०१

विश्वास-प्रस्तुतिः

अ᳘थ सर्व्वौषध᳘म्वपति॥
य᳘दे᳘वादः᳘ सर्व्वौषधन्त᳘देत᳘द्बह्वी᳘भिस्तद्व᳘पत्ये᳘कयेदन्दै᳘वञ्चैव तत्पि᳘त्र्यञ्च व्व्या᳘करोत्यश्वत्थे᳘ वो निष᳘दनम्पर्ण्णे᳘ वो व्वसति᳘ष्कृते᳘ति ज्योग्जीवा᳘तुमे᳘वैभ्य ऽएतदा᳘शास्ते त᳘थो हैषामे᳘कैको᳘ ऽपरो जर᳘सा ऽनुप्रैति॥

मूलम् - श्रीधरादि

अ᳘थ सर्व्वौषध᳘म्वपति॥
य᳘दे᳘वादः᳘ सर्व्वौषधन्त᳘देत᳘द्बह्वी᳘भिस्तद्व᳘पत्ये᳘कयेदन्दै᳘वञ्चैव तत्पि᳘त्र्यञ्च व्व्या᳘करोत्यश्वत्थे᳘ वो निष᳘दनम्पर्ण्णे᳘ वो व्वसति᳘ष्कृते᳘ति ज्योग्जीवा᳘तुमे᳘वैभ्य ऽएतदा᳘शास्ते त᳘थो हैषामे᳘कैको᳘ ऽपरो जर᳘सा ऽनुप्रैति॥

मूलम् - Weber

अ᳘थ सर्वौषध᳘म् वपति॥
य᳘देॗवादः᳘ सर्वौषधं त᳘देत᳘द्बह्वीभिस्तद्व᳘पत्ये᳘कयेदं दै᳘वं चैव तत्पि᳘त्र्यं च व्या᳘करोत्यश्वत्थे᳘ वो निष᳘दनम् पर्णे᳘ वो वसति᳘ष्कृते᳘ति ज्योग्जीवा᳘तुमेॗवैभ्य एतदा᳘शास्ते त᳘थो हैषामे᳘कैको᳘ऽपरो जर᳘सानुप्रैति॥

मूलम् - विस्वरम्

अथ सर्वौषधं वपति । यदेवादः सर्वौषधम् । तदेतत् । बह्वीभिस्तद्वपति । एकयेदम् । दैवं चैव तत् पित्र्यं च व्याकरोति- “अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता”- (वा. सं. ३५ । ४) इति । ज्योग्जीवातुमेवैभ्य एतदाशास्ते । तथा उ ह एषामेकैको ऽपरो जरसा ऽनुप्रैति ॥ १ ॥

हरिस्वामी

अथ सर्वौषधं वपति । यदेवादः आग्निकम् । बह्वीभिर्ऋग्भिः “या ओषधीः” इत्येताभिः (वा. सं. १२ । ७५-८९) यद्वपति तत् । एकया “अश्वत्थे 1 वः" इत्येतया इदं वपति । ज्योक् चिरं जीवातुं जीवनम् एभ्यो जीवेभ्यः । एतत् आशास्ते प्रार्थयते । यददः ओषधीरेवमाह । चंद्रमसि युष्माकं धामानीति । एवं च (पूर्वकल्पितापुरुषसंतभजनार्थं तु पृथिवी तु पृथिवीभाजो यूयं भूता इति ?) तथा च कृते एषां जीवानां मध्ये एकैकः अपरः अन्यः जरसा जरया हेतुना जीर्णः सन् अनुक्रमेण प्रैति । न च- बहवो युगपत्, न वा अस्थविराः, न वा अक्रमेण इत्यर्थः ॥ १ ॥

Eggeling
  1. He then sows (seed) of all (kinds of) herbs: what the all-herb (seed signified) on that occasion 2, that (it does) here. With many (verses 3) he sows

that (former seed), with a single one this,–he thus keeps the divine separate from what belongs to the Fathers,–with 4.

