०१ सत्त्रम्
विश्वास-प्रस्तुतिः
देवा᳓ ह वै᳓ सत्त्रं᳓ नि᳓षेदुः॥
अग्नि᳓र् इ᳓न्द्रः सो᳓मो मखो᳓ वि᳓ष्णुर् वि᳓श्वे देवा᳓ अन्य᳓त्रैवा᳙श्वि᳓भ्याम्॥
मूलम् - श्रीधरादि
देवा᳘ ह वै᳘ सत्रं नि᳘षेदुः॥
(र) अग्निरि᳘न्द्रः सो᳘मो म᳘खो व्वि᳘ष्णुर्व्वि᳘श्वे देवा᳘ ऽअन्य᳘त्रै᳘वाश्वि᳘भ्याम्॥
मूलम् - Weber
ॐ॥
देवा᳘ ह वै᳘ सत्त्रं नि᳘षेदुः॥
अग्निरि᳘न्द्रः सो᳘मो मखो 1 वि᳘ष्णुर्वि᳘श्वे देवा᳘ अन्य᳘त्रैॗवाश्वि᳘भ्याम्॥
मूलम् - विस्वरम्
अथ-प्रवर्ग्यसृष्टिप्रतिपादकं ब्राह्मणम् । 2 3
देवा ह वै सत्रं निषेदुः । अग्निरिन्द्रः सोमो मखो विष्णुर्विश्वे देवाः । अन्यत्रैवाश्विभ्याम् ॥ १ ॥
सायणः
श्रीसायणाचार्यकृतं भाष्यम् । 2
यस्य 3 निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
Eggeling
- The gods Agni, Indra, Soma, Makha, Vishṇu, and the Viśve Devāḥ, except the two Aśvins, performed a sacrificial session 4.
०२ कुरुक्षेत्रम्
विश्वास-प्रस्तुतिः
ते᳓षाम् कुरुक्षेत्र᳓म् देवय᳓जनम् आस॥
त᳓स्माद् आहुः - कुरुक्षेत्रं᳓ देवा᳓नां देवय᳓जनम् इ᳓ति।
त᳓स्माद् य᳓त्र क्व᳓ च कुरुक्षेत्र᳓स्य निग᳓छति,
त᳓द् एव᳓ मन्यत - “इदं᳓ देव-य᳓जनम्” इ᳓ति।
तद् +धि᳓ देवा᳓नां देवय᳓जनम्॥
मूलम् - श्रीधरादि
(न्ते᳘) ते᳘षाङ्कुरुक्षेत्र᳘न्देवय᳘जनमास॥
त᳘स्मादाहुः कुरुक्षेत्र᳘न्देवा᳘नान्देवय᳘जनमि᳘ति त᳘स्माद्य᳘त्र᳘ क्व[[!!]] च कुरुक्षेत्र᳘स्य निग᳘च्छति त᳘देव᳘ मन्यत ऽइदं᳘ देवय᳘जनमि᳘ति तद्धि᳘ देवा᳘नान्देवय᳘जनम्॥
मूलम् - Weber
ते᳘षाम् कुरुक्षेत्र᳘म् देवय᳘जनमास॥
त᳘स्मादाहुः कुरुक्षेत्र᳘म् देवा᳘नां देवय᳘जनमि᳘ति त᳘स्माद्य᳘त्र क्व᳘ च कुरुक्षेत्र᳘स्य निग᳘छति त᳘देव᳘ मन्यत इद᳘म् देवय᳘जनमि᳘ति तद्धि᳘ देवा᳘नां देवय᳘जनम्॥
मूलम् - विस्वरम्
तेषां कुरुक्षेत्रं देवयजनमास । तस्मादाहुः । कुरुक्षेत्रं देवानां देवयजनमिति । तस्माद्यत्र क्व च कुरुक्षेत्रस्य निगच्छति । तदेवं मन्यते इदं देवयजनमिति । तद्धि देवानां देवयजनम् ॥ २ ॥
सायणः
…
Eggeling
- Their place of divine worship was Kurukshetra.. Therefore people say that Kurukshetra is the gods’ place of divine worship: hence wherever in Kurukshetra one settles there one thinks, ‘This is a place for divine worship;’ for it was the gods’ place of divine worship.
०३ श्रीः, यशः, अन्नम्
विश्वास-प्रस्तुतिः
त᳓ आसत॥
“श्रि᳓यं गछेम, य᳓शः स्यामान्नादाः᳓ स्यामे᳓“ति।
त᳓थो एवे᳙मे᳓ सत्त्र᳓म् आसते -
“श्रि᳓यं गछेम, य᳓शः स्यामान्नादाः᳓ स्यामे᳓“ति॥
मूलम् - श्रीधरादि
(न्त᳘) त᳘ ऽआसत॥
श्रि᳘यङ्गच्छेम य᳘शः स्यामान्नादाः᳘ स्यामे᳘ति त᳘थो ऽए᳘वेमे᳘ सत्र᳘मासते श्रि᳘यङ्गच्छेम य᳘शः स्यामान्नादाः᳘ स्यामे᳘ति॥
मूलम् - Weber
त᳘ आसत॥
श्रि᳘यं गछेम य᳘शः स्यामान्नादाः᳘ स्यामे᳘ति त᳘थो एॗवेमे᳘ सत्त्र᳘मासते श्रि᳘यं गछेम य᳘शः स्यामान्नादाः᳘ स्यामे᳘ति॥
मूलम् - विस्वरम्
त आसत । श्रियं गच्छेम । यशः स्याम । अन्नादाः स्यामेति ॥ ३ ॥
सायणः
…
Eggeling
- They entered upon the session 5 thinking, ‘May we attain excellence! may we become glorious! may we become eaters of food!’ And in like manner do these (men) now enter upon the sacrificial session thinking, ‘May we attain excellence! may we become glorious! may we become eaters of food!’
०४ श्रमः, तपः, श्रद्धा
विश्वास-प्रस्तुतिः
ते᳓ होचुः -
यो᳓ नः श्र᳓मेण, त᳓पसा, श्रद्ध᳓या
यज्ञेना᳓हुतिभिर् यज्ञ᳓स्योदृ᳓चम् पू᳓र्वोऽवग᳓छात् -
स᳓ नः श्रे᳓ष्ठोऽसत्,
त᳓द् उ नः स᳓र्वेषां सहे᳓ति, “त᳓थे᳓“ति॥
मूलम् - श्रीधरादि
ते᳘ होचुः॥ (र्य्यो᳘) यो᳘ नः श्र᳘मेण त᳘पसा श्रद्ध᳘या यैज्ञेना᳘हुतिभिर्य्यज्ञ᳘स्योदृ᳘चम्पू᳘र्व्वो ऽवग᳘च्छात्स᳘ नः श्रे᳘ष्ठो ऽसत्त᳘दु नः स᳘र्व्वेषाᳫँ᳭ सहे᳘ति तथे᳘ति॥
मूलम् - Weber
ते᳘ होचुः यो᳘ नः श्र᳘मेण त᳘पसा श्रद्ध᳘या यैञेना᳘हुतिभिर्यज्ञ᳘स्योदृ᳘चम् पू᳘र्वोऽवग᳘छात्स᳘ नः श्रे᳘ष्ठोऽसत्त᳘दु नः स᳘र्वेषाᳫं सहे᳘ति तथे᳘ति॥
मूलम् - विस्वरम्
ते होचुः । यो नः श्रमेण तपसा श्रद्धया यज्ञेनाहुतिभिर्यज्ञस्योदृचं पूर्वो ऽवगच्छात् । स नः श्रेष्ठो ऽसत् । तदु नः सर्वेषां सहेति । तथेति ॥ ४ ॥
सायणः
…
Eggeling
- They spake, ‘Whoever of us, through austerity, fervour, faith, sacrifice, and oblations, shall first compass the end of the sacrifice, he shall be the most excellent of us, and shall then be in common to us all.’ ‘So be it,’ they said.
०५ विष्णु-पारम्यम्
विश्वास-प्रस्तुतिः
त᳓द् वि᳓ष्णुः प्रथमः᳓ प्रा᳓प॥
स᳓ देवा᳓नां श्रेष्ठो ऽभवत् -
त᳓स्माद् आहुर् - “वि᳓ष्णुर् देवा᳓नां श्रे᳓ष्ठ” इ᳓ति॥
मूलम् - श्रीधरादि
तद्वि᳘ष्णुः प्रथमः प्प्रा᳘प॥
स᳘ देवा᳘नᳫँ᳭ श्रे᳘ष्ठो ऽभवत्त᳘स्मादाहुर्व्वि᳘ष्णुर्द्देवा᳘नाᳫँ᳭ श्रे᳘ष्ठ ऽइ᳘ति॥
मूलम् - Weber
तद्वि᳘ष्णुः प्रथमः प्रा᳘प॥
स᳘ देवा᳘नां श्रेष्ठोऽभवत्त᳘स्मादाहुर्वि᳘ष्णुर्देवा᳘नां श्रे᳘ष्ठ इ᳘ति॥
मूलम् - विस्वरम्
तद्विष्णुः प्रथमः प्राप । स देवानां श्रेष्ठो ऽभवत् । तस्मादाहुः- विष्णुर्देवानां श्रेष्ठ इति ॥ ५ ॥
सायणः
…
Eggeling
- Vishṇu first attained it, and he became the most excellent of the gods; whence people say, ‘Vishṇu is the most excellent of the gods.’
०६ यशः-संयमः
विश्वास-प्रस्तुतिः
स᳓ यः᳓ स᳓ वि᳓ष्णुर् - यज्ञः᳓ स᳓॥
स᳓ यः᳓ स᳓ यज्ञो᳙ - ऽसौ स᳓ आदित्यस्,
त᳓द् +धेदं᳓ य᳓शो वि᳓ष्णुर् न᳓ शशाक सं᳓यन्तुम्।
त᳓द् इद᳓म् अ᳓प्य् एत᳓र्हि -
नै᳙व स᳓र्व इव य᳓शः शक्नोति सं᳓यन्तुम्॥
मूलम् - श्रीधरादि
स यः स व्वि᳘ष्णुर्य्यज्ञः सः॥
(स) स यः स᳘ य᳘ज्ञो ऽसौ स᳘ ऽआदित्यस्त᳘द्धेदं य᳘शो व्वि᳘ष्णुर्न्न᳘ शशाक सं᳘यन्तुं त᳘दिदम᳘प्येत᳘र्हि᳘ नैव स᳘र्व्व ऽइव य᳘शः शक्नोति सं᳘यन्तुम्॥
मूलम् - Weber
स यः स वि᳘ष्णुर्यज्ञः स॥
स यः स᳘ यॗज्ञोऽसौ स᳘ आदित्यस्त᳘द्धेदं य᳘शो वि᳘ष्नुर्न᳘ शशाक सं᳘यन्तु त᳘दिदम᳘प्येत᳘र्हिॗ नैव स᳘र्व-इव य᳘शः शक्नोति सं᳘यन्तुम्॥
मूलम् - विस्वरम्
स यः स विष्णुः । यज्ञः सः । स यः स यज्ञः । असौ स ऽआदित्यः । तद्धेदं यशो विष्णुर्न शशाक संयंतुम् तदिदमप्येतर्हि नैव सर्व इव यशः शक्नोति संयन्तुम् ॥ ६ ॥
सायणः
…
Eggeling
- Now he who is this Vishṇu is the sacrifice; and he who is this sacrifice is yonder Āditya (the sun). But, indeed, Vishṇu was unable to control that (love of) glory of his; and so even now not every one can control that (love of) glory of his.
०७ विष्णुनावज्ञा
विश्वास-प्रस्तुतिः
स᳓ तिसृ-धन्व᳓म् आदाया᳓पचक्राम॥
स᳓ धनुर्-आर्त्न्या᳓ शि᳓र उपस्त᳓भ्य तस्थौ।
तं᳓ देवा᳓ अ᳓नभिधृष्णुवन्तः समन्त᳓म् परिण्य᳓विशन्त॥
मूलम् - श्रीधरादि
(ᳫँ᳭) स᳘ तिसृधन्व᳘मादाया᳘पचक्राम॥
स᳘ धनुरार्त्न्या शि᳘र ऽउपस्त᳘भ्य तस्थौ त᳘न्देवा ऽअ᳘नभिधृष्णुवन्तः समन्त᳘म्परि᳘ण्यविशन्त[[!!]]॥
मूलम् - Weber
स᳘ तिसृधन्व᳘मादाया᳘पचक्राम॥
स᳘ धनुरार्त्न्या शि᳘र उपस्त᳘भ्य तस्थौ त᳘म् देवा अ᳘नभिधृष्णुवन्तः समन्तम् परिण्य᳘विशन्त॥
मूलम् - विस्वरम्
स तिसृधन्वमादायापचक्राम । स धनुरार्त्न्या शिर उपस्तभ्य तस्थौ । तं देवा अनभिधृष्णुवंतः समंतं परिण्यविशंत ॥ ७ ॥
सायणः
…
Eggeling
- Taking his bow, together with three arrows, he stepped forth. He stood, resting his head on the end of the bow. Not daring to attack him, the gods sat themselves down all around him.
०८ वम्रि-प्रस्तावः
विश्वास-प्रस्तुतिः
ता᳓ ह वम्र्य᳓ ऊचुः॥
इमा वै᳓ वम्र्यो᳙ य᳓द् उपदी᳓का +++(=termite-विशेषः)+++,
“यो᳙ऽस्य ज्या᳓म् अप्य्-अद्या᳓त्,
कि᳓म् अस्मै᳓ प्र᳓यच्छेते᳓“त्य्,
“अन्ना᳓द्यम् अस्मै᳓ प्र᳓यछेमा᳓पि ध᳓न्वन्न्+++(=मरुभूमौ)+++ अपो᳓ ऽधिगच्छेत्,
त᳓थास्मै᳓ स᳓र्वम् अन्ना᳓द्यम् प्र᳓यच्छेमे᳓“ति,
“तथे᳓“ति॥
मूलम् - श्रीधरादि
ता᳘ ह व्वम्र्य᳘ ऽऊचुः॥
(रि) इमा वै᳘ व्व᳘म्र्यो य᳘दुपदी᳘का᳘ यो ऽस्य ज्या᳘मप्यद्यात्कि᳘मस्मै प्र᳘यच्छेते᳘त्यन्ना᳘द्यमस्मै प्र᳘यच्छेमा᳘ ऽपि ध᳘न्वन्नपो᳘ ऽधिगच्छेत्त᳘था ऽस्मै स᳘र्व्वमन्ना᳘द्यं प्र᳘यच्छेमे᳘ति तथे᳘ति॥
मूलम् - Weber
ता᳘ ह वम्र्य᳘ ऊचुः॥
इमा वै᳘ वॗम्र्यो य᳘दुपदी᳘काॗ योऽस्य ज्या᳘मप्यद्यात्कि᳘मस्मै प्र᳘यछेते᳘त्यन्ना᳘द्यमस्मै प्र᳘यछेमा᳘पि ध᳘न्वन्नपो᳘ऽधिगछेत्त᳘थास्मै स᳘र्वमन्ना᳘द्यम् प्र᳘यछेमे᳘ति तथे᳘ति॥
मूलम् - विस्वरम्
ता ह वम्र्य ऊचुः । इमा वै वम्र्यो यदुपदीकाः । यो ऽस्य ज्यामप्यद्यात् । किमस्मै प्रयच्छेतेति । अन्नाद्यमस्मै प्रयच्छेम । अपि धन्वन्नपो ऽधिगच्छेत् । तथा ऽस्मै सर्वमन्नाद्यं प्रयच्छेमेति । तथेति ॥ ८ ॥
सायणः
…
Eggeling
- Then the ants said–these ants (vamrī), doubtless, were that (kind called) ‘upadīkā 6’–‘What would ye give to him who should gnaw the bowstring?’–‘We would give him the (constant) enjoyment of food, and he would find water even in the desert: so we would give him every enjoyment of food.’–‘So be it,’ they said.
