०१

विश्वास-प्रस्तुतिः

स᳘ य᳘दैत᳘दातिथ्ये᳘न प्रच᳘रति॥
(त्य᳘) अ᳘थ प्रव᳘र्ग्येण चरिष्य᳘न्पु᳘रोपसदो᳘ ऽग्रेण गा᳘र्हपत्यम्प्राचः कुशा᳘न्त्सᳫँ᳭स्ती᳘र्य्य द्वन्द्वम्पा᳘त्राण्यु᳘पसादयत्युपय᳘मनीं महावीर᳘म्परीशासौ पि᳘न्वने रौहिणकपाले᳘ रौहिणह᳘वन्यौ स्रु᳘चौ य᳘दु चान्यद्भ᳘वति तद्द᳘श द᳘शाक्षरा वै᳘ व्विरा᳘ड्विराड्वै᳘ यज्ञस्त᳘द्विरा᳘जमे᳘वैत᳘द्यज्ञ᳘मभिस᳘म्पादयत्यथ᳘ य᳘द्द्वन्द्व᳘न्द्वन्द्वम्वै᳘ व्वी᳘र्य्यं यदा वै द्वौ᳘ सᳫँ᳭र᳘भेते ऽअ᳘थ तौ᳘ व्वी᳘र्य्यङ्कुरुतो द्वन्द्वम्वै᳘ मिथुन᳘म्प्रज᳘ननम्मिथुने᳘नै᳘वैनमेत᳘त्प्रज᳘ननेन स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥

मूलम् - श्रीधरादि

स᳘ य᳘दैत᳘दातिथ्ये᳘न प्रच᳘रति॥
(त्य᳘) अ᳘थ प्रव᳘र्ग्येण चरिष्य᳘न्पु᳘रोपसदो᳘ ऽग्रेण गा᳘र्हपत्यम्प्राचः कुशा᳘न्त्सᳫँ᳭स्ती᳘र्य्य द्वन्द्वम्पा᳘त्राण्यु᳘पसादयत्युपय᳘मनीं महावीर᳘म्परीशासौ पि᳘न्वने रौहिणकपाले᳘ रौहिणह᳘वन्यौ स्रु᳘चौ य᳘दु चान्यद्भ᳘वति तद्द᳘श द᳘शाक्षरा वै᳘ व्विरा᳘ड्विराड्वै᳘ यज्ञस्त᳘द्विरा᳘जमे᳘वैत᳘द्यज्ञ᳘मभिस᳘म्पादयत्यथ᳘ य᳘द्द्वन्द्व᳘न्द्वन्द्वम्वै᳘ व्वी᳘र्य्यं यदा वै द्वौ᳘ सᳫँ᳭र᳘भेते ऽअ᳘थ तौ᳘ व्वी᳘र्य्यङ्कुरुतो द्वन्द्वम्वै᳘ मिथुन᳘म्प्रज᳘ननम्मिथुने᳘नै᳘वैनमेत᳘त्प्रज᳘ननेन स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥

मूलम् - Weber

स᳘ यॗदैत᳘दातिथ्ये᳘न प्रच᳘रति॥
अ᳘थ प्रव᳘र्ग्येण चरिष्य᳘न्पुॗरोपसदो᳘ऽग्रेण गा᳘र्हपत्यम् प्राचः कुशा᳘न्त्संस्ती᳘र्य द्वन्द्वम् पा᳘त्राण्यु᳘पसादयत्युपय᳘मनीम् महावीर᳘म् परीषासौ पि᳘न्वने रौहिणकपाले᳘ रौहिणह᳘वन्यौ स्रु᳘चौ य᳘दु चान्यद्भ᳘वति 1 तद्द᳘श द᳘शाक्षरा वै᳘ विरा᳘ड्विराड्वै᳘ यज्ञस्त᳘द्विरा᳘जमेॗवैत᳘द्यज्ञ᳘मभिस᳘म्पादयत्यथ᳘ य᳘द्द्वन्द्व᳘म्द्वन्द्वम् वै᳘ वीर्य᳘म् यदा वै द्वौ᳘ संर᳘भेते अ᳘थ तौ᳘ वीर्यं᳘ कुरुतो द्वन्द्वम् वै᳘ मिथुन᳘म् प्रज᳘ननम् मिथुने᳘नैॗवैनमेत᳘त्प्रज᳘ननेन स᳘मर्धयति कृत्स्नं᳘ करोति॥

मूलम् - विस्वरम्

घर्मसन्दीपनं ब्राह्मणम् ।

स यदैतदातिथ्येन प्रचरति । अथ प्रवर्ग्येण चरिष्यन् पुरोपसदो ऽग्रेण गार्हपत्यं प्राचः कुशान्त्संस्तीर्य द्वंद्वं पात्राण्युपसादयति । उपयमनीं महावीरं परीशासौ पिन्वने रौहिणकपाले रौहिणहवन्यौ स्रुचौ । यदु चान्यद्भवति । तद्दश । दशाक्षरा वै विराट् । विराड् वै यज्ञः । तद्विराजमेवैतद्यज्ञमभिसंपादयति । अथ यद्द्वंद्वम् । द्वंद्वं वै वीर्यम् । यदा वै द्वौ संरभेते । अथ तौ वीर्यं कुरुतः । द्वंद्वं वै मिथुनं प्रजननम् । मिथुनेनैवैनमेतत्प्रजननेन समर्द्धयति । कृत्स्नं करोति ॥ १ ॥

सायणः

इत्थं द्वितीयेन ब्राह्मणेन प्रवर्ग्यपात्राणां महावीरादीनां संभरणमुक्तम् । अथ तृतीयादिभिः सेतिकर्तव्यताकः प्रवर्ग्यः प्रतिपाद्यते । तत्र तावत् घर्मसंदीपनं तृतीयेन ब्राह्मणेन प्रतिपाद्यम् । अस्य च प्रवर्ग्यस्य अनारभ्याधीतत्वेन स्वातंत्र्यमाशंक्य वाक्यात् क्रतुप्रवेशमाह- स यदैतदातिथ्येन० पुरोपसद इति । ‘सः’ अध्वर्युः ‘यदा’ यस्मिन्काले ‘एतत्’ एतेन ‘आतिथ्येन’ अतिथिभूतस्य सोमराजस्य प्रीत्यर्थं क्रियमाणेन नवकपालेन पुरोडाशेन ‘चरति’ यजति । तदा ‘उपसदः पुरा’ उपसद्यागस्य पुरस्तात् एतेन उत्तरावधिनिर्द्देशेन आतिथ्येष्ट्यनंतरं तानूनप्त्रस्पर्शनादिकमपि कृत्वा ‘प्रवर्ग्येण’ वक्ष्यमाणेन प्रवर्ग्यप्रयोगेण ‘चरिष्यन्’ आचरिष्यन् अनुष्ठास्यन् भवेत् इत्युक्तं भवति । उपसदां पुरस्तात् प्रवर्ग्यः कर्तव्य 2 इति विधिः अर्थात्सिद्धो भवति । तत्र तावत् असंस्कृतानां पात्राणां यागानर्हत्वात् तत्संस्काराय पात्रासादनमाह 3- अग्रेण गार्हपत्यं० तद्दशेति । ‘गार्हपत्यमग्रेण’ गार्हपत्यस्यादूरेण पुरस्तात् ‘प्राचः’ प्रागग्रान् ‘कुशान्’ संस्तीर्य तेषु पात्राणि ‘द्वंद्वं’ द्विशो द्विशः उपसादयति । उपयमनम् 4 अधस्ताद्धारणं तप्तस्य महावीरस्य अधः धारणार्था औदुंबरी द्राघीयसी स्रुक् उपयमनीताम् । प्रथमकृतं महावीरं एकं द्वंद्वमासादयेत् । अथ, ‘परीशासौ’ अप्रचरणीयौ महावीरौ द्वितीयं द्वंद्वम् । ‘पिन्वने 5 रौहिणकपाले’ 6 । रौहिणौ पुरोडाशौ हूयेते आभ्यामिति ‘रौहिणहवन्यौ’ औदुंबर्यौ अबिले ‘स्रुचौ’ 7 च । एतानि त्रीणि द्वंद्वानि आसादनीयानि । ‘यदु च’ यच्चान्यत् उक्तव्यतिरिक्तं पात्रजातं अपेक्षितं भवति । तदन्यदपि सर्वमासादनीयमित्यर्थः । तच्चावशिष्टं पात्रजातं सूत्रकारेण प्रदर्शितम्- “स्थूणामयूखं, 8 धृष्टी, 9 शतमाने, 10 मुंजप्रलवान् विकंकतशकलान् विँशतिं प्रादेशमात्रान् स्रुवं मुञ्जवेदं धवित्राणि 11 परिधींश्च, रज्जुसंदानं 12 आसंदीं कृष्णाजिनं अभ्रिँ सिकताः खरार्थाः अर्थवच्च” 13- (का. श्रौ. सू. २६ । ३७) इति । अथ ब्राह्मणोपात्तानां उपयमन्यादीनां दशसंख्यां विधाय स्तौति- तद्दश दशाक्षरा वै० संपादयतीति । उपयमन्यादीनि यानि आसादनीयानि प्रत्यक्षाम्नातानि पात्राणि तानि ‘दश’ भवंति । विराट्छंदश्च 14 ‘दशाक्षरा’ 15 त्रिंशदक्षरायाः विराजः त्रिपात्त्वेन प्रतिपादं दशाक्षरत्वात् । सैव ‘विराट् यज्ञः’ अग्निष्टोमः । तस्य द्वादशस्तोत्रस्य स्तोत्रियापरिगणनायां नवतिशतं स्तोत्रियाः संपद्यन्ते । तत्र दशसंख्यया विभागे सति विराट्संपत्तेः यज्ञस्य विराडात्मकत्वम् । तत्तथा सति ‘एतत्’ एतेन पात्रदशकासादनेन ‘इमं’ यज्ञं प्रवर्ग्यानुष्ठानकाल एव विराजं ‘अभिसंपादयति’ प्रापयति । अथ तेषां द्वंद्वश आसादनं प्रशंसति- अथ यद्द्वंद्वं० करोतीति । ‘अथ’ अपि च ‘यत् द्वंद्वं’ पात्राणां द्वंद्वश आसादनं तेन प्रवर्ग्यं वीर्यवंतं करोति । कुत एतत् ? ‘द्वंद्वं वै’ सर्वभावानां मध्ये यः द्वंद्वलक्षणो धर्मः तदेव ‘वीर्यं’ वीर्यात्मकम् । अथैतदुपपाद्यते- ‘यदा’ खलु ‘द्वौ’ पुरुषौ ‘सरंभेते’ संरब्धौ संयुक्तौ भवतः । ‘अथ’ अनंतरं ‘तौ’ संरब्धौ पुरुषौ ‘वीर्यं’ सामर्थ्यं ‘कुरुतः’ न तु असहायः कश्चित् वीर्यं कर्तुं शक्नोति । तस्मात् द्वंद्वं वीर्यात्मकम् । तेन च पात्रमपि तेन प्रवर्ग्यो ऽपि वीर्यवान् भवतीत्युपपन्नम् । अपि च ‘द्वंद्वं वै’ द्वंद्वमेव खलु ‘मिथुनं’ स्त्रीपुंसात्मकं ‘प्रजननं’ ‘प्रजननेन’ स्त्रीपुंसात्मरूपेणैव प्रजासाधनेन ‘एनं’ प्रवर्ग्यं ‘समर्द्धयति’ ‘कृत्स्नं’ संपूर्णावयवं च यज्ञं कृतवान् भवति ॥ १ ॥

Eggeling
  1. Now at the time when he there 16 proceeds with the guest-meal, he who intends to perform the Pravargya, prior to the Upasads 17, spreads Kuśa grass with its tops directed towards the east, in front of the Gārhapatya, and places the vessels thereon in pairs 18,–the Upayamanī (tray) and the Mahāvīra (pot), the pair of lifting-sticks 19, the

two milking-bowls, the two Rauhiṇa-plates, the two offering spoons for the Rauhiṇa (cakes), and whatever other (implement) there is,–these make ten, for the Virāj consists of ten syllables, and the sacrifice is Virāj: he thus makes this to be equal to the Virāj, the sacrifice. And as to their being in pairs,–a pair means strength, for when two take hold of each other they exert strength; and a pair (couple) means a productive union: with a productive union he thus supplies and completes it.

०२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थाध्वर्य्युः॥
प्रो᳘क्षणीरादा᳘योपोत्ति᳘ष्ठन्नाह ब्र᳘ह्मन्प्र᳘चरिष्यामो हो᳘तरभि᳘ष्टुही᳘ति ब्रह्मा वै᳘ यज्ञ᳘स्य दक्षिणत᳘ ऽआस्ते ऽभिगोप्ता त᳘मे᳘वैत᳘दाहा᳘प्रमत्त ऽआस्स्व यज्ञ᳘स्य शि᳘रः प्र᳘तिधास्याम ऽइ᳘ति हो᳘तरभि᳘ष्टुही᳘ति यज्ञो वै हो᳘ता त᳘मेवै᳘त᳘दाह यज्ञ᳘स्य शि᳘रः प्र᳘तिधेही᳘ति प्र᳘तिपद्यते हो᳘ता॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थाध्वर्य्युः॥
प्रो᳘क्षणीरादा᳘योपोत्ति᳘ष्ठन्नाह ब्र᳘ह्मन्प्र᳘चरिष्यामो हो᳘तरभि᳘ष्टुही᳘ति ब्रह्मा वै᳘ यज्ञ᳘स्य दक्षिणत᳘ ऽआस्ते ऽभिगोप्ता त᳘मे᳘वैत᳘दाहा᳘प्रमत्त ऽआस्स्व यज्ञ᳘स्य शि᳘रः प्र᳘तिधास्याम ऽइ᳘ति हो᳘तरभि᳘ष्टुही᳘ति यज्ञो वै हो᳘ता त᳘मेवै᳘त᳘दाह यज्ञ᳘स्य शि᳘रः प्र᳘तिधेही᳘ति प्र᳘तिपद्यते हो᳘ता॥

मूलम् - Weber

अ᳘थाध्वर्युः॥
प्रो᳘क्षणीरादा᳘योपोत्ति᳘ष्ठन्नाह ब्र᳘ह्मन्प्र᳘चरिष्यामो हो᳘तरभि᳘ष्टुही᳘ति ब्रह्मा वै᳘ यज्ञ᳘स्य दक्षिणत᳘ आस्तेऽभिगोप्ता त᳘मेॗवैत᳘दाहा᳘प्रमत्त आस्स्व 20 यज्ञ᳘स्य शि᳘रः प्र᳘तिधास्याम इ᳘ति हो᳘तरभि᳘ष्टुही᳘ति यज्ञो वै हो᳘ता त᳘मेवै᳘त᳘दाह यज्ञ᳘स्य शि᳘रः प्र᳘तिधेही᳘ति प्र᳘तिपद्यते हो᳘ता॥

मूलम् - विस्वरम्

अथाध्वर्युः प्रोक्षणीरादायोपोत्तिष्ठन्नाह । ब्रह्मन्प्रचरिष्यामः, होतरभिष्टुहीति । ब्रह्मा वै यज्ञस्य दक्षिणत आस्ते ऽभिगोप्ता । तमेवैतदाह । अप्रमत्त आस्स्व । यज्ञस्य शिरः प्रतिधास्याम इति । होतरभिष्टुहीति । यज्ञो वै होता । तमेवैतदाह । यज्ञस्य शिरः प्रतिधेहीति । प्रतिपद्यते होता ॥ २ ॥

सायणः

अथ यदुक्तं कात्यायनेन- “प्रोक्षणीः संस्कृत्योद्यम्योत्थायाह ब्रह्मन्प्रचरिष्यामो होतरभिष्टुहि प्रस्तोतः सामानि गायेति” (का. श्रौ. सू. २६ । ३८) इति । तत् विदधाति- अथाध्वर्युः प्रोक्षणी० रभिष्टुहीति । प्रोक्ष्यते आभिरिति प्रोक्षण्यः उत्पवनादिसंस्कृताः प्रोक्षणार्थाः आपः । ताः संस्कृत्य ‘आदाय’ हस्ते धारयित्वा ‘उपोत्तिष्ठन्नध्वर्युः’ ‘ब्रह्मन्प्रचरिष्यामः’ इति प्रैषमाह ब्रूयात् । तस्य प्रैषस्यायमर्थः । हे ब्रह्मन् ! वयं प्रवर्ग्येण ‘प्रचरिष्यामः’ अस्मभ्यमनुज्ञां देहि । त्वं च सावधानो भव । ‘हे होतः ।’ त्वं धर्मं ‘अभिष्टुहि’ अभि उद्दिश्य स्तोत्रं कुरु । “ब्रह्म जज्ञानम्” इत्यादिकं अभिष्टवं ब्रूहीत्यर्थः । हे प्रस्तोतः । त्वं धर्मलिंगकानि सामानि गायेति । तत्र ब्रह्मन्प्रचरिष्यामः होतरभिष्टुहि इत्यनयोः तात्पर्यलभ्यं अर्थमाह- ब्रह्म वै यज्ञ० धास्यामः इति । ‘ब्रह्मा’ खलु ऋत्विजां मध्ये यज्ञस्याभिगोप्ता सर्वतो रक्षिता सन् ‘दक्षिणतः’ दक्षिणभागे ‘आस्ते’ । यत एवं अतस्तमेव ब्रह्माणमुद्दिश्य एतद्वक्ष्यमाणं ‘आह’ प्रैषमन्त्रं ब्रूयात् ‘हे ब्रह्मन् !’ त्वं ‘अप्रमत्तः’ प्रमादो ऽनवधानता तद्रहितः सन् प्रयोगं सम्यग् अनुसंदधानः ‘आस्स्व’ उपविश । वयं ‘यज्ञस्य’ छिन्नं ‘शिरः’ ‘प्रतिधास्यामः’ संदधाम इति ‘ब्रह्मन्प्रचरिष्यामः’ इति प्रैषभागस्यार्थः । होतरभिष्टुहीति पुनरुपादानं व्याख्यानार्थम् । यः अयं होता असौ साक्षात् यज्ञः । वषट्कर्तृत्वेन अत्यन्तं अंतरंगत्वात् । ‘तमेव’ यज्ञात्मकं होतारं एतद्वक्ष्यमाणं ‘आह’ होतरभिष्टुहीतीति अनेन ब्रूते । एतदित्युक्तं किमित्याह हे होतः । त्वं ‘यज्ञस्य’ छिन्नं ‘शिरः’ ‘प्रतिधेहि’ संधत्स्व इति । एवं अध्वर्युणा प्रार्थितस्य होतुः अभिष्टवं प्रतिपदं विदधाति- प्रतिपद्यते होताब्रह्म जज्ञानं प्रथमं पुरस्तादिति । अध्वर्युप्रैषानंतरं होता ब्रह्म जज्ञानमित्यभिष्टववाक्यं ऋक्संघं वक्तुं प्रतिपद्यते । अथ अस्य होतुः अभिष्टवेन यज्ञशिरःसंधाने सामर्थ्यं अस्तीति दर्शयितुं अस्याः प्रतिपदं तात्पर्यगम्यं अर्थं आह-असौ वा० दितीति । ‘असौ’ द्युलोकस्थः खलु ‘आदित्यः’ ‘ब्रह्म’ अस्यां ऋचि ब्रह्मशब्देन प्रतिपाद्यते । स आदित्यः ‘अहरहः’ प्रतिदिनं प्रत्यहं ‘पुरस्तात्’ पूर्वस्यां दिशि ‘जायते’ उदेति । ‘एषः’ उद्यन्नादित्यः ‘प्रवर्ग्यः’ “तत्पतित्वा ऽसावादित्यो ऽभवत्” (श. प. १४ । १ । १ । १०) इति प्राक् आम्नातत्वात् । भक्त्या च ‘एतमेव’ सूर्यात्मकं प्रवर्ग्यं ‘एतत्’ “ब्रह्म जज्ञानं प्रथमं पुरस्तात्” इत्येतेन ‘प्रीणाति’ तर्पयति । यस्मादित्यं समवेतार्थप्रकाशिका एषा । तस्मात् “ब्रह्म जज्ञानं प्रथमं पुरस्तात्” इत्येतामृचमाह- अनया प्रवर्ग्यमभिष्टोतुं प्रवर्तते इत्यर्थः । अथ आसादितानां पात्राणां प्रोक्षणं विधत्ते- अथ प्रोक्षत्यसावेव बंधुरिति । एवं ब्रह्मणे विज्ञाप्य ‘अथ’ तस्यानुज्ञानंतरं प्रागासादितानि उपयमनीमहावीरादीनि धर्मपात्राणि ‘प्रोक्षति’ प्रोक्षणेन संस्कुर्यात् । ‘असावेव’ खलु प्रोक्षणसंस्कारः बंधुर्बंधकः प्रोक्षितानां यागार्हत्वसंपादनेन छिन्नस्य यज्ञशिरसः संधानहेतुः इत्यर्थः ॥ २ ॥ ३ ॥