०२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैनन्नि᳘वपति॥
(ती) इयम्वै᳘ पृथिवी᳘ प्रति᳘ष्ठा ऽस्या᳘मे᳘वैनमेत᳘त्प्रतिष्ठा᳘याम्प्र᳘तिष्ठापयति पु᳘रा ऽदित्य᳘स्योदया᳘त्तिर᳘ ऽइव वै᳘ पित᳘रस्तिर᳘ ऽइव रा᳘त्रिस्तिर᳘ ऽएव त᳘त्करोति य᳘था कुर्व्व᳘तो ऽभ्युदियात्त᳘देनमुभ᳘योरहोरात्र᳘योः प्र᳘तिष्ठापयति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैनन्नि᳘वपति॥
(ती) इयम्वै᳘ पृथिवी᳘ प्रति᳘ष्ठा ऽस्या᳘मे᳘वैनमेत᳘त्प्रतिष्ठा᳘याम्प्र᳘तिष्ठापयति पु᳘रा ऽदित्य᳘स्योदया᳘त्तिर᳘ ऽइव वै᳘ पित᳘रस्तिर᳘ ऽइव रा᳘त्रिस्तिर᳘ ऽएव त᳘त्करोति य᳘था कुर्व्व᳘तो ऽभ्युदियात्त᳘देनमुभ᳘योरहोरात्र᳘योः प्र᳘तिष्ठापयति॥

मूलम् - Weber

अ᳘थैनन्नि᳘वपति॥
इयम् वै᳘ पृथिवी᳘ प्रतिॗष्ठास्या᳘मेॗवैनमेत᳘त्प्रतिष्ठा᳘याम् प्र᳘तिष्ठापयति पुॗरादित्य᳘स्योदया᳘त्तिर᳘-इव वै᳘ पित᳘रस्तिर᳘-इव रात्रिस्तिर᳘ एव त᳘त्करोति य᳘था कुर्वॗतोऽभ्युदियात्त᳘देनमुभ᳘योरहोरात्र᳘योः प्र᳘तिष्ठापयति॥

मूलम् - विस्वरम्

अथ ह एनं निवपति । इयं वै पृथिवी प्रतिष्ठा । अस्यामेवैनमेतत् प्रतिष्ठायां प्रतिष्ठापयति । पुरा ऽऽदित्यस्योदयात् । तिर इव वै पितरः । तिर इव रात्रिः । तिर एव तत् करोति । यथा कुर्वतो ऽभ्युदियात् । तदेनमुभयोरहोरात्रयोः प्रतिष्ठापयति ॥ २ ॥

हरिस्वामी

अथैनं निवपति 1 । एनं प्रेतमस्थिनिधानं कुम्भान्ते श्मशानक्षेत्रमध्ये नीचैर्वपति क्षिपति, कुतः एतदस्थ्यवस्थमिति श्मशानस्यास्थिरक्षणार्थत्वात् । चिरप्रेतस्यास्थ्यवस्थैव संभवति नान्या ॥ २ ॥

Eggeling
  1. He then pours out that (jarful of bones 5); for this earth is the foundation: on this (earth), as a foundation, he thus establishes him. Before sunrise (he does so), for, in secret, as it were, are the Fathers, and in secret, as it were, is the night;–in secret, indeed, he does this, (but) so that (the sun) should rise over him doing it: on both day and night he thus establishes him.

०३

विश्वास-प्रस्तुतिः

सविता᳘ ते श᳘रीराणि॥
मातु᳘रुप᳘स्थ ऽआ᳘वपत्वि᳘ति सवि᳘तै᳘वास्यैतच्छ᳘रीराण्यस्यै᳘ पृथिव्यै᳘ मातु᳘रुप᳘स्थ ऽआ᳘वपति त᳘स्मै पृथिवि श᳘म्भवे᳘ति य᳘थै᳘वास्मा ऽइयᳫँ᳭ शᳫँ᳭ स्या᳘देव᳘मेत᳘दाह प्प्रजा᳘पतौ त्वा देव᳘तायामु᳘पोदके लोके नि᳘दधाम्यसावि᳘ति ना᳘म गृह्णात्ययम्वै᳘ लोक ऽउ᳘पोदकस्त᳘देनम्प्रजा᳘पतौ देव᳘तायामु᳘पोदके लोके नि᳘दधाति॥

