०१

विश्वास-प्रस्तुतिः

अथा᳘तो रोहिणौ᳘ जुहोति॥
(त्य᳘) अ᳘हः केतु᳘ना जुषताᳫँ᳭ सुज्यो᳘तिर्ज्ज्यो᳘तिषा स्वाहे᳘त्युभा᳘वेते᳘न य᳘जुषा प्राता रा᳘त्रिः केतु᳘ना जुषताᳫँ᳭ सुज्यो᳘तिर्ज्ज्यो᳘तिषा स्वाहे᳘त्युभा᳘वेते᳘न य᳘जुषा सायम्॥

मूलम् - श्रीधरादि

अथा᳘तो रोहिणौ᳘ जुहोति॥
(त्य᳘) अ᳘हः केतु᳘ना जुषताᳫँ᳭ सुज्यो᳘तिर्ज्ज्यो᳘तिषा स्वाहे᳘त्युभा᳘वेते᳘न य᳘जुषा प्राता रा᳘त्रिः केतु᳘ना जुषताᳫँ᳭ सुज्यो᳘तिर्ज्ज्यो᳘तिषा स्वाहे᳘त्युभा᳘वेते᳘न य᳘जुषा सायम्॥

मूलम् - Weber

अथा᳘तो रोहिणौ᳘ जुहोति॥
अ᳘हः केतु᳘ना जुषताᳫं सुज्यो᳘तिर्ज्यो᳘तिषा स्वाहे᳘त्युभा᳘वेते᳘न य᳘जुषा प्राता रा᳘त्रिः केतु᳘ना जुषताᳫं सुज्यो᳘तिर्ज्यो᳘तिषा स्वाहे᳘त्युभा᳘वेते᳘न य᳘जुषा सायम्॥

मूलम् - विस्वरम्

अथ गवाजपयो ऽवसेचनं ब्राह्मणम् ।

अथातो रौहिणौ जुहोति । “अहः केतुना जुषतां सुज्योतिर्ज्योतिषा स्वाहा”- इति । उभावेतेन यजुषा प्रातः । “रात्रिः केतुना जुषतां सुज्योतिर्ज्योतिषा स्वाहा”- (वा. सं. ३७ । २१) इति । उभावेतेन यजुषा सायम् ॥ १ ॥

सायणः

यस्य निश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

घर्मस्य सृष्टिसंभारौ तथा घर्मसमिंधनम् । अवकाशोपस्थितिश्च प्रथमे ऽध्याय ईरिताः ॥ २ ॥

अथ द्वितीयाध्यायस्य प्रथमब्राह्मणेन आग्यपूर्णे महावीरे गवाजयोः पयसोः आसेचनं विधत्ते तत्र तयोर्दोहनात्पूर्वं तदासेचनोत्तरकालं च होतव्ययोः रौहिणपुरोडाशयोः होमं विधत्ते- अथातो रोहिणौ जुहोतीति । ‘अथ’ पत्नीवाचनानंतरं यतः एतौ रौहिणहोमौ प्रवर्ग्यस्य आज्यभागवत् चक्षुष्ट्वेन वक्ष्यमाणप्रकारेण संस्तुतौ । ‘अतः’ अस्मात्कारणात् प्रवृंजनात् पूर्वं ‘रोहिणौ’ पुरोडाशौ ‘जुहोति’ । तत्र प्रातःकालीने 1 प्रवर्ग्ये “अहः केतुना” इत्येतेन ‘यजुषा’ ‘उभौ’ पुरोडाशौ जुहोति । सायंकालीने 2 तु प्रवर्ग्ये “रात्रिः केतुना” इत्येतेन ‘यजुषा’ ‘उभौ’ रौहिणौ जुहोति ॥ १ ॥

Eggeling
  1. He now offers (the first of) the two Rauhiṇa (cakes) 3:–(Vāj. S. XXXVII, 21), ‘May the day

be pleased with its brightness, the well-lighted with its light, hail!’ with this text both (cakes are offered) in the morning;–‘May the night be pleased with its brightness, the well-lighted with its light, hail!’ with this text both (cakes are offered) in the evening.

०२

विश्वास-प्रस्तुतिः

(न्त) तद्य᳘द्रौहिणौ᳘ जुहो᳘ति॥
(त्य) अग्नि᳘श्च ह वा᳘ ऽआदित्य᳘श्च रौहिणा᳘वेता᳘भ्याᳫँ᳭ हि᳘ देव᳘ताभ्यां य᳘जमानाः स्वर्गं᳘ लोकᳫँ᳭ रो᳘हन्ति॥

मूलम् - श्रीधरादि

(न्त) तद्य᳘द्रौहिणौ᳘ जुहो᳘ति॥
(त्य) अग्नि᳘श्च ह वा᳘ ऽआदित्य᳘श्च रौहिणा᳘वेता᳘भ्याᳫँ᳭ हि᳘ देव᳘ताभ्यां य᳘जमानाः स्वर्गं᳘ लोकᳫँ᳭ रो᳘हन्ति॥

मूलम् - Weber

तद्य᳘द्रोहिणौ᳘ जुहो᳘ति॥
अग्नि᳘श्च ह वा᳘ आदित्य᳘श्च रौहिणा᳘वेता᳘भ्याᳫं हि᳘ देव᳘ताभ्यां य᳘जमानाः स्वर्गं᳘ लोकं 4 रो᳘हन्ति॥

मूलम् - विस्वरम्

तद्यद्रौहिणौ जुहोति । अग्निश्च ह वा आदित्यश्च रौहिणौ । एताभ्यां हि देवताभ्यां यजमानाः स्वर्गं लोकं रोहन्ति ॥ २ ॥

सायणः

अथ एतौ पुरोडाशौ अग्न्यादित्यात्मना स्तौति- तद्यद्रौहिणौ जुहोतीति । तत्तत्र ‘यत्’ यस्मात् ‘रौहिणौ’ पुरोडाशौ ‘जुहोति’ । तस्मात् ‘एताभ्यां’ साधनाभ्यां यजमानः ‘स्वर्गं लोकं आरोहति’ इति वाक्यशेषो ऽध्याहर्तव्यः । अथैतदुपपाद्यते- यौ एतौ ‘रोहिणौ’ तौ क्रमेण ‘अग्निश्चादित्यश्च’ खलु देवताद्वयात्मकौ ‘एताभ्यां हि’ सायंप्रातःकालीनाग्निहोत्रदेवताभ्यां अग्निहोत्रानुष्ठायिनो ‘यजमानाः’ तत्फलभूतं ‘स्वर्गं लोकं रोहंति’ आरोहन्ति । तस्मात् रोहणसाधनत्वात् अग्न्यादित्यावेव रौहिणौ । अतः तदात्मकरौहिणहोमात् यजमानो ऽपि स्वर्गं लोकं प्राप्नोतीत्यर्थः ॥ २ ॥

Eggeling
  1. And as to why he offers two Rauhiṇa (cakes),–the two Rauhiṇas doubtless are Agni and Āditya (the sun), for by means of these two deities sacrificers ascend (ruh) to heaven.

०३

विश्वास-प्रस्तुतिः

(न्त्य᳘) अ᳘थो ऽअहोरात्रे वै᳘ रौहिणौ[[!!]]॥
(णावा) आदित्यः᳘ प्रव᳘र्ग्यो ऽमुन्त᳘दादित्य᳘महोरात्रा᳘भ्याम्प᳘रिगृह्णाति त᳘स्मादे᳘षो ऽहोरात्रा᳘भ्याम्प᳘रिगृहीतः᳘॥

मूलम् - श्रीधरादि

(न्त्य᳘) अ᳘थो ऽअहोरात्रे वै᳘ रौहिणौ[[!!]]॥
(णावा) आदित्यः᳘ प्रव᳘र्ग्यो ऽमुन्त᳘दादित्य᳘महोरात्रा᳘भ्याम्प᳘रिगृह्णाति त᳘स्मादे᳘षो ऽहोरात्रा᳘भ्याम्प᳘रिगृहीतः᳘॥

मूलम् - Weber

अ᳘थो अहोरात्रे वै᳘ रौहिणौ᳟॥
आदित्यः᳘ प्रव᳘र्ग्योऽमुं त᳘दादित्य᳘महोरात्रा᳘भ्याम् प᳘रिगृह्णाति त᳘स्मादेॗषोऽहोरात्रा᳘भ्याम् 5 प᳘रिगृहीतः॥

मूलम् - विस्वरम्

अथो अहोरात्रे वै रौहिणौ । आदित्यः प्रवर्ग्यः । अमुं तदादित्यमहोरात्राभ्यां परिगृह्णाति । तस्मादेषो ऽहोरात्राभ्यां परिगृहीतः ॥ ३ ॥

सायणः

अथ अहोरात्रात्मना रौहिणौ स्तौति- अथो अहोरात्रे वै रौहिणाविति । ‘अथो’ अपि च ‘अहोरात्रे वै’ अहोरात्रात्मकौ खलु रौहिणपुरोडाशौ । तयोर्मध्ये वर्तमानः उद्यन् अस्तं गच्छन् ‘आदित्यः प्रवर्ग्य’ । तत्ततः ‘अमुं’ आदित्यात्मकं प्रवर्ग्यम् अहोरात्राभ्यामेव ‘परिगृह्णाति’ । यस्मादेवं ‘तस्मात्’ ‘एषः’ दिवि वर्तमान आदित्यः ‘अहोरात्राभ्यां परिगृहीतः’ पुरतः पृष्ठतश्च परिवृतः ॥ ३ ॥

Eggeling
  1. And, indeed, the Rauhiṇas are also day and night, and the Pravargya is the sun: he thus encompasses yonder sun by the day and the night, whence he is encompassed by the day and the night.

०४

विश्वास-प्रस्तुतिः

(तो᳘ ऽथो) अ᳘थो ऽइमौ वै᳘ लोकौ᳘ रौहिणौ᳘॥
(णावा) आदित्यः᳘ प्रव᳘र्ग्यो ऽमुं त᳘दादित्य᳘माभ्यां᳘ लोका᳘भ्याम्प᳘रिगृह्णाति त᳘स्मादेष᳘ ऽआभ्यां᳘ लोका᳘भ्याम्प᳘रिगृहीतः᳘॥

मूलम् - श्रीधरादि

(तो᳘ ऽथो) अ᳘थो ऽइमौ वै᳘ लोकौ᳘ रौहिणौ᳘॥
(णावा) आदित्यः᳘ प्रव᳘र्ग्यो ऽमुं त᳘दादित्य᳘माभ्यां᳘ लोका᳘भ्याम्प᳘रिगृह्णाति त᳘स्मादेष᳘ ऽआभ्यां᳘ लोका᳘भ्याम्प᳘रिगृहीतः᳘॥

मूलम् - Weber

अ᳘थो इमौ वै᳘ लोकौ᳘ रौहिणौ᳟॥
आदित्यः᳘ प्रव᳘र्ग्योऽमुं त᳘दादित्य᳘माभ्यां᳘ लोका᳘भ्याम् प᳘रिगृह्णाति त᳘स्मादेष᳘ आभ्यां᳘ लोका᳘भ्याम् प᳘रिगृहीतः॥

मूलम् - विस्वरम्

अथो इमौ वै लोकौ रौहिणौ । आदित्यः प्रवर्ग्यः । अमुं तदादित्यमाभ्यां लोकाभ्यां परिगृह्णाति । तस्मादेष आभ्यां लोकाभ्यां परिगृहीतः ॥ ४ ॥

सायणः

अथ द्यावापृथिव्यात्मना रौहिणौ स्तौति- अथो ऽइमौ वै लोकौ रौहिणाविति । ‘अथो’ अपि च ‘इमौ’ द्यावापृथिव्यात्मकौ ‘लोकौ’ खलु ‘रौहिणौ’ रौहिणपुरोडाशौ । प्रवर्ग्यस्तु तयोर्मध्ये वर्तमानः ‘आदित्यः’ । ‘तत्’ ततः ‘अमुमादित्यं’ आदित्यात्मकं प्रवर्ग्यम् आभ्यामेव ‘लोकाभ्यां परिगृह्णाति’ परितः उभयतः गृह्णाति । यस्मात् एवं प्रवर्ग्यः पुरोडाशाभ्यां परिगृहीतः, तस्मादेव कारणात् ‘एषः’ आदित्यः आभ्यामेव लोकाभ्यां ‘परिगृहीतः’ अधस्तात् उपरिष्टाच्च संवृतो वर्तते ॥ ४ ॥

Eggeling
  1. And, indeed, the Rauhiṇas are also these two

worlds, and the Pravargya is the sun: he thus encompasses yonder sun by these two worlds, whence he is encompassed by these two worlds.