Eggeling
  1. Then the Adhvaryu takes the (lustral) sprinkling water, and, stepping up, says, ‘Brahman, we shall proceed: Hotr̥, sing praises!’ for the Brahman is seated on the right (south) side as the guardian of the sacrifice: to him he thus says, ‘Sit thou undistracted: we are about to restore the head of the Sacrifice;’ and ‘Hotr̥, sing praises!’ he says, because the Hotr̥ is the sacrifice: he thus thereby says to him, ‘Restore the head of the sacrifice!’ and accordingly the Hotr̥ begins to recite–

०३

विश्वास-प्रस्तुतिः

ब्र᳘ह्म जज्ञान᳘म्प्रथम᳘म्पुर᳘स्तादि᳘ति॥
(त्य) असौ वा᳘ ऽआदित्यो ब्रह्मा᳘हरहः पुर᳘स्ताज्जायत ऽएष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह ब्र᳘ह्मजज्ञान᳘म्प्रथम᳘म्पुर᳘स्तादित्य᳘थ प्रो᳘क्षत्यसा᳘वेव ब᳘न्धुः॥

मूलम् - श्रीधरादि

ब्र᳘ह्म जज्ञान᳘म्प्रथम᳘म्पुर᳘स्तादि᳘ति॥
(त्य) असौ वा᳘ ऽआदित्यो ब्रह्मा᳘हरहः पुर᳘स्ताज्जायत ऽएष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह ब्र᳘ह्मजज्ञान᳘म्प्रथम᳘म्पुर᳘स्तादित्य᳘थ प्रो᳘क्षत्यसा᳘वेव ब᳘न्धुः॥

मूलम् - Weber

ब्र᳘ह्म जज्ञान᳘म् प्रथम᳘म् पुर᳘स्तादि᳘ति॥
असौ वा᳘ आदित्यो ब्रह्मा᳘हरहः पुर᳘स्ताज्जायत एष᳘ उ प्रव᳘र्ग्यस्त᳘देत᳘मेॗवैत᳘त्प्रीणाति त᳘स्मादाह ब्र᳘ह्म जज्ञान᳘म् प्रथम᳘म् पुर᳘स्तादित्य᳘थ प्रो᳘क्षत्यसा᳘वेव ब᳘न्धुः॥

मूलम् - विस्वरम्

“ब्रह्म जज्ञानं प्रथमं पुरस्तात्”- (वा. सं. १३ । ३) इति । असौ वा आदित्यो ब्रह्माहरहः पुरस्ताज्जायते । एष उ प्रवर्ग्यः । तदेतमेवैतत्प्रीणाति । तस्मादाह- “ब्रह्म जज्ञानं प्रथमं पुरस्तात्”- इति । अथ प्रोक्षति । असावेव बन्धुः ॥ ३ ॥

सायणः

[व्याख्यानं द्वितीये]

Eggeling
  1. [Vāj. S. XIII, 3,] ‘The Brahman, firstborn from afore 21,–the Brahman, doubtless, is yonder

sun, and he is born day by day from afore (in the east); and the Pravargya also is that (sun): it is him he thus gratifies, and therefore he says, ‘The Brahman (n.), firstborn from afore.’ He then sprinkles (the vessels): the import of this is the same as before 22.

०४

विश्वास-प्रस्तुतिः

स प्रो᳘क्षति॥
यमा᳘य त्वे᳘त्येष वै᳘ यमो य᳘ ऽएष त᳘पत्येष᳘ हीदᳫँ᳭ स᳘र्व्वं यम᳘यत्येतेने᳘दᳫँ᳭ स᳘र्व्वं यत᳘मेष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह यमा᳘य त्वे᳘ति॥

मूलम् - श्रीधरादि

स प्रो᳘क्षति॥
यमा᳘य त्वे᳘त्येष वै᳘ यमो य᳘ ऽएष त᳘पत्येष᳘ हीदᳫँ᳭ स᳘र्व्वं यम᳘यत्येतेने᳘दᳫँ᳭ स᳘र्व्वं यत᳘मेष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह यमा᳘य त्वे᳘ति॥

मूलम् - Weber

स प्रो᳘क्षति॥
यमा᳘य त्वे᳘त्येष वै᳘ यमो य᳘ एष त᳘पत्येषॗ हीदᳫं स᳘र्वं यम᳘यत्येतेने᳘दᳫं स᳘र्वं यत᳘मेष᳘ 23 उ प्रव᳘र्ग्यस्त᳘देत᳘मेॗवैत᳘त्प्रीणाति त᳘स्मादाह यमा᳘य त्वे᳘ति॥

मूलम् - विस्वरम्

स प्रोक्षति । “यमाय त्वा”- (वा. सं. ३७ । ११) इति । एष वै यमः । य एष तपति । एष हीदं सर्वं यमयति । एतेनेदं सर्वं यतम् । एष उ प्रवर्ग्यः । तदेतमेवैतत्प्रीणाति । तस्मादाह- “यमाय त्वा”- इति ॥ ४ ॥

सायणः

अथ एतत् प्रोक्षणं अनूद्य मंत्रं विधत्ते- स प्रोक्षति यमाय त्वेतीति । अयमर्थः । “यमाय त्वा १ मखाय त्वा २ सूर्यस्य त्वा तपसे ३” इति वाक्यत्रयात्मकेन मन्त्रेण ‘सः’ अध्वर्युः प्रत्येकं महावीरान् ‘प्रोक्षति’ यद्वा त्रिभिर्वाक्यैः त्रीन् महावीरान् यथासंख्यं ‘प्रोक्षति’ । तथा च सूत्रितं कात्यायनेन “ब्रह्मणा ऽनुज्ञातो 24 यमाय त्वेति महावीरं प्रोक्षति । प्रतिमंत्रं वा 25 वाक्यभेदात्” (का. श्रौ. सू. २६ । ३९ । ४०) इति । तत्र प्रथममन्त्रस्य प्रवर्ग्येण संगति दर्शयति- एष वै० प्रीणातीति । ‘य एषः’ सूर्यः ‘तपति’ । ‘एष’ खलु ‘यमः’ । कुतः अस्य यमशब्दाभिधेयता ? इति चेत् । ‘हि’ यस्मात् ‘इदं सर्वं’ भूतजातं ‘एषः’ ‘यमयति’ स्वव्यापारेषु नियमयति । यस्माच्च ‘एतेन’ सूर्येण ‘इदं सर्वं’ जगत् ‘यतं’ सृष्ट्वा आदावपि परस्परसांकर्याभावेन व्यवस्थितं इदं कृतम् । तस्मात् असौ मन्त्रे यमशब्देन उच्यते । ‘एष उ’ एष एव ‘प्रवर्ग्यः’ । गतमन्यत् । यस्मादेव असौ मन्त्रः समवेतार्थः । तत् अनेन मन्त्रेण प्रोक्षेत् इति निगमयति- तस्मादाह यमाय त्वेतीति ॥ ४ ॥

Eggeling
  1. He sprinkles (the chief Mahāvīra) with (Vāj. S. XXXVII, 11), ‘For Yama thee!’–Yama, doubtless, is he who shines yonder, for it is he who controls (yam) everything here, and by him everything here is controlled; and the Pravargya also is that (sun): it is him he thus gratifies, and therefore he says, ‘For Yama (I sprinkle) thee.’

०५

विश्वास-प्रस्तुतिः

मखा᳘य त्वे᳘ति॥
(त्ये) एष वै᳘ म᳘खो य᳘ ऽएष त᳘पत्येष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह मखा᳘य त्वे᳘ति॥

मूलम् - श्रीधरादि

मखा᳘य त्वे᳘ति॥
(त्ये) एष वै᳘ म᳘खो य᳘ ऽएष त᳘पत्येष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह मखा᳘य त्वे᳘ति॥

मूलम् - Weber

मखा᳘य त्वे᳘ति॥
एष वै᳘ म᳘खो य᳘ एष त᳘पत्येष᳘ उ प्रव᳘र्ग्यस्त᳘देत᳘मेॗवैत᳘त्प्रीणाति त᳘स्मादाह मखा᳘य त्वे᳘ति॥

मूलम् - विस्वरम्

“मखाय त्वा” इति । एष वै मखः । य एष तपति । एष उ प्रवर्ग्यः । तदेतमेवैतत्प्रीणाति । तस्मादाह- “मखाय त्वा”- इति ॥ ५ ॥

सायणः

अथ द्वितीयमहावीरस्य प्रोक्षणमन्त्रमनूद्य व्याचष्टे- मखाय त्वेति० मखाय त्वेतीति । ‘एष वै’ एष खलु सूर्यः ‘मखः’ मखशब्दाभिधेयस्य यज्ञात्मकस्य शिरस एव सूर्यत्वात् । अन्यद्गतम् ॥ ५ ॥

Eggeling
  1. ‘For Makha thee!’–Makha, doubtless, is he who shines yonder, and the Pravargya also is that one: it is him he thus gratifies, and therefore he says, ‘For Makha thee.’

०६

विश्वास-प्रस्तुतिः

सू᳘र्य्यस्य त्वा त᳘पस ऽइ᳘ति॥
(त्ये) एष वै सू᳘र्य्यो य᳘ ऽएष त᳘पत्येष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह सू᳘र्य्यस्य त्वा त᳘पस ऽइ᳘ति॥

मूलम् - श्रीधरादि

सू᳘र्य्यस्य त्वा त᳘पस ऽइ᳘ति॥
(त्ये) एष वै सू᳘र्य्यो य᳘ ऽएष त᳘पत्येष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह सू᳘र्य्यस्य त्वा त᳘पस ऽइ᳘ति॥

मूलम् - Weber

सू᳘र्यस्य त्वा त᳘पस इ᳘ति॥
एष वै सू᳘र्यो य᳘ एष त᳘पत्येष᳘ प्रव᳘र्ग्यस्त᳘देत᳘मेॗवैत᳘त्प्रीणाति त᳘स्मादाह सू᳘र्यस्य त्वा त᳘पस इ᳘ति॥

मूलम् - विस्वरम्

“सूर्यस्य त्वा तपसे”- (वा. सं. ३७ । ११) इति । एष वै सूर्यः । य एष तपति । एष उ प्रवर्ग्यः । तदेतमेवैतत्प्रीणाति । तस्मादाह- सूर्यस्य त्वा तपसे इति ॥ ६ ॥

सायणः

अथ तृतीयमहावीरप्रोक्षणमन्त्रमनूद्य व्याचष्टे- सूर्यस्य त्वा० तपस इतीति । सिद्धप्रायमेतत् 26 ॥ ६ ॥

Eggeling
  1. ‘For Sūrya’s heat thee!’–Sūrya, doubtless, is he who shines yonder, and the Pravargya also is that one: it is him he thus gratifies, and therefore he says, ‘For Sūrya’s heat thee.’

०७

विश्वास-प्रस्तुतिः

पू᳘र्व्वया द्वारा स्थू᳘णान्निर्हृ᳘त्य॥
दक्षिणतो नि᳘मिन्वन्ति य᳘थैनाᳫँ᳭ हो᳘ता ऽभिष्टुव᳘न्पराप᳘श्येद्यज्ञो वै हो᳘ता स᳘ ऽए᳘वास्यामेत᳘द्यज्ञम्प्र᳘तिदधाति त᳘थैषा᳘ घर्म᳘म्पिन्वते᳘॥ अर्द्धः प्रपाठकः॥ कण्डिकाः॥६६॥

मूलम् - श्रीधरादि

पू᳘र्व्वया द्वारा स्थू᳘णान्निर्हृ᳘त्य॥
दक्षिणतो नि᳘मिन्वन्ति य᳘थैनाᳫँ᳭ हो᳘ता ऽभिष्टुव᳘न्पराप᳘श्येद्यज्ञो वै हो᳘ता स᳘ ऽए᳘वास्यामेत᳘द्यज्ञम्प्र᳘तिदधाति त᳘थैषा᳘ घर्म᳘म्पिन्वते᳘॥ अर्द्धः प्रपाठकः॥ कण्डिकाः॥६६॥

मूलम् - Weber

पू᳘र्वया द्वारा स्थू᳘णां निर्हृ᳘त्य 27
दक्षिणतो नि᳘मिन्वन्ति य᳘थैनाᳫं हो᳘ताभिष्टुव᳘न्पराप᳘श्येद्यज्ञो वै हो᳘ता स᳘ एॗवास्यामेत᳘द्यज्ञम् प्र᳘तिदधाति त᳘थैषा घर्म᳘म् पिन्वते॥

मूलम् - विस्वरम्

पूर्वया द्वारा स्थूणां निर्हृत्य दक्षिणतो निमिन्वंति । यथैनां होता ऽभिष्टुवन्परापश्येत् । यज्ञो वै होता । स एवास्यामेतद्यज्ञं प्रतिदधाति । तथैषा घर्मं पिन्वते ॥ ७ ॥

सायणः

अथ घर्मदुहो धेनोर्बंधनाय स्थूणानिखननं 26 विधत्ते- पूर्व्वया द्वारा० परापश्येदिति । प्राग्वंशस्य पूर्वद्वारेण ‘स्थूणां’ घर्मदुहो गोः बंधनार्थं स्तंभं ‘निर्हृत्य’ निर्गमय्य ‘दक्षिणतः’ प्राचीनवंशस्य दक्षिणदिग्भागे ‘निमिन्वंति’ अवटं खात्वा तस्मिन्निक्षिपंति । ‘एनां’ स्थूणां ‘अभिष्टुवन्’ अभिष्टवं पठन् ‘होता’ ‘यथा’ येन प्रकारेण ‘परापश्येत्’ समीक्षेत । तथा स्थूणा निखातव्येत्यर्थः । अथ एतत् होतुः दर्शनमुपपादयति- यज्ञो वै होता० घर्मं पिन्वत इति । वषट्कर्तृत्वेन यागे अंतरंगत्वात् ‘होता यज्ञो वै’ यज्ञ एव । ‘सः’ तथाविधः निखातां स्थूणां पश्यन्नेव ‘अस्यां’ स्थूणायां ‘एतत्’ एतेन ईक्षणेन ‘यज्ञं प्रतिदधाति’ संदधाति । तथा सति ‘एषा’ घर्मदुघा धेनुः ‘घर्मं पिन्वते’ घर्मं हवीरूपं पयः सिंचति स्रवति । “पिवि सेचने”- (धा. पा. भ्वा. आ. ५८९) इति धातुः ॥ ७ ॥

Eggeling
  1. Having taken out a post 28 by the front door (of the śālā), he drives it into the ground on the south side (of the śālā 29), so that the Hotr̥, whilst singing praises, may look upon it; for the Hotr̥ is the sacrifice, and he thereby restores the sacrifice to this (earth), and she causes the Gharma (milk) to rise.

०८

विश्वास-प्रस्तुतिः

(ते᳘ ऽग्रे) अ᳘ग्रेणाहवनी᳘यम्॥
(ᳫँ᳭) सम्म्राडासन्दी᳘म्पर्य्याहृ᳘त्य दक्षिणतः प्रा᳘चीमा᳘सादयत्युत्तराᳫँ᳭[[!!]] राजासन्द्यै॥

मूलम् - श्रीधरादि

(ते᳘ ऽग्रे) अ᳘ग्रेणाहवनी᳘यम्॥
(ᳫँ᳭) सम्म्राडासन्दी᳘म्पर्य्याहृ᳘त्य दक्षिणतः प्रा᳘चीमा᳘सादयत्युत्तराᳫँ᳭[[!!]] राजासन्द्यै॥

मूलम् - Weber

अ᳘ग्रेणाहवनी᳘यम्॥
सम्राडासन्दी᳘म् पर्याहृ᳘त्य दक्षिणतः प्रा᳘चीमा᳘सादयत्यु᳘त्तरां राजासन्द्यै॥

मूलम् - विस्वरम्

अग्रेणाहवनीयम् । सम्म्राडासंदीं पर्याहृत्य दक्षिणतः प्राचीमासादयति । उत्तरां राजासंद्यै ॥ ८ ॥

सायणः

अथ आसादितायाः संम्राडासंद्या 26 देशविशेषे स्थापनं विधत्ते- अग्रेणाहवनीयं० राजासंद्यै इति । सम्म्राट् प्रवर्ग्यः महावीरः इति पर्यायाः । तस्यासंदी आसनभूता मंचिका ‘संम्राडासंदी’ तां ‘आहवनीयमग्रेण’ आहवनीयस्य अदूरेण प्राग्भागेन ‘पर्याहृत्य’ परित आनीय आहवनीयस्य ‘दक्षिणतः’ ‘प्राचीं’ प्रागायताम् । राजासंद्याः क्रीतः सोमो यस्यामासंद्यां आस्ते सा राजासंदी । तस्याः सकाशात् ‘उत्तरां’ उन्नततरां वर्षीयसीम् । यद्वा 30 उत्तरभागावस्थितां ‘आसादयति’ स्थापयति ॥ ८ ॥

Eggeling
  1. Having turned round the Emperor’s throne-seat 31 in front of the Āhavanīya, he places it south thereof, and north of the King’s (Soma’s) throne-seat 32, so as to face the east.

०९

विश्वास-प्रस्तुतिः

(न्द्या ऽऔ᳘) औ᳘दुम्बरी भवति॥
(त्यू) ऊर्ग्वै र᳘स ऽउदुम्ब᳘र ऽऊ᳘र्ज्जै᳘वैनमेतद्र᳘सेन स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥

मूलम् - श्रीधरादि

(न्द्या ऽऔ᳘) औ᳘दुम्बरी भवति॥
(त्यू) ऊर्ग्वै र᳘स ऽउदुम्ब᳘र ऽऊ᳘र्ज्जै᳘वैनमेतद्र᳘सेन स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥

मूलम् - Weber

औ᳘दुम्बरी भवति॥
ऊर्ग्वै र᳘स उदुम्ब᳘र ऊॗर्जैॗवैनमेतद्र᳘सेन 33 स᳘मर्धयति कृत्स्नं᳘ करोति॥

मूलम् - विस्वरम्

औदुंबरी भवति । ऊर्ग्वै रस उदुंबरः । ऊर्जैवैनमेतद्रसेन समर्द्धयति । कृत्स्नं करोति ॥ ९ ॥

सायणः

अथ एतस्याः वृक्षविशेषं विधाय स्तौति- औदुंबरी 34 भवति० कृत्स्नं करोति इति । सा च संम्राडासंदी ‘औदुंबरी’ उदुंबरविकारा उदुंबरवृक्षजैः फलकैः निर्मिता ‘भवति’ । उदुंबरवृक्षस्य ऊर्ग्रसरूपत्वं अभ्र्याः औदुंबरत्वविधायके वाक्ये (श. प. १४ । १ । २ । ४) पूर्वमेव दर्शितम् । अतः तद्वदेव सर्वं व्याख्येयम् ॥ ९ ॥

Eggeling
  1. It is made of Udumbara wood, for the Udumbara means strength: with strength, with vital sap, he thus supplies and completes it (the Pravargya).

