०१

विश्वास-प्रस्तुतिः

स᳘ य᳘दैत᳘दध्वर्य्युः᳘॥
(रु) उपोत्ति᳘ष्ठन्ना᳘ह रुचितो᳘ घर्म ऽइ᳘ति त᳘दुपोत्था᳘यावकाशैरु᳘पतिष्ठन्ते प्राणा वा᳘ ऽअवकाशाः᳘ प्राणा᳘ने᳘वास्मिन्नेत᳘द्दधाति[[!!]] षडु᳘पतिष्ठन्ते षड्वा᳘ ऽइमे᳘ शीर्ष᳘न्प्राणास्ता᳘ने᳘वास्मिन्नेत᳘द्दधाति॥

मूलम् - श्रीधरादि

स᳘ य᳘दैत᳘दध्वर्य्युः᳘॥
(रु) उपोत्ति᳘ष्ठन्ना᳘ह रुचितो᳘ घर्म ऽइ᳘ति त᳘दुपोत्था᳘यावकाशैरु᳘पतिष्ठन्ते प्राणा वा᳘ ऽअवकाशाः᳘ प्राणा᳘ने᳘वास्मिन्नेत᳘द्दधाति[[!!]] षडु᳘पतिष्ठन्ते षड्वा᳘ ऽइमे᳘ शीर्ष᳘न्प्राणास्ता᳘ने᳘वास्मिन्नेत᳘द्दधाति॥

मूलम् - Weber

स᳘ यॗदैत᳘दध्वर्युः᳟॥
उपोत्ति᳘ष्ठन्ना᳘ह रुचितो᳘ घर्म इ᳘ति त᳘दुपोत्था᳘यावकाशैरु᳘पतिष्ठन्ते प्राणा वा᳘ अवकाशाः प्राणा᳘नेवा᳘स्मिन्नेत᳘द्दधाति षडु᳘पतिष्ठन्ते षड्वा᳘ इमे᳘ शीर्ष᳘न्प्राणास्ता᳘नेॗवास्मिन्नेत᳘द्दधाति॥

मूलम् - विस्वरम्

अथ प्रवर्ग्ये ऽवकाशोपस्थानं ब्राह्मणम् ।

स यदैतदध्वर्युरुपोत्तिष्ठन्नाह- “रुचितो घर्मः” इति । तदुपोत्थाय अवकाशैरुपतिष्ठते । प्राणा वा अवकाशाः । प्राणानेवास्मिन्नेतद्दधाति । षडुपतिष्ठंते । षड् वा इमे शीर्षन्प्राणाः । तानेवास्मिन्नेतद्दधाति ॥ १ ॥

सायणः

इत्थं तृतीये ब्राह्मणे घर्मसंदीपनमुक्तम् । अथ चतुर्थे प्रवर्ग्यकर्तॄणां अवकाशाख्यैः 1 मंत्रैरुपस्थानं विधत्ते- स यदै० दधातीति । उपस्थानस्य कालविधानाय रुचितो घर्मः इत्यन्तं वृत्तानुवादः । ‘सः’ अध्वर्युर्यदा ‘उपोत्तिष्ठन्’ “रुचितो घर्मः” इत्याह । तत् तदानीं सर्वे घर्मोपयुक्ताः ऋत्विजः ‘उपोत्थाय’ स्वकीयात् आसनात् उत्थाय तत्र तत्र स्थित्वा अवकाशाख्यैर्मंत्रैः “गर्भो देवानाम्" इत्यादिभिः घर्मं ‘उपतिष्ठंते’ एते अवकाशाख्या मन्त्राः प्राणात्मकाः । तैरुपस्थानेन ‘अस्मिन्’ घर्मे ‘प्राणानेव दधाति’ धारयति । अथोपस्थातॄणां संख्याम् उपजीव्य स्तौति- षडुपति० दधातीति । होता अध्वर्युः ब्रह्मा प्रतिप्रस्थता अग्नीत् इति पंच ऋत्विजो यजमानषष्ठाः षट्पुरुषाः एतैरवकाशैः ‘उपतिष्ठंते’ । गतमन्यत् ॥ १ ॥

Eggeling
  1. Now, when the Adhvaryu here steps up and says, ‘The Gharma is aglow,’ they step up and revere it (the Mahāvīra) with the Avakāśa 2; but the ‘avakāśa’ are the vital airs: it is thus the vital airs he lays into it. Six of them 3 step up to it, for six in number are these vital airs in the head: it is these he thus lays into it.

०२

विश्वास-प्रस्तुतिः

ग᳘र्भ्भो देवा᳘नामि᳘ति॥
(त्ये) एष वै ग᳘र्भ्भो देवा᳘नां य᳘ ऽएष त᳘पत्येष᳘ हीदᳫँ᳭ स᳘र्व्वङ्गृभ्णा᳘त्येते᳘नेदᳫँ᳭ स᳘र्वङ्गृभीत᳘मेष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह ग᳘र्भ्भो देवा᳘नामि᳘ति॥

मूलम् - श्रीधरादि

ग᳘र्भ्भो देवा᳘नामि᳘ति॥
(त्ये) एष वै ग᳘र्भ्भो देवा᳘नां य᳘ ऽएष त᳘पत्येष᳘ हीदᳫँ᳭ स᳘र्व्वङ्गृभ्णा᳘त्येते᳘नेदᳫँ᳭ स᳘र्वङ्गृभीत᳘मेष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह ग᳘र्भ्भो देवा᳘नामि᳘ति॥

मूलम् - Weber

ग᳘र्भो देवा᳘नामि᳘ति॥
एष वै ग᳘र्भो देवा᳘नां य᳘ एष त᳘पत्येषॗ हीदᳫं स᳘र्वं गृह्णा᳘त्येते᳘नेदᳫं स᳘र्वं गृभीत᳘मेष᳘ उ प्रव᳘र्ग्यस्त᳘देत᳘मेॗवैत᳘त्प्रीणाति त᳘स्मादाह ग᳘र्भो देवा᳘नामि᳘ति॥

मूलम् - विस्वरम्

“गर्भो देवानाम्”- इति । एष वै गर्भो देवानाम् । य एष तपति । एष हीदं सर्वं गृभ्णाति । एतेनेदं सर्वं गृभीतम् । एष उ प्रवर्ग्यः । तदेतमैवैतत्प्रीणाति । तस्मादाह- गर्भो देवानाम् इति ॥ २ ॥

सायणः

अथ तानवकाशान् वाक्यशः अनूद्य व्याचष्टे- गर्भो देवानामितीति । गर्भो देवानामिति आख्यानार्थमुपादानम् । ‘य एषः’ सूर्यस्तपति ‘एषः’ खलु ‘देवानाम्’ मध्ये ‘गर्भः’ । कुत इत्यत आह- एष हीदमिति । ‘हि’ यस्मात् । ‘इदं’ ‘सर्वं’ जगत् ‘एष सूर्यः गृभ्णाति’ “हृग्रंहोर्भश्छंदसि” (पा. सू. ३ । १ । ८४ वा.) इति भत्वम् । जगति विद्यमानं सर्वं रसं स्वकिरणैरुपादत्ते सर्वमनुगृह्णाति वा । यत एवं अतः ‘एतेन’ सूर्येण ‘इदं सर्वं जगत्’ गृभीतं गृहीतं अनुगृहीतम् तस्मादेष गर्भः । अन्यद्गतम् । तस्मादाहेति निगमनम् ॥ २ ॥

Eggeling
  1. [Vāj. S. XXXVII, 14,] ‘The child of the gods,’–the child (garbha) of the gods, in truth, is he that shines yonder, for he holds (grabh) everything here, and by him everything here is held; and the Pravargya also is that (sun): it is him he thus gratifies, and therefore he says, ‘The child of the gods.’