०५

विश्वास-प्रस्तुतिः

(तो᳘ ऽथो) अ᳘थो चक्षुषी[[!!]] वै᳘ रौहिणौ॥
शि᳘रः प्रव᳘र्ग्यः शीर्षंस्तच्च᳘क्षुर्द्दधाति॥

मूलम् - श्रीधरादि

(तो᳘ ऽथो) अ᳘थो चक्षुषी[[!!]] वै᳘ रौहिणौ॥
शि᳘रः प्रव᳘र्ग्यः शीर्षंस्तच्च᳘क्षुर्द्दधाति॥

मूलम् - Weber

अ᳘थो च᳘क्षुषी वै᳘ रौहिणौ॥
शि᳘रः प्रव᳘र्ग्यः शीर्षंस्तच्च᳘क्षुर्दधाति॥

मूलम् - विस्वरम्

अथो चक्षुषी वै रौहिणौ । शिरः प्रवर्ग्यः । शीर्षंस्तच्चक्षुर्दधाति ॥ ५ ॥

सायणः

अथ एतौ चक्षुष्ट्वेन स्तौति- अथो चक्षुषी वै रौहिणाविति । ‘अथो’ अपि च एतौ रौहिणपुरोडाशौ यज्ञस्य चक्षुःस्थानीयौ । तस्य ‘शिरः प्रवर्ग्यः’ । तत्तथा च ‘शीर्षन्’ शिरसि ‘चक्षुर्द्दधाति’ धारितवान् स्थापितवान् भवति ॥ ५ ॥

Eggeling
  1. And, indeed, the Rauhiṇas are also the two eyes, and the Pravargya is the head: he thus places the eye in the head.

०६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ र᳘ज्जुमा᳘दत्ते॥
देवे᳘स्य त्वा सवितुः᳘ प्रस᳘वे ऽश्वि᳘नोर्ब्बाहु᳘भ्याम्पूष्णो ह᳘स्ताभ्यामा᳘ददे᳘ ऽदित्यै रा᳘स्ना ऽसी᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ र᳘ज्जुमा᳘दत्ते॥
देवे᳘स्य त्वा सवितुः᳘ प्रस᳘वे ऽश्वि᳘नोर्ब्बाहु᳘भ्याम्पूष्णो ह᳘स्ताभ्यामा᳘ददे᳘ ऽदित्यै रा᳘स्ना ऽसी᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - Weber

अ᳘थ र᳘ज्जुमा᳘दत्ते॥
देवे᳘भ्यस्त्वा सवितुः᳘ प्रसॗवेऽश्वि᳘नोर्बाहु᳘भ्याम् पूष्णो ह᳘स्ताभ्यामा᳘ददे रा᳘स्नासी᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - विस्वरम्

अथ रज्जुमादत्ते- “देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे ऽदित्यै रास्ना ऽसि ।”- (वा. सं. ३८ । १) इति । असावेव बंधुः ॥ ६ ॥

सायणः

अथ दोहनार्थं समन्त्रकं रज्ज्वादानं 6 विधत्ते- अथ रज्जुमादत्ते० बन्धुरिति । ‘अथ’ रौहिणहोमानन्तरं “देवस्य त्वेति” मन्त्रेण गोर्बंधनार्थं रज्जुमादत्ते । सवित्रश्व्यादिबहुदेवताप्रकाशकत्वात् ‘असावेव’ मन्त्रः ‘बन्धुः’ । छिन्नस्य यज्ञशिरसः बन्धकः ॥ ६ ॥

Eggeling
  1. He now takes a rope, with (Vāj. S. XXXVIII, 1), ‘At the impulse of the divine Savitr̥, I take thee, with the arms of the Aśvins, with the hands of Pūshan: Aditi’s 7 zone thou art;’–the mystic import of this is the same as before 8.

०७

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ गामा᳘ह्वयति॥
जघ᳘नेन गा᳘र्हपत्यं यन्नि᳘ड ऽएह्य᳘दित ऽए᳘हि स᳘रस्वत्येहीती᳘डा हि गौर᳘दितिर्हि गौः स᳘रस्वती हि गौर᳘थोच्चैरा᳘ह्वयति नाम्ना᳘ ऽसावेह्य᳘सावेही᳘ति * त्रिः॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ गामा᳘ह्वयति॥
जघ᳘नेन गा᳘र्हपत्यं यन्नि᳘ड ऽएह्य᳘दित ऽए᳘हि स᳘रस्वत्येहीती᳘डा हि गौर᳘दितिर्हि गौः स᳘रस्वती हि गौर᳘थोच्चैरा᳘ह्वयति नाम्ना᳘ ऽसावेह्य᳘सावेही᳘ति * त्रिः॥

मूलम् - Weber

अ᳘थ गामा᳘ह्वयति॥
जघ᳘नेन गा᳘र्हपत्यं यन्नि᳘ड एह्य᳘दित ए᳘हि स᳘रस्वत्येहीती᳘डा हि गौर᳘दितिर्हि गौः स᳘रस्वती हि गौर᳘थो तैरा᳘ह्वयति नाम्ना᳘सावेह्य᳘सावेही᳘ति त्रिः॥

मूलम् - विस्वरम्

अथ गामाह्वयति जघनेन गार्हपत्यं यन्- “इड एहि, अदित एहि, सरस्वत्येहि”- इति । इडा हि गौः । अदितिर्हि गौः । सरस्वती हि गौः । अथोच्चैराह्वयति नाम्ना- “असावेहि, असावेहि” 6- (वा० सं० ३८ । २) इति त्रिः ॥ ७ ॥

सायणः

अथ दैवीभिः संज्ञाभिः 6 घर्मदुहो गोराह्वानं विधत्ते- अथ गामाह्वयति० सरस्वत्येहीतीति । ‘अथ’ रज्ज्वादानानन्तरं ‘जघनेन गार्हपत्यं यन्’ गार्हपत्यस्यादूरेण पश्चिमदेशेन गच्छन् अध्वर्युः “इड एहि” इत्यादिभिः त्रिभिर्वाक्यैरुपांशु गामाह्वयति । इडा ऽदितिसरस्वतीशब्दाः गोर्वैदिकाः संज्ञाः । तथा च तैत्तिरीयके गर्गत्रिरात्रे 9 सहस्रतमीं गां प्रस्तुत्य एवमाम्नायते- “इडे रंते ऽदिते सरस्वति प्रिये प्रेयसि महि विश्रुति एतानि ते अघ्निये नामानि” (तै. सं. ७ । १ । ६ ।)” इति । इमां प्रसिद्धिं हिशब्देन द्योतयन् इडादिशब्दाः गोर्नामानीति व्याचष्टे- इडा हि० हि गौरिति । अथ लौकिकेन नाम्ना तस्या आह्वानं विधत्ते- अथोच्चैराह्वयति० त्रिरिति । ‘अथ’ देवनाममिराह्वानानन्तरं ‘असावेहि’ इति लौकिकेन नाम्ना त्रिरुच्चैराह्वयति 10 । “असौ” इति अदस्शब्दः संबुद्ध्यन्तनामसामान्यनिर्द्देशार्थः । त्रिराह्वानस्याभिनयार्थमसावेहीति त्रिर्वचनम् । अयमर्थः- यत् गोः नाम व्यावहारिकं गंगादिकं नाम तत्संबुद्ध्यन्तमुक्त्वा तेन एहीति पदं संयोज्य “गंगे एहि” इत्येवंप्रकारेण त्रिराह्वानं कार्यमिति । एवं द्विविधैर्नामभिर्घर्मदुहोगोराह्वानं तित्तिरिणा स्पष्टमाम्नातम्- “इड एह्यदित एहि सरस्वत्येहीत्याह । एतानि वा अस्यै देवनामानि । देवनामैरेवैनामाह्वयति । असावेह्यसावेह्यसावेहीत्याह । एतानि वा अस्यै मनुष्यनामानि । मनुष्यनामैरेवैनामाह्वयति” (तै. आ. ५ । ७ । १) इति ॥ ७ ॥

Eggeling
  1. He then calls the cow, whilst stepping behind the Gārhapatya (Vāj. S. XXXVIII, 2), ‘Iḍā, come hither! Aditi, come hither! Sarasvatī, come hither!’ for the cow is Iḍā, and the cow is Aditi, and the cow is Sarasvatī. And he also calls her by her (real) name, with these (formulas), ‘N.N. 11, come hither!’ thus thrice.

०८

विश्वास-प्रस्तुतिः

(स्ता) तामा᳘गतामभि᳘दधाति॥
(त्य᳘) अ᳘दित्यै रा᳘स्ना ऽसीन्द्राण्या᳘ ऽउष्णी᳘ष ऽइ᳘तीन्द्राणी᳘ ह वा ऽइ᳘न्द्रस्य प्प्रिया प᳘त्नी त᳘स्या ऽउष्णी᳘षो व्विश्व᳘रूपतमः᳘[[!!]] सो ऽसी᳘ति त᳘दाह त᳘मे᳘वैनमेत᳘त्करोति॥

मूलम् - श्रीधरादि

(स्ता) तामा᳘गतामभि᳘दधाति॥
(त्य᳘) अ᳘दित्यै रा᳘स्ना ऽसीन्द्राण्या᳘ ऽउष्णी᳘ष ऽइ᳘तीन्द्राणी᳘ ह वा ऽइ᳘न्द्रस्य प्प्रिया प᳘त्नी त᳘स्या ऽउष्णी᳘षो व्विश्व᳘रूपतमः᳘[[!!]] सो ऽसी᳘ति त᳘दाह त᳘मे᳘वैनमेत᳘त्करोति॥

मूलम् - Weber

तामा᳘गतामभि᳘दधाति॥
अ᳘दित्यै रा᳘स्नासीन्द्राण्या᳘ उष्णी᳘ष इ᳘तीन्द्राणी᳘ ह वा इ᳘न्द्रस्य प्रिया प᳘त्नी त᳘स्या उष्णी᳘षो विश्व᳘रूपतॗमः सोऽसी᳘ति त᳘दाह त᳘मेॗवैनमेत᳘त्करोति॥

मूलम् - विस्वरम्

तामागतामभिदधाति- “अदित्यै रास्ना ऽसीन्द्राण्या उष्णीषः”- इति । इन्द्राणी ह वा इन्द्रस्य प्रिया पत्नी । तस्या उष्णीषो विश्वरूपतमः । सो ऽसीति तदाह । तमेवैनमेतत्करोति ॥ ८ ॥