०९ विष्णु-पातः
विश्वास-प्रस्तुतिः
त᳓स्योपपरासृ᳓त्य…
ज्या᳓म् अ᳓पिजक्षुस्,
त᳓स्यां छिन्ना᳓यां धनुर्-आर्त्न्यौ᳙ विष्फुर᳓न्त्यौ
वि᳓ष्णोः शि᳓रः प्र᳓चिच्छिदतुः॥
मूलम् - श्रीधरादि
त᳘स्योपपरासृ᳘त्य॥
ज्याम᳘पि जक्षुस्त᳘स्याञ्छिन्ना᳘यान्धनुरा᳘र्त्न्यौ विष्फुर᳘न्त्यौ व्वि᳘ष्णोः शि᳘रः प्र᳘चिच्छिदतुः॥
मूलम् - Weber
त᳘स्योपपरासृ᳘त्य॥
ज्याम᳘पिजक्षुस्त᳘स्यां छिन्ना᳘यां धनुराॗर्त्न्यौ विष्फुर᳘न्त्यौ 7 वि᳘ष्णोः शि᳘रः प्र᳘चिछिदतुः॥
मूलम् - विस्वरम्
तस्योपपरासृत्य ज्यामपि जक्षुः । तस्यां छिन्नायां धनुरार्त्न्यौ विष्फुरंत्यौ विष्णोः शिरः प्रचिच्छिदतुः ॥ ९ ॥
सायणः
…
Eggeling
- Having gone nigh unto him, they gnawed his bowstring. When it was cut, the ends of the bow, springing asunder, cut off Vishṇu’s head.
१० घर्मः प्रवर्ग्यः
विश्वास-प्रस्तुतिः
त᳓द् घृ᳓ङ्ङ् इ᳓ति पपात॥
त᳓त् पतित्वा᳙ ऽसा᳓व् आदित्यो᳙ ऽभवद्,
अ᳓थे᳓तरः +++(रुण्डः)+++ प्रा᳓ङ् एव प्रा᳓वृज्यत।
त᳓द् य᳓द् घृ᳓ङ्ङ् इ᳓त्य् अ᳓पतत्,
त᳓स्माद् “घर्मो᳙”,
ऽथ य᳓त् +++(रुण्डः)+++ प्रा᳓वृज्यत त᳓स्मात् “प्रव᳓र्ग्यः"॥
मूलम् - श्रीधरादि
(स्त) तद्घृङ्ङि᳘ति पपात॥
त᳘त्पति᳘त्वा ऽसा᳘वादि᳘त्यो ऽभवदथे᳘तरः प्रा᳘ङेव प्रा᳘वृज्यत तद्यद्घृङ्ङित्य᳘पतत्त᳘स्माद्धर्म्मो᳘ ऽथ यत्प्रा᳘वृज्यत त᳘स्मात्प्रव᳘र्ग्यः॥
मूलम् - Weber
तद्घृङ्ङि᳘ति पपात॥
त᳘त्पतिॗत्वासा᳘वादिॗत्योऽभवदथे᳘तरः प्रा᳘ङेव प्रा᳘वृज्यत तद्यद्घृङ्ङित्य᳘पतत्त᳘स्माद्घर्मो᳘ऽथ यत्प्रा᳘वृज्यत त᳘स्मात्प्रव᳘र्ग्यः॥
मूलम् - विस्वरम्
तद्घृङ्ङिति पपात । तत्पतित्वा ऽसावादित्यो ऽभवत् । अथेतरः प्राङेव प्रावृज्यत । तद्यद्घृङ्ङित्यपतत् । तस्माद्धर्मः । अथ यत्प्रावृज्यत । तस्मात्प्रवर्ग्यः ॥ १० ॥
सायणः
…
Eggeling
- It fell with (the sound) ‘ghr̥ṅ’; and on falling it became yonder sun. And the rest (of the body) lay stretched out (with the top part) towards the east. And inasmuch as it fell with (the sound) ‘ghr̥ṅ,’ therefrom the Gharma 8 (was called); and inasmuch as he was stretched out (pra-vr̥j,), therefrom the Pravargya (took its name).
११ महावीर-सम्राजौ
विश्वास-प्रस्तुतिः
ते᳓ देवा᳓ अब्रुवन्-
“महा᳓न् बत नो वी᳓रो ऽपादी᳓“ति -
त᳓स्मान् “महावीर᳓स्”
त᳓स्य यो᳓ र᳓सो व्य᳓क्षरत्,
तं᳓ पाणि᳓भिः स᳓म्ममृजुस्,
त᳓स्मात् “सम्म्रा᳓ट्"॥
मूलम् - श्रीधरादि
(स्ते᳘) ते᳘ देवा᳘ ऽअब्रुवन्॥
(न्म) महा᳘न्बत नो व्वी᳘रो ऽपादी᳘ति त᳘स्मान्महावीरस्त᳘स्य᳘ यो र᳘सो व्व्य᳘क्षरत्त᳘म्पणि᳘भिः स᳘म्ममृजुस्त᳘स्मात्सम्म्राट्॥
मूलम् - Weber
ते᳘ देवा᳘ अब्रुवन्॥
महा᳘न्बत 9 नो वी᳘रोऽपादी᳘ति त᳘स्मान्महावीरस्त᳘स्य यो र᳘सो व्य᳘क्षरत्तं᳘ पाणि᳘भिः स᳘म्ममृजुस्त᳘स्मात्सम्म्राट्॥
मूलम् - विस्वरम्
ते देवा अब्रुवन् । महान्वत नो वीरो ऽपादीति । तस्मान्महावीरः । तस्य यो रसो व्यक्षरत् । तं पणिभिः संममृजुः । तस्मात्सम्राट् ॥ ११ ॥
सायणः
…
Eggeling
- The gods spake, ‘Verily, our great hero (mahān viraḥ) has fallen:’ therefrom the Mahāvīra pot (was named). And the vital sap which flowed from him they wiped up (sam-mr̥j) with their hands, whence the Samrāj 10.
१२ इन्द्रो यशः
विश्वास-प्रस्तुतिः
त᳓म् देवा᳓ अभ्य᳓मृज्यन्त-
य᳓था वि᳓त्तिम् वेत्स्य᳓माना एव᳓म्।
त᳓म् इ᳓न्द्रः प्रथमः प्रा᳓प,
त᳓म् अन्व्-अङ्ग᳓म् अनु-न्य᳓पद्यत।
त᳓म् प᳓र्य्-अगृह्णात्,
त᳓म् परिगृ᳓ह्येदं᳓ य᳓शो ऽभवद्,
य᳓द् इद᳓म् इ᳓न्द्रो य᳓शो -
य᳓शो ह भवति य᳓ एव᳓म् वे᳓द॥
मूलम् - श्रीधरादि
(ट्तं᳘) त᳘न्देवा᳘ ऽअ᳘भ्यसृज्यन्त[[!!]]॥
य᳘था व्वि᳘त्तिं व्वेत्स्य᳘माना ऽएवन्तमि᳘न्द्रः प्रथमः प्प्रा᳘प त᳘मन्वङ्ग᳘मनु᳘ न्यपद्यत तम्प᳘र्य्यगृह्णात्त᳘म्परिगृ᳘ह्येदं य᳘शो ऽभवद्य᳘दिदमि᳘न्द्रो यशो[[!!]] य᳘शो ह भवति य᳘ ऽएवम्वे᳘द॥
मूलम् - Weber
त᳘म् देवा᳘ अभ्य᳘मृज्यन्त॥
य᳘था वि᳘त्तिम् 11 वेत्स्य᳘माना एवम् तमि᳘न्द्रः प्रथमः प्रा᳘प त᳘मन्वङ्ग᳘मनुन्य᳘पद्यत तम् प᳘र्यगृह्णात्त᳘म् परिगृ᳘ह्येदं य᳘शोऽभवद्य᳘दिदमि᳘न्द्रो य᳘शो य᳘शो ह भवति य᳘ एवम् वे᳘द॥
मूलम् - विस्वरम्
तं देवा अभ्यसृज्यंत । यथा वित्तिं वेत्स्यमानाः । एवम् तमिन्द्रः प्रथमं प्राप । तमन्वंगमनु न्यपद्यत । तं पर्यगृह्णात् । तं परिगृह्य इदं यशो ऽभवत् । यदिदमिन्द्रो यशः । यशो ह भवति । य एवमेतद्वेद ॥ १२ ॥
सायणः
…
Eggeling
- The gods rushed forward to him, even as those eager to secure some gain (will do) 12. Indra reached him first. He applied himself to him limb after limb, and encompassed him 13, and, in encompassing him, he became (possessed of) that glory of his. And, verily, he who knows this becomes (possessed of) that glory which Indra is (possessed of).
१३ मखवान् = मघवान् परोक्षेण
विश्वास-प्रस्तुतिः
स᳓ उ एव᳓ मखः᳓ स᳓ वि᳓ष्णुः॥
त᳓त इ᳓न्द्रो “मख᳓वान्” अभवन्, मख᳓वान् ह वै᳓ त᳓म् “मघ᳓वान्” इ᳓त्या᳓चक्षते परो᳓ऽक्षम्। परो᳓ऽक्षकामा हि᳓ देवाः᳓॥+++(५)+++
मूलम् - श्रीधरादि
स᳘ ऽउ ऽएव᳘ मखः स व्वि᳘ष्णुः॥
(स्त᳘) त᳘त ऽइ᳘न्द्रो मख᳘वानभव᳘न्मख᳘वान्ह वै त᳘म्मघ᳘वानित्या᳘चक्षते परो᳘ ऽक्षम्परो᳘ ऽक्षकामा हि᳘ देवाः॥
मूलम् - Weber
स᳘ उ एव᳘ मखः स वि᳘ष्णुः॥
त᳘त इ᳘न्द्रो मख᳘वानभवन्मख᳘वान्ह वै त᳘म् मघ᳘वानित्या᳘चक्षते परो᳘ऽक्षम् परो᳘ऽक्षकामा हि᳘ देवाः॥
मूलम् - विस्वरम्
स उ ऽएव मखः । स विष्णुः । तत इन्द्रो मखवानभवत् । मखवान् ह वै । तं मघवानित्याचक्षते परो ऽक्षम् परो ऽक्षकामा हि देवाः ॥ १३ ॥
सायणः
तमिन्द्रं मघवानिति वर्गद्वितीयस्य स्थाने वर्गचतुर्थमक्षरं प्रक्षिप्य ‘परो ऽक्षं’ पारोक्ष्येण ‘आचक्षते’ लोकाः कथयन्ति । ‘हि’ यस्मात् ‘दवाः परो ऽक्षकामाः’ परो ऽक्षं कामयमानाः भवंति । तस्मात्परो ऽक्षमाचक्षते । लोके ऽपि वयोविद्यादिना महीयांसः प्रत्यक्षं स्वनामग्रहणे कुप्यंति । अतस्तत्प्रतिहाराय औपचारिकं नामांतरं एकं पारिभाषिकं शिष्यादयो व्यवहरंति । तस्माद्देवानामपि मुखतो नामग्रहणे प्रीत्यभावस्य संभाव्यमानत्वात् तदानीं नाम केनचिदक्षरेण व्यत्यस्य प्रयोक्तव्यमित्यर्थः । एवं कृतकार्याणां वम्रीणां देवैः यथाप्रतिज्ञातं वरो दत्त इत्याह ॥ १३ ॥
Eggeling
- And Makha (sacrifice), indeed, is the same as Vishṇu: hence Indra became Makhavat (possessed of makha), since Makhavat is he who is mystically called Maghavat 14, for the gods love the mystic.
१४ आपो ऽन्नम्
विश्वास-प्रस्तुतिः
ता᳓भ्यो वम्री᳓भ्यो ऽन्ना᳓द्यम् प्रा᳓यछन्॥
आ᳓पो वै स᳓र्वम् अ᳓न्नं,
ता᳓भिर् ही᳙द᳓म् अभिक्नू᳓यम्+++(=क्लिन्नं)+++ इवाद᳓न्ति - य᳓द् इदं᳓ किं᳓चाद᳓न्ति॥
मूलम् - श्रीधरादि
(स्ता᳘) ता᳘भ्यो व्वम्री᳘भ्यो ऽन्ना᳘द्यम्प्रा᳘यच्छन्॥
(न्ना᳘) आ᳘पो वै स᳘र्व्वम᳘न्नं ता᳘भि᳘र्हीद᳘मभिक्नू᳘यमिवाद᳘न्ति य᳘दिदं कि᳘ञ्चादन्ति॥
मूलम् - Weber
ता᳘भ्यो वम्री᳘भ्योऽन्ना᳘द्यम् प्रा᳘यछन्॥
आ᳘पो वै स᳘र्वम᳘न्नं ता᳘भिॗर्हीद᳘मभिक्नू᳘यमिवाद᳘न्ति य᳘दिदं किं᳘चादन्ति॥
मूलम् - विस्वरम्
ताभ्यो वम्रीभ्यो ऽन्नाद्यं प्रायच्छन् । आपो वै सर्वमन्नम् । ताभिर्हीदमभिक्नूयमिवादंति । यदिदं किंचादंति ॥ १४ ॥
सायणः
ताभ्यो वम्रीभ्यो ऽन्नाद्यं प्रायच्छन्नापो वै सर्वमन्नं ताभिर्हीदमभिक्नूयमिवादंतीति । ‘ताभ्यः’ ज्याच्छिद्भ्यः ‘वम्रीभ्यः’ वमनशीलाभ्यः उपदीकाभ्यः ‘अन्नाद्यं’ अत्तुमर्हं अन्नम् पूर्वं प्रतिज्ञातं देवाः ‘प्रायच्छन्’ दत्तवंतः । किं तत् अन्नाद्यम् इत्युच्यते । ‘आपो वै’ आपो वै ‘सर्वमन्नम्’ । सर्वेषामन्नानां अव्विकारत्वात् कारणभूतासु अप्सु सर्वमन्नमवस्थितम् । तथाच अब्रूपमेव अन्नाद्यं दत्तमित्यर्थः । इतरथा व्रीहियवानामेकैकस्य प्रदाने तस्यान्नस्य कार्त्स्न्यं न स्यात् । कथमेतदवगम्यत इत्युच्यते । ताभिरद्भिर्हि ‘इदं’ सर्वं वस्तुजातं ‘अभिक्नूयमिव’ “क्नूयी शब्दे उन्दे च” (धा. पा. भ्वा. आ. ४८६) आर्द्रीकृत्यैव ‘अदंति’ भक्षयंति । ‘यदिदं किंच’ वस्तुजातं इदानीम् उपदीका ‘अदंति’ । तत्सर्वं उदकैः संसिच्य भक्षयंति । तस्मात् सर्वान्नकारणभूतमुदकं देवैः प्राक् आभ्यो दत्तमिति गम्यते ॥ १४ ॥
Eggeling
- They gave to those ants the enjoyment of food; but, indeed, all food is water, for it is by moistening (the food) therewith that one eats here whatever one does eat.
