०१

विश्वास-प्रस्तुतिः

स वै᳘ सम्भारान्त्स᳘म्भरति॥
स यद्वा᳘ ऽएनानित्था᳘ चेत्था᳘ च सम्भ᳘रति त᳘त्सम्भाराणाᳫँ᳭[[!!]] सम्भारत्वᳫँ᳭ स वै य᳘त्रयत्र यज्ञ᳘स्य᳘ न्य᳘क्तन्त᳘तस्ततः। स᳘म्भरति॥

मूलम् - श्रीधरादि

स वै᳘ सम्भारान्त्स᳘म्भरति॥
स यद्वा᳘ ऽएनानित्था᳘ चेत्था᳘ च सम्भ᳘रति त᳘त्सम्भाराणाᳫँ᳭[[!!]] सम्भारत्वᳫँ᳭ स वै य᳘त्रयत्र यज्ञ᳘स्य᳘ न्य᳘क्तन्त᳘तस्ततः। स᳘म्भरति॥

मूलम् - Weber

स वै᳘ सम्भारान्त्स᳘म्भरति॥
स यद्वा᳘ एनानित्था᳘च्चेत्था᳘च्च 1 सम्भ᳘रति त᳘त्सम्भारा᳘णाᳫं सम्भारत्वᳫं स वै य᳘त्र-यत्र यज्ञ᳘स्य न्य᳘क्तं त᳘तस्ततः स᳘म्भरति॥

मूलम् - विस्वरम्

महावीरादिप्रवर्ग्यपात्रसंभरणब्राह्मणम् ।

स वै संभारान् संभरति । स यद्वा एनानित्था चेत्था च संभरति । तत्संभाराणां संभारत्वम् । स वै यत्रयत्र यज्ञस्य न्यक्तम् । ततः संभरति ॥ १ ॥

सायणः

इत्थं आख्यायिकया प्रवर्ग्यस्य विधित्सितस्य यज्ञशिरस्त्वम्, तद्रहितस्य च अग्निष्टोमादेः फलजननासामर्थ्यमपि उक्त्वा । तस्यावश्यानुष्ठेयस्य प्रतिपादककांडाध्यायिनः तदनुष्ठातुश्च व्रतानि दर्शितानि प्रथमब्राह्मणे । अथ द्वितीयेन तत्कर्मनिवर्तकानां मृद्दारुमयाणां पात्राणां निष्पत्तिः प्रतिपाद्यते । तत्र महावीरादीनि मृण्मयानि पात्राणि निर्मातुं मृद्वल्मीकवपादयः संभाराः अग्रे विधास्यन्ते । प्रथमं तावत् तेषां संभारसंज्ञां निर्वक्ति- स यद्वा एनानित्था चेत्था च संभरति तत्संभाराणां संभारत्वमिति । इतः परं वक्ष्यमाणासु सर्वासु क्रियासु आध्वर्यवसमाख्यावशेन अध्वर्युरेव सामान्यतः कर्तृतया संबध्यते । वचनात् तद्व्यतिरिक्तानामिति सर्वत्रानुसंधेयम् । सो ऽध्वर्युः दीक्षादिवसेषु ‘यद्वै’ यस्मात् खलु ‘एनान्’ वक्ष्यमाणान् मृदादिसंभारान् ‘इत्था चेत्था च’ इत्थं चेत्थं च, इत्थाशब्दद्वयं वक्ष्यमाणसंभाराहरणप्रकारस्य हस्तेन अभिनयप्रदर्शनार्थम् । नानादिगवस्थितान् बहुप्रकारेण ‘संभरति’ एकत्र आनीय समूहीकरोति । तत्तस्मात् इतस्ततः संभ्रियमाणत्वात् तेषां ‘संभाराणां संभारत्वं’ संभारसंज्ञा निष्पन्ना । अनेन च प्रवर्ग्यं चिकीर्षुः अध्वर्युः आदौ वक्ष्यमाणान् मृदादिपंचसंभारान् संभरेदिति विधिरुन्नेतव्यः । कुतो देशात् संभारा आहर्तव्याः इति तदाह- स वै यत्रयत्र यज्ञस्य न्यक्तं ततः संभरतीति । ‘सः’ खलु अध्वर्युः ‘यत्रयत्र’ यस्मिन् यस्मिन् देशे ‘यज्ञस्य’ शिरः ‘न्यक्तं’ संसृष्टं ‘ततस्ततः’ तस्मात्तस्मात् देशात् ‘संभरति’ । यज्ञशिरःसारान् मृदादिरूपान् संभारान् एकत्र समुहीकरोति । अनेन इत्था चेत्था चेति प्रागुक्त बहुप्रकारत्वमपि उपपादितं भवति ॥ १ ॥

Eggeling
  1. He equips (the Mahāvīra) with its equipments;–inasmuch as he equips it therewith from this and that quarter, that is the equipping nature of the equipments 2 (sambhāra): wheresoever anything of the sacrifice is inherent, therewith he equips it 3.

०२

विश्वास-प्रस्तुतिः

कृष्णाजिने स᳘म्भरति॥
यज्ञो वै᳘ कृष्णजिनं᳘ यज्ञ᳘ ऽए᳘वैनमेतत्स᳘म्भरति लोमतश्छ᳘न्दाᳫँ᳭सि वै लो᳘मानि च्छ᳘न्दःस्वे᳘वैनमेतत्स᳘म्भरत्युत्तरत ऽउ᳘दीची हि᳘ मनु᳘ष्याणान्दि᳘क्प्राची᳘नग्ग्रीवे तद्धि᳘ देवत्रा॥

मूलम् - श्रीधरादि

कृष्णाजिने स᳘म्भरति॥
यज्ञो वै᳘ कृष्णजिनं᳘ यज्ञ᳘ ऽए᳘वैनमेतत्स᳘म्भरति लोमतश्छ᳘न्दाᳫँ᳭सि वै लो᳘मानि च्छ᳘न्दःस्वे᳘वैनमेतत्स᳘म्भरत्युत्तरत ऽउ᳘दीची हि᳘ मनु᳘ष्याणान्दि᳘क्प्राची᳘नग्ग्रीवे तद्धि᳘ देवत्रा॥

मूलम् - Weber

कृष्णाजिनᳫं स᳘म्भरति॥
यज्ञो वै᳘ कृष्णजिनं᳘ यज्ञ᳘ एॗवैनमेतत्स᳘म्भरति लोमतश्छ᳘न्दांसि वै लो᳘मानि छ᳘न्दःस्वेॗवैनमेतत्स᳘म्भरत्युत्तरत उ᳘दीची हि᳘ मनुॗष्याणां दि᳘क्प्राची᳘नग्रीवे तद्धि᳘ देवत्रा॥

मूलम् - विस्वरम्

कृष्णाजिने संभरति । यज्ञो वै कृष्णाजिनम् । यज्ञ एवैनमेतत्संभरति । लोमतः । छंदांसि वै लोमानि । छंदःस्वेवैनमेतत्संभरति । उत्तरतः । उदीची हि मनुष्याणां दिक् । प्राचीनग्रीवे । तद्धि देवत्रा ॥ २ ॥

सायणः

कस्मिन् वा अजिने तत्संभरणमिति तदाह- कृष्णाजिने संभरतीति । कृष्णः कृष्णमृगः तस्याजिने चर्मणि वक्ष्यमाणाम् संभारान् ‘संभरति’ । अथैतत् प्रशंसति- यज्ञो वै कृष्णाजिनं यज्ञ एवैनमेतत्संभरतीति । यदेतत् कृष्णाजिनं 4 असौ ‘यज्ञो वै’ यज्ञ एव खलु । यज्ञस्य कस्माच्चिन्निमित्तात् देवेभ्यः पलायमानस्य कृष्णमृगरूपेणावस्थानात् तच्चर्मणो यज्ञत्वम् । तथा च तैत्तिरीयकं- “यज्ञो देवेभ्यो निलायत । कृष्णो रूपं कृत्वा । यत् कृष्णाजिने हविरध्यवहंति” इति । तथा सति साक्षात् यज्ञे शिरसा संधित्स्यमान एव ‘एनं’ प्रवर्ग्यं ‘एतत् संभरति’ एतेन संभरणेन संयोजयति । अथ तस्य लोमवद्भागे संभरणं कार्यं इति विधाय स्तौति- लोमतश्छंदांसि वै लोमानि छंदःस्वेवैनमेतत्संभरतीति । कृष्णाजिनस्य यस्मिन्परिपार्श्वे लोमानि भवंति तस्मिन् ‘लोमतः’ लोम्नि लोमवत्प्रदेशे संभरतीत्यनुषंगः । कुत एतत् अलोमके विशसनप्रदेशे वा कस्मान्न भवतीति चेत् उच्यते। छंदांसि गायत्र्यादीनि छंदोयुक्ता ऋचः सामानि च खलु कृष्णाजिनस्य लोमानि 5 । तथा च तैत्तिरीयकम्- “एष वा ऋचो वर्णो यच्छुक्लं कृष्णाजिनस्यैष साम्नो यत् कृष्णम्” (तै. सं. ६ । १ । ३) इति । कृष्णाजिनस्य लोमानि शुक्लानि कृष्णानि च भवंति । तत्र शुक्लानि ऋगात्मकानि कृष्णानि सामात्मिकानीति तस्यार्थः। एवं लोम्नां छंदोरूपत्वात् कृष्णाजिनस्य लोमभागे संभारान् संभरन् ‘छंदःस्वेव’ गायत्र्यादिच्छंदःस्वेव गायत्र्यादिष्वेव ‘एनं’ प्रवर्ग्यमुद्दिश्य एतत् ‘संभरति’ । वक्ष्यमाणं एतत्संभरणं कृतवान् भवति । अथ दिङ्नियमं विधाय स्तौति- उत्तरत उदीची हि मनुष्याणां दिक् इति । ‘उत्तरतः’ उदीच्यां दिशि गत्वा संभारान् संभरति ‘हि’ यस्मात् सा ‘उदीची 6 दिक् मनुष्याणां’ दुःखोपशमनहेतुत्वेन संबंधिनी । तथा च- तैत्तिरीयकम् “उदीच उत्सृजत्येषा वै देवमनुष्याणां शांता दिगिति” (तै. सं. ५ । २ । ५) अथ तस्य कृष्णाजिनस्यांस्तरणप्रकारं विधत्ते- प्राचीनग्रीवे तद्धि देवत्रेति । प्राचीना प्राच्यां दिशि अवस्थिता ग्रीवा यस्य तथाविधे कृष्णाजिने आस्तीर्णे संभरति । ‘तद्धि’ प्राग्दिक्संबद्धं खलु ‘देवत्रा’ देवेषु प्रसिद्धम् । तस्या दिशो देवानां स्वभूतत्वात् । तच्च तैत्तिरीयके स्पष्टमाम्नायते- “देवमनुष्या दिशो व्यभजंत प्राची देवा दक्षिणा पितरः” (तै. सं. ६ । १ । १) इति । “देवमनुष्यपुरुषपुरुमर्त्येभ्यः” (पा. सू. ५ । ४ । ५६) इत्यादिना सप्तम्यर्थे त्राप्रत्ययः ॥ २ ॥

Eggeling
  1. He gets ready a black antelope-skin,–for the black antelope-skin is the sacrifice 7: it is at the

sacrifice he thus prepares (the pot);–with its hairy side (upwards),–for the hairs are the metres: on the metres he thus prepares it;–(spread out) on the left (north) side 8,–for the north is the quarter of men;–on (the skin) with its neck-part to the east 9, for that (tends) towards the gods.

०३

विश्वास-प्रस्तुतिः

(त्रा ऽभ्भ्र्या) अ᳘भ्भ्र्या॥
व्व᳘ज्रो वा ऽअ᳘भ्भ्रिर्व्वी᳘र्य्यम्वै व्व᳘ज्रो व्वी᳘र्य्येणै᳘वैनमेतत्स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥

मूलम् - श्रीधरादि

(त्रा ऽभ्भ्र्या) अ᳘भ्भ्र्या॥
व्व᳘ज्रो वा ऽअ᳘भ्भ्रिर्व्वी᳘र्य्यम्वै व्व᳘ज्रो व्वी᳘र्य्येणै᳘वैनमेतत्स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥

मूलम् - Weber

अ᳘भ्र्या॥
व᳘ज्रो वा अ᳘भ्रिर्वीर्य᳘म् वै व᳘ज्रो वीॗर्येणैॗवैनमेतत्स᳘मर्धयति कृत्स्नं᳘ करोति॥

मूलम् - विस्वरम्

अभ्र्या । वज्रो वा अभ्रिः । वीर्यं वै वज्रः । वीर्येणैवैनमेतत्समर्द्धयति । कृत्स्नं करोति ॥ ३ ॥

सायणः

अथ तत्र साधनं विधाय स्तौति- अभ्र्या वज्रो० करोतीति । अभ्रिः खननसाधनं काष्ठं तया संभारान् संभरति । सा खलु ‘अभ्रिः’ ‘वज्रो वै’ वज्रवत्तीक्ष्णाग्रत्वात् ताच्छब्द्यम् । वज्रश्च इंद्रायुधत्वात् ‘वीर्यं वै’ वीर्यरूप एव । तथा च ‘एतत्’ एतेन आम्रियसंभरणेन ‘एनं’ प्रवर्ग्यं वीर्येणैव फलजननसामर्थ्येनैव ‘समर्द्धयति’ समृद्धं करोति । तत्समृद्धौ सत्यां प्रवर्ग्यशिरस्कं यज्ञमपि ‘कृत्स्नं’ सकलं संपूर्णावयवं ‘करोति’ ॥ ३ ॥

Eggeling
  1. With a spade (he digs out the clay), for the spade is a thunderbolt, and the thunderbolt is vigour: with vigour he thus supplies and completes it (the Pravargya).

०४

विश्वास-प्रस्तुतिः

(त्यौ᳘) औ᳘दुम्बरी भवति॥
(त्यू) ऊर्ग्वैर᳘स ऽउदुम्ब᳘र ऽऊ᳘र्ज्जै᳘वैनमेतद्र᳘सेन स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥

मूलम् - श्रीधरादि

(त्यौ᳘) औ᳘दुम्बरी भवति॥
(त्यू) ऊर्ग्वैर᳘स ऽउदुम्ब᳘र ऽऊ᳘र्ज्जै᳘वैनमेतद्र᳘सेन स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥

मूलम् - Weber

औ᳘दुम्बरी भवति॥
ऊर्ग्वै र᳘स उदुम्ब᳘र ऊॗर्जैॗवैनमेतद्र᳘सेन स᳘मर्धयति कृत्स्नं᳘ करोति॥

मूलम् - विस्वरम्

औदुंबरी भवति । ऊर्ग् वै रस उदुंबरः । ऊर्ज्जैवैनमेतद्रसेन समर्द्धयति । कृत्स्नं करोति ॥ ४ ॥

सायणः

अथ तस्या अभ्रेः वृक्षविशेषं विधाय स्तौति- औदुंबरी भवति० करोतीति । सा अभ्रिः ‘औदुंबरी’ 10 उदुंबरवृक्षजा ‘भवति’ । वृक्षांतरेभ्यः तस्य को ऽतिशयः इति चेत् उच्यते- ‘ऊर्ग्वै’ “ऊर्ज्ज बलप्राणनयोः”- (धा. पा. चु. उ. १६) इति धातुः । बलकरः खलु यः अन्नरसः स एव ‘उदुंबरः’ तस्मादुत्पन्नत्वात् । तथा च तैत्तिरीयकम्- “देवा वा ऊर्ज्जं व्यभजंत तत उदुंबर उदतिष्ठत् । उर्ग्वा ऊदुंबरः” इति । तथा च- ‘ऊर्ज्जा’ बलकरेणैव अन्नरसेन ‘एनं’ प्रवर्ग्यं ‘समर्द्धयति’ । अन्यत् पूर्ववत् ॥ ४ ॥

Eggeling
  1. It is made of Udumbara (Ficus glomerata) wood, for the Udumbara is strength 11: with strength, with vital sap, he thus supplies and completes it.

०५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थो व्वै᳘कङ्कती॥
प्रजा᳘पतिर्य्यां᳘ प्रथमामा᳘हुतिम᳘जुहोत्स᳘ हुत्वा य᳘त्र न्य᳘मृष्ट त᳘तो व्वि᳘कङ्कतः स᳘मभवद्यज्ञो वा ऽआ᳘हुतिर्य्यज्ञो व्वि᳘कङ्कतो यज्ञे᳘नै᳘वैनमेतत्स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थो व्वै᳘कङ्कती॥
प्रजा᳘पतिर्य्यां᳘ प्रथमामा᳘हुतिम᳘जुहोत्स᳘ हुत्वा य᳘त्र न्य᳘मृष्ट त᳘तो व्वि᳘कङ्कतः स᳘मभवद्यज्ञो वा ऽआ᳘हुतिर्य्यज्ञो व्वि᳘कङ्कतो यज्ञे᳘नै᳘वैनमेतत्स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥

मूलम् - Weber

अ᳘थो वै᳘कङ्कती॥
प्रजा᳘पतिर्या᳘म् प्रथमामा᳘हुतिम᳘जुहोत्स᳘ हुत्वा य᳘त्र न्य᳘मृष्ट त᳘तो वि᳘कङ्कतः स᳘मभवद्यज्ञो वा आ᳘हुतिर्यज्ञो वि᳘कङ्कतो यज्ञे᳘नैॗवैनमेतत्स᳘मर्धयति कृत्स्न᳘म् करोति॥

मूलम् - विस्वरम्

अथौ वैकंकती । प्रजापतिर्यां प्रथमामाहुतिमजुहोत् । स हुत्वा यत्र न्यमृष्ट । ततो विकंकतः समभवत् । यज्ञो वा आहुतिः । यज्ञो विकंकतः । यज्ञेनैवैनमेतत्समर्द्धयति । कृत्स्नं करोति ॥ ५ ॥

सायणः

अथ विकल्पेनाभ्रेर्वृक्षविशेषं विधत्ते- अथो वैकंकतीति । ‘अथो’ अपि च सा अभ्रिः ‘वैकंकती’ विकंकतवृक्षजा वा कार्या । अथैतत्प्रशंसति- प्रजापतिर्यां० करोतीति । ‘प्रजापतिः’ प्रजानां पालयिता आदिकर्ता श्रेष्ठः जगत्सृष्ट्यर्थं ‘यां प्रथमां’ ‘आहुतिं अजुहोत्’ हुतवान् । ‘हुत्वा’ च ‘सः’ प्रजापतिः ‘यत्र’ यस्मिन्देशे ‘यमृष्ट’ लेपनिर्मार्जनं कृतवान् । ‘ततः’ तस्मात् स्थानात् सः ‘विकंकतो’ वृक्षः ‘समभवत्’ उदपद्यत । एवमाहुतिसकाशाज्जातत्वात् स ‘विकंकतो’ वृक्षः ‘यज्ञो वै’ यज्ञात्मक एव । अन्यत् पूर्ववत् योज्यम् । क्रियापदात् पूर्वं पठितं ‘एतत्’ इति पदं सर्वत्र क्रियाविशेषणत्वेन योज्यम् ॥ ५ ॥

Eggeling
  1. Or of Vikaṅkata (Flacourtia sapida) wood; for when Prajāpati performed his first offering, a Vikaṅkata tree sprang forth from that place where, after offering, he cleansed (his hands); now an offering is a sacrifice, and (consequently) the Vikaṅkata is

the sacrifice: with the sacrifice he thus supplies and completes it.