सायणः

एवं उभयविधैर्नामभिराहूताया आगतायास्तस्याः बन्धनं 12 विधत्ते- तामागतामभिदधाति० उष्णीष इतीति । ‘तां’ घर्मदुघां धेनुं ‘आगतां’ देवयजनदेशं प्राप्तां “अदित्यै रास्ना ऽसि” इति मन्त्रेण पूर्वमुपात्तया रज्ज्वा ‘अभिदधाति’ बध्नाति । “इन्द्राण्या उष्णीषः” इति मन्त्रभागस्य तात्पर्यमाह- इन्द्राणी ह वा० तत्करोतीति । ‘इन्द्राणी’ नाम इन्द्रस्य प्रियतमा ‘पत्नी’ जाया । ‘तस्याः’ ‘उष्णीषः’ शिरोवेष्टनं ‘विश्वरूपतमः’ अतिशयेन सर्वरूपयुक्तः शुक्लकृष्णपीतादिनानावर्णयुक्तत्वेन चित्रभूत इत्यर्थः । तत्तेन मन्त्रभागेन हे रजो ! ‘सः’ उक्तलक्षणः उष्णीषः ‘असि’ भवसि इत्याह प्रतिपादयति । अध्वर्युश्च ‘एतत्’ एतेन मन्त्रेण अस्या धेनोः ‘तमेव’ उष्णीषं ‘करोति’ मन्त्रपाठेन निर्वर्तयति ॥ ८ ॥

Eggeling
  1. When she comes, he lays (the rope) round her (horns), with (Vāj. S. XXXVIII, 3), ‘Aditi’s zone thou art, Indrāṇī’s head-band;’–for Indrāṇī is Indra’s beloved wife, and she has a most variegated head-band: ’that thou art’ he thereby means to say, and that he indeed thereby makes it to be.

०९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ व्वत्समु᳘पार्ज्जति॥
पू᳘षा ऽसी᳘त्ययम्वै᳘ पूषा᳘ यो ऽयम्प᳘वत ऽएष᳘ हीदᳫँ᳭ स᳘र्व्वम्पु᳘ष्यत्येष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह पू᳘षा ऽसीति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ व्वत्समु᳘पार्ज्जति॥
पू᳘षा ऽसी᳘त्ययम्वै᳘ पूषा᳘ यो ऽयम्प᳘वत ऽएष᳘ हीदᳫँ᳭ स᳘र्व्वम्पु᳘ष्यत्येष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह पू᳘षा ऽसीति॥

मूलम् - Weber

अ᳘थ वत्समु᳘पार्जति॥
पूॗषासी᳘त्ययम् वै᳘ पूषाॗ योयम् प᳘वत एषॗ हीदᳫं स᳘र्वम् पु᳘ष्यत्येष᳘ उ प्रव᳘र्ग्यस्त᳘देत᳘मेॗवैत᳘त्प्रीणाति त᳘स्मादाह पूॗषासीति॥

मूलम् - विस्वरम्

अथ वत्समुपार्जति- “पूषा ऽसि”- इति । अयं वै पूषा । यो ऽयं पवते । एष हीदं सर्वं पुष्यति । एष उ प्रवर्ग्यः । तदेतमेवैतत्प्रीणाति । तस्मादाह- “पूषा ऽसि”- इति ॥ ९ ॥

सायणः

अथ दोहनाय वत्सविसर्जनं 12 विधत्ते- अथ वत्स० पूषा ऽसीतीति । ‘अथ’ रज्ज्वा बन्धनानन्तरं ‘वत्सं उपार्जति’ उपसृजति “पूषा ऽसि” इत्यनेन मन्त्रेण । एतन्मन्त्रप्रयोगमुपपाद्य उपसंहरति- अयं वै० पूषा ऽसीतीति । ‘यः अयमंतरिक्षे’ वायुः ‘पवते’ ‘अयं’ खलु ‘पूषा’ । कुत एतदिति चेदुच्यते । ‘एषः’ खलु वायुः ‘इदं सर्वं’ जगत् ‘पुष्यति’ पोषयति । यदिदं किंच जगद्वर्षति मेधैश्च आत्मना प्रेरितैः वृष्टिं उत्पाद्य सिंचति । तस्मात्पोषकत्वात् वायुरेव पूषा इत्युच्यते । अपि च एष एव वायुः एतासां गवां पोषयिता वर्द्धयिता । तथा च तैत्तिरीयके वत्सापाकरणमन्त्रव्याख्यानरूपे ब्राह्मणे पशूनां वाय्वधीनत्वं स्पष्टमवगम्यते- “वायव स्थेत्याह । वायुर्वा ऽअंतरिक्षस्याध्यक्षः । अंतरिक्षदेवत्याः खलु वै पशवः । वायव एवैनान् परिददाति” इति । यस्मादेवं तस्माद्वत्समुपसृजन् अध्वर्युः “पूषा ऽसि” इति मन्त्रं ब्रूयात् ॥ ९ ॥

Eggeling
  1. He then lets the calf to it (to suck), with, ‘Pūshan thou art,’–Pūshan, doubtless, is he that blows here (the wind), for that one supports 13

(push) all this (universe); and the Pravargya also is that (wind): it is him he thus pleases, and therefore he says, ‘Pūshan thou art.’

१०

विश्वास-प्रस्तुतिः

(त्य) अथो᳘न्नयति॥
घर्मा᳘य दीष्वे᳘त्येष वा ऽअ᳘त्र घर्मो र᳘सो भवति य᳘मेषा पि᳘न्वते त᳘स्मै दयस्वे᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(त्य) अथो᳘न्नयति॥
घर्मा᳘य दीष्वे᳘त्येष वा ऽअ᳘त्र घर्मो र᳘सो भवति य᳘मेषा पि᳘न्वते त᳘स्मै दयस्वे᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

अथो᳘न्नयति॥
घर्मा᳘य दीष्वे᳘त्येष वा अ᳘त्र घर्मो र᳘सो भवति य᳘मेषा पि᳘न्वते त᳘स्यै दयस्वे᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

अथोन्नयति- “घर्माय दीप्व”- (वा. सं. ३८ । ३) इति । एष वा अत्र घर्मो रसो भवति । यमेषा पिन्वते । तस्मै दयस्वेत्वेवैतदाह ॥ १० ॥

सायणः

अथ वत्सस्य पुनर्बंधनं 14 विधत्ते- अथोन्नयति घर्म्माय दीष्वेतीति । वत्समुपसृज्य प्रस्नुतायां गवि ‘अथ’ अनंतरं “घर्म्माय दीष्व” इति मन्त्रेण तं वत्सं ‘उन्नयति’ उत्कृष्य ऊधःप्रदेशात् अन्यत्र नयति पुरतो बध्नातीत्यर्थः । अथ एतत् व्याचष्टे- एष वा अत्र घर्मो रसो भवति० तदाहेति । ‘यं’ पयआत्मकं रसं ‘एषा’ गौः ‘पिन्वते’ सिंचति दुग्धे ‘एष एव रसो ऽत्र’ अस्मिन्मन्त्रे ‘घर्मः’ घर्मशब्दाभिधेयः ‘भवति’ ‘तस्मै’ रसाय, तादर्थ्ये चतुर्थी, रसात्मकं घर्मोपयुक्तं पयः ‘दयस्व’ देहीति इममेवार्थं एतन्मन्त्रवाक्यमाह । “दय दानगतिरक्षणहिंसा ऽऽदानेषु” (धा. पा. भ्वा. आ. ४८२) इति धातुः । एवं “घर्माय दीष्व” इति मन्त्रावयवयोः पदयोः समवेतार्थत्वं भवतीत्यर्थः ॥ १० ॥

Eggeling
  1. He then leads it (the calf) away 15 with, ‘Afford (milk) for the Gharma!’ for the Gharma, doubtless, is that fluid which this (cow) lets flow: he thus means to say thereby, ‘Allow her a share!’

११

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थ पि᳘न्वने पिन्वयति॥
(त्य᳘) अश्वि᳘भ्याम्पिन्वस्वे᳘त्यश्वि᳘नावे᳘वैत᳘दाहाश्वि᳘नौ वा᳘ ऽएत᳘द्यज्ञ᳘स्य शि᳘रः प्र᳘त्यधत्तान्ता᳘वे᳘वैत᳘त्प्रीणाति त᳘स्मादाहाश्वि᳘भ्याम्पिन्वस्वे᳘ति॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘थ पि᳘न्वने पिन्वयति॥
(त्य᳘) अश्वि᳘भ्याम्पिन्वस्वे᳘त्यश्वि᳘नावे᳘वैत᳘दाहाश्वि᳘नौ वा᳘ ऽएत᳘द्यज्ञ᳘स्य शि᳘रः प्र᳘त्यधत्तान्ता᳘वे᳘वैत᳘त्प्रीणाति त᳘स्मादाहाश्वि᳘भ्याम्पिन्वस्वे᳘ति॥

मूलम् - Weber

अ᳘थ पि᳘न्वने पिन्वयति॥
अश्वि᳘भ्याम् पिन्वस्वे᳘त्यश्वि᳘नावेॗवैत᳘दाहाश्वि᳘नौ वा᳘ एत᳘द्यज्ञ᳘स्य शि᳘रः प्र᳘त्यधत्तां ता᳘वेॗवैत᳘त्प्रीणाति त᳘स्मादाहाश्वि᳘भ्याम् पिन्वस्वे᳘ति॥

मूलम् - विस्वरम्

अथ पिन्वने पिन्वयति- “अश्विभ्यां पिन्वस्व”- इति । अश्विनावेवैतदाह । अश्विनौ वा एतद्यज्ञस्य शिरः प्रत्यधत्ताम् । तावेवैतत्प्रीणाति । तस्मादाह- “अश्विभ्यां पिन्वस्व”- इति ॥ ११ ॥

सायणः

अथ दोहनं 14 विधत्ते- अथ पिन्वने पिन्वयत्यश्विभ्यां पिन्वस्वेतीति । ‘अथ’ वत्सोन्नयनानंतरं ‘पिन्वने’ दोहनपात्रे ‘पिन्वयति’ सेचयति गां दोग्धि “अश्विभ्याम्” इति मन्त्रेण । अस्य मन्त्रप्रथमभागस्य तात्पर्यमाह- अश्विनावेवै० पिन्वस्वेति । ‘यज्ञस्य’ एतत्’ छिन्नं ‘शिरः’ ‘अश्विनौ’ खलु देवौ पुरा ‘प्रत्यधत्तां’ संधानं कृतवन्तौ ‘एतत्’ एतेन मन्त्रवाक्येन ‘तावेव प्रीणाति’ तर्पयति । यस्मादेवं तस्मात्कारणात् “अश्विभ्यां” इति वाक्यं ब्रूयात् ॥ ११ ॥

Eggeling
  1. He then causes it to flow into the milking-bowl, with (Vāj. S. XX XVIII, 4), ‘Flow for the Aśvins!’–with regard to the Aśvins he thus says this, for it was the Aśvins who restored the head of the sacrifice: it is them he thus pleases, and therefore he says, ‘Flow for the Aśvins!’