१५ त्रेधा विभागो देवगणैः
विश्वास-प्रस्तुतिः
अ᳓थेम᳓म् वि᳓ष्णुं यज्ञ᳓म् त्रेधा᳓ व्य᳓भजन्त॥
व᳓सवः प्रातःसवनं᳓, रुद्रा मा᳓ध्यन्दिनं स᳓वनम्, आदित्या᳓स् तृतीयसवन᳓म्॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थेमम्वि᳘ष्णुं य्यज्ञं᳘ त्रेधा᳘ व्व्यभजन्त[[!!]]॥
व्व᳘सवः प्रातःसवन᳘ᳫँ᳘ रुद्रा मा᳘ध्यन्दिनᳫँ᳭ स᳘वनमादित्या᳘स्तृतीयसवन᳘म्॥
मूलम् - Weber
अ᳘थेमम् वि᳘ष्णुं यज्ञ᳘म् त्रेधा व्य᳘भजन्त॥
व᳘सवः प्रातःसवनं᳘ रुद्रा मा᳘ध्यन्दिनᳫं स᳘वनमादित्या᳘स्तृतीयसवन᳘म्॥
मूलम् - विस्वरम्
अथेमं विष्णुं यज्ञं त्रेधा व्यभजंत । वसवः प्रातःसवनम् । रुद्रा माध्यंदिनं सवनम् । आदित्यास्तृतीयसवनम् ॥ १५ ॥
सायणः
एवमुपायेन प्राप्तस्य यज्ञस्य देवैः कृतं विभागं दर्शयति- अथेमं विष्णुं यज्ञं त्रेधा व्यभजंत । वसवः प्रातःसवनमिति । अथानंतरं ‘इमं’ छिन्नशिरस्कं विष्ण्वात्मकं ‘यज्ञं’ देवास्त्रेधा ‘व्यभजंत’ । तत्र ‘वसवः’ ‘प्रातःसवनं’ स्वभागत्वेन स्वीकृतवंतः । तत्रापि ‘अग्निः’ प्राधान्येन तत् ‘प्रातःसवनं’ पर्यगृह्णात् । तथा छंदसां मध्ये ‘गायत्री’ छंदो ऽभिमानिनी देवता तत्प्रातःसवनं स्वभागत्वेन स्वीकृतवती । एवमेवोत्तरयोरपि सवनयोः गणदेवताप्रधानदेवताछंदसां संबंधः प्रतिपत्तव्यः । स्पष्टमन्यत् । एवं यज्ञं विभज्य देवैः कृतं दर्शयति- तेनापशीर्ष्णा यज्ञेन देवा अर्च्चंतः श्राम्यंतश्चेरुरिति । ‘अपशीर्ष्णा’ अपगतशिरस्केन प्रवर्ग्यविरहितेन विभक्तेन सवनेन ‘अर्चंतः’ पूजयंतः ‘देवाः’ सत्रासनं कुर्वंतः फलाभावात् केवलं ‘श्राम्यंतः’ प्रयासमेव प्राप्नुवंतः चेरुश्चरितवंतः । फलप्राप्त्यक्षमं अपगतशिरस्कं तं यज्ञं एवं सवनशो विभज्य अतिष्ठन्नित्यर्थः । तदेतत् स्पष्टीकृतं तैत्तिरीयेण- “तेनापशीर्ष्णा यज्ञेन यजमाना नाशिषो ऽवारुंधत । न सुवर्गं लोकमभ्यजयन्” (तै. आ. ५ । १ । ५) इति ॥ १५-१७ ॥
Eggeling
- This Vishṇu, the (Soma-) sacrifice, they then divided amongst themselves into three parts: the Vasus (received) the morning-pressing, the Rudras the midday-pressing, and the Ādityas the third pressing.
१६ त्रेधा विभागो देवैः
विश्वास-प्रस्तुतिः
अग्निः᳓ प्रातःसवन᳓म्॥
इ᳓न्द्रो मा᳓ध्यन्दिनं स᳓वनम्,
वि᳓श्वे देवा᳓स् तृतीयसवन᳓म्॥
मूलम् - श्रीधरादि
(म) अग्निः᳘ प्रातःसवनम्॥
(मि᳘) इ᳘न्द्रो मा᳘ध्यन्दिनᳫँ᳭ स᳘वनम्वि᳘श्वे देवा᳘स्तृतीयसवन᳘म्॥
मूलम् - Weber
अग्निः᳘ प्रातःसवनम्॥
इ᳘न्द्रो मा᳘ध्यन्दिनᳫं स᳘वनम् वि᳘श्वे देवा᳘स्तृतीयसवन᳘म्॥
मूलम् - विस्वरम्
अग्निः प्रातःसवनम् । इन्द्रो माध्यंदिनं सवनम् । विश्वे देवास्तृतीयसवनम् ॥ १६ ॥
सायणः
[व्याख्यानं पञ्चदशे]
Eggeling
- Agni (received) the morning-pressing, Indra
the midday-pressing, and the Viśve Devāḥ the third pressing.
१७ त्रेधा विभागश् छन्दोभिः
विश्वास-प्रस्तुतिः
गायत्री᳓ प्रतःसवन᳓म्॥
त्रिष्टु᳓म् मा᳓ध्यन्दिनं स᳓वनं, ज᳓गती तृतीयसवन᳓म् -
ते᳓ना᳓पशीर्ष्णा यज्ञे᳓न देवा᳓ अ᳓र्चन्तः श्रा᳓म्यन्तश् चेरुः॥
मूलम् - श्रीधरादि
(ङ्गा) गायत्री᳘ प्रतःसवन᳘म्॥
(न्त्रि) त्रिष्टुम्मा᳘ध्यन्दिनᳫँ᳭ स᳘वनञ्ज᳘गती तृतीयसवनं तेना᳘पशीर्ष्णा यज्ञे᳘न देवा ऽअ᳘र्च्चन्तः श्रा᳘म्यन्तश्चेरुः॥
मूलम् - Weber
गायत्री᳘ प्रतःसवन᳘म्॥
त्रिष्टुम्मा᳘ध्यन्दिनᳫं स᳘वनं ज᳘गती तृतीयसवनं तेना᳘पशीर्ष्णा यज्ञे᳘न देवा अ᳘र्चन्तः श्रा᳘म्यन्तश्चेरुः॥
मूलम् - विस्वरम्
गायत्री प्रातःसवनम् । त्रिष्टुप् माध्यंदिनं सवनम् । जगती तृतीयसवनम् । तेनापशीर्ष्णा यज्ञेन देवा अर्चंतः श्राम्यंतश्चेरुः ॥ १७ ॥
सायणः
[व्याख्यानं पञ्चदशे]
Eggeling
- The Gāyatrī (received) the morning-pressing, the Trishṭubh the midday-pressing, and the Jagatī the third pressing. The gods went on worshipping and toiling with that headless sacrifice.
१८ दध्य᳓ङ्
विश्वास-प्रस्तुतिः
दध्य᳓ङ् ह वा᳓ आथर्व᳓णः॥
एतं᳓ शुक्र᳓म्, एतं᳓ यज्ञं᳓ विदां᳓ चकार -
य᳓था-यथैत᳓द् यज्ञ᳓स्य शि᳓रः प्रतिधीय᳓ते, य᳓थैष᳓ कृत्स्नो᳓ यज्ञो᳓ भवति॥
मूलम् - श्रीधरादि
दध्य᳘ङ् ह वा᳘ ऽआथर्व्व᳘णः॥
(ऽ) एत᳘ᳫँ᳘ शुक्र᳘मेतं᳘ यज्ञ᳘म्विदा᳘ञ्चकार य᳘थायथैत᳘द्यज्ञ᳘स्य शि᳘रः प्रतिधीय᳘ते य᳘थैष᳘ कृत्स्नो᳘ यज्ञो[[!!]] भवति॥
मूलम् - Weber
दध्य᳘ङ् ह वा᳘ आथर्व᳘णः॥
एतं᳘ शुक्र᳘मेतं᳘ यज्ञ᳘म् विदां᳘ चकार य᳘था-यथैत᳘द्यज्ञ᳘स्य शि᳘रः प्रतिधीय᳘ते य᳘थैष᳘ कृत्स्नो᳘ यज्ञो᳘ भवति॥
मूलम् - विस्वरम्
दध्यङ् ह वा आथर्वण एतं शुक्रमेतं यज्ञं विदाञ्चकार । यथायथैतद्यज्ञस्य शिरः प्रतिधीयते । यथैष कृत्स्नो यज्ञो भवति ॥ १८ ॥
सायणः
ननु- एवं छिन्नशिरसो यज्ञस्य फलसाधनत्वाभावात् तदनुष्ठानमेव सर्वत्र उत्सीदेत् इत्याशंक्य कश्चित् ऋषिः तत्संधानविद्याकुशल आसीदित्याह- दध्यङ् ह वा इति । ‘आथर्वणः’ अथर्वणः पुत्रः ‘दध्यङ् ह’ एतत्संज्ञः खलु पुरा ऋषिः ‘शुक्रं’ निर्मलं सूर्यात्मना दीप्यमानं ‘एतं’ प्रवर्गाख्यं यज्ञस्य मूर्द्धानं ‘एतं’ सवनत्रयात्मकं प्रागुक्तं अपगतशिरस्कं यज्ञं ‘विदांचकार’ सम्यक् अजानात् । ‘यथायथा’ येनयेन च उपायेन ‘एषः’ यज्ञः ‘कृत्स्नः’ संपूर्णावयवः शिरश्छेदात् प्रागिव सम्यक् फलजनको भवति । तथा ‘एतत्’ उभयं पुरा ज्ञातवान् इत्यर्थः ॥ १८ ॥
Eggeling
- Now Dadhyañc Ātharvaṇa knew this pure essence 15, this Sacrifice,–how this head of the Sacrifice is put on again, how this Sacrifice becomes complete.
१९ इन्द्रेण भायनम्
विश्वास-प्रस्तुतिः
स हे᳓न्द्रेणोक्त᳓ आस॥
एत᳓म् चे᳓द् अन्य᳓स्मा अनुब्रूयास् -
त᳓त एव᳓ ते शि᳓रश् छिन्द्याम् इ᳓ति॥
मूलम् - श्रीधरादि
स हे᳘न्द्रेणो᳘क्त ऽआस[[!!]]॥
(सै) एत᳘ञ्चेदन्य᳘स्मा ऽअनुब्रूयास्त᳘त ऽएव᳘[[!!]] ते शि᳘रश्छिन्द्यामि᳘ति॥
मूलम् - Weber
स हे᳘न्द्रेणोक्त᳘ आस॥
एतम् चे᳘दन्य᳘स्मा अनुब्रूयास्त᳘त एव᳘ ते शि᳘रश्छिन्द्यामि᳘ति॥
मूलम् - विस्वरम्
स हेन्द्रेणोक्त आस । एतं चेदन्यस्मा अनुब्रूयाः । तत एव ते शिरश्छिन्द्यामिति ॥ १९ ॥
सायणः
स च पुरा आदित्यात्मना यज्ञशिरःसंधानविद्याम् इंद्राय उपदिदेश । स च इंद्रः एवं अजानात् । यदि अयम् इमां विद्यामन्यस्मै अपि उपदिशेत् । सो ऽपि मद्विधः स्यादिति । ततस्तमपि इतः परं एषा न कस्यापि उपदेष्टव्या इति आज्ञापितवान् इत्याह- स हेन्द्रेणोक्त आस । एतं चेदन्यस्मा ऽअनुब्रूयाः । **तत एव ते शिरश्छिन्द्यामितीति । ‘स’ खलु ‘दध्यङ्’ पुरा इंद्रस्य विद्यामुपदिश्य तेनेन्द्रेणोक्तः ‘आस’ बभूव । कथमिति तदुच्यते ‘एतं’ प्रवर्ग्यं ‘अन्यस्मै’ मद्व्यतिरिक्ताय कस्मैचित् ‘अनुब्रूयाश्चेत्’ ‘तत एव’ अनंतरमेव आगत्य ते तव ‘शिरश्छिन्द्याम्’ छिन्नं कुर्यामिति ॥ १९ ॥
Eggeling
- He then was spoken to by Indra saying, ‘If thou teachest this (sacrificial mystery) to any one else, I shall cut off thy head.’
२० आथर्वण-ज्ञानम्
विश्वास-प्रस्तुतिः
त᳓दु हाश्वि᳓नोर् अ᳓नुश्रुतम् आस॥
दध्य᳓ङ्ङ् उ ह वा᳓ आथर्वण᳓ एतं᳓, शुक्र᳓म् एतं᳓ यज्ञ᳓म् वेद -
य᳓थायथैत᳓द्[[!!!]] यज्ञ᳓स्य शि᳓रः प्रतिधीय᳓ते, य᳓थैष᳓ कृत्स्नो᳓ यज्ञो᳓ भ᳓वति॥
मूलम् - श्रीधरादि
त᳘दु हाश्वि᳘नोर᳘नुश्रुतमास॥
दध्य᳘ङ्ङु ह वा᳘ ऽआथर्व्वण᳘ ऽएत᳘ᳫँ᳘ शुक्र᳘मेतं᳘ यज्ञ᳘म्वेद यथायथैत᳘द्यज्ञ᳘स्य शि᳘रः प्रतिधीय᳘ते य᳘थैष᳘ कृत्स्नो᳘ यज्ञो भ᳘वती᳘ति॥
मूलम् - Weber
त᳘दु हाश्वि᳘नोर᳘नुश्रुतमास॥
दध्य᳘ङ्ङु ह वा᳘ आथर्वण᳘ एतं᳘ शुक्र᳘मेतं᳘ यज्ञ᳘म् वेद यथायथैत᳘द्यज्ञ᳘स्य शि᳘रः प्रतिधीय᳘ते य᳘थैष कृत्स्नो᳘ यज्ञो भ᳘वति॥
मूलम् - विस्वरम्
तदु हाश्विनोरनुश्रुतमास । दध्यङ् उ ह वा आथर्वण एतं शुक्रमेतं यज्ञं वेद । यथायथैतद्यज्ञस्य शिरः प्रतिधीयते । यथैष कृत्स्नो यज्ञो भवतीति ॥ २० ॥
सायणः
तदु हाश्विनोरनुश्रुतमासेति । तत्तस्मात् इंद्रोपदेशात् पुरैव खलु अश्विनोरश्विदेवयोः तद्विद्यादानं ‘अनुश्रुतं’ प्रतिश्रुतं ‘आस’ अश्विनौ हि पुरा बाल्यावस्थायां दधीचः चिकित्सां कृत्वा युवाभ्यां किं दातव्यं इति पृष्टौ एवमन्वब्रूताम् । हे महर्षे ! त्वयि नानाविधा विद्याः संति । तासां मध्ये या सारतः सा आवाभ्यां उपदेष्टव्येति । तर्हि मयि सारतः द्वे मधुविद्ये स्तः । ते युवाभ्यां उपदेक्ष्यामि । इदानीं युवयोरस्ति बाल्यम् । बाल्यात्तदवसरो न भवति । अतः कालांतरे समागंतव्यमिति । एवं विद्यादानं अश्विभ्यां इंद्रोपदेशात् प्राक्कालमेव प्रतिश्रुतं आस प्रतिशुश्रावेत्यर्थः । एवं स्थिते यज्ञानुष्ठानेन फलप्राप्तिरहितेन श्राम्यंतो देवाः अश्विनौ आहूय एवमब्रुवन् । युवां हि अस्माकं भिषजौ । अस्मदीयो यज्ञः छिन्नशिरस्कः सन् फलजननाशक्तः अभवत् । तस्य शिरसा संधानं भवद्भ्यां कार्यमिति । तदेतदुक्तं तित्तिरिणा- “ते देवा अश्विनावब्रुवन् । भिषजौ वै स्थः । इदं यज्ञस्य शिरः प्रतिधत्तमिति” (तै. आ. ५ । १ । ६) इति । एवमुक्तौ अश्विनौ कथमेतस्य संधानं इत्यालोचयंतौ दधीचा पूर्वमुक्तं अस्मरतामित्याह- दध्यङ् उ ह वा आथर्वण एतं शुक्रमेतं यज्ञं वेद यथायथैतद्यज्ञस्य शिरः प्रतिधीयते यथैव कृत्स्नो भवतीति । ‘ह’ इति स्मरणे । स खलु अथर्वणः पुत्रः ‘दध्यङ्’ नामा ऋषिः, ‘एतं शुक्रं’ प्रवर्ग्यं ‘एतं यज्ञं’ सवनत्रयात्मकं ‘वेद’ जानाति । यथायथेत्यादि पूर्ववत् । इत्यनेन प्रकारेण ऋषिं अश्विनौ सस्मरतुः ॥ २० ॥
Eggeling
- Now this was heard by the Aśvins,–‘Verily, Dadhyañc Ātharvaṇa knows this pure essence, this Sacrifice,–how this head of the Sacrifice is put on again, how this Sacrifice becomes complete.’