मूलम् - श्रीधरादि

सविता᳘ ते श᳘रीराणि॥
मातु᳘रुप᳘स्थ ऽआ᳘वपत्वि᳘ति सवि᳘तै᳘वास्यैतच्छ᳘रीराण्यस्यै᳘ पृथिव्यै᳘ मातु᳘रुप᳘स्थ ऽआ᳘वपति त᳘स्मै पृथिवि श᳘म्भवे᳘ति य᳘थै᳘वास्मा ऽइयᳫँ᳭ शᳫँ᳭ स्या᳘देव᳘मेत᳘दाह प्प्रजा᳘पतौ त्वा देव᳘तायामु᳘पोदके लोके नि᳘दधाम्यसावि᳘ति ना᳘म गृह्णात्ययम्वै᳘ लोक ऽउ᳘पोदकस्त᳘देनम्प्रजा᳘पतौ देव᳘तायामु᳘पोदके लोके नि᳘दधाति॥

मूलम् - Weber

सविता᳘ ते श᳘रीराणि॥
मातु᳘रुप᳘स्थ आ᳘वपत्वि᳘ति सविॗतैॗवास्यैतछ᳘रीराण्यस्यै᳘ पृथिव्यै᳘ मातु᳘रुप᳘स्थ आ᳘वपति त᳘स्यै पृथिवि श᳘म्भवे᳘ति य᳘थैॗवास्मा इयं शᳫं स्या᳘देव᳘मेत᳘दाह प्रजा᳘पतौ त्वा देव᳘तायामु᳘पोदके लोके नि᳘दधाम्यसावि᳘ति ना᳘म गृह्णात्ययम् वै᳘ लोक उ᳘पोदकस्त᳘देनम् प्रजा᳘पतौ देव᳘तायामु᳘पोदके लोके नि᳘दधाति॥

मूलम् - विस्वरम्

“सविता ते शरीराणि मातुरुपस्थ आवपतु”- इति । सवितैवास्यैतच्छरीराण्यस्यै पृथिव्यै मातुरुपस्थ आवपति । “तस्मै पृथिवि शं भव”- (वा. सं. ३५ । ५ ।) इति । यथैवास्मा इयं शं स्यात् । एवमेतदाह- “प्रजापतौ त्वा देवतायामुपोदके लोके निदधामि, असौ”- (वा. सं. ३५ । ६) इति नाम गृह्णाति । अयं वै लोक उपोदकः । तदेनं प्रजापतौ देवतायामुपोदके लोके निदधाति ॥ ३ ॥

हरिस्वामी

‘सविता ते’ । सविता ते शरीराणि आवपतु । “अथैनं यथाङ्गं कल्पयति” इति (कं. ४) वचनात् । यथा एतस्मै प्रेताय इयं पृथिवी शं सुखं सुखहेतुः स्यात् । एवमेतदाह- तस्मै पृथिवि शं भवेति ॥ ३ ॥

Eggeling
  1. [He does so, with Vāj. S. XXXV, 5-6,] ‘May Savitr̥ deposit thy bones in the mother’s lap,’–Savitr̥ thus deposits his bones in the lap of the mother, this earth;–‘O Earth, be thou propitious unto him!’ he thus says this in order that this (earth) may be propitious to him.–‘In the deity Prajāpati I place thee, in the world nigh unto the water 6, O N.N.,’ therewith he mentions the name (of the deceased); for nigh to

the water, indeed, is this (terrestrial) world: he thus places him in the deity Prajāpati, in the world nigh unto the water.