१२

विश्वास-प्रस्तुतिः

स᳘रस्वत्यै पिन्वस्वे᳘ति॥
व्वाग्वै स᳘रस्वती व्वा᳘चा वा᳘ ऽएत᳘दश्वि᳘नौ यज्ञ᳘स्य शि᳘रः प्र᳘त्यधत्तान्ता᳘वे᳘वैत᳘त्प्रीणाति त᳘स्मादाह स᳘रस्वत्यै पिन्वस्वे᳘ति॥

मूलम् - श्रीधरादि

स᳘रस्वत्यै पिन्वस्वे᳘ति॥
व्वाग्वै स᳘रस्वती व्वा᳘चा वा᳘ ऽएत᳘दश्वि᳘नौ यज्ञ᳘स्य शि᳘रः प्र᳘त्यधत्तान्ता᳘वे᳘वैत᳘त्प्रीणाति त᳘स्मादाह स᳘रस्वत्यै पिन्वस्वे᳘ति॥

मूलम् - Weber

स᳘रस्वत्यै पिन्वस्वे᳘ति॥
वाग्वै स᳘रस्वती वाचा वा एत᳘दश्वि᳘नौ यज्ञ᳘स्य शि᳘रः प्र᳘त्यधत्तां ता᳘वेॗवैत᳘त्प्रीणाति त᳘स्मादाह स᳘रस्वत्यै पिन्वस्वेति॥

मूलम् - विस्वरम्

“सरस्वत्यै पिन्वस्व”- इति । वाग्वै सरस्वती । वाचा वा एतदश्विनौ यज्ञस्य शिरः प्रत्यधत्ताम् । तावेवैतत्प्रीणाति । तस्मादाह- “सरस्वत्यै पिन्वस्व” इति ॥ १२ ॥

सायणः

अथ द्वितीयं भागमनूद्य व्याचष्टे- सरस्वत्यै पिन्वस्वेतीति । अत्र ‘सरस्वत्यै’ इति सरस्वतीशब्देन वागेव उच्यते । ‘अश्विनौ’ हि ‘वाचा’ मन्त्ररूपया खलु पुरा ‘यज्ञस्य’ ‘एतच्छिरः’ ‘प्रत्यधत्ताम्’ । अतः यज्ञशिरःसंधानसाधनभूतां तामेव वाचं ‘एतत्’ एतेन “सरस्वत्यै पिन्वस्व” इति मन्त्रभागेन ‘प्रीणाति’ तर्पयति । “तस्मात्” इत्यादि पूर्ववन्निगमनम् ॥ १२ ॥

Eggeling

12, ‘Flow for Sarasvatī!’–Sarasvatī, doubtless, is Speech, and with speech the Aśvins then restored the head of the Sacrifice: it is those (Aśvins) he thus pleases, and therefore he says, ‘Flow for Sarasvatī!’

१३

विश्वास-प्रस्तुतिः

(ती᳘) इ᳘न्द्राय पिन्वस्वेति॥
(ती᳘) इ᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता सा᳘ यैव᳘ यज्ञ᳘स्य देव᳘ता त᳘यै᳘वैतदश्वि᳘नौ[[!!]] यज्ञ᳘स्य शि᳘रः प्र᳘त्यधत्तान्ता᳘वे᳘वै᳘तत्प्रीणाति[[!!]] त᳘स्मादाहे᳘न्द्राय पिन्वस्वेति॥

मूलम् - श्रीधरादि

(ती᳘) इ᳘न्द्राय पिन्वस्वेति॥
(ती᳘) इ᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता सा᳘ यैव᳘ यज्ञ᳘स्य देव᳘ता त᳘यै᳘वैतदश्वि᳘नौ[[!!]] यज्ञ᳘स्य शि᳘रः प्र᳘त्यधत्तान्ता᳘वे᳘वै᳘तत्प्रीणाति[[!!]] त᳘स्मादाहे᳘न्द्राय पिन्वस्वेति॥

मूलम् - Weber

इ᳘न्द्राय पिन्वस्वेति॥
इ᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता साॗ यैव᳘ यज्ञ᳘स्य देव᳘ता तयैॗवैत᳘दश्वि᳘नौ यज्ञ᳘स्य शि᳘रः प्र᳘त्यधत्तां ता᳘वेॗवैत᳘त्प्रीणाति त᳘स्मादाहे᳘न्द्राय पिन्वस्वेति॥

मूलम् - विस्वरम्

“इन्द्राय पिन्वस्व"- इति । इन्द्रो वै यज्ञस्य देवता । सा यैव यज्ञस्य देवता । तयैवैतदश्विनौ यज्ञस्य शिरः प्रत्यधत्ताम् । तावेवैतत्प्रीणाति । तस्मादाह- “इन्द्राय पिन्वस्व”- इति ॥ १३ ॥

सायणः

अथ तृतीयभागमनूद्य व्याचष्टे- इन्द्राय पिन्वस्वेतीति । ‘इन्द्रः’ एव खलु ‘यज्ञस्य’ सोमयागस्य प्रधानभूता ‘देवता’ । कार्त्स्न्येन माध्यंदिनसवनभाक्त्वात् । तद्धि यज्ञस्य शरीरम् । गृहस्य पृष्ठवंशस्थानीयैः पृष्ठस्तोत्रैः उपेतत्वात् । तस्मात् ‘सा’ तादृशी ‘या एव’ यज्ञस्य ‘देवता’ ‘तयैव’ देवतया साधनभूतया ‘अश्विनौ’ एतत् ‘यज्ञस्य शिरः प्रत्यधत्ताम्’ । अतस्तामेव देवतां एतदेतेन मन्त्रभागेन ‘प्रीणाति’ तर्पयति । यस्मादेवं ‘तस्मात्’ देवताप्रतिपादकं “इन्द्राय पिन्वस्व” इति मन्त्रवाक्यं ब्रूयात् ॥ १३ ॥

Eggeling
  1. ‘Flow for Indra!’–for Indra is the deity of the sacrifice, and it was indeed by him who is the deity of the sacrifice that the Aśvins then restored the head of the sacrifice: it is them he thus pleases, and therefore he says, ‘Flow for Indra!’

१४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ व्विप्रु᳘षो ऽभि᳘मन्त्रयते॥
स्वाहे᳘न्द्रवत्स्वाहे᳘न्द्रवदिती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता सा᳘ यैव᳘ यज्ञ᳘स्य देव᳘ता ता᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह स्वाहे᳘न्द्रवत्स्वाहे᳘न्द्रवदि᳘ति त्रिष्कृ᳘त्व ऽआह त्रिव्वृद्धि᳘ यज्ञो᳘ ऽवरᳫँ᳭ स्वाहाकार᳘ङ्करो᳘ति प᳘रान्देव᳘तामसा᳘वेव ब᳘न्धुः॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ व्विप्रु᳘षो ऽभि᳘मन्त्रयते॥
स्वाहे᳘न्द्रवत्स्वाहे᳘न्द्रवदिती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता सा᳘ यैव᳘ यज्ञ᳘स्य देव᳘ता ता᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह स्वाहे᳘न्द्रवत्स्वाहे᳘न्द्रवदि᳘ति त्रिष्कृ᳘त्व ऽआह त्रिव्वृद्धि᳘ यज्ञो᳘ ऽवरᳫँ᳭ स्वाहाकार᳘ङ्करो᳘ति प᳘रान्देव᳘तामसा᳘वेव ब᳘न्धुः॥

मूलम् - Weber

अ᳘थ विप्रु᳘षोऽभि᳘मन्त्रयते॥
स्वाहे᳘न्द्रवत्स्वाहे᳘न्द्रवदिती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता साॗ यैव᳘ यज्ञ᳘स्य देव᳘ता ता᳘मेॗवैत᳘त्प्रीणाति त᳘स्मादाह स्वाहे᳘न्द्रवत्स्वाहे᳘न्द्रवदि᳘ति त्रिष्कृ᳘त्व आह त्रिवृद्धि᳘ यज्ञो᳘ऽवरᳫं स्वाहाकारं᳘ करो᳘ति प᳘रां देव᳘तामसा᳘वेव ब᳘न्धुः॥

मूलम् - विस्वरम्

अथ विप्रुषो ऽभिमन्त्रयते- “स्वाहेन्द्रवत्स्वाहेन्द्रवत्”- (वा. सं. ३८ । ४) इति । इन्द्रो वै यज्ञस्य देवता । सा यैव यज्ञस्य देवता । तामेवैतत्प्रीणाति । तस्मादाह- “स्वाहेन्द्रवत् स्वाहेन्द्रवत्”- इति । त्रिष्कृत्व आह । त्रिवृद्धि यज्ञः । अवरं स्वाहाकारं करोति । परां देवताम् । असावेव बंधुः ॥ १४ ॥

सायणः

अथ दोहनसमये सर्वतः प्रसृतानां विप्रुषामभिमन्त्रणं 16 विधत्ते- अथ व्विप्रुषो० वदितीति । “स्वाहेन्द्रवत्” इति मंत्रं त्रिर्ब्रुवन् ‘विप्रुषः’ दोहनसमयोत्पन्नान् बिंदून् ‘अभिमन्त्रयते’ । तत्रेन्द्रशब्दस्य तात्पर्यमाह- इन्द्रो वै यज्ञस्य देवता० तामेवैतत्प्रीणातीति । व्याख्यातमेतत् । उक्तमर्थं हेतुकृत्य निगमयति- तस्मादाह० न्द्रवदितीति । अथैतत्पाठप्राप्तं त्रिर्वचनमनूद्य स्तौति- त्रिष्कृत्व आह त्रिवृद्धि यज्ञ इति । त्रिष्कृत्वस्त्रिवारं ‘स्वाहेन्द्रवदिति’ मंत्रं ब्रूयात् । ‘हि’ यस्मात् यज्ञस्त्रिवृत् त्रिगुणितः गार्हपत्याहवनीयदक्षिणाग्निरूपेण प्रातःसवनादिभेदेन वा । अथ मन्त्रादौ वर्तमानं स्वाहाकारं प्रशंसति- अवरँ स्वाहाकारं० बंधुरिति । सिद्धमेतत् ॥ १४ ॥

Eggeling
  1. The (spilt) drops he then consecrates with, ‘Hail, possessed of Indra! hail, possessed of Indra!’ for Indra is the deity of the sacrifice: he thus pleases him who is the deity of the sacrifice, and therefore he says, ‘Hail, possessed of Indra! hail, possessed of Indra!’ Thrice he says it, for threefold is the sacrifice. The call of ‘hail!’ he places first, and the deity last: the significance of this is the same as before.