०३

विश्वास-प्रस्तुतिः

पिता᳘ मतीनामि᳘ति॥
पिता᳘ ह्येष᳘ मतीनाम्प᳘तिः प्रजा᳘नामि᳘ति प᳘ति᳘र्ह्येष᳘ प्रजा᳘नाम्॥

मूलम् - श्रीधरादि

पिता᳘ मतीनामि᳘ति॥
पिता᳘ ह्येष᳘ मतीनाम्प᳘तिः प्रजा᳘नामि᳘ति प᳘ति᳘र्ह्येष᳘ प्रजा᳘नाम्॥

मूलम् - Weber

पिता᳘ मतीनामि᳘ति॥
पिता᳘ ह्येष᳘ मतीनाम् प᳘तिः प्रजा᳘नामि᳘ति प᳘तिॗर्ह्येष᳘ प्रजा᳘नाम्॥

मूलम् - विस्वरम्

“पिता मतीनाम्”- इति । पिता ह्येष मतीनाम् । “पतिः प्रजानाम्”- इति । पतिर्ह्येष प्रजानाम् ॥ ३ ॥

सायणः

अथ वाक्यांतरमुपादाय प्रसिद्ध्या व्याचष्टे- पिता मतीनामितीति । ‘हि’ यस्मात् ‘एषः’ सूर्यः ‘मतीनां’ बुद्धीनां ‘पिता’ उत्पादयिता । सूर्योदये सति हि सुप्तानां सर्वेषां प्राणिनां प्रबोधेन सर्वाणि ज्ञानान्युत्पद्यंते । अतः सूर्यस्य तत्पितृत्वम् । “एष उ प्रवर्ग्यस्तदेतमेवैतत्’ इति प्रकृतो वाक्यशेषः अतः प्रभृति सर्वत्र अनुषंजनीयः । अथ अन्यवाक्यमुपादाय व्याचष्टे- पतिः प्रजानामिति । ‘एषः’ सूर्यः ‘प्रजानां’ प्रजायमानानां प्राणिनां वृष्ट्यादिप्रदानेन पालयिता हि । अन्यत् पूर्ववत् ॥ ३ ॥

Eggeling
  1. ‘The father of thoughts,’–for he (the sun) is indeed the father of thoughts;–’the lord of creatures,’–for he is indeed the lord of creatures.

०४

विश्वास-प्रस्तुतिः

(ᳫँ᳭) स᳘न्देवो᳘ देवे᳘न सवि᳘त्रा गते᳘ति॥ सᳫँ᳭ हि᳘ देवो᳘ देवे᳘न सवित्रा᳘ गत सᳫँ᳭ सू᳘र्य्येण रोचत ऽइ᳘ति सᳫँ᳭ हि सू᳘र्य्येण रो᳘चते॥

मूलम् - श्रीधरादि

(ᳫँ᳭) स᳘न्देवो᳘ देवे᳘न सवि᳘त्रा गते᳘ति॥ सᳫँ᳭ हि᳘ देवो᳘ देवे᳘न सवित्रा᳘ गत सᳫँ᳭ सू᳘र्य्येण रोचत ऽइ᳘ति सᳫँ᳭ हि सू᳘र्य्येण रो᳘चते॥

मूलम् - Weber

सं᳘ देवो᳘ देवे᳘न सविॗत्रागते᳘ति 4 सᳫं हि᳘ देवो᳘ देवे᳘न सवित्रा᳘गत सᳫं सू᳘र्येण रोचत इ᳘ति सᳫं हि सू᳘र्येण रो᳘चते॥

मूलम् - विस्वरम्

“सं देवो देवेन सवित्रा गत”- इति । सं हि देवो देवेन सवित्रा गत । “सं सूर्येण रोचते”- (वा. सं. ३७ । १४) इति । सं हि सूर्येण रोचते ॥ ४ ॥

सायणः

वाक्यांतरमुपादाय व्याचष्टे- सं देवो० गतेति । ‘हि’ यस्मात् देवनशीलो घर्मः देवयजनेन वर्तमानः देवेन देवनशीलेन ‘सवित्रा’ सर्वस्य प्रेरकेण दिवि वर्तमानेन सूर्येण ‘संगत’ समगच्छत । संपूर्वात् गमेः “समो गम्यृच्छिभ्याम्”- (पा. सू. १ । ३ । २९) इत्यात्मनेपदम् । छांदसः शपो लुक् । “अनुदात्तोपदेश०” (पा. सू. ६ । ४ । ३७) इत्यादिना अनुनासिकलोपः । तस्मात् “सं देवो देवेन” इति मन्त्रवाक्यं संगतमित्यर्थः । अथ अन्यद्वाक्यमनूद्य व्याचष्टे- सँ सूर्येण रोचत इति । अयं संततो घर्मः ‘सूर्येण’ द्युस्थेन ‘संरोचते’ संगतो दीप्यते । ‘हि’ यस्मात् “सं सूर्येण” इति वाक्यं समवेतार्थमित्यर्थः ॥ ४ ॥

Eggeling
  1. ‘The god hath united with the god Savitr̥,’–for the god (the Mahāvīra) has indeed united with the god Savitr̥ (the sun);–‘with Sūrya he shineth,’–for (equally) with Sūrya (the sun) he has indeed shone.

०५

विश्वास-प्रस्तुतिः

स᳘मग्नि᳘रग्नि᳘ना गते᳘ति॥
स᳘ᳫँ᳘ ह्यग्नि᳘रग्निना᳘[[!!]] गत सन्दै᳘वेन सवित्रे᳘ति सᳫँ᳭ हि दै᳘वेन सवित्रा᳘ गत सᳫँ᳭ सू᳘र्य्येणारोचिष्टे᳘ति सᳫँ᳭ हि सू᳘र्य्येणा᳘रोचिष्ट॥

मूलम् - श्रीधरादि

स᳘मग्नि᳘रग्नि᳘ना गते᳘ति॥
स᳘ᳫँ᳘ ह्यग्नि᳘रग्निना᳘[[!!]] गत सन्दै᳘वेन सवित्रे᳘ति सᳫँ᳭ हि दै᳘वेन सवित्रा᳘ गत सᳫँ᳭ सू᳘र्य्येणारोचिष्टे᳘ति सᳫँ᳭ हि सू᳘र्य्येणा᳘रोचिष्ट॥

मूलम् - Weber

स᳘मग्नि᳘रग्नि᳘नागते᳘ति 5
सᳫं ह्य᳘ग्नि᳘रग्निना᳘गत सं दै᳘वेन सवित्रे᳘ति सᳫं हि दै᳘वेन सवित्रा᳘गत सᳫं सू᳘र्येणारोचिष्टे᳘ति सᳫं हि सू᳘र्येणा᳘रोचिष्ट॥

मूलम् - विस्वरम्

“समग्निरग्निना गत”- इति । सं ह्यग्निरग्निना गत । “सं दैवेन सवित्रा”- इति । सं हि दैवेन सवित्रा गत । “सं सूर्येणारोचिष्ट”- इति । सं हि सूर्येणारोचिष्ट ॥ ५ ॥

