of the Brāhmaṇa apparently considers the term as obscure, and uses this circumstance for his own symbolic purposes. ↩︎

  19. 483:2 Perhaps the author means to characterise also the epithet ‘ahar-diva’ (lit. ‘day-daily,’ cf. Germ. tagtäglich; Aberdonian ‘daily-day’) as obscure. Mahīdhara takes it to mean ‘relating to morning and evening,’ as applying to the two performances of the Pravargya, ↩︎

  20. वानशब्दार्थः सीवनम् । “वानं शुष्कफले शुष्के सीवने गमने कटे । जलसंप्लुतवातोर्मिसुरंगासौरभीषु च ।” इति हैमात् । सीवनं नाम स्यूतिः । “सेवनं सीवनं स्यूतिः" इत्यमरात् ॥ ↩︎ ↩︎

  21. 484:1 They approved of it by saying ‘Well done’; Mahīdh. ↩︎

  22. इषे पिन्वस्वेति पिन्वमानमनुमन्त्रयते । का. श्रौ. सू. २६ । ९६ । हुतं घर्ममेव । ↩︎

  23. 484:2 That is, as would seem, he speaks the anumantraṇa in order to consecrate whatever milk might have been spilled in bubbling over. Possibly, however, he is to do so at the time when the pot bubbles over (though the ‘atha’ would rather be out of place in that case). The Taittirīyas differ somewhat on this point of the performance. After the Gharma-milk has been offered, the Pratiprasthātr̥ fills the Mahāvīra pot, whilst it is held over the fire, with boiled sour curds and whey (dadhi), whilst muttering the text, ‘The Aśvins drank the Gharma . . .,’ and with the texts; ‘For freshness swell thou,’ &c. ↩︎

  24. प्रा᳘ङ्विवो᳘दङु᳘ A. ibid. एष वै᳘ धर्मो A. ↩︎

  25. धर्म्मा ऽसीत्युत्क्रामत्युत्तरपूर्वार्द्धम् । का. श्रौ. सू. २६ । ९७ । ↩︎ ↩︎

  26. 485:1 The author apparently takes ‘ameni’ in the sense of ‘amanyu.’ The St. Petersb. Dict. assigns to it the meaning ’not shooting, incapable of shooting.’ ↩︎

  27. 486:1 For these pieces of wood, or large chips, of Vikaṅkata wood (Flacourtia sapida) which were laid round the pot, see XIV, 1, 3, 26. They are dipped into the remains of the hot milk and ghee, the liquid adhering to them being then offered. ↩︎

  28. 486:2 That is, that one of the three fresh sticks enclosing the fire which is laid down first, along the back, or west side, and forms the base of a triangle the apex of which points eastwards. Cf. I, 3, 4, 1 seqq. ↩︎

  29. The accent of प्रतिरतं᳘ is deserving notice. ↩︎

  30. अ᳘हु᳘त्वै A ↩︎

  31. 486:3 This meaning is, by the St. Petersb. Dict., assigned to ‘prati-rava’ (otherwise ’echo’), the proper term for the sounding-holes being ‘upa-rava,’ cf. III, 5, 4, 1, where they are likened to the eyes and ears, as channels of the vital airs. ↩︎

  32. अ᳘हु᳘त्वै A ↩︎

  33. 487:1 If this rendering (St. Petersb. Dict.) of ūrdhvabarhis’ is correct–the term being apparently based on the Fathers’ epithet ‘barhishadaḥ,’ ‘seated on the barhis’ (sacrificial grass-covering of the altar-ground)–the force of ‘ūrdhva’ in the compound is very peculiar. Mahīdhara takes it in the sense of ‘having their barhis pointed upwards,’ i.e. towards the east (!), the peculiar feature of the barhis in the present case–as far as the participation of the Fathers in the drinking of the Gharma is concerned–being its having the tops of the grass-stalks turned to the east instead of to the south, as is the case in all ceremonies relating to the Fathers. The term ‘ūrdhvabarhis’ might possibly mean ‘having their (special) barhis above,’ i.e. in the world of the Fathers, where they would be supposed to partake of the libations of hot milk; whilst yet another (suggested by the next paragraph) would be that of ‘having the barhis above them;’ which would, however, be more appropriate if the secreting of the stick under the barhis applied to the present, instead of the next one. ↩︎

  34. 487:2 The comm. on Kāty. XXVI, 6, 14 calls this part of the barhis ‘ātithyābarhis’ (?). ↩︎

  35. 487:3 And accordingly, without looking at it. ↩︎

  36. सप्तमं सर्वलेपाक्तं दक्षिणेक्षमाणः प्रतिप्रस्थात्रे प्रयच्छति । का. श्रौ. सू. २६ । १०२ । ↩︎

  37. तँ स ऽ उत्तरतः शालाया ऽउदञ्चन्निरस्यति । का. श्रौ. सू. २६ । १०३ । ↩︎

  38. 488:1 Or, ‘having his praises sung by the chanters,’ as Mahīdhara takes ‘rudrahūti.’ ↩︎