०४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ क᳘ञ्चिदाह॥
(है) एतान्दि᳘शम᳘नवानन्त्सृत्वा᳘ कुम्भ᳘म्प्रक्षीया᳘नपेक्षमाण ऽएही᳘ति त᳘त्र जपति प᳘रं मृत्यो ऽअ᳘नुप᳘रेहि प᳘न्थां य᳘स्ते ऽअन्य ऽइ᳘तरो देवया᳘नात्। च᳘क्षुष्मते शृण्वते[[!!]] ते᳘ ब्रवीमि मा᳘ नः प्प्रजा᳘ᳫँ᳘ रीरिषो᳘ मोत᳘ व्वीरानि᳘ति ज्योग्जीवा᳘तुमे᳘वैभ्य ऽएतदा᳘शास्ते त᳘थो हैषामे᳘कैको᳘ ऽपरो जर᳘सा ऽनुप्रैति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ क᳘ञ्चिदाह॥
(है) एतान्दि᳘शम᳘नवानन्त्सृत्वा᳘ कुम्भ᳘म्प्रक्षीया᳘नपेक्षमाण ऽएही᳘ति त᳘त्र जपति प᳘रं मृत्यो ऽअ᳘नुप᳘रेहि प᳘न्थां य᳘स्ते ऽअन्य ऽइ᳘तरो देवया᳘नात्। च᳘क्षुष्मते शृण्वते[[!!]] ते᳘ ब्रवीमि मा᳘ नः प्प्रजा᳘ᳫँ᳘ रीरिषो᳘ मोत᳘ व्वीरानि᳘ति ज्योग्जीवा᳘तुमे᳘वैभ्य ऽएतदा᳘शास्ते त᳘थो हैषामे᳘कैको᳘ ऽपरो जर᳘सा ऽनुप्रैति॥

मूलम् - Weber

अ᳘थ क᳘ञ्चिदाह॥
एताम् दि᳘शम᳘नवानन्त्सृत्वा᳘ 7 कुम्भ᳘म् प्रक्षीया᳘णप्रेक्षमाण एही᳘ति त᳘त्र जपति प᳘रम् मृत्यो अ᳘नु प᳘रेहि प᳘न्थां य᳘स्ते अन्य इ᳘तरो देवया᳘नात् च᳘क्षुष्मते शृण्वते᳘ ते ब्रवीमि मा᳘ नः प्रजां᳘ रीरिषोॗ मोत᳘ वीरानि᳘ति ज्योग्जीवा᳘तुमेॗवैभ्य एतदा᳘शास्ते त᳘थो हैषामे᳘कैको᳘ऽपरो जर᳘सानुप्रैति॥

मूलम् - विस्वरम्

अथ कंचिदाह- एतां दिशमनवानन् सृत्वा, कुंभं प्रक्षीय, अनपेक्षमाण एहीति । तत्र जपति- “परं मृत्यो अनुपरेहि पंथां यस्ते अन्य इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरान्”- (वा. सं. ३५ । ७) इति । ज्योग्जीवातुमेवैभ्य एतदाशास्ते । तथा उ ह एषामेकैको ऽपरो जरसानुप्रैति ॥ ४ ॥

हरिस्वामी

अथ 8 कंचिदाह- कंचित् प्रकृतं पुरुषमाह प्रेष्येत् । एतां दक्षिणां दिशम् अनवानन् अनुच्छ्वसन् सृत्वा गत्वा अस्थिकुंभं प्रक्षीय । “क्षि हिंसायाम्” (धा. पा. भ्वा. प. ३१) प्रपूर्वः अत्र प्रक्षेपे वर्तते । प्रक्षिप्यानपेक्षमाण एहीति । स वै तद्यथाप्रेषितं करोति । तत्र च प्रत्यागते 9 जपति “परं मृत्यो” इति ॥ ४ ॥

Eggeling
  1. He then says to some one, ‘Proceed in that (southern) direction without drawing breath, and, having thrown down the jar, return hither without looking behind thee!’ He then mutters (Vāj. S. XXXV, 7), ‘O Death, go away another way, what second way there is of thine other than the path of the gods 10; I call unto thee that hast eyes and hearest: hurt not our family nor our men!’ for long life he thereby prays for these, and accordingly each subsequent one of them dies of old age.