सायणः

एवं वर्तमानकाले घर्मस्य सूर्येण संरोचनं उक्त्वा, अथ भूतकाले ऽपि “समग्निरग्निना गत” इति द्वितीयेन अवकाशमन्त्रेण तदाह- समग्निरग्निना गतेति । ‘अग्निः’ अग्निवर्णः संतप्तो घर्मः ‘अग्निना’ आहवनीयलक्षणेन ‘संगत’ समगच्छत यागार्थम् । ‘हि’ यस्मात् एवं “समग्निरग्निना” इति मन्त्रवाक्यं संगतमित्यर्थः । अथ अन्यद्वाक्यमनूद्य व्याचष्टे- सं दैवेन० गतेति । ‘दैवेन’ देवेषु प्रसिद्धेन सर्वत्र हि अयं प्रवर्ग्यः समगच्छत । तस्मात् ‘सं दैवेन’ इत्याम्नातम् । अथ मन्त्रप्रतिपादितां रोचनस्य भूतकालसत्ताम् उपपादयितुं वाक्यांतरमनूद्य व्याचष्टे- सँ सूर्येणारोचिष्टेति । “रुचितो घर्मः” इति प्रैषमन्त्रोच्चारणेन घर्मरोचनस्य निष्पन्नत्वात् तादृशो घर्मः सूर्येण ‘समरोचिष्ट हि’ संगत्य दीप्तः अभूत् । तस्मात् “सँ सूर्येणारोचिष्ट” इति रोचनस्य भूतकालसत्ताप्रतिपादनं युक्तम् । “रुच दीप्तौ” (धा. पा. भ्वा. आ. ७४६) इति धातुः ॥ ५ ॥

Eggeling
  1. [Vāj. S. XXXVII, 15,] ‘Agni hath united with Agni,’–for Agni (fire) has indeed united with Agni;–‘with the divine Savitr̥,’–for with the divine Savitr̥ he has indeed united;–‘with Sūrya

he hath shone,’–for with Sūrya he has indeed shone.

०६

विश्वास-प्रस्तुतिः

स्वा᳘हा स᳘मग्निस्त᳘पसा गते᳘ति॥ स᳘ᳫँ᳭ ह्यग्निस्त᳘पसा᳘[[!!]] गता᳘ ऽवरᳫँ᳭ स्वाहाकार᳘ङ्करो᳘ति प᳘रान्देव᳘तामसा᳘वेव ब᳘न्धुः सन्दै᳘व्येन सवित्रे᳘ति सᳫँ᳭ हि दै᳘व्येन सवित्रा᳘ गत सᳫँ᳭ सू᳘र्य्येणारूरुचते᳘ति सᳫँ᳭ हि सू᳘र्य्येणा᳘रूरुचत॥

मूलम् - श्रीधरादि

स्वा᳘हा स᳘मग्निस्त᳘पसा गते᳘ति॥ स᳘ᳫँ᳭ ह्यग्निस्त᳘पसा᳘[[!!]] गता᳘ ऽवरᳫँ᳭ स्वाहाकार᳘ङ्करो᳘ति प᳘रान्देव᳘तामसा᳘वेव ब᳘न्धुः सन्दै᳘व्येन सवित्रे᳘ति सᳫँ᳭ हि दै᳘व्येन सवित्रा᳘ गत सᳫँ᳭ सू᳘र्य्येणारूरुचते᳘ति सᳫँ᳭ हि सू᳘र्य्येणा᳘रूरुचत॥

मूलम् - Weber

स्वा᳘हा स᳘मग्निस्त᳘पसागते᳘ति सᳫं ह्य᳘ग्निस्त᳘पसा᳘गता᳘वरᳫं स्वाहाकारं᳘ करो᳘ति प᳘रां देव᳘तामसा᳘वेव ब᳘न्धुः सं दै᳘व्येन सवित्रे᳘ति सᳫं हि दै᳘व्येन सवित्रा᳘गत सᳫं सू᳘र्येणारूरुचते᳘ति सᳫं हि सू᳘र्येणा᳘रूरुचत॥

मूलम् - विस्वरम्

“स्वाहा समग्निस्तपसा गत”- इति । सं ह्यग्निस्तपसा गत । अवरं स्वाहाकारं करोति । परां देवताम् । असावेव बंधुः । “सं दैव्येन सवित्रा”- इति । सं हि दैव्येन सवित्रा गत । “सं सूर्येणारूरुचत”- (वा. सं. ३७ । १५) इति । सं हि सूर्येणारूरुचत ॥ ६ ॥

सायणः

अथ तृतीयमवकाशमंत्रं वाक्यशः अनूद्य व्याचष्टे- स्वाहा समग्नि० रूरुचतेति । ‘हि’ यस्मात् अयमग्निरग्निवर्णः प्रवर्ग्यः ‘तपसा’ तापेन ‘संगत’ समगच्छत । तस्मात् “समग्निस्तपसा गत” इत्ययमंशः संगतः । अवरमधस्तात् आदौ वर्तमानं ‘स्वाहाकारं’ स्वाहेति शब्दस्य करणं उच्चारणं ‘करोति’ । ‘परां’ सूर्यरूपां ‘देवतां’ । स्वाहाशब्दप्रतिपाद्यं संस्मर्तुं ‘असावेव’ खलु देवता बंधुः छिन्नस्य यज्ञशिरसः बंधनहेतुः । तथा ‘दैव्येन’ देवतासंबंधिना ‘सवित्रा’ प्रेरकेण सूर्येण दिवि प्रकाशमानेन सार्द्धम् अयं तप्तो घर्मः ज्वालाद्वारेण ‘समरूरुचत’ सम्यगदीप्यत । तस्मात् “सँ सूर्येणारूरुचत” इति मन्त्रभागः समवेतार्थः ॥ ६ ॥

Eggeling
  1. ‘Hail! Agni hath united with his heat,’–for Agni has indeed united with his heat; the call of hail he places first, and the deity last: the significance of this is the same as before;–‘with the divine Savitr̥,’–for with the divine Savitr̥ he has indeed united;–‘with Sūrya he hath shed light,’–for with Sūrya he has indeed shed light.

०७

विश्वास-प्रस्तुतिः

ते वा᳘ ऽएते त्र᳘यो ऽवकाशा᳘ भवन्ति॥
त्र᳘यो वै᳘ प्राणाः᳘ प्राण᳘ ऽउदानो᳘ व्यानस्ते᳘नै᳘वास्मिन्नेत᳘द्दधाति॥

मूलम् - श्रीधरादि

ते वा᳘ ऽएते त्र᳘यो ऽवकाशा᳘ भवन्ति॥
त्र᳘यो वै᳘ प्राणाः᳘ प्राण᳘ ऽउदानो᳘ व्यानस्ते᳘नै᳘वास्मिन्नेत᳘द्दधाति॥

मूलम् - Weber

ते वा᳘ एते त्र᳘योऽवकाशा᳘ भवन्ति॥
त्र᳘यो वै᳘ प्राणाः᳘ प्राण᳘ उदानो᳘ व्यानस्ते᳘नैॗवास्मिन्नेत᳘द्दधाति॥

मूलम् - विस्वरम्

ते वा एते त्रयो ऽवकाशा भवंति । त्रयो वै प्राणाः- प्राण उदानो व्यानः । तानेवास्मिन्नेतद्दधाति ॥ ७ ॥

सायणः

एवं “गर्भो देवानां” १ “समग्निरग्निना गत” २ “स्वाहा समग्निः” ३ इति ‘त्रयः अवकाशाः’ उक्ताः । अथैतान् संहत्य स्तौति- ते वा एते० दधातीति । ‘ते’ खलु ‘एते’ अवकाशाख्याः “गर्भो देवानां” इत्याद्याः त्रयो मन्त्रा भवन्ति । अन्यत् त्रित्वविधिशेष (श. प. १४ । १ । ३ । ३० ।) व्याख्याने व्याख्यातम् ॥ ७ ॥

Eggeling
  1. These, then, are three ‘avakāśa,’–for there are three vital airs, the in (and out)-breathing, the up-breathing, and the through-breathing: it is thereby that he lays it (the vital air) into him.