१०

विश्वास-प्रस्तुतिः

(त्यᳫँ᳭) अᳫँ᳭सदघ्ना᳘ भवति॥
(त्य᳘) अ᳘ᳫँ᳘सयोर्व्वा᳘ ऽइदᳫँ᳭ शि᳘रः प्र᳘तिष्ठितं तद᳘ᳫँ᳘सयोरे᳘वैतच्छि᳘रः प्र᳘तिष्ठापयति॥

मूलम् - श्रीधरादि

(त्यᳫँ᳭) अᳫँ᳭सदघ्ना᳘ भवति॥
(त्य᳘) अ᳘ᳫँ᳘सयोर्व्वा᳘ ऽइदᳫँ᳭ शि᳘रः प्र᳘तिष्ठितं तद᳘ᳫँ᳘सयोरे᳘वैतच्छि᳘रः प्र᳘तिष्ठापयति॥

मूलम् - Weber

अंसदघ्ना᳘ भवति॥
अ᳘ᳫं᳘सयोर्वा᳘ इदं शि᳘रः प्र᳘तिष्थितम् तद᳘ᳫं᳘सयोरेॗवैतछि᳘रः प्र᳘तिष्ठापयति॥

मूलम् - विस्वरम्

अंसदघ्ना भवति । अंसयोर्वा इदं शिरः प्रतिष्ठितम् । तदंसयोरेवैतच्छिरः प्रतिष्ठापयति ॥ १० ॥

सायणः

अथ एतस्याः संम्राडासंद्याः उच्छ्रायपरिमाणं 34 आह- अँसदघ्ना भवतीति । सा संम्राडासंदी ‘अंसदघ्ना’ ऊर्ध्वपरिमाणेन अंसमात्री ‘भवति’ । अथ एतत् अंसदघ्नत्वं स्तौति- अंसयोर्वा० प्रतिष्ठापयतीति । ‘इदं’ अस्मदादीनां ‘शिरः’ ‘अंसयोर्वै’ अंसयोरुपरि खलु ‘प्रतिष्ठितं’ संबद्धम् । तत्तस्मात् ‘एतत्’ एतेन राजासंद्याः अंसदघ्नत्वकरणेन यज्ञस्य अंसयोरेव एतत् महावीरशिरः प्रतिष्ठापयति ॥ १० ॥

Eggeling
  1. It is shoulder-high, for on the shoulders this head is set: he thus sets the head upon the shoulders.

११

विश्वास-प्रस्तुतिः

बाल्वजी᳘भी र᳘ज्जुभि᳘र्व्युता भवति॥
यज्ञ᳘स्य शीर्षच्छिन्न᳘स्य र᳘सो व्व्यक्षरत्त᳘त ऽएता ऽओ᳘षधयो[[!!]] ज᳘ज्ञिरे ते᳘नै᳘वैनमेतद्र᳘सेन स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥

मूलम् - श्रीधरादि

बाल्वजी᳘भी र᳘ज्जुभि᳘र्व्युता भवति॥
यज्ञ᳘स्य शीर्षच्छिन्न᳘स्य र᳘सो व्व्यक्षरत्त᳘त ऽएता ऽओ᳘षधयो[[!!]] ज᳘ज्ञिरे ते᳘नै᳘वैनमेतद्र᳘सेन स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥

मूलम् - Weber

बाल्वजी᳘भी र᳘ज्जुभिॗर्व्युता भवति॥
यज्ञ᳘स्य शीर्षछिन्न᳘स्य र᳘सो व्य᳘क्षरत्तत एता ओ᳘षधयो जज्ञिरे ते᳘नैॗवैनमेतद्र᳘सेन स᳘मर्धयति कृत्स्न᳘म् करोति॥

मूलम् - विस्वरम्

बाल्वजीभी रज्जुभिर्व्युता भवति । यज्ञस्य शीर्षच्छिन्नस्य रसो व्यक्षरत् । तत एता ओषधयो जज्ञिरे । तेनैवैनमेतद्रसेन समर्द्धयति । कृत्स्नं करोति ॥ ११ ॥

सायणः

अथ एतस्या आवयनं 34 विदधाति- बाल्वजीभिः० भवतीति । बल्वजाः तृणविशेषाः । तन्निर्मिताभिः रज्जुभिः पाशैः ‘व्युता’ अनेन संतता संस्यूता भवति । अथ एतत् स्तौति- यज्ञस्य० करोतीति । छिन्नात् यज्ञशिरसः यः ‘रसः’ क्षरणेन भूमिं प्राप्नोत् । ‘ततः’ सकाशात् बल्वजाख्याः ‘ओषधयः’ ‘जज्ञिरे’ जाता बभूवुः । सिद्धमन्यत् ॥ ११ ॥

Eggeling
  1. It is wound all over with cords 35 of Balvaja grass (Eleusine indica). When the sacrifice had its head cut off, its vital sap flowed out, and thence these plants grew up: with that life-sap he thus supplies and completes it.

१२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘दुत्तरत᳘ ऽआसाद᳘यति॥
यज्ञो वै सो᳘मः शि᳘रः प्रव᳘र्ग्य ऽउ᳘त्तरम्वै शि᳘रस्त᳘स्मादुत्तरत ऽआ᳘सादयत्य᳘थो रा᳘जा वै सो᳘मः सम्म्रा᳘ट् प्रव᳘र्ग्य ऽउ᳘त्तरम्वै᳘ राज्यात्सा᳘म्म्राज्यन्त᳘स्मादुत्तरत ऽआ᳘सादयत्युत्तरो वै᳘ प्रजापति᳘स्तस्मादुत्तरत ऽआ᳘सादयति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘दुत्तरत᳘ ऽआसाद᳘यति॥
यज्ञो वै सो᳘मः शि᳘रः प्रव᳘र्ग्य ऽउ᳘त्तरम्वै शि᳘रस्त᳘स्मादुत्तरत ऽआ᳘सादयत्य᳘थो 36 रा᳘जा वै सो᳘मः सम्म्रा᳘ट् प्रव᳘र्ग्य ऽउ᳘त्तरम्वै᳘ राज्यात्सा᳘म्म्राज्यन्त᳘स्मादुत्तरत ऽआ᳘सादयत्युत्तरो वै᳘ प्रजापति᳘स्तस्मादुत्तरत ऽआ᳘सादयति॥

मूलम् - Weber

अ᳘थ य᳘दुत्तरत᳘ आसाद᳘यति॥
यज्ञो वै सो᳘मः शि᳘रः प्रव᳘र्ग्य उ᳘त्तरम् वै शि᳘रस्त᳘स्मादुत्तरत आ᳘सादयत्य᳘थो रा᳘जा वै सो᳘मः सम्रा᳘ट् प्रव᳘र्ग्य उ᳘त्तरम् वै᳘ राज्यात्सा᳘म्राज्यं त᳘स्मादुत्तरत आ᳘सादयति॥

मूलम् - विस्वरम्

अथ यदुत्तरत आसादयति । यज्ञो वै सोमः । शिरः प्रवर्ग्यः । उत्तरं वै शिरः । तस्मादुत्तरत आसादयति । अथो राजा वै सोमः । संम्राट् प्रवर्ग्यः । उत्तरं वै राज्यात्सांम्राज्यम् । तस्मादुत्तरत आसादयति । उत्तरो वै प्रजापतिः । तस्मादुत्तरत आसादयति ॥ १२ ॥

सायणः

“उत्तरां राजापंद्यै” इति (श. प. १४ । १ । ३ । ९) यत्पूर्वमुक्तं संम्राडासन्द्याः । तत् अनूद्य स्तौति- अथ यदुत्तरत आसादयतीति । ‘अथ’ अपि च ‘उत्तरतः’ सोमस्य उपरिभागे उत्तरस्यां दिशि वा ‘आसादयति’ महावीरायैव आसनार्थं आसंदीं स्थापयति इति यत् तत्किमर्थं ? इति चेत्; उच्यते- यो ऽयं राजासंद्यां निविष्टः सोमः । असौ ‘यज्ञो वै’ यज्ञः खलु, तत्साधनत्वात् । प्रवर्ग्यश्च तस्य यज्ञस्य ‘शिरः’ । यस्माच्छिरः इतरस्मादवयवजातात् ‘उत्तरं वै’ उपरिभागे स्थितम् । यस्मादेवं ‘तस्मादुत्तरत आसादयति’ । अथ प्रकारांतरेण उत्तरतः आसादनं स्तौति- अथो राजा वै० आसादयतीति । ‘अथो’ अपि च ‘राजा वै’ राजा खलु ‘सोमः’ राजासंद्यां अवस्थितः । “सोमो ऽस्माकं ब्राह्मणानां राजा”- (श. प. ५ । ३ । ३ । १२) इति श्रुतेः । ‘प्रवर्ग्यः संम्राट्’ “तं पाणिभिः संममृजुस्तस्मात्संम्राट्”- (श. प. १४ । १ । १ । ११।) इति प्राक् निर्वचनस्य दर्शितत्वात् । किं तत इत्याह- उत्तरं वा इति । लोके हि राजशब्देन प्रणताशेषसामंतः सार्वभौमो नृप उच्यते । संम्राट्शब्देन तु उक्तलक्षणः सन् यो राजसूयेन ईजे सः अभिधेयः । अतः ‘राज्यात्’ राजत्वात् ‘सांम्राज्यं’ संम्राट्त्वं ‘उत्तरं वै’ उत्तरं उपर्यवस्थितं श्रेष्ठं खलु । तस्मात्संम्राजः प्रवर्ग्यस्य तां आसनभूतां आसंदीं ‘आसादयति’ । यद्वा 36 राजा सोमः तदंगत्वात् प्रवर्ग्यः प्रजास्थानीयः, प्रजा च पितृस्थानीयात् राज्ञः उत्तरतः । पितृस्थानीयो राजा तु ‘उत्तरो वै’ उपरिभावी खलु । गतमन्यत् ॥ १२ ॥

Eggeling

12 And as to why he places it north (of Soma’s seat),–Soma is the sacrifice, and the Pravargya is its head; but the head is higher (uttara): therefore he places it north (uttara) of it. Moreover, Soma is king, and the Pravargya is emperor, and the imperial dignity is higher than the royal: therefore he places it north of it 37.

१३

विश्वास-प्रस्तुतिः

स य᳘त्रैताᳫँ᳭ हो᳘ता ऽन्वा᳘ह॥
(हा) अञ्ज᳘न्ति य᳘म्प्रथ᳘यन्तो न व्वि᳘प्रा ऽइ᳘ति त᳘देत᳘म्प्रचरणी᳘यम्महावीरमा᳘ज्येन स᳘मनक्ति देव᳘स्त्वा सविता म᳘ध्वा ऽनक्त्वि᳘ति सविता वै᳘ देवा᳘नाम्प्रसविता स᳘र्व्वम्वा᳘ ऽइदम्म᳘धु य᳘दिदं कि᳘ञ्च त᳘देनमने᳘न स᳘र्व्वेण स᳘मनक्ति त᳘दस्मै सविता᳘ प्रसविता प्र᳘सौति त᳘स्मादाह देव᳘स्त्वा सविता म᳘ध्वा ऽनक्त्विति॥

मूलम् - श्रीधरादि

स य᳘त्रैताᳫँ᳭ हो᳘ता ऽन्वा᳘ह॥
(हा) अञ्ज᳘न्ति य᳘म्प्रथ᳘यन्तो न व्वि᳘प्रा ऽइ᳘ति त᳘देत᳘म्प्रचरणी᳘यम्महावीरमा᳘ज्येन स᳘मनक्ति देव᳘स्त्वा सविता म᳘ध्वा ऽनक्त्वि᳘ति सविता वै᳘ देवा᳘नाम्प्रसविता स᳘र्व्वम्वा᳘ ऽइदम्म᳘धु य᳘दिदं कि᳘ञ्च त᳘देनमने᳘न स᳘र्व्वेण स᳘मनक्ति त᳘दस्मै सविता᳘ प्रसविता प्र᳘सौति त᳘स्मादाह देव᳘स्त्वा सविता म᳘ध्वा ऽनक्त्विति॥

मूलम् - Weber

स य᳘त्रैताᳫं हो᳘तान्वा᳘ह॥
अञ्ज᳘न्ति य᳘म् प्रथ᳘यन्तो न वि᳘प्रा इ᳘ति त᳘देत᳘म् प्रचरणी᳘यम् महावीरमा᳘ज्येन स᳘मनक्ति देव᳘स्त्वा सविता म᳘ध्वानक्त्वि᳘ति सविता वै᳘ देवा᳘नाम् प्रसविता स᳘र्वम्वा᳘ इदम् म᳘धु य᳘दिदं किं᳘ च त᳘देनमनेन स᳘र्वेण स᳘मनक्ति त᳘दस्मै सविता᳘ प्रसविता प्र᳘सौति त᳘स्मादाह देव᳘स्त्वा सविता म᳘ध्वानक्त्विति॥

मूलम् - विस्वरम्

स यत्रैतां होता ऽन्वाह । “अंजंति यं प्रथयंतो न विप्राः”- इति । तदेतं प्रचरणीयं महावीरमाज्येन समनक्ति- “देवस्त्वा सविता मध्वा ऽनक्तु”- (वा. सं. ३७ । ११) इति । सविता वै देवानां प्रसविता । सर्वं वा इदं मधु । यदिदं किंच । तदेनमनेन सर्वेण समनक्ति । तदस्मै सविता प्रसविता प्रसौति । तस्मादाह- “देवस्त्वा सविता मध्वा ऽनक्तु” इति ॥ १३ ॥

सायणः

अथ प्रचरणीयस्य महावीरस्य घृतेन समंजनं विधत्ते 36- स यत्रैतां० मध्वा नक्त्विति । “अञ्जंति” इत्येतां ऋचं ‘सः’ अभिष्टुद्धोता ‘यत्र’ यस्मिन् काले ‘आह’ ब्रूयात् । तत्र तस्मिन् काले ‘एनं’ प्रथमं कृतं प्रचरणीयं प्रचरणसाधनं ‘महावीरं आज्येन’ स्रुवपूरितेन ‘समनक्ति’ सम्यक् अक्तं करोति । “देवस्त्वा सविता” इति मन्त्रेण । अथ अस्मिन्मन्त्रे मधुसवितृशब्दयोः तात्पर्यगम्यमर्थं दर्शयन् अनेनैव मन्त्रेण समंजनं कार्यमिति निगमयति- सविता वा इति । मन्त्रे समंजनकर्तृत्वेन यः ‘सविता’ उपात्तः । स खलु ‘देवानां’ मध्ये ‘प्रसविता’ यजमानानां कर्मसु प्रेरयिता । तथा ‘यदिदं किंच’ यत् किमपि लोके दृश्यमानं मधु अस्ति । ‘इदं’ मन्त्रे समंजनकरत्वेन उच्यमानमाज्यलक्षणं ‘मधु’ ‘सर्वं तत्’ लोके विद्यमानं सर्वं मध्वात्मकम् । तत्तस्मात् “देवस्त्वा सविता मध्वा ऽनक्तु” इति ‘अनेन’ मन्त्रवर्णेन ‘एनं’ महावीरं ‘सर्वेण’ निरवशेषेण अनेन कृत्स्नजगद्वर्तिना मधुना ‘समनक्ति’ समक्तवान् भवति । यस्मिन्मन्त्रे सविता प्रतिपाद्यते । तत्तस्मात् ‘अस्मै’ महावीराय सः ‘सविता’ ‘प्रसविता’ प्रेरकः सन् ‘प्रसौति’ अनुष्ठाने प्रेरयति । ‘तस्मात्’ इत्यादि निगमनम् ॥ १३ ॥

Eggeling
  1. And when the Hotr̥ recites this (verse, Rig-v. V, 43, 7), ‘Whom the priests anoint, as if spreading him . . .,’ he anoints that Mahāvīra which is to be used, all over with ghee 38, with, ‘May the god Savitr̥ anoint thee with honey!’ for Savitr̥ is the impeller of the gods, and honey means everything whatever there is here: he thus anoints it (or him) all over with everything here, and Savitr̥, as the impeller, impels it for him,–this is why he says, ‘May the god Savitr̥ anoint thee with honey!’

१४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थोत्तरतः सि᳘कता ऽउ᳘पकीर्ण्णा भवन्ति॥
त᳘द्रजतᳫँ᳭ हि᳘रण्यमध᳘स्तादु᳘पास्यति पृथिव्याः᳘ सᳫँ᳭स्पृ᳘शस्पाही᳘त्येतद्वै᳘ देवा᳘ ऽअबिभयुर्य्यद्वै᳘ न ऽइम᳘मधस्ताद्र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘त्यग्नेर्व्वा᳘ ऽएतद्रे᳘तो यद्धि᳘रण्यन्नाष्ट्रा᳘णाᳫँ᳭ र᳘क्षसाम᳘पहत्या ऽअ᳘थो पृथि᳘व्यु ह वा᳘ ऽएत᳘स्माद्बिभया᳘ञ्चकार यद्वै᳘मा य᳘न्तप्तः᳘ शुशुचानो न᳘ हिᳫँ᳭स्यादि᳘ति त᳘दे᳘वास्या ऽएत᳘दन्त᳘र्द्दधाति रजतं᳘ भवति रज᳘तैव᳘ हीयम्पृथिवी॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थोत्तरतः सि᳘कता ऽउ᳘पकीर्ण्णा भवन्ति॥
त᳘द्रजतᳫँ᳭ हि᳘रण्यमध᳘स्तादु᳘पास्यति पृथिव्याः᳘ सᳫँ᳭स्पृ᳘शस्पाही᳘त्येतद्वै᳘ देवा᳘ ऽअबिभयुर्य्यद्वै᳘ न ऽइम᳘मधस्ताद्र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘त्यग्नेर्व्वा᳘ ऽएतद्रे᳘तो यद्धि᳘रण्यन्नाष्ट्रा᳘णाᳫँ᳭ र᳘क्षसाम᳘पहत्या ऽअ᳘थो पृथि᳘व्यु ह वा᳘ ऽएत᳘स्माद्बिभया᳘ञ्चकार यद्वै᳘मा य᳘न्तप्तः᳘ शुशुचानो न᳘ हिᳫँ᳭स्यादि᳘ति त᳘दे᳘वास्या ऽएत᳘दन्त᳘र्द्दधाति रजतं᳘ भवति रज᳘तैव᳘ हीयम्पृथिवी॥

मूलम् - Weber

अ᳘थोत्तरतः सि᳘कता उ᳘पकीर्णा भवन्ति॥
त᳘द्रजतम् हि᳘रण्यमध᳘स्तादु᳘पास्यति पृथिव्याः᳘ संस्पृ᳘शस्पाही᳘त्येतद्वै᳘ देवा᳘ अबिभयुर्यद्वै᳘ न इम᳘मध᳘स्ताद्र᳘क्षांसि नाष्ट्रा न᳘ हन्युरि᳘त्यग्नेर्वा᳘ एतद्रे᳘तो यद्धि᳘रण्यं नाष्ट्रा᳘णां र᳘क्षसाम᳘पहत्या अ᳘थो पृथिॗव्यु ह वा᳘ एत᳘स्माद्बिभयां चकार यद्वै᳘ मायं᳘ तप्तः᳘ शुशुचानो न᳘ हिंस्यादि᳘ति त᳘देॗवास्या एत᳘दन्त᳘र्दधाति रजत᳘म् भवति रजॗतैवॗ हीयम् पृथिवी॥

मूलम् - विस्वरम्

अथोत्तरतः सिकता उपकीर्णा भवंति । तद्रजतं हिरण्यमधस्तादुपास्यति- “पृथिव्याः संस्पृशस्पाहि”- (वा. सं. ३७ । ११) इति । एतद्वै देवा अबिभयुः । यद्वै न इममधस्ताद्रक्षांसि नाष्ट्रा न हन्युरिति । अग्नेर्वा एतद्रेतः- यद्धिरण्यम् । नाष्ट्राणां रक्षसामपहत्यै । अथो पृथिव्यु ह वा एतस्माद्विभयाञ्चकार । यद्वै मा ऽयं तप्तः शुशुचानो न हिंस्यादिति । तदेवास्या एतदंतर्दधाति । रजतं भवति । रजतेव हीयं पृथिवी ॥ १४ ॥