०५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैनं यथाङ्ग᳘ङ्कल्पयति॥
शम्वा᳘तः शᳫँ᳭ हि᳘ ते घृ᳘णिः श᳘न्ते भवन्त्वि᳘ष्टकाः। श᳘न्ते भवन्त्वग्न᳘यः पा᳘र्थिवासो मा᳘ त्वा ऽभि᳘शूशुचन्॥ क᳘ल्पन्तान्ते दि᳘शस्तु᳘भ्यमा᳘पः शिव᳘तमास्तु᳘भ्यम्भवन्तु सि᳘न्धवः। अन्त᳘रिक्षᳫँ᳭ शिवन्तु᳘भ्यं क᳘ल्पन्तां ते दि᳘शः स᳘र्व्वा ऽइ᳘त्येत᳘दे᳘वास्मै स᳘र्व्वङ्कल्पयत्येत᳘दस्मै शिव᳘ङ्करोति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैनं यथाङ्ग᳘ङ्कल्पयति॥
शम्वा᳘तः शᳫँ᳭ हि᳘ ते घृ᳘णिः श᳘न्ते भवन्त्वि᳘ष्टकाः। श᳘न्ते भवन्त्वग्न᳘यः पा᳘र्थिवासो मा᳘ त्वा ऽभि᳘शूशुचन्॥ क᳘ल्पन्तान्ते दि᳘शस्तु᳘भ्यमा᳘पः शिव᳘तमास्तु᳘भ्यम्भवन्तु सि᳘न्धवः। अन्त᳘रिक्षᳫँ᳭ शिवन्तु᳘भ्यं क᳘ल्पन्तां ते दि᳘शः स᳘र्व्वा ऽइ᳘त्येत᳘दे᳘वास्मै स᳘र्व्वङ्कल्पयत्येत᳘दस्मै शिव᳘ङ्करोति॥

मूलम् - Weber

अ᳘थैनं यथाङ्गं᳘ कल्पयति॥
शम् वा᳘तः शम् हि᳘ ते घृ᳘णिः श᳘म् ते भवन्त्वि᳘ष्टकाः श᳘म् ते भवन्त्वग्न᳘यः पा᳘र्थिवासो मा᳘ त्वाभि᳘शूशुचन् क᳘ल्पन्तां ते दि᳘शस्तु᳘भ्यमा᳘पः शिव᳘तमास्तु᳘भ्यम् भवन्तु सि᳘न्धवः अन्त᳘रिक्षं शिवम् तु᳘भ्यं क᳘ल्पन्तां ते दि᳘शः स᳘र्वा इ᳘त्येत᳘देॗवास्मै स᳘र्वं कल्पयत्येत᳘दस्मै शिवं᳘ करोति॥

मूलम् - विस्वरम्

अथैनं यथाङ्गं कल्पयति- “शं वातः शं हि ते घृणिः शं ते भवंत्विष्टकाः । शं ते भवंत्वग्नयः पार्थिवासो मा त्वा ऽभिशूशुचन्” “कल्पयन्तां ते दिशः तुभ्यमापः शिवतमाः तुभ्यं भवंतु सिंधवः । अंतरिक्षं शिवं तुभ्यं कल्पंतां ते दिशः सर्वाः”- इति । एतदेवास्मै सर्वं कल्पयति । एतदस्मै शिवं करोति ॥ ५ ॥

हरिस्वामी

अथैनं यथाङ्गं कल्पयति 11 । एनमस्थ्यात्मकं प्रेतं यथांगं येषु अंगेषु यथा अयं बभूव तेषु तथैव इत्यस्मिन्नर्थे अव्ययीभावः समासः । ‘एतदेवास्मै’ एतत् अस्मै प्रेताय सर्वं कल्पयति शिवं च करोति ॥ १ ॥

Eggeling
  1. He then arranges him (the dead man) limb by limb, with (Vāj. S. XXXV, 8-9), ‘Propitious be the wind unto thee, propitious the heat of the sun; propitious be the bricks; propitious be the fires unto thee, and may the earthly ones not scorch thee!–May the regions fit themselves to thee, and may the waters be most kind unto thee, and the rivers; and kind. also the air: may all the regions fit themselves to thee!’–he thereby makes everything fit itself to him, and be auspicious for him.