०८

विश्वास-प्रस्तुतिः

धर्त्ता᳘[[!!]] दिवो व्वि᳘भाति त᳘पसस्पृथिव्यामि᳘ति॥
धर्त्ता᳘ ह्येष᳘ दिवो᳘ व्विभा᳘ति त᳘पसस्पृथिव्या᳘न्धर्त्ता᳘ देवो᳘ देवा᳘नाम᳘मर्त्त्यस्तपोजा ऽइ᳘ति धर्त्ता᳘ ह्येष᳘ देवो᳘ देवा᳘नाम᳘मर्त्यस्तपोजा व्वा᳘चमस्मे नि᳘यच्छ देवायु᳘वमि᳘ति यज्ञो वै व्वा᳘ग्यज्ञ᳘मस्म᳘भ्यम्प्र᳘यच्छ ये᳘न देवा᳘न्प्रीणामे᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

धर्त्ता᳘[[!!]] दिवो व्वि᳘भाति त᳘पसस्पृथिव्यामि᳘ति॥
धर्त्ता᳘ ह्येष᳘ दिवो᳘ व्विभा᳘ति त᳘पसस्पृथिव्या᳘न्धर्त्ता᳘ देवो᳘ देवा᳘नाम᳘मर्त्त्यस्तपोजा ऽइ᳘ति धर्त्ता᳘ ह्येष᳘ देवो᳘ देवा᳘नाम᳘मर्त्यस्तपोजा व्वा᳘चमस्मे नि᳘यच्छ देवायु᳘वमि᳘ति यज्ञो वै व्वा᳘ग्यज्ञ᳘मस्म᳘भ्यम्प्र᳘यच्छ ये᳘न देवा᳘न्प्रीणामे᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

ध᳘र्ता दिवो वि᳘भाति त᳘पसस्पृथिव्यामि᳘ति॥
धर्ताॗ ह्येष᳘ दिवो᳘ विभा᳘ति त᳘पसस्पृथिव्यां᳘ धर्ता᳘ देवो᳘ देवा᳘नाम᳘मर्त्यस्तपोजा इ᳘ति धर्ताॗ ह्येष᳘ देवो᳘ देवा᳘नाम᳘मर्त्यस्तपोजा वा᳘चमस्मे नि᳘यछ देवायु᳘वमि᳘ति यज्ञो वै वा᳘ग्यज्ञ᳘मस्म᳘भ्यम् प्र᳘यछ ये᳘न देवा᳘न्प्रीणामे᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

“धर्ता दिवो विभाति तपसस्पृथिव्याम्”- इति । धर्ता ह्येष दिवो विभाति तपसस्पृथिव्याम् । “धर्ता देवो देवानाममर्त्यस्तपोजाः”- इति । धर्ता ह्येष देवो देवानाममर्त्यस्तपोजाः । “वाचमस्मे नियच्छ देवायुवम्"- (वा. सं. ३७ । १६) इति । यज्ञो वै वाग् । यज्ञमस्मभ्यं प्रयच्छ । येन देवान्प्रीणाम इत्येवैतदाह ॥ ८ ॥

सायणः

अथ चतुर्थमवकाशमन्त्रं वाक्यशः अनूद्य व्याचष्टे- धर्ता दिवो० तदाहेति । ‘एषः’ खलु सूर्यः ‘दिवः’ द्युलोकस्य ‘धर्ता’ । तथा तपसस्तापकस्य रश्मिजालस्य च धर्ता सन् ‘पृथिव्यां’ भूम्यां ‘विभाति’ विशेषेण दीप्यते । अतः तदात्मके प्रवर्ग्ये “धर्ता दिवः” इति मन्त्रः समवेतार्थ इत्यर्थः । तथा ‘एषः’ सूर्यो देवनशीलः ‘देवानां’ स्वव्यतिरिक्तानामिन्द्रादीनां ‘धर्ता’ धारयिता सूर्यगत्यधीनत्वाद्धविर्दानस्य इति सूर्यस्य हविर्भुजां धारकत्वं द्रष्टव्यम् । तथा ‘अमर्त्यः’ मरणरहितः ‘तपोजाः’ तपसः तप्यमानात् ब्रह्मणो जातः । ‘हि’ यस्मादेवं तस्मात् तदात्मकं प्रवर्ग्यं “धर्ता दिवः” इति मन्त्रभागेन स्तौतीत्यर्थः । तथा “वाचमस्मे नियच्छ” इति समनन्तरो मन्त्रभागः । तत्र वाक्शब्देन यज्ञ एव उच्यते । स्तुतशस्त्ररूपया वाचा निर्वर्त्यत्वात् । एवं च निष्पन्नं वाक्यार्थमाह- ‘वाचं’ यज्ञं ‘अस्मे’ अस्मभ्यं हे घर्म ! ‘नियच्छ’ प्रयच्छ देहि ‘येन’ यज्ञेन देवान् ‘प्रीणाम’ तर्पयामेति अमुमेवार्थमेतन्मन्त्रवाक्यमाह प्रतिपादयति ॥ ८ ॥

Eggeling
  1. [Vāj. S. XXXVII, 16,] ‘The sustainer of the sky, and of heat upon earth, shineth forth,’–for as the sustainer of the sky, and of heat on earth, that (sun, and Mahāvīra) indeed shines forth;–’the divine sustainer of the gods, he, the immortal, born of heat,’–for he is indeed the divine sustainer of the gods, the immortal one, born of heat;–‘grant unto us speech, devoted to the gods!’–speech doubtless is worship: he thus means to say thereby, ‘bestow upon us worship whereby we shall please the gods!’