२१ अश्वि-प्रश्नः
विश्वास-प्रस्तुतिः
तौ᳓ है᳓त्योचतुः -
“उ᳓प त्वा ऽयावे᳓“ति।
“कि᳓म् अनुवक्ष्य᳓माणाव्” इ᳓त्य्
“एत᳓ᳫँ᳓ शुक्र᳓म् एतं᳓ यज्ञं य᳓थायथैत᳓द् यज्ञ᳓स्य शि᳓रः प्रतिधीय᳓ते
य᳓थैष᳓ कृत्स्नो᳓ यज्ञो भ᳓वती᳓“ति॥
मूलम् - श्रीधरादि
तौ है᳘त्योचतुः॥
(रु᳘) उ᳘प त्वा ऽयावे᳘ति कि᳘मनुवक्ष्य᳘माणावि᳘त्येत᳘ᳫँ᳘ शुक्र᳘मेतं᳘ यज्ञं य᳘थायथैत᳘द्यज्ञ᳘स्य शि᳘रः प्रतिधीय᳘ते य᳘थैष᳘ कृत्स्नो᳘ यज्ञो भ᳘वती᳘ति॥
मूलम् - Weber
तौ हे᳘त्योचतुः॥
उ᳘प त्वायावे᳘ति कि᳘मनुवक्ष्य᳘माणावि᳘त्येतं शुक्र᳘मेतं᳘ यज्ञम् य᳘था-यथैत᳘द्यज्ञ᳘स्य शि᳘रः प्रतिधीय᳘ते य᳘थैष᳘ कृत्स्नो᳘ यज्ञो भ᳘वती᳘ति॥
मूलम् - विस्वरम्
तौ हैत्योचतुः । उप त्वा ऽयावेति । किमनुवक्ष्यमाणाविति । एतं शुक्रमेतं यज्ञम् । यथायथैतद्यज्ञस्य शिरः प्रतिधीयते । यथैष कृत्स्नो यज्ञो भवतीति ॥ २१ ॥
सायणः
एवं स्मृतवतोस्तयोः दधीचश्च उक्तिप्रत्युक्ती दर्शयति- तौ हैत्योचतुरिति । ‘तौ’ खलु अश्विनौ पुरा विद्यादानं प्रतिश्रुतवंतं दध्यंचं ‘एत्य’ प्राप्य ऊचतुरुक्तवंतौ । किमिति ? उप त्वा ऽयावेति । उपगतवंतौ ‘त्वा’ इति । ततः स ऋषिरब्रवीत्- किमनुवक्ष्यमाणाविति । किमुद्दिश्य युवां अनुवचनेन मया शिक्षणीयौ । मया युवाभ्यां किमुपदेष्टव्यमित्यर्थः । अथाश्विनौ अब्रूताम् । ‘एतं शुक्रम् एतं यज्ञं’ अनुवक्ष्यमाणाविति । यत् भवता विज्ञातं प्रवर्ग्याख्यं यज्ञशिरः यश्च तत्संबंधो यज्ञः एतत् उभयं त्वत्तः अध्येष्यमाणौ आवां आगतावित्यर्थः । अन्यत् पूर्ववत् योज्यम् ॥ २१ ॥
Eggeling
- They went up to him and said, ‘We two will become thy pupils.’–‘What are ye wishing to learn?’ he asked.–‘This pure essence, this Sacrifice,–how this head of the Sacrifice is put on again, how this Sacrifice becomes complete,’ they replied.
२२ भय-वचनम्
विश्वास-प्रस्तुतिः
स᳓ होवाच᳓॥
इ᳓न्द्रेण वा᳓ ऽउ᳓क्तो ऽस्म्य्
एत᳓ञ् चे᳓द् अन्य᳓स्मा ऽअनुब्रूया᳓स्
त᳓त ऽएव᳓ ते शि᳓रश् छिन्द्याम्इ᳓ति।
त᳓स्माद् वै᳓ बिभेमि
य᳓द् वै᳓ मे स᳓ शि᳓रो न᳓ छिन्द्यान्
न᳓ वाम् उ᳓पनेष्य
ऽइ᳓ति॥
मूलम् - श्रीधरादि
स᳘ होवाच᳘॥
(चे᳘) इ᳘न्द्रेण वा᳘ ऽउ᳘क्तो ऽस्म्येतञ्चे᳘दन्य᳘स्मा ऽअनुब्रूयास्त᳘त ऽएव᳘ ते शि᳘रश्छिन्द्यामि᳘ति त᳘स्माद्वै᳘ बिभेमि यद्वै᳘ मे स शि᳘रो न᳘ छिन्द्यान्न᳘ वामु᳘पनेष्य ऽइ᳘ति॥
मूलम् - Weber
स᳘ होवाच॥
इ᳘न्द्रेण वा᳘ उॗक्तोऽस्म्येतं चे᳘दन्य᳘स्मा अनुब्रूयास्त᳘त एव᳘ ते शि᳘रश्छिन्द्यामि᳘ति त᳘स्माद्वै᳘ बिभेमि यद्वै᳘ मे स शि᳘रो न᳘ छिन्द्यान्न᳘ वामु᳘पनेष्य इ᳘ति॥
मूलम् - विस्वरम्
स होवाच । इंद्रेण वा उक्तो ऽस्मि । एतं चेदन्यस्मा अनुब्रूयाः । तत एव ते शिरश्छिन्द्यामिति । तस्माद्वै बिभेमि । यद्वै मे स शिरो न च्छिन्द्यात् न वामुपनेष्य इति ॥ २२ ॥
सायणः
एवं अश्विभ्यां प्रवर्ग्यविद्याया उपदेशे प्रार्थिते सति दधीचा एवमुक्तम् इत्याह- स होवाच न वामुपनेष्य इतीति। ‘सः’ खलु दध्यङ् अश्विभ्यां विद्योपदेशम् उद्दिश्य प्रार्थ्यमानः ‘उवाच’ उक्तवान् । उक्तिप्रकारमाह- इंद्रेणेति । अहं पुरा ‘इंद्रेण’ खलु एवं ‘उक्तो ऽस्मि’ भवामि । ‘एतं’ प्रवर्ग्याख्यं यज्ञस्य शिरः ‘चेत्’ यदि ‘अन्यस्मै’ मद्व्यतिरिक्ताय ‘अनुब्रूयाः’ उपदिशेः । ‘तत एव’ अनंतरमेव आगत्य ‘ते’ तव ‘शिरः छिद्याम्’ वज्रेण छिनद्मि इति । यस्मात् मां प्रति एवं इंद्र उक्तवान् । तस्मादेव निमित्तात् ‘बिभेमि’ भीतो ऽस्मि । ‘यद्वै’ यदि खलु ‘सः’ इंद्रः ‘मे’ मदीयं ‘शिरः न छिंद्यात्’ । तर्हि ततो न बिभेमि । अभीतश्च ‘वां’ युवां ‘उपनेष्ये’ । विद्योपदेशाय मत्समीपं प्रापयामीति ॥ २२ ॥
Eggeling
- He said, ‘I was spoken to by Indra saying, ‘If thou teachest this to any one else, I shall cut off thy head;’ therefore I am afraid lest he should indeed cut off my head: I cannot take you as my pupils.’
२३ उपायः
विश्वास-प्रस्तुतिः
तौ᳓ होचतुः॥
“आवा᳓न् त्वा त᳓स्मात् त्रास्यावहे” ऽइ᳓ति।
“कथ᳓म् मा त्रास्येथे” ऽइ᳓ति।
यदा᳓ ना ऽउपनेष्यसे᳓
ऽथ ते शि᳓रश् छि᳓त्त्वा ऽन्य᳓त्रापनि᳓धास्यावो
ऽथा᳓श्वस्य शि᳓र ऽआ᳓हृत्य
त᳓त् ते प्र᳓तिधास्यावस्,
ते᳓न नाव् अ᳓नुवक्ष्यसि।
स᳓ यदा᳓ नाव् अनुवक्ष्यस्य्
अ᳓थ ते त᳓द् इ᳓न्द्रः शि᳓रश् छेत्स्यत्य्
अ᳓थ ते स्वᳫँ᳭᳓ शि᳓र ऽआहृ᳓त्य
त᳓त् ते प्र᳓तिधास्याव
ऽइ᳓ति।
“तथे᳓“ति॥
मूलम् - श्रीधरादि
तौ᳘ होचतुः॥
(रा) आवा᳘न्त्वा त᳘स्मात्त्रास्यावहे ऽइ᳘ति कथ᳘म्मा त्रास्येथे ऽइ᳘ति यदा᳘ ना ऽउपनेष्यसे᳘ ऽथ ते शि᳘रश्छि᳘त्त्वा ऽन्य᳘त्रापनि᳘धास्यावो ऽथा᳘श्वस्य शि᳘र ऽआ᳘हृत्य त᳘त्ते प्र᳘तिधास्यावस्ते᳘न नाव᳘नुवक्ष्यसि स᳘ यदा᳘ नावनुवक्ष्यस्य᳘थ ते तदि᳘न्द्रः शि᳘रश्छेत्स्यत्य᳘थ ते स्वᳫँ᳭ शि᳘र ऽआहृ᳘त्य त᳘त्ते प्र᳘तिधास्याव ऽइ᳘ति तथे᳘ति॥
मूलम् - Weber
तौ᳘ होचतुः॥
आवा᳘म् त्वा त᳘स्मात्त्रास्यावह इ᳘ति कथ᳘म् मा त्रास्येथे इ᳘ति यदा᳘ ना उपनेष्यसे᳘ऽथ ते शि᳘रश्छिॗत्त्वान्य᳘त्रापनि᳘धास्यावोऽथा᳘श्वस्य शि᳘र आहृ᳘त्य त᳘त्ते प्र᳘तिधास्यावस्ते᳘न नाव᳘नुवक्ष्यसि स᳘ 16 यदा᳘ नावनुवक्ष्यस्य᳘थ ते शि᳘रश्छेत्स्यत्य᳘थ ते स्वं शि᳘र आहृ᳘त्य त᳘त्ते प्र᳘तिधास्याव इ᳘ति तथे᳘ति॥
मूलम् - विस्वरम्
तौ होचतुः । आवां त्वा तस्मात्त्रास्यावहे इति । कथं मा त्रास्येथे इति । यदा ना उपनेष्यसे । अथ ते शिरच्छित्त्वा अन्यत्रापनिधास्यावः । अथाश्वस्य शिर आहृत्य तत्ते प्रतिधास्यावः । तेन नावनुवक्ष्यसि । स यदा नावनुवक्ष्यसि । अथ ते तदिन्द्रः शिरश्छेत्स्यति । अथ ते स्वं शिर आहृत्य तत्ते प्रतिधास्याव इति । तथेति ॥ २३ ॥
सायणः
एवं प्रथमं ऋषिणा उक्ते अश्विनोः स्वस्य च परस्परं संजातं संवादमाह- तौ होचतुः० तथेतीति । इंद्रनिमित्ते आत्मीये भये ऋषिणा उक्ते तावश्विनौ ‘ऊचतुः’ खलु । ‘आवां’ ‘त्वा’ त्वां दध्यंचं ‘तस्मात्’ इंद्रात् ‘त्रास्यावहे’ रक्षिष्यावः ‘इति’ । ततः स ऋषिः अब्रवीत् । ‘मा’ मां युवां ‘कथं’ ‘त्रास्येथे’ केनोपायेन तस्मादिन्द्रात् रक्षिष्यथः ‘इति’ । अथाश्विनोर्वचनं ‘यदा’ यस्मिन् काले ‘नौ’ आवां ‘उपनेष्यसे’ विद्योपदेशाय त्वत्समीपं प्रापयिष्यसि । अथानंतरमेव ‘ते’ तव मानुषं ‘शिरश्छित्त्वा’ अन्यत्रान्यस्मिन्देशे ‘उपनिधास्यावः’ । अथानंतरं अस्मत्पुरतो वर्तमानस्य ‘अश्वस्य शिर आहृत्य’ छित्त्वा आनीय । ‘तत्’ आश्वं ‘शिरः’ ‘ते’ तव शिरस्त्वेन ‘प्रतिधास्यावः’ । त्वदीये गले निधाय संधास्यावः । तेन च अश्वसंबंधिना शिरसा ‘नौ’ आवां ‘अनुवक्ष्यसि’ आवयोः प्रवर्ग्यविद्यां उपदेक्ष्यसीत्यर्थः । तथाविधस्त्वं ‘यदा’ यस्मिन् काले ‘नौ’ आवां ‘अनुवक्ष्यसि’ । अथानंतरमेव इंद्र आगत्य अनुवचनसाधनं आश्वं ‘शिरः’ छेत्स्यति । अथानंतरं आवां ‘ते’ तव ‘स्वं’ स्वकीयं पूर्वं छित्त्वा अन्यत्र स्थापितं मानुषं ‘शिरः’ ‘आहृत्य’ ‘ते’ तव ‘तत्’ ‘प्रतिधास्यावः इति’ । एवं अश्विभ्यां उपाये कथिते तयोः तादृशं सामर्थ्यं अस्त्येवेति संभाव्य स ऋषिः तथेत्यंगीकृतवान् ॥ २३ ॥
Eggeling
- They said, ‘We two shall protect thee from him.’–‘How will ye protect me?’ he replied.–They said, ‘When thou wilt have received us as thy
pupils, we shall cut off thy head and put it aside elsewhere; then we shall fetch the head of a horse, and put it on thee: therewith thou wilt teach us; and when thou wilt have taught us, then Indra will cut off that head of thine; and we shall fetch thine own head, and put it on thee again.’–‘So be it,’ he replied.