सायणः

अथ प्रवृंजनार्थे खरे रजतशतमानरुक्मस्य प्रक्षेपं विधत्ते- अथोत्तरतः० संस्पृशस्पाहीतीति । ‘अथ’ समंजनानंतरं गार्हपत्यस्योत्तरतः उत्तरस्यां दिशि ‘सिकताः उपकीर्णाः’ उपक्षिप्ताः ‘भवंति’ । सिकताभिः चतुरस्रं खरं 39 कुर्यात् इत्यर्थः । तत्तत्र सिकतोपकीर्णे देशे ‘रजतं हिरण्यं’ हिरण्यशब्दस्य रूप्यसुवर्णयोः साधारणत्वात् तद्व्यावृत्त्यर्थं रजतमिति विशेषणम् । ‘रजतं हिरण्यं’ रजतशतमाननिर्मितं रुक्मं रथाप्यमानस्य महावीरस्य ‘अधस्तात्’ अधोभागे ‘उपास्यति’ उपक्षिपति । “पृथिव्याः” इति मन्त्रेण । तथा च कात्यायनः “अञ्जन्तीत्युच्यमाने देवस्त्वेत्यनक्ति महावीरमाज्य‍ँ संस्कृत्य रजतशतमानं खर ऽउपगूहति पृथिव्याः सँ स्पृशः इति” (का. श्रौ. सू. २६ । ४६ । ४७) । अथ एतस्य अधस्तात् हिरण्योपासनस्य प्रयोजनमाह- एतद्वै०मपहत्या इति । ‘एतद्वै’ एतस्मिन्काले खलु ‘देवाः’ पुरा ‘अबिभयुः’ भीतवंतः । किं कारणमिति तदुच्यते- ‘यद्वै’ यदि खलु ‘नः’ अस्माकं ‘इमं’ महावीरं अधस्तादधोभागे ‘रक्षांसि’ यज्ञनिहंतॄणि ‘नाष्ट्राः’ नाशकारिण्यः तत्सेनाः ‘न हन्युः’ हननं मा ऽकार्षुः तर्हि यज्ञः संपूर्यते । ते च राक्षसादयः अवश्यम् इमं हनिष्यंति इत्यनेन कारणेन भीतवंत इत्यर्थः । भीताश्च ते रजतशतमानं तद्रक्षणाय महावीरस्य अधस्तात् निहितवंत इत्यर्थः । तदेतत् उपपादयति- अग्नेरिति । ‘हिरण्यमिति’ यदग्नेः खलु ‘एतत् रेतो’ वीर्यम् । “आपो वरुणस्य पत्नय आसन् ता अग्निरभ्यध्यायत्ताः समभवत् तस्य रेतः परापतत्तद्धिरण्यमभवत्” इति श्रुतेः । तस्मात् रजतलक्षणं हिरण्यं अग्नेर्वीर्यत्वात् ‘नाष्ट्राणां रक्षसां’ अपहननाय विनाशाय समर्थम् । तस्मादधस्तात् तस्योपासनं कार्यमित्यर्थः । प्रयोजनांतरमाह- अथो पृथिव्यु ह वा०न्तर्दधातीति । ‘अथो’ अपि च एतस्मात्तप्तात्प्रवर्ग्यात् ‘पृथिवी’ खलु ‘बिभयांचकार’ भीता बभूव । ‘यद्वै’ यदि खलु ‘मा’ मां ‘अयं’ प्रवर्ग्यः ‘तप्तः’ संतप्तः ‘शुशुचानः’ दीप्यमानः ‘न हिंस्यात्’ । तदा मया धारयितुं सह्यते । अयं तु सर्वथा मां हिंस्यात् इति भीता बभूवेत्यर्थः । तत्तस्मादेव कारणात् ‘अस्याः’ पृथिव्याः हिंसा ऽभावार्थं एतद्धिरण्यं ‘अंतर्दधाति’ अंतर्हितं करोति । अत एव मन्त्रे “पृथिव्याः संस्पृशस्पाहि” इति पृथिवीसंस्पर्शाभावाय रक्षणं प्रार्थ्यते । तदेतत् तैत्तिरीयके स्पष्टमाम्नातम्- “पृथिवीं तपसस्त्रायस्वेति हिरण्यमुपास्यति अस्या अनतिदाहाय” । अथास्य रजतत्वमनूद्य स्तौति- रजतं भवति० पृथिवीति । तच्च हिरण्यं ‘रजतं’ रजतात्मकं ‘भवति’ (तै. आ. ५ । ४ । ५) इति । ‘इयं पृथिवी’ ‘रजतेव हि’ रजतवच्छुक्लभास्वरा हि । तस्मात्तदंतर्द्धाने रजतमेव योग्यमित्यर्थः ॥ १४॥

Eggeling
  1. Now sand has been strewed 40 on the north side of it: below that he (previously) throws (a plate of) white gold 41, with, ‘Protect it from contact with the earth!’ For at that time the gods were afraid lest the Rakshas, the fiends, might injure that (Pravargya) of theirs from below; and that, to wit, gold, being Agni’s seed, it (serves) for repelling the fiends, the Rakshas. But, indeed, the Earth also was afraid of this lest this (Pravargya), when heated and glowing 42, might injure

her: he thus keeps it separate from her. White it is, for white, as it were 43, is this earth.

१५

विश्वास-प्रस्तुतिः

स य᳘त्रैताᳫँ᳭ हो᳘ता ऽन्वा᳘ह॥
स᳘ᳫँ᳘सीदस्व महाँ᳘ ३ असी᳘ति त᳘दुभय᳘त ऽआदीप्ता᳘ मौञ्जाः᳘ प्रलवा᳘ भवन्ति ता᳘नुपा᳘स्य ते᳘षु प्र᳘वृणक्ति यज्ञ᳘स्य शीर्षच्छिन्न᳘स्य र᳘सो व्व्यक्षरत्त᳘त ऽएता ऽओ᳘षधयो[[!!]] जज्ञिरे ते᳘नै᳘वैनमेतद्र᳘सेन स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥

मूलम् - श्रीधरादि

स य᳘त्रैताᳫँ᳭ हो᳘ता ऽन्वा᳘ह॥
स᳘ᳫँ᳘सीदस्व महाँ᳘ ३ असी᳘ति त᳘दुभय᳘त ऽआदीप्ता᳘ मौञ्जाः᳘ प्रलवा᳘ भवन्ति ता᳘नुपा᳘स्य ते᳘षु प्र᳘वृणक्ति यज्ञ᳘स्य शीर्षच्छिन्न᳘स्य र᳘सो व्व्यक्षरत्त᳘त ऽएता ऽओ᳘षधयो[[!!]] जज्ञिरे ते᳘नै᳘वैनमेतद्र᳘सेन स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥

मूलम् - Weber

स य᳘त्रैताᳫं हो᳘तान्वाह॥
स᳘ᳫं᳘सीदस्व महा᳘म् महा᳘म्॥
असी᳘ति त᳘दुभय᳘त आदीप्ता᳘ 44 मौञ्जाः᳘ प्रलवा᳘ भवन्ति ता᳘नुपा᳘स्य ते᳘षु प्र᳘वृणक्ति यज्ञ᳘स्य शीर्षछिन्न᳘स्य र᳘सो व्य᳘क्षरत्त᳘त एता ओ᳘षधयो जज्ञिरे ते᳘नैॗवैनमेतद्र᳘सेन स᳘मर्धयति कृत्स्नं᳘ करोति॥

मूलम् - विस्वरम्

स यत्रैतां होता ऽन्वाह- “संसीदस्व महाँ ३ असि”- (वा. सं. ३८ । १७) इति । तदुभयत आदीप्ता मौंजाः प्रलवा भवन्ति । तानुपास्य तेषु प्रवृणक्ति । यज्ञस्य शीर्षच्छिन्नस्य रसो व्यक्षरत् । तत एता ओषधयो जज्ञिरे । तेनैवैनमेतद्रसेन समर्द्धयति । कृत्स्नं करोति ॥ १५ ॥

सायणः

यदुक्तं सूत्रकारेण- “सँसीदस्वेत्युच्यमाने मुंजप्रलवान्द्विगुणानादीप्य प्रतिदिशं खरे करोति” (का. श्रौ. सू. २६ । ५०) इति । तद्विधत्ते- स यत्रैतां० प्रवृणक्तीति । ‘यत्र’ यस्मिन् काले ‘होता’ “सँ सीदस्व” इत्येतामृचं अनुब्रूयात् । तत्तदा ‘उभयतः’ आद्यंतयोः ‘आदीप्ताः’ प्रज्वालिताः ‘मौंजाः’ मुञ्जविकाराः ‘प्रलवाः’ प्रकर्षेण लूनाः तृणविशेषाः ‘भवन्ति’ । ‘तान्’ खरे ‘उपास्य’ प्रक्षिप्य ‘तेषु’ महावीरमासाद्य ‘प्रवृणक्ति’ प्रवृंजनं करोति । मुञ्जतृणानां मुष्टिद्वयमानीय अग्रमूलयोः आदीप्य चतुर्द्दिक्षु यथा ज्वाला भवति तथा व्यत्यस्य खरस्थे रजतशतमाने विधाय तत्र महावीरं स्थापयेदित्यर्थः । अथ एतदादीपने मुखप्रलवानाम् उपादानं समर्थयते- यज्ञस्य शीर्ष० करोतीति । ‘एताः’ मुञ्जाख्याः ‘ओषधयः’ । सिद्धमन्यत् ॥ १५ ॥

Eggeling
  1. And when the Hotr̥ recites this (verse, Rig-v. I, 36, 9), ‘Sit thee down: thou art great . . .,’ sheaths of reed-grass are kindled on both sides 45, and throwing them (on the mound), he puts (the Mahāvīra pot) thereon. When the sacrifice had its head cut off, its life-sap flowed away, and therefrom these plants grew up: with that life-sap he thus supplies and completes it.

१६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘दुभय᳘त ऽआदीप्ता भ᳘वन्ति॥
स᳘र्व्वाभ्य ऽए᳘वैत᳘द्दिग्भ्यो र᳘क्षाᳫँ᳭सि नाष्ट्रा ऽअ᳘पहन्ति त᳘स्मिन्प्रवृज्य᳘माने प᳘त्नी शि᳘रः प्रो᳘र्ण्णुते तप्तो वा᳘ ऽएष᳘ शुशुचानो᳘ भवति ने᳘न्मे ऽय᳘न्तप्तः᳘ शुशुचानश्च᳘क्षुः प्रमुष्णादि᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘दुभय᳘त ऽआदीप्ता भ᳘वन्ति॥
स᳘र्व्वाभ्य ऽए᳘वैत᳘द्दिग्भ्यो र᳘क्षाᳫँ᳭सि नाष्ट्रा ऽअ᳘पहन्ति त᳘स्मिन्प्रवृज्य᳘माने प᳘त्नी शि᳘रः प्रो᳘र्ण्णुते तप्तो वा᳘ ऽएष᳘ शुशुचानो᳘ भवति ने᳘न्मे ऽय᳘न्तप्तः᳘ शुशुचानश्च᳘क्षुः प्रमुष्णादि᳘ति॥

मूलम् - Weber

अ᳘थ य᳘दुभय᳘त आदीप्ता 46 भ᳘वन्ति॥
स᳘र्वाभ्य एॗवैत᳘द्दिग्भ्यो र᳘क्षांसि नाष्ट्रा अ᳘पहन्ति त᳘स्मिन्प्रवृज्य᳘माने प᳘त्नी शि᳘रः प्रो᳘र्णुते तप्तो वा एष᳘ शुशुचानो᳘ भवति ने᳘न्मेऽयं᳘ तप्तः᳘ शुशुचानश्च᳘क्षुः प्रमुष्णादि᳘ति 47

मूलम् - विस्वरम्

अथ यदुभयत आदीप्ता भवन्ति । सर्वाभ्य एवैतद्दिग्भ्यो रक्षांसि नाष्ट्रा अपहंति । तस्मिन्प्रवृज्यमाने पत्नी शिरः प्रोर्णुते । तप्तो वा एष शुशुचानो भवति । नेन्मे ऽयं तप्तः शुशुचानश्चक्षुः प्रमुष्णादिति ॥ १६ ॥

सायणः

अथ उभयत आदीपनं स्तौति- अथ यदुभयत० अपहन्तीति । ‘अथ’ अपि च ‘यत्’ यस्मात् एते मुञ्जप्रलवाः ‘उभयत आदीप्ताः’ अग्रमूलयोः अग्निसंबद्धाः ‘भवन्ति’ । तत्तेन ‘सर्वाभ्यः’ प्राच्यादिभ्यः ‘दिग्भ्यः’ सकाशादेव ‘रक्षांसि’ नाष्ट्राश्च ‘अपहन्ति’ चतुर्द्दिगवस्थितया ज्वालया विनाशयति । आदीपनप्रभृतिप्रवृंजनसमये पत्नीमुखस्य वेष्टनं विधत्ते 48- तस्मिन्प्रवृ० प्रोर्णुते इति । ‘तस्मिन्’ महावीरे संतप्ते ‘प्रवृज्यमाने’ पयआसेचनेन विक्रियमाणे ‘पत्नी’ स्वकीयं ‘शिरः’ मुखं ‘प्रोर्णुते’ वस्त्रादिना आच्छादयेत् । “ऊर्णुञ् आच्छादने” (धा. पा. अ. उ. २९) इति धातुः । किमर्थमेतत् ? इत्यत आह- तप्तो वा० प्रमुष्णादितीति । ‘एषः’ महावीरः ‘तप्तो वै’ तप्तः खलु ‘शुशुचानः’ अत्यर्थं दीप्यमानः ‘भवति’ । ‘अयं तप्तः शुशुचानः’ ‘मे’ मदीयं ‘चक्षुः’ ‘नेत् प्रमुष्णात्’ नैव प्रमृज्यात् । इत्यनेनाभिप्रायेण स्वकीयमुखं वेष्टयेदित्यर्थः ॥ १६ ॥

Eggeling
  1. And as to why they are kindled on both sides: he thereby repels the Rakshas, the fiends, from all the quarters. Whilst this (pot) is being heated, the (Sacrificer’s) wife covers her head, thinking, ‘Lest this one, when heated and glowing, should rob me of my eyesight,’ for it indeed becomes heated and glowing.

१७

विश्वास-प्रस्तुतिः

स प्प्र᳘वृणक्ति॥
(क्त्य) अर्च्चि᳘रसि शोचि᳘रसि त᳘पो ऽसी᳘त्येष वै घर्म्मो य᳘ ऽएष त᳘पति स᳘र्व्वम्वा᳘ ऽएत᳘देष त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाहार्च्चि᳘रसि शोचि᳘रसि त᳘पो ऽसीति॥

मूलम् - श्रीधरादि

स प्प्र᳘वृणक्ति॥
(क्त्य) अर्च्चि᳘रसि शोचि᳘रसि त᳘पो ऽसी᳘त्येष वै घर्म्मो य᳘ ऽएष त᳘पति स᳘र्व्वम्वा᳘ ऽएत᳘देष त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाहार्च्चि᳘रसि शोचि᳘रसि त᳘पो ऽसीति॥

मूलम् - Weber

स प्र᳘वृणक्ति॥
अर्चि᳘रसि शोचि᳘रसि त᳘पोऽसी᳘त्येष वै घर्मो य᳘ एष त᳘पति स᳘र्वम् वा᳘ एत᳘देष त᳘देत᳘मेॗवैत᳘त्प्रीणाति त᳘स्मादाहार्चि᳘रसि शोचि᳘रसि त᳘पोऽसीति॥

मूलम् - विस्वरम्

स प्रवृणक्ति- “अर्चिरसि शोचिरसि तपो ऽसि”- (वा. सं. ३७ । ११) इति । एष वै घर्मः । य एष तपति । सर्वं वा एतदेषः । तदेतमेवैतत्प्रीणाति । तस्मादाह- “अर्चिरसि शोचिरसि तपो ऽसि” ॥ १७ ॥

सायणः

अथ मुञ्जप्रलवेषु विहितं प्रवृंजनार्थं महावीरासादनं अनूद्य तत्र 48 मंत्रं विधत्ते- स प्रवृणक्ति० तपो ऽसीतीति । ‘सः’ अध्वर्युः ‘प्रवृणक्ति’ प्रवृंजनाय महावीरं आज्यपूर्णम् उभयत आदीप्तेषु मुञ्जप्रलवेषु खरे निहितेषु “अर्च्चिरसि शोचिरसि तपो ऽसि” इति मन्त्रेण स्थापयति । अथ तत्प्रशंसति- एष वै घर्मो० तपो ऽसीतीति । ‘य एषः’ दिवि ‘तपति’ सूर्यः । ‘एषः’ खलु ‘घर्मः’ प्रवर्ग्यः । ‘एषः’ च सूर्यः ‘सर्वमेतद्वै’ दृश्यमानसर्वजगदात्मकः । तस्मात् घर्मरूपिणं जगदात्मकं ‘एतं’ सूर्यमेव एतदेतेन अर्चिरसीत्यादिनानारूपत्वप्रतिपादनेन ‘प्रीणाति’ तर्पयति । ‘तस्मात्’ इत्यादि निगमनम् ॥ १७ ॥

Eggeling
  1. He puts it on with, ‘Flame thou art, glow thou art, heat thou art;’–for the Gharma is he who shines yonder, and he indeed is all that: it is him he thus gratifies, and therefore he says, ‘Flame thou art, glow thou art, heat thou art.’

१८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थास्या᳘माशि᳘ष ऽआ᳘शास्ते॥
(स्त ऽइ) इयम्वै᳘ य᳘ज्ञो ऽस्या᳘मे᳘वैत᳘दाशि᳘ष ऽआ᳘शास्ते ता᳘ ऽअस्मा ऽइयᳫँ᳭ स᳘र्व्वाः स᳘मर्द्धयति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थास्या᳘माशि᳘ष ऽआ᳘शास्ते॥
(स्त ऽइ) इयम्वै᳘ य᳘ज्ञो ऽस्या᳘मे᳘वैत᳘दाशि᳘ष ऽआ᳘शास्ते ता᳘ ऽअस्मा ऽइयᳫँ᳭ स᳘र्व्वाः स᳘मर्द्धयति॥

मूलम् - Weber

अ᳘थास्या᳘माशि᳘ष आ᳘शास्त॥
इयम् वै᳘ यॗज्ञोऽस्या᳘मेॗवैत᳘दाशि᳘ष आ᳘शास्ते ता᳘ अस्मा इयᳫं स᳘र्वाः स᳘मर्धयति॥

मूलम् - विस्वरम्

अथास्यामाशिष आशास्ते । इयं वै यज्ञः । अस्यामेवैतदाशिष आशास्ते । ता अस्मा इयं सर्वाः समर्द्धयति” इति ॥ १८ ॥

सायणः

“अनाधृष्टा पुरस्तात्” इत्यादीनि पृथिवीदेवत्यानि यजमानवाचनार्थानि आशिषः प्रतिपादकानि यजूंषि तानि व्याख्यातुकामः पृथिविसंबंधि यदाशीः प्रतिपादनं तत्सर्वं यज्ञस्यैव इत्याह- अथास्यामाशिष० समर्द्धयतीति । ‘अथ’ शब्द आनंतर्यार्थः । अर्चिरसीति महावीरस्थापनानंतरं ‘अस्यां’ महावीरलक्षणायां पृथिव्यां ‘आशिषः आशास्ते’ यजमानः फलानि आशंसति । ‘इयं’ पृथिव्येव खलु ‘यज्ञः’ । तस्मात् यज्ञात्मिकायां ‘अस्यां’ पृथिव्यामेव ‘एतत्’ एतेन “अनाधृष्टा पुरस्तात्” इत्यादिवक्ष्यमाणाः जन्माशिषः यजमानः ‘आशास्ते’ । सा ‘इयं’ आशीर्भिर्युक्ता पृथिवी ‘अस्मै’ यजमानाय ‘ताः सर्वाः’ आशिषः ‘समर्द्धयति’ समृद्धाः करोति ॥ १८ ॥

Eggeling
  1. He (the Sacrificer) then invokes blessings on this (earth) 49, for the sacrifice is this (earth): it is thus (whilst being) on her that he invokes blessings, and she fulfils them all for him.