०९

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘पश्यङ्गोपाम᳘निपद्य᳘मानमि᳘ति॥
(त्ये) एष वै᳘ गोपा य᳘ ऽएष त᳘पत्येष᳘ हीदᳫँ᳭ स᳘र्व्वङ्गोपायत्य᳘थो न नि᳘पद्यते त᳘स्मादाहा᳘पश्यङ्गोपाम᳘निपद्यमानमि᳘ति॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘पश्यङ्गोपाम᳘निपद्य᳘मानमि᳘ति॥
(त्ये) एष वै᳘ गोपा य᳘ ऽएष त᳘पत्येष᳘ हीदᳫँ᳭ स᳘र्व्वङ्गोपायत्य᳘थो न नि᳘पद्यते त᳘स्मादाहा᳘पश्यङ्गोपाम᳘निपद्यमानमि᳘ति॥

मूलम् - Weber

अ᳘पश्यं गोपाम᳘निपद्यमानमि᳘ति॥
एष वै᳘ गोपा य᳘ एष त᳘पत्येषॗ हीदᳫं स᳘र्वं गोपायत्य᳘थो न नि᳘पद्यते त᳘स्मादाहा᳘पश्यम् गोपाम᳘निपद्यमानमिति 6

मूलम् - विस्वरम्

“अपश्यं गोपामनिपद्यमानम्”- इति । एष वै गोपाः । य एष तपति । एष हीदं सर्वं गोपायति । अथो न निपद्यते । तस्मादाह- “अपश्यं गोपामनिपद्यमानम्”- इति ॥ ९ ॥

सायणः

अथान्यमवकाशमन्त्रं वाक्यशः अनूद्य व्याचष्टे- अपश्यं गोपा० चरतीति । ‘एषः’ सूर्यः ‘देवानां’ मध्ये ‘गोपाः’ गोपायिता । ‘हि’ यस्मात् ‘एषः’ ‘सर्वमिदं’ जगत् ‘गोपायति’ प्रकर्षेण प्रकाशनादिना रक्षति । ‘अथो’ अपि च ‘न निपद्यते’ न निपतति । किंतु उच्चैः सर्वदा दिवि वर्तते । ‘तस्मात्’ ‘अनिपद्यमानं’ ‘गोपां’ सूर्यं ‘अपश्यं’ अदर्शम् इति ऋषिः कृतसाक्षात्कारः आह । अथवा तदात्मकं प्रवर्ग्यं स्तोतुं- अपश्यं गोपामिति अध्वर्युराह ॥ ९ ॥

Eggeling
  1. [Vāj. S. XXXVII, 17; R̥g-v. I, 164, 31; X, 177, 3,] ‘I beheld the guardian, the never-resting 7,’–he who shines yonder is indeed the guardian, for he guards everything here; and he does not lie down to rest: therefore he says, ‘I beheld the guardian, the never-resting;’–

१०

विश्वास-प्रस्तुतिः

(त्या᳘) आ᳘ च प᳘रा च पथि᳘भिश्च᳘रन्तमि᳘ति॥
(त्या᳘) आ᳘ च᳘ ह्येष प᳘रा च देवैः᳘ पथि᳘भिश्च᳘रति स᳘ सध्री᳘चीः स व्वि᳘षूचीर्व्व᳘सान ऽइ᳘ति सध्री᳘चीश्च᳘ ह्येष व्वि᳘षूचीश्च दि᳘शो व्वस्ते᳘ ऽथो रश्मीना᳘वरीवर्त्ति भु᳘वनेष्वन्तरि᳘ति पुनः पुन᳘र्ह्येष᳘ ऽएषु᳘ लोके᳘षु व्वरीवर्त्त्य᳘मानश्चरति[[!!]]॥

मूलम् - श्रीधरादि

(त्या᳘) आ᳘ च प᳘रा च पथि᳘भिश्च᳘रन्तमि᳘ति॥
(त्या᳘) आ᳘ च᳘ ह्येष प᳘रा च देवैः᳘ पथि᳘भिश्च᳘रति स᳘ सध्री᳘चीः स व्वि᳘षूचीर्व्व᳘सान ऽइ᳘ति सध्री᳘चीश्च᳘ ह्येष व्वि᳘षूचीश्च दि᳘शो व्वस्ते᳘ ऽथो रश्मीना᳘वरीवर्त्ति भु᳘वनेष्वन्तरि᳘ति पुनः पुन᳘र्ह्येष᳘ ऽएषु᳘ लोके᳘षु व्वरीवर्त्त्य᳘मानश्चरति[[!!]]॥

मूलम् - Weber

आ᳘ च प᳘रा च पथि᳘भिश्च᳘रन्तमिति॥
आ᳘ चॗ ह्येष प᳘रा च देवैः᳘ पथि᳘भिश्च᳘रति स᳘ सध्री᳘चीः स वि᳘शूचीर्व᳘सान इ᳘ति सध्री᳘चीश्चॗ ह्येष वि᳘शूचीश्च दि᳘शो वस्ते᳘ऽथो रश्मीना᳘वरीवर्त्ति भु᳘वनेष्वन्तरि᳘ति पु᳘नःपुनॗर्ह्येष᳘ एषु᳘ लोके᳘षु वरीवर्त्य᳘मानश्च᳘रति॥

मूलम् - विस्वरम्

“आ च परा च पथिभिश्चरंतम्”- इति । आ च ह्येष परा च देवैः पथिभिश्चरति । “स सध्रिचीः स विषूचीर्वसानः”- इति । सध्रीचीश्च ह्येष विषूचीश्च दिशो वस्ते । अथो रश्मीन् । “आवरीवर्ति भुवनेष्वंतः”- (वा. सं. ३७ । १७) इति । पुनः पुनर्ह्येष एषु लोकेषु वरीवर्त्यमानश्चरति ॥ १० ॥

सायणः

अपि च ‘एष हि’ सूर्यः ‘देवैः’ देवसंबंधिभिः ‘पथिभिः’ मार्गैः मध्याह्नात् पूर्वं ‘आचरति’ अभिमुखेन गच्छति च । ततः परस्तात् ‘पराचरति’ पराङ्मुखः संचरति । तस्मात् “आ च परा च” इति मन्त्रवाक्यं संगतमित्यर्थः । अपि च ‘सध्रीचीः’ सहाञ्चतीः ‘विषूचीः’ विष्वगञ्चतीः सर्वाः ‘दिशः’ प्राच्याद्याः ‘एषः’ सूर्यः स्वतेजसा ‘वस्ते’ आच्छादयति । ‘अथो’ अपि च ‘रश्मीन्’ स्वकिरणान् ‘वस्ते’ सर्वत्र प्रसारयति । तस्मात् “स सध्रीचीः” इति मन्त्रः सूर्ये संगतः । तदात्मकत्वात् प्रवर्ग्ये ऽपि संगत इत्यर्थः । अपि च ‘एषः’ खलु सूर्यः ‘एषु लोकेषु’ पृथिव्यादिषु सर्वेषु लोकेषु ‘वरीवर्त्यमानः’ अत्यर्थं वर्तमानः पुनःपुनश्चरति । तस्मादाह- “आ वरीवर्ति भुवनेष्वन्तः” इति ॥ १० ॥

Eggeling

10, ‘Wandering on paths hither and thither,’–for he indeed wanders hither and thither on the divine 8 paths;–‘arraying himself in the gathering and the radiating,’–for he indeed arrays himself in the gathering (converging) and the radiating regions, or rays;–‘he moveth to and fro within the spheres,’–for again and again he wanders moving within these worlds.