२४ शिरो-रक्षा
विश्वास-प्रस्तुतिः
तौ᳓ हो᳓पनिन्ये॥
तौ᳓ यदो᳙पनिन्ये᳓ ऽथास्य शि᳓रश् छि᳓त्त्वा ऽन्य᳓त्रापनि᳓दधतुर्,
अथा᳓श्वस्य शि᳓र
ऽआहृ᳓त्य त᳓द्धास्य प्र᳓तिदधतुस्
ते᳓न हाभ्याम् अ᳓नूवाच।
स᳓ यदा᳙भ्याम् अनूवाचा᳓थास्य त᳓द् इ᳓न्द्रः शि᳓रश् चिच्छेदा᳓थास्य स्वᳫँ᳭ शि᳓र ऽआहृ᳓त्य
त᳓द्धास्य प्र᳓तिदधतुः॥
मूलम् - श्रीधरादि
तौ हो᳘पनिन्ये॥
तौ᳘ य᳘दोपनिन्ये᳘ ऽथास्य शि᳘रश्छि᳘त्त्वा ऽन्य᳘त्रापनि᳘दधतुरथा᳘श्वस्य शि᳘र ऽआहृ᳘त्य त᳘द्धास्य प्र᳘तिदधतुस्ते᳘न हाभ्याम᳘नूवाच स᳘ य᳘दाभ्यामनूवाचा᳘थास्य तदि᳘न्द्रः शि᳘रश्चिच्छेदा᳘थास्य स्वᳫँ᳭ शि᳘र ऽआहृ᳘त्य त᳘द्धास्य प्र᳘तिदधतुः॥
मूलम् - Weber
तौ हो᳘पनिन्ये॥
तौ᳘ यॗदोपनिन्ये᳘ऽथास्य शि᳘रश्छिॗत्त्वान्य᳘त्रापनि᳘दधतुरथा᳘श्वस्य शि᳘र आहृ᳘त्य त᳘द्धास्य प्र᳘तिदधतुस्ते᳘न हाभ्याम᳘नूवाच स᳘ यॗदाभ्यामनूवाचा᳘थास्य तदि᳘न्द्रः शि᳘रश्चिछेदा᳘थास्य स्वं शि᳘र आहृ᳘त्य त᳘द्धास्य प्र᳘तिदधतुः॥
मूलम् - विस्वरम्
तौ होपनिन्ये । तौ यदोपनिन्ये । अथास्य शिरश्छित्त्वा ऽन्यत्रापनिदधतुः । अथाश्वस्य शिर आहृत्य तद्धास्य प्रतिदधतुः । तेन हाभ्यामनूवाच । स यदाभ्यामनूवाच । अथास्य तदिन्द्रः शिरश्चिच्छेद । अथास्य स्वं शिर आहृत्य तद्धास्य प्रतिदधतुः ॥ २४ ॥
सायणः
अंगीकृत्य च तौ अश्विनौ विद्यामुपदिदिक्षुः स्वसमीपं प्रापितवानित्याह- तौ होपनिन्य इति । अथ पूर्वं अश्विभ्यां यथा प्रतिज्ञातं तथैव कृतम् इत्याह- तौ यदोपनिन्ये० निदधतुरिति । तावश्विनौ ‘यदा’ यस्मिन् काले ‘दध्यङ्’ आथर्वणः स्वसमीपं प्रापितवान् । तदनंतरं तावश्विनौ ‘अस्य’ दधीचो मानुषं ‘शिरश्छित्त्वा’ अन्यत्र स्थापितवंतौ स्थापयित्वा कस्यचिदश्वस्य शिरश्छित्वा ‘आहृत्य’ ‘अस्य’ ऋषेः शिरस्त्वेन तत् संयोजितवंतौ ऋषिश्च आश्वेन ‘तेन’ शिरसा आभ्यामश्विभ्यां प्रवर्ग्याख्यमधुविद्याम् ‘अनूवाच’ उपदिदेश । स च ऋषिः ‘यत्’ येन शिरसा आभ्यामश्विभ्यां ‘अनूवाच’ अथानंतरं ‘अस्य’ ऋषेः तच्छिरः ‘इंद्रः’ ‘चिच्छेद’ । अथानंतरं आश्वे शिरसि छिन्ने सति अश्विनौ ‘अस्य’ दधीचः ‘स्वं’ स्वकीयं पूर्वमन्यत्र स्थापितं मानुषं ‘शिर आहृत्य’ आनीय ‘अस्य’ ऋषेः तदेव ‘प्रतिदधतुः’ प्रतिहितं पूर्ववत् अविकलं अव्रणं च यथा भवति तथा संयुक्तं चक्रतुः ॥ २४ ॥
Eggeling
- He then received them (as his pupils); and when he had received them, they cut off his head, and put it aside elsewhere; and having fetched the head of a horse, they put it on him: therewith he taught them; and when he had taught them, Indra cut off that head of his; and having fetched his own head, they put it on him again,
२५ ऋक्
विश्वास-प्रस्तुतिः
त᳓स्माद् एत᳓द् ऋ᳓षिणा ऽभ्य᳓नूक्तम्॥
“दध्य᳓ङ् ह य᳓न् म᳓ध्वा ऽथर्व्वणो᳓ वाम्
अ᳓श्वस्य शीर्ष्णा प्र य᳓द् ई᳓म् उवाचे᳓“त्य्
अ᳓यतं त᳓द् उवाचे᳓ति हैवै᳙त᳓द् उक्त᳓म्॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘स्मादेतदृ᳘षिणा ऽभ्य᳘नूक्तम्॥
(न्द) दध्य᳘ङ् ह यन्म᳘ध्वाथर्व्वणो᳘ वाम᳘श्वस्य शीर्ष्णा प्र यदी᳘मुवाचेत्य᳘यतं त᳘दुवाचे᳘ति हैवैत᳘दुक्तम्[[!!]]॥
मूलम् - Weber
त᳘स्मादेतदृ᳘षिणाभ्य᳘नूक्तम्॥
दध्य᳘ङ् ह यन्म᳘ध्वाथर्वणो᳘ वाम᳘श्वस्य शीर्ष्णा प्र यदी᳘मुवाचेत्य᳘यतं त᳘दुवाचे᳘ति 17 है᳘वैत᳘दुक्तम्॥
मूलम् - विस्वरम्
तस्मादेतदृषिणा ऽभ्यनूक्तम् । “दध्यङ् ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाच”- इति । अयतं तदुवाच । इति हैवैतदुक्तम् ॥ २५ ॥
सायणः
उक्ते ऽर्थे कंचिन्मंत्रं संवादयति- तस्मादेतदृषिणा ऽभ्यनूक्तं० प्र यदीमुवाचेति । यस्मात् एवं पुरा वृत्तांतो जातः । तस्मादेव कारणात् ‘ऋषिणा’ कक्षीवन्नाम्ना अतीन्द्रियदर्शिना ऽपि एतदुक्तमर्थजातं अभिलक्ष्य ‘अनूक्तं’ अनुवचनं अध्ययनं कृतम् । यद्वा अलौकिकस्यार्थस्य प्रकाशनात्, ऋषिरिति वेद एवोच्यते । कथमनूक्तं तदाह- दध्यङ् हेति । अयमुत्तरः अर्द्धर्चः । अस्य पूर्वार्द्धस्तु- “तद्वान्नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न्न वृष्टिम्” इति पंचमे मधुब्राह्मणे (श. प. १४ । ५ । ५ । १६ ।) उदाहरिष्यते । अयमर्थः- हे नरौ नृतारावश्विनौ ! ‘वां’ युवयोः, तत् ‘उग्रं’ क्रूरं ‘दंसः’ कर्म ‘सनये’ धनानां लाभार्थं ‘आविष्कृणोमि’ प्रकटीकरोमि । ‘न’ इत्युपमार्थे । ‘तन्यतुर्न’ यथा तन्यतुः स्तनयित्नुर्मेघो न पिहितां वृष्टिमाविष्करोति । सर्वत्र लोके बिंदुशो विस्तारयति । किं तदुग्रमित्युच्यते । ‘आथर्वणः’ अथर्वणः पुत्रः ‘दध्यङ्’ नाम ऋषिः खलु पुरा ‘वां’ युवाभ्यां ‘यत्’ प्रवर्ग्याख्यं ‘मधु’ लोके प्रसिद्धम् ‘अश्वस्य शीर्ष्णा’ शिरसा प्रतिहितेन ‘प्रोवाच’ प्रोक्तवान् ‘इति’ । यत् कर्म तदिति । अथास्य मंत्रस्य तात्पर्यमाह- अयतं तदुवाचेति । इंद्रेण पुरा मा अन्यस्मै वोचः इति प्रतिषिद्धमपि तन्मधु, ‘अयतं’ अनियमितं मन्वानः ‘उ’ एव दध्यङ् ताभ्यामश्विभ्यां ‘उवाच’ उक्तवानिति यत् एतत्तदेव खलु ऋषिणा मंत्रेणोक्तं प्रतिपादितम् । मदीयं मानुषं शिरस्तु अश्विभ्यामन्यत्र निक्षिप्तम् । येन शिरसा ताभ्यां विद्या उपदिश्यते । काममिंद्रस्तच्छिनत्तु । पुनः प्रतिहितेन मदीयेन मानुषशिरसा विद्याया अनुपदिष्टत्वात् तस्य छेदनशंका ऽपि न संभवतीति । एवं विश्रंमेण अश्विभ्यां विद्यामुपदिदेशेति तात्पर्यप्रतिपादकस्य ब्राह्मणस्याभिप्रायः ॥ २५ ॥
Eggeling
- Therefore it is concerning this that the R̥shi has said (R̥g-v. I, 116, 12), ‘That Dadhyañc Ātharvaṇa, with a horse’s head, anywise spoke forth unto you two the sweet doctrine:’–‘Unrestrainedly he spoke this,’ is what is thereby meant.
२६ रहस्यम्
विश्वास-प्रस्तुतिः
त᳓न् न᳓ स᳓र्व्वस्मा ऽअ᳓नुब्रूयात्॥
एन᳓स्यᳫँ᳭ हि त᳓द्
“अ᳓थो ने᳓न् म ऽइ᳓न्द्रः शि᳓रश् छिन᳓दद्” इ᳓ति।
यो᳓ ऽन्वेव᳓ ज्ञात᳓स्
त᳓स्मै ब्रूयाद्
अ᳓थ यो᳙ ऽनूचानो᳓
ऽथ यो᳙ ऽस्य प्रियः᳓ स्या᳓न्
न᳓ त्व् ए᳙व᳓ स᳓र्व्वस्मा ऽइव॥
मूलम् - श्रीधरादि
(न्त) तन्न स᳘र्व्वस्मा ऽअनुब्रूयात्[[!!]]॥
(दे) एन᳘स्यᳫँ᳭ हि तद᳘थो ने᳘न्म ऽइ᳘न्द्रः शि᳘रश्छिन᳘ददि᳘ति यो᳘ ऽन्वेव᳘ ज्ञातस्त᳘स्मै ब्रूयाद᳘थ᳘ यो ऽनूचानो᳘ ऽथ᳘ यो ऽस्य प्रियः स्यान्न᳘ त्वेव स᳘र्व्वस्मा ऽइव॥
मूलम् - Weber
तन्न स᳘र्वस्मा अ᳘नुब्रूयात्॥
एनस्यᳫं हि तद᳘थो ने᳘न्म इ᳘न्द्रः शि᳘रश्छिन᳘ददि᳘ति योॗ न्वेव᳘ ज्ञातस्त᳘स्मै ब्रूयाद᳘थॗ योऽनूचानो᳘ऽथॗ योऽस्य प्रियः स्यान्नॗ त्वेव स᳘र्वस्मा इव॥
मूलम् - विस्वरम्
तन्न सर्वस्मा अनुब्रूयात् । एनस्यं हि तत् । अथो नेन्म इंद्रः शिरश्छिनददिति । यो ऽन्वेव ज्ञातः । तस्मै ब्रूयात् । अथ यो ऽनूचानः । अथ यो ऽस्य प्रियः स्यात् । न त्वेव सर्वस्मा इव ॥ २६ ॥
सायणः
इदं प्रवर्ग्याख्यं मधु साधारण्येन सर्वेषां नोपदेष्टव्यम् इत्याह- तन्न सर्वस्मा अनुब्रूयादिति । ‘तत्’ पूर्वोक्तं इंद्रेण गोपितं प्रवर्ग्याख्यं मधु ‘सर्वस्मै’ ये विशिष्टमातापितृजन्याः आचारवंतश्च । ये च तद्विलक्षणाः तस्मै सर्वस्मै जनाय अविशेषेण ‘नानुब्रूयात्’ नोपदिशेत् नाध्यापयेद्वा । कुत इत्येतत् ? आह- एनस्यँ हि तदथो नेन्म इंद्रः शिरश्छिनददिति । यत् अविशेषेण सर्वेषामुपदेशनमध्यापनं तत् ‘एनस्यं’ एनसे हितं पापकारि भवति खलु अतो न ब्रूयात् । ‘अथो’ अपि च ‘मे’ मदीयं विद्योपदेशसाधनं ‘शिरः’ ‘इंद्रः छिनदत्’ छिंद्यात् । यथा पुरा अश्विभ्यामुपदिष्टवतो दधीचः शिरः चिच्छेद । नेदिति परिभये (निरु. १ । ११ । १) यदि अहम् अविशेषेण सर्वस्मै उपदेक्ष्यामि । तर्हि इंद्र आगत्य मदीयं शिरः छिन्द्यात् इति परिभयेनापि यस्मै कस्मैचिदपि अविज्ञातकुलगोत्राय नोपदेष्टव्यमित्यर्थः । यद्वा नेति प्रतिषेधे (निरु. १ । ४ । ७) । इदित्यवधारणे । नैव मदीयं शिरः इंद्रः छिंद्यादिति । अनेनाभिप्रायेण । “छिदिर्द्वैधीकरणे” (धा. पा. रु. उ. ३) इत्यस्मात् लोटि अडागमः । “इतश्च लोपः” (पा. सू. ३ । ४ । ९७) इतीकारलोपः । रुधादित्वात् श्नम् । तर्हि, कस्मै विद्या उपदेष्टव्या इत्यत आह- यो ऽन्वेव ज्ञातस्तस्मै० इवेति । ‘यः’ खल्वेव, शिष्यः ‘ज्ञातः’ विशिष्टमातापितृजन्यत्वेनावगतः ‘तस्मै’ प्रवर्ग्याख्यमधुविद्यां ‘ब्रूयात्’ उपदिशेत् । अथवा ‘यः अनूचानः’ सांगवेदाध्यायी तस्मै ब्रूयात् । अथवा ‘यः अस्य प्रियः’ इष्टतमो बंधुः स्यात् । तस्मै ब्रूयात् । एवं एतेषामेव विद्यामुपदिशेत् । ‘न तु’ अविशेषेणैव ‘सर्वस्मै’ शिष्यजनाय उपदेष्टव्यैव भवेत् । साधारण्येन सर्वेषामुपदेष्टा एनस्वी भवति । तथा न भवेदित्यर्थः ॥ २६ ॥
Eggeling
- One must not teach this to any and every one, since that would be sinful, and lest Indra should cut off his head; but one may only teach it to one who is known to him, and who has studied sacred writ, and who may be dear to him, but not to any and every one.