१९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘नाधृष्टा पुर᳘स्तादि᳘ति॥
(त्य᳘) अ᳘नाधृष्टा᳘ ह्येषा᳘ पुर᳘स्ताद्र᳘क्षोभिर्न्नाष्ट्रा᳘भिरग्नेरा᳘धिपत्य ऽइ᳘त्यग्नि᳘मे᳘वास्या ऽअ᳘धिपतिङ्करोति नाष्ट्रा᳘णाᳫँ᳭ र᳘क्षसाम᳘पहत्या ऽआ᳘युर्म्मे दा ऽइत्या᳘युरे᳘वात्म᳘न्द्धत्ते त᳘थो ह स᳘र्व्वमा᳘युरेति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘नाधृष्टा पुर᳘स्तादि᳘ति॥
(त्य᳘) अ᳘नाधृष्टा᳘ ह्येषा᳘ पुर᳘स्ताद्र᳘क्षोभिर्न्नाष्ट्रा᳘भिरग्नेरा᳘धिपत्य ऽइ᳘त्यग्नि᳘मे᳘वास्या ऽअ᳘धिपतिङ्करोति नाष्ट्रा᳘णाᳫँ᳭ र᳘क्षसाम᳘पहत्या ऽआ᳘युर्म्मे दा ऽइत्या᳘युरे᳘वात्म᳘न्द्धत्ते त᳘थो ह स᳘र्व्वमा᳘युरेति॥

मूलम् - Weber

अ᳘नाधृष्टा पुर᳘स्तादिति॥
अ᳘नाधृष्टाॗ ह्येषा पुर᳘स्ताद्र᳘क्षोभिर्नाष्ट्रा᳘भिरग्नेरा᳘धिपत्य इ᳘त्यग्नि᳘मेॗवास्या अ᳘धिपतिं करोति नाष्ट्रा᳘णां र᳘क्षसाम᳘पहत्या आ᳘युर्मे दा इत्या᳘युरेॗवात्म᳘न्धत्ते त᳘थो स᳘र्वमा᳘युरेति॥

मूलम् - विस्वरम्

“अनाधृष्टा पुरस्तात्”- इति । अनाधृष्टा ह्येषा पुरस्ताद्रक्षोभिर्नाष्ट्राभिः । “अग्नेराधिपत्ये”- इति । अग्निमेवास्या अधिपतिं करोति- नाष्ट्राणां रक्षसामपहत्यै । “आयुर्मे दाः”- इति । आयुरेवात्मन्धत्ते । तथो ह सर्वमायुरेति ॥ १९ ॥

सायणः

यदुक्तं कात्यायनेन- “अनाधृष्टेति वाचयति 50 प्रादेशमध्यधि धारयंतम्” । “प्रतिदिशमेके”- (का. श्रौ. सू. २६ । ५२-५३) इति । अयमर्थः- महावीरस्य उपरिष्टात् समीपे प्रादेशं धारयंतं यजमानं अनाधृष्टेत्यादीनि यजूंषि अध्वर्युर्वाचयति । एके शाखिनस्तु मंत्रलिंगानुसारेण 51 प्रतिदिशं प्रादेशं धारयंतं वाचयीत इत्याहुः । इति सर्वं क्रमेण प्रतिपिपादयिषुः तत्र प्राचीदिक्संबद्धं मंत्रं त्रेधाकृत्य प्रथमभागं प्रदर्श्य व्याचष्टे- अनाधृष्टा० नाष्ट्राभिरिति । यजमानं वाचयति । ‘एषा’ पृथिवी ‘पुरस्तात्’ महावीरस्य प्रच्यां दिशि ‘रक्षोभिः’ राक्षसैः ‘नाष्ट्राभिः’ नाशकारिणीभिः तत्सेनाभिश्च ‘अनाधृष्टा’ अबाधिता ‘हि’ । यस्मादेवं तस्मात् “अनाधृष्टा पुरस्तात्” इति मंत्रभागः संगत इत्यर्थः । अथ द्वितीयभागमनूद्य व्याचष्टे- अग्नेराधिपत्य इति । “अग्नेराधिपत्ये” इत्यनेन मंत्रभागेन ‘अस्याः’ पृथिव्याः ‘अग्निमेव अधिपतिं करोति’ । किमर्थं ‘नाष्ट्राणां रक्षसां’ च अपहननार्थम् । “अग्निर्हि रक्षसामपहंता” (श. प. १ । १ । ६-९ ।) इति श्रुतेः । अथ तृतीयभागमनूद्य व्याचष्टे- आयुर्म्मे दाः० मायुरेतीति । “आयुर्मे दाः" इत्यनेन मंत्रभागेन ‘आत्मन्’ आत्मनि स्वस्मिन् आयुर्जीवनमेव ‘धत्ते’ धारयति । ‘तथो ह’ तथा च खलु स यजमानः ‘सर्वं’ संपूर्णं ‘आयुः’ ‘एति’ प्राप्नोति ॥ १९ ॥

Eggeling
  1. [Vāj. S. XXXVII, 12,] ‘Unmolested thou art in front (in the east),’–for unmolested by the Rakshas, the fiends, indeed, this (earth) is in front;–‘in Agni’s over-lordship,’–he thus makes Agni her over-lord for the warding off of the fiends, the Rakshas;–‘grant thou life unto me!’–he thus secures life for himself, and accordingly he attains the full (term of) life.

२०

विश्वास-प्रस्तुतिः

पुत्र᳘वती दक्षिणत ऽइ᳘ति॥
ना᳘त्र तिरो᳘हितमिवास्ती᳘न्द्रस्या᳘धिपत्य ऽइती᳘न्द्रमे᳘वास्या ऽअ᳘धिपतिङ्करोति नाष्ट्रा᳘णाᳫँ᳭ र᳘क्षसाम᳘पहत्यै प्रजा᳘म्मे दा ऽइ᳘ति प्रजा᳘मेव᳘ पशू᳘नात्म᳘न्द्धत्ते त᳘थो ह पुत्री᳘ पशुमा᳘न्भवति॥

मूलम् - श्रीधरादि

पुत्र᳘वती दक्षिणत ऽइ᳘ति॥
ना᳘त्र तिरो᳘हितमिवास्ती᳘न्द्रस्या᳘धिपत्य ऽइती᳘न्द्रमे᳘वास्या ऽअ᳘धिपतिङ्करोति नाष्ट्रा᳘णाᳫँ᳭ र᳘क्षसाम᳘पहत्यै प्रजा᳘म्मे दा ऽइ᳘ति प्रजा᳘मेव᳘ पशू᳘नात्म᳘न्द्धत्ते त᳘थो ह पुत्री᳘ पशुमा᳘न्भवति॥

मूलम् - Weber

पुत्र᳘वती दक्षिणत इ᳘ति॥
ना᳘त्र तिरो᳘हितमिवास्ती᳘न्द्रस्या᳘धिपत्य इती᳘न्द्रमेॗवास्या अ᳘धिपतिं करोति नाष्ट्रा᳘णां र᳘क्षसाम᳘पहत्यै प्रजा᳘म् मे दा इ᳘ति प्रजा᳘मेव᳘ पशू᳘नात्म᳘न्धत्ते त᳘थो ह पुत्री᳘ पशुमा᳘न्भवति॥

मूलम् - विस्वरम्

“पुत्रवती दक्षिणतः”- इति । नात्र तिरोहितमिवास्ति । “इंद्रस्याधिपत्ये”- इति । इंद्रमेवास्या अधिपतिं करोति- नाष्ट्राणां रक्षसामपहत्यै । “प्रजां मे दाः”- इति । प्रजामेव पशूनात्मन्धत्ते । तथो ह पुत्री पशुमान् भवति ॥ २० ॥

सायणः

अथ दक्षिणदिक्संबद्धस्य मंत्रस्य प्रथमभागम् अनूद्य स्पष्टो ऽर्थ इत्याह- पुत्रवती द० वास्तीति । “पुत्रवती दक्षिणतः” इति महावीरदक्षिणभागे यजमानवाचनमंत्रस्य यो ऽयं प्रथमभागः ‘अत्र’ अस्मिन् ‘तिरोहितं’ अस्पष्टं व्याख्यानसापेक्षं नैवास्ति । ‘दक्षिणतः’ महावीरदक्षिणदिग्भागे एषा पृथिवी ‘पुत्रवती’ पुत्रैर्युक्ता इत्यस्य अर्थस्य स्पष्टत्वात् । अथ द्वितीयतृतीयभागावनूद्य व्याचष्टे- इन्द्रस्याधिपत्य इति० पशुमान्भवतीति । “इन्द्रस्याधिपत्ये" इति द्वितीयभागेन ‘अस्याः’ पृथिव्याः ‘इन्द्रं’ स्वामिनं ‘करोति’ । “प्रजां मे दाः” इति तृतीयभागेन ‘प्रजां’ पुत्रादिरूपामेव ‘पशूंश्च’ गवादिलक्षणान् स्वस्मिन् धारयति । तथा च स यजमानः ‘पुत्री’ पुत्रवान् ‘पशुमांश्च भवति’ ॥ २० ॥

Eggeling
  1. ‘Possessed of sons towards the south,’–in this there is nothing hidden, so to speak;–‘in Indra’s over-lordship,’–he thus makes Indra her over-lord for the warding off of the fiends, the Rakshas;–‘grant thou offspring unto me!’–he thus secures offspring and cattle for himself, and accordingly he becomes possessed of sons and of cattle.

२१

विश्वास-प्रस्तुतिः

सुष᳘दा पश्चादि᳘ति॥
ना᳘त्र तिरो᳘हितमिवास्ति देव᳘स्य सवितुरा᳘धिपत्य ऽइ᳘ति देव᳘मे᳘वास्यै सविता᳘रम᳘धिपतिङ्करोति नाष्ट्रा᳘णाᳫँ᳭ र᳘क्षसाम᳘पहत्यै च᳘क्षुर्मे दा᳘ ऽइ᳘ति च᳘क्षुरे᳘वात्म᳘न्द्धत्ते त᳘थो ह च᳘क्षुष्मान्भवति॥

मूलम् - श्रीधरादि

सुष᳘दा पश्चादि᳘ति॥
ना᳘त्र तिरो᳘हितमिवास्ति देव᳘स्य सवितुरा᳘धिपत्य ऽइ᳘ति देव᳘मे᳘वास्यै सविता᳘रम᳘धिपतिङ्करोति नाष्ट्रा᳘णाᳫँ᳭ र᳘क्षसाम᳘पहत्यै च᳘क्षुर्मे दा᳘ ऽइ᳘ति च᳘क्षुरे᳘वात्म᳘न्द्धत्ते त᳘थो ह च᳘क्षुष्मान्भवति॥

मूलम् - Weber

सुष᳘दा पश्चादिव्ति॥
ना᳘त्र तिरो᳘हितमिवास्ति देव᳘स्य सवितुरा᳘धिपत्य इ᳘ति देव᳘मेॗवास्यै सविता᳘रम᳘धिपतिं करोति नाष्ट्रा᳘णां र᳘क्षसाम᳘पहत्यै च᳘क्षुर्मे दा इ᳘ति च᳘क्षुरेॗवात्म᳘न्धत्ते त᳘थो ह च᳘क्षुष्मान्भवति॥

मूलम् - विस्वरम्

“सुषदा पश्चात्”- इति । नात्र तिरोहितमिवास्ति । “देवस्य सवितुराधिपत्ये” इति । देवमेवास्यै सवितारमधिपतिं करोति । नाष्ट्राणां रक्षसामपहत्यै । “चक्षुर्मे दाः”- इति । चक्षुरेवात्मन्धत्ते । तथा उ ह चक्षुष्मान्भवति ॥ २१ ॥

सायणः

अथ महावीरपश्चिमभागे यजमानवाचनमंत्रं पूर्ववत्त्रेधाकृत्य अनूद्य व्याचष्टे- सुषदा० स्तीति । पश्चात् प्रतीच्यां दिशि पृथिवी ‘सुषदा’ सुखेनासाद्येति अस्यार्थस्य सुगमत्वात् न व्याख्यांतरमपेक्षते इत्युक्तं- नात्रेति । अवशिष्टयोर्भागयोस्तु पूर्ववद्योज्यम् । इन्द्रस्य स्थाने “देवं सवितारं” इत्यस्य प्रक्षेपः । “अस्यै” इति षष्ठ्यर्थे चतुर्थी (पा. सू. २ । ३ । ६२ वा.) । “प्रजां मे दाः” इत्यस्य स्थाने ‘चक्षुः’ इत्यस्य प्रक्षेपः । अन्यत् सर्वं पूर्ववदेव ॥ २१ ॥

Eggeling
  1. ‘Well to live on behind (towards the western region),’–in this there is nothing hidden, so to speak;–‘in god Savitr̥’s over-lordship;’–the god Savitr̥ he thus makes her over-lord for the warding off of the fiends, the Rakshas;–‘grant thou eyesight unto me!’–he thus secures eyesight for himself, and accordingly he becomes possessed of eyesight.

२२

विश्वास-प्रस्तुतिः

(त्या᳘) आ᳘श्रुतिरुत्तरत ऽइ᳘ति॥
(त्या) आश्राव᳘यन्नुत्तरत ऽइ᳘त्ये᳘वैत᳘दाह धातुरा᳘धिपत्य ऽइ᳘ति धाता᳘रमे᳘वास्या ऽअ᳘धिपतिङ्करोति नाष्ट्रा᳘णाᳫँ᳭ र᳘क्षसाम᳘पहत्यै रायस्पो᳘षम्मे दा ऽइ᳘ति रयि᳘मेव पु᳘ष्टिमात्म᳘न्द्धत्ते त᳘थो ह रयिमान्पु᳘ष्टिमान्भवति॥

मूलम् - श्रीधरादि

(त्या᳘) आ᳘श्रुतिरुत्तरत ऽइ᳘ति॥
(त्या) आश्राव᳘यन्नुत्तरत ऽइ᳘त्ये᳘वैत᳘दाह धातुरा᳘धिपत्य ऽइ᳘ति धाता᳘रमे᳘वास्या ऽअ᳘धिपतिङ्करोति नाष्ट्रा᳘णाᳫँ᳭ र᳘क्षसाम᳘पहत्यै रायस्पो᳘षम्मे दा ऽइ᳘ति रयि᳘मेव पु᳘ष्टिमात्म᳘न्द्धत्ते त᳘थो ह रयिमान्पु᳘ष्टिमान्भवति॥

मूलम् - Weber

आ᳘श्रुतिरुत्तरत इ᳘ति॥
आश्राव᳘यन्नुत्तरत इ᳘त्येॗवैत᳘दाह धातुरा᳘धिपत्य इ᳘ति धाता᳘रमेॗवास्या अ᳘धिपतिं करोति नाष्ट्रा᳘णां र᳘क्षसाम᳘पहत्यै रायस्पो᳘षम् मे दा इ᳘ति रयि᳘मेव पु᳘ष्टिमात्म᳘न्धत्ते त᳘थो ह रयिमान्पु᳘ष्टिमान्भवति॥

मूलम् - विस्वरम्

“आश्रुतिरुत्तरतः”- इति । आश्रावयन्नुत्तरत इत्येवैतदाह । “धातुराधिपत्ये"- इति । धातारमेवास्या अधिपतिं करोति । नाष्ट्राणां रक्षसामपहत्यै । “रायस्पोषं मे दाः- इति । रयिमेव पुष्टिमात्मन्धत्ते । तथा उ ह रयिमान्पुष्टिमान्भवति ॥ २२ ॥

सायणः

अथ महावीरस्य उत्तरदिग्भागे यजमानवाचनमन्त्रस्य प्रथमभागमनूद्य तात्पर्यमाह- आश्रुतिरुत्तर० तदाहेति । “आश्रुतिरुत्तरतः” इति यत् मन्त्रवाक्यं ‘एतत्’ ‘उत्तरतः’ वेद्याः उत्तरदिग्भागे स्थित्वा अध्वर्युः प्रवरार्थं ‘आश्रावयन्’ आश्रावणं कुर्वन् भवतीति अमुमेवार्थमाह प्रतिपादयति । अथ द्वितीयतृतीयभागौ पूर्ववत् अनूद्य व्याचष्टे- धातुराधि० भवतीति । “धातुराधिपत्ये” इति ब्रुवन् ‘धातारं’ सर्वस्य धारयितारं प्रजापतिमेव ‘अस्याः’ पृथिव्याः स्वामिनं ‘करोति’ । “रायस्पोषं मे दाः” इति ब्रुवन् पदद्वयसूचितम् ‘रयिं’ धनमेव ‘पुष्टिं’ तत्कृतां विभूतिं च स्वस्मिन् ‘धत्ते’ । तथा च असौ ‘रयिमान्’ धनवान् ‘पुष्टिमान्’ धनसाध्या यां गवादिपशूनाम् अभिवृद्धिः तद्वांश्च ‘भवति’ ॥ २२ ॥

Eggeling
  1. ‘A sphere of hearing towards the north,’–‘causing (sacrificial calls) to be heard 52,’ is what he thereby means to say;–‘in the creator’s over-lordship,’–the creator he thus

makes her over-lord for the warding off of the fiends, the Rakshas; ‘grant thou prosperity (increase) of wealth unto me!’–wealth, prosperity, he thus secures for himself, and accordingly he becomes wealthy and prosperous.

२३

विश्वास-प्रस्तुतिः

व्वि᳘धृतिरुप᳘रिष्टादि᳘ति॥
व्विधार᳘यन्नुप᳘रिष्टादि᳘त्ये᳘वैत᳘दाह बृ᳘हस्प᳘तेरा᳘धिपत्य ऽइ᳘ति बृ᳘हस्प᳘तिमे᳘वास्या ऽअ᳘धिपतिङ्करोति नाष्ट्रा᳘णाᳫँ᳭ र᳘क्षसाम᳘पहत्या ऽओ᳘जो मे दा ऽइत्यो᳘ज ऽए᳘वात्म᳘न्द्धत्ते त᳘थौजस्वी ब᳘लवान्भवति॥

मूलम् - श्रीधरादि

व्वि᳘धृतिरुप᳘रिष्टादि᳘ति॥
व्विधार᳘यन्नुप᳘रिष्टादि᳘त्ये᳘वैत᳘दाह बृ᳘हस्प᳘तेरा᳘धिपत्य ऽइ᳘ति बृ᳘हस्प᳘तिमे᳘वास्या ऽअ᳘धिपतिङ्करोति नाष्ट्रा᳘णाᳫँ᳭ र᳘क्षसाम᳘पहत्या ऽओ᳘जो मे दा ऽइत्यो᳘ज ऽए᳘वात्म᳘न्द्धत्ते त᳘थौजस्वी ब᳘लवान्भवति॥

मूलम् - Weber

वि᳘धृतिरुप᳘रिष्टादि᳘ति॥
विधार᳘यन्नुप᳘रिष्टादि᳘त्येॗवैतदाह बृ᳘हस्प᳘तेरा᳘धिपत्य इ᳘ति बृ᳘हस्प᳘तिमेॗवास्या अ᳘धिपतिं करोति नाष्ट्रा᳘णां र᳘क्षसाम᳘पहत्या ओ᳘जो मे दा इत्यो᳘ज एॗवात्म᳘न्धत्ते त᳘थौजस्वी ब᳘लवान्भवति॥

मूलम् - विस्वरम्

“विधृतिरुपरिष्टात्”- इति । विधारयन्नुपरिष्टादित्येवैतदाह- “बृहस्पतेराधिपत्ये” इति । बृहस्पतिमेवास्या अधिपतिं करोति । नाष्ट्राणां रक्षसामपहत्यै । “ओजो मे दाः”- इति । ओज एवात्मन्धत्ते । तथौजस्वी बलवान् भवति ॥ २३ ॥

सायणः

अथ ऊर्ध्वदिशि यजमानमंत्रं त्रेधाकृत्य अनूद्य व्याचष्टे- विधृतिरुप० भवतीति । हे पृथिवि । त्वं ‘उपरिष्टात्’ ऊर्ध्वदिशि ‘विधृतिः’ परमेश्वरेण विधार्यमाणा असि इति प्रथमभागार्थः । तथा च एतन्मंत्रवाक्यं ‘उपरिष्टात्’ ऊर्ध्वदिशि इमां पृथिवीं ‘विधारयन्’ भवति इममर्थमाह । ‘ओजः’ बलम् ‘ओजस्वी’ इत्यस्य व्याख्यानं ‘बलवान्’ इति । शिष्टं पूर्ववत् योज्यम् ॥ २३ ॥

Eggeling
  1. ‘Disposition above,’–‘disposing 53 above’ is what he thereby means to say;–‘in Br̥haspati’s over-lordship,’–Br̥haspati he thus makes her over-lord for the warding off of the fiends, the Rakshas;–‘grant me vigour!’–vigour he thereby secures to himself, and accordingly he becomes vigorous, strong.