१५

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थास्यै स्त᳘नमभि᳘पद्यते॥
य᳘स्ते स्त᳘नः शशयो यो᳘ मयोभूरि᳘ति य᳘स्ते स्त᳘नो नि᳘हितो गु᳘हायामि᳘त्ये᳘वैत᳘दाह यो᳘ रत्नधा᳘ व्वसुविद्यः᳘ सुद᳘त्र ऽइ᳘ति यो ध᳘नानान्दाता᳘ व्वसुवि᳘त्पणा᳘य्य ऽइ᳘त्ये᳘वैत᳘दाह ये᳘न व्वि᳘श्वा पु᳘ष्यसि व्वा᳘र्य्याणी᳘ति ये᳘न स᳘र्व्वान्देवान्त्स᳘र्व्वाणि भूता᳘नि बिभर्षी᳘त्ये᳘वैत᳘दाह स᳘रस्वति त᳘मिह धा᳘तवे ऽकरि᳘ति व्वाग्वै स᳘रस्वती᳘ सैषा घर्मदु᳘घा यज्ञो वै व्वा᳘ग्यज्ञ᳘मस्म᳘भ्यम्प्र᳘यच्छ ये᳘न देवा᳘न्प्रीणामे᳘त्ये᳘वैत᳘दाहाथ[[!!]] गा᳘र्हपत्यस्या᳘र्द्धमै᳘त्युर्व्वन्त᳘रिक्षम᳘न्वेमी᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थास्यै स्त᳘नमभि᳘पद्यते॥
य᳘स्ते स्त᳘नः शशयो यो᳘ मयोभूरि᳘ति य᳘स्ते स्त᳘नो नि᳘हितो गु᳘हायामि᳘त्ये᳘वैत᳘दाह यो᳘ रत्नधा᳘ व्वसुविद्यः᳘ सुद᳘त्र ऽइ᳘ति यो ध᳘नानान्दाता᳘ व्वसुवि᳘त्पणा᳘य्य ऽइ᳘त्ये᳘वैत᳘दाह ये᳘न व्वि᳘श्वा पु᳘ष्यसि व्वा᳘र्य्याणी᳘ति ये᳘न स᳘र्व्वान्देवान्त्स᳘र्व्वाणि भूता᳘नि बिभर्षी᳘त्ये᳘वैत᳘दाह स᳘रस्वति त᳘मिह धा᳘तवे ऽकरि᳘ति व्वाग्वै स᳘रस्वती᳘ सैषा घर्मदु᳘घा यज्ञो वै व्वा᳘ग्यज्ञ᳘मस्म᳘भ्यम्प्र᳘यच्छ ये᳘न देवा᳘न्प्रीणामे᳘त्ये᳘वैत᳘दाहाथ[[!!]] गा᳘र्हपत्यस्या᳘र्द्धमै᳘त्युर्व्वन्त᳘रिक्षम᳘न्वेमी᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - Weber

अ᳘थास्यै स्त᳘नमभि᳘पद्यते॥
य᳘स्ते स्त᳘नः शशयो यो᳘ मयोभूरि᳘ति य᳘स्ते स्त᳘नो नि᳘हितो गु᳘हायामि᳘त्येॗवैत᳘दाह यो᳘ रत्नधा᳘ वसुविद्यः᳘ सुद᳘त्र इ᳘ति यो ध᳘नानां दाता᳘ वसुवि᳘त्पणा᳘व्य इ᳘त्येॗवैत᳘दाह ये᳘न वि᳘श्वा पु᳘ष्यसि वा᳘र्याणी᳘ति ये᳘न स᳘र्वान्देवान्त्स᳘र्वाणि भूता᳘नि बिभर्षी᳘त्येॗवैत᳘दाह स᳘रस्वति त᳘मिह धा᳘तवेऽकरि᳘ति वाग्वै स᳘रस्वतीॗ सैषा घर्मदु᳘घा यज्ञो वै वा᳘ग्यज्ञ᳘मस्म᳘भ्यम् प्र᳘यछ ये᳘न देवा᳘न्प्रीणामे᳘त्येॗवैत᳘दाहा᳘थ गा᳘र्हपत्यस्या᳘र्धमै᳘त्युर्व᳘न्त᳘रिक्षम᳘न्वेमी᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - विस्वरम्

अथास्यै स्तनमभिपद्यते- “यस्ते स्तनः शशयो यो मयोभूः”- इति । यस्ते स्तनो निहितो गुहायाम् इत्येवैतदाह । “यो रत्नधा वसुविद्यः सुदत्रः"- इति । यो धनानां दाता वसुवित्पणाय्यः । इत्येवैतदाह । “येन विश्वा पुष्यसि वार्याणि"- इति । येन सर्वान्देवान्त्सर्वाणि भूतानि बिभर्षि । इत्येवैतदाह । “सरस्वति तमिह धातवे ऽकः”- इति । वाग्वै सरस्वती । सैषा घर्मदुघा । यज्ञो वै वाक् । यज्ञमस्मभ्यं प्रयच्छ । येन देवान्प्रीणाम । इत्येवैतदाह । अथ गार्हपत्यस्यार्द्धमैति । “उर्वन्तरिक्षमन्वेमि”- (वा. सं. ३८ । ५) इति । असावेव बंधुः ॥ १५ ॥

सायणः

यदुक्तं सूत्रकारेण- “यस्ते स्तन इति स्तनमालभते” 17 (का. श्रौ. सू. २६ । ७८) इति, तद्विधत्ते- अथास्यै स्तन० मयोभूरितीति । ‘अथ’ विप्रुडभिमन्त्रणानंतरं ‘अस्यै’ अस्याः धेनोः ‘स्तनं अभिपद्यते आलभेत । “यस्ते स्तनः” इति मन्त्रेणाभिमृशेदित्यर्थः । अथ अस्य उपात्तस्य मन्त्रप्रथमभागस्य तात्पर्यं व्याचष्टे- यस्ते स्तनो० तदाहेति । हे घर्मधुक् धेनो ‘ते’ तव ‘स्तनः गुहायां’ अस्माभिरदृश्ये दिव्ये ऽवस्थाने ‘निहितः’ निक्षिप्तो बभूवेति । यो ऽयमर्थः, इममेवार्थं एतन्मंत्रवाक्यमाह । अथ द्वितीयभागमनूद्य व्याचष्टे- यो रत्नधा० तदाहेति ‘यः’ स्तनः ‘रत्नधा’ रत्नानां रमणीयानां धनानां धाता दाता । ‘वसुवित्’ वसूनां कनकरजतादीनां वेदिता लंभयिता । ‘यः सुदत्र’ शोभनदाता । अत एव ‘पणाव्यः’ स्तुत्यः एवं गुणविशिष्टो हि पुरुषो लोके स्तूयते इति एवंरूपमेवार्थमेतन्मंत्रवाक्यमाह । अथ तृतीयभागमनूद्य व्याचष्टे- येन विश्वा० तदाहेति । ‘येन’ खलु स्तनेन ‘सर्वान्देवान्’ हविर्भागार्हान् ‘सर्वाणि च भूतानि’ पशुपक्षिमृगमनुष्यादीनि ‘बिभर्षि’ पोषयसि इति इममेवार्थमेतन्मंत्रवाक्यमाह । अथ चतुर्थपादमनूद्य व्याचष्टे- सरस्वति तमिह० तदाहेति । अत्र प्रतिपाद्यमाना ‘सरस्वती’ ‘वाग्वै’ वागात्मिकैव न तु नदीरूपा । सैव सरस्वती ‘एषा घर्मदुघा’ घर्मस्य घर्मार्थस्य पयसः दोग्ध्री धेनुः । “सरस्वत्येहि” इत्याह्वानमन्त्रे तस्यास्तादात्म्यप्रतिपादनात् सा ऽत्र वाक् ‘यज्ञो वै’ यज्ञ एव । स्तुतशस्त्रादिरूपया तयैव तस्य निष्पाद्यत्वात् । अतः ‘यज्ञं अस्मभ्यं प्रयच्छ’ । ‘येन’ खलु यज्ञेन वयं ‘देवान्’ हविर्भुजः ‘प्रीणाम’ तर्पयाम इति अमुमेवार्थमेतन्मन्त्रवाक्यं सरस्वतिशब्देन प्रतिपादयति । यद्यपि इह “हे सरस्वति ! तथाविधम् उक्तलक्षणं त्वदीयं स्तनं इहास्मिंल्लोके ‘धातवे’ धातुं पातुं ‘अकः’ “कुरु” इति मन्त्रार्थः प्रतीयते । तथापि सरस्वतिशब्दसूचितः अर्थः ब्राह्मणे व्याख्यायते इति द्रष्टव्यम् । एवं दुग्ध्वा उत्थाय 18 होत्रा “उपद्रव पयसा” इत्युच्यमाने गार्हपत्यसमीपं गच्छेत् इत्याह- अथ गार्हपत्यस्या० बंधुरिति । ‘अथ’ दोहनानंतरं ‘गार्हपत्यं’ “उर्वंतरिक्षं” इति मन्त्रेण गच्छेत् । ‘असावेव’ खलु अग्निः बंधुर्बंधकः । तथा च कात्यायनेनोक्तम्- “उपद्रव पयसेत्युच्यमाने गच्छत्युर्व्वन्तरिक्षमिति” 19 (का. श्रौ. सू. २६ । ८२) इति ॥ १५ ॥

Eggeling
  1. He then touches her udder 20, with (Vāj. S. XXXVIII, 5; R̥g-v. I, 164, 49), ‘This ever-flowing, grateful udder of thine,’–that is to say, ‘This udder of thine placed in secret 21;’–’treasure-giving, wealth-granting, bountiful,’–that is to say, ‘which is a giver of treasures, a granter of wealth, and precious;’–‘whereby thou furtherest all desirable things,’–that is to say, ‘whereby thou supportest all the gods and all creatures;’–‘O Sarasvatī, move that hither for us to suck,’–Sarasvatī, doubtless, is Speech, and so is this (cow) which yields the Gharma milk; and Speech is worship: thus he means to say, ‘Grant us worship whereby we may please the gods.’ He then steps up to the site of the Gārhapatya with, ‘I pass along the wide aerial realm,’–the mystic import of this is the same as before 22.

१६

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ शफावा᳘दत्ते॥
गायत्रञ्छ᳘न्दो ऽसि त्रै᳘ष्टुभञ्छ᳘न्दो ऽसी᳘ति गायत्रे᳘ण चै᳘वैनावेतत्त्रै᳘ष्टुभेन च च्छ᳘न्दसा᳘ ऽऽदत्ते द्या᳘वापृथिवी᳘भ्यां त्वा प᳘रिगृह्णामी᳘तीमे वै द्या᳘वापृथिवी᳘ परीशासा᳘वादित्यः᳘ प्रव᳘र्ग्यो ऽमुन्त᳘दादित्य᳘माभ्यां द्या᳘वापृथिवी᳘भ्याम्प᳘रिगृह्णात्य᳘थ मौञ्जे᳘न व्वेदेनो᳘पमार्ष्ट्यसा᳘वेव ब᳘न्धुः॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ शफावा᳘दत्ते॥
गायत्रञ्छ᳘न्दो ऽसि त्रै᳘ष्टुभञ्छ᳘न्दो ऽसी᳘ति गायत्रे᳘ण चै᳘वैनावेतत्त्रै᳘ष्टुभेन च च्छ᳘न्दसा᳘ ऽऽदत्ते द्या᳘वापृथिवी᳘भ्यां त्वा प᳘रिगृह्णामी᳘तीमे वै द्या᳘वापृथिवी᳘ परीशासा᳘वादित्यः᳘ प्रव᳘र्ग्यो ऽमुन्त᳘दादित्य᳘माभ्यां द्या᳘वापृथिवी᳘भ्याम्प᳘रिगृह्णात्य᳘थ मौञ्जे᳘न व्वेदेनो᳘पमार्ष्ट्यसा᳘वेव ब᳘न्धुः॥

मूलम् - Weber

अ᳘थ शफावा᳘दत्ते 23
गायत्रं छ᳘न्दोऽसि त्रै᳘ष्टुभं छ᳘न्दोऽसी᳘ति गायत्रे᳘ण चैॗवैनावेतत्त्रै᳘ष्टुभेन च छ᳘न्दसा᳘दत्ते द्या᳘वापृथिवी᳘भ्यां त्वा प᳘रिगृह्णामी᳘तीमे वै द्या᳘वापृथिवी᳘ परीशासा᳘वादित्यः᳘ प्रव᳘र्ग्योऽमुं त᳘दादित्य᳘माभ्यां द्या᳘वापृथिवी᳘भ्याम् प᳘रिगृह्णात्य᳘थ मौञ्जे᳘न वेदेनो᳘पमार्ष्ट्यसा᳘वेव ब᳘न्धुः॥