  39. स्वाहा स ज्योतिषेत्युपयमन्यामासिञ्चति घर्मम् । का. श्रौ. सू. २६ । १०४ । ↩︎

  40. रौहिणं जुहोति । का. श्रौ. सू. २६ । १०५ । मन्त्रक्रमेणोत्तरँ रात्रिरिति सायम् । का. श्रौ. सू. २६ । ७१ । इति यत्प्रागुक्तं तस्यायं मन्त्रपाठक्रमप्राप्तो होमकालः । अतः “अहः केतुना” इति द्वितीयं रौहिणं प्रातर्जुहोति । “रात्रिः केतुना" इति सायं जुहोतीति सूत्रार्थः । ↩︎ ↩︎ ↩︎

  41. 489:1 Viz. XIV, 2, 1, 1. ↩︎

  42. 489:2 Viz. at the hands of the officiating priests, by saying to each, Invite me, N.N. whereupon each of them replies, “Thou art invited.’ Cf. XII, 8, 3, 30. According to Āpast. Śr. XV, 11, 12, the priests and the Sacrificer partake of the residue in the order–Hotr̥, Adhvaryu, Brahman, Pratiprasthātr̥, Agnīdh, and Sacrificer; or, optionally (ib. 14), only the Sacrificer drinks of it, whilst the priests merely smell it. Cf. the eating of the whey (of clotted curds), II, 4, 4, 25, to which the present eating of the remains is stated, by Kāty. XXVI, 6, 20, to be analogous; whilst the offering is said to be on the model of the Agnihotra. ↩︎

  43. “उपश्रितानि च प्रहरति” । का. श्रौ. सू. २६ । १०६ । ↩︎ ↩︎

  44. उपसदन्ते प्रवर्ग्योत्सादनम् । का. श्रौ. सू. २६ । ११५ । ↩︎ ↩︎

  45. 489:3 The usual place to do so is over the pit (cātrāla), cf. III, 8, 2, 30; XII, 8, 1, 22; whilst the utensils are cleaned in the Mārjālīya. On the present occasion a mound of sand (or covered with sand)–the so-called ‘ucchishṭa-khara’ (mound of remains)–is raised in the south part of the śālā, close to the mat or hurdle forming its wall, just east of the southern door. According to Kāty. XXVI, 6, 21 seqq., Āpast. XV, 12, 1 seqq., the Mahāvīra and the remaining apparatus are then in solemn fashion (carried round in front of the Āhavanīya, and) placed on the throne-seat, and consecrated (or appeased) by being sprinkled with water. ↩︎

  46. शतपथे अस्मिन्नेव कांडे “स यदैतदातिथ्येन प्रचरति । अथ प्रवर्ग्येण चरिष्यन्पुरोपसदः” (श. प. १४ । १ । ३ । १) इति । “स प्रव्वृणक्त्यर्च्चिरसि” इति च । (श. प. १४ । १ । ३ । १७) ↩︎

  47. इति मीमांसकानां मतमिति । तथा चात्र शास्त्रदीपिका (अ. ३ पा. ३ अ. १२ सू. ३२ । ३२) “तस्मात्प्रयोगांगं प्रथमयज्ञप्रयोगे न प्रवृंज्यादिति । यत्तु “अग्निष्टोमे प्रवृणक्ति” इति वाक्यांतरं तत् अनन्यार्थत्वात् प्रतिषिद्धप्रथमप्रयोगविषयमेव प्रतिप्रसवार्थम् । तेनाग्निष्टोमप्रथमप्रयोगे विकल्पः । स च व्यवस्थितः । वचनांतरवशात् । तथाहि श्रूयते- कामं तु यो ऽनूचानः स्यात्तस्य प्रवृंज्यात् इति । तेनाग्निष्टोमप्रथमप्रयोगे अनूचानस्य नित्यं प्रयोगः । अन्येषां नित्यमप्रयोगः । अतिरात्रे प्रथमाहारे तु तत्प्रथममाह्रीयते क्रियते यः स प्रथमाहारः तस्मिन् प्रथमकर्तव्ये इत्यर्थः । सर्वेषामेवाप्रयोगः प्रतिप्रसवाभावात्” इति । इत्थं मीमांसकमतं काठकादिशाखांतरपरं व्यक्तीकृत्य वाजसनेयिपरं शातपथिकं मतं व्यनक्ति- “प्रथमयज्ञे प्रवृंजने को दोष इत्यत आहेत्यादिना । ↩︎

  48. आ᳘थुः प्रमायुको A. See आ᳘युर्देव᳘ताः १३. ५. २. १०. ↩︎

  49. “तस्माद्वितीय एव वा तृतीय एव वा” इत्यत्र अग्निष्टोमसंस्थे इत्यर्थो ऽवसीयताम् । ↩︎ ↩︎ ↩︎