०६

विश्वास-प्रस्तुतिः

(त्य) अरत्निमात्री᳘ भवति॥
बाहुर्व्वा᳘ ऽअरत्नि᳘र्बाहु᳘नो वै᳘ व्वी᳘र्य्यङ्क्रियते व्वी᳘र्य्यसंमितैव त᳘द्भवति व्वी᳘र्य्येणै᳘वैनमेतत्स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥

मूलम् - श्रीधरादि

(त्य) अरत्निमात्री᳘ भवति॥
बाहुर्व्वा᳘ ऽअरत्नि᳘र्बाहु᳘नो वै᳘ व्वी᳘र्य्यङ्क्रियते व्वी᳘र्य्यसंमितैव त᳘द्भवति व्वी᳘र्य्येणै᳘वैनमेतत्स᳘मर्द्धयति कृत्स्न᳘ङ्करोति॥

मूलम् - Weber

अरत्निमात्री᳘ भवति॥
बाहुर्वा᳘ अरत्नि᳘र्बाहु᳘नो वै᳘ वीर्यं᳘ क्रियते वीर्य᳘सम्मितैव त᳘द्भवति वीॗर्येणैॗवैनमेतत्स᳘मर्धयति कृत्स्नं᳘ करोति॥

मूलम् - विस्वरम्

अरत्निमात्री भवति । बाहुर्वा अरत्निः । बाहुना उ वै वीर्यं क्रियते । वीर्यसंमितैव तद्भवति । वीर्येणैवैनमेतत्समर्द्धयति । कृत्स्नं करोति ॥ ६ ॥

सायणः

अथ तस्याः परिमाणं विधत्ते- अरत्निमात्री भवतीति । चतुर्विंशत्यंगुलपरिमितः कूर्परादारभ्य कनिष्ठिकाग्रपर्यंतः बाह्वोरेकदेशो ऽरत्निः । अरत्निमात्रपरिमिता सा अभ्रिः कार्या । तदेतत् स्तौति- बाहुर्वा अरत्नि० कृत्स्नं करोतीति । यः अयमरत्निः स पूर्वोक्तप्रकारेण ‘बाहुर्वै’ हस्त एव खलु ‘बाहुना उ’ बाहुद्वयाद्धि ‘वीर्यं’ लोके ‘क्रियते’ । अतस्तत सा अभ्रिः बाह्वैकदेशारत्निपरिमिता ‘वीर्यसंमितैव भवति’ अन्यत् पूर्ववत् योज्यम् ॥ ६ ॥

Eggeling
  1. It is a cubit long, for a cubit means the (fore-) arm, and with the arm strength is exerted: it (the spade) thus is composed of strength, and with strength he thus supplies and completes it.

०७

विश्वास-प्रस्तुतिः

तामा᳘दत्ते॥
देव᳘स्य त्वा सवितुः᳘ प्प्रस᳘वे ऽश्वि᳘नोर्ब्बाहु᳘भ्याम्पूष्णो ह᳘स्ताभ्यामा᳘ददे ना᳘रिरसी᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - श्रीधरादि

तामा᳘दत्ते॥
देव᳘स्य त्वा सवितुः᳘ प्प्रस᳘वे ऽश्वि᳘नोर्ब्बाहु᳘भ्याम्पूष्णो ह᳘स्ताभ्यामा᳘ददे ना᳘रिरसी᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - Weber

तामा᳘दत्ते॥
देव᳘स्य त्वा सवितुः᳘ प्रसॗवेऽश्वि᳘नोर्बाहु᳘भ्याम् पूष्णो ह᳘स्ताभ्यामा᳘ददे ना᳘रिरसी᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - विस्वरम्

तामादत्ते- “देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे नारिरसि” (वा. सं. ३७ । १) इति । असावेव बंधुः ॥ ७ ॥

सायणः

अथ संभारानाहर्तुं तस्या आहरणं विधत्ते- तामादत्ते देवस्य त्वा० बंधुरिति । ‘तां’ तथाविधां उक्तलक्षणां अभ्रिम् देवस्य त्वेत्यादिना नारिरसीत्यंतेन मंत्रेण ‘आदत्ते’ दक्षिणहस्तेन गृह्णीयात् । मंत्राः सर्वेसंहितायामेव व्याख्याताः इति तन्मंत्रव्याख्यानाय न प्रयते । येषां मंत्राणां ब्राह्मणमेव पदतः तात्पर्यस्य व्याख्यानं करोति । ते अस्माभिरपि व्याकरिष्यंते । ‘असावेव’ खलु मंत्रः ‘बंधुः’ बंधकः छिन्नस्य यज्ञशिरसः पुनः संधायकः । सवित्रश्विपूष्णां देवानां सम्बन्धात् । यद्वा आदीयमाना सैवाभ्रिः ‘बंधुः’ । संभारा (हर राः ?) प्रवर्ग्यस्य यज्ञशिरसः बंधुर्मैत्री । अतः तां अनेन मंत्रेणाददीतेत्यर्थः ॥ ७ ॥

Eggeling
  1. He takes it up, with (Vāj. S. XXXVII, 1), ‘At the impulse of the god Savitr̥, I take thee by the arms of the Aśvins, by the hands of Pūshan: thou art a woman;’–the import (of this formula) is the same as before 12.

०८

विश्वास-प्रस्तुतिः

(स्तां᳘) ता᳘ᳫँ᳘ सव्ये᳘ पाणौ᳘ कृत्वा᳘॥
दक्षिणे᳘नाभिमृ᳘श्य जपति युञ्ज᳘ते म᳘न ऽउत᳘ युञ्जते धि᳘यो व्वि᳘प्रा व्वि᳘प्रस्य बृहतो᳘ व्विपश्चि᳘तः। व्वि हो᳘त्रा दधे व्वयुनाविदे᳘क ऽइ᳘न्मही᳘ देव᳘स्य सवितुः प᳘रिष्टुतिरि᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - श्रीधरादि

(स्तां᳘) ता᳘ᳫँ᳘ सव्ये᳘ पाणौ᳘ कृत्वा᳘॥
दक्षिणे᳘नाभिमृ᳘श्य जपति युञ्ज᳘ते म᳘न ऽउत᳘ युञ्जते धि᳘यो व्वि᳘प्रा व्वि᳘प्रस्य बृहतो᳘ व्विपश्चि᳘तः। व्वि हो᳘त्रा दधे व्वयुनाविदे᳘क ऽइ᳘न्मही᳘ देव᳘स्य सवितुः प᳘रिष्टुतिरि᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - Weber

ता᳘ᳫं᳘ सव्ये᳘ पाणौ᳘ कृत्वा᳟॥
दक्षिणे᳘नाभिमृ᳘श्य जपति युञ्ज᳘ते म᳘न उत᳘ युञ्जते धि᳘यो वि᳘प्रा वि᳘प्रस्य बृहतो᳘ विपश्चि᳘तः॥
वि हो᳘त्रा दधे वयुनाविदे᳘क इ᳘न्मही᳘ देव᳘स्य सवितुः प᳘रिष्टुतिरि᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - विस्वरम्

तां सव्ये पाणौ कृत्वा दक्षिणेनाभिमृश्य जपति- “युंजते मन उत युंजते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः” (वा. सं. ३७ । २) इति । असावेव बंधुः ॥ ८ ॥

सायणः

यदुक्तं कात्यायनेन सुत्रकृता- “देवस्य त्वेत्यभ्रिमादायौदुंबरीं वैकंकतीं वा ऽरत्निमात्रीँ सव्ये कृत्वा दक्षिणेनालभ्य जपति युञ्जत” इति । (का. श्रौ. सू. २६ । १ । ४) इति तदेतद्विधीयते- ताँ सव्ये पाणौ कृत्वा० बंधुरिति । ‘ताम्’ दक्षिणहस्तेन गृहीत्वा ततः ‘सव्ये पाणौ कृत्वा सव्यहस्तेनादाय तत्र धृत्वा दक्षिणहस्तेनाभिमृश्य संस्पृश्य ‘जपति’ “युंजते मन” इति ऋचम् ‘सवितुः परिष्टुतिरिति’ सर्वप्रेरकस्य सवितुः श्रवणात् असावेव मंत्रः ‘बंधुः’ छिन्नस्य यज्ञशिरसः बंधकः ॥ ८ ॥

Eggeling
  1. Having placed it in his left hand, he touches it with the right, and mutters (Vāj. S. XXXVII, 2), ‘They harness the mind, and they harness the thoughts, the priests of the priest, of the great inspirer of devotion; the knower of the rites alone hath assigned the priestly offices: great is the praise of the god Savitr̥;’–the import of this is the same as before 13.

०९

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ मृत्पिण्डम्प᳘रिगृह्णाति॥
(त्य᳘) अ᳘भ्भ्र्या च दक्षिणतो ह᳘स्तेन च ह᳘स्तेनै᳘वोत्तरतो दे᳘वी द्यावापृथिवी ऽइ᳘ति यज्ञ᳘स्य शीर्षच्छिन्न᳘स्य र᳘सो᳘ व्व्यक्षरत्स᳘ ऽइमे[[!!]] द्या᳘वापृथिवी᳘ ऽअगच्छद्यन्मृ᳘दियन्तद्यदा᳘पो ऽसौ त᳘न्मृद᳘श्चापा᳘ञ्च महावीराः᳘ कृता᳘ भवन्ति ते᳘नै᳘वैनमेतद्र᳘सेन स᳘मर्द्धयति कृत्स्न᳘ङ्करोति त᳘स्मादाह दे᳘वी द्यावापृथिवी ऽइ᳘ति मख᳘स्य वामद्य शि᳘रो राद्ध्यासमि᳘ति यज्ञो वै᳘ मखो᳘ यज्ञ᳘स्य वामद्य शि᳘रो राद्ध्यासमि᳘त्ये᳘वैत᳘दाह देवय᳘जने हि᳘ पृथिव्यै᳘ सम्भ᳘रति मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण ऽइ᳘ति यज्ञो वै᳘ देवय᳘जने पृथिव्या ऽइ᳘ति मखो᳘ यज्ञा᳘य त्वा यज्ञ᳘स्य त्वा शीर्ष्ण ऽइ᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ मृत्पिण्डम्प᳘रिगृह्णाति॥
(त्य᳘) अ᳘भ्भ्र्या च दक्षिणतो ह᳘स्तेन च ह᳘स्तेनै᳘वोत्तरतो दे᳘वी द्यावापृथिवी ऽइ᳘ति यज्ञ᳘स्य शीर्षच्छिन्न᳘स्य र᳘सो᳘ व्व्यक्षरत्स᳘ ऽइमे[[!!]] द्या᳘वापृथिवी᳘ ऽअगच्छद्यन्मृ᳘दियन्तद्यदा᳘पो ऽसौ त᳘न्मृद᳘श्चापा᳘ञ्च महावीराः᳘ कृता᳘ भवन्ति ते᳘नै᳘वैनमेतद्र᳘सेन स᳘मर्द्धयति कृत्स्न᳘ङ्करोति त᳘स्मादाह दे᳘वी द्यावापृथिवी ऽइ᳘ति मख᳘स्य वामद्य शि᳘रो राद्ध्यासमि᳘ति यज्ञो वै᳘ मखो᳘ यज्ञ᳘स्य वामद्य शि᳘रो राद्ध्यासमि᳘त्ये᳘वैत᳘दाह देवय᳘जने हि᳘ पृथिव्यै᳘ सम्भ᳘रति मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण ऽइ᳘ति यज्ञो वै᳘ देवय᳘जने पृथिव्या ऽइ᳘ति मखो᳘ यज्ञा᳘य त्वा यज्ञ᳘स्य त्वा शीर्ष्ण ऽइ᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

अ᳘थ मृत्पिण्डम् पव्रिगृह्णाति॥
अ᳘भ्र्या च दक्षिणतो ह᳘स्तेन च ह᳘स्तेनैॗवोत्तरतो दे᳘वी द्यावापृथिवी इ᳘ति यज्ञ᳘स्य शीर्षछिन्न᳘स्य र᳘सो व्य᳘क्षरत्स᳘ इमे द्या᳘वापृथिवी᳘ अगछद्यन्मृ᳘दियं तद्यदा᳘पोऽसौ त᳘न्मृद᳘श्चापां᳘ च महावीराः᳘ कृता᳘ भवन्ति ते᳘नैॗवैनमेतद्र᳘सेन स᳘मर्धयति कृत्स्नं᳘ करोति त᳘स्मादाह दे᳘वी द्यावापृथिवी इ᳘ति मख᳘स्य वामद्य शि᳘रो राध्यासमि᳘ति यज्ञो वै᳘ मखो᳘ यज्ञ᳘स्य वामद्य शि᳘रो राध्यासमि᳘त्येॗवैत᳘दाह देवय᳘जने पृथिव्या इ᳘ति देवय᳘जने हि᳘ पृथिव्यै᳘ सम्भ᳘रति मखाय त्वा मख᳘स्य त्वा शीर्ष्ण इ᳘ति यज्ञो वै᳘ मखो᳘ यज्ञा᳘य त्वा यज्ञ᳘स्य त्वा शीर्ष्ण इ᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

अथ मृत्पिण्डं परिगृह्णाति । अभ्र्या च दक्षिणतो हस्तेन च । हस्तेनैवोत्तरतः । “देवी द्यावापृथिवी इति । यज्ञस्य शीर्षच्छिन्नस्य रसो व्यक्षरत् । स इमे द्यावापृथिवी अगच्छत् । यन्मृत् । इयं तत् । यदापः । असौ तत् । मृदश्चापां च महावीराः कृता भवंति । तेनैवैनमेतद्रसेन समर्द्धयति । कृत्स्नं करोति । तस्मादाह- “देवी द्यावापृथिवी”- इति । “मखस्य वामद्य शिरो राध्यासम्”- इति । यज्ञो वै मखः । यज्ञस्य वामद्य शिरो राध्यासम् । इत्येवैतदाह “देवयजने पृथिव्याः”- इति । देवयजने हि पृथिव्यै संभवति । “मखाय त्वा मखस्य त्वा शीर्ष्णे”- (वा. सं. ३७ । ३) इति । यज्ञो वै मखः । यज्ञाय त्वा यज्ञस्य त्वा शीर्ष्ण इत्येवैतदाह ॥ ९ ॥

सायणः

अथ तया आभ्र्या खातां जलेनासिक्तां मृदमाहरेदिति विधत्ते- अथ मृत्पिण्ड० द्यावापृथिवी इति । ‘अथ’ अभ्रिस्पर्शनानंतरं तया चाभ्र्या दक्षिणहस्तेन च दक्षिणतो दक्षिणभागेन गृह्णन् सव्यहस्तेनैव केवलेन ‘उत्तरतः’ उत्तरभागे गृह्णन् “देवी द्यावापृथिवी” इति मंत्रेण ‘मृत्पिडं’ जलेन मिश्रीकृतं मृत्तिकाघनं ‘गृह्णाति’ महावीराख्यमृण्मयपात्रपर्याप्तं स्वीकुर्यात् । परिगृह्य च तं मृत्पिंडं उत्तरत आस्तीर्णे कृष्णाजिने निदधाति । तथा चाह स्म सूत्रकारः- “मृदमादत्ते पिण्डवद्देवी द्यावापृथिवी इति” “कृष्णाजिने निदधात्युत्तरतः”- (का. श्रौ. सू. २६ । ५ । ६) इति । मंत्रस्य चतुर्द्धा विभक्तस्य प्रथमभागः प्रतीकत्वेन गृहीतः । तं तात्पर्यतो व्याचष्टे- यज्ञस्य शीर्षच्छिन्नस्य० कृत्स्नं करोतीति । शीर्षं शिरः छिन्नं यस्य असौ शीर्षच्छिन्नः तथाविधस्य यज्ञस्य छेदनप्रदेशात् यः ‘रसः’ लोहितरूपः ‘व्यक्षरत्’ विविधं स्तुतः अभूत्, । ‘सः’ रसः ‘इमे’ सर्वप्राणिसन्निहिते ‘द्यावापृथिवी’ द्यां च पृथिवीं च ‘अगच्छत्’ प्राप्नोत् । आह्रियमाणा मृदिति ‘यत्’ तदेव ‘इयं’ यज्ञरसयुक्ता पृथिवी । मृदा संसृष्टा आपः इति ‘यत्’ तदेव ‘असौ’ द्युलोकः । द्युलोकजनितया हि वृष्ट्या आपो जायंते इति । यस्मात् एवं महावीराः ‘मृदः’ मृत्तिकायाश्च ‘अपां’ उदकानां च संमेलनात् ‘कृताः’ उत्पादिताः ‘भवंति’ । तस्मात् ‘तेनैव’ द्यावापृथिव्यौ प्राप्तेनैव पुरातनेन रसेन ‘एनं’ प्रवर्ग्यं ‘एतत् समर्द्धयति’ । तत्समृद्ध्या च यज्ञमपि ‘कृत्स्नं’ संपूर्णावयवं ‘करोति’ । प्रादेशमात्रोन्नतानि पर्वत्रयवंति घुंटिकाकाराणि घर्महविःसंतापार्थानि त्रीणि मृण्मयपात्राणि महावीरा इत्युच्यते । “महान् बत नो वीरो ऽपादीति तस्मान्महावीरः” । (श. प. १४ । १ । १ । ११) इत्यादिना प्रवर्ग्यस्य तावन्महावीरशब्दाभिधेयत्वमुक्तम् । तत्साधनेषु पात्रेषु तच्छब्दप्रवृत्तिः उपचारात् इति द्रष्टव्यम् । उक्तमर्थं निगमयति- तस्मादाह देवी द्यावापृथिवी इतीति । यस्मात् यज्ञरसः द्यावापृथिव्यौ प्राप्नोत् । मृज्जलात्मको मृत्पिण्डश्च द्यावापृथिव्यात्मकः । ‘तस्मात्’ “द्यावापृथिवी” इति मंत्रभागं समवेतार्थत्वात् अध्वर्युराह मृत्पिण्डं स्वीकुर्वन् ब्रूयात् । द्वितीयं भागमनूद्य व्याचष्टे- मखस्य वामद्य शिरो० राध्यासमित्येवैतदाहेति । मखस्य वामिति द्वितीयो भागः । तत्र यो मखशब्दाभिधेयः स ‘यज्ञो वै’ यज्ञः खलु । एवं मखशब्दार्थे सति यो वाक्यार्थः संपद्यते तं दर्शयति- यज्ञस्य वामिति । अयमर्थः- हे ‘देवी’ देव्यौ देवनशीले हे ‘द्यावापृथिवी’ द्यावापृथिव्यौ ! ‘वां’ युवयोः सकाशात् । ‘अद्य’ अस्मिन् काले ‘मखस्य’ यज्ञरय ‘शिरः’ प्रवर्ग्यं ‘राध्यासं’ कर्तुं शक्तो भूयासम् । कुत्रेति चेत् कर्तुं शक्तो भूयासमिति इममेवार्थं एतच्च मंत्रवाक्यमाह प्रतिपादयति । अथ तृतीयभागमनूद्य प्रसिद्ध्यैव व्याचष्टे- देवयजने० संभरतीति । ‘पृथिव्यै,’ षष्ठ्यर्थे चतुर्थी । पृथिव्याः संबंधिनि ‘देवयजने’ देवा इज्यंते अस्मिन्निति देवयजनं यागाधिकरणभूतो देशः । तत्र हि संभरति, मृदादिसंभारानाहरति । तस्मात् अप्रसिद्धं व्याख्येयं पदं तृतीयभागे नास्तीत्यर्थः । अथ चतुर्थभागमनूद्य, व्याख्यानसापेक्षस्य पदस्यार्थमुक्त्वा निष्पन्नं वाक्यार्थमप्याह- मखाय त्वा० त्येवैतदाहेति । मखाय त्वेत्यस्मिन् चतुर्थभागे मखशब्दस्य पूर्ववत् यज्ञ एवार्थः । तथा च “यज्ञाय त्वा यज्ञस्य त्वा शीर्ष्णे” इति इममेवार्थं एतन्मंत्रवाक्यमाह । अयमर्थः- हे मृत्पिण्ड ! ‘त्वां’ ‘मखाय’ यज्ञाय यज्ञार्थं आददे । तथा ‘मखस्य’ यज्ञस्य ‘शीर्ष्णे’ शिरसे ‘त्वां’ परिगृह्णामीति एतमर्थं चतुर्थभागः प्रतिपादयतीत्यर्थः ॥ ९ ॥

Eggeling
  1. He then takes the lump of clay with the (right) hand and spade on the right (south) side, and with the (left) hand alone on the left (north) side 14, with (Vāj. S. XXXVII, 3), ‘O divine Heaven and Earth,’–for when the sacrifice had its head cut off, its sap flowed away, and entered the sky and the earth: what clay (firm matter) there was that is this (earth), and what water there was that is yonder (sky); hence it is of clay and water that the Mahāvīra (vessels) are made: he thus supplies and

completes it (the Pravargya) with that sap; wherefore he says, ‘O divine Heaven and Earth,’–‘May I this day compass for you Makha’s head,’–Makha being the sacrifice, he thus says, ‘May I this day accomplish for you 15 the head of the sacrifice;’–‘on the Earth’s place of divine worship,’–for on a place of divine worship of the earth he prepares it;–‘for Makha thee! for Makha’s head thee!’–Makha being the sacrifice, he thus says, ‘For the sacrifice (I consecrate) thee, for the head of the sacrifice (I consecrate) thee.’