मूलम् - विस्वरम्

अथ शफावादत्ते- “गायत्रं छंदो ऽसि त्रैष्टुभं छंदो ऽसि”- इति । गायत्रेण चैवैनावेतत्त्रैष्टुभेन च च्छंदसा ऽऽदत्ते- “द्यावापृथिवीभ्यां त्वा परिगृह्णामि” इति । इमे वै द्यावापृथिवी परीशासौ । आदित्यः प्रवर्ग्यः । अमुं तदादित्यमाभ्यां द्यावापृथिवीभ्यां परिगृह्णाति । अथ मौञ्जेन वेदेनोपमार्ष्टि । असावेव बंधुः ॥ १६ ॥

सायणः

अथैतस्य महावीरस्य ग्रहणसाधनयोः शफयोरादानं 24 विधत्ते- अथ शफा० छन्दसा ऽऽदत्ते इति । ‘एतत्’ एवं च ‘गायत्रेण’ छंदसा चतुर्विंशत्यक्षरेण । ‘त्रैष्टुभेन’ ‘छंदसा’ चतुश्चत्वारिंशदक्षरेण 18 । आभ्यां छन्दोभ्यामेव ‘आदत्ते’ आदानं कृतवान् भवति । अथ यदुक्तं कात्यायनेन- “ताभ्यां महावीरं परिगृह्णाति द्यावापृथिवीभ्यां त्वा परिगृह्णामीति” (का. श्रौ. सू. २६ । ८५) इति, तद्विधत्ते- द्यावापृथिवी० परिगृह्णातीति । ‘यौ परीशासौ’ परितः शासकौ शफौ ‘इमे वै’ इमे खलु ‘द्यावापृथिवी’ द्यावापृथिव्यौ । शफौ द्यावापृथिव्यात्मकावित्यर्थः । ‘प्रवर्ग्यः आदित्यः’ । तत्तेन शफाभ्यां महावीरस्य परिग्रहणेन ‘अमुं’ आदित्यमेव ‘आभ्यां द्यावापृथिवीभ्यां परिगृह्णाति’ । तस्मात् अनेन मन्त्रेण शफाभ्यां महावीरं परिगृह्णीयात् इति विधिरुन्नेतव्यः । अथ वेदेनोपमार्जनं विधत्ते 25- अथ मौंजेन० बंधुरिति । ‘अथ’ परिग्रहणानंतरं ‘मौंजेन’ मुंजतृणनिर्मितेन ‘वेदेन’ महावीरस्य अधोभागे ‘उपमार्ष्टिं’ उपमार्जनेन तस्माद्व्यपनयति । ‘असावेव’ खलु वेदः ‘बन्धुः’ 26 छिन्नस्य यज्ञशिरसो बन्धकः । तथा च तैत्तिरीयकम् “ऊङ्र्मुञ्जाः । यन्मौञ्जो वेदो भवति । ऊर्ज्जैव यज्ञस्य शिरः समर्द्धयति” इति ॥ १६ ॥

  • १ - २४ अक्षरा गायत्री
  • २ - २८ उष्णिक्
  • ३ - ३० अनुष्टुप्
  • ४ - ३६ बृहती
  • ५ - ४० पंक्ति
  • ६ - ४४ त्रिष्टुप्
  • ७ - ४८ जगती
  • ८ - ५२ अतिजगती
  • ९ - ५६ शक्वरी
  • १० - ६० अतिशक्वरी
  • ११ - ६४ अष्टि
  • १२ - ६८ अत्यष्टि
  • १३ - ७२ धृति
  • १४ - ७६ अतिधृति
  • १५ - ८० कृति
  • १६ - ८४ प्रकृति
  • १७ - ८८ आकृति
  • १८ - ९२ विकृति
  • १९ - ९६ संकृति
  • २० - १०० अभिकृति
  • २१ - १४४ उत्कृति
Eggeling
  1. He then takes the two lifting-sticks 27, with (Vāj. S. XXXVIII, 6), ‘The Gāyatrī metre thou art,–the Trishṭubh metre thou art,’–he thus takes them with both the Gāyatrī and the Trishṭubh metres;–‘with heaven and earth I encompass thee,’–for the two lifting-sticks are indeed these two, heaven and earth; and the

Pravargya is the sun: he thus encompasses yonder sun within these two, heaven and earth. Thereupon (having lifted up the pot) he sweeps it clean with a branch of reed grass: the mystic import of this is the same as before.

१७

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थोपय᳘मन्यो᳘पगृह्णाति॥
(त्य) अन्त᳘रिक्षेणो᳘पयच्छामी᳘त्यन्त᳘रिक्षम्वा᳘ ऽउपय᳘मन्यन्त᳘रिक्षेण᳘ हीदᳫँ᳭ स᳘र्व्वमु᳘पयतमथो᳘ ऽउद᳘रम्वा᳘ ऽउपय᳘मन्युद᳘रेण᳘ हीदᳫँ᳭ स᳘र्व्वमन्ना᳘द्यमु᳘पयतन्त᳘स्मादाहान्त᳘रिक्षेणो᳘पयच्छामीति॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थोपय᳘मन्यो᳘पगृह्णाति॥
(त्य) अन्त᳘रिक्षेणो᳘पयच्छामी᳘त्यन्त᳘रिक्षम्वा᳘ ऽउपय᳘मन्यन्त᳘रिक्षेण᳘ हीदᳫँ᳭ स᳘र्व्वमु᳘पयतमथो᳘ ऽउद᳘रम्वा᳘ ऽउपय᳘मन्युद᳘रेण᳘ हीदᳫँ᳭ स᳘र्व्वमन्ना᳘द्यमु᳘पयतन्त᳘स्मादाहान्त᳘रिक्षेणो᳘पयच्छामीति॥

मूलम् - Weber

अ᳘थोदय᳘मन्यो᳘पगृह्णाति॥
अन्त᳘रिक्षेणो᳘पयछामी᳘त्यन्त᳘रिक्षम् वा᳘ उपय᳘मन्यन्त᳘रिक्षेणॗ हीदᳫं स᳘र्वमु᳘पयतमथो᳘ उद᳘रम् वा᳘ उपय᳘मन्युद᳘रेणॗ हीदᳫं स᳘र्वमन्ना᳘द्यमु᳘पयतं त᳘स्मादाहान्त᳘रिक्षेणो᳘पयछामीति॥

मूलम् - विस्वरम्

अथोपयमन्योपगृह्णाति- “अंतरिक्षेणोपयच्छामि”- इति । अंतरिक्षं वा उपयमनी । अंतरिक्षेण हीदं सर्वमुपयतम् । अथो उदरं वा उपयमनी । उदरेण हीदं सर्वमन्नाद्यमुपयतम् । तस्मादाह- “अंतरिक्षेणोपयच्छामि” इति ॥ १७ ॥

सायणः

अथोपयमन्या स्रुचा महावीराधोभागस्य परिग्रहणं विधत्ते 28- अथोपयमन्योप० यच्छामीतीति । अथोपमार्जनानंतरं ‘उपयमन्या’ उपयमनसाधनभूतया औदुंबर्या स्रुचा उपगृह्णाति अधस्ताद्धारयति । “अंतरिक्षेण” इति मन्त्रेण । अथैतदुपपादयति- अंतरिक्षं० पयच्छामीतीति । ‘अंतरिक्षं’ द्यावापृथिव्योर्मध्यवर्ती लोकः । तद्रूपा खलु एषा ‘उपयमनी’ । ‘इदं सर्वं’ जगत् अंतरिक्षेणाकाशेनैव ‘उपयतं’ सर्वतो धृतम् । ‘हि’ यस्मादेवं उपयमनसाधनमन्तरिक्षं तस्मात् अंतरिक्षोपयमन्योः परस्परात्मकता । ‘अथो’ अपि च उदरं वै उदरात्मिका खलु ‘उपयमनी’ । ‘हि’ यस्मात् ‘उदरेण इदं’ भुक्तं ‘सर्वमन्नाद्यं’ अन्नपानादिकम् ‘उपयतं’ धृतम् । तस्मादेव कारणात् “अंतरिक्षेणोपयच्छामि” इत्यनेन मन्त्रेण उपयमन्या महावीरं अधस्ताद्धारयेदित्यर्थः ॥ १७ ॥

Eggeling
  1. He then puts it on the ‘supporting’ tray 29 with, ‘By the air I support thee,’–for the ‘supporting’ tray is the air, since everything here is supported by the air; and the ‘supporting’ tray also is the belly, for all food and drink here is supported (held) by the belly: therefore he says, ‘By the air I support thee.’

१८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थाजाक्षीरमा᳘नयति॥
तप्तो वा᳘ ऽएष᳘ शुशुचानो᳘ भवति त᳘मे᳘वैत᳘च्छमयति त᳘स्मिञ्छान्ते᳘ गोक्षीरमा᳘नयति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थाजाक्षीरमा᳘नयति॥
तप्तो वा᳘ ऽएष᳘ शुशुचानो᳘ भवति त᳘मे᳘वैत᳘च्छमयति त᳘स्मिञ्छान्ते᳘ गोक्षीरमा᳘नयति॥

मूलम् - Weber

अ᳘थाजाक्षीरमा᳘नयति॥
तप्तो वा᳘ एष᳘ शुशुचानो᳘ भवति त᳘मेॗवैत᳘छमयति त᳘स्मिञ्छान्ते᳘ गोक्षीरमा᳘नयति॥

मूलम् - विस्वरम्

अथाजाक्षीरमानयति । तप्तो वा एष शुशुचानो भवति । तमेवैतच्छमयति । तस्मिन् शांते गोक्षीरमानयति ॥ १८ ॥

सायणः

अथ, एवंस्थिते महावीरे अजापयस आसेचनं 28 विधत्ते- अथाजाक्षीर० भवतीति । अथोपयमनानंतरं ‘अजाक्षीरं’ अजायाः क्षीरं तूष्णीं दोहनकाले 30 दुग्धं तत् तस्मिन् तप्ते महावीरे तूष्णीमानयति प्रतिप्रस्थाता आसिंचति । एतत् किमर्थम् ? इति चेत् एष महावीरः अग्निना संतप्तः ‘शुशुचानः’ अत्यर्थं दीप्यमानः दुरासदः ‘भवति’ । अतस्तमेव दीप्यमानम् ‘एतत्’ एतेनाजापयसा ‘शमयति’ शांतमुपशांतं करोति । एवमप्रसाधनस्यापि अजापयसः प्रयोजनवशेन प्रथमं आसेचनं कार्यमित्युक्तं भवति । अथ गोपयसः समंत्रकमासेचनं विधत्ते- तस्मिन् शान्ते० नयतीति । ‘तस्मिन्’ महावीरे संतप्ते ‘शांते’ अजापयसा उपशांते, 31 प्रशमिते औष्णे सति “इन्द्राश्विना” इति मंत्रेण गोक्षीरमानयति अवनयति आसिञ्चतीत्यर्थः ॥ १८ ॥

Eggeling
  1. He then pours in the goat’s milk 32; for that (Mahāvīra pot) when heated, becomes glowing: he thus soothes it, and when soothed he pours the cow’s milk into it–

१९

विश्वास-प्रस्तुतिः

(ती᳘) इ᳘न्द्राश्विनेति॥
(ती᳘) इ᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता सा᳘ यैव᳘ यज्ञ᳘स्य देव᳘ता ता᳘मे᳘वैत᳘त्प्रीणात्यश्विने᳘त्यश्वि᳘नावे᳘वैत᳘दाहाश्वि᳘नौ वा᳘ ऽएत᳘द्यज्ञ᳘स्य शि᳘रः प्र᳘त्यधत्तान्ता᳘वे᳘वैत᳘त्प्रीणाति त᳘स्मादाहे᳘न्द्राश्विने᳘ति॥