०६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ त्र᳘योदश पादमात्र्य᳘ ऽइ᳘ष्टका ऽअलक्षणाः᳘ कृता᳘ भवन्ति॥
या᳘ ऽए᳘वामू᳘रग्नावि᳘ष्टकास्ता᳘ ऽएता य᳘जुषा ता᳘ ऽउपद᳘धाति तूष्णी᳘मिमा दै᳘वञ्चैव तत्पि᳘त्र्यञ्च व्व्या᳘करोति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ त्र᳘योदश पादमात्र्य᳘ ऽइ᳘ष्टका ऽअलक्षणाः᳘ कृता᳘ भवन्ति॥
या᳘ ऽए᳘वामू᳘रग्नावि᳘ष्टकास्ता᳘ ऽएता य᳘जुषा ता᳘ ऽउपद᳘धाति तूष्णी᳘मिमा दै᳘वञ्चैव तत्पि᳘त्र्यञ्च व्व्या᳘करोति॥

मूलम् - Weber

अ᳘थ त्र᳘योदश पादमात्र्य᳘ इ᳘ष्टका अलक्षणाः᳘ कृता᳘ भवन्ति॥
या᳘ एॗवामू᳘रग्नावि᳘ष्टकास्ता᳘ एता य᳘जुषा ता उपद᳘धाति तूष्णी᳘मिमा दै᳘वं चैव तत्पि᳘त्र्यं च व्या᳘करोति॥

मूलम् - विस्वरम्

अथ त्रयोदश पादमात्र्य इष्टका अलक्षणाः कृता भवंति । या एवामूरग्नाविष्टकाः । ता एताः । यजुषा ता उपदधाति । तूष्णीमिमाः । दैवं चैव तत्पित्र्यं च व्याकरोति ॥ ६ ॥

हरिस्वामी

अथ त्रयोदश । अलक्षणाः तल्लक्षणं लेखाः तद्रहिताः ॥ ६ ॥ ७ ॥ ८ ॥

Eggeling
  1. Now thirteen unmarked 12 bricks, measuring a foot (square), have been made: they are just like those bricks in the fire-altar. Those (altar bricks) he lays down with a formula, silently these: he thus keeps the divine separate from what belongs to the Fathers.

०७

विश्वास-प्रस्तुतिः

त्र᳘योदश भवन्ति॥
त्र᳘योदश मा᳘साः सम्वत्सर᳘ ऽऋतु᳘ष्वे᳘वैनमेत᳘त्सम्वत्सरे᳘ प्प्रतिष्ठा᳘याम्प्र᳘तिष्ठापयति॥

मूलम् - श्रीधरादि

त्र᳘योदश भवन्ति॥
त्र᳘योदश मा᳘साः सम्वत्सर᳘ ऽऋतु᳘ष्वे᳘वैनमेत᳘त्सम्वत्सरे᳘ प्प्रतिष्ठा᳘याम्प्र᳘तिष्ठापयति॥

मूलम् - Weber

त्र᳘योदश भवन्ति॥
त्र᳘योदश मा᳘साः सम्वत्सर᳘ ऋतु᳘ष्वेॗवैनमेत᳘त्सम्वत्सरे᳘ प्रतिष्ठा᳘याम् प्र᳘तिष्ठापयति॥

मूलम् - विस्वरम्

त्रयोदश भवंति । त्रयोदश मासाः संवत्सरः । ऋतुष्वैवैनमेतत्संवत्सरे प्रतिष्ठायां प्रतिष्ठापयति ॥ ७ ॥

हरिस्वामी

[व्याख्यानं षष्ठे]

Eggeling
  1. There are thirteen of them,–thirteen months are a year: on the seasons, on the year, he thus establishes him, as on a firm foundation.