१०

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थ व्वल्मीकवपाम्॥
(न्दे᳘) दे᳘व्यो व्वम्र्य ऽइ᳘त्येता वा᳘ ऽएत᳘दकुर्व्वत य᳘थायथैत᳘द्यज्ञ᳘स्य शिरो᳘ ऽच्छिद्यत ता᳘भिरे᳘वैनमेतत्स᳘मर्द्धयति कृत्स्न᳘ङ्करोति भूत᳘स्य प्रथमजा ऽइ᳘तीयम्वै᳘ पृथिवी᳘ भूत᳘स्य प्रथमजा त᳘दन᳘यै᳘वैनमेतत्स᳘मर्द्धयति कृत्स्न᳘ङ्करोति मख᳘स्य वो ऽद्य शि᳘रो राद्ध्यासन्देवय᳘जने पृथिव्या᳘ मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण ऽइ᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘थ व्वल्मीकवपाम्॥
(न्दे᳘) दे᳘व्यो व्वम्र्य ऽइ᳘त्येता वा᳘ ऽएत᳘दकुर्व्वत य᳘थायथैत᳘द्यज्ञ᳘स्य शिरो᳘ ऽच्छिद्यत ता᳘भिरे᳘वैनमेतत्स᳘मर्द्धयति कृत्स्न᳘ङ्करोति भूत᳘स्य प्रथमजा ऽइ᳘तीयम्वै᳘ पृथिवी᳘ भूत᳘स्य प्रथमजा त᳘दन᳘यै᳘वैनमेतत्स᳘मर्द्धयति कृत्स्न᳘ङ्करोति मख᳘स्य वो ऽद्य शि᳘रो राद्ध्यासन्देवय᳘जने पृथिव्या᳘ मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण ऽइ᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - Weber

अ᳘थ वल्मीकवपाम्॥
दे᳘व्यो वम्र्य इ᳘त्येता वा᳘ एत᳘दकुर्वत य᳘था-यथैत᳘द्यज्ञ᳘स्य शिरो᳘ऽछिद्यत ता᳘भिरेॗवैनमेतत्स᳘मर्धयति कृत्स्नं᳘ करोति भूत᳘स्य प्रथमजा इ᳘तीयम् वै᳘ पृथिवी᳘ भूत᳘स्य प्रथमजा त᳘दन᳘यैॗवैनमेतत्स᳘मर्धयति 16 कृत्स्नं᳘ करोति मख᳘स्य वोऽद्य शि᳘रो राध्यासं देवय᳘जने पृथिव्या᳘ मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण इ᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - विस्वरम्

अथ वल्मीकवपाम् । “देव्यो वभ्र्यः”- इति । एता वा एतदकुर्वत । यथायथैतद्यज्ञस्य शिरो ऽच्छिद्यत । ताभिरेवैनमेतत्समर्द्धयति । कृत्स्नं करोति । “भूतस्य प्रथमजाः”- इति । इयं वै पृथिवी भूतस्य प्रथमजा । तदनयैवैनमेतत्समर्द्धयति । कृत्स्नं करोति । “मखस्य वो ऽद्य शिरो राध्यासं देवयजने पृथिव्याः, मखाय त्वा मखस्य त्वा शीर्ष्णे"- (वा. सं. ३७ । ४) इति । असावेव बंधुः ॥ १० ॥

सायणः

अथ संभारांतरस्याहरणं विधत्ते- अथ 17 वल्मीकवपां देव्यो व्वभ्र्य इतीति । ‘अथ’ मृत्संभरणानंतरं “देव्यो व्वभ्र्यः” इति मंत्रेण ‘वल्मीकवपां’ वल्मीकस्य अंतः वपावत् अवस्थितां मृत्तिकां संभरति मंत्रेणादाय कृष्णाजिने निदधाति । मंत्रं त्रेधाकृत्य प्रथमभाग उपात्तः । तस्य तावत्तात्पर्यमाह- एता वा एतदकुर्वत यथायथैतद्यज्ञस्य० कृत्स्नं करोतीति । ‘देव्यो वभ्र्यः’ ‘इति’ याः वमनशीलाः उपदीकाः प्रतिपाद्यंते । ‘एताः’ खलु पुरा ‘एतत्’ कर्म ‘अकुर्वत’ । ‘यथायथा’ येनयेन प्रकारेण ‘यज्ञस्यैतच्छिरः अच्छिद्यत’ छिन्नमभवत् । एवमेतत् कर्म ज्याभक्षणरूपं कृतवत्यः इत्यर्थः । अतस्ताभिरेव ‘एनं’ प्रवर्ग्यं ‘एतत् समर्द्धयति’ । अन्यत् पूर्ववत् योज्यम् । द्वितीयभागमनूद्य व्याचष्टे- भूतस्य प्रथमजा इति । इयं वै पृथिवी भूतस्य० कृत्स्नं करोतीति । ‘इथं’ खलु ‘पृथिवी’ स्वकार्यस्य प्राणिजातस्य ‘प्रथमजा’ कारणत्वेन प्रथमं पुरस्ताज्जाता । तत्संबंधात् वभ्र्यो ऽपि मंत्रे प्रथमजा इत्युच्यंते । तत्तथा च ‘अनयैव’ पृथिव्या ‘एनं’ प्रवर्ग्यमेव समर्द्धयति । व्याख्यातमन्यत् । अथ तृतीयभागमनूद्य पूर्वव्याख्यातत्वेन पुनर्व्याख्याननैरपेक्ष्यात् तात्पर्यलभ्यमर्थमाह- मखस्य वो ऽद्य शिरो० इत्यसावेव बंधुरिति । हे ‘वभ्र्यः’ ‘वः’ युष्माकं संबंधिन्या वल्मीकमृत्तिकया इत्येतावान् तत्र विशेषः । अन्यत् सर्वं पूर्वमंत्रब्राह्मणे व्याख्यातम् । ‘मखस्य शीर्ष्णे’ इति समवेतार्थप्रकाशत्वात् ‘असावेव’ मंत्रः ‘बंधुः’ तस्य छिन्नस्य यज्ञशिरसो बन्धकः ॥ १० ॥

Eggeling
  1. Then an ant-hill 18 (he takes, and puts on the skin), with (Vāj. S. XXXVII, 4), ‘Ye divine ants,’–for it was they that produced this: just in accordance with the way in which the head of the sacrifice was there cut off, he now supplies and completes it with those (ants);–’the firstborn of the world,’–the firstborn of the world, doubtless, is this earth 19: it thus is therewith that

he supplies and completes it;–‘may I this day compass for you Makha’s head on the Earth’s place of divine worship:–for Makha thee! for Makha’s head thee!’–the import of this is the same as before.

११

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ व्वराह᳘विहतम्॥
(मि᳘) इ᳘यत्य᳘ग्ग्र ऽआसीदिती᳘यती ह वा᳘ ऽइयम᳘ग्ग्रे पृथि᳘व्यास प्प्रादेशमात्री ता᳘मे मूष ऽइ᳘ति व्वराह ऽउ᳘ज्जघान᳘ सो ऽस्याः प᳘तिः प्रजा᳘पतिस्ते᳘नै᳘वैनमेत᳘न्मिथुने᳘न प्रिये᳘ण धा᳘म्ना स᳘मर्द्धयति कृत्स्न᳘ङ्करोति मख᳘स्य ते ऽद्य शि᳘रो राद्ध्यासन्देवय᳘जने पृथिव्या᳘ मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण ऽइ᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ व्वराह᳘विहतम्॥
(मि᳘) इ᳘यत्य᳘ग्ग्र ऽआसीदिती᳘यती ह वा᳘ ऽइयम᳘ग्ग्रे पृथि᳘व्यास प्प्रादेशमात्री ता᳘मे मूष ऽइ᳘ति व्वराह ऽउ᳘ज्जघान᳘ सो ऽस्याः प᳘तिः प्रजा᳘पतिस्ते᳘नै᳘वैनमेत᳘न्मिथुने᳘न प्रिये᳘ण धा᳘म्ना स᳘मर्द्धयति कृत्स्न᳘ङ्करोति मख᳘स्य ते ऽद्य शि᳘रो राद्ध्यासन्देवय᳘जने पृथिव्या᳘ मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण ऽइ᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - Weber

अ᳘थ वराह᳘विहतम् 20
इ᳘यत्य᳘ग्र आसीदिती᳘यती ह वा᳘ इयम᳘ग्रे॥
पृथिॗव्यास प्रादेशमात्री ता᳘मेमूष इ᳘ति वराह उ᳘ज्जघानॗ सोऽस्याः प᳘तिः प्रजा᳘पतिस्ते᳘नैॗवैनमेत᳘न्मिथुने᳘न प्रिये᳘ण धा᳘म्ना स᳘मर्धयति कृत्स्नं᳘ करोति मख᳘स्य तेऽद्य शि᳘रो राध्यासं देवय᳘जने पृथिव्या᳘ मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण इ᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - विस्वरम्

अथ वराहविहतम् । “इयत्यग्र आसीत्”- इति । इयती ह वा इयमग्रे पृथिव्यास प्रादेशमात्री । ताम् ए मूष इति वराह उज्जघान । सो ऽस्याः पतिः प्रजापतिः । तेनैवैनमेतन्मिथुनेन प्रियेण धाम्ना समर्द्धयति । कृत्स्नं करोति । “मखस्य ते ऽद्य शिरो राध्यासं देवयजने पृथिव्याः, मखाय त्वा मखस्य त्वा शीर्ष्णे”- (वा. सं. ३७ । ५) इति । असावेव बंधुः ॥ ११ ॥

सायणः

अथ संभारांतरस्याहरणं विधत्ते- अथ 21 वराहविहतमियत्यग्र ऽआसीदितीति । ‘अथ’ वल्मीकवपासंभरणानंतरं ‘वराहविहतं’ वराहेण खातं मृत्पिंडं “इयत्यग्र ऽआसीत्” इति मंत्रेण आहृत्य उत्तरतः कृष्णाजिने निदध्यात् । अस्मिन् मंत्रभागे इयतीशब्दसूचितमर्थं प्रदर्शयन् अस्य मंत्रभागस्य प्रकृते संगतिमाह- इयती ह वा० कृत्स्नं करोतीति । इयतीति प्रादेशमात्रस्याभिनयेन प्रदर्शनम् । इदं परिमाणं अस्याः इयती । तस्य व्याख्यानं- प्रादेशमात्रीति । अयमर्थः- ‘अग्रे’ सृष्टेः प्राक्काले या उदकमध्ये कृत्स्ना पृथिवी निमग्ना आसीत् ‘तां’ प्रजापतिः ‘वराहः’ भूत्वा, दंष्ट्राभ्यां उद्धृतवान् । इत्याख्याता । अतः तत्यां अवस्थायां ‘इयं’ दृश्यमाना सर्वा पृथिवी तद्दंष्ट्राग्रप्रोता ‘इयती ह वै’ इयती खलु प्रादेशमात्रपरिमितैव आसीत् । ‘तां’ तथावस्थितां पृथिवीं वराहरूपः प्रजापतिः ‘उज्जघान’ उद्धृतां जलमध्यात् समुद्धृतां कृतवान् । किं ब्रुवन् ? ए मूष इतीति । ‘ए’ अरे पृथिवि ! ‘मूषः’ अमुष्याः स्तेयकादिवत् त्वं अदृश्या भवसि इति वदन्, स च वराहरूपः प्रजापतिः ‘अस्याः’ पृथिव्याः ‘पतिः’ भर्ता । अतः ‘तेन’ महीवराहरूपेण ‘मिथुनेनैव’ ‘एतत्’ एतर्हि ‘एनं’ प्रवर्ग्यं ‘प्रियेण धाम्ना’ इष्टतमेन तेजसा ‘समर्द्धयति’ । ततश्च यज्ञमपि संपूर्णावयवं कृतवान् भवति । हे ‘पृथिवि !’ त्वं ‘अग्रे’ वराहेण उद्धरणसमये ‘इयती’ एतत्परिमाणा, प्रादेशमात्रपरिमितैव आसीः । अत एवं विशिष्टार्थस्य प्रतिपादकत्वात् अयं मंत्रभागो वराहविहतसंभरणे संगत इत्यर्थः । मन्त्रशेषं पूर्ववत् अनूद्य तात्पर्यमाह- मखस्य ते ऽद्य० बंधुरिति । हे ‘पृथिवि !’ ‘ते’ तव सम्बन्धिना वराहविहतनेति शेषः । शिष्टं सिद्धम् ॥ ११ ॥

Eggeling
  1. Then (earth) torn up by a boar (he takes), with (Vāj. S. XXXVII, 5), ‘Only thus large was she in the beginning,’–for, indeed, only so large was this earth in the beginning, of the size of a span. A boar, called Emūsha, raised her up, and he was her lord Prajāpati: with that mate, his heart’s delight, he thus supplies and completes him 22;–‘may I this day compass for you Makha’s head on the Earth’s place of divine worship: for Makha thee! for Makha’s head thee!’ the import of this is the same as before.

१२

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थादारान्॥
(नि᳘) इ᳘न्द्रस्यौ᳘ज स्थे᳘ति य᳘त्र वा᳘ ऽएनमि᳘न्द्र ऽओ᳘जसा पर्य्य᳘गृह्णात्त᳘दस्य प᳘रिगृहीतस्य र᳘सो व्व्यक्षरत्स पू᳘यन्निवाशेत᳘ सो ऽब्रवीदादी᳘र्य्येव बत म ऽएष र᳘सो ऽस्रौषीदि᳘ति त᳘स्मादादारा ऽअ᳘थ यत्पू᳘यन्निवा᳘शेत त᳘स्मात्पूती᳘कास्त᳘स्मादग्नावा᳘हुतिरिवाभ्या᳘हिता ज्वलन्ति त᳘स्मादु सुरभ᳘यो यज्ञ᳘स्य हि र᳘सात्सं᳘भूता ऽअ᳘थ य᳘देनन्तदि᳘न्द्र ऽओ᳘जसा पर्य्य᳘गृह्णात्त᳘स्मादाहे᳘न्द्रस्यौ᳘ज स्थे᳘ति मख᳘स्य वो ऽद्य शि᳘रो राद्ध्यासन्देवय᳘जने पृथिव्या᳘ मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण ऽइ᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थादारान्॥
(नि᳘) इ᳘न्द्रस्यौ᳘ज स्थे᳘ति य᳘त्र वा᳘ ऽएनमि᳘न्द्र ऽओ᳘जसा पर्य्य᳘गृह्णात्त᳘दस्य प᳘रिगृहीतस्य र᳘सो व्व्यक्षरत्स पू᳘यन्निवाशेत᳘ सो ऽब्रवीदादी᳘र्य्येव बत म ऽएष र᳘सो ऽस्रौषीदि᳘ति त᳘स्मादादारा ऽअ᳘थ यत्पू᳘यन्निवा᳘शेत त᳘स्मात्पूती᳘कास्त᳘स्मादग्नावा᳘हुतिरिवाभ्या᳘हिता ज्वलन्ति त᳘स्मादु सुरभ᳘यो यज्ञ᳘स्य हि र᳘सात्सं᳘भूता ऽअ᳘थ य᳘देनन्तदि᳘न्द्र ऽओ᳘जसा पर्य्य᳘गृह्णात्त᳘स्मादाहे᳘न्द्रस्यौ᳘ज स्थे᳘ति मख᳘स्य वो ऽद्य शि᳘रो राद्ध्यासन्देवय᳘जने पृथिव्या᳘ मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण ऽइ᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - Weber

अ᳘थादारान्॥
इ᳘न्द्रस्यौ᳘ज स्थे᳘ति य᳘त्र वा एनमि᳘न्द्र ओ᳘जसा पर्य᳘गृह्णात्त᳘दस्य प᳘रिगृहीतस्य र᳘सो व्यक्षरत्स पू᳘यन्निवाशेतॗ सोऽब्रवीदादी᳘र्येव बत 23 म एष र᳘सोऽस्तौषीदि᳘ति त᳘स्मादादारा अ᳘थ यत्पू᳘यन्निवा᳘शेत त᳘स्मात्पूती᳘कास्त᳘स्मादग्नावा᳘हुतिरिवाभ्या᳘हिता ज्वलन्ति त᳘स्मादु सुरभ᳘यो यज्ञ᳘स्य हि र᳘सात्स᳘म्भूता अ᳘थ य᳘देनं तदि᳘न्द्र ओ᳘जसा पर्य᳘गृह्णात्त᳘स्मादाहे᳘न्द्रस्यौ᳘ज स्थे᳘ति मख᳘स्य वोऽद्य शि᳘रो राध्यासं देवय᳘जने पृथिव्या᳘ मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण इ᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - विस्वरम्

अथादारान्- “इंद्रस्यौजः स्थ”- इति । यत्र वा एनमिंद्र ओजसा पर्यगृह्णात् । तदस्य परिगृहीतस्य रसो व्यक्षरत् । स पूयन्निवाशेत । सो ऽब्रवीत् । आदीर्येव बत म एष रसो ऽस्रौषीदिति । तस्मादादाराः । अथ यत्पूयन्निवाशेत । तस्मात्पूतीकाः । तस्मादग्नावाहुतिरिवाभ्याहिता ज्वलन्ति । तस्मादु सुरभयः । यज्ञस्य हि रसात्संभूताः । अथ यदेनं तदिन्द्र ओजसा पर्यगृह्णात् । तस्मादाह । “इंद्रस्यौजः स्थ”- इति । “मखस्य वो ऽद्य शिरो राध्यासं देवयजने पृथिव्याः, मखाय त्वा मखस्य त्वा शीर्ष्णे”- (वा. सं. ३७ । ६) इति । अतावेव बंधुः ॥ १२ ॥