११

विश्वास-प्रस्तुतिः

व्वि᳘श्वासाम्भुवाम्पते॥
व्वि᳘श्वस्य मनसस्पते व्वि᳘श्वस्य व्वचसस्पते स᳘र्वस्य व्वचसस्पत ऽइ᳘त्येत᳘स्य स᳘र्व्वस्य पत ऽइ᳘त्येत᳘द्देवश्रुत्त्व᳘न्देव ध᳘र्म्म देवो᳘ देवा᳘न्पाही᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥

मूलम् - श्रीधरादि

व्वि᳘श्वासाम्भुवाम्पते॥
व्वि᳘श्वस्य मनसस्पते व्वि᳘श्वस्य व्वचसस्पते स᳘र्वस्य व्वचसस्पत ऽइ᳘त्येत᳘स्य स᳘र्व्वस्य पत ऽइ᳘त्येत᳘द्देवश्रुत्त्व᳘न्देव ध᳘र्म्म देवो᳘ देवा᳘न्पाही᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥

मूलम् - Weber

वि᳘श्वासाम् भुवाम् पते॥
वि᳘श्वस्य मनसस्पते वि᳘श्वस्य वचसस्पते स᳘र्वस्य वचसस्पत इ᳘त्येत᳘स्य स᳘र्वस्य पत इ᳘त्येत᳘द्देवश्रुत्त्वं᳘ देव घर्म देवो᳘ देवा᳘न्पाही᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥

मूलम् - विस्वरम्

“विश्वासां भुवां पते विश्वस्य मनसस्पते । विश्वस्य वचसस्पते सर्वस्य वचसस्पते”-इति । एतस्य सर्वस्य पत इत्येतत् । “देवश्नुत्त्वं देव घर्म देवो देवान्पाहि”- इति । नात्र तिरोहितमिवास्ति ॥ ११ ॥

सायणः

अथान्यमवकाशमंत्रभागं संहत्यानूद्य, तात्पर्यमाह- विश्वासां भुवां० इत्येतदिति । “विश्वासां भुवां” इत्यादिषष्ठ्यन्तैः प्रतिपाद्यस्य ‘एतस्य सर्वस्य’ कृत्स्नस्य जगतः ‘पते’ स्वामिन् ! ‘इति’ इममर्थम् एतन्मंत्रवाक्यमाह । अथ अन्यं मंत्रभागमनूद्य स्पष्टार्थत्वात् व्याख्यानं नापेक्षते इत्याह- देवश्रुत्त्वं० मिवास्तीति । अत्रास्मिन् “देवश्रुत्त्वं" इति मंत्रभागे ‘तिरोहितमिव’ अंतर्हितमिव व्याख्यानसापेक्षं किमपि नास्तीत्यर्थः ॥ ११ ॥

Eggeling
  1. [Vāj. S. XXXVII, 18,] ‘O lord of all worlds, O lord of all thought, O lord of all speech, O lord of every speech!’ that is, ‘O lord of all this (universe);’–‘Thou art heard by the gods, O god Gharma, as a god, guard thou the gods!’ in this there is nothing hidden, so to speak.

१२

विश्वास-प्रस्तुतिः

(स्त्य᳘) अ᳘त्र प्प्रा᳘वीर᳘नु वान्देव᳘वीतय ऽइ᳘ति॥
(त्य) अश्वि᳘नावे᳘वैत᳘दाहाश्वि᳘नौ वा᳘ ऽएत᳘द्यज्ञ᳘स्य शि᳘रः प्र᳘त्यधत्तान्ता᳘वे᳘वैत᳘त्प्रीणाति त᳘स्मादाहा᳘त्र प्प्रा᳘वीर᳘नु वान्देव᳘वीतय ऽइ᳘ति॥

मूलम् - श्रीधरादि

(स्त्य᳘) अ᳘त्र प्प्रा᳘वीर᳘नु वान्देव᳘वीतय ऽइ᳘ति॥
(त्य) अश्वि᳘नावे᳘वैत᳘दाहाश्वि᳘नौ वा᳘ ऽएत᳘द्यज्ञ᳘स्य शि᳘रः प्र᳘त्यधत्तान्ता᳘वे᳘वैत᳘त्प्रीणाति त᳘स्मादाहा᳘त्र प्प्रा᳘वीर᳘नु वान्देव᳘वीतय ऽइ᳘ति॥

मूलम् - Weber

अ᳘त्र प्रा᳘वीर᳘नु वां देव᳘वीतय इ᳘ति॥
अश्वि᳘नावेॗवैत᳘दाहाश्विनौ वा᳘ एत᳘द्यज्ञ᳘स्य शि᳘रः प्र᳘त्यधत्तां ता᳘वेॗवैत᳘त्प्रीणाति त᳘स्मादाहा᳘त्र प्रा᳘वीर᳘नु वाम् देव᳘वीतय इ᳘ति॥

मूलम् - विस्वरम्

“अत्र प्रावीरनु वां देववीतये”- इति । अश्विनावेवैतदाह- अश्विनौ वा एतद्यज्ञस्य शिरः प्रत्यधत्ताम् । तावेवैतत्प्रीणाति । तस्मादाह- “अत्र प्रावीरनु वां देववीतये”- इति ॥ १२ ॥

सायणः

अथान्यद्वाक्यमनूद्य व्याचष्टे- अत्र प्रावीरनु वां देववीतय इति । “अत्र प्रावीः” इत्यस्मिन्मंत्रभागे ‘वामिति’ युष्मदादेशे तद्द्विवचनेन ‘अश्विनौ’ अश्विनावेव एतन्मंत्रवाक्यं ‘आह’ आचष्टे । अश्विनोः प्रतिपादने का अत्र प्रसक्तिः, इति तां दर्शयति- अश्विनाविति । ‘अश्विनौ’ खलु पुरा ‘यज्ञस्य’ एतत्प्रवर्ग्याख्यं ‘शिरः प्रत्यधत्ताम्’ प्रतिहितवन्तौ छिन्नस्य पुनः सन्धानं कृतवन्तौ । तस्मात् ‘एतत्’ एतेन मन्त्रभागेन तावेवाश्विनौ ‘प्रीणाति’ तर्पयति । ‘तस्मात्’ इत्यादि निगमनम् ॥ १२ ॥

Eggeling
  1. ‘Give thy countenance hereafter to the divine feast of you two,’–it is with regard to the two Aśvins that he says this, for it was the Aśvins that then restored the head of the sacrifice: it is them he thus pleases, and therefore he says, ‘Give thy countenance hereafter to the divine feast of you two.’

१३

विश्वास-प्रस्तुतिः

म᳘धु मा᳘ध्वीभ्याम्म᳘धु मा᳘धूचीभ्यामि᳘ति॥
दध्य᳘ङ् ह वा᳘ ऽआभ्यामाथर्व्वणो म᳘धु ना᳘म ब्रा᳘ह्मणमुवाच त᳘देनयोः प्रियन्धा᳘म त᳘दे᳘वैनयोरेतेनो᳘पगच्छति त᳘स्मादाह म᳘धु मा᳘ध्वीभ्याम्म᳘धु मा᳘धूचीभ्यामि᳘ति॥

मूलम् - श्रीधरादि

म᳘धु मा᳘ध्वीभ्याम्म᳘धु मा᳘धूचीभ्यामि᳘ति॥
दध्य᳘ङ् ह वा᳘ ऽआभ्यामाथर्व्वणो म᳘धु ना᳘म ब्रा᳘ह्मणमुवाच त᳘देनयोः प्रियन्धा᳘म त᳘दे᳘वैनयोरेतेनो᳘पगच्छति त᳘स्मादाह म᳘धु मा᳘ध्वीभ्याम्म᳘धु मा᳘धूचीभ्यामि᳘ति॥

मूलम् - Weber

म᳘धु मा᳘ध्वीभ्याम् म᳘धु माधूचीभ्यामि᳘ति 9
दध्य᳘ङ् ह वा आभ्यामाथर्वणो म᳘धु ना᳘म ब्रा᳘ह्मणमुवाच त᳘देनयोः प्रियं धा᳘म त᳘देॗवैनयोरेतेनो᳘पगछति त᳘स्मादाह म᳘धु मा᳘ध्वीभ्याम् म᳘धु मा᳘धूचीभ्यामि᳘ति॥