०८

विश्वास-प्रस्तुतिः

पादमा᳘त्र्यो भवन्ति॥
प्रतिष्ठा वै पा᳘दः प्रतिष्ठा᳘मे᳘वास्मै करोत्यलक्षणा᳘ भवन्ति तिर᳘ ऽइव वै᳘ पित᳘रस्तिर᳘ ऽइव तद्य᳘दलक्षण᳘न्तिर᳘ एव त᳘त्तिरः᳘ करोति॥

मूलम् - श्रीधरादि

पादमा᳘त्र्यो भवन्ति॥
प्रतिष्ठा वै पा᳘दः प्रतिष्ठा᳘मे᳘वास्मै करोत्यलक्षणा᳘ भवन्ति तिर᳘ ऽइव वै᳘ पित᳘रस्तिर᳘ ऽइव तद्य᳘दलक्षण᳘न्तिर᳘ एव त᳘त्तिरः᳘ करोति॥

मूलम् - Weber

पादमाॗत्र्यो भवन्ति॥
प्रतिष्ठा वै पा᳘दः प्रतिष्ठा᳘मेॗवास्मै करोत्यलक्षणा᳘ भवन्ति तिर᳘-इव वै पित᳘रस्तिर᳘-इव तद्य᳘दलक्षणं᳘ तिर᳘ एव त᳘त्तिरः᳘ करोति॥

मूलम् - विस्वरम्

पादमात्र्यो भवंति । प्रतिष्ठा वै पादः । प्रतिष्ठामेवास्मै करोति । अलक्षणा भवंति । तिर इव वै पितरः । तिर इव तत् । यदलक्षणम् । तिर एव तत् तिरः करोति ॥ ८ ॥

हरिस्वामी

[व्याख्यानं षष्ठे]

Eggeling
  1. They measure a foot (square),–the foot is a foundation: a foundation he thus prepares for him. Unmarked they are, for in secret, as it were, are the Fathers; and in secret, as it were, is what is unmarked: he thus secretes what is in secret.

०९

विश्वास-प्रस्तुतिः

ता᳘सामे᳘काम्म᳘ध्ये प्प्रा᳘चीमु᳘पदधाति॥
स᳘ ऽआत्मा᳘ तिस्रः᳘ पुर᳘स्तान्मूर्द्धसᳫँ᳭ हितास्तच्छि᳘रस्तिस्रो᳘ दक्षिणतः स द᳘क्षिणः पक्ष᳘स्तिस्र᳘ ऽउत्तरतः स ऽउ᳘त्तरः पक्ष᳘स्तिस्रः᳘ पश्चात्तत्पु᳘च्छ᳘ᳫँ᳘ सो ऽस्यैष᳘ पक्षपुच्छ᳘वानात्मा य᳘थै᳘वाग्नेस्त᳘था॥

मूलम् - श्रीधरादि

ता᳘सामे᳘काम्म᳘ध्ये प्प्रा᳘चीमु᳘पदधाति॥
स᳘ ऽआत्मा᳘ तिस्रः᳘ पुर᳘स्तान्मूर्द्धसᳫँ᳭ हितास्तच्छि᳘रस्तिस्रो᳘ दक्षिणतः स द᳘क्षिणः पक्ष᳘स्तिस्र᳘ ऽउत्तरतः स ऽउ᳘त्तरः पक्ष᳘स्तिस्रः᳘ पश्चात्तत्पु᳘च्छ᳘ᳫँ᳘ सो ऽस्यैष᳘ पक्षपुच्छ᳘वानात्मा य᳘थै᳘वाग्नेस्त᳘था॥

मूलम् - Weber

ता᳘सामे᳘काम् म᳘ध्ये प्रा᳘चीमु᳘पदधाति॥
स᳘ आत्मा᳘ तिस्रः᳘ पुर᳘स्तान्मूर्धस+हितास्तछि᳘रस्तिस्रो᳘ दक्षिणतः स द᳘क्षिणः पक्ष᳘स्तिस्र᳘ उत्तरतः स उ᳘त्तरः पक्ष᳘स्तिस्रः᳘ पश्चात्तत्पुॗछᳫं सोऽस्यैष᳘ पक्षपुछ᳘वानात्मा य᳘थैॗवाग्नेस्तथा॥