सायणः

अथ पूतीकरससंभाराहरणं 24 विधत्ते- अथादारानिन्द्रस्यौजः स्थेतीति । ‘अथ’ वराहविहतसंभरणानंतरं ‘आदारान्’ आदीर्यावस्थितान् पूतीकशब्दाभिधेयान् सोमप्रतिनिधित्वेन चोदितान् लताविशेषान् “इंद्रस्यौजः स्थ” इति मंत्रेण संभृत्य कृष्णाजिने निदधाति । हे पूतीकाः ! ‘इंद्रस्य’ ‘ओजः’ बलं ‘स्थ’ भवथेति । कथं एतेषां इंद्रसंबंध्योजोरूपता इत्याशंक्य तत् उपपादयितुमाह- यत्र वा एनं तदिन्द्र ओजसा० संभूता इति । ‘तत्’ तदानीं ‘यत्र’ यस्मिन् देशे खलु ‘एनं’ पलायमानं विष्ण्वात्मकं यज्ञं ‘इंद्रः ओजसा’ बलेन ‘पर्यगृह्णात्’ परिगृहीतवान् । ‘तत्’ तत्र परिगृहीतस्य स्वीकृतस्य ‘अस्य’ यज्ञस्य ‘रसः’ सारः ‘व्यक्षरत्’ विविधक्षरणेन भूमिं प्राप्नोत् । ‘सः’ च रसः तत्र ‘पूयन्निव’ रसांतरं प्राप्तं पर्युषितं ओदनादिकमिव विरसो भवन् इव ‘अशेत’ अतिष्ठत् । एवं स्थिते ‘सः’ इंद्रः ‘अब्रवीत्’ । ‘बत’ इति खेदे । ‘मे’ मदीयः ‘एषः’ यज्ञरसः ‘आदीर्येव’ विभिद्येव ‘अस्रौषीत्’ स्रुतो ऽभूत् । यथा उदकपूर्णपात्रं विभिन्नं सत् स्रवति एवं एषः यज्ञरसो ऽपि स्रुतः इति खेदं प्राप्तवानित्यर्थः । ‘इति’ हेतौ । यस्मात् एवमुक्तवान् ‘तस्मात्’ एते लताविशेषाः ‘आदारा’ इत्युच्यते । ‘अथ’ स्रवणानंतरं ‘यत्’ यस्मात् ‘पूयन्निव’ ‘अशेत’ ‘तस्मात् पूतीका’ पूतीकशब्दाभिधेयाश्च । यस्मात् एते यज्ञरसात् जाताः । तस्मादेव कारणात् अग्नौ प्रक्षिप्ताहुतिवत् होमसाधनं आज्यादिद्रव्यमिव ‘अभ्याहिताः’ ‘अग्नौ’ प्रक्षिप्ताः ‘ज्वलंति’ । तस्मादेव कारणात् एताः ‘सुरभयः’ सुगंधयुक्ताः । ‘हि’ यस्मात् इमे उक्तप्रकारेण ‘यज्ञस्य रसात् संभूताः’ उत्पन्नाः । यत एवं पुरावृत्तम्, अतः पूतीकाहरणे अयमेव मंत्रो वक्तव्यः इत्याह- अथ यदेनं तदिन्द्र ओजसा० स्यौजः स्थेतीति । ‘अथ’ एवं सति यद्यस्मात् ‘एनं’ रसात्मना स्रुतं यज्ञं ‘इंद्रः ओजसा पर्यगृह्णात्’ तत्तस्मात् तत्परिणामरूपाणां पूतीकानां संभरणे इंद्रस्यौजः स्थेति मन्त्रं अध्वर्युः ‘आह’ ब्रूयात् । यद्वा “इंद्रस्यौजः स्थेति” अयं मंत्रः अमुमर्थमाह प्रतिपादयति इति योज्यम् । अथ पूर्ववत् मंत्रशेषं पठित्वा छिन्नस्य यज्ञशिरसः संबंधहेतुत्वमाह- मखस्य वो ऽद्य शिरो० बंधुरिति । पूर्ववत् व्याख्येयम् ॥ १२ ॥

Eggeling
  1. Then Ādāra 25 (-plants), with (Vāj. S. XXXVII, 6), ‘Indra’s might ye are,’–for when Indra encompassed him (Vishṇu) with might, then the vital sap of him, thus encompassed, flowed away; and he lay there stinking, as it were. He said, ‘Verily, after bursting open (ā-dar), as it were, this vital sap has sung praises:’ thence Ādāra (-plants originated); and because he lay there stinking (pūy), as it were, therefore (they are also called) Pūtīka; and hence, when placed on the fire

as an offering, they blaze; and hence also they are fragrant, for they originated from the vital sap of the sacrifice. And inasmuch as Indra, on that occasion, encompassed him with might, therefore he says, ‘Indra’s might ye are;’–‘may I this day compass for you Makha’s head on the Earth’s place of divine worship: for Makha thee! for Makha’s head thee!’ the import of this is the same as before.

१३

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थाजाक्षीर᳘म्॥
(रं) यज्ञ᳘स्य शीर्षच्छिन्न᳘स्य शुगु᳘दक्रामत्त᳘तो ऽजा स᳘मभवत्त᳘यै᳘वैनमेत᳘च्छुचा स᳘मर्द्धयति कृत्स्न᳘ङ्करोति मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण ऽइ᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थाजाक्षीर᳘म्॥
(रं) यज्ञ᳘स्य शीर्षच्छिन्न᳘स्य शुगु᳘दक्रामत्त᳘तो ऽजा स᳘मभवत्त᳘यै᳘वैनमेत᳘च्छुचा स᳘मर्द्धयति कृत्स्न᳘ङ्करोति मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण ऽइ᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - Weber

अ᳘थाजाक्षीर᳘म्॥
यज्ञ᳘स्य शीर्षछिन्न᳘स्य शुगु᳘दक्रामत्त᳘तोऽजा स᳘मभवत्त᳘यैॗवैनमेत᳘छुचा स᳘मर्धयति कृत्स्नं᳘ करोति मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण इ᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - विस्वरम्

अथाजाक्षीरम् । यज्ञस्य शीर्षच्छिन्नस्य शुमुदक्रामत् । ततो ऽजा समभवत् । तयैवैनमेतच्छुचा समर्द्धयति । कृत्स्नं करोति । “मखाय त्वा मखस्य त्वा शीर्ष्णे”- (वा. सं. ३७ । ६) इति । असावेव बंधुः ॥ १३ ॥

सायणः

अथ यदुक्तं कात्यायनेन- “मखायेति पयः” “तूष्णीं गवेधुकाः” (का. श्रौ. सू. २६ । १० । ११) इति तदेतत् विदधाति- अथाजाक्षीरमिति । ‘अथ’ पूतीकसंभरणानंतरं ‘अजाक्षीरं’ अजश्छागः तस्य स्त्री अजा तस्याः क्षीरं पयः “मखाय त्वा” इत्यादिना मंत्रेण संभृत्य कृष्णाजिनस्थे मृत्पिण्डे अवनयेत् । अथास्य प्रवर्ग्यसंबंधार्थतामाह- यज्ञस्य शीर्षच्छिन्नस्य० कृत्स्नं करोतीति । ‘शीर्षच्छिन्नस्य’ छिन्नशिरस्कस्य ‘यज्ञस्य’ ‘शुक्’ शोकः ‘उदक्रामत्’ तस्माच्छरीरान्निरगात् । ‘ततः’ तस्याः शुचः सकाशात् ‘अजा समभवत्’ संभूता । तत्पयसः अवनयने सति ‘एतत्’ एतर्हि यथा प्रागुक्तं ‘तथैव’ शुचा ‘एनं समर्द्धयति’ । ततो यज्ञमपि संपूर्णावयवं कृतवान् भवति । अथ पयःसंभरणमंत्रं विधाय तात्पर्यमाह- मखाय त्वा० बंधुरिति । मखाय त्वेत्यनेन मंत्रेण अजाक्षीरस्य संभरणं कार्यमित्यर्थः । अन्यत्पूर्ववत् ॥ १३ ॥

Eggeling
  1. Then goat’s milk;—for when the sacrifice had its head cut off, its heat went out of it, wherefrom the goat was produced: it is with that heat 26 that he thereby supplies and completes it;–with, ‘For Makha thee! for Makha’s head thee!’ the import of this is the same as before.

१४

विश्वास-प्रस्तुतिः

(स्ता) तान्वा᳘ ऽएतान्प᳘ञ्च सम्भारान्स᳘म्भरति॥
पा᳘ङ्क्तो यज्ञः पा᳘ङ्क्तः पशुः प᳘ञ्चर्त्त᳘वः सम्वत्सर᳘स्य सम्वत्सर᳘ ऽएष य᳘ ऽएष त᳘पत्येष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति तान्त्स᳘म्भृतानभि᳘मृशति मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण ऽइ᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - श्रीधरादि

(स्ता) तान्वा᳘ ऽएतान्प᳘ञ्च सम्भारान्स᳘म्भरति॥
पा᳘ङ्क्तो यज्ञः पा᳘ङ्क्तः पशुः प᳘ञ्चर्त्त᳘वः सम्वत्सर᳘स्य सम्वत्सर᳘ ऽएष य᳘ ऽएष त᳘पत्येष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति तान्त्स᳘म्भृतानभि᳘मृशति मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण ऽइ᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - Weber

तान्वा᳘ एतान्प᳘ञ्च सम्भारान्स᳘म्भरति॥
पा᳘ङ्क्तो यज्ञः पा᳘ङ्क्तः पशुः प᳘ञ्चर्त᳘वः सम्वत्सर᳘स्य सम्वत्सर᳘ एष य एष त᳘पत्येष᳘ उ प्रव᳘र्ग्यस्त᳘देत᳘मेॗवैत᳘त्प्रीणाति तान्त्स᳘म्भृतानभि᳘मृशति मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण इ᳘त्यसा᳘वेव ब᳘न्धुः॥

मूलम् - विस्वरम्

तान्वा एतान्पंच संभारान्त्संभरति । पाङ्क्तो यज्ञः । पाङ्क्तः पशुः । पंचर्तवः संवत्सरस्य । संवत्सर एषः । य एष तपति । एष उ प्रवर्ग्यः । तदेतमेवैतत्प्रीणाति । तान्संभृतानभिमृशति- “मखाय त्वा मखस्य त्वा शीर्ष्णे”- (वा. सं. ३७ । ६) इति । असावेव बंधुः ॥ १४ ॥

सायणः

अथ एतान् मृदादिसंभारान् विहितान् संहत्य स्तौति- तान्वा ऽएतान्पञ्च संभारान्० प्रीणातीति । ‘तान्’ पूर्वोक्तान् खलु एतान्मृद्वल्मीकवपादीन्पञ्च ‘संभारान् संभरति’ न तु चतुरः षड् वा । कुतः ? ‘यज्ञः पाङ्क्तो वै’ पङ्क्तिशब्देन छंदोवाचिना पादगता पंचसंख्या लक्ष्यते । पंचसंख्यासंबद्धः खलु, देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञ इति पांचविध्यदर्शनात् । यद्वा धानाः करंभः परिवापः पुरोडाशः पयस्या चेति पंचहविर्योगात् यज्ञस्य पांक्तत्वम् । इष्टिपशुदर्वीहोमैकाहाहीनभेदेन वा । तथा गवाद्याः पशवश्च पाङ्क्ताः पंचसंख्यासंबद्धाः, पादचतुष्टयमध्यदेशभेदेन । तस्मात् संभारगता पंचसंख्या यज्ञार्हपशुप्राप्तिहेतुः इत्यर्थः । अपि च संवत्सरस्य द्वादशमासात्मकस्य वसंताद्याः ‘पञ्चर्तवः’ हेमंतशिशिरयोः समासेन । स च ‘संवत्सरः’ ‘एषः’ दृश्यमानः सूर्यः । ‘य एषः’ दिवि ‘तपति’ सर्वं जगत्प्रकाशयति । ‘एषः’ एव प्रवर्ग्यः । प्रवर्ग्याख्यस्य छिन्नस्य यज्ञशिरसः सूर्यात्मना परिणामस्य प्राक् दर्शितत्वात् । एवं पारंपर्येण तत्तस्मात् एतमेव प्रवर्ग्यं पंचसंख्यया ‘एतत्’ एतर्हि ‘प्रीणाति’ । अथ एकस्मिन् कृष्णाजिने संभृतानां संभाराणां समंत्रकमभिमर्शनं 27 विधत्ते- तान्त्संभृतानभिमृशति० बंधुरिति । ‘तान् संभृतान्’ कृष्णाजिने समूहीकृत्य स्थापितान् मृदादिसंभारान् ‘अभिमृशति’ अभितः सर्वतः स्पृशति मखाय त्वेति मंत्रेण । गतमन्यत् ॥ १४ ॥

Eggeling
  1. These, then, are the five equipments with which he equips (the Pravargya),–fivefold is the sacrifice, and fivefold the victims, and five seasons are in the year, and the year is he that shines yonder, and the Pravargya also is that (sun): it is him he thus gratifies. These (objects), thus brought together, he touches with, ‘For Makha (I consecrate) thee! for Makha’s head thee!’ the import of this is the same as before.

१५

विश्वास-प्रस्तुतिः

(र᳘) अथो᳘त्तरतः प᳘रिश्रितम्भवति॥
त᳘दभिप्रय᳘न्तो जपन्ति प्रै᳘तु ब्र᳘ह्मणस्प᳘तिरि᳘त्येष वै ब्र᳘ह्मणस्प᳘तिर्य्य᳘ ऽएष त᳘पत्येष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह प्रै᳘तु ब्र᳘ह्मणस्प᳘तिरि᳘ति प्र᳘ दे᳘व्येतु सूनृते᳘ति देवी᳘ ह्येषा᳘ सूनृता᳘ ऽच्छा व्वीरन्न᳘र्य्यं पङ्क्ति᳘राधसमित्यु᳘पस्तौत्ये᳘वैनमेत᳘न्मह᳘यत्येव[[!!]] देवा᳘ यज्ञ᳘न्नयन्तु न ऽइ᳘ति स᳘र्व्वाने᳘वास्मा ऽएत᳘द्देवा᳘नभिगोप्तॄ᳘न्करोति॥

मूलम् - श्रीधरादि

(र᳘) अथो᳘त्तरतः प᳘रिश्रितम्भवति॥
त᳘दभिप्रय᳘न्तो जपन्ति प्रै᳘तु ब्र᳘ह्मणस्प᳘तिरि᳘त्येष वै ब्र᳘ह्मणस्प᳘तिर्य्य᳘ ऽएष त᳘पत्येष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह प्रै᳘तु ब्र᳘ह्मणस्प᳘तिरि᳘ति प्र᳘ दे᳘व्येतु सूनृते᳘ति देवी᳘ ह्येषा᳘ सूनृता᳘ ऽच्छा व्वीरन्न᳘र्य्यं पङ्क्ति᳘राधसमित्यु᳘पस्तौत्ये᳘वैनमेत᳘न्मह᳘यत्येव[[!!]] देवा᳘ यज्ञ᳘न्नयन्तु न ऽइ᳘ति स᳘र्व्वाने᳘वास्मा ऽएत᳘द्देवा᳘नभिगोप्तॄ᳘न्करोति॥

मूलम् - Weber

अथो᳘त्तरतः प᳘रिश्रितम् भवति॥
त᳘दभिप्रय᳘न्तो जपन्ति प्रै᳘तु ब्र᳘ह्मणस्प᳘तिरि᳘त्येष वै ब्र᳘ह्मणस्प᳘तिर्य᳘ 28 एष त᳘पत्येष᳘ उ प्रव᳘र्ग्यस्त᳘देत᳘मेॗवैतत्प्रीणाति त᳘स्मादाह प्रै᳘तु ब्र᳘ह्मणस्प᳘तिरि᳘ति प्र᳘देॗव्येतु सूनृते᳘ति देवी ह्येषा᳘ सूनृताछा वीरं न᳘र्यम् पङ्क्ति᳘राधसमित्यु᳘पस्तौत्येॗवैनमेत᳘न्मह᳘यत्येव᳘ 29 देवा᳘ यज्ञं᳘ नयन्तु न इ᳘ति स᳘र्वानेॗवास्मा एत᳘द्देवा᳘नभिगोप्तॄ᳘न्करोति॥

मूलम् - विस्वरम्

अथोत्तरतः परिश्रितं भवति । तदभिप्रयंतो जपंति- “प्रैतु ब्रह्मणस्पतिः”- इति । एष वै ब्रह्मणस्पतिः । य एष तपति । एष उ प्रवर्ग्यः । तदेतमेवैतत्प्रीणाति । तस्मादाह- “प्रैतु ब्रह्मणस्पतिः”- इति । “प्र देव्येतु सूनृता”- इति । देवी ह्येषा सूनृता । अच्छा वीरं नर्यं पंक्तिराधसम्”- इति । उपस्तौत्येवैनमेतत् महयत्येव । “देवा यज्ञं नयंतु नः”- (वा. सं. ३७ । ७) इति । सर्वानेवास्मा एतद्देवानभिगोप्तॄन्करोति ॥ १५ ॥

सायणः

अथ महावीरादिनिर्माणाय देवयजनस्योत्तरतः परिश्रितं भवतीत्याह- अथोत्तरतः परिश्रितं भवतीति । अथेत्यानंतर्ये । एवं संभाराहरणानंतरं ‘उत्तरतः’ देवयजनस्योत्तरस्यां दिशि ‘परिश्रितं’ कटादिभिः सर्वतो वेष्टितं स्थानं कुर्यात् । अथ तं देशं प्रति संभाराणां समंत्रकमानयनं विधत्ते- तदभिप्रयन्तो जपन्ति प्रैतु ब्रह्मणस्पतिरिति । ‘तत्’ परिश्रितं स्थानं संभारैः सह ‘अभिप्रयन्तः’ अभिगच्छन्तः प्रवर्ग्यकर्तारः “प्रैतु ब्रह्मणस्पतिः” इति । इमं मन्त्रं ‘जपन्ति’ । तदेतत् स्पष्टीकृतं सूत्रकारेण- “कृष्णाजिनं परिगृह्योत्तरतः परिवृतं गच्छन्ति प्रैतु ब्रह्मणस्पतिरिति” (का. श्रौ. सू. २६ । १३) । अथ एतस्य मन्त्रभागस्य तात्पर्यमाह- एष वै ब्रह्मणस्पति० तत्प्रीणातीति । ‘एष वै’ दृश्यमान एव सूर्यः मन्त्रप्रतिपाद्यो ब्रह्मणस्पतिः ब्रह्मणो वेदस्य पतिः इति तच्छब्दव्युत्पत्तेः । सूर्यस्य च त्रयीमयत्वात् तत्पतित्वं प्रसिद्धम् । अन्यत् पूर्ववत् योज्यम् । एवं समवेतार्थत्वात् अयं मन्त्रः प्रवर्ग्यप्रयोज्यः इति निगमयति- तस्मादाह प्रैतु ब्रह्मणस्पतिरितीति । अथ द्वितीयभागमनूद्य प्रसिद्ध्या व्याचष्टे- प्र देव्येतु सूनृतेति । ‘एषा’ प्रसिद्धा ‘सूनृता’ प्रियसत्यात्मिका वाग् ‘देवी हि’ खलु अस्मिन्मन्त्रभागे देवी सूनृता इति प्रतिपाद्यते । सा च सूनृता ‘देवी’ ‘प्रैतु’ प्रगच्छतु इति मन्त्रार्थः । अथ तृतीयभागमनूद्य व्याचष्टे- अच्छा वीरन्नर्यं० तन्महयत्येवेति । अस्य भागस्यायमर्थः । ‘वीरं’ शूरं,‘नर्यं’ नरेभ्यो हितं ‘पङ्क्तिराधसं’ पंक्तिशो निविष्टधनयुक्तं यज्ञम् । इत्येवं गुणिनिष्ठगुणकीर्तनात् अनेन भागेन ‘एनं’ प्रवर्ग्यं ‘उपस्तौत्येव’ उपश्लोकयत्येव । ‘एतत्’ एतेन च उपस्तवनेन ‘तं महयति’ पूजयत्येव । अथ चतुर्थभागमनूद्य व्याचष्टे- देवा यज्ञं नयंतु न इति । सर्वानेवास्मा एतद्देवानभिगोप्तॄन्करोतीति । अस्य मन्त्रभागस्यायमर्थः । अविशेषात्, सर्वे ‘देवाः’ पूर्वोक्तगुणविशिष्टं यज्ञावयवं प्रवर्ग्यं ‘नः’ अस्मान् ‘नयंतु’ प्रापयन्तु । इत्यनेन मन्त्रभागेन अस्मै षष्ठ्यर्थे चतुर्थी (पा. सू. २ । ३ । ६२ । वा.) इति । अस्य प्रवर्ग्यस्य ‘सर्वानेव’ एतान् ‘देवान्’ ‘अभिगोप्तॄन्’ अभितो रक्षकान् ‘करोति’ ॥ १५ ॥

Eggeling
  1. Now there is an enclosed space 30 on the north

side: whilst proceeding towards that (shed) they mutter (Vāj. S. XXXVII, 7; Rig-v. I, 40, 3), ‘May Brahmaṇaspati go forward!’–Brahmaṇaspati (the lord of devotion) doubtless is he that shines yonder, and the Pravargya also is that one: it is him he thus gratifies; hence he says, ‘May Brahmaṇaspati go forward;’–‘may the goddess Gladness go forward!’–for the goddess Gladness she (Vāc 31) is;–‘unto the hero 32, kindly to men and the dispenser of fivefold (offerings),’–he thereby praises and magnifies it (the Pravargya),–‘unto the sacrifice may the gods lead us!’–he thereby makes all the gods its guardians.