  50. एकः सर्ववेदसः क्रतुर्ब्राह्मणकर्तृकः पुरुषमेधः । “पुरुषमेधस्त्रयोविँशतिदीक्षो ऽतिष्ठाकामस्य” । “ब्राह्मणराजन्ययोः” । “सर्वस्वं ब्राह्मणस्य” । का. श्रौ. सू. २१ । १ । १ । २ । १५ इति ब्राह्मणकर्तृके पुरुषमेधे सर्वस्वं दक्षिणात्वेन देयमिति विधिः । तथा अपरः सर्ववेदसः क्रतुः सर्वमेधः । “सर्वमेधः सर्वकामस्य” । “पुरुषमेधवद्दक्षिणा सभूमि” इति च । का. श्रौ. सू. २१ । २ । १-१३ ॥ ↩︎

  51. बृहत् रथंतरं वैरूपं वैराजं शाक्वरं रैवतं इति षट्सामानि पृष्ठशब्दानूच्यमानानि । तांड्यब्राह्म. । ७ । ६ । ७ । तै. ब्रा. । १ । २ । २ । ३ । छंदोगानां निदानसूत्रं च- “बृहद्रथन्तरवैराजशाक्वरवैरूपरैवतानि वैश्वजितानि पृष्ठानीति । ↩︎

  52. “इष्टिसोमपशवो भिन्नतन्त्राः कालभेदात्” । का. श्रौ. सू. १५ । १ । २ । “चातुर्मास्यप्रयोगः फाल्गुन्याम्” का. श्रौ. सू. । १५ । १ । १५ । एतत्सूत्रोल्लेखस्तु चातुर्मास्यांतर्भूतदर्वीहोमप्रदर्शको ज्ञेयः । ↩︎

  53. “यजमानाः सर्वे सत्रेषु” का. श्रौ. सू. १२ । १ । ७ ॥ ↩︎

  54. 490:1 That is, at a sacrifice for which this constitutes the sacrificial fee. ↩︎

  55. 491:1 See p. 139, note 1; and XII, 3, 3, 6. ↩︎

  56. अपवर्ग्यो᳘ऽथ A. ↩︎

  57. “शिरो ह वा एतद्यज्ञस्य यत्पुरोडाशः । स यान्येवेमानि शीर्ष्णः कपालानि । एतान्येवास्य कपालानि । मस्तिष्क एव पिष्टानि ।” श. प. १ । २ । १ । २ । इति शतपथे ऽपि मस्तिष्कश्रुतौ पुरोडाशस्य यज्ञशिरस्त्वं स्पष्टमेवास्तीति बोध्यम् । ↩︎

  58. “शिरो वै यज्ञस्य हविर्द्धानं तत्” श. प. ३ । ६ । १ । १ इति शतपथे ऽपि हविर्द्धानस्य यज्ञशिरस्त्वं व्यक्तमेव । ↩︎

  59. 491:2 For the ‘payasyā’ see part i, p. 178, note 4; p. 381, note 2. ↩︎

  60. 491:3 That is, the cart or carts on which the offering-material (including the Soma-plants) is contained, as also the shed in which they are placed. ↩︎

  61. “शिरो वै यज्ञस्यातिथ्यम्। बाहू प्रायणीयोदयनीयौ । अभितो वै शिरो बाहू भवतः । तस्मादभित ऽआतिथ्यम् । एते हविषी भवतः । प्रायणीयश्चेदयनीयश्च” श. प. ३ । २ । ३ । २० । इति शतपथे ऽपि आतिथ्यस्य यज्ञशिरस्त्वं व्यक्तमेव । ↩︎ ↩︎

  62. 491:4 See III, 2, 3, 20; 4, 1, 1. ↩︎

  63. शिरो ह वा ऽएतद्यस्य यत्प्रणीताः । स यत्प्रणीताः प्रणयति । शिर एवैतद्यज्ञस्य संस्करोति । स विद्याच्छिर ऽएव म ऽएतत्संस्क्रियत इति” । (श. प. ११ । २ । ६ । १) इति शतपथे प्रणीतानां यज्ञशिरस्त्वं व्यक्तमस्ति । ↩︎

  64. 492:1 See part i, p. 9, note. ↩︎

  65. “पंच प्रयाजाः । इम ऽएवास्य ते शीर्षण्याः पंच प्राणाः । मुखमेवास्य प्रथमः प्रयाजः । दक्षिणा नासिका द्वितीयः । सव्या नासिका तृतीयः । दक्षिणः कर्णश्चतुर्थः । सव्यः कर्णः पंचमः” (श. प. । ११ । २ । ६ । ४ ।) इति । तथा “त्रयो ऽनुयाजाः । इम ऽएवास्य ते ऽवाञ्चस्त्रयः प्राणाः” (श. प. ११ । २ । ६ । ९) इति शतपथे प्रयाजानुयाजानां प्राणात्मकत्वं व्यक्तमेव । ↩︎ ↩︎

  66. 492:2 See p. 469, note 1. ↩︎

  67. 493:1 See p. 458, note 1. ↩︎