मूलम् - श्रीधरादि

(ती᳘) इ᳘न्द्राश्विनेति॥
(ती᳘) इ᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता सा᳘ यैव᳘ यज्ञ᳘स्य देव᳘ता ता᳘मे᳘वैत᳘त्प्रीणात्यश्विने᳘त्यश्वि᳘नावे᳘वैत᳘दाहाश्वि᳘नौ वा᳘ ऽएत᳘द्यज्ञ᳘स्य शि᳘रः प्र᳘त्यधत्तान्ता᳘वे᳘वैत᳘त्प्रीणाति त᳘स्मादाहे᳘न्द्राश्विने᳘ति॥

मूलम् - Weber

इ᳘न्द्राश्विनेति॥
इ᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता साॗ यैव᳘ यज्ञ᳘स्य देव᳘ता ता᳘मेॗवैत᳘त्प्रीणात्यश्विने᳘त्यश्वि᳘नावेॗवैत᳘दाहाश्वि᳘नौ वा᳘ एत᳘द्यज्ञ᳘स्य शि᳘रः प्र᳘त्यधत्तां ता᳘वेॗवैत᳘त्प्रीणाति त᳘स्मादाहे᳘न्द्राश्विने᳘ति॥

मूलम् - विस्वरम्

“इन्द्राश्विना”- इति । इन्द्रो वै यज्ञस्य देवता । सा यैव यज्ञस्य देवता । तामेवैतत्प्रीणाति । अश्विनेति । अश्विनावेवैतदाह । अश्विनौ वा एतद्यज्ञस्य शिरः प्रत्यधत्ताम् । तावेवैतत्प्रीणाति । तस्मादाह- “इन्द्राश्विना”- इति ॥ १९ ॥

सायणः

अथास्मिन्मंत्रे ‘इंद्राश्विनेति’ संबुद्ध्यंतं पदद्वयम् । तत्र इंद्रशब्देन पूर्वपदेन प्रतिपाद्यां देवतां स्तौति- इंद्रो वै० त्प्रीणातीति । व्याख्यातमेतत्पूर्वम् । अथोत्तरपदमनूद्य व्याचष्टे- अश्विनेत्य० त्प्रीणातीति । ‘एतत्’ अश्विनेत्येतेनोत्तरपदेन । गतमन्यत् । यस्मादेवं ‘तस्मात्’ देवताद्वयप्रतिपादकं पदं प्रथमतो वक्तव्यं इति निगमयति- तस्मादाहेन्द्राश्विनेति इति ॥ १९ ॥

Eggeling
  1. With, ‘O Indra and ye Aśvins!’–for Indra is the deity of the sacrifice, and he thus pleases him who is the deity of the sacrifice; and ‘Ye Aśvins’ he says, because the Aśvins at that time restored the head of the sacrifice, and it is them he thus pleases: therefore he says, ‘O Indra and ye Aśvins!’

२०

विश्वास-प्रस्तुतिः

म᳘धुनः सारघस्ये᳘ति॥
(त्ये) एतद्वै म᳘धु सारघं᳘ घर्म᳘म्पाते᳘ति र᳘सम्पाते᳘त्ये᳘वैत᳘दाह व्व᳘सव ऽइ᳘त्येते वै व्व᳘सव ऽएते᳘ हीदᳫँ᳭ स᳘र्व्वं वास᳘यन्ते य᳘जत व्वाडि᳘ति तद्य᳘था व्व᳘षट्कृत᳘ᳫँ᳘ हुत᳘मेव᳘मस्यैत᳘द्भवति॥

मूलम् - श्रीधरादि

म᳘धुनः सारघस्ये᳘ति॥
(त्ये) एतद्वै म᳘धु सारघं᳘ घर्म᳘म्पाते᳘ति र᳘सम्पाते᳘त्ये᳘वैत᳘दाह व्व᳘सव ऽइ᳘त्येते वै व्व᳘सव ऽएते᳘ हीदᳫँ᳭ स᳘र्व्वं वास᳘यन्ते य᳘जत व्वाडि᳘ति तद्य᳘था व्व᳘षट्कृत᳘ᳫँ᳘ हुत᳘मेव᳘मस्यैत᳘द्भवति॥

मूलम् - Weber

म᳘धुनः सारघस्ये᳘ति॥
एतद्वै म᳘धु सारघं᳘ घर्म᳘म् पाते᳘ति र᳘सम् पाते᳘त्येॗवैत᳘दाह व᳘सव इ᳘त्येते वै व᳘सव एतेॗ हीदᳫं स᳘र्वम् वास᳘यन्ते य᳘जत वाडिति तद्य᳘था व᳘षट्कृतᳫं हुत᳘मेव᳘मस्यैत᳘द्भवति॥

मूलम् - विस्वरम्

“मधुनः सारघस्य”- इति । एतद्वै मधु सारघम् । “घर्मं पात”- इति । रसं पातेत्येवैतदाह । “वसवः”- इति । एते वै वसवः । एते हीदं सर्वं वासयन्ते । “यजत वाट्”- (वा. सं. ३८ । ६) इति । तद्यथा वषट्कृतं हुतम् । एवमस्यैतद्भवति ॥ २० ॥

सायणः

अथ समनंतरभावि पदद्वयं उपादाय व्याचष्टे- मधुनः सार० सारघमिति । ‘एतद्वै’ एतदेव खलु महावीरस्य रुचिः ‘सारघं’ सरघा मधुमक्षिका तत्संबंधि ‘मधु’ । अतो मधुनः सारघस्येति विशेष्यत इत्यर्थः । अथान्यत् पदद्वयमुपादाय व्याचष्टे- घर्म्मं पाते० तदाहेति । घर्म्मशब्दाभिधेयस्य हविषः षष्ठ्यंतेन “मधुनः सारघस्य” इत्यनेन उक्तत्वात् अयं द्वितीयांतो घर्मशब्दः “घृ क्षरणदीप्त्योः” (धा. पा. जु. प. १४) इत्यवयवप्रसिद्ध्या रसपरः । अतः “घर्मं पात” इत्यस्य “रसं पात” इत्येवात्र व्याख्यानम् । अथ ‘वसवः’ इति पदमुपादाय व्याचष्टे- वसव ऽइत्येते० वासयन्त इति । ‘हि’ यस्मात् ‘इदं सर्वं’ जगत् इन्द्रश्च अश्विनौ च ‘एते’ देवाः ‘वासयंते’ प्रवर्षणप्रकारादिना स्वे स्वे कर्मणि निवेशयंति । तस्मादेते खलु ‘वसवः’ । अतो वसव इति तेषां संबन्धनम् । यद्वा वसवो नाम गणशो वर्तमानाः अन्ये देवाः तत्परत्वेनापि व्याख्येयः । यजत वाडिति । वाट्शब्दस्याप्रसिद्धत्वात् विवक्षितमर्थमाह- यजत वाडि०द्भवतीति । ऋत्विजो यूयं देवान् ‘यजत’ । तत्तत्र साक्षात् वषट्कारेण दत्तं हविः यथा ‘हुतं’ भवति । एवं वाडिति परो ऽक्षवषट्कारेणापि दत्तं हविः हुतमेव भवतीत्यर्थः । ततो वाट्शब्देन पारोक्ष्येण वषट्कारो निर्द्दिश्यते इत्यर्थः । तथा च तैत्तिरीयके अस्य मन्त्रस्य व्याख्यानावसरे “यदि वषट्कुर्याद्यातयामा ऽस्य” इत्यादिना प्रत्यक्षवषट्कारं पूर्वपक्षीकृत्य “वाडित्याह परोक्षमेव वषट्करोति” (तै. आ. ५ । ६) इति सिद्धांतितम् ॥ २० ॥

Eggeling
  1. ‘Of bees’ honey’–this is indeed honey;–‘drink ye the Gharma (hot draught),’–that is to say, drink ye the liquor;’–‘ye true ones,’–those (deities) are indeed true (vasu), for it is

they that maintain (vāsaya) all this (universe);–‘worship ye, vāṭ!’ thus this comes to be for him as if it were offered with the Vashaṭ-call.

२१

विश्वास-प्रस्तुतिः

स्वा᳘हा सू᳘र्य्यस्य रश्म᳘ये व्वृष्टिव᳘नय ऽइ᳘ति॥ सू᳘र्य्यस्य ह वा ऽए᳘को रश्मि᳘र्व्वृष्टिव᳘निर्न्ना᳘म ये᳘नेमाः स᳘र्व्वाः प्प्रजा᳘ बिभ᳘र्त्ति त᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह स्वा᳘हा सू᳘र्य्यस्य रश्म᳘ये व्वृष्टिव᳘नय ऽइत्य᳘वरᳫँ᳭ स्वाहाकार᳘ङ्करो᳘ति प᳘रान्देव᳘तामसा᳘वेव ब᳘न्धुः॥

मूलम् - श्रीधरादि

स्वा᳘हा सू᳘र्य्यस्य रश्म᳘ये व्वृष्टिव᳘नय ऽइ᳘ति॥ सू᳘र्य्यस्य ह वा ऽए᳘को रश्मि᳘र्व्वृष्टिव᳘निर्न्ना᳘म ये᳘नेमाः स᳘र्व्वाः प्प्रजा᳘ बिभ᳘र्त्ति त᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह स्वा᳘हा सू᳘र्य्यस्य रश्म᳘ये व्वृष्टिव᳘नय ऽइत्य᳘वरᳫँ᳭ स्वाहाकार᳘ङ्करो᳘ति प᳘रान्देव᳘तामसा᳘वेव ब᳘न्धुः॥

मूलम् - Weber

स्वा᳘हा सू᳘र्यस्य रश्म᳘ये वृष्टिव᳘नय इ᳘ति सू᳘र्यस्य ह वा ए᳘को रश्मि᳘र्वृष्टिव᳘निर्ना᳘म ये᳘नेमाः स᳘र्वाः प्रजा᳘ बिभ᳘र्ति त᳘मेॗवैत᳘त्प्रीणाति त᳘स्मादाह स्वा᳘हा सू᳘र्यस्य रश्म᳘ये वृष्टिव᳘नय इत्य᳘वरᳫं स्वाहाकारं᳘ करो᳘ति प᳘रां देव᳘तामसा᳘वेव ब᳘न्धुः॥

मूलम् - विस्वरम्

“स्वाहा सूर्यस्य रश्मये वृष्टिवनये” (वा. सं. ३८ । ६) इति । सूर्यस्य ह वा एको रश्मिर्वृष्टिवनिर्नाम । येनेमाः सर्वाः प्रजाः बिभर्ति । तमेवैतत्प्रीणाति । तस्मादाह- “स्वाहा सूर्यस्य रश्मये वृष्टिवनये”- इति । अवरं स्वाहाकारं करोति । परां देवताम् । असावेव बंधुः ॥ २१ ॥

सायणः

अथान्यं मन्त्रभागमुपादाय व्याचष्टे- स्वाहा सूर्यस्य० बंधुरिति । ‘सूर्यस्य’ खलु रश्मीनां मध्ये एको रश्मिः ‘वृष्टिवनिः’ वृष्टेर्वर्षस्य वनिता संभक्ता दाता । नामशब्दः प्रसिद्ध्यर्थः । तामेव प्रसिद्धिमाह- येनेति । ‘येन’ खलु रश्मिना वृष्टिप्रदानसमर्थेन ‘इमाः सर्वाः प्रजाः बिभर्ति’ पोषयति । ‘तमेव’ रश्मिं ‘एतत्’ एतेन “स्वाहा सूर्यस्य” इति मन्त्रशेषेण ‘प्रीणाति’ तर्पयति । “तस्मात्” इत्यादि निगमनम् । सिद्धमन्यत् ॥ २१ ॥

Eggeling
  1. ‘Hail to Sūrya’s ray, the rain-winner 33!’–for one of the sun’s rays is called ‘rain-winner,’ whereby he supports all these creatures: it is that one he thus pleases, and therefore he says, ‘Hail to Sūrya’s ray, the rain-winner!’ The call of hail he places first, and the deity last: the significance of this is the same as before 34.