१६

विश्वास-प्रस्तुतिः

प᳘रिश्रितम्भवति॥
(त्ये᳘) एतद्वै᳘ देवा᳘ ऽअबिभयुर्य्यद्वै᳘ न ऽइम᳘मिह र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘स्मा ऽएताम्पुरम्प᳘र्य्यश्रयंस्त᳘थै᳘वास्मा ऽअय᳘मेताम्पु᳘रम्प᳘रिश्रयति॥

मूलम् - श्रीधरादि

प᳘रिश्रितम्भवति॥
(त्ये᳘) एतद्वै᳘ देवा᳘ ऽअबिभयुर्य्यद्वै᳘ न ऽइम᳘मिह र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘स्मा ऽएताम्पुरम्प᳘र्य्यश्रयंस्त᳘थै᳘वास्मा ऽअय᳘मेताम्पु᳘रम्प᳘रिश्रयति॥

मूलम् - Weber

प᳘रिश्रितम् भवति॥
एतद्वै᳘ देवा᳘ अबिभयुर्यद्वै᳘ न इम᳘मिह र᳘क्षांसि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘स्मा एताम् पु᳘रम् प᳘र्यश्रयंस्त᳘थैॗवास्मा अय᳘मेताम् पु᳘रम् प᳘रिष्रयति॥

मूलम् - विस्वरम्

परिश्रितं भवति । एतद्वै देवा अबिभयुः । यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति । तस्मा एतां पुरं पर्यश्रयन् । तथैवास्मा अयमेतां पुरं परिश्रयति ॥ १६ ॥

सायणः

अथ पूर्वोक्तं यत् उत्तरतः परिश्रयणं तत् अनूद्य उपपादयति- परिश्रितं भवति, एतद्वै देवा अबिभयुः० परिश्रयतीति । देवयजनस्य उत्तरतः ‘परिश्रितं’ कटादिभिः परिवेष्टितं स्थानं ‘भवति’ । किमर्थं तस्य परिश्रयणं ? इति चेत् उच्यते- ‘एतर्द्व’ एतस्मिन् खलु समये पुरा सत्रमासीना देवाः ‘अबिभयुः’ यज्ञविघातकात् रक्षसो निमित्तात् भीतवंतः । ‘यद्वै’ यस्मिन् खलु ‘इह’ अस्मिन् स्थाने ‘नः’ अस्मदीयं ‘इमं’ प्रवर्ग्यं ‘रक्षांसि’ यज्ञविघातिनो राक्षसाः ‘नाष्ट्राः’ नाशकारिण्यः तत्सेनाश्च ‘न हन्युः’ न हिंस्युः इति मन्वानाः ‘तस्मै’ प्रवर्ग्याय, तेभ्यो रक्षणार्थं ‘एतां’ देवयजनस्य उत्तरदिगवस्थितां ‘पुरं’ निवासभूमिं ‘पर्यश्रयन्’ पर्यवेष्टयन् रक्षःप्रभृतीनां तिरोधानाय । यथैव देवा अकुर्वन् ‘तथैव’ ‘अयं’ अद्यतनो ऽपि यजमानः अध्वर्युर्वा ‘अस्मै’ प्रवर्ग्याय रक्षःप्रभृतिभ्यो रक्षणार्थं ‘एतां पुरं परिश्रयति’ परिवेष्टयति ॥ १६ ॥

Eggeling
  1. It is an enclosed space;–for at that time the gods were afraid, thinking, ‘We hope that the fiends, the Rakshas, will not injure here this our (Pravargya):’ they accordingly enclosed for it this stronghold, and in like manner does this (Sacrificer) now enclose for it this stronghold.

१७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ ख᳘रे सादयति॥
मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण ऽइ᳘त्यसा᳘वेव ब᳘न्धुर᳘थ प्र᳘यौति मखा᳘य त्वा शीर्ष्ण ऽइ᳘त्यसा᳘वेव ब᳘न्धुर᳘थ मृत्पिण्ड᳘मपादा᳘य महावीर᳘ङ्करोति मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण ऽइ᳘त्यसा᳘वेव ब᳘न्धुः प्रादेशमात्र᳘म्प्रादेशमात्र᳘मिव हि शि᳘रो म᳘ध्ये स᳘ङ्गृहीतं मध्ये[[!!]] स᳘ङ्गृहीत᳘मिव हि शिरो᳘ ऽथास्योप᳘रिष्टात्त्र्यङ्गुलं मु᳘खमु᳘न्नयति ना᳘सिकामे᳘वास्मिन्नेत᳘द्दधाति तन्नि᳘ष्ठितमभि᳘मृशति मख᳘स्य शि᳘रो ऽसी᳘ति मख᳘स्य᳘ ह्येत᳘त्सौम्य᳘स्य शि᳘र ऽएवमि᳘तरौ तूष्णीं पि᳘न्वने तूष्णी᳘ᳫँ᳘ रौहिणकपाले᳘॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ ख᳘रे सादयति॥
मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण ऽइ᳘त्यसा᳘वेव ब᳘न्धुर᳘थ प्र᳘यौति मखा᳘य त्वा शीर्ष्ण ऽइ᳘त्यसा᳘वेव ब᳘न्धुर᳘थ मृत्पिण्ड᳘मपादा᳘य महावीर᳘ङ्करोति मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण ऽइ᳘त्यसा᳘वेव ब᳘न्धुः प्रादेशमात्र᳘म्प्रादेशमात्र᳘मिव हि शि᳘रो म᳘ध्ये स᳘ङ्गृहीतं मध्ये[[!!]] स᳘ङ्गृहीत᳘मिव हि शिरो᳘ ऽथास्योप᳘रिष्टात्त्र्यङ्गुलं मु᳘खमु᳘न्नयति ना᳘सिकामे᳘वास्मिन्नेत᳘द्दधाति तन्नि᳘ष्ठितमभि᳘मृशति मख᳘स्य शि᳘रो ऽसी᳘ति मख᳘स्य᳘ ह्येत᳘त्सौम्य᳘स्य शि᳘र ऽएवमि᳘तरौ तूष्णीं पि᳘न्वने तूष्णी᳘ᳫँ᳘ रौहिणकपाले᳘॥

मूलम् - Weber

अ᳘थ ख᳘रे सादयति॥
मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण इ᳘त्यसा᳘वेव ब᳘न्धुर᳘थ मृत्पिण्ड᳘मपादा᳘य महावीरं᳘ करोति मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण इ᳘त्यसा᳘वेव ब᳘न्धुः प्रादेशमात्र᳘म् प्रादेशमात्र᳘मिव हि शि᳘रो म᳘ध्ये स᳘ङ्गृहीतम् म᳘ध्ये स᳘ङ्गृहीतमिव हि शिरो᳘ऽथास्योप᳘रिष्टात्त्र्यङ्गुलम् मु᳘खमु᳘न्नयति ना᳘सिकामेॗवास्मिन्नेत᳘द्दधाति तं नि᳘ष्ठितमभि᳘मृशति मख᳘स्य शि᳘रोऽसी᳘ति मख᳘स्यॗ ह्येत᳘त्सौम्य᳘स्य शि᳘र एवमि᳘तरौ तूष्णीम् पि᳘न्वने तूष्णीं᳘ रौहिणकपाले᳟॥

मूलम् - विस्वरम्

अथ खरे सादयति- “मखाय त्वा मखस्य त्वा शीर्ष्णे"- इति । असावेव बन्धुः । अथ प्रयौति- “मखाय त्वा मखस्य त्वा शीर्ष्णे”- इति । असावेव बन्धुः । अथ मृत्पिण्डमुपादाय महावीरं करोति- “मखाय त्वा मखस्य त्वा शीर्ष्णे”- (वा. सं. ३७ । ७) इति । असावेव बन्धुः । प्रादेशमात्रम् । प्रादेशमात्रमिव हि शिरः । मध्ये संगृहीतम् । मध्ये संगृहीतमिव हि शिरः । अथोपरिष्टात्त्र्यंगुलं मुखमुन्नयति । नासिकामेवास्मिन्नेतद्दधाति । तं निष्ठितमभिमृशति- “मखस्य शिरो ऽसि” (वा. सं. ३७ । ८) इति । मखस्य ह्येतत्सौम्यस्य शिरः । एवमितरौ । तूष्णीं पिन्वने । तूष्णीं रौहिणकपाले ॥ १७ ॥

सायणः

मंत्रेण स्वीकृतं संभारजातं “प्रैतु ब्रह्मणस्पतिः” इति मंत्रेण प्रापितं तस्मिन्परिश्रिते प्रदेशै निदध्यादित्याह- अथ खरे सादयति० बंधुरिति । इत्थं परिश्रितदेशं प्राप्य अथानंतरं तन्मध्यगते ‘खरे’ धिष्ण्ये, तत् संभारजातं ‘सादयति’ निदधाति “मखाय त्वेति” अनेनैव मंत्रेण । तदेतत् स्पष्टीकृतं सूत्रकारेण- “परिवृते निदधाति संभारानुद्धतावोक्षिते सिकतोपकीर्णे प्राग्द्वारे मखाय त्वेति” (का. श्रौ. सू. २६ । १४ ।) गतमन्यत् । अथ तेषां कृष्णाजिनस्थानां संभाराणां संसर्जनं 33 विधत्ते- अथ प्रयौति मखाय त्वा० बंधुरिति । ‘अथ’ निधानानंतरं ‘प्रयौति’ मिश्रीकरोति मृद्वल्मीकवपावराहविहतपूतीकाजाक्षीरलक्षणान् आहृतान् संभारान् यथा परस्परसंमेलनेन श्लक्ष्णं भवति तथा “मखाय त्वा” इत्यनेन मंत्रेण संसृजतीत्यर्थः । गतमन्यत् । अथ तया संसृष्टया मृदा महावीरनिर्माणं 34 विधत्ते- अथ मृत्पिण्डमादाय० बंधुरिति । ‘अथ’ संसर्जनानंतरं संसृष्टं ‘मृत्पिण्डं’ ‘उपादाय’ हस्ताभ्यां स्वीकृत्य “मखाय त्वेति” मंत्रेण ‘महावीरं’ घर्महविःसंतापसाधनं पात्रं ‘करोति’ । गतमन्यत् । अथास्य पात्रस्य लक्षणं दर्शयति- प्रादेशमात्रं प्रादेशमात्रमिव० तद्दधातीति । तं महावीरं ‘प्रादेशमात्रं’ ऊर्ध्वप्रमाणेन प्रादेशपरिमितं कुर्यात् । ‘हि’ यस्मात् ‘शिरो’ मूर्द्धा लोके ‘प्रादेशमात्रमिव’ प्रादेशपरिमितमेव दृश्यते । तस्मात् प्रादेशमात्रं महावीरं कुर्यात् । तथा तं ‘मध्ये’ ‘संगृहीतं’ सन्नतं कुर्यात् । लोके हि शिरः ‘मध्ये संगृहीतमिव हि’ सन्नतमिव खलु दृश्यते । ‘अथ’ अनंतरमेव कृत्वा अस्य महावीरस्य ‘उपरिष्टात्’ उपरिभागे ‘त्र्यंगुलं’ अंगुलत्रयपरिमितं मुखमास्यं ‘उन्नयति’ । ऊर्ध्वं प्रापयति । ‘एतत्’ एतेन मुखोन्नयनेन ‘अस्मिन्’ महावीरे यज्ञशिरसि ‘नासिकामेव दधाति’ स्थापितवान् भवति । सूत्रकारेण च एतन्महावीरलक्षणं स्पष्टीकृतम्- “प्रादेशमात्रमूर्ध्वमासेचनवंतं मेखलावन्तं मध्यसंगृहीतमूर्ध्वं मेखलायास्त्र्यंगुलम्” (का. श्रौ. सू. २६ । १७) इति । एवं उक्तलक्षणसंपन्नं महावीरं कृत्वा, अथ तस्य समंत्रकं अभिमर्शनं 35 विधत्ते- तं निष्ठितमभिमृशति० शिरः इति । ‘तं’ महावीरं ‘निष्ठितं’ निःशेषेण स्थितं सर्वलक्षणयुक्तत्वेन निष्पन्नं “मखस्य शिरो ऽति” इति मन्त्रेण ‘अभिमृशति’ । ‘सौम्यस्य मखस्य’ सोमयागस्य ‘एतत्’ एषः महावीरः ‘शिरो हि’ शिरः खलु मूर्द्धा खलु । “महान् बत नो वीरो ऽपादि" इति निर्वचनस्य दर्शितत्वात् (श. प. १४ । १ । १ । ११ ।) । अतः तदभिमर्शने “मखस्य शिरो ऽसि" इति मंत्रः संगतः इत्यर्थः । एवं प्रचरणीयस्य महावीरस्य निर्माणमुक्तम् । अथ अप्रचरणीययोः उपशययोः महावीरयोरपि एतदतिदिशति- एवमितराविति 36 । मृत्पिण्डोपादानादिना निष्ठिताभिमर्शनान्तेन येन प्रकारेण प्रथमो महावीरः कृतः । एवमनेनैव प्रकारेण द्वितीयतृतीयावपि महावीरौ कार्यौ । अथ एतयैव मृदा प्रवार्ग्योपयुक्तं अन्यदपि मृण्मयपात्रजातं कर्तव्यमित्याह- तूष्णीं पिन्वने तूष्णीं रौहिणकपाले इति । पिन्वति सिंचति अनयोरिति पिन्वने । गोपयसः अजापयसश्च दोहनपात्रे । “पिवि सेचने”- (धा. पा. भ्वा प. ५८९) इत्यस्मात् “करणाधिकरणयोश्च (पा. सू. ३ । ३ । ११७) इति ल्युट् । एते ‘पिन्वने’ ‘तूष्णीं’ मंत्रवर्ज्यं महावीरावशिष्टया एतयैव मृदा कर्तव्ये । तथा ‘रौहिणकपाले’ रौहिणौ पुरोडाशौ अग्रे विधास्येते । तयोरधिश्रयणार्थं द्वे कपाले ‘तूष्णीं’ मन्त्रवर्जं कर्तव्ये । एतयोः पिन्वनयोः कपालयोश्च लक्षणं सूत्रकारेण एवमुक्तम्- “स्रुक्पुष्कराकृती पिन्वने रौहिणकपाले परिमण्डले”- (का. श्रौ. सू. २६ । २१) इति ॥ १७ ॥

Eggeling
  1. He then deposits (the sambhāras 37) on the mound with, ‘For Makha thee! for Makha’s head thee!’ the import of this is the same as before. He then takes a lump of clay and makes the Mahāvīra (pot) with, ‘For Makha thee! for Makha’s head thee,’–the import of this is

the same as before;–a span high 38, for the head is, as it were, a span high;–contracted in the middle 39, for the head is, as it were, contracted in the middle. At the top he then draws it out (so as to form) a spout 40 of three thumbs’ breadths (high): he thereby makes a nose to this (Mahāvīra, or Pravargya). When it is complete, he touches it with (Vāj. S. XXXVII, 8), ‘Makha’s head thou art,’–for it indeed is the head of Makha Saumya (the Soma-sacrifice). In the same way (he makes) the other two (Mahāvīra pots 41); silently two milking-bowls (pinvana 42), and silently two Rauhiṇa-plates 43.