२४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ दक्षिणत᳘ ऽउत्ताने᳘न पाणि᳘ना नि᳘ह्नुते॥ व्वि᳘श्वाभ्यो मा नाष्ट्रा᳘भ्यस्पाही᳘ति स᳘र्व्वाभ्यो मा᳘ ऽऽर्त्तिभ्यो गोपाये᳘त्ये᳘वैत᳘दाह यज्ञ᳘स्य शीर्षच्छिन्न᳘स्य र᳘सो᳘ व्व्यक्षरत्स᳘ पितॄ᳘नगच्छत्त्रया वै᳘ पित᳘रस्तै᳘रे᳘वैनमेतत्स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ दक्षिणत᳘ ऽउत्ताने᳘न पाणि᳘ना नि᳘ह्नुते॥ व्वि᳘श्वाभ्यो मा नाष्ट्रा᳘भ्यस्पाही᳘ति स᳘र्व्वाभ्यो मा᳘ ऽऽर्त्तिभ्यो गोपाये᳘त्ये᳘वैत᳘दाह यज्ञ᳘स्य शीर्षच्छिन्न᳘स्य र᳘सो᳘ व्व्यक्षरत्स᳘ पितॄ᳘नगच्छत्त्रया वै᳘ पित᳘रस्तै᳘रे᳘वैनमेतत्स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥

मूलम् - Weber

अ᳘थ दक्षिणत᳘ उत्ताने᳘न पाणि᳘ना नि᳘ह्नुते वि᳘श्वाभ्यो मा नाष्ट्रा᳘भ्यस्पाही᳘ति स᳘र्वाभ्यो मा᳘र्तिभ्यो गोपाये᳘त्येॗवैत᳘दाह यज्ञ᳘स्य शीर्षछिन्न᳘स्य [र᳘सो व्य᳘क्षरत्स᳘] पितॄ᳘नगछत्त्रया 54 वै᳘ पित᳘रस्तै᳘रेॗवैनमेतत्स᳘मर्धयति कृत्स्नं᳘ करोति॥

मूलम् - विस्वरम्

अथ दक्षिणत उत्तानेन पाणिना निह्नुते- “विश्वाभ्यो मा नाष्ट्राभ्यस्पाहि”- इति । सर्वाभ्यो मा ऽऽर्तिभ्यो गोपाय इत्येवैतदाह । यज्ञस्य शीर्षच्छिन्नस्य रसो व्यक्षरत् स पितॄनगच्छत् त्रया वै पितरः । तैरेवैनमेतत्समर्द्धयति । कृत्स्नं करोति ॥ २४ ॥

सायणः

अथ यदुक्तं कात्यायनेन- “विश्वाभ्यो मेति दक्षिणत उत्तानं पाणिं निदधाति” (का. श्रौ. सू. २६ । ५४) इति । तत् विधत्ते- अथ दक्षिणत० स्पाहीतीति । एवं पंचसु दिक्षु प्रादेशकरणानंतरं ‘दक्षिणतः’ महावीरस्य दक्षिणदेशे ‘उत्तानेन पाणिना’ दक्षिणहस्तेन “विश्वाभ्यः” इति मन्त्रेण ‘निह्नुते’ इत्युक्तं महावीररक्षणप्रार्थनं अपलपति । अस्य भागस्य तात्पर्यगम्यमर्थमाह- सर्वाभ्यो मा० तदाहेति । हे पृथिवि ! ‘सर्वाभ्य आर्तिभ्यः’ हिंसाभ्यः ‘मा’ मां ‘गोपाय’ रक्ष इति अमुमेवार्थं “विश्वाभ्यो मा” इत्येतन्मंत्रवाक्यं ‘आह’ प्रतिपादयति । न तु पूर्ववत् नाष्ट्राशब्देन नाशकारिण्यो राक्षस्यः सेनाः उच्यंते इत्यर्थः । दक्षिणस्याः दिशः पितॄणां संबंधित्वात् दक्षिणतः हस्तनिधानेन पितृभिरपि ‘एनं’ समृद्धं कृतवान्, भवतीत्याह- यज्ञस्य० करोतीति । छिन्नशिरस्कस्य ‘यज्ञस्य’ रसः पुरा ‘पितॄन् अगच्छत्’ पितृदेवताः प्राप्नोत् । ते पितरः ‘त्रया वै’ पितृपितामहप्रपितामहभेदेन त्रिविधाः खलु । तत् त्रैविध्यं सवनत्रयात्मकयज्ञरससंबंधात् जातमित्यवगंतव्यम् । अतः ‘एतत्’ एतेन “विश्वाभ्यः” इति मंत्रेण दक्षिणतः क्रियमाणेन उत्तानपाणिनिधानेन दक्षिणदिक्संबद्धैः ‘तैरेव’ पितृभिः ‘एनं’ प्रवर्ग्यं ‘समर्द्धयति’ समृद्धं करोति । तथा च यज्ञं ‘कृत्स्नं’ संपूर्णावयवं कृतवान् भवति ॥ २४ ॥

Eggeling
  1. On the right (south) side (of the Mahāvīra) he (the Sacrificer) then makes amends by (laying down) the hand with the palm upwards, with, ‘Shield me from all evil spirits!’ whereby he means to say, ‘Protect me from all troubles!’ When the sacrifice had its head cut off, its life-sap flowed away, and went to the Fathers, but the Fathers are three in number 55: it is with these that he thus supplies and completes it (the Pravargya).

२५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थेमा᳘मभिमृ᳘श्य जपति॥
म᳘नोर᳘श्वा ऽसीत्य᳘श्वा ह वा᳘ ऽइय᳘म्भूत्वा म᳘नुमुवाह᳘ सो ऽस्याः प᳘तिः प्प्रजा᳘पतिस्ते᳘नै᳘वैनमेत᳘न्मिथुने᳘न प्प्रिये᳘ण धा᳘म्ना स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थेमा᳘मभिमृ᳘श्य जपति॥
म᳘नोर᳘श्वा ऽसीत्य᳘श्वा ह वा᳘ ऽइय᳘म्भूत्वा म᳘नुमुवाह᳘ सो ऽस्याः प᳘तिः प्प्रजा᳘पतिस्ते᳘नै᳘वैनमेत᳘न्मिथुने᳘न प्प्रिये᳘ण धा᳘म्ना स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥

मूलम् - Weber

अ᳘थेमा᳘मभिमृ᳘श्य जपति॥
म᳘नोर᳘श्वासीत्य᳘श्वा ह वा᳘ इय᳘म् भूत्वा म᳘नुमुवाहॗ 56 सोऽस्याः प᳘तिः प्रजा᳘पतिस्ते᳘नैॗवैनमेत᳘न्मिथुने᳘न प्रिये᳘ण धा᳘म्ना स᳘मर्धयति कृत्स्नं᳘ करोति॥

मूलम् - विस्वरम्

अथेमामभिमृश्य जपति- “मनोरश्वा ऽसि”- (वा. सं. ३७ । १२) इति । अश्वा ह वा इयं भूत्वा मनुमुवाह । सो ऽस्याः पतिः प्रजापतिः । तेनैवैनमेतन्मिथुनेन प्रियेण धाम्ना समर्द्धयति । कृत्स्नं करोति ॥ २५ ॥

सायणः

अथ अन्यत् कर्म 57 विधत्ते- अथेमामभि० रश्वा ऽसीति । ‘अथ’ निह्नवानंतरं महावीरस्योत्तरतः ‘इमां’ भूमिं प्रादेशेनाभिमृश्योपस्पृश्य “मनोरश्वा ऽसि” इति मंत्रं ‘जपति’ । हे पृथिवि ! त्वं ‘मनोः’ प्रजापतेः ‘अश्वा’ भवसि इति मंत्रार्थः । इममर्थं आख्यायिकया उपपादयन् मंत्रस्य संमृद्धिहेतुत्वं आह- अश्वा ह वा० करोतीति । पुरा खलु ‘इयं’ पृथिवी ‘अश्वा’ वडवा ‘भूत्वा’ ‘मनुं’ प्रजापतिं ‘उवाह’ ऊढवती । ‘सः प्रजापतिः’ ‘अस्याः’ पृथिव्याः पतिर्भर्ता संबद्धः ‘एतत्’ एतेन “मनोरश्वा ऽसि” इति पृथिव्यभिमर्शनेन ‘तेनैव’ मिथुनेन स्त्रीपुंसात्मकेन ‘प्रियेण धाम्ना’ धारकेण तेजसा ‘एनं’ प्रवर्ग्यं ‘समर्थयति’ । गतमन्यत् ॥ २५ ॥

Eggeling
  1. Thereupon, whilst touching her (the earth) 58,

‘Thou art Manu’s mare,’ for, having become a mare, she (the earth) indeed carried Manu, and he is her lord, Prajāpati: with that mate, his heart’s delight, he thus supplies and completes him (Prajāpati, the Pravargya, and Sacrificer).

२६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ व्वै᳘कङ्कतौ श᳘कलौ प᳘रिश्रयति प्रा᳘ञ्चौ॥
स्वा᳘हा मरु᳘द्भिः प᳘रिश्रीयस्वेत्य᳘वरᳫँ᳭ स्वाहाकार᳘ङ्करो᳘ति प᳘रां देव᳘तामेष वै᳘ स्वाहाकारो य᳘ ऽएष त᳘पत्येष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्माद᳘वरᳫँ᳭ स्वाहाकारङ्करोति प᳘रां देव᳘ताम्॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ व्वै᳘कङ्कतौ श᳘कलौ प᳘रिश्रयति प्रा᳘ञ्चौ॥
स्वा᳘हा मरु᳘द्भिः प᳘रिश्रीयस्वेत्य᳘वरᳫँ᳭ स्वाहाकार᳘ङ्करो᳘ति प᳘रां देव᳘तामेष वै᳘ स्वाहाकारो य᳘ ऽएष त᳘पत्येष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्माद᳘वरᳫँ᳭ स्वाहाकारङ्करोति प᳘रां देव᳘ताम्॥

मूलम् - Weber

अ᳘थ वै᳘कङ्कतौ श᳘कलौ प᳘रिश्रयति प्रा᳘ञ्चौ॥
स्वा᳘हा मरु᳘द्भिः प᳘रिश्रीयस्वेत्य᳘वरᳫं स्वाहाकारं᳘ करो᳘ति प᳘रां देव᳘तामेष वै᳘ स्वाहाकारो य᳘ एष त᳘पत्येष᳘ उ प्रव᳘र्ग्यस्त᳘देत᳘मेॗवैत᳘त्प्रीणाति त᳘स्माद᳘वरᳫं स्वाहाकारं करोति द᳘रां देव᳘ताम्॥

मूलम् - विस्वरम्

अथ वैकंकतौ शकलौ परिश्रयति प्राञ्चौ- “स्वाहा मरुद्भिः परिश्रीयस्व”-इति । अवरं स्वाहाकारं करोति । परां देवताम् । एष वै स्वाहाकारः । य एष तपति । एष उ प्रवर्ग्यः । तदेतमेवैतत्प्रीणाति । तस्मादवरं स्वाहाकारं करोति परां देवताम् ॥ २६ ॥

सायणः

अथ त्रयोदशभिर्वैकंकतसमिद्भिः महावीरस्य परिश्रयणं विधित्सुः तासु द्वाभ्यां समिद्भ्यां समंत्रकाभ्यां प्रथमं परिश्रयणं कार्यमित्याह- अथ वैकंकतौ० करोतीति । ‘अथ’ अभिमर्शनानंतरं ‘वैकंकतौ’ विकंकतवृक्षसंबंधिनौ द्वौ ‘शकलौ प्राञ्चौ’ प्रागग्रौ महावीरस्य दक्षिणतः उत्तरतश्च ‘परिश्रयति’ निदधातीत्यर्थः । “स्वाहा मरुद्भिः” इति अस्य मंत्रः । अथ तस्मिन् स्वाहाशब्दस्य अर्थं दर्शयन् तत्कृतं प्रवर्ग्यस्य अतिशयं दर्शयति- अवरं० देवतामिति । ‘अवरं’ अधस्ताद्वर्तमानं ‘स्वाहाकारं’ स्वाहेत्युच्चारणं ‘करोति’ । ‘परां’ परस्ताद्वर्तमानां अस्माभिः दुरधिगमां ‘देवतां’ स्मर्तुमिति शेषः । तस्मात् उत्कृष्टं देवतात्मकं स्वाहाकारं करोतीति योजना । कथं स्वाहाकारस्य परदेवतात्मकता ? इति तत्राह- एष वा इति । ‘य एषः’ सूर्यस्तपति ‘एषः’ खलु ‘स्वाहाकारः’ स्वाहाशब्दप्रतिपाद्यः स्वाहाकारात्मको वा । अन्यद्गतम् । ‘तस्मादवरम्’ इत्यादिपूर्वोक्तस्य निगमनम् । यद्वा ‘अवरं’ अवस्तात् अधोभागे ‘स्वाहाकारं’ ‘करोति’ । तत्संबंधिनीं ‘देवतां’ ‘परां’ परस्तात् निर्द्दिशति । यथा “अग्नये स्वाहा” इत्यादौ प्रथमं देवतापदं पश्चात् स्वाहाकारः । तद्वैपरीत्येन अत्र प्रथमं स्वाहाकारः पश्चात् देवतापदं इति योजना ॥ २६ ॥

Eggeling
  1. He then lays pieces of (split) Vikaṅkata wood round (the Mahāvīra), two pointing to the east 59, with (Vāj. S. XXXVII, 13), ‘Hail! be thou encompassed by the Maruts!’–the call of ‘hail!’ he places first, and the deity last 60; for the call of ‘hail!’ is he who shines yonder, and the Pravargya also is that (sun): it is him he thus gratifies; and hence he places the call of ‘hail!’ first, and the deity last.

२७

विश्वास-प्रस्तुतिः

(म्म) मरु᳘द्भिः प᳘रिश्रीयस्वे᳘ति॥
व्वि᳘शो वै᳘ मरु᳘तो व्वि᳘शै᳘वैत᳘त्क्षत्त्रं प᳘रिबृᳫँ᳭हति त᳘दिद᳘ङ्क्षत्त्र᳘मुभय᳘तो व्विशा प᳘रिबृढन्तूष्णीमु᳘दञ्चौ तूष्णीम्प्रा᳘ञ्चौ तूष्णीमु᳘दञ्चौ तूष्णीम्प्रा᳘ञ्चौ॥

मूलम् - श्रीधरादि

(म्म) मरु᳘द्भिः प᳘रिश्रीयस्वे᳘ति॥
व्वि᳘शो वै᳘ मरु᳘तो व्वि᳘शै᳘वैत᳘त्क्षत्त्रं प᳘रिबृᳫँ᳭हति त᳘दिद᳘ङ्क्षत्त्र᳘मुभय᳘तो व्विशा प᳘रिबृढन्तूष्णीमु᳘दञ्चौ तूष्णीम्प्रा᳘ञ्चौ तूष्णीमु᳘दञ्चौ तूष्णीम्प्रा᳘ञ्चौ॥

मूलम् - Weber

मरु᳘द्भिः प᳘रिश्रीयस्वे᳘ति॥
वि᳘शो वै᳘ मरु᳘तो विॗशैॗवैत᳘त्क्षत्रम् प᳘रिबृंहति त᳘दिदं᳘ क्षत्र᳘मुभय᳘तो विशा प᳘रिबृढं तूष्णीमु᳘दञ्चौ तूष्णीम् प्रा᳘ञ्चौ तूष्णीमु᳘दञ्चौ तूष्णीम् प्रा᳘ञ्चौ॥

मूलम् - विस्वरम्

“मरुद्भिः परिश्रीयस्व”- इति । विशो वै मरुतः । विशैवैतत्क्षत्त्रं परिबृंहति । तदिदं क्षत्त्रमुभयतो विशा परिबृढम् । तूष्णीमुदंचौ । तूष्णीं प्रांचौ । तुष्णीमुदञ्चौ । तूष्णीं प्राञ्चौ ॥ २७ ॥

सायणः

अथ द्वितीयभागमनूद्य व्याचष्टे- मरुद्भिः परि० परिबृढमिति । मरुद्भिरिति पठ्यमानाः ये मरुतः ते ‘विशः’ देवानां मध्ये वैश्याः “मरुतो वै देवानां विशः” (तै. सं. २ । २ । ५) इति श्रुत्यन्तरात् । महावीरश्च सम्राट्शब्दाभिधेयत्वात् क्षत्रियजातिस्थानीयः । अतः ‘एतत्’ एतेन “मरुद्भिः परिश्रीयस्व” इत्यनेन ‘विशैव क्षणं परिबृंहति’ वर्द्धयति । “बृहि वृद्धौ” (धा. पा. भ्वा. प. ७३७) इति धातुः । तत्तस्मात् ‘इदं’ लौकिकं ‘क्षत्त्रं’ क्षत्रियजातिः ‘विशा’ वैश्यजात्या ‘परिबृढं’ प्रवर्द्धितम् । तथा अवशिष्टैः शकलैः परिश्रयणं विधत्ते- तूष्णीमुदञ्चौ० तूष्णीं प्राञ्चाविति । पूर्वं मन्त्रेण द्वौ वैकंकतशकलौ महावीरस्य दक्षिणोत्तरभागयोः । प्रागग्रौ निहितौ । अथ तस्य पश्चात् पुरस्ताच्च द्वौ शकलौ ‘उदंचौ’ उदगग्रौ ‘तूष्णीं’ निधातव्यौ । ततः ‘तूष्णीमेव’ द्वौ ‘प्रांचौ’ पूर्ववत् निधेयौ । एवं व्यत्यासेन ‘त्रयोदश’ शकलान् ‘संपादयति’ । प्रागग्राः षट् उदगग्राः षट् । अवशिष्टं दक्षिणतः प्रागग्रं निदध्यात् । तथा चोक्तं कात्यायनेन- “धृष्टिभ्यां भस्मना परिकीर्याङ्गारैश्च विकंकतशकलैः परिश्रयति त्रयोदशभिः प्रागुदग्भिः स्वाहा मरुद्भिरिति । अधिकं दक्षिणतो द्वौ मन्त्रेणेति” (का. श्रौ. सू. २६ । ५६ । ५७) ॥ २७ ॥

Eggeling
  1. ‘Be thou encompassed by the Maruts,’ he says; for the Maruts are the (common) people: he thus surrounds the nobility by the people, whence the nobility here is surrounded on both sides by the people. Silently (he lays down) two pointing to the north 61, silently (again) two pointing to the east, silently two pointing to the north, silently two pointing to the east.

२८

विश्वास-प्रस्तुतिः

त्र᳘योदश स᳘म्पादयति॥
त्र᳘योदश वै मा᳘साः सम्वत्सर᳘स्य सम्वत्सर᳘ ऽएष य᳘ ऽएष त᳘पत्येष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मात्त्र᳘योदश स᳘म्पादयति॥

मूलम् - श्रीधरादि

त्र᳘योदश स᳘म्पादयति॥
त्र᳘योदश वै मा᳘साः सम्वत्सर᳘स्य सम्वत्सर᳘ ऽएष य᳘ ऽएष त᳘पत्येष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मात्त्र᳘योदश स᳘म्पादयति॥

मूलम् - Weber

त्र᳘योदश स᳘म्पादयति॥
त्र᳘योदश वै मा᳘साः सम्वत्सर᳘स्य सम्वत्सर᳘ एष य᳘ एष त᳘पत्येष᳘ उ प्रव᳘र्ग्यस्त᳘देत᳘मेॗवैत᳘त्प्रीणाति त᳘स्मात्त्र᳘योदश स᳘म्पादयति॥

मूलम् - विस्वरम्

त्रयोदश संपादयति । त्रयोदश वै मासाः संवत्सरस्य । संवत्सर एषः । य एष तपति । एष उ प्रवर्ग्यः । तदेतमेवैतत्प्रीणाति । तस्मात्त्रयोदश संपादयति ॥ २८ ॥

सायणः

तदेतत् त्रयोदशसंपादनं प्रशस्य निगमयति- त्रयोदश० संपादयतीति । ‘त्रयोदश वै’ त्रयोदशसंख्याकाः खलु ‘मासाः’ संवत्सरस्य भवंति । द्वादश चैत्राद्या मलिम्लुचाख्य एकः । संवत्सरश्च एष सूर्यात्मकः, तद्गत्यवसाननिष्पत्तिमत्त्वात् । सिद्धमन्यत् । ‘तस्मात्त्रयोदश’ इति निगमनम् ॥ २८ ॥

Eggeling
  1. He makes them to amount to thirteen, for there are thirteen months in the year, and the

year is he who shines yonder, and the Pravargya also is that (sun): it is him he thus gratifies, and hence he makes them to amount to thirteen.