२७ संवत्सर-वासः
विश्वास-प्रस्तुतिः
संवत्सर-वासिने᳙ ऽनुब्रूयात्॥
एष᳓ वै᳓ सम्वत्सरो᳓
य᳓ ऽएष᳓ त᳓पत्य्,
एष᳓ ऽउ प्रव᳓र्ग्यस्,
त᳓द् एत᳓म् एवै᳙त᳓त् प्रीणाति।
त᳓स्मात् संवत्स-रवासिने᳓ ऽनुब्रूयात्॥
मूलम् - श्रीधरादि
सम्वत्सरवासिने᳘ ऽनुब्रूयात्॥
(दे) एष वै᳘ सम्वत्सरो य᳘ ऽएष त᳘पत्येष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मात्सम्वत्सरवासिने᳘ ऽनुब्रूयात्॥
मूलम् - Weber
सम्वत्सरवासिने᳘ऽनुब्रूयात्॥
एष वै᳘ सम्वत्सरो य᳘ एष त᳘पत्येष᳘ उ प्रव᳘र्ग्यस्त᳘देत᳘मेॗवैत᳘त्प्रीणाति त᳘स्मात्सम्वत्सरवासिने᳘ऽनुब्रूयात्॥
मूलम् - विस्वरम्
संवत्सरवासिने ऽनुब्रूयात् । एष वै संवत्सरः । य एष तपति । एष उ प्रवर्ग्यः । तदेवमेवैतत्प्रीणाति । तस्मात्संवत्सरवासिने ऽनुब्रूयात् ॥ २७ ॥
सायणः
अथ ये पूर्वोक्ता उपदेशार्हाः शिष्याः तेषामपि झटिति विद्योपदेशो न कार्यः इत्याह- संवत्सरवासिने अनुब्रूयादिति । संवत्सरपर्यंतं स्वसमीपे निवासेन शिष्यस्य आचारादिकं परीक्ष्य तस्मै संवत्सरं समीपे कृतनिवासाय शिष्याय ततः परं ‘अनुब्रूयात्’ उपदिशेत् । अथ एतदुपपादयति- एष वै संवत्सरो य एष तपतीति । ‘य एषः’ सूर्यो दिवि वर्तमानस्तपति सर्वं जगत् भासयते । ‘एषः’ एव संवत्सरात्मकः कालः । तद्गत्यधीनत्वात् । ‘प्रवर्ग्यः’ प्रवर्ग्याख्यं यज्ञशिरःसंस्तुतं कर्मापि ‘एषः’ उद्दिश्यमान आदित्य एव । “तत्पतित्वा ऽसावादित्यो ऽभवत्” (श. प. १४ । १ । १ । १०) इति पूर्वं आम्नातत्वात् । यतः एवं संवत्सरप्रवर्ग्यो उभावपि सूर्यात्मकौ । ‘तत्’ तस्मात् । ‘एतत्’ एतेन संवत्सरमुषिताय प्रवर्ग्यानुवचनेन एतमेवादित्यं ‘प्रीणाति’ तर्पयति । “प्रीञ् तर्पणे” (धा. पा. भ्वा. उ. २) इति धातुः । उक्तमर्थं निगमयति- तस्मात्संवत्सरवासिने ऽनुब्रूयादिति । इत्थं पूर्वोक्तप्रकारेण प्रवर्ग्याख्यस्य यज्ञशिरसः प्रतिपादकं समंत्रकं ब्राह्मणं दधीचा अश्विभ्यामुपदिष्टम् । तच्च शीघ्रं यस्मै कस्मैचित् अन्यस्मै अद्यतनैरपि आचार्यैर्नोपदेष्टव्यम् । अपि तु कुलशीलाचारसंपन्ना संवत्सरं गुरुशुश्रूषां कृतवते पुरुषायैव उपदेष्टव्यमित्युक्तम् ॥ २७ ॥
Eggeling
- He may teach it to one dwelling with him (as a pupil) for a year; for the year is he that shines yonder, and the Pravargya also is that (sun): it is him he thereby gratifies, and therefore he may teach it to one dwelling with him for a year.
२८
विश्वास-प्रस्तुतिः
(त्ति) तिस्रो रा᳘त्रीर्व्व्रत᳘ञ्चरति॥
त्र᳘यो वा᳘ ऽऋत᳘वः संवत्सर᳘स्य संवत्सर᳘ ऽएष य᳘ ऽएष त᳘पत्येष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मात्तिस्रो रा᳘त्रीर्व्व्रत᳘ञ्चरति॥
मूलम् - श्रीधरादि
(त्ति) तिस्रो रा᳘त्रीर्व्व्रत᳘ञ्चरति॥
त्र᳘यो वा᳘ ऽऋत᳘वः संवत्सर᳘स्य संवत्सर᳘ ऽएष य᳘ ऽएष त᳘पत्येष᳘ ऽउ प्रव᳘र्ग्यस्त᳘देत᳘मे᳘वैत᳘त्प्रीणाति त᳘स्मात्तिस्रो रा᳘त्रीर्व्व्रत᳘ञ्चरति॥
मूलम् - Weber
तिस्रो रा᳘त्रीर्व्रतं᳘ चरति॥
त्र᳘यो वा᳘ ऋत᳘वः सम्वत्सर᳘स्य सम्वत्सर᳘ एष य᳘ एष त᳘पत्येष᳘ उ प्रव᳘र्ग्यस्त᳘देत᳘मेॗवैत᳘त्प्रीणाति त᳘स्मात्तिस्रो रा᳘त्रीर्व्रतं᳘ चरति॥
मूलम् - विस्वरम्
तिस्रो रात्रीर्व्रतं चरति । त्रयो वा ऋतवः संवत्सरस्य । संवत्सर एषः । य एष तपति । एष उ प्रवर्ग्यः । तदेतमेवैतत्प्रीणाति । तस्मात्तिस्रो रात्रीर्व्रतं चरति ॥ २८ ॥
सायणः
अथ तदध्ययनस्य व्रतानि वक्ष्यन् तत्कालमानमाह 18- तिस्रो रात्रीर्व्रतं चरतीति । प्रवर्ग्यकांडाध्ययने प्रारब्धे अध्येता अध्यापकश्च ‘तिस्रो रात्रीः’ त्रिरात्रपर्यंतं वक्ष्यमाणं ‘व्रतं चरति’ अनुतिष्ठेत् । अथैतदुपपादयति- त्रयो वा ऋतवः० चरतीति । ‘त्रयः’ संवत्सरस्य खलु ‘ऋतवः’ । ग्रीष्मो वर्षा हेमंत इति यास्केनोक्ताः । अवशिष्टास्त्रयस्तु तत्रैवांतर्भवंति । वसंतो ग्रीष्मे शरत् वर्षर्तौ शिशिरो हेमंते । तापवृष्टिहिमादिभिः ग्रीष्मादिधर्मैः अल्पतरैः तेषां वसंतादीनामपि योगात् । संवत्सर एषः । इत्यादि पूर्ववत् । इयांस्तु विशेषः । तत्तस्मात् ‘एतत्’ एतेन त्रिरात्रव्रताचरणेन त्रित्वसंख्योपेतऋतुद्वारा ‘एतं’ संवत्सरं प्रवर्ग्यात्मकं आदित्यमेव ‘प्रीणाति’ तर्पयतीति । तदेतन्निगमयति- तस्मात्तिस्रो रात्रीर्व्रतं चरतीति । अयमभिप्रायः- यद्यपि संवत्सरपर्यंतं एतत् कांडम् अध्यापयीत अधीयीत वा । तथापि संवत्सरस्य ऋतुत्रयात्मकत्वात् त्रित्वसंख्यायोगेन तिसृणां रात्रीणां तप्रत्याम्नायत्वात् त्रिरात्रव्रताचरणेन संवत्सरपर्यंतं व्रतं चरितं भवति इत्यर्थः ॥ २८ ॥
Eggeling
- For three nights he keeps the rule (of abstinence); for there are three seasons in the year, and the year is he that shines yonder, and the Pravargya also is that one: it is him he thereby
gratifies, and therefore he keeps the rule for three nights.
२९
विश्वास-प्रस्तुतिः
तप्तमा᳘चामति॥
तपस्व्य᳘नुब्रवा ऽइत्य᳘माᳫँ᳭साश्य᳘नुब्रूते तपस्व्य᳘नुब्रवा ऽइति॥
मूलम् - श्रीधरादि
तप्तमा᳘चामति॥
तपस्व्य᳘नुब्रवा ऽइत्य᳘माᳫँ᳭साश्य᳘नुब्रूते तपस्व्य᳘नुब्रवा ऽइति॥
मूलम् - Weber
तप्तमा᳘चामति॥
तपस्व्य᳘नुब्रवा 19 इत्य᳘मांसाश्य᳘नुब्रूते तपस्व्य᳘नुब्रवा इति॥
मूलम् - विस्वरम्
तप्तमाचामति । तपस्व्यनुब्रवा इति । अमांसाश्यनुब्रूते । तपस्व्यनुब्रवा इति ॥ २९ ॥
सायणः
किं पुनस्तत् व्रतमिति तदाह- तप्तमाचामतीति । ‘तप्तं’ उष्णजलं ‘आचामति’ यद्यत् आचमनादिकं उदककार्यं तत्सर्वं उष्णजलेनैव कुर्यात् इत्यर्थः । किमर्थमिदं तप्ताचमनम् ? ‘तपस्वी’ संतापयुक्तः अहं ‘अनुब्रवै’ प्रवर्ग्यब्राह्मणं अनुब्रवाणि इत्येवमर्थम् । सूर्यात्मको हि अयं प्रवर्ग्यः । तस्य शीतोदकस्य स्पर्शने सति औष्ण्यं विहन्येतेति । तत् अध्येतॄणामपि शीतोदकासंस्पर्शाय उष्णजलाचमनविधानम् । तथा ‘अमांसाशी’ । मांसमश्नातीति मांसाशी तद्विलक्षणः, मांसभक्षणमकुर्वन्, एतत् ब्राह्मणं ‘अनुब्रूते’ अधीयीत । अस्यापि प्रयोजनं पूर्ववदेवाह- तपस्वीति । मांसभक्षणस्य तपोविरोधित्वं प्रसिद्धम् । अतः तद्वर्जनात् ‘तपस्वी’ तपसा नियमेन अभोज्यपरित्यागलक्षणेन युक्तः सन् ‘अनुब्रवै’ अनुब्रवाणीति ॥ २९ ॥
Eggeling
- Hot 20 (water) he sips, thinking, ‘I will teach it as one practising austerities.’ He teaches it whilst abstaining from flesh-food, thinking, ‘I will teach it as one practising austerities;’
३०
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘मृण्मयपायी᳘॥
(य्य) अ᳘स्ति वा᳘ ऽअस्याᳫँ᳭ स᳘ᳫँ᳘सृष्टमिव य᳘दस्याम᳘नृतम्व᳘दति त᳘स्माद᳘मृण्मयपायी᳘॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘मृण्मयपायी᳘॥
(य्य) अ᳘स्ति वा᳘ ऽअस्याᳫँ᳭ स᳘ᳫँ᳘सृष्टमिव य᳘दस्याम᳘नृतम्व᳘दति त᳘स्माद᳘मृण्मयपायी᳘॥
मूलम् - Weber
अ᳘मृन्मयपायी॥
अ᳘स्ति वा᳘ अस्याᳫं स᳘ᳫं᳘सृष्टमिव य᳘दस्याम᳘नृतम् व᳘दति त᳘स्माद᳘मृन्मयदायी॥
मूलम् - विस्वरम्
अमृण्मयपायी । अस्ति वा अस्यां संसृष्टमिव । यदस्यामनृतं वदति । तस्मादमृण्मयपायी ॥ ३० ॥
सायणः
तथा ‘अमृण्मयपायी’ भवति । मृण्मयेन मृद्विकारेण पात्रेण पानशीलो न भवेत् । मृण्मयपात्रेण उदकादिकं न पिबेदित्यर्थः । तदेतत् उपपादयति- अस्ति वा अस्यां संसृष्टमिव यदस्यामनृतं वदतीति । ‘अस्यां’ पृथिव्यां संसृष्टमिव दोषसंयुक्तमिव अवयवजातमस्ति वै अस्ति खलु । कुतः ? ‘यत्’ यस्मात् अस्यामासीनः सर्वो जनः प्रायेण अनृतमसत्यं वदति । ‘तस्मात्’ हेतुभूतः पापसंसर्गो ऽस्यां विद्यते इति गम्यते । तस्मात् पार्थिवेन शरावादिना पानं न कार्यमिति निगमयति- तस्मादमृण्मयपायीति ॥ ३० ॥
Eggeling
- And whilst not drinking out of earthen (vessels); for whatever untruth (man) speaks on this (earth) is, as it were, immixed with her: therefore (one should do so) whilst not drinking out of earthen (vessels);
३१
विश्वास-प्रस्तुतिः
(य्य᳘) अ᳘शूद्रोच्छिष्टी॥
(ष्ट्ये) एष वै᳘ धर्मो य᳘ ऽएष त᳘पति᳘ सैषा श्रीः᳘ सत्यं ज्यो᳘तिर᳘नृतᳫँ᳭ स्त्री᳘ शूद्रः श्वा᳘ कृष्णः᳘ शकु᳘निस्ता᳘नि न प्रे᳘क्षेत नेच्छ्रि᳘यञ्च पाप्मा᳘नञ्च नेज्ज्यो᳘तिश्च त᳘मश्च ने᳘त्सत्यानृते᳘ सᳫँ᳭सृजानीति॥
मूलम् - श्रीधरादि
(य्य᳘) अ᳘शूद्रोच्छिष्टी॥
(ष्ट्ये) एष वै᳘ धर्मो य᳘ ऽएष त᳘पति᳘ सैषा श्रीः᳘ सत्यं ज्यो᳘तिर᳘नृतᳫँ᳭ स्त्री᳘ शूद्रः श्वा᳘ कृष्णः᳘ शकु᳘निस्ता᳘नि न प्रे᳘क्षेत नेच्छ्रि᳘यञ्च पाप्मा᳘नञ्च नेज्ज्यो᳘तिश्च त᳘मश्च ने᳘त्सत्यानृते᳘ सᳫँ᳭सृजानीति॥
मूलम् - Weber
अ᳘शूद्रोछिष्टी॥
एष वै᳘ धर्मो य᳘ एष त᳘पतिॗ सैषा श्रीः᳘ सत्यं ज्यो᳘तिर᳘नृतᳫं स्त्री᳘ शूद्रः श्वा᳘ कृष्णः᳘ शकु᳘निस्ता᳘नि न प्रे᳘क्षेत नेछ्रि᳘यं च पाप्मा᳘नं च नेज्ज्यो᳘तिश्च त᳘मश्च ने᳘त्सत्यानृते᳘ संसृजानीति॥
मूलम् - विस्वरम्
अशूद्रोच्छिष्टी । एष वै घर्मः । य एष तपति । सैषा श्रीः । सत्यं ज्योतिः । अनृतं स्त्री शूद्रः श्वा कृष्णः शकुनिः । तानि न प्रेक्षेत । नेच्छ्रियं च पाप्मानं च । नेज्ज्योतिश्च तमश्च । नेत्सत्यानृते संसृजानीति ॥ ३१ ॥
सायणः
तथा ‘अशूद्रोच्छिष्टी’ । छांदसः सुलोपः । शूद्राय दत्त्वा यद्भांडे अवशिष्टं तत् शूद्रोच्छिष्टं तद्रहितो भवेत् । तद्भुक्तावशेषितं न भुंजीतेत्यर्थः । ‘य एषः’ सूर्यः ‘तपति’ सः ‘एषः’ खलु ‘घर्मः’ प्रवर्ग्यः । अतस्तत्प्रतिपादकं ब्राह्मणं अधीयानेन ब्राह्मणेन शुद्धेन भवितव्यमित्यर्थः । अपि च- ‘सैषा श्रीः’ । स पूर्वोक्त एष प्रवर्ग्यः यज्ञशिरोरूपत्वात् ‘श्रीः’ संपत् । विधेयापेक्षया सैषेति स्त्रीलिंगता । तथा अवितथफलहेतुत्वात् ‘सत्यं’ यथार्थभाषणरूपम्, सूर्यात्मकत्वात् ‘ज्योतिः’ तेजोरूपम् । ‘कृष्णः शकुनिः’ कृष्णवर्णः पक्षी काक इत्यर्थः । स्त्रीशूद्रादय एते ‘अनृतं’ अनृतात्मकाः । स्त्रीणां वेदाध्ययनाद्यभावात् कामचारसंभवाच्चानृतत्वम् । शूद्रस्य संस्कारविहीनत्वात् सृष्ट्यादौ प्रजापतेः पादादुत्पन्नत्वात् च अनृतत्वम् । श्वकृष्णशकुन्योः जन्मान्तरकृतमहापापपरिणामरूपत्वात् अनृतत्वम् । एतदनृतप्रतिपादनमुपलक्षणं पापतमसोरिति । स्त्रीशूद्राणां तमोरूपत्वं पापरूपत्वं च एवमेवावगंतव्यम् । पूर्वं प्रवर्ग्यस्य श्रीः, सत्यं, ज्योतिः, इति गुणत्रयप्रतिपादनात् तत्प्रतिपक्षे ऽपि तत्प्रतियोगिनः त्रयो गुणाः वक्तव्याः । अतस्तत्रैकप्रतिपादनं इतरयोरपि उपलक्षणमिति । अस्त्वेवं प्रवर्ग्यस्य च स्त्रीशूद्रादीनां च परस्परविरोधिस्वभावता । किं तत इत्यत आह- तानि न प्रेक्षेतेति । ‘तानि’ स्त्रीशूद्रादीनि पापानृततमोरूपाणि प्रवर्ग्यमधीयानः ‘न प्रेक्षेत’ नावलोकयेत् । अप्रेक्षितुः को ऽभिप्रायः ? इत्युच्यते- यदि अहं प्रवर्ग्यमधीयानः स्त्र्यादीनि प्रेक्षेय तर्हि श्रियं यशश्च ऐश्वर्यरूपं प्रवर्ग्यं च पाप्मानं च स्त्रीशूद्रात्मकं पापं दारिद्र्यं च, ‘संसृजानि’ संसृष्टं कुर्याम् । नेदिति परिभये । अहो महदेतत् कष्टम् । तस्मात् विरुद्धस्वभावयोः अनयोः संसर्गाभावाय न प्रेक्षेत इत्यभिप्रायः । अथवा श्रियं च पाप्मानं च दारिद्र्यं पापफलं च नैव संसृजानि संसृष्टं करवाणीत्यनेनाभिप्रायेण । ‘नेत् ज्योतिश्च तमश्च’ ‘नेत्सत्यानृते’ इत्यनयोरपि पर्याययोरेवमेव योजनीयम् ॥ ३१ ॥
Eggeling
- And whilst not coming into contact with Śūdras and remains of food; for this Gharma is he that shines yonder, and he is excellence, truth, and light; but woman, the Śūdra, the dog, and the black bird (the crow), are untruth: he should not look at these, lest he should mingle excellence and sin, light and darkness, truth and untruth.