१८

विश्वास-प्रस्तुतिः

प्रजा᳘पतिर्व्वा᳘ ऽएष᳘ यज्ञो᳘ भवति॥
(त्यु) उभ᳘यम्वा᳘ ऽएत᳘त्प्रजा᳘पतिर्न्नि᳘रुक्तश्चा᳘निरुक्तश्च प᳘रिमितश्चा᳘परिमितश्च तद्यद्य᳘जुषा करो᳘ति य᳘दे᳘वास्य नि᳘रुक्तं प᳘रिमितᳫँ᳭ रूपन्त᳘दस्य᳘ ते᳘न स᳘ᳫँ᳘स्करोत्य᳘थ य᳘त्तूष्णीं य᳘दे᳘वास्या᳘निरुक्तम᳘परिमितᳫँ᳭ * रूपन्त᳘दस्यैते᳘न स᳘ᳫँ᳘स्करोति स᳘ ह वा᳘ ऽएतᳫँ᳭ स᳘र्व्वङ्कृत्स्न᳘म्प्रजा᳘पतिᳫँ᳭ स᳘ᳫँ᳘स्करोति य᳘ ऽएव᳘म्विद्वा᳘नेत᳘देव᳘ङ्करोत्य᳘थोपशया᳘यै पि᳘ण्डम्प᳘रिशिनष्टि प्प्रा᳘यश्चित्तिभ्यः॥

मूलम् - श्रीधरादि

प्रजा᳘पतिर्व्वा᳘ ऽएष᳘ यज्ञो᳘ भवति॥
(त्यु) उभ᳘यम्वा᳘ ऽएत᳘त्प्रजा᳘पतिर्न्नि᳘रुक्तश्चा᳘निरुक्तश्च प᳘रिमितश्चा᳘परिमितश्च तद्यद्य᳘जुषा करो᳘ति य᳘दे᳘वास्य नि᳘रुक्तं प᳘रिमितᳫँ᳭ रूपन्त᳘दस्य᳘ ते᳘न स᳘ᳫँ᳘स्करोत्य᳘थ य᳘त्तूष्णीं य᳘दे᳘वास्या᳘निरुक्तम᳘परिमितᳫँ᳭ * 44 रूपन्त᳘दस्यैते᳘न स᳘ᳫँ᳘स्करोति स᳘ ह वा᳘ ऽएतᳫँ᳭ स᳘र्व्वङ्कृत्स्न᳘म्प्रजा᳘पतिᳫँ᳭ स᳘ᳫँ᳘स्करोति य᳘ ऽएव᳘म्विद्वा᳘नेत᳘देव᳘ङ्करोत्य᳘थोपशया᳘यै पि᳘ण्डम्प᳘रिशिनष्टि प्प्रा᳘यश्चित्तिभ्यः॥

मूलम् - Weber

प्रजा᳘पतिर्वा᳘ एष᳘ यज्ञो᳘ भवति॥
उभ᳘यम् वा᳘ एत᳘त्प्रजा᳘पतिर्नि᳘रुक्तश्चा᳘निरुक्तश्च प᳘रिमितश्चा᳘परिमितश्च तद्यद्य᳘जुषा करो᳘ति य᳘देॗवास्य नि᳘रुक्तम् प᳘रिमितं रूपं त᳘दस्य ते᳘न स᳘ᳫं᳘स्करोत्य᳘थ य᳘त्तूष्णीं य᳘देॗवास्या᳘निरुक्तम᳘परिमितं रूपं त᳘दस्य ते᳘न स᳘ᳫं᳘स्करोति स᳘ ह वा᳘ एतᳫं स᳘र्वं कृत्स्न᳘म् प्रजा᳘पतिᳫं स᳘ᳫं᳘स्करोति य᳘ एव᳘म् विद्वा᳘नेत᳘देवं᳘ करोत्य᳘थोपशया᳘यै पि᳘ण्डम् प᳘रिशिनष्टि प्रा᳘यश्चित्तिभ्यः॥

मूलम् - विस्वरम्

प्रजापतिर्वा एष यज्ञो भवति । उभयं वा एतत्प्रजापतिः । निरुक्तश्चानिरुक्तश्च । परिमितश्चापरिमितश्च । तद्यद्यजुषा करोति । यदेवास्य निरुक्तं परिमितं रूपम् । तदस्य तेन संस्करोति । अथ यत्तूष्णीम् । यदेवास्यानिरुक्तमपरिमितं रूपम् । तदस्यैतेन संस्करोति । स ह वा एतं सर्वं कृत्स्नं प्रजापतिं संस्करोति । य एवं विद्वानेतदेवं करोति । अथोपशयायै मृत्पिण्डं परिशिनष्टि प्रायश्चित्तिभ्यः ॥ १८ ॥

सायणः

यत् एतत् समन्त्रकं महावीरनिर्माणं अमन्त्रकं पिन्वनादिनिर्माणं च उक्तम् । तदेतत् उभयं संहत्य स्तौति- प्रजापतिर्व्वा ऽएष यज्ञो० तदेवं करोतीति । ‘एषः’ क्रियमाणः ‘यज्ञः प्रजापतिर्वै’ प्रजापत्यात्मको वा ‘भवति’ ओश्रावयेत्यादिसप्तदशाक्षरसमुदायात्मना 45 प्रजापतेः यज्ञं प्रविष्टत्वात् । तथा च आश्रावयेत्यादीनि प्रकृत्य तैत्तिरीयके “एष वै सप्तदशः प्रजापतिर्यज्ञमन्वायत्तः” (तै. सं. १ । ६ । ११) इति । स च प्रजापतिः एतच्च वक्ष्यमाणं ‘उभयं वै’ उभयात्मकः । तदेव उभयविधत्वं दर्शयति- निरुक्तश्चानिरुक्तश्चेति । तस्य जगदात्मनो परिणतो यो भागः सः ‘निरुक्तः’ आकाशवाय्वादिभूतभौतिकप्रपंचात्मना विशेषेण उक्तः प्रकटीकृतो भवति । यस्तु कार्यात्मकः कारणरूपो भागः सः ‘अनिरुक्तः’ । अस्मदादिभिः दुरधिगमत्वात् निर्वचनानर्हः । तथा एतावेव भागौ परिच्छिन्नत्वापरिच्छिन्नत्वाभ्यां ‘परिमितश्चापरिमितश्च’ भवतः । एवं प्रजापतिः उभयात्मकः । किं तत इत्याह- तद्यदिति । तत्तथा सति यत्कर्ष ‘यजुषा’ मन्त्रेण ‘करोति’ । ‘यदेवास्य’ प्रजापतेर्निरुक्तं परिमितं रूपं प्राक् दर्शितं आकाशवाय्वादिभूतात्मकं जगत् ‘अस्य’ प्रजापतेः तद्रूपं ‘तेन’ समन्त्रकेण कर्मणा ‘संस्करोति’ संस्कृतं सातिशयं करोति । अथेति उक्तवैलक्षण्ये । यत्कर्म तूष्णीममन्त्रकं यज्ञे क्रियते । ‘अस्य’ प्रजापतेः ‘यदेवानिरुक्तं अपरिमितं रूपं’ कारणावस्थम् । ‘अस्य’ प्रजापतेः तद्रूपं ‘तेन’ तन्मन्त्रकेण कर्मणा ‘संस्करोति’ । किं अविशेषेण सर्वो यजमानः इत्थं प्रजापतिं संस्करोति नेत्याह- स हेति । ‘यः’ यजमानः ‘एवं’ उक्तं ब्राह्मणार्थं ‘विद्वान्’ जानन् ‘एतत्’ यज्ञकर्म ‘एवं’ समन्त्रकममन्त्रकं च करोति । ‘स हैव’ । स खलु ‘एतं’ प्रजापतिं कृत्स्नं संपूर्णावयवं ‘सर्वं सर्वात्मना निरवशेषं’ ‘संस्करोति’ । अथ शिष्टस्य मृत्पिंडस्य उपयोगाभावात् परित्यागप्रसक्तौ तद्वारयति 46- अथोपशयायै० प्रायश्चित्तिभ्यः इति । उप समीपे शय्यते प्रयोजनाभावेन स्थीयते अनया इत्युपशया । महावीरादिभ्यः अतिरिक्ता मृत् । षष्ठ्यर्थे चतुर्थी (पा. सू. २ । ३ । ६२ वा.) । ‘अथ’ रौहिणकपालनिर्माणानंतरं ‘उपशयाये’ अविष्टायाः मृदः पिंडं ‘परिशिनष्टि’ परिशेषयति सुगुप्तं धारयतीत्यर्थः । किमर्थं ‘प्रायश्चित्तिभ्यः प्रायश्चित्तार्थं यदि प्रवर्ग्यप्रचरणसमये महावीरादीनां मृण्मयानां अन्यतमं भिद्येत । तदा तस्य पुनर्निर्माणाय मृत् अपेक्ष्यते । तदर्थं मंत्रसंस्कृतं मृत्पिंडं अवशिष्टं धारयेत् इत्यर्थः ॥ १८ ॥

Eggeling
  1. Verily this sacrifice is Prajāpati, and Prajāpati

is both of this, defined and undefined, limited and unlimited 47. Whatever one does with a Yajus formula, by that one makes up that form of him (Prajāpati) which is defined and limited; and whatever one does silently, by that one makes up that form of him which is undefined and unlimited: verily, then, whosoever, knowing this, does it on this wise, makes up that whole and complete Prajāpati. But he also leaves over a lump of spare (clay) for expiations.

१९

विश्वास-प्रस्तुतिः

(भ्यो᳘ ऽथ) अ᳘थ गवे᳘धुकाभिर्हिन्वति॥
यज्ञ᳘स्य शीर्षच्छिन्न᳘स्य र᳘सो᳘ व्व्यक्षरत्त᳘त ऽएता ऽओ᳘षधयो जज्ञिरे ते᳘नै᳘वैनमेतद्र᳘सेन स᳘मर्द्धयति कृत्स्न᳘ङ्करोति मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण ऽइ᳘त्यसा᳘वेव ब᳘न्धुरेवमि᳘तरौ तूष्णीम्पि᳘न्वने तूष्णी᳘ᳫँ᳘ रौहिणकपाले॥

मूलम् - श्रीधरादि

(भ्यो᳘ ऽथ) अ᳘थ गवे᳘धुकाभिर्हिन्वति॥
यज्ञ᳘स्य शीर्षच्छिन्न᳘स्य र᳘सो᳘ व्व्यक्षरत्त᳘त ऽएता ऽओ᳘षधयो जज्ञिरे ते᳘नै᳘वैनमेतद्र᳘सेन स᳘मर्द्धयति कृत्स्न᳘ङ्करोति मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण ऽइ᳘त्यसा᳘वेव ब᳘न्धुरेवमि᳘तरौ तूष्णीम्पि᳘न्वने तूष्णी᳘ᳫँ᳘ रौहिणकपाले॥

मूलम् - Weber

अ᳘थ गवे᳘धुकाभिर्हिन्वति॥
यज्ञ᳘स्य शीर्षछिन्न᳘स्य र᳘सो व्य᳘क्षरत्त᳘त एता ओ᳘षधयो जज्ञिरे 48 ते᳘नैॗवैनमेतद्र᳘सेन स᳘मर्धयति कृत्स्नं᳘ करोति मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण इ᳘त्यसा᳘वेव ब᳘न्धुरेवमि᳘तरौ तूष्णीम् पि᳘न्वने तूष्णीं रौहिणकपाले॥

मूलम् - विस्वरम्

अथ गवेधुकाभिर्हिन्वति । यज्ञस्य शीर्षच्छिन्नस्य रसो व्यक्षरत् । तत एता ओषधयो जज्ञिरे । तेनैवैनमेतद्रसेन समर्द्धयति । कृत्स्नं करोति । “मखाय त्वा मखस्य त्वा शीर्ष्णे”- (वा. सं. ३७ । ८) इति । असावेव बंधुः । एवमितरौ । तूष्णीं पिन्वने । तूष्णीं रौहिणकपाले ॥ १९ ॥

सायणः

अथ यदुक्तं सूत्रकारेण- “गवेधुकाभिः श्लक्ष्णयति” (का. श्रौ. सू. २६ । २३) इति । तदेतत् विधाय स्तौति- अथ गवेधुकाभिः० बंधुरेवमितराविति । ‘अथ’ निर्माणानंतरं प्रथमकृतं महावीरं ‘गवेधुकाभिः’ गवेधुका आरण्यगोधूमाख्या ओषधयः ताभिर्हिन्वति श्लक्ष्णयति । पुरा खलु छिन्नशिरस्कस्य ‘यज्ञस्य रसः’ स्रुतो ऽभवत् । ततस्तस्माद्रसात् ‘एताः’ गवेधुकाख्याः ‘ओषधयः जज्ञिरे’ जाताः । ‘एतत्’ एतेन गवेधुकाभिः हिन्वनेन ‘तेनैव’ प्राक्स्रुतेन ‘रसेन एनं’ यज्ञं ‘समर्द्धयति’ । गतमन्यत् । अथ पूर्ववत् पिन्वनयोः रौहिणकपालयोश्च मंत्रवर्जं गवेधुकाभिः श्लक्ष्णीकरणं विधत्ते- तूष्णीं पिन्वने तुष्णीँ रौहिणकपाले इति । सिद्धमेतत् ॥ १९ ॥

Eggeling
  1. He then smooths 49 it by means of Gavedhukā grass (Coix barbata),–for when the sacrifice had its head cut off, its vital sap flowed away, and therefrom those plants grew up: with that vital sap he thus supplies and completes it;–with, ‘For Makha thee! for Makha’s head thee!’ the import of this is the same as before, In the same way the other two (Mahāvīra pots); silently the two milking-bowls, silently the two Rauhiṇa-plates.

२०

विश्वास-प्रस्तुतिः

(ऽ) अ᳘थैनान्धूपयति॥
(त्य᳘) अ᳘श्वस्य त्वा व्वृ᳘ष्णः शक्ना᳘ धूपयामी᳘ति व्वृ᳘षा वा ऽअ᳘श्वो व्वी᳘र्य्यम्वै व्वृ᳘षा व्वी᳘र्य्येणै᳘वैनमेतत्स᳘मर्द्धयति कृत्स्न᳘ङ्करोति देवय᳘जने पृथिव्या᳘ मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण ऽइ᳘त्यसा᳘वेव ब᳘न्धुरेवमि᳘तरौ तूष्णीम्पि᳘न्वने तूष्णी᳘ᳫँ᳘ रौहिणकपाले॥

मूलम् - श्रीधरादि

(ऽ) अ᳘थैनान्धूपयति॥
(त्य᳘) अ᳘श्वस्य त्वा व्वृ᳘ष्णः शक्ना᳘ धूपयामी᳘ति व्वृ᳘षा वा ऽअ᳘श्वो व्वी᳘र्य्यम्वै व्वृ᳘षा व्वी᳘र्य्येणै᳘वैनमेतत्स᳘मर्द्धयति कृत्स्न᳘ङ्करोति देवय᳘जने पृथिव्या᳘ मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण ऽइ᳘त्यसा᳘वेव ब᳘न्धुरेवमि᳘तरौ तूष्णीम्पि᳘न्वने तूष्णी᳘ᳫँ᳘ रौहिणकपाले॥

मूलम् - Weber

अ᳘थैनान्धूपयति॥
अ᳘श्वस्य त्वा वृ᳘ष्णः शक्ना᳘ धूपयामी᳘ति वृ᳘षा वा अ᳘श्वो वीर्य᳘म् वै वृ᳘षा वीॗर्येणैॗवैनमेतत्स᳘मर्धयति कृत्स्नं᳘ करोति देवय᳘जने पृथिव्या᳘ मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण इ᳘त्यसा᳘वेव ब᳘न्धुरेवमि᳘तरौ तूष्णीम् पि᳘न्वने तूष्नीं᳘ रौहिणकपाले॥

मूलम् - विस्वरम्

अथैनान् धूपयति- “अश्वस्य त्वा वृष्णः शक्ना धूपयामि”- इति । वृषा वा अश्वः । वीर्यं वै वृषा । वीर्येणैवैनमेतत्समर्द्धयति । कृत्स्नं करोति । “देवयजने पृथिव्या मखाय त्वा मखस्य त्वा शीर्ष्णे”- (वा. सं. ३७ । ९) इति । असावेव बन्धुः । एवमितरौ । तूष्णीं पिन्वने । तूष्णीं रौहिणकपाले ॥ २० ॥

सायणः

अथ एतेषां अश्वशकृता धूपनं विधत्ते- अथैनान् धूपयत्पश्वस्य त्वा व्वृष्णः शक्ना धूपयामीतीति । ‘अथ’ हिन्वनानन्तरं ‘एनान्’ महावीरादीन् ‘धूपयति’ अग्नौ अश्वशकृत्प्रक्षिप्य तद्धूमेन वासयति । तत्र प्रथमकृतं महावीरं “अश्वस्य त्वेति” मन्त्रेण प्रथमं धूपयेत् । अस्य मन्त्रप्रथमभागस्य यज्ञसमृद्धिहेतुमाह- व्वृषा वा अश्वो व्वीर्य्यं० कृत्स्नं करोतीति । ‘वृषा वै’ सेचनसमर्थः खलु ‘अश्वः’ । अतः ‘वृष्णः’ अश्वस्येति विशेष्यते, स च ‘वृषा’ ‘वीर्यं वै’ वीर्यात्मकः । निर्वीर्याणां सेचनसामर्थ्याभावात् । तथा च ‘एतत्’ एतेन वर्षणसमर्थाश्वशकृद्धूपनेन ‘वीर्येणैव’ ‘एनं’ प्रवर्ग्यं ‘समर्द्धयति’ । गतमन्यत् । अवशिष्टं मन्त्रभागमनूद्य तात्पर्यमाह- देवयजने पृथिव्या० बन्धुः इति । व्याख्यातमेतत् । द्वितीयतृतीययोरपि महावीरयोः उक्तं धूपनं अतिदिशति- एवमितराविति । सिद्धमेतत् । तथा च सूत्रितम्- “अश्वशकृता धूपयत्यश्वस्य त्वेति प्रतिमन्त्रम्” (का. श्रौ. सू. २६ । २४) इति । अथ पिन्वनादीनां पूर्ववत् अमन्त्रकं धूपनं विधत्ते- तूष्णीं पिन्वने तूष्णीँ रौहिकपाले इति । सिद्धमेतत् ॥ २० ॥

Eggeling
  1. He then fumigates these (vessels) with (Vāj. S. XXXVII, 9), ‘With dung of the stallion, the impregnator, I fumigate thee,’–for the

stallion is an impregnator, and the impregnator means vigour: with vigour he thus supplies and completes it,–‘on the Earth’s place of divine worship: for Makha thee, for Makha’s head thee!’ the import of this is the same as before. In the same way (he fumigates) the other two (Mahāvīra pots); silently the two milking-bowls, and silently the two Rauhiṇa-plates.

२१

विश्वास-प्रस्तुतिः

(ऽ) अ᳘थैनाञ्छ्रपयति॥
शृतᳫँ᳭ हि᳘ देवा᳘नामि᳘ष्टकाभिः श्रपयत्येता वा᳘ ऽएत᳘दकुर्व्वत य᳘थायथैत᳘द्यज्ञ᳘स्य शिरो᳘ ऽच्छिद्यत ता᳘भिरे᳘वैनमेतत्स᳘मर्द्धयति कृत्स्न᳘ङ्करोति त᳘दु ये᳘नैव सु᳘शृताः स्युस्ते᳘न श्रपयेद᳘थ प᳘चनमवधा᳘य महावीरम᳘वदधाति मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण ऽइ᳘त्यसा᳘वेव ब᳘न्धुरेवमि᳘तरौ तूष्णीम्पि᳘न्वने तूष्णी᳘ᳫँ᳘ रौहिणकपाले तान्दि᳘वै᳘वोपव᳘पेद्दिवो᳘द्वपेद᳘हर्हि᳘ देवा᳘नाम्॥

मूलम् - श्रीधरादि

(ऽ) अ᳘थैनाञ्छ्रपयति॥
शृतᳫँ᳭ हि᳘ देवा᳘नामि᳘ष्टकाभिः श्रपयत्येता वा᳘ ऽएत᳘दकुर्व्वत य᳘थायथैत᳘द्यज्ञ᳘स्य शिरो᳘ ऽच्छिद्यत ता᳘भिरे᳘वैनमेतत्स᳘मर्द्धयति कृत्स्न᳘ङ्करोति त᳘दु ये᳘नैव सु᳘शृताः स्युस्ते᳘न श्रपयेद᳘थ प᳘चनमवधा᳘य महावीरम᳘वदधाति मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण ऽइ᳘त्यसा᳘वेव ब᳘न्धुरेवमि᳘तरौ तूष्णीम्पि᳘न्वने तूष्णी᳘ᳫँ᳘ रौहिणकपाले तान्दि᳘वै᳘वोपव᳘पेद्दिवो᳘द्वपेद᳘हर्हि᳘ देवा᳘नाम्॥

मूलम् - Weber

अ᳘थैनाञ्छ्रपयति᳘ 50
शृतᳫं हि᳘ देवा᳘नामि᳘ष्ट्काभिः श्रपयत्येत वा᳘ एत᳘दकुर्वत य᳘था-यथैत᳘द्यज्ञ᳘स्य शिरो᳘ऽछिद्यत ताभिरेॗवैनमेतत्स᳘मर्धयति कृत्स्नं᳘ करोति त᳘दु ये᳘नैव सु᳘शृताः स्युस्ते᳘न श्रपयेद᳘थ प᳘चनमवधा᳘य महावीरम᳘वदधाति मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण इ᳘त्यसा᳘वेव ब᳘न्धुरेवमि᳘तरौ तूष्णीम् पि᳘न्वने तूष्णीं रौहिणकपाले तान्दि᳘वैॗवोपव᳘पेद्दिवो᳘द्वपेद᳘हर्हि᳘ देवा᳘नाम्॥

मूलम् - विस्वरम्

अथैनान् श्रपयति । शृतं हि देवानाम् इष्टकाभिः श्रपयति । एता वा एतदकुर्वत । यथायथैतद्यज्ञस्य शिरो ऽच्छिद्यत । ताभिरेवैनमेतत्समर्द्धयति । कृत्स्नं करोति । तदु येनैव सुशृताः स्युः । तेन श्रपयेत् । अथ पचनमवधाय महावीरमवदधाति- “मखाय त्वा मखस्य त्वा शीर्ष्णे”- (वा. सं. ३७ । ९) इति । असावेव बन्धुः । एवमितरौ । तूष्णीं पिन्वने तूष्णीं रौहिणकपाले । तान्दिवैवोपवपेत् । दिवोद्वपेत् । अहर्हि देवानाम् ॥ २१ ॥