मूलम् - विस्वरम्

“मधु माध्वीभ्यां मधु माधूचीभ्याम्”- (वा. सं. ३७ । १८) इति । दध्यङ् ह वा आभ्यामाथर्वणो मधु नाम ब्राह्मणमुवाच । तदेनयोः प्रियं धाम । तदेवैनयोरेतेनोपगच्छति । तस्मादाह- “मधु माध्वीभ्यां मधु माधूचीभ्याम्”- इति ॥ १३ ॥

सायणः

अथान्यद्वाक्यमनूद्य व्याचष्टे- मधु मा० चीभ्यामिति इति । ‘आथर्वणः’ अथर्वणः पुत्रः ‘दध्यङ्’ नाम ऋषिः पुरा, आभ्यामश्विभ्यां ‘मधु नाम ब्राह्मणं’ मधुविद्याप्रतिपादकं ब्राह्मणं ‘उवाच’ उपदिदेश । तच्च ‘एनयोः’ ‘प्रियं’ प्रेमास्पदं ‘धाम’ धारकं स्थानं ‘एतेन’ “मधु माध्वीभ्याम्” इत्यनेन ‘एनयोः’ अश्विनोः ‘तदेव’ प्रियं धाम ‘उपगच्छति’ प्राप्नोति । ‘तस्मात्’ इत्यादि निगमनम् ॥ १३ ॥

Eggeling
  1. ‘Honey to the two lovers of honey! honey to the two longing for honey!’–for Dadhyañc the Ātharvaṇa indeed told them (the Aśvins) the Brāhmaṇa called Madhu (honey), and this is their dear resource: it is by means of that (dear resource) of theirs that he approaches them, and therefore he says, ‘Honey to the two lovers of honey! honey to the two longing for honey!’

१४

विश्वास-प्रस्तुतिः

हृदे᳘ त्वा म᳘नसे त्वा दिवे᳘ त्वा सू᳘र्य्याय त्वा॥
ऊर्ध्वो᳘ ऽअध्वर᳘न्दिवि᳘ देवे᳘षु धेही᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥

मूलम् - श्रीधरादि

हृदे᳘ त्वा म᳘नसे त्वा दिवे᳘ त्वा सू᳘र्य्याय त्वा॥
ऊर्ध्वो᳘ ऽअध्वर᳘न्दिवि᳘ देवे᳘षु धेही᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥

मूलम् - Weber

हृदे᳘ त्वा म᳘नसे त्वा दिवे᳘ त्वा सू᳘र्याय त्वा॥
ऊर्ध्वो᳘ अध्वरं᳘ दिवि᳘ देवे᳘षु धेही᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥

मूलम् - विस्वरम्

“हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा । ऊर्ध्वो अध्वरं दिवि देवेषु धेहि”- (वा. सं. ३७ । १९) इति । नात्र तिरोहितमिवास्ति ॥ १४ ॥

सायणः

अथ मन्त्रांतरमनूद्य स्पष्टार्थत्वात् न व्याख्यानसापेक्षमित्याह- हृदे त्वा मनसे० मिवास्तीति । हृदयाद्यर्थं त्वां स्तुमः । अत एव त्वं ‘दिवि’ द्युलोके ‘देवेषु’ मध्ये उत्कृष्टः सन् ‘अध्वरं’ अस्मदीयं यज्ञं ‘धेहि’ स्थापयेति अस्यार्थस्य स्पष्टत्वात् ‘तिरोहितं’ किमपि नास्तीत्यर्थः ॥ १४ ॥

Eggeling
  1. [Vāj. S. XXXVII, 19,] ‘To the heart

(I consecrate) thee, to the mind thee, to the sky thee, to the sun thee: going upwards take thou the sacrifice to the gods in heaven!’ in this there is nothing hidden, so to speak.

१५

विश्वास-प्रस्तुतिः

पिता᳘ नो ऽसि पिता᳘ नो बोधी᳘ति॥
(त्ये) एष वै᳘ पिता य᳘ ऽएष त᳘पत्येष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह पिता᳘ नो ऽसि पिता᳘ नो बोधी᳘ति न᳘मस्ते ऽअस्तु मा᳘ मा हिᳫँ᳭सीरि᳘त्याशि᳘षमे᳘वैतदा᳘शास्ते॥

मूलम् - श्रीधरादि

पिता᳘ नो ऽसि पिता᳘ नो बोधी᳘ति॥
(त्ये) एष वै᳘ पिता य᳘ ऽएष त᳘पत्येष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह पिता᳘ नो ऽसि पिता᳘ नो बोधी᳘ति न᳘मस्ते ऽअस्तु मा᳘ मा हिᳫँ᳭सीरि᳘त्याशि᳘षमे᳘वैतदा᳘शास्ते॥

मूलम् - Weber

पिता᳘ नोऽसि पिता᳘ नो बोधी᳘ति॥
एष वै᳘ पिता य᳘ एष त᳘पत्येष᳘ उ प्रव᳘र्ग्यस्त᳘देत᳘मेॗवैत᳘त्प्रीणाति त᳘स्मादाह पिता᳘ नोऽसि पिता᳘ नो बोधी᳘ति न᳘मस्ते अस्तु मा᳘ मा हिंसीरि᳘त्याशिषमेॗवैतदा᳘शास्ते॥

मूलम् - विस्वरम्

“पिता नो ऽसि पिता नो बोधि”-इति । एष वै पिता । य एष तपति । एष उ प्रवर्ग्यः । तदेतमेवैतत्प्रीणाति । तस्मादाह । “पिता नो ऽसि पिता नो बोधि"- इति । “नमस्ते अस्तु मा मा हिंसीः”- इति । आशिषमेवैतदाशास्ते ॥ १५ ॥

सायणः

अथान्यद्वाक्यमनूद्य व्याचष्टे- पिता नो ऽसि० बोधीतीति । ‘य एषः’ सूर्यः ‘तपति’ ‘एष वै पिता’ सर्वेषां पालयिता । अन्यद्गतम् । अथान्यं मन्त्रभागमनूद्य व्याचष्टे- नमस्ते० शास्ते इति । ‘एतत्’ एतेन मन्त्रवाक्येन हिंसाभावलक्षणां ‘आशिषमेव आशास्ते’ प्रार्थयते ॥ १५ ॥

Eggeling
  1. [Vāj. S. XXXVII, 20,] ‘Thou art our father: be thou our father!’–for he who shines yonder is indeed the father, and the Pravargya is that (sun): it is him he thus gratifies, and therefore he says, ‘Thou art our father: be thou our father!’–‘Reverence be unto thee: injure me not!’–it is a blessing he thereby invokes.