२२

विश्वास-प्रस्तुतिः

(र᳘) अथैतद्वै॥ (द्वा ऽआ᳘) आयुरेतज्ज्यो᳘तिः प्र᳘विशति य᳘ ऽएतम᳘नु वा[[!!]] ब्रूते᳘ भक्ष᳘यति वा[[!!]] त᳘स्य व्व्रतचर्य्या या[[!!]] सृ᳘ष्टौ॥

मूलम् - श्रीधरादि

(र᳘) अथैतद्वै॥ (द्वा ऽआ᳘) आयुरेतज्ज्यो᳘तिः प्र᳘विशति य᳘ ऽएतम᳘नु वा[[!!]] ब्रूते᳘ भक्ष᳘यति वा[[!!]] त᳘स्य व्व्रतचर्य्या या[[!!]] सृ᳘ष्टौ॥

मूलम् - Weber

अथैतद्वै आयुरेतज्ज्योतिः प्रविशति य एतमनु वा᳘ ब्रूते भक्षयति वा᳘ तस्य व्रतचर्या या᳘ सृष्टौ॥

मूलम् - विस्वरम्

अथ एतद्वा आयुः, एतज्ज्योतिः प्रविशति । य एतमनु वा ब्रूते । भक्षयति वा । तस्य व्रतचर्या- या सृष्टौ ॥ २२ ॥

सायणः

पूर्वाध्यायप्रथमब्राह्मणावसानोक्तां व्रतचर्यां अतीतेषु ब्राह्मणेष्विव एतद्ब्राह्मणाध्ययनतदर्थानुष्ठानयोरंगत्वेनातिदिशति- अथैतद्वा० सृष्टाविति । ‘या’ सृष्टिब्राह्मणे उक्ता ‘व्रतचर्या’ “नातपति प्रच्छादयेत” (श. प. १४ । १ । १ । ३३) इत्यादिका । सैव एतद्ब्राह्मणं अधीयानस्य तदर्थानुष्ठायिनश्च कर्तव्येत्यर्थः ॥ २२ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये चतुर्दशे काण्डे तदन्तर्भूते प्रथमे प्रवर्ग्यकाण्डे द्वितीये ऽध्याये प्रथमं ब्राह्मणम् ॥ १४ (१) । २ । १ ॥

Eggeling
  1. And, verily, whosoever either teaches, or partakes of, this (Pravargya) enters that life, and that light: the observance thereof is the same as at the creation 35.

  1. अहः केतुनेति दक्षिण रौहिणं जुहोति । का. श्रौ. सू. २६ । ७१ । ↩︎

  2. रात्रिरिति सायम् । का. श्रौ. सू. २६ । ७१ । ↩︎

  3. 472:2 According to the Sūtras and the Taitt. Ār., the southern cake is offered at this juncture of the performance, whilst the northern one is offered later on (see XIV, 2, 2, 41). For both cakes one and the same text is used, viz. the first of the two here mentioned at the morning performance, whilst the second is used at the afternoon performance. The cakes, being one-kapāla ones (the two ‘rauhiṇahavanī’ ladles serving as kapālas), must be offered entire. Cf. Kāty. XXVI, 4, 14; 6, 18; Āpast. XV, 10, 1; 11, 5; 12, 7; Taitt. Ār. IV, 10, 4. Though our Brāhmaṇa expresses itself in a rather peculiar way, its statement, here and at XIV, 2, 2, 41, is perhaps meant to imply the same mode of procedure. If this is the case, the two paragraphs would mean,–at this juncture of the two performances he offers the two southern (northern, at XIV, 2, 2, 41) cakes,–the two cakes (the southern and the northern one) of the morning performance requiring the first, and those of the afternoon performance the second, text. It is not impossible, however, that the author intends a different mode of procedure or wishes to leave it purposely vague. If we were to read ‘rauhiṇam’ for ‘rauhiṇau,’ the text would be more in accordance with the practice prescribed in the Sūtras. Cf. also Mahīdh. (on Vāj. S. XXXVII, 21)–where read ‘rauhiṇau’ instead of ‘pravargyau’–who adopts the procedure here explained. ↩︎

  4. स्वर्ग᳘ल्लोकᳫ A. ↩︎

  5. त᳘स्मादे᳘षोऽहोरात्रा᳘भ्यां प᳘रिगृह्णीत A. ↩︎

  6. देवस्य त्वेति रज्जुसंदानमादाय । का. श्रौ. सू. २६ । ७२ । रज्जुसंदानं घर्मधुग्बन्धनार्था या पाशवती रज्जुः तस्था एव पञ्चात्पादबंधनार्थं संदानं तदादायेति कर्कः । ↩︎ ↩︎ ↩︎

  7. 474:1 The edition omits ‘adityai,’ and reads ‘devebhyas’ for ‘devasya.’ ↩︎

  8. 474:2 See I, 2, 4, 4; 3, 1, 15. ↩︎

  9. शतपथे ऽपि गर्गत्रिरात्रे “तद्यत्रैतत्त्रिरात्रे सहस्रं ददाति” इत्युपक्रम्य “अथ दक्षिणे कर्ण आजपति इडे रन्ते हव्ये काम्ये चन्द्रे ज्योते ऽदिति सरस्वति महि विश्रुति । एता ते अघ्न्ये नामानि देवेभ्यो मा सुकृतम्ब्रूतादिति वोचेरिति वैतानि ह वा अस्यै देवत्रा नामानि सा यानि ते देवग्रा नामानि तैर्मा देवेभ्यः सुकृतं ब्रूतादित्येवैतदाह” श. प. ४ । ५ । ८ । १० । इति । “इडे रंते०" । वा. सं. ८ । ४३ । ↩︎

  10. नाम्ना च त्रिरुच्चैः । अपरेण गार्हपत्यं गच्छन् । का. श्रौ. सू. २६ । ७२ । ↩︎

  11. 474:3 As, for instance, Dhavalī, or Gaṅgā. ↩︎

  12. अदित्यै रास्नेति गां पाशेन प्रतिमुच्य स्थूणायां बद्ध्वा का. श्रौ. सू. २६ । ७४ । ↩︎ ↩︎

  13. 474:4 Or nourishes, makes grow, inasmuch as it brings about rain (Mahīdhara). ↩︎

  14. संदाय घर्माय दीष्वेति वत्समुन्नयति का. श्रौ. सू. २६ । ७५ । संदानं घर्मदुहो गोः पश्चात् पादयोर्नियुज्येति संदायेत्यस्यार्थः । ↩︎ ↩︎

  15. 475:1 Whilst the calf is sucking, he secures the cow by tying together her hind legs. ↩︎

  16. स्वाहेन्द्रवदिति विप्रुषो ऽभिमंत्रयते । का. श्रौ. सू. २६ । ७७ । ↩︎

  17. अत्र कर्कः- काण्वपाठे स्तनानालभते इति । तथा च सर्वेषामालंभः युगपत्, शक्यत्वात् । इति । एवं प्रतिप्रस्थाता ऽजां मयूखे तूष्णीम् । का. श्रौ. सू. २६ । ७९ । दोग्धीति शेषः । कर्मपरिपाटी चैवम् । पाशप्रतिमोकः मयूखे बंधनं बर्करोत्सर्गः पश्चात्पादयोः संदानं बर्करोन्नयनं पिन्वने दोहनं विप्रुडभिमंत्रणं सर्वस्तनालंभो युगपत् । इति । ↩︎

  18. उत्तिष्ठ ब्रह्मणस्पत इत्युच्यमान उपोत्तिष्ठति । का. श्रौ. सू. २६ । ८१ । गोसमीपात् इति शेषः । ↩︎ ↩︎

  19. विमितं प्रति गच्छतीति कर्कः । ↩︎

  20. 476:1 Or, one of the teats (stanam); according to Mahīdhara, the part is used for the whole; and the Kāṇva recension indeed reads ‘stanān’ (the teats); cf. Kāty, XXVI, 5, 7, comm. ↩︎

  21. 476:2 The author apparently derives ‘śaśaya’ (? perennial, inexhaustible) from ‘śī,’ to lie, sleep, as does Mahīdhara. ↩︎

  22. 476:3 Viz. as at I, 1, 2, 4.–According to Kāty. XXVI, 5, 10 seq., the Hotr̥ says, ‘Arise, Brahmaṇaspati!’ whereupon the Adhvaryu rises; and the Hotr̥ again calling, ‘Hasten up with the milk!’ he steps up to the Gārhapatya. ↩︎

  23. शफवा᳘दते A. ↩︎

  24. परीशासावादत्ते गायत्रं छंदो ऽसीति प्रतिमन्त्रम् । का. श्रौ. सू. २६ । ८३ ॥ ↩︎

  25. उद्यम्य मुंजवेदेनोपमृज्य । (का. श्रौ. सू. २६ । ८६ । उद्यम्य महावीरं परीशासाभ्यामुत्क्षिप्येत्यर्थः ॥ ↩︎

  26. बंधुः मुंजब्राह्मणं, अत्र तु शतपथे १४ । १ । ३ । १६ कंडिकायां प्रवर्ग्यप्रकरणे उक्त एव । “तदुभयत ऽआदीप्ता मौञ्जाः प्रलवा भवंति” इत्यादि ॥ ↩︎

  27. 476:4 See p. 458, note 1. ↩︎

  28. उपयमन्योपगृह्णात्यंतरिक्षेणोपयच्छामीति । (का. श्रौ. सू. २६ । ८६) ॥ ↩︎ ↩︎

  29. 477:1 The ‘upayamanī’ is apparently a kind of bowl, or hollow tray of hard (udumbara) wood, somewhat larger than the (bowls of the) spoons or ladles used on this occasion, and, indeed, also itself used as such. ↩︎

  30. “अश्विभ्यां पिन्वस्वेति पिन्वने दोग्धि ।” (का. श्रौ. सू. २६ । ७६) इत्युपक्रम्य “एवं प्रतिप्रस्थाता ऽजां मयूखे तूष्णीम्" इति । का. श्रौ. सू. २६ । ७९ । प्रपंचितं चैतत्सूत्रं पंचदशीकण्डिकायां भाष्यटिप्पण्याम् ॥ ↩︎

  31. शांते गोः पयो ऽवनयतीन्द्राश्विनेति । का. श्रौ. सू. २६ । ८७ ॥ ↩︎

  32. 477:2 Whilst the Adhvaryu was milking the cow into the earthen bowl (pinvana), his assistant, the Pratiprasthātr̥, silently milked a goat tied to the peg. ↩︎

  33. 478:1 According to Taitt. Ār. IV, 8, 4; Āpast. XV, 10, 2, this formula is addressed to the steam rising from the Mahāvīra pot–it being accordingly modified to ‘I offer thee to Sūrya’s ray, the rain-winner.’ ↩︎

  34. 478:2 XIV, 1, 3, 26. ↩︎

  35. 478:3 See p. 458, note 1. ↩︎