२९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ सुव᳘र्ण्णᳫँ᳭ हि᳘रण्यमुप᳘रिष्टान्नि᳘दधाति॥
दिवः᳘ सᳫँ᳭स्पृ᳘शस्पाही᳘त्येतद्वै᳘ देवा᳘ ऽअबिभयुर्य्यद्वै᳘ न ऽइम᳘मुप᳘रिष्टाद्र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘त्यग्नेर्व्वा᳘ ऽएतद्रे᳘तो यद्धि᳘रण्यं नाष्ट्रा᳘णाᳫँ᳭ र᳘क्षसाम᳘पहत्या ऽअ᳘थो द्यौ᳘र्ह वा᳘ ऽएत᳘स्माद्बिभया᳘ञ्चकार यद्वै᳘ मा य᳘न्तप्तः᳘ शुशुचानो न᳘ हिᳫँ᳭स्यादि᳘ति त᳘दे᳘वास्या ऽएत᳘दन्त᳘र्द्दधाति ह᳘रितम्भवति ह᳘रिणीव हि द्यौः॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ सुव᳘र्ण्णᳫँ᳭ हि᳘रण्यमुप᳘रिष्टान्नि᳘दधाति॥
दिवः᳘ सᳫँ᳭स्पृ᳘शस्पाही᳘त्येतद्वै᳘ देवा᳘ ऽअबिभयुर्य्यद्वै᳘ न ऽइम᳘मुप᳘रिष्टाद्र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘त्यग्नेर्व्वा᳘ ऽएतद्रे᳘तो यद्धि᳘रण्यं नाष्ट्रा᳘णाᳫँ᳭ र᳘क्षसाम᳘पहत्या ऽअ᳘थो द्यौ᳘र्ह वा᳘ ऽएत᳘स्माद्बिभया᳘ञ्चकार यद्वै᳘ मा य᳘न्तप्तः᳘ शुशुचानो न᳘ हिᳫँ᳭स्यादि᳘ति त᳘दे᳘वास्या ऽएत᳘दन्त᳘र्द्दधाति ह᳘रितम्भवति ह᳘रिणीव हि द्यौः॥

मूलम् - Weber

अ᳘थ सुव᳘र्णᳫं हि᳘रण्यमुप᳘रिष्टान्नि᳘दधाति॥
दिवः᳘ संस्पृ᳘शस्पाही᳘त्येतद्वै᳘ देवा᳘ अबिभयुर्यद्वै᳘ न इम᳘मुप᳘रिष्टाद्र᳘क्षांसि नाष्ट्रा न᳘ हन्युरि᳘त्यग्नेर्वा᳘ एतद्रे᳘तो यद्धि᳘रण्यं नाष्ट्रा᳘णां र᳘क्षसाम᳘पहत्या अ᳘थो द्यौ᳘र्ह वा᳘ एत᳘स्माद्बिभयां᳘ चकार यद्वै᳘ मायं᳘ तप्तः᳘ शुशुचानो न᳘ हिंस्यादि᳘ति त᳘देॗवास्या एत᳘दन्त᳘र्दधाति ह᳘रितम् भवति ह᳘रिणीव हि द्यौः॥

मूलम् - विस्वरम्

अथ सुवर्णं हिरण्यमुपरिष्टान्निदधाति- “दिवः संस्पृशस्पाहि”- (वा. सं. ३७ । १३) इति । एतद्वै देवा अबिभयुः । यद्वै न इम मुपरिष्टाद्रक्षांसि नाष्ट्रा न हन्युरिति । अग्नेर्वा एतद्रेतः, यद्धिरण्यम् । नाष्ट्राणां रक्षसामपहत्यै । अथो द्यौर्ह वा एतस्माद्विभयांचकार । यद्वै मा ऽयं तप्तः शुशुचानो न हिंस्यादिति । तदेवास्या एतदन्तर्दधाति । हरितं भवति । हरिणीव हि द्यौः ॥ २९ ॥

सायणः

अथ महावीरस्य उपरि सुवर्णशतमानस्य रुक्मस्य 62 स्थापनं विधत्ते- अथ सुवर्णं० स्पाहीति । ‘अथ’ विकंकतशकलैः परिश्रयणानंतरं ‘सुवर्णं’ सुवर्णमयं हिरण्यं हिरण्यशब्दस्य रजते ऽपि प्रसिद्धत्वात् तद्व्यावृत्त्यर्थं विशेषणम् । शोभनवर्णयुक्तं हिरण्यनिर्मितं कांचनमयं रुक्मं “दिवः सँस्पृशः” इति मन्त्रेग महावीरस्य ‘उपरिष्टात् निदधाति’ । अथ एतत् उपरिष्टाद्धिरण्यनिधानं रक्षोभिः अबाधनार्थं द्युलोकस्य तप्तेन घर्मेण तापाभावार्थं च इत्याह- एतद्वै देवा० द्यौरिति । “अथोत्तरतः सिकता०” इति खंडे (श. प. १४ । १ । ३ । १४) रजतशतमाननिधानवाक्यशेषवत् एतत्सर्वं व्याख्येयम् । पृथिवीस्थाने द्यौरित्येतावान् विशेषः । तच्च शतमानं ‘हरितं’ हरिद्वर्णं स्वर्णमयं ‘भवति’ हरितवर्णेव खलु द्यौरिति अंतिमवाक्यस्यार्थः ॥ २९ ॥

Eggeling
  1. He then places a gold plate (weighing a hundred grains) on the top (of the pot), with, ‘Protect it from contact with the sky!’ For at that time the gods were afraid lest the Rakshas, the fiends, might injure that (Pravargya) of theirs from above; and that–to wit, gold–being Agni’s seed, it (serves) for repelling the fiends, the Rakshas. But, indeed, the Sky also was afraid of this lest this (Pravargya), when heated and glowing, might injure it: he thus keeps it separate therefrom. It is yellow, for yellow, as it were, is the sky.

३०

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ धवि᳘त्त्रैरा᳘धूनोति॥
मधु म᳘ध्वि᳘ति त्रिः᳘ प्राणो वै म᳘धु प्राण᳘मे᳘वास्मिन्नेत᳘द्दधाति त्री᳘णि भवन्ति त्र᳘यो वै᳘ प्राणाः᳘ प्राण᳘ ऽउदानो᳘ व्यानस्ता᳘ने᳘वास्मिन्नेत᳘द्दधाति॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ धवि᳘त्त्रैरा᳘धूनोति॥
मधु म᳘ध्वि᳘ति त्रिः᳘ प्राणो वै म᳘धु प्राण᳘मे᳘वास्मिन्नेत᳘द्दधाति त्री᳘णि भवन्ति त्र᳘यो वै᳘ प्राणाः᳘ प्राण᳘ ऽउदानो᳘ व्यानस्ता᳘ने᳘वास्मिन्नेत᳘द्दधाति॥

मूलम् - Weber

अ᳘थ धवि᳘त्रैरा᳘धूनोति॥
मधु मध्वि᳘ति त्रिः᳘ प्राणो वै म᳘धु प्राण᳘मेॗवास्मिन्नेत᳘द्दधाति त्री᳘णि भवन्ति त्र᳘यो वै᳘ प्राणाः᳘ प्राण᳘ उदानो᳘ व्यानस्ता᳘नेॗवास्मिन्नेत᳘द्दधाति॥

मूलम् - विस्वरम्

अथ धवित्रैराधूनोति । “मधु मधु”- (वा. सं. ३७ । १३) इति त्रिः । प्राणो वै मधु । प्राणमेवास्मिन्नेतद्दधाति । त्रीणि भवंति । त्रयो वै प्राणाः । प्राण उदानो व्यानः । तानेवास्मिन्नेतद्दधाति ॥ ३० ॥

सायणः

अथ यदुक्तं कात्यायनेन- “कृष्णाजिनावकृत्तैर्धवित्रैरुपवाजयति त्रिभिर्द्दण्डवद्भिर्मधु मध्विति” (का. श्रौ. सू. २६ । ५९) इति, तद्विधत्ते- अथ धवित्रै० त्रिरिति । कृष्णाजिननिर्मितानि व्यजनानि दंडवंति धवत्राणि उच्यंते । ‘अथ’ सुवर्णशतमाननिधानानंतरं अध्वर्युः तैः ‘धवित्रैः’ “मधु मध्विति” मंत्रेण ‘त्रिः आधूनोति’ । महावीरस्याधूननं वीजनं करोति । यथा अग्नेः ज्वाला भवति तथा समिंधीत इत्यर्थः । अथ एतन्मंत्रं प्रशंसति- प्राणो वै० दधातीति । ‘प्राणो वै’ प्राणापानादिपंचवृत्त्यात्मकः प्राणवायुः हि मधुमंत्रे मधुशब्दाभिधेयः । मधुवत्तस्य प्रियतमत्वात् तथा च ‘एतत्’ एतेन मधु मध्वित्यनेन अस्मिन् प्रवर्ग्ये ‘प्राणमेव दधाति’ स्थापयति । अथ धवित्राणां त्रित्वसंख्यामनूद्य स्तौति- त्रीणि भवंति० दधातीति । तानि धवित्राणि ‘त्रीणि भवंति’ प्राण उदानो व्यान इति ‘त्रयः’ एव ‘प्राणाः’ अपानस्य प्राणावान्तरव्यापारत्वेन प्राणांतर्भावात्, समानस्य च व्याने ऽन्तर्भावात् तेषां त्रित्वम् । गतमन्यत् ॥ ३० ॥

Eggeling
  1. He (the Adhvaryu) then fans (the fire) thrice by means of (three) fans 63, whilst muttering, ‘Honey!’ each time; for honey means breath: he thus lays breath into it. Three (fans) there are, for there are three breathings, the out (and in)-breathing, the up-breathing and the through-breathing: it is these he thus lays into it.

३१

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थापसलवित्त्रि᳘र्धुन्वन्ति॥
यज्ञ᳘स्य शीर्षच्छिन्न᳘स्य र᳘सो᳘ व्व्यक्षरत्स᳘ पितॄ᳘नगच्छत्त्रया वै᳘ पित᳘रस्तै᳘रे᳘वैनमेतत्स᳘मीरयति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थापसलवित्त्रि᳘र्धुन्वन्ति॥
यज्ञ᳘स्य शीर्षच्छिन्न᳘स्य र᳘सो᳘ व्व्यक्षरत्स᳘ पितॄ᳘नगच्छत्त्रया वै᳘ पित᳘रस्तै᳘रे᳘वैनमेतत्स᳘मीरयति॥

मूलम् - Weber

अ᳘थापसलवि त्रि᳘र्धून्वन्ति॥
यज्ञ᳘स्य शीर्षछिन्न᳘स्य [र᳘सो व्य᳘क्षरत्स᳘] पितॄ᳘नगछत्त्रया वै᳘ पित᳘रस्तै᳘रेॗवैनमेतत्स᳘मीरयति॥

मूलम् - विस्वरम्

अथापसलवित् त्रिर्धून्वंति । यज्ञस्य शीर्षच्छिन्नस्य रसो व्यक्षरत्- स पितॄनगच्छत् । त्रया वै पितरः । तैरेवैनमेतत्समीरयति ॥ ३१ ॥

सायणः

यदुक्तं सूत्रकारेण- “एकं प्रयच्छति प्रतिप्रस्थात्रे ऽपरमग्नीधे धुन्वंतस्त्रिस्त्रिः परिक्रमंति पितृवद्देववच्च” इति (का. श्रौ. सू. २६ । ६०) तत् विधाय स्तौति- अथापसलवि त्रिर्धून्वंतीति । अध्वर्युः त्रिभिर्धवित्रैः “मधु मधु” इति मंत्रेण त्रिराधूय, अथानंतरमेकं धवित्रं प्रतिप्रस्थात्रे प्रयच्छति एकमाग्नीध्राय । ततः ते अध्वर्युप्रभृतयस्त्रयः गृहीतधवित्राः ‘अपसलवित्’ अपसलवेदनं अपसव्यं अप्रदक्षिणं त्रिः परिक्रामंतः ‘धून्वंति’ उपवाजयंति । अथ अप्रादक्षिण्येन परिक्रमणं स्तौति- यज्ञस्य शीर्षच्छिन्नस्येत्यादिना । अप्रदक्षिणकरणं हि पैतृको धर्मः । अतः ‘एतत्’ एतेन अप्रदक्षिणपरिक्रमणेन ‘तैरेव’ पितृभिः ‘एनं’ महावीरं ‘समीरयति’ संगमयति । अन्यद्गतम् ॥ ३१ ॥

Eggeling
  1. They then fan it thrice 64 in the non-sunwise way. When the sacrifice had its head cut off, its life-sap flowed away, and went to the Fathers,–the Fathers being three in number 65: with them he thus supplies it.

३२

विश्वास-प्रस्तुतिः

(त्य᳘) अप᳘ वा᳘ ऽएते᳘भ्यः प्राणाः᳘ क्क्रामन्ति॥
ये᳘ यज्ञे धु᳘वनं तन्व᳘ते पु᳘नः प्रसलवि त्रि᳘र्द्धून्वन्ति षट्स᳘म्पद्यन्ते षड्वा᳘ ऽइमे᳘ शीर्ष᳘न्प्राणास्ता᳘ने᳘वास्मिन्नेत᳘द्दधाति श्र᳘प᳘यन्ति रौहिणौ स᳘ य᳘दा ऽर्च्चिर्ज्जा᳘यते᳘ ऽथ हि᳘रण्यमा᳘दत्ते॥

मूलम् - श्रीधरादि

(त्य᳘) अप᳘ वा᳘ ऽएते᳘भ्यः प्राणाः᳘ क्क्रामन्ति॥
ये᳘ यज्ञे धु᳘वनं तन्व᳘ते पु᳘नः प्रसलवि त्रि᳘र्द्धून्वन्ति षट्स᳘म्पद्यन्ते षड्वा᳘ ऽइमे᳘ शीर्ष᳘न्प्राणास्ता᳘ने᳘वास्मिन्नेत᳘द्दधाति श्र᳘प᳘यन्ति रौहिणौ स᳘ य᳘दा ऽर्च्चिर्ज्जा᳘यते᳘ ऽथ हि᳘रण्यमा᳘दत्ते॥

मूलम् - Weber

अप᳘ वा᳘ एते᳘भ्यःप्रणाः᳘ क्रामन्ति॥
ये᳘ यज्ञे धु᳘वनं तन्व᳘ते पु᳘नः प्रसलवि त्रि᳘र्धून्वन्ति षट् स᳘म्पद्यन्ते षड्वा᳘ इमे᳘ शीर्ष᳘न्प्राणास्ता᳘नेॗवास्मिन्नेत᳘द्दधाति श्रप᳘यन्ति रौहिणौ स᳘ यॗदार्चिर्जा᳘यते᳘ अथ हि᳘रण्यमा᳘दत्ते॥

मूलम् - विस्वरम्

अप वा एतेभ्यः प्राणाः क्रामंति । ये यज्ञे धुवनं तन्वते । पुनः प्रसलवित् त्रिर्धून्वंति । षट् संपद्यंते । षड्वा इमे शीर्षन्प्राणाः । तानेवास्मिन्नेतद्दधाति । श्रपयंति रौहिणौ । स यदा ऽर्चिर्जायते । अथ हिरण्यमादत्ते ॥ ३२ ॥

सायणः

पुनस्त्रिः प्रदक्षिणं परिक्रामद्भिः धूननं कार्यमति विधित्सुराह- अप वा एतेभ्य इत्यादि । ‘ये’ खलु ‘यज्ञे’ अध्वर्युप्रभृतयः ‘धुवनं’ कंपनं उक्तं वीजनं ‘तन्वते’ कुर्वंति । ‘एतेभ्यः’ सकाशात्, ‘प्राणाः’ ‘अपक्रामति वै’ वेगेन आधूनने क्रियमाणे शरीरान्तर्वर्तमानाः प्राणा अपि श्रमातिशयेन निर्गच्छन्तीत्यर्थः । अतस्तत्परिहाराय ‘पुनः’ तत् ‘प्रसलवित्’ प्रसलवेदनं प्रदक्षिणं ‘त्रिः’ परिक्रामंतः ‘धून्वंति’ चालयंति । कथं अनेन उक्तदोषपरिहारः ? इति तत्राह- षट् संपद्यंत इति । एवं अपसव्यप्रदक्षिणकृताभ्यां पर्यायाभ्यां ‘षट्’ परिक्रमाः ‘संपद्यंते’ निष्पद्यंते । ‘शीर्षन्’ शीर्ष्णि शिरसि ‘षट् वा इमे प्राणाः’ ‘इमे’ इति इदंशब्दः अभिनयप्रदर्शनार्थः । द्वे चक्षुषी, द्वे नासिके, द्वे श्रोत्रे, इति । एवं षट् प्राणाः इंद्रियाधिष्ठानानि शिरसि समवेतानि । तानेवात्मनि प्रथमं धारयित्वा, ‘अस्मिन्’ प्रवर्ग्ये अपि ‘एतद्दधाति’ । अथ रौहिणपुरोडाशयोः श्रपणं विधत्ते- श्रपयंति रौहिणाविति । लौकिकपिष्टमानीय रौहिणाख्यौ पुरोडाशौ तूष्णीं ‘श्रपयंति’ पचंति अध्वर्युपुरुषाः । तदुक्तं सूत्रकारेण- “रौहिणावधिश्रपयति तूष्णीं ग्रामपिष्टानाम्” (का. श्रौ. सू. २६ । ६३) इति । अथ उपरि निहितस्य सुवर्णशतमानस्य आदानं 66 विधत्ते- स यदा ऽर्च्चि० मादत्ते इति । ‘यदा’ यस्मिन्काले अर्चिर्ज्वाला महावीरस्य परितः ‘जायते’ । अथानंतरं ‘सः’ अध्वर्युः उपरि निहितं ‘हिरण्यं’ ‘आदत्ते’ स्वीकरोति ॥ ३२ ॥

Eggeling
  1. But, indeed, the breathings depart from those who perform the fanning at the sacrifice. They

fan again thrice in the sunwise way,–this makes six; and six in number are these breathings (vital airs) in the head: it is these he thus lays into it. They cook the two Rauhiṇa (cakes). When a blaze is produced, he takes off the gold (plate).

३३

विश्वास-प्रस्तुतिः

स य᳘त्रैताᳫँ᳭ हो᳘ता ऽन्वा᳘ह॥
(हा᳘) अ᳘प्नस्वतीमश्विना व्वा᳘चमस्मे ऽइ᳘ति त᳘दध्वर्य्यु᳘रुपोत्ति᳘ष्ठन्नाह रुचितो᳘ घर्म ऽइ᳘ति स य᳘दि रुचितः स्याच्छ्रे᳘यान्य᳘जमानो भविष्यती᳘ति व्विद्याद᳘थ यद्य᳘रुचितः पा᳘पीयान्भविष्यती᳘ति व्विद्याद᳘थ य᳘दि᳘ नैव᳘ रुचितो ना᳘रुचितो᳘ नैव श्रे᳘यान्न पा᳘पीयान्भविष्यती᳘ति व्विद्याद्य᳘था᳘ त्वेव᳘ रुचितः स्यात्त᳘था धवित᳘व्यम्॥

मूलम् - श्रीधरादि

स य᳘त्रैताᳫँ᳭ हो᳘ता ऽन्वा᳘ह॥
(हा᳘) अ᳘प्नस्वतीमश्विना व्वा᳘चमस्मे ऽइ᳘ति त᳘दध्वर्य्यु᳘रुपोत्ति᳘ष्ठन्नाह रुचितो᳘ घर्म ऽइ᳘ति स य᳘दि रुचितः स्याच्छ्रे᳘यान्य᳘जमानो भविष्यती᳘ति व्विद्याद᳘थ यद्य᳘रुचितः पा᳘पीयान्भविष्यती᳘ति व्विद्याद᳘थ य᳘दि᳘ नैव᳘ रुचितो ना᳘रुचितो᳘ नैव श्रे᳘यान्न पा᳘पीयान्भविष्यती᳘ति व्विद्याद्य᳘था᳘ त्वेव᳘ रुचितः स्यात्त᳘था धवित᳘व्यम्॥

मूलम् - Weber

स य᳘त्रैताᳫं हो᳘तान्वाह॥
अ᳘प्नस्वतीमश्विना वा᳘चमस्मे इ᳘ति त᳘दध्वर्यु᳘रुपोत्ति᳘ष्ठन्नाह रुचितो᳘ घर्म इ᳘ति स य᳘दि रुचितः स्याछ्रे᳘यान्य᳘जमानो भविष्यती᳘ति विद्याद᳘थ यद्य᳘रुचितः पा᳘पीयान्भविष्यती᳘ति विद्याद᳘थ य᳘दिॗ नैव᳘ रुचितो ना᳘रुचितोॗ नैव श्रे᳘यन्न पा᳘पीयान्भविष्यती᳘ति विद्याद्य᳘थाॗ न्वेव᳘ रुचितः स्यात्त᳘था धवित᳘व्यः॥

मूलम् - विस्वरम्

स यत्रैतां होता ऽन्वाह- “अप्नस्वतीमश्विना वाचमस्मे”- (वा. सं. ३४ । २९) इति । तदध्वर्युरुपोत्तिष्ठन्नाह- “रुचितो घर्मः” इति । स यदि रुचितः स्यात् । श्रेयान् यजमानो भविष्यतीति विद्यात् । अथ यद्यरुचितः । पापीयान् भविष्यतीति विद्यात् । अथ यदि नैव रुचितो नारुचितः । नैव श्रेयान्न पापीयान् भविष्यतीति विद्यात् । यथा त्वेव रुचितः स्यात् । तथा धवितव्यम् ॥ ३३ ॥

सायणः

अथ धवित्रैः आधूननेन संतापितस्य घर्मस्य वेदनार्थं कालविशेषे कञ्चित् प्रैषमन्त्रं ब्रूयात् इति विधित्सुराह- स यत्रैतां० घर्म इति । “अप्नस्वतीमश्विना” 66 इत्येतामृचं ‘स होता’ यस्मिन् काले अनुब्रूयात् । तत्तस्मिन् काले ‘उपोत्तिष्ठन्’ आसनादुद्गच्छन्, “रुचितो घर्मः" इति प्रैषं प्रस्तोत्रभिमुखः ‘आह’ ब्रूयात् । ‘रुचितः’ संदीप्तः महावीरः इति तस्यार्थः । अथ एतस्य रुचितारुचितयोः यजमानस्य गुणदोषान् उक्त्वा सर्वथा रुचितकरणमेव श्रेयः इत्याह- स यदि रुचितः स्या० त्तथा धवितव्यमिति । ‘सः’ घर्मः ‘यदि रुचितः’ सम्यक् तप्तः ‘स्यात्’ । तर्हि ‘यजमानः’ ‘श्रेयान्’ प्रशस्यतमः अतिशयेन सुकृती ‘भविष्यतीति’ विद्याज्जानीयात् । ‘अथ’ तु ‘यदि’ ‘अरुचितः’ अतप्तः । तर्हि ‘पापीयान्’ अतिशयेन पापग्रस्तः ‘भविष्यति इति’ जानीयात् । ‘अथ यदि’ यदि तु रुचितो ऽपि नैव भवति अरुचितो ऽपि नैव भवति । अपि तु रुचितारुचितमध्यस्थो भवेत् । तर्हि यजमानो ऽपि श्रेयानपि नैव भवति । पापीयानपि नैव भवति । अपि तु मध्यावस्थः ‘भविष्यतीति’ जानीयात् । यस्मादेवं तस्मात् ‘यथा त्वेव’ येनैव खलु प्रकारेण घर्मः ‘रुचितः’ सम्यग् दीप्तः ‘स्यात्’ ‘तथा’ धवित्रैर्धवितव्यम् । सर्वप्रयत्नेन अवश्यं घर्मस्य सम्यक् संदीपनं कार्यमित्यर्थः ॥ ३३ ॥

Eggeling
  1. And when the Hotr̥ recites this (verse, Rig-v. I, 112, 24), ‘Successful, O Aśvins, make ye our voice,’ the Adhvaryu steps up, and says, ‘The Gharma is aglow 67.’ If it be aglow, he may know that the Sacrificer will become more prosperous; and if it be not aglow, he may know that he will become poorer; and if it be neither aglow nor the reverse, he may know that he (the Sacrificer) will become neither more prosperous nor poorer: but indeed (the pot) should be fanned so (long) as to be aglow.