१६

विश्वास-प्रस्तुतिः

(स्ते᳘ ऽथ) अ᳘थ प᳘त्न्यै शि᳘रो ऽपवृ᳘त्य॥
महावीरमी᳘क्षमाणाम्वाचयति त्व᳘ष्टृमन्तस्त्वा सपेमे᳘ति व्वृ᳘षा वै᳘ प्रव᳘र्ग्यो यो᳘षा प᳘त्नी मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननङ्क्रियते॥

मूलम् - श्रीधरादि

(स्ते᳘ ऽथ) अ᳘थ प᳘त्न्यै शि᳘रो ऽपवृ᳘त्य॥
महावीरमी᳘क्षमाणाम्वाचयति त्व᳘ष्टृमन्तस्त्वा सपेमे᳘ति व्वृ᳘षा वै᳘ प्रव᳘र्ग्यो यो᳘षा प᳘त्नी मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननङ्क्रियते॥

मूलम् - Weber

अ᳘थ प᳘त्न्यै शि᳘रोऽपवृ᳘त्य॥
महावीरमी᳘क्षमाणाम् वाचयति त्व᳘ष्टृमन्तस्त्वा सपेमे᳘ति वृ᳘षा वै᳘ प्रव᳘र्ग्यो यो᳘षा प᳘त्नी मिथुन᳘मेॗवैत᳘त्प्रज᳘ननं क्रियते॥

मूलम् - विस्वरम्

अथ पत्न्यै शिरो ऽपावृत्य । महावीरमीक्षमाणां वाचयति- “त्वष्टृमंतस्त्वा सपेम”- (वा. सं. ३७ । २०) इति । वृषा वै प्रवर्ग्यः । योषा पत्नी । मिथुनमेवैतत्प्रजननं क्रियते ॥ १६ ॥

सायणः

अथ यदुक्तं कात्यायनेन- “अपोर्णौति पत्नीशिरः 10 । त्वष्टृमंत ऽइत्येनां वाचयति महावीरमीक्षमाणाम्” (का. श्रौ. सू. २६ । ६९ । ७०) इति । तदेतद्विधत्ते- अथ पत्न्यै शिरो० सपेमेतीति । अथावकाशोपस्थानानंतरं पत्न्याः शिरःप्रावरणं ‘अपावृत्य’ विसृज्य ‘महावीरमीक्षमाणां’ पश्यन्तीं “त्वष्टृमन्तः” इति मन्त्रं ‘वाचयति’ । अथैतत् स्तौति- वृषा वै प्रवर्ग्यो योषा पत्नी मिथुनमेवैतत्प्रजननं क्रियते इति । ‘वृषा’ वर्षणसमर्थः पुमान् प्रवर्ग्यः । ‘पत्नी योषा’ स्त्री । तथा च ‘एतत्’ एतेन मिथुनेन ‘प्रजननं’ प्रजोत्पत्तिसाधनं ‘क्रियते’ । प्रजोत्पत्तिसाधनेन ‘एनं’ प्रवर्ग्यं समर्द्धयति । ततो यज्ञमपि कृत्स्नं संपूर्णं करोति ॥ १६ ॥

Eggeling
  1. Thereupon he uncovers the head of the (Sacrificer’s) wife, and makes her say whilst she is looking at the Mahāvīra, ‘Together with Tvashṭr̥ will we serve thee: (bestow thou sons and cattle upon me! bestow thou offspring upon us! may I remain unscathed together with my husband!)’–the Pravargya (m.) is a male, and the wife is a female: a productive pair is thus produced.

१७

विश्वास-प्रस्तुतिः

(ते᳘ थै) अ᳘थैतद्वै॥
(द्वा ऽआ᳘) आयुरेतज्ज्यो᳘तिः प्र᳘विशति य᳘ ऽएतम᳘नु वा[[!!]] ब्रूते᳘ भक्ष᳘यति वा[[!!]] त᳘स्य व्व्रतचर्य्या या[[!!]] सृ᳘ष्टौ॥

मूलम् - श्रीधरादि

(ते᳘ थै) अ᳘थैतद्वै॥
(द्वा ऽआ᳘) आयुरेतज्ज्यो᳘तिः प्र᳘विशति य᳘ ऽएतम᳘नु वा[[!!]] ब्रूते᳘ भक्ष᳘यति वा[[!!]] त᳘स्य व्व्रतचर्य्या या[[!!]] सृ᳘ष्टौ॥

मूलम् - Weber

अ᳘थैतद्वै॥
आयुरेतज्ज्योतिः प्रविशति य एतमु वा᳘ ब्रूते भक्षयति वा᳘ तस्य ब्रतचर्या या᳘ सृष्टौ॥

मूलम् - विस्वरम्

अथ एतद्वा आयुः, एतज्ज्योतिः प्रविशति । य एतमनु वा ब्रूते । भक्षयति वा । तस्य व्रतचर्या- या सृष्टौ ॥ १७ ॥

सायणः

ब्राह्मणांतरावसानवत् अत्रापि पूर्वोक्तां व्रतचर्यामतिदिशति- अथैतद्वै० सृष्टाविति । एतत्प्रथमब्राह्मणावसाने व्याख्यातम् । ‘या’ सृष्टिप्रतिपादके तस्मिन् ब्राह्मणे ‘व्रतचर्या’ आम्नाता सैव एतत् ब्राह्मणं अधीयानस्य अनुतिष्ठतश्च व्रतचर्या ॥ १७ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये चतुर्दशकाण्डे तदन्तर्भूते प्रथमे प्रवर्ग्यकाण्डे प्रथमे ऽध्याये चतुर्थं ब्राह्मणम् ॥ १४ । (१) १ । ४ ॥

वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये चतुर्दशकाण्डे तदन्तर्भूते प्रथमे प्रवर्ग्यकाण्डे प्रथमो ऽध्यायः समाप्तः ॥ (१४ (१) - १) ॥

Eggeling
  1. And, verily, whosoever either teaches, or partakes of, this (Pravargya) enters that life, and that light: the observance thereof is the same as at the creation 11.

  1. “परिक्रम्योपतिष्ठंते ऽकृतं चेद्गर्भो देवानामिति” । का. श्रौ. सू. २६ । ६८ । अकृतं चेदिति उत्तरं देववत्परिक्रमणं पितृवत्परिक्रमणानंतरं अकृतं चेत् तदुत्तरं परिक्रमणं, इह रुचिते घर्मे अवसरे कृत्वा अवकाशैरुपस्थेयम् तथा च सूत्रकारेण उत्तरपरिक्रमणस्य कालविकल्पः प्रावादि । “रुचिते वोत्तरम् ।” का. श्रौ. सू. २६ । ६१ । रुचिते घर्मे सतीत्यर्थः । अवकाशाख्या मंत्रास्तु सप्त । गर्भो देवानां इत्यारभ्य वा. सं. ३७-१४ त्वष्टृमंतः इत्यतः प्राक् (वा. सं. ३७-२०) मा मा हिँसीदित्यंताः । ↩︎

  2. 469:1 Avakāśa (looks, or possibly, apertures) is the technical designation of the verses Vāj. S. XXXVII, 14-20 a. ↩︎

  3. 469:2 Viz. the Sacrificer and the priests with the exception of the Prastotr̥. ↩︎

  4. The पद reads गत at वाज सं ३७,१४.१५. ↩︎

  5. The पद reads गत at वाज सं ३७,१४.१५. ↩︎

  6. गोपाम᳘निपद्य᳘मान A. both times. ↩︎

  7. 470:1 Or, as Mahīdhara and Sāyaṇa take it, the never-falling. ↩︎

  8. 471:1 One might expect ‘daívaiḥ pathíbhiḥ’ or ‘devaíḥ pathíbhiḥ,’ which Mahīdhara explains by ‘devamārgaiḥ.’ ↩︎

  9. मा᳘धवीभ्यामि᳘ति A. first hand, both times. ↩︎

  10. “अथ पत्न्यै शिरो ऽपावृत्य” (श. प. १४ । १ । ४ । १६) इति श्रुतिवाक्यात् ‘पत्नीशिरः’ इति समासो ऽवगंतव्यः । ‘न वाक्यं’ इति कर्काशयः ॥ ↩︎

  11. 472:1 See p. 458, note 1. ↩︎