सायणः

अथ एतेषां महावीरादीनां श्रपणं विधत्ते- अथैनाञ्छ्रपयति शृतँ हि देवानाम् इति । अथ धूपनानन्तरं ‘एनान्’ महावीरादीन् ‘श्रपयति’ दक्षिणाग्निसमीपे चतुरस्रं अवटं खात्वा तत्र निधाय आपाकं पक्वान् करोति । ‘हि’ यस्मात् । ‘शृतं’ पक्वं खलु ‘देवानां’ योग्यम् । “यो विदग्धः स नैर्ऋतः । यो ऽशृतः स रौद्रो यः शृतः स देवस्तस्मादविदहता शृतंकृत्यः स देवत्वाय” (तै. सं. २ । ६ । ३) इति श्रुतेः । अथ एतेषा पचनद्रव्याणि विधाय स्तौति- इष्टकाभिः श्रपयत्येता वा एतदकुर्व्वत यथायथैत० कृत्स्नं करोतीति । अत्र इष्टकानां पचनसाधनत्वानुपपत्तेः, तद्वाचिना इष्टकाशब्देन तत्पचनसाधकानि इक्षुपर्णकरीषादीनि द्रव्याणि लक्ष्यन्ते । ‘इष्टकाभि’ इष्टकापचनसाधनैर्द्रव्यैः ‘एतान्’ महावीरादीन् ‘श्रपयति’ पचति । ‘एता वै’ एताः खलु इष्टकाः ‘एतदकुर्वत’ एवंविधं यज्ञं कृतवत्यः । ‘यथायथा’ येनयेन प्रकारेण ‘यज्ञस्य एतच्छिरः अच्छिद्यत’ छिन्नमभवत् । इष्टकापचनद्रव्याश्रिताः हि वभ्र्यः यज्ञात्मकस्य विष्णोः ज्याभक्षणेन शिरः चिच्छिदुः इति तदभिप्रायमिदम् । यद्वा घर्माष्टके कुलायिन्याद्या इष्टकाः ताभिः सह एनान् महावीरादीन् श्रपयतीति नियोजना द्रष्टव्या । गतमन्यत् । अन्येनापि येन द्रव्येण सम्यक् पाको भवति तेनापि श्रपणं कार्यमित्याह- तदु येनैव सुशृताः स्युस्तेन श्रपयेत् इति । ‘तत् उ’ तत्रापि ‘येनैव’ पचनद्रव्येण ‘सुशृताः’ सुपक्वाः खंडकृष्णादिदोषरहिताः लोहितवार्णा स्युः महावीरादयो भवेयुः । ‘तेन’ द्रव्येण ‘श्रपयेत्’ एतान् पचेत् । अथ पचनप्रकारमाह 51- अथ पचनमवधाय० रौहिणकपाले इति । ‘अथ’ धूपनानन्तरं पच्यते अनेनेति ‘पचनं’ पाकसाधनं द्रव्यं करीषेक्षुपर्णादिकं तत् ‘अवधाय’ अवटे प्रक्षिप्य महावीरं प्रथमकृतं ‘अवदधाति’ प्रक्षिपति “मखाय 52 त्वा” इति । मन्त्रेण । अवशिष्टं सर्वं पूर्ववत् योज्यम् । अथ एतेषां आवापोद्वरणयोः कालविशेषमाह- तान्दिवैवोपपेद्दिवोद्वपेदहर्हि देवानाम् इति । ‘तान्’ पक्तव्यान् महावीरादीन् ‘दिवेव’ अह्न्येव सूर्यप्रकाशयुक्ते एव ‘उपवपेत्’ पाकार्थं अवटे प्रक्षिपेत् । सुपक्वांश्च तान् ‘दिवैव उद्वपेत्’ अवटात् उद्धरेत् । ‘अहः’ खलु ‘देवानां’ स्वभूतः कालः । तथा च तैत्तिरीयके “अहर्देवानामासीद्रात्रिरसुराणाम्” 53 (तै. सं. १ । ५ । ९) इति ॥ २१ ॥

Eggeling
  1. He then bakes them, for what is baked belongs to the gods. He bakes them by means of bricks, for they it was that did so on that occasion 54: just in accordance with the way in which the head of the sacrifice was there cut off, he now supplies and completes it with those (bricks), But, indeed, let him bake them with anything 55 whereby they may become properly baked. Having laid down the fuel for baking 56, he puts down the Mahāvīra (pot), with, ‘For Makha thee, for Makha’s head thee!’ the import of this is the same as before. In the same way the other two Mahāvīra (pots); silently the two milking-bowls, silently the two Rauhiṇa-plates. By day he should bury them (in the hole), and by day he should take them out, for the day belongs to the gods.

२२

विश्वास-प्रस्तुतिः

(ᳫँ᳭) स ऽउ᳘द्वपति॥
(त्यृ) ऋज᳘वे त्वे᳘त्यसौ वै᳘ लोक᳘ ऽऋजुः᳘ सत्य᳘ᳫँ᳘ ह्यृजुः᳘ सत्य᳘मेष य᳘ ऽएष त᳘पत्येष᳘ ऽउ प्रथमः᳘ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाहर्ज्ज᳘वे त्वे᳘ति॥

मूलम् - श्रीधरादि

(ᳫँ᳭) स ऽउ᳘द्वपति॥
(त्यृ) ऋज᳘वे त्वे᳘त्यसौ वै᳘ लोक᳘ ऽऋजुः᳘ सत्य᳘ᳫँ᳘ ह्यृजुः᳘ सत्य᳘मेष य᳘ ऽएष त᳘पत्येष᳘ ऽउ प्रथमः᳘ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाहर्ज्ज᳘वे त्वे᳘ति॥

मूलम् - Weber

स उ᳘द्वपति॥
ऋज᳘वे त्वे᳘त्यसौ वै᳘ लोक᳘ ऋजुः᳘ सॗत्यᳫं ह्यृजुः᳘ सत्य᳘मेष य᳘ एष तव्पत्येष᳘ उ प्रथमः᳘ प्रव᳘र्ग्यस्त᳘देत᳘मेॗवैत᳘त्प्रीणाति त᳘स्मादाहर्ज᳘वे त्वे᳘ति॥

मूलम् - विस्वरम्

स उद्वपति- “ऋजवे त्वा”- इति । असौ वै लोक ऋजुः । सत्यं हि ऋजुः । सत्यमेषः । य एष तपति । एष उ प्रथमः प्रवर्ग्यः । तदेतमेवैतत्प्रीणाति । तस्मादाह- “ऋजवे त्वा”- इति ॥ २२ ॥

सायणः

एवमुद्वपनस्य कालमुक्त्वा अनु समंत्रकं तद्विधत्ते 57- स उद्वपत्यृजवे त्वेतीति । ‘सः’ महावीरादीनां पाचको ऽध्वर्युः प्रथमकृतं महावीरं “ऋजवे त्वेति” मन्त्रेण ‘उद्वपति’ अवटात्पाकस्थानादुद्धरति । अथ एतस्य मन्त्रस्य प्रथमेन महावीरेण संगतिमुपपादयति- असौ वै लोकः० प्रीणातीति । ‘असौ वै’ दूरे वर्तमानः द्युलोकः खलु ‘ऋजुः’ आर्जवयुक्तत्वात् मन्त्रे ऋजुशब्देन वाच्यः । ‘ऋजुः’ आर्जवगुणश्च ‘सत्यं’ यथार्थभाषणं ‘हि’ आर्जवरहितस्य कुटिलस्य अनृतवादित्वदर्शनात् । तच्च सत्यमेव ‘एषः’ आदित्यः अबाधितस्वभावत्वात् । ‘यः एषः’ आदित्यः दिवि ‘तपति’ दीप्यते । ‘एषः’ एव ‘प्रथमः प्रवर्ग्यः’ महावीरः । ‘तत्’ तथा च ‘एतत्’ एतेन ऋजुशब्दयुक्तेन मन्त्रेण ‘एतमेव’ सूर्यात्मकं प्रथमं प्रवर्ग्यं ‘प्रीणाति’ प्रीतं करोति । उक्तमर्थं निगमयति- तस्मादाहर्ज्जवे त्वेति इति ॥ २२ ॥

Eggeling
  1. He takes out (the first pot) with (Vāj. S. XXXVII, 10), ‘For the righteous one (I take) thee,’–the righteous one, doubtless, is yonder world, for the righteous one means truth; and he that shines yonder is the truth, and the first Pravargya is that (god): it is him he thus gratifies, and therefore he says, ‘For the righteous one (I take) thee.’

२३

विश्वास-प्रस्तुतिः

साध᳘वे त्वे᳘ति॥
(त्य) अयम्वै᳘ साधु᳘र्य्यो ऽयम्प᳘वत ऽएष हीमाल्ँ᳘लोका᳘न्त्सि᳘द्धो ऽनुप᳘वत ऽएष᳘ ऽउ द्विती᳘यः प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह साध᳘वे त्वे᳘ति॥

मूलम् - श्रीधरादि

साध᳘वे त्वे᳘ति॥
(त्य) अयम्वै᳘ साधु᳘र्य्यो ऽयम्प᳘वत ऽएष हीमाल्ँ᳘लोका᳘न्त्सि᳘द्धो ऽनुप᳘वत ऽएष᳘ ऽउ द्विती᳘यः प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह साध᳘वे त्वे᳘ति॥

मूलम् - Weber

साध᳘वे त्वे᳘ति॥
अयम् वै᳘ साधुॗर्योऽयम् प᳘वत एष हीमां᳘लोका᳘न्त्सिॗद्धोऽनुप᳘वत 58 एष᳘ उ द्विती᳘यः प्रव᳘र्ग्यस्त᳘देत᳘मेॗवैत᳘त्प्रीणाति त᳘स्मादाह साध᳘वे त्वे᳘ति॥

मूलम् - विस्वरम्

“साधवे त्वा” इति । अयं वै साधुः । यो ऽयं पवते । एष हीमाल्ँ लोकान्त्सिद्धो ऽनुपवते । एष उ द्वितीयः प्रवर्ग्यः । तदेतमेवैतत्प्रीणाति । तस्मादाह- “साधवे त्वा”- इति ॥ २३ ॥

सायणः

अथ द्वितीयस्य महावीरस्य उद्वपनं विधत्ते- साधवे त्वेतीति । स उद्वपतीत्यनुषज्यते । “साधवे त्वा” इत्यनेन मन्त्रेण द्वितीयं महावीरं सः अध्वर्युः उद्वपति उद्धरेत् । अथ एतस्य मन्त्रस्य द्वितीयेन महावीरेण संगतिमाह- अयं वै साधुर्यो० साधवे त्वेतीति । ‘अयं’ खलु ‘साधुः’ मन्त्रे साधुशब्देनाभिधेयः । ‘यः’ अयमन्तरिक्षे वायुः ‘पवते’ सततं गच्छति । कथमस्य साधुशब्दाभिधेयतेति चेत् उच्यते । ‘एषः’ खलु ‘सिद्धः’ निष्पन्नस्वरूपः वायुः ‘इमान्’ परिदृश्यमानान् पृथिव्यादीन् सर्वान् ‘लोकान्’ ‘अनुपवते’ अनुप्रविश्य व्याप्य वर्तते । एवं वर्तमानो यः अयं अन्तरिक्षगतो वायुः ‘एषः’ एव ‘द्वितीयः प्रवर्ग्यः’ महावीरः, अन्यत् पूर्ववत् ॥ २३ ॥

Eggeling
  1. With, ‘For the efficient one thee’ (he takes out the second pot),–the efficient one (sādhu), doubtless, is he (Vāyu, the wind) that purifies here by blowing, for as a permanent one (siddha) he blows through these worlds; and the second Pravargya is that (god): it is him he thus gratifies, and therefore he says, ‘For the efficient one (I take) thee.’

२४

विश्वास-प्रस्तुतिः

सुक्षित्यै त्वे᳘ति॥
(त्य) अयम्वै᳘ लोकः᳘ सुक्षिति᳘रस्मिन्हि᳘ लोके स᳘र्व्वाणि भूता᳘नि क्षियन्त्य᳘थो ऽअग्निर्व्वै᳘ सुक्षिति᳘रग्नि᳘र्ह्ये᳘वास्मिं᳘ल्लोके स᳘र्व्वाणि भूता᳘नि क्षिय᳘त्येष᳘ ऽउ तृती᳘यः प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह सुक्षित्यै त्वे᳘ति तूष्णीम्पि᳘न्वने तूष्णी᳘ᳫँ᳘ रौहिणकपाले॥

मूलम् - श्रीधरादि

सुक्षित्यै त्वे᳘ति॥
(त्य) अयम्वै᳘ लोकः᳘ सुक्षिति᳘रस्मिन्हि᳘ लोके स᳘र्व्वाणि भूता᳘नि क्षियन्त्य᳘थो ऽअग्निर्व्वै᳘ सुक्षिति᳘रग्नि᳘र्ह्ये᳘वास्मिं᳘ल्लोके स᳘र्व्वाणि भूता᳘नि क्षिय᳘त्येष᳘ ऽउ तृती᳘यः प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मादाह सुक्षित्यै त्वे᳘ति तूष्णीम्पि᳘न्वने तूष्णी᳘ᳫँ᳘ रौहिणकपाले॥

मूलम् - Weber

सुक्षित्यै त्वेति॥
अयम् वै᳘ लोकः᳘ सुक्षिति᳘रस्मिन्हि᳘ लोके स᳘र्वाणि भूता᳘नि क्षियन्त्य᳘थो अग्निर्वै᳘ सुक्षिति᳘रग्निॗर्ह्येॗवास्मिं᳘लोके 59 स᳘र्वाणि भूता᳘नि क्षिय᳘त्येष᳘ उ तृती᳘यः प्रव᳘र्ग्यस्त᳘देत᳘मेॗवैत᳘त्प्रीणाति त᳘स्मादाह सुक्षित्यै त्वे᳘ति तूष्णीम् पि᳘न्वने तूष्णीं᳘ रौहिणकपाले॥

मूलम् - विस्वरम्

“सुक्षित्यै त्वा”- (वा. सं. ३७ । १०) इति । अयं वै लोकः सुक्षितिः । अस्मिन् हि लोके सर्वाणि भूतानि क्षियन्ति । अथो अग्निर्वै सुक्षितिः । अग्निर्ह्येवास्मिंल्लोके सर्वाणि भूतानि क्षियति । एष उ तृतीयः प्रवर्ग्यः । तदेतमेवैतत्प्रीणाति । तस्मादाह- “सुक्षित्यै त्वा”- इति । तूष्णीं पिन्वने । तूष्णीं रौहिणकपाले ॥ २४ ॥

सायणः

अथ तृतीयस्य महावीरस्योद्वपनमाह- सुक्षित्यै त्वेतीति । अत्रापि उद्वपतीति पूर्ववत् अनुषज्यते । “सुक्षित्यै त्वेति” मन्त्रेण अध्वर्युः तृतीयं महावीरं उद्वपेत् इत्यर्थः । अथ अस्य मंत्रस्य अनेन तृतीयेन महावीरेण संगतिमाह- अयं वै लोकः सुक्षितिः० सुक्षित्यै त्वेतीति । ‘अयं’ खलु सर्वेषामाधारभूतो भूलोकः ‘सुक्षितिः’ । तस्य सुक्षितित्वं उपपादयति- अस्मिन् हीति । ‘अस्मिन्’ खलु ‘लोके’ ‘सर्वाणि’ भूतजातानि पशुपक्षिमृगादीनि ‘क्षियन्ति’ निवसन्ति । अतो भूलोकः सुक्षियन्ति अस्मिन्निति व्युत्पत्त्या सुक्षितिः । ‘अथा’ इति पक्षान्तरे अग्निः खलु सुक्षितिः । कुतः ? अग्निरेव खलु अस्मिन् भूलोके वर्तमानानि सर्वाणि भूतानि क्षियति जाठरादिरूपेणाश्रित्य वर्तते । ‘एष उ’ एतदात्मक एव ‘तृतीयः प्रवर्ग्यः’ । अन्यत् पूर्ववत् योज्यम् । एवमेव पिन्वनयोः कपालयोः अमन्त्रकः उद्वापः कार्यः इत्याह- तूष्णीं पिन्वने तूष्णीँ रोहिणकपाले इति ॥ २४ ॥

Eggeling
  1. With, ‘For a good abode thee!’ (he takes out the third pot),–the good abode, doubtless, is this (terrestrial) world, for it is in this world that all creatures abide; and the good abode also is Agni (fire), for Agni abides with all creatures 60 in this world; and the third Pravargya is that (god): it is him he thus gratifies, and therefore he says, ‘For a good abode thee.’ Silently (he takes out) the two milking-bowls, and silently the two Rauhiṇa-plates.

२५

विश्वास-प्रस्तुतिः

(ऽ) अ᳘थैनाना᳘च्छृणत्ति॥
(त्त्य) अजा᳘यै प᳘यसा मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण ऽइ᳘त्यसा᳘वेव ब᳘न्धुरेवमि᳘तरौ तूष्णीम्पि᳘न्वने तूष्णी᳘ᳫँ᳘ रौहिणकपाले॥

मूलम् - श्रीधरादि

(ऽ) अ᳘थैनाना᳘च्छृणत्ति॥
(त्त्य) अजा᳘यै प᳘यसा मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण ऽइ᳘त्यसा᳘वेव ब᳘न्धुरेवमि᳘तरौ तूष्णीम्पि᳘न्वने तूष्णी᳘ᳫँ᳘ रौहिणकपाले॥

मूलम् - Weber

अ᳘थैनाना᳘छृणत्ति॥
अजा᳘यै प᳘यसा मखा᳘य त्वा मख᳘स्य त्वा शीर्ष्ण इ᳘त्यसा᳘वेव ब᳘न्धुरेवमि᳘तरौ तूष्णीम् पि᳘न्वने तूष्णीं᳘ रौहिणकपाले॥

मूलम् - विस्वरम्

अथैनानाच्छृणत्ति । अजायै पयसा- “मखाय त्वा मखस्य त्वा शीर्ष्णे” (वा. सं. ३७ । १०) इति । असावेव बंधुः । एवमितरौ । तूष्णीं पिन्वने । तूष्णीं रौहिणकपाले ॥ २५ ॥

सायणः

अथ तेषां आवापात् उद्धृतानामजाक्षीरेण आसेचनं 61 विधत्ते- अथैनानाच्छृणत्ति० कपाले इति । ‘अथ’ उद्वपनानंतरं ‘एनान्’ महावीरादीन् संतप्तान् पात्रविशेषान् ‘अजायै’ षष्ठ्यर्थे चतुर्थी । (पा. सू. २ । ३ । ६२ वा.) अजायाः ‘पयसा’ क्षीरेण “मखायत्वा” इति मन्त्रेण ‘आच्छृणत्ति’ आसिक्तान् करोति । अन्यत् पूर्ववत् योज्यम् ॥ २५ ॥

Eggeling
  1. He then pours goat’s milk upon them 62 (the

first) with, ‘For Makha thee! for Makha’s head thee!’ the import of this is the same as before. In the same way the other two; silently the two milking-bowls, and silently the two Rauhiṇa-plates.