३२
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थैष वाव य᳘शः॥
(शो) य᳘ ऽएष त᳘पति तद्यत्त᳘दादित्यो य᳘शो यज्ञो᳘ हैव तद्य᳘शस्त᳘द्यत्त᳘द्यज्ञो य᳘शो य᳘जमानो हैव तद्य᳘शस्त᳘द्यत्त᳘द्यजमानो[[!!]] य᳘श ऽऋत्वि᳘जो हैव तद्य᳘शस्तद्यत्त᳘दृत्वि᳘जो य᳘शो द᳘क्षिणा हैव तद्य᳘शस्त᳘स्माद्या᳘मस्मै द᳘क्षिणामान᳘येयुर्न्नता᳘ᳫँ᳘* स᳘द्यो ऽन्य᳘स्मा ऽअ᳘तिदिशेन्नेद्य᳘न्मेदं य᳘श ऽआ᳘गंस्त᳘त्स᳘द्यो ऽन्य᳘स्मा ऽअतिदिशानी᳘ति श्वो᳘ वैव᳘ भूते᳘ द्व्यहे᳘ वा त᳘दात्म᳘न्ये᳘वैतद्य᳘शः कृत्वा य᳘देव तद्भ᳘व᳘ति तत्स᳘द्ददाति हि᳘रण्यं गाम्वा᳘सो ऽश्वम्वा॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थैष वाव य᳘शः॥
(शो) य᳘ ऽएष त᳘पति तद्यत्त᳘दादित्यो य᳘शो यज्ञो᳘ हैव तद्य᳘शस्त᳘द्यत्त᳘द्यज्ञो य᳘शो य᳘जमानो हैव तद्य᳘शस्त᳘द्यत्त᳘द्यजमानो[[!!]] य᳘श ऽऋत्वि᳘जो हैव तद्य᳘शस्तद्यत्त᳘दृत्वि᳘जो य᳘शो द᳘क्षिणा हैव तद्य᳘शस्त᳘स्माद्या᳘मस्मै द᳘क्षिणामान᳘येयुर्न्नता᳘ᳫँ᳘* 21 स᳘द्यो ऽन्य᳘स्मा ऽअ᳘तिदिशेन्नेद्य᳘न्मेदं य᳘श ऽआ᳘गंस्त᳘त्स᳘द्यो ऽन्य᳘स्मा ऽअतिदिशानी᳘ति श्वो᳘ वैव᳘ भूते᳘ द्व्यहे᳘ वा त᳘दात्म᳘न्ये᳘वैतद्य᳘शः कृत्वा य᳘देव तद्भ᳘व᳘ति तत्स᳘द्ददाति हि᳘रण्यं गाम्वा᳘सो ऽश्वम्वा॥
मूलम् - Weber
अ᳘थैष वाव य᳘शः॥
य᳘ एष त᳘पति तद्यत्त᳘दादित्यो य᳘शो यज्ञो᳘ हैव तद्य᳘शस्तद्यत्त᳘द्यज्ञो य᳘शो य᳘जमानो हैव तद्य᳘शस्तद्यत्तद्य᳘जमानो य᳘श ऋत्वि᳘जो हैव तद्य᳘शस्तद्यत्त᳘दृत्वि᳘जो य᳘शो द᳘क्षिणा हैव तद्य᳘शस्त᳘स्माद्या᳘मस्मै द᳘क्षिणामान᳘येयुर्न ता इ᳘त्सॗद्योऽन्य᳘स्मा 22 अ᳘तिदिशेन्नेद्य᳘न्मेदं य᳘श आ᳘गंस्त᳘त्सॗद्योऽन्य᳘स्मा अतिदिशानी᳘ति श्वो᳘ वैव᳘ भूते᳘ द्व्यहे᳘ वा त᳘दात्म᳘न्येॗवैतद्य᳘शः कृत्वा य᳘देव तद्भ᳘वति तत्स᳘ ददाति हि᳘रण्यं गाम् वाॗसोऽश्वम् वा॥
मूलम् - विस्वरम्
अथैष वाव यशः । य एष तपति । तद्यत् तदादित्यो यशः । यज्ञो हैव तद्यशः । तद्यत् तद्यज्ञो यशः । यजमानो हैव तद्यशः । तद्यत् तद्यजमानो यशः । ऋत्विजो हैव तद्यशः । तद्यत् सदृत्विजो यशः । दक्षिणा हैव तद्यशः । तस्माद्यामस्मै दक्षिणामानयेयुः । न तां सद्यो ऽन्यस्मा अतिदिशेत् । नेद्यन्मेदं यश आगन् । तत्सद्यो ऽन्यस्मा अतिदिशानीति । श्वो वैव भूते द्व्यहे वा । तदात्मन्येवैतद्यशः कृत्वा यदेव तद्भवति । तत्सद्ददाति । हिरण्यं गां वासो ऽश्वं वा ॥ ३२ ॥
सायणः
अथैतत् प्रवर्ग्याख्यं कर्म यशोरूपेण स्तौति- अथैष वाव यशः० अतिदिशानीतीति । ‘अथ’ प्रवर्ग्यस्य श्रीरूपत्वसत्यात्मकत्वज्योतीरूपत्वप्रतिपादनानंतरं यतः एवम् अयं श्रीसत्याद्यात्मकः अतः कारणात् ‘एष वाव’ एष एव प्रवर्ग्यः यशोरूपः, ‘य एषः’ दृश्यमानः ‘आदित्यः’ भूत्वा दिवि ‘तपति’ प्रकाशते । एष एव ‘यशः’ इत्यभिनयः । इत्थं यशोरूपस्य आदित्यात्मकस्य प्रवर्ग्यस्य संबंधात् यज्ञादीनां दक्षिणापर्यंतानां वक्ष्यमाणानां यशस्वित्वमित्याह- तद्यत्तदादित्यो यश इति । तत्तत्र ‘यत्’ यदा ‘तत्’ सः ‘आदित्यः’ प्रवर्ग्यात्मकः ‘यशः’ यशस्वी यशोरूपेण संपन्न इत्यर्थः । तत्तदा ‘यज्ञो हैव’ तच्छिरस्कः सवनत्रयात्मकः सोमयाग एव यज्ञरूप एव संपन्नः । तत्तथा च ‘यत्’ यदा ‘तत्’ सः ‘यज्ञः’ ‘यशः’ यशस्वी जातः । ‘तत्’ तदा ‘यजमान’ एव खलु ‘यशः’ यशस्वी भवति यशोरूपयज्ञसंबन्धात् । तत्तथा च ‘यत्’ यदा ‘तत्’ सः ‘यजमानः’ ‘यशः’ तदा तस्य याजकाः ‘ऋत्विजः’ एव यशस्विनो भवंति । तत्तथा च ‘यत्’ यदा ‘तत्’ ते ऋत्विजः ‘यशः’ यशोरूपाः यश संपद्यंते । ‘तत्’ तदा दक्षिणैव खलु यशोरूपऋत्विक्संबंधात् ‘यशः’ यशस्विनी भवति । एवं परंपरया आदित्यात्मकस्य प्रवर्ग्यस्य यश एव प्रसृतमित्यर्थः । अथ प्रसंगात् दक्षिणाविषये किंचित् विधत्ते- तस्माद्यामस्मै० श्वं वेति । यस्मात् उक्तप्रकारेण दक्षिणा यशोरूपा । ‘तस्मात्’ कारणात् ‘अस्मै’ ऋत्विजे ‘यां दक्षिणां’ गोहिरण्यादिकां यजमानाः ‘आनयेयुः’ परिक्रयार्थमानीय दद्युः । ‘तां’ दक्षिणां ‘सद्यः’ शीघ्रं, दानानंतरमेव ‘अन्यस्मै’ पुरुषांतराय ‘न अतिदिशेत्’ न प्रदद्यात् । ‘नेत्’ नैव तद्दक्षिणारूपं यशः ‘सद्यः’ शीघ्रं ‘अन्यस्मै’ ‘अतिदिशानि’ प्रयच्छानि । ‘यत् यशः’ दक्षिणारूपं ‘मा’ मामृत्विजमागन् इति अनेनाभिप्रायेण न कस्मैचित् अन्यस्मै प्रतिग्रहीता तां दक्षिणां सद्यो दद्यादित्यर्थः । आगन्निति गमेर्लटि छांदसः शपो लुक् इलोपश्च “हल्ङ्याभ्यः” (पा. सू. ६ । १ । ६८) इति तलोपे “मो नो धातोः” (पा. सू. ८ । २ । ६४) इति नत्वम् । नेदित्यस्य परिभयार्थो ऽपि पूर्ववत् योज्यः । इतः परं सर्वत्र निषेधार्थ एव व्याख्यायते । तर्हि सर्वदैव प्रतिग्रहीत्रा दक्षिणा न दातव्येति न इत्याह- श्वो वैव भूते द्व्यहे वा इति । ‘श्वोभूते’ प्रतिग्रहदिवसात् परस्मिन् दिवसे एव ‘वा’ ‘द्व्यहे वा’ । द्वयोरह्नो समाहारः द्व्यहः । “राजाहःसखिभ्यः” (पा. सू. ५ । ४ । ९१) इति टच् समासांतः । “न संख्यादेः समाहारे” (पा. सू. ५ । ४ । ८९) इति अह्नादेशप्रतिषेधः । एकदिनं द्विदिनं तदेतत् प्रतिगृहीतं दक्षिणारूपं ‘यशः’ ‘आत्मन्येव कृत्वा’ स्वस्मिन्नेव स्थापयित्वा तदीयं सर्वं यशः स्वीकृत्य ‘यदेव’ केवलं दक्षिणाद्रव्यं भवति ‘सत्’ विद्यमानं तद्दक्षिणाद्रव्यं इच्छया ‘ददाति’ अन्यस्मै प्रयच्छेत् हिरण्यादीनामन्यतमम् ॥ ३२ ॥
Eggeling
- And, verily, he that shines yonder is glory; and as to that glory, Āditya (the sun), that glory is just the sacrifice; and as to that glory, the sacrifice, that glory is just the Sacrificer; and as to that glory, the Sacrificer, that glory is just the officiating priests; and as to that glory, the officiating priests, that glory is just the sacrificial gifts: hence, if they bring up to him a dakshiṇā he must not, at least on the same day, make over these (objects) to any one else lest he should make over to some one else that glory which has come to him; but rather on the morrow, or the day after: he thus gives it away after having made that glory his own, whatever it be–gold, a cow, a garment, or a horse.