३४

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थैतद्वै॥ (द्वा ऽआ᳘) आ᳘युरेतज्ज्यो᳘तिः प्र᳘विशति य᳘ ऽएतम᳘नु वा ब्रूते᳘ भक्ष᳘यति वा त᳘स्य व्व्रतचर्य्या या सृ᳘ष्टौ॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थैतद्वै॥ (द्वा ऽआ᳘) आ᳘युरेतज्ज्यो᳘तिः प्र᳘विशति य᳘ ऽएतम᳘नु वा ब्रूते᳘ भक्ष᳘यति वा त᳘स्य व्व्रतचर्य्या या सृ᳘ष्टौ॥

मूलम् - Weber

अथैतद्वै आयुरेतज्ज्योतिः प्रविशति य एतमनुवा ब्रूते भक्षयति वा तस्य व्रतचर्या या सृष्टौ॥

मूलम् - विस्वरम्

अथ एतद्वा आयुः, एतज्ज्योतिः प्रविशति । य एतमनु वा ब्रूते । भक्षयति वा । तस्य व्रतचर्या- या सृष्टौ ॥ ३४ ॥

सायणः

अथ प्रथमब्राह्मणावसाने दर्शिता या व्रतचर्या तस्याः सर्वप्रवर्ग्यशेषत्वं दर्शयितुं अस्य तृतीयब्राह्मणस्य तदर्थस्य वा अध्ययनानुष्ठानयोः तां अतिदिशति- अथैतद्वै० सृष्टाविति । सिद्धमेतत् ॥ ३४ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये चतुर्दशे काण्डे तदन्तर्भूते प्रथमे प्रवर्ग्यकाण्डे प्रथमे ऽध्याये तृतीयं ब्राह्मणम् ॥ १४ । (१) १ । ३ ॥

Eggeling
  1. And, verily, whosoever either teaches, or partakes of, this (Pravargya) enters that life, and that light: the observance thereof is the same as at the creation 68.

  1. य᳘दु᳘ वान्य A. first h. य᳘दु᳘ चान्य sec. h. ↩︎

  2. उपसदा चरिष्यंश्चरिष्यन्प्रवर्ग्येण चरति सप्रवर्ग्ये । का. श्रौ. सू. २६ । २८ । ↩︎

  3. पूर्वेण गार्हपत्यं प्राचः कुशानास्तीर्य पात्रासादनं द्वन्द्वम् । का. श्रौ. सू. २६ । ३६ । ↩︎

  4. उपयमनीम्महावीरम् । का. श्रौ. सू. २६ । ३७ । ↩︎

  5. परीशासौ । का. श्रौ. सू. २६ । ३७ ↩︎

  6. पिन्वने । का. श्रौ. सू. २६ । ३७ । ↩︎

  7. रौहिणकपाले । का. श्रौ. सू. २६ । ३७ । ↩︎

  8. रौहिणहवन्यौ च स्रुचावनुत्कीर्णे । का. श्रौ. सू. १६ । ३७। ↩︎

  9. स्थूणा च, मयूखश्च, इत्येकवद्भावी द्वंद्वः । गोबंधनार्था स्थूणा, स्तंभः । भाषायां खंटुवा खुंटा इति । मयूखः अजाबंधनार्थः स्तंभः । भाषायामर्थ उक्त एव । ↩︎

  10. धृष्टी उपवेषौ । ↩︎

  11. शतमाने राजतं सौवर्णं च इति द्वे । ↩︎

  12. धवित्राणि कृष्णाजिनखंडनिर्मिताः त्रयो व्यजनाः । परिधयश्च । ↩︎

  13. रज्जू च संदानं चेति इत्येकवद्भावी द्वंद्वः । रज्जु गोबंधनार्था अजाबंधनार्था चेति । द्वे । संदानं दोहनकाले गोः पादबंधनार्था रज्जुः । ↩︎

  14. अर्थवच्च स्फ्य एक एव आसाद्यते । प्रकृतौ तस्य दशगणे पाठात् । पवित्रच्छेदनानि । पवित्रे । अग्निहोत्रहवणी । आज्यस्थाली । बहुलमाज्यं शूर्पम् । पात्री पिष्टम् । उपसर्जनीपात्रं उपशया । इतरौ महावीरौ होतृषदनम् । मौजः कूर्चः, औदुंबरी समित् । इत्यर्थवत्पात्रासादनम् । ↩︎

  15. तत्र दशैकादशद्वादशाक्षराणां वैराजत्रैष्टुभजागता इति संज्ञाः । इति सर्वानुक्रमः । ५ । १ । दशकास्त्रयौ विराट् । इति च । ५ । ४ । पादा इति शेषः । ↩︎

  16. 458:2 That is, at the Soma-sacrifice, of the preliminary day (upavasatha) of which the guest-meal to, or hospitable reception (ātithya) of, King Soma forms part (see part ii, p. 85 seqq.). The assumption here is, that the performance of the Pravargya takes place on that day before the Pressing-day, whilst in reality it has been performed for at least two days before that. ↩︎

  17. 458:3 See III, 4, 4, 1. The Upasads are performed twice daily, for at least three days, up to the day before the Soma-sacrifice; and if the Pravargya is to be performed likewise, it precedes immediately each performance of the Upasad. Cf. also XIV, 3, 1, 1 with note. ↩︎

  18. 458:4 Prior to this, the doors of the śālā are to be closed, to keep the Mahāvīra from being seen; see p. 452, note 2. The entire performance of the Pravargya indeed has to be kept secret from the eyes of unauthorised persons. ↩︎

  19. 458:5 The ‘parīśāsau’ (also called ‘śaphau,’ XIV, 2, 1, 16) are two pieces of wood or laths apparently fastened together by a kind of clasp (or a cord) at one end, so as to serve the purpose of a pair of tongs (parīśāsau saṁdaṁśākārau, comm. on Kāty. XXVI, 2, to) for taking up the Mahāvīra pot, which must not be handled in any other way. According to Haug, Ait. Br., Transl., p. 51, they are placed underneath the pot in lifting it, but this seems very improbable, seeing that, at the end of the sacrifice, the Adhvaryu, by means of them, turns the pot upside down so as to pour the remainder of its contents into the offering spoon (see Kāty. XXIV, 6, 17 with comm.); nor could the blackened pot in that way be cleansed properly and placed on the supporting tray (XIV, 2, 1, 16-17). ↩︎

  20. आस्व A. आश्व E. ↩︎

  21. 459:1 For the complete verse, see VII, 4, 1, 14. For the complete series of texts recited by the Hotr̥, see Ait. Br. I, 19 seqq.; Āśv. Śr. IV, 6. ↩︎

  22. 460:1 Viz. he makes the vessels sacrificially pure (I, 3, 3, 1). ↩︎

  23. स᳘र्वं य᳘त एष᳘ A., but see महीधर at वाज सं ३७.११. ↩︎

  24. अत्र कर्कः ब्रह्मानुज्ञातग्रहणं प्राक् अनुज्ञायाः सर्वप्रैषोच्चारणप्रज्ञप्त्यर्थमिति । ↩︎

  25. अत्र कर्कः प्रतिमंत्रमेवं वा प्रोक्षणम् । कुत एतत् । वाक्यभेदात्, भिन्नानि हि वाक्यानि । यमाय वा १ मखाय वा २ सूर्यस्य त्वा तपसे ३ इति । न च समुच्चयो न्याय्यः । न च विकल्पः दृष्टार्थत्वात् । तस्मात् प्रतिवाक्यमेव प्रोक्षणम् । इति । ततश्च वा अवधारणे इति राद्धान्तः ॥ ↩︎

  26. परिघर्म्यं च तूष्णीम् । का. श्रौ. सू. २६ । ४१ । घर्मसंबंधि यत् आसादितं पात्रजातं तच्च तूष्णीं प्रोक्षतीत्यर्थः । ↩︎ ↩︎ ↩︎

  27. स्थू᳘णान्निर्हृ᳘त्य A. Final म् standing before न् or any other dental consonant is in A. usually changed into न्, whereas final न् in the same case is replaced by अनुस्वार (see p. 222). ↩︎

  28. 460:2 For tying the cow that is to furnish the milk for the Gharma. Near it a peg is driven into the ground to tie the goat to whose milk is to be used afterwards. ↩︎

  29. 460:3 That would be, south of the southern door (Āpast. XV, 6,-23). ↩︎

  30. पूर्वेणाहवनीयम् का. श्रौ. सू. २६ । २ । २९ । इति सूत्रे सूत्रकारेण “उत्तराँ राजासंद्यै” इतीमां श्रुतिमनुसृत्य उत्तरत इति दिङ्निर्द्देशात् उत्तरभागावस्थितां आसादयतीति राद्धांतिकं भाष्यं प्रागुपन्यस्तं “तस्याः सकाशात् ‘उन्नताम्’ उन्नततरां वर्षीयसीं” इति तु अनैकांतिकं बोध्यम् “अथ यदुत्तरत आसादयति यज्ञो वै सोमः शिरः प्रवर्ग्यः उत्तरं वै शिरः तस्मादुत्तरत आसादयति अथो राजा वै सोमः संम्राट् प्रवर्ग्यः उत्तरं वै राज्यात्साम्राज्यं तस्मादुत्तरत आसादयति उत्तरो वै प्रजापतिः तस्मादुत्तरत आसादयति” इति अस्मिन् ब्राह्मणे द्वादश्यां कंडिकायां वाक्यशेषात् । ↩︎

  31. 461:1 The Pravargya is styled ‘samrāj,’ or universal king, emperor; as distinguished from King Soma, for whose seat, reaching only up to the navel, see III, 3, 4, 26 seqq. (Cf. also that of the Ukhya Agni, which is only a span high, VI, 7, I, 1, 22 seqq.)–For a similar attribution of imperial dignity (sāmrājya)–as well as royal dignity (rājya)–to him who is consecrated by the Sautrāmaṇī (where the seat used is knee-high), see XII, 8, 3, 4 seqq. ↩︎

  32. 461:2 Āpast. XV, 6, 10 places it in front (east) of the seat for Soma. ↩︎

  33. ऊ᳘र्जे᳘नवैतमेतद्र᳘सेन A. ↩︎

  34. परिघर्म्यमोदुंबरम् । का. श्रौ. सू. २६ । ४१ । ↩︎ ↩︎ ↩︎

  35. 461:3 Cf. XII, 8, 3, 6. ↩︎

  36. एतदन्तैवेयं कण्डिका क्वचित्पुस्तके । ↩︎ ↩︎ ↩︎

  37. 461:4 According to Katy. XXVI, 2, 27 (Āpast. XV, 6, II), the black antelope-skin is then spread over the seat, and the two unused Mahāvīra pots (as well as the reserve piece of clay and the spade, Katy.) placed thereon. ↩︎

  38. 462:1 Katy. XXVI, 2, 4 refers to the pot as ‘containing ghee (ājyavant),’ which the comm. takes to mean ‘filled with consecrated ghee;’ whilst Āpast. XV, 7, 5 leaves the option between greasing it (añj) and filling it (abhipūr) with ghee. It would doubtless, at all events, be abundantly greased inside. ↩︎

  39. गार्हपत्याहवनीया उत्तरेण खरौ निवपति दक्षिणतो ऽनुमित्त्युच्छिष्टखरम् । का. श्रौ. सू. २६ । ४३ । ↩︎

  40. 462:2 North of the Gārhapatya and the Āhavanīya in the śālā two mounds (khara) are formed, covered with (or consisting of) sand. The one north of the latter fire is here alluded to. ↩︎

  41. 462:3 That is, a silver plate weighing a hundred grains. ↩︎

  42. 462:4 Though ’taptaḥ’ and ‘śuśucānaḥ’ are here translated as if they were actually co-ordinate predicates, I am not sure whether we should not rather take the passage to mean,–that this glowing one, when heated; or rather, this one when heated so as to be glowing. Cf. XIV, 2, 1, 18; 3, 1, 14, where I prefer to subordinate one of the participles to the other. ↩︎

  43. 463:1 I read, ‘rajateva’; cf. the corresponding ‘hariṇīva hi dyauḥ,’ XIV, 1, 3, 29. ↩︎

  44. The accent of आदीप्त᳘ is remarkable as in contradiction to the general rule. Are we perhaps to read उभयतआदीप्ता᳘ or उभय᳘तआदीप्ता as a compound? ↩︎

  45. 463:2 That is, by dividing the sheaths in the middle lengthwise, and lighting both halves in the Gārhapatya fire. ↩︎

  46. The accent of आदीप्त᳘ is remarkable as in contradiction to the general rule. Are we perhaps to read उभयतआदीप्ता᳘ or उभय᳘तआदीप्ता as a compound? ↩︎

  47. प्रमु᳘श्नादि᳘ति A. ↩︎

  48. पत्न्यदर्शनम् । अननूक्तिभिश्च । का. श्रौ. सू. २६ । ३० । ३१ । न अनूक्तिरनुवचनं वेदाध्ययनं येषां तैरननूक्तिभिः अवैदिकैरपीत्यर्थः । पत्नी शिरः प्रोर्णुते । का. श्रौ. सू. २६ । ४९ । ↩︎ ↩︎

  49. 463:3 According to Katy. XXVI, 3, 5 he makes a span (of thumb and index)–or spreads his hand with the palm downwards–over the pot whilst muttering the respective formulas; apparently changing the position of the hand according to the point of the compass referred to in the formula. ↩︎

  50. वाचनं च शाखांतरात् इति कर्कः ॥ ↩︎

  51. “प्रतिदिशमेके" । मंत्रलिंगात् अनाधृष्टा पुरस्तात् पुत्रवती दक्षिणतः इत्येवमादि । यद्येवं तदा वचने सति लिंगात् विभागो न अवगम्यते । अथ तु वचनं इदं तदा विकल्प इति कर्कः ॥ ↩︎

  52. 464:1 Or, calling for the ‘śraushaṭ’; cf. part i, p. 131, note 2. The masculine form of the participle is somewhat peculiar as the term it is meant to explain refers to the earth. It has probably to be understood in the sense of, ‘where he (viz. the Adhvaryu) calls for the śraushaṭ.’ Mahīdhara explains the term ‘āśruti’ by ‘where they, the priests, utter the sacrificial calls,’ i.e. ‘meet for sacrifice.’ ↩︎

  53. 465:1 Here the masculine gender can hardly be understood otherwise than in the sense ‘where (Br̥haspati, or Brahman) disposes on high.’ Mahīdhara takes no notice of this interpretation of the Brāhmaṇa, but explains ‘vidhr̥ti’ as either ‘one who upholds (dhārayati) in an especial manner,’ or where ’the offering spoon, &c., is held upwards (uparishṭād dhriyate,–? who holds it upwards),’–an explanation which can hardly commend itself. ↩︎

  54. पितृ᳘तमछत्रया वै᳘ A. For the sake of perspicuity I have supplied here (as well as at ३१. and २, १, ११. १४.३५.) the गलितम् रसो व्यक्षरत्स. ↩︎

  55. 465:2 This specification of the number seems to have no other object but that of limiting the general term of ‘Fathers,’ or deceased ancestors, to the specific signification it has at the Śrāddha, where offering is made to the father, grandfather, and great-grandfather. ↩︎

  56. म᳘नुमुह᳘ A. ↩︎

  57. मनोरश्वेति प्रादेशमुत्तरतः । का. श्रौ. सू. २६ । ५५ । ↩︎

  58. 465:3 According to Katy. XXVI, 3, 8, he does so whilst spanning the earth north of the Mahāvīra pot. ↩︎

  59. 466:1 That is, along the north and the south sides of the pot, on the burning sheaths of reed grass; or rather on hot cinders heaped thereon. Katy. XXVI, 3, 9. They would partly serve the purpose of the ordinary (three) enclosing-sticks; and Āpast., indeed, calls them ‘paridhi.’ ↩︎

  60. 466:2 Literally, the call of ‘hail!’ (svāhā-kāra) he makes to be the nearer, and the deity the farther. ↩︎

  61. 466:3 That is, along the west and the east sides of the pot. According to Āpast. Śr. XV, 8, 1-4, two pieces of wood are laid down alternately by the Adhvaryu and the Pratiprasthātr̥, the last pieces being then laid down (on the south side) by the former priest. ↩︎

  62. “सुवर्णशतमानेनापिदधाति दिवः सँस्पृश इति” (का. श्रौ. सू. २६। ५७) । ↩︎

  63. 467:1 They consist of pieces cut from the black antelope-skin (with black and white hair, according to Āpast. XV, 5,12), fastened to sticks. ↩︎

  64. 467:2 That is, the Adhvaryu, Pratiprasthātr̥, and Agnīdh then take each one of the fans, and move round the fire whilst keeping it on their left side (the Agnīdh going in front). ↩︎

  65. 467:3 See p. 465, note 2. ↩︎

  66. अर्चिषि प्राप्ते सुवर्णशतमानं निधायाज्येन महावीरं परिषिंचति स्रुवेण प्रतिप्रणवम् । का. श्रौ. सू. २६ । ६२ । निधाय अपनीय इति कर्कः ॥ ↩︎ ↩︎

  67. 468:1 That is, apparently, red-hot, glowing (śucita), or perhaps, entirely ablaze, enveloped in flames–outside as well as inside, owing to the ghee with which it was greased all over; hence hardly, ‘bestrahlt’ (illumined shone upon), as the St. Petersb. Dict. takes it; cf. śuśucāna, XIV, 2, 1, 18; 3, 1, 14. According to Āpast. Śr., the three priests, having completed their circumambulation, sit down on the east, south, and north side respectively, and continue to fan the pot, at the same time oiling it with ghee, until the pot is ablaze, when the Adhvaryu takes off the gold plate. According to Kāty., on the other hand, the Pratiprasthātr̥ proceeds with the baking of the cakes, whilst the Adhvaryu sprinkles the pot with ghee each time that the Hotr̥, in his recitation, utters the syllable ‘om’ at the end of a verse. Before the last verse, the twenty-fifth, of the same hymn concluding the first part of the recitation, a special verse, IX, 83, 3, is inserted. Āśv. Śr. IV, 6, 2-3. ↩︎

  68. 468:2 See p. 458, note 1. ↩︎