२६

विश्वास-प्रस्तुतिः

(ऽ) अ᳘थैतद्वै॥
(द्वा ऽआ᳘) आ᳘युरेतज्ज्यो᳘तिः प्र᳘विशति य᳘ ऽएतम᳘नु वा ब्रूते᳘ भक्ष᳘यति वा त᳘स्य व्व्रतचर्य्या या सृ᳘ष्टौ॥

मूलम् - श्रीधरादि

(ऽ) अ᳘थैतद्वै॥
(द्वा ऽआ᳘) आ᳘युरेतज्ज्यो᳘तिः प्र᳘विशति य᳘ ऽएतम᳘नु वा ब्रूते᳘ भक्ष᳘यति वा त᳘स्य व्व्रतचर्य्या या सृ᳘ष्टौ॥

मूलम् - Weber

अ᳘थैतद्वै॥
आ᳘युरेतज्ज्यो᳘तिः प्र᳘विशति य᳘ एतम᳘नु वा ब्रूते᳘ भक्ष᳘यति वा त᳘स्य व्रतचर्या या सृ᳘ष्टौ 63

मूलम् - विस्वरम्

अथ एतद्वा आयुः, एतज्ज्योतिः प्रविशति । य एतमनु वा ब्रूते । भक्षयति वा । तस्य व्रतचर्या, या सृष्टौ ॥ २६ ॥

सायणः

प्रवर्ग्यसृष्टिप्रतिपादकप्रथमब्राह्मणे “नातपति प्रच्छादयेत” (कं. २३) इत्यादिना या व्रतचर्या उपदिष्टा सा न केवलं तद्ब्राह्मणार्थस्यैव शेषभूता । किंतु अध्यायद्वयप्रतिपाद्यस्य प्रवर्ग्यस्य तदनुवचनस्य च शेषभूतेति वक्तुं तत्तद्ब्राह्मणावसाने पुनः पुनः अतिदिश्यते- अथैतद्वै० स्रष्टाविति । ‘सृष्टौ’ सृष्टिप्रतिपादके प्रवर्ग्यस्वरूपोत्पत्तिप्रतिपादके प्रथमब्राह्मणे ‘या’ व्रतचर्या प्रतिपादिता । सैव एतद्ब्राह्मणाध्यायिनः तत्प्रतिपाद्यार्थानुष्ठायिनश्च द्रष्टव्या । अन्यत् प्रथमब्राह्मणवत् योज्यम् ॥ २६ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये चतुर्दशे काण्डे तदन्तर्भूते प्रथमे प्रवर्ग्यकाण्डे प्रथमे ऽध्याये द्वितीयं ब्राह्मणम् ॥ १४ (१) । १ । २ ॥

Eggeling
  1. And, verily, whosoever either teaches, or partakes of, this (Pravargya) enters that life, and that light: the observance of the rule thereof is the same as at the creation 64.

  1. नित्था᳘ चेत्था᳘च्च A. ↩︎

  2. 447:1 See part i, p. 276, note 1. Here, as formerly, it has not been thought desirable to adhere throughout to the technical rendering of ‘sam-bhr̥’ ↩︎

  3. 447:2 Pravargya being masculine, the original would, of course, have ‘him’ here and throughout, the ceremony (just like the sacrifice in general) being indeed looked upon as a person. ↩︎

  4. अत्रैव “अथ कृष्णाजिनमादत्ते यज्ञस्यैव सर्वत्वाय यज्ञो ह देवेभ्यो ऽपचक्राम स कृष्णो भूत्वा चचार तस्य देवा अनुविद्यं त्वचमेवावच्छायाजह्नुः ।” इति । (श. प. १ । १ । ४ । १) । ↩︎

  5. अत्रैव “तस्य यानि शुक्लानि च कृष्णानि च लोमानि तान्यृचां च साम्नां च रूपं यानि शुक्लानि तानि साम्नाँ रूपं यानि कृष्णानि तान्यृचां यदि वेतरथा यान्येव कृष्णानि तानि साम्नाँ रूपं यानि शुक्लानि तान्यृचां यान्येव बभ्रूणीव हरीणि तानि यजुषाँ रूपम् ।” इति । (श. प. १ । १ । ४ । २) । ↩︎

  6. अत्रैव “सा व प्राक्प्रवणा स्यात्प्राची हि देवानां दिगथो ऽउदक्प्रवणोदीची हि मनुष्याणां दिग्दक्षिणतः पुरीषं प्रत्युदूहत्येषा वै दिक् पितृणाँ सा यद्दक्षिणाप्रवणा स्यात्क्षिप्रे ह यजमानो ऽमुं लोकमियात्तथो ह यजमानो ज्योग्जीवति ।” तथा “तस्मादु ह न प्रतीचीनशिराः शयीत नेद्देवानभिप्रसार्य शया इति या दक्षिणा दिक् सा पितॄणां या प्रतीची सा सर्पाणां यतो देवा ऽहन्नक्रमुः सैषा हीना योदीची दिक् सा मनुष्याणां तस्मान्मानुष ऽउदीचीनवँशामेव शालां वा विमितं वा मिन्वंत्युदीची हि मनुष्याणां दिक् दीक्षितस्यैव प्राचीनवँशा नादीक्षितस्य” । इति च (श. प. १ । २ । ५ । १६ । श. प. ३ । १ । १ । ७ ।) तथा दिक्प्रसंगात् ऐशानीदिक्संस्तवो ऽप्यत्र प्रदर्श्यते । “उदङ्प्राङ्तिष्ठन्नुदङ्वै प्राङ्तिष्ठन्प्रजापतिः प्रजा ऽअसृजत" “यद्वेवोदङ्प्राङ्तिष्ठन्नेषा होभयेषां देवमनुष्याणां दिग्यदुदीची प्राची”॥ “यद्वेवोदङ्प्राङ्तिष्ठन्नेतस्याँ हि दिशि स्वर्गस्य लोकस्य द्वारं तस्मादुदङ्प्राङ्तिष्ठन्नाहुतीर्जुहोत्युदङ्प्राङ्तिष्ठन् दक्षिणा नयति द्वारैतत्स्वर्गस्य लोकस्य वित्तं प्रपादयतीति" (श. प. ६ । १ । २ । २-४) इति । ↩︎

  7. 447:3 See part i, p. 23, note 2. In making the Gharma, or Mahāvīra, pot, on the present occasion, the order of proceeding is to a considerable extent the same as that followed at the Agnicayana, in providing the materials for, and making, the fire-pan, for which, see VI, 3, 3, 1 seqq. Cf. also the Āpastamba Śrautas. XV, with Garbe’s Translation and Notes, Journal of Germ. Or. Soc., vol. xxxiv. ↩︎

  8. 448:1 That is, immediately north of the lump of clay (previously prepared by a potter) and the other objects to be used for making the Mahāvīra pot, which have been previously deposited near the antaḥpātya peg marking the middle of the west or hinder side of the Mahāvedi. ↩︎

  9. 448:2 The locative, instead of the accusative, is rather strange here. As it stands, the locative is evidently parallel to ‘yajñe’ and ‘chandaḥsu,’ and one has therefore to supply–he collects (prepares) the Pravargya, viz. by putting the lump of clay and the other objects thereon. ↩︎

  10. अत्रैव- “अथौदुंबरीमादधाति देवाश्चासुराश्चोभये प्राजापत्या अस्पर्द्धेत ते ह सर्व्व ऽएव व्वनस्पतयो ऽसुरानभ्युपेयुरुदुंबरो हैव देवान्न जहौ ते देवा असुरान् जित्वा तेषां व्वनस्पतीनव्वृञ्जत । ते होचुर्हेत यैषु व्वनस्पतिषूर्ग्ग्यो रस ऽउदुंबरे तं दधाम ते यद्यपक्रामेयुर्यातयामा ऽअपक्रामेयुर्यथा धेनुदुग्धा यथा ऽनड्वानूहिवानिति तद्यैषु व्वनस्पतिषूर्ग्ग्यो रस ऽआसीदुदुंबरे तमदधुस्तयैतदूर्जा सर्व्वान्वनस्पतीन्प्रतिपच्यते तस्मात्स सर्व्वदा ऽऽर्दः सर्व्वदा क्षीरी तदेतत्सर्व्वमन्नं यदुदुंबरः सर्व्वे व्वनस्पतयः सर्व्वणैवैनमेतदन्नेन प्रीणाति सर्व्वैर्व्वनस्पतिभिः समिंद्धे” । इति । तथा “औदुंबरी भवति । ऊर्ग्ग्वै रस ऽउदुंबर ऽऊर्ज्जैवैनमेतद्रसेन बिभर्त्यथो सर्व्व ऽएते व्वनस्पतयो यदुदुंबरः सर्व्वे वा ऽएतं व्वनस्पतयो यंतुमर्हंति सर्व्वैरेतं व्वनस्पतिभिर्द्देवा ऽअबिभरुः सर्व्वैरेवैनमेतद्वनस्पतिभिर्बिभर्ति " । (श. प. ६ । ६ । ३ । २-३ । श. प ६ । ७ । १ । १३ ।) इति च । ↩︎

  11. 448:3 See VI, 6, 3, 2 seqq. ↩︎

  12. 449:1 See I, 1, 2, 17; VI, 3, 1, 38 seq. ↩︎

  13. 449:2 See III, 5, 3, 11-12. ↩︎

  14. 449:3 Between the two actions referred to in paragraphs 8 and 9, the digging up of the clay takes place, and hence the spade, or trowel, has changed hands. Cf. VI, 4, 2, 2. ↩︎

  15. 450:1 The pronouns in this and the subsequent corresponding formulas (vāṁ, vaḥ, te) are taken by Mahīdhara as accusatives (’te’ according to him standing for ’tvām’) to which he supplies ‘ādāya’–‘having taken you, may I this day compass Makha’s head.’ The pronouns are certainly somewhat awkward, as they can scarcely be taken as genitives of material–of you, of thee. ↩︎

  16. त᳘दन᳘यै᳘नमेतत्स᳘ A. ↩︎

  17. देव्यो व्वभ्र्य इति वल्मीकवपाम् । का. श्रौ. सू. २६ । ७ । ↩︎

  18. 450:2 See VI, 3, 3, 5, where ‘valmīkavapā’ is qualified by ‘sushirā,’ hollow. The comm. on Kāty. XXVI, 1, 2 explains ‘valmīkavapā’ as the vapā (omentum)-like inner lump (? surrounded by a kind of net) of an ant-hill: in the present case, this substance is likewise placed on the black antelope-skin to be mixed with the clay. ↩︎

  19. 450:3 Whilst in the text of the formula this word must be taken as being plural ‘prathamajāḥ,’ the Brāhmaṇa (making use of the Sandhi-form) treats it as if it were singular ‘prathamajā.’ Mahīdhara also, apparently influenced by the Brāhmaṇa, explains, ’the earth is the firstborn of creatures, and, from their connection with it, ants also are called firstborn.’ ↩︎

  20. वराह᳘विहितं A.E., but see कात्या २६. १.३. - ibid. स्योस्याः पतिः A. ↩︎

  21. इयत्यग्र इति वराहविहतम् । का. श्रौ. सू. २६ । ८ । ↩︎

  22. 451:1 That is, he supplies Prajāpati (and hence also his counterpart, the Sacrificer) with the Earth, his mate. See J. Muir, Orig. Sansk. Texts, vol. i, p. 53; vol. iv, p. 27; and cp. Taitt. I, 10, 8, where the earth is said to have been uplifted by a black boar with a thousand arms. ↩︎

  23. वत A. ↩︎

  24. इंद्रस्यौजः स्थेति पूतीका । का. श्रौ. सू. २६। ९ ॥ ↩︎

  25. 451:2 At IV, 5, 10, 4 we met with this plant–here also called Pūtīka, and explained, by the comm. on Kāty., as = the flowers (!) of the Rohisha plant (? Guilandina, or Caesalpinia, Bonducella)–as a substitute for Soma-plants. ↩︎

  26. 452:1 Thus perhaps ‘śuc’ should also have been rendered at VI, 4, 4, 7, where it is used in connection with the ass. ↩︎

  27. संभृतानभिमर्शयति मखायेति । का. श्रौ. सू. २६ । १२ ॥ ↩︎

  28. भ्र᳘ह्मणस्प᳘ति, प्रव᳘र्ग्ज्य A. ↩︎

  29. ह᳘यत्येव देवा᳘ A. - ibid. गोप्त्रे᳘ करोति A. first h. गोष्त्रे᳘न्क sec. h. ↩︎

  30. 452:2 Viz. a space five cubits square enclosed with mats on all sides, and with a door on the east side, the ground being raised in the middle so as to form a mound covered with sand (cf. III, 1, 2, 2). The object of this enclosed space is to prevent any unauthorised person (such as the Sacrificer’s wife, and people uninstructed in the scriptures) from seeing the manufacturing of the Mahīvīra (during which the door is kept closed), as well as the completed pot. The place is to the north of the antaḥpātya peg, the black antelope-skin being spread to the south of it (and immediately north of the materials used in making the pot). ↩︎

  31. 453:1 Thus Mahīdhara, on Vāj. S. XXXIII, 89. ↩︎

  32. 453:2 ‘Vīra,’ apparently an allusion to ‘Mahā-vira’ (great hero), the name of the pot used at the Pravargya. ↩︎

  33. संभारैः सँ सृजति मखायेति । का. श्रौ. सू. २६ । १५ । ↩︎

  34. मृदमादाय मखायेति महावीरं करोति । का. श्रौ. सू. २६ । १६ । ↩︎

  35. निष्ठितमभिमृशति मखस्य शिर इति । आादानमेके । का. श्रौ. सू. २६ । १८ । १९ । ↩︎

  36. एवमितरौ प्रतिमन्त्रम् । का. श्रौ. सू. । २६ । २० । ↩︎

  37. 453:3 Viz. as placed on the black antelope-skin which is carried northwards to the enclosed place by the Adhvaryu and his assistants taking hold of it on all sides. ↩︎

  38. 454:1 That is, from bottom to top, a belt (mekhalā) running round it at the distance of three thumbs’ breadths from the top (Mahīdhara, and comm. on Katy.). This top part above the belt–here simply called ‘mouth,’ whilst in the Āpast. Śr. XV, 2, 14 it is called ‘back’ (sānu)–ends in a hole for pouring the liquid in and out. ↩︎

  39. 454:2 That is, for taking hold of it (mushṭigrahaṇayogyam, comm. on Katy.). ↩︎

  40. 454:3 ‘Mukha,’ for which Katy. XXVI, 1, 16 has ‘āsecana’ explained by the commentator as a hole (garta; comm. on Āśv. Gr̥hyas. IV, 3 bila), apparently serving as the mouth, or open part of the vessel which seems to be otherwise closed. The edge of the hole would seem to protract sufficiently from the surface to suggest a similarity to the nose. In making the vessel, it seems first to be left solid, the open part which is to hold the milk being then hollowed out by means of a reed from the top hole to the depth of less than the upper half, the remainder remaining solid. Cf. Āśv. Śr. XV, 3, 4. ↩︎

  41. 454:4 Only the first of the three pots is, however, actually used; unless it gets broken by accident. ↩︎

  42. 454:5 According to the comm. on Katy. Sr., these vessels are of the form of the (hand-shaped) bowl of an offering-ladle (sruc, cf. part i, p. 67, note 2). ↩︎

  43. 454:6 The Rauhiṇa-kapālas are two round, flat dishes for baking the Rauhiṇa cakes on. ↩︎

  44. ‘रुपन्तदस्य तेन’ इति मुद्रिते पाठः । ↩︎

  45. “ता वा एताः पंच व्याहृतयो भवंति ओश्रावयास्तु श्रौषड् यज ये यजामहे वौषडिति, पाङ्क्तो यज्ञः, पाङ्क्तः पशुः पंचर्तवः संवत्सरस्य एषैका यज्ञस्य मात्रा एषा संपत्” । इति पंक्तिसंपदमनूच्य तदग्रतः कंडिकायाम्- “तासां सप्तदशाक्षराणि, सप्तदशो वै प्रजापतिः प्रजापतिर्यज्ञः एषैका यज्ञस्य मात्रा एषा संपत्” । (श. प. ५ । २ । १६-१७) इति ॥ ↩︎

  46. मृदमुपशयां निदधाति । (का. श्रौ. सू. २६ । २२ ।) ↩︎

  47. 455:1 Cf. J. Muir, Orig. Sansk. Texts, vol. v, p. 393, where a passage is quoted from Prof. Cowell’s translation of the Maitri-Upanishad (VI, 3), ‘There are two forms of Brahma, the embodied (mūrta) and the unembodied (amūrta): the former is unreal (asatya), the latter real (satya).’–Cf. Sat. Br. VI, 5, 3, 7. ↩︎

  48. यज्ञिरे A. ↩︎

  49. 455:2 The Sūtras use the verbs ‘ślakshṇayati, ślakshṇīkurvanti’ (to make smooth, or soft), and this, I think, must indeed be the meaning of ‘hinv.’ It would also suit very well the passage III, 5, 1, 35, where it is said that the Vedi is a woman, and that, by sprinkling the former with water, one ‘makes her smooth’ for the gods. The polishing of the vessels is done by rubbing them with Gavedhukā grass, whether with the spike, stem, or leaves is not specified. ↩︎

  50. अ᳘थैनांश्छ्रपयति A. - ibid. प᳘वचमवधा᳘य A. first h. ↩︎

  51. उखावदग्निः । का. श्रौ. सू. २६ । २४ । उखावदिति “सप्तभिरश्वशकृद्भिरुखां धूपयति दक्षिणाग्न्यादीप्तैरेकैकेनेति का. श्रौ. सू. १६ । १०८ । ↩︎

  52. प्रदहनं च मखाय त्वेति प्रतिमन्त्रम् । का. श्रौ. सू. २६ । २४ । ↩︎

  53. “अहरेव देवा रात्रिः पितरः” इति । श. प. २ । १ । ३ । १। ↩︎

  54. 456:1 That is, when the Ukhā was baked, cf. VI, 5, 4, 1; or, perhaps,–they it was that (the gods) made at this juncture. The former translation is more in accordance with what follows, though one would expect ’etad’ to mean ‘at this time.’ ↩︎

  55. 456:2 That is, without using bricks (?). ↩︎

  56. 456:3 Viz. in a square hole dug for the purpose east of the Gārhapatya; the pot being then placed bottom upwards on the burning material, dry herbs, wood, &c. According to Āśv. Śr. XV, 3, 20 such materials are to be used as, whilst being burnt, dye red. ↩︎

  57. पक्वानुद्धरत्यृजवे त्वेति प्रतिमन्त्रम् । का. श्रौ. सू. २६ । २५ । ↩︎

  58. हीमा᳘ल्लोका᳘ A. Initial ल् after final न् or म् is in A. almost throughout doubled, and the nasal changed to अनुस्वार. The latter is very frequently dropped, but as it seems by mistake. ↩︎

  59. स्मि᳘ल्लोके A. ↩︎

  60. 457:1 The accusative with ‘kshi’ (to inhabit) is rather peculiar here. ↩︎

  61. अजापयसा ऽवसिंचति मखायेति प्रतिमन्त्रम् । तूष्णीं पिन्वनादीनां करणाभिमर्शनश्लक्ष्णनधूपनप्रदहनोद्धरणावसेचनानि का. श्रौ. सू. २६ । २७ ॥ ↩︎

  62. 457:2 As the pots are, however, standing with their open parts upwards, on sand north of the hole in which they were baked, it would chiefly be inside that they would receive the milk, being thereby cooled (cf. VI, 5, 4, 15). According to Āpastamba, sand is in the first place heaped up around them in the sunwise fashion, i.e. keeping them on the right side whilst strewing it. ↩︎

  63. This कण्डिका returns like a burthen at the end of all the following ब्राह्मण-s as far as the end of the third अध्याय. ↩︎

  64. 458:1 That is to say, as would seem,–even as, in creating the universe, Prajāpati reconstructs his body, or constructs himself a new body, so the Sacrificer, in keeping up the observance of the Pravargya, constructs himself a new body for the future life. ↩︎