३३
विश्वास-प्रस्तुतिः
(वा᳘ ऽथै) अ᳘थैतद्वा॥
(द्वा ऽआ᳘) आ᳘युरेतज्ज्यो᳘तिः प्र᳘विशति य᳘ ऽएतम᳘नु वा ब्रूते᳘ भक्ष᳘यति वा त᳘स्य व्रतचर्य्या᳘ नात᳘पति प्र᳘च्छादयेत ने᳘देत᳘स्मात्तिरो᳘ ऽसानी᳘ति᳘ नात᳘पति नि᳘ष्ठीवेन्ने᳘देत᳘मभिनिष्ठी᳘वानी᳘ति᳘ नात᳘पति प्र᳘स्रावयेत ने᳘देत᳘मभिप्र᳘स्राव᳘या ऽइ᳘ति या᳘वद्वा᳘ ऽएष᳘ ऽआत᳘पति ता᳘वानेष ने᳘देत᳘मेतै᳘र्हिन᳘सानी᳘त्यवज्यो᳘त्य रा᳘त्रावश्नीयात्त᳘देत᳘स्य रूपं᳘ क्रियते य᳘ ऽएष त᳘पति त᳘दु होवाचा᳘सुरिरे᳘कᳫँ᳭ ह वै᳘ देवा᳘ व्व्रत᳘ञ्चरन्ति य᳘त्सत्यं त᳘स्मादु सत्य᳘मेव᳘ व्वदेत्॥
मूलम् - श्रीधरादि
(वा᳘ ऽथै) अ᳘थैतद्वा॥
(द्वा ऽआ᳘) आ᳘युरेतज्ज्यो᳘तिः प्र᳘विशति य᳘ ऽएतम᳘नु वा ब्रूते᳘ भक्ष᳘यति वा त᳘स्य व्रतचर्य्या᳘ नात᳘पति प्र᳘च्छादयेत ने᳘देत᳘स्मात्तिरो᳘ ऽसानी᳘ति᳘ नात᳘पति नि᳘ष्ठीवेन्ने᳘देत᳘मभिनिष्ठी᳘वानी᳘ति᳘ नात᳘पति प्र᳘स्रावयेत ने᳘देत᳘मभिप्र᳘स्राव᳘या ऽइ᳘ति या᳘वद्वा᳘ ऽएष᳘ ऽआत᳘पति ता᳘वानेष ने᳘देत᳘मेतै᳘र्हिन᳘सानी᳘त्यवज्यो᳘त्य रा᳘त्रावश्नीयात्त᳘देत᳘स्य रूपं᳘ क्रियते य᳘ ऽएष त᳘पति त᳘दु होवाचा᳘सुरिरे᳘कᳫँ᳭ ह वै᳘ देवा᳘ व्व्रत᳘ञ्चरन्ति य᳘त्सत्यं त᳘स्मादु सत्य᳘मेव᳘ व्वदेत्॥
मूलम् - Weber
अ᳘थैतद्वा॥
आ᳘युरेतज्ज्यो᳘तिः प्र᳘विशति य᳘ एतम᳘नु वा ब्रूते᳘भक्ष᳘यति वा त᳘स्य व्रतचर्याॗ नात᳘पति प्र᳘छादयेत ने᳘देत᳘स्मात्तिरो᳘ऽसानीतिॗ नात᳘पति नि᳘ष्ठीवेन्ने᳘देत᳘मभिनिष्ठीवानी᳘तिॗ नात᳘पति प्र᳘स्रावयेत ने᳘देत᳘मभिप्रस्राव᳘या 23 इ᳘ति या᳘वद्वा᳘ एष᳘ आत᳘पति ता᳘वानेष ने᳘देत᳘मेतै᳘र्हिन᳘सानी᳘त्यवज्यो᳘त्य रा᳘त्रावश्नीयात्त᳘देत᳘दस्य रूपं᳘ क्रियते य᳘ एष त᳘पति त᳘दु होवाचा᳘सुरिरे᳘कᳫं ह वै᳘ देवा᳘ व्रतं᳘ चरन्ति य᳘त्सत्यम् त᳘स्मादु सत्य᳘मेव᳘ वदेत्॥
मूलम् - विस्वरम्
अथ एतद्वा आयुः, एतज्ज्योतिः प्रविशति । य एतमनु वा ब्रूते । भक्षयति वा । तस्य व्रतचर्या । नातपति प्रच्छादयेत । नेदेतस्मात्तिरो ऽसानीति । नातपति निष्ठीवेत् । नेदेतमभिनिष्ठीवानीति । नातपति प्रस्रावयेत । नेदेतमभिप्रस्रावयै इति । यावद्वा एष आतपति । तावानेषः । नेदेतमेतैर्हिनसानीति । अवज्योत्य रात्रावश्नीयात् । तदेतस्य रूपं क्रियते । य एष तपति । तदुवाचासुरिः । एकं ह वै देवा व्रतं चरंति यत्सत्यम् । तस्मादु सत्यमेव वदेत् ॥ ३३ ॥
सायणः
अथ एतस्य प्रवर्ग्यस्य अनुष्ठानकाले, क्रतुनियमविशेषं विधित्सुराह- अथैतद्वै० व्रतचर्येति । अथेत्यारंभे यत् प्रागुक्तं प्रवर्ग्याख्यं मधु ‘एतद्वै’ एतदेव ‘आयुः’ जीवनं तद्धेतुभूतमित्यर्थः । अतः तस्य व्रताचरणेन रक्षा कार्या इति भावः । कुतो ऽस्य रक्षणापेक्षा ? इति तदाह- एतज्ज्योतिरिति । ‘यः’ खलु पुमान् ‘एतं’ प्रवर्ग्यं ‘अनुब्रूते’ कर्मकाले ऽधीते वा तत्रत्यं हुतशिष्टं ‘भक्षयति वा’ सः ‘एतत् ज्योतिः’ द्युलोके दृश्यमानं सौरं तेजः ‘प्रविशति’ प्रवर्ग्यस्य सूर्यात्मना ऽवस्थानस्य प्रागुक्तत्वात् । अतस्तस्य पुंसः आयुषो रक्षणाय ‘व्रतचर्या’ व्रतस्याचरणं कार्यमनुष्ठेयम् । किं पुनस्तत् व्रतमिति तदाह- नातपति० वदेदिति । ‘आतपति’ आसमंतात् तापं कुर्वति सति सूर्ये आत्मानं उष्णकिरणसंपर्कतया ‘न प्रच्छादयेत’ न वस्त्रादिभिरावृणुयात् ‘एतस्मात्’ दृश्यमानात् प्रवर्ग्यात्मकात् सूर्यात् नेन्नैव ‘तिरो ऽसानि’ तिरोहितो ऽतर्हितो भवानि इति । अनेनाभिप्रायेण प्रवर्ग्यकर्मणि वर्तमानः स्वशरीरस्य आच्छादनं न कुर्यात् । तथा, तस्मिन् आतपकारिणि सति ‘न निष्ठीवेत्’ आस्यगतमुदकादिकं न बहिस्त्यजेत् । “ष्ठिवु निरसने”- (धा. पा. भ्वा. प. ५६१) इति धातुः । ‘एतं’ प्रवर्ग्यात्मकं सूर्यं नेन्नैव ‘अभिनिष्ठीवानि’ अभिलक्ष्य निष्ठीवनं करवाणि इत्यनेनाभिप्रायेण । तथा सूर्ये ‘आतपति’ सति ‘न प्रस्रावयेत’ मूत्रविसर्जनमपि न कुर्यात् । ‘एवं’ प्रवर्ग्यात्मकं सूर्यमभिलक्ष्य ‘नेत् प्रस्रावयै’ प्रस्रावणं न करवाणि इत्यनेनाभिप्रायेण । सूर्योदयमारभ्य यावदस्तमयं आतपवत्प्रदेशे यजमानेन एतानि आच्छादनादीनि प्रवर्ग्यानुष्ठानदिवसेषु न कार्याणीत्यर्थः । आतपवत्प्रदेशे क्रियमाणैः एतैः प्रवर्ग्यस्य को दोषः आपतेत् ? इत्यत आह- यावद्वा इति । यावत्कालं ‘एषः’ सूर्यः ‘आतपति’ आसमंतात्तप्तं करोति । ‘तावान्’ तावत्कालव्यापी ‘एषः’ प्रवर्ग्यः । यद्वा ‘यावत्’ यावति देशे सूर्यः ‘आतपति’ । ‘तावान्’ तावद्देशव्यापी ‘एषः’ अनुष्ठीयमानः प्रवर्ग्यः । एवं च उदयास्तमययोर्मध्ये आतपवत्प्रदेशे प्राक् निषिद्धानि आच्छादनादीनि यदि कुर्याम् ‘एतं’ प्रवर्ग्यं, ‘हिनसानि’ हिंसितं करवाणि नेन्नैव तत् युक्तमित्यनेनाभिप्रायेण । आच्छादनादिकं न कुर्यात् । अपि च ‘रात्रौ’ ‘अवज्योत्य’ काष्ठैरग्निं प्रज्वाल्य ‘अश्नीयात्’ भुंजीत । ‘तत्’ अवज्योत्याशनं ‘एतस्य’ प्रवर्ग्यस्य सूर्यात्मनः ‘रूपं क्रियते’ “अग्निं वावादित्यः सायं प्रविशति” (तै. ब्रा. २ । १ । २ । ९) इति श्रुतेः । आदित्यस्य रात्रौ अग्न्यात्मना अवस्थानात् । ‘य एषः’ आदित्यस्तपति प्रकाशते द्युलोके एतस्येति संबंधः, एवं अनाच्छादनादीनि कानिचित् व्रतानि उक्तानि । आसुरिराचार्यः दुष्करमेकमेव व्रतं कर्तव्यमिति मन्यते- तदु हेत्यादिना । ‘तत् उ’ तत्र खलु ‘आसुरिः’ एतत्संज्ञ ऋषिः ‘उवाच ह’ उक्तवान् खलु ‘देवाः’ पुरा सत्रयागकाले ‘एकं ह वै’ एकमेव खलु ‘व्रतं चरंति’ अनुतिष्ठंति । किं तत् ? ‘यत् सत्यं’ सत्यवदनं यथार्थभाषणम् । यस्मादेवं ‘तस्मात्’ अवश्यं ‘सत्यमेव वदेत्’ । अनाच्छादनादिकं तु, यथासंभवं कर्तव्यमिति तस्याभिप्रायः ॥ ३३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये चतुर्दशे काण्डे तदन्तर्भूते प्रथमे प्रवर्ग्यकाण्डे प्रथमे ऽध्याये प्रथमं ब्राह्मणम् ॥ १४ । (१) १ । १ ॥
Eggeling
- And, verily, he who either teaches or partakes of this (Pravargya), enters that life, and that light. The observance of the rule thereof (is as follows). Let him not cover himself (with a garment) whilst the sun shines, lest he should be concealed from that (sun). Let him not spit whilst the sun shines, lest he should spit upon him. Let him not discharge urine whilst the sun shines, lest he discharge it upon him. For so long as he shines, so great he (the sun) is: thinking, ‘Lest I should injure him by these (acts),’ let him take food at night, after striking a light, whereby it is made to be a form of him who shines yonder. But on this point Āsuri used to say,–One rule the gods indeed keep, to wit, the truth: let him therefore speak nothing but the truth.
-
म᳘खो A. ↩︎
-
अस्य चतुर्दशकाण्डस्य “उत्तरकाण्डम्” इति नामान्तरम् । “ततः षष्टिपथं कृत्स्नं सरहस्यं ससंग्रहम् । चक्रे सपरिशेषं च सोत्तरं च प्रहर्षतः” ॥ (म. भा. शां. प. भो. घ. ४३ । १६) इत्यत्र प्रतिपादितम् ॥ ↩︎ ↩︎
-
अस्य प्रवर्ग्यकाण्डस्य कर्मशेषत्वे ऽपि बृहदारण्यके पाठः, दिवाकीर्त्यमानत्वारण्ये ऽनूच्यमानत्वादिधर्मविशेषप्राप्स्यर्थमिति विज्ञेयम् ॥ ↩︎ ↩︎
-
441:1 For this legend, see J. Muir, Orig. Sansk. Texts, vol. iv, p. 124, ↩︎
-
441:2 Lit., they were sitting (for the session): ‘ās’ (like ‘sad’) is here used in its technical sense, and not in its ordinary sense ’to sit, to be’;–‘They were [there. They said],’ J. M. ↩︎
-
442:1 That is, a certain species of ants that are supposed to find water wherever they dig. Cf. Weber, Ind. Stud. XIII, p. 139. ↩︎
-
विष्पुर᳘न्त्यौ A. ↩︎
-
442:2 That is, the draught of hot milk boiled in the Mahāvīra pot, and hence often used as a synonym for the latter or the Pravargya. ↩︎
-
महा᳘न्मत A. महन्वत E. - ibid. त्सम्राट् A. ↩︎
-
443:1 That is, emperor, or lord paramount, as the Pravargya is named, in the same way as the Soma-plant (and juice) is styled King. ↩︎
-
बि᳘त्तिं A. sec. h. ↩︎
-
443:2 Cf. IV, 1, 3, 5. The construction is hardly so irregular as it is represented there. ↩︎
-
443:3 That is, he enclosed him (in his own self), he took him in (gobbled him up). ↩︎
-
443:4 I.e. ’the mighty (lord),’ an epithet of Indra. ↩︎
-
444:1 Viz. the Madhu (‘honey’) or sweet doctrine of the Pravargya, or pot of boiled milk and ghee. ↩︎
-
नाव᳘नुवक्षसि स᳘ A. ↩︎
-
चेत्य᳘यन्त᳘दुवा A. first h. चेत्य᳘यतन्तदुवा sec. h. ↩︎
-
तिस्रो रात्रीर्व्रतं चरेत् १ अमाँ साशी २ अमृण्मयपायी ३ स्त्रीशूदशवकृष्णशकुनिशूनां चादर्शनमसंभाषा च तैः ४ शवशूद्रसूतकान्नानि च नाद्यात् ५ मूत्रपुरीषे ष्ठीवनं चातपे न कुर्यात् ६ सूर्याच्चात्मानं नांतर्द्दधीत ७ तप्तेनोदकार्थान् कुर्यात् ८ अवज्योत्य रात्रौ भोजनम् ९ सत्यवदनमेव वा १० दीक्षितो ऽप्यातपादीनि कुर्यात् प्रवर्ग्यवाँश्चेदिति ११ । पार. गृ. सू. कां. २ खं. ८ स्नातकधर्मप्रकरणे । कृष्णशकुनिः काकः । शवान्नं क्रीत्वा लब्ध्वा वा यदद्यते तत्प्रतिषेधः । शूद्रान्नं भोज्यान्नस्यापि नापितादेः प्रतिषिध्यते । सूतकान्नं अर्वाक् दशाहात्प्रसवे सति । अंतर्द्धानं छत्रादिना । तप्तेनोदकेन । अवज्योतनं प्रदीपोल्कादिना ऽन्यतरेण । सत्यवदनमेव वा कर्तव्यम् । नाधस्तना नियमाः । यदि प्रवर्ग्यवान् दीक्षितः ततो ऽत्र मूत्रपुरीषे ष्ठीवनं चातपे न कुर्यादित्यवमादीनि करोतीति कर्कः ॥ ↩︎
-
तपस्व्य᳘वानुब्रवा A. ↩︎
-
446:1 During the performance of the Pravargya ceremony boiling water has to be used whenever water is required. ↩︎
-
“न ता इत्सद्यः” इति क्वचित् पाठान्तरम् । ↩︎
-
ता᳘ इ᳘स᳘द्यो A. ताᳫ सरद्यो E. Read: ता᳘ᳫ᳘ सॗद्यो. - ibid. अ᳘तिदिशानी᳘ति A. ↩︎
-
त᳘मभिप्र᳘स्राव᳘या A. - ibid. रा᳘त्रावष्लीया A. ↩︎