मूलम् - विस्वरम्

तासामेकां मध्ये प्राचीमुपदधाति, स आत्मा । तिस्रः पुरस्तात् मूर्द्धसंहिताः, तच्छिरः । तिस्रो दक्षिणतः, स दक्षिणः पक्षः । तिस्र उत्तरतः, स उत्तरः पक्षः । तिस्रः पश्चात्, तत्पुच्छम् । सो ऽस्यैष पक्षपुच्छवानात्मा । यथैवाग्नेः तथा ॥ ९ ॥

हरिस्वामी

तासामेकां 13 मध्ये क्षेत्रस्य । प्राचीं प्राङ्मुखीम् । ननु च अलक्षणा एताः तासां कुतः प्राङ्मुखता स्यादेवं तर्हि प्राचीत्वेनात्रावांतरदिक्स्रक्तिमुपदधातीत्यर्थः । तिस्रः पुरस्तात् तस्या मध्यमायाः मूर्ध्ना शिरसा प्रेतस्य संहिताः सहिताः ताश्च पूर्वापराः पराचीः 14 उपदधाति । तिस्रो दक्षिणोत्तराः पराचीः । एवं तिस्र उत्तरतः । तिस्रः पश्चात् पूर्वापराः ॥ ९ ॥

Eggeling
  1. One of them he places in the middle, with the front side towards the east: this is the body (trunk);–three in front, fitted to (the position of) the head: that is the head;–three on the right; that is the right wing (side);–three on the left: that is the left wing;–three behind: that is the tail. Thus this his body, furnished with wings and tail, is just like that of Agni (the fire-altar).

१०

विश्वास-प्रस्तुतिः

(था᳘ ऽथ) अ᳘थ प्रदरात्पुरीषमा᳘हर्त्तवा᳘ ऽआह[[!!]]॥
(है) एत᳘द्धास्याः पि᳘त्र्यम᳘नतिरिक्तम᳘थो ऽअघ᳘मेव तद्ब᳘द्धृ करोत्यस्मि᳘न्नु है᳘के ऽवान्तरदेशे᳘ कर्षू᳘ङ्खात्वा त᳘तो ऽभ्याहा᳘रङ्कुर्व्वन्ति प᳘रिकृषन्त्यु है᳘के दक्षिणतः᳘ पश्चा᳘दुत्तरतस्त᳘तो ऽभ्याहा᳘रङ्कुर्व्वन्ति स य᳘था काम᳘येत त᳘था कुर्य्यात्॥

मूलम् - श्रीधरादि

(था᳘ ऽथ) अ᳘थ प्रदरात्पुरीषमा᳘हर्त्तवा᳘ ऽआह[[!!]]॥
(है) एत᳘द्धास्याः पि᳘त्र्यम᳘नतिरिक्तम᳘थो ऽअघ᳘मेव तद्ब᳘द्धृ करोत्यस्मि᳘न्नु है᳘के ऽवान्तरदेशे᳘ कर्षू᳘ङ्खात्वा त᳘तो ऽभ्याहा᳘रङ्कुर्व्वन्ति प᳘रिकृषन्त्यु है᳘के दक्षिणतः᳘ पश्चा᳘दुत्तरतस्त᳘तो ऽभ्याहा᳘रङ्कुर्व्वन्ति स य᳘था काम᳘येत त᳘था कुर्य्यात्॥

मूलम् - Weber

अ᳘थ प्रदरात्पु᳘रीषमा᳘हर्तवा᳘ आह॥
एत᳘द्धास्याः पि᳘त्र्यम᳘नतिरिक्तम᳘थो अघ᳘मेव तद्ब᳘द्धृ 15 करोत्यस्मि᳘न्नु है᳘केऽवान्तरदेशे᳘ कर्षूं᳘ खात्वा त᳘तोऽभ्याहा᳘रं कुर्वन्ति प᳘रिकृषन्त्यु है᳘के दक्षिणतः᳘ पश्चा᳘दुत्तरतस्त᳘तोऽभ्याहा᳘रं कुर्वन्ति स य᳘था काम᳘येत त᳘था कुर्यात्॥

मूलम् - विस्वरम्

अथ प्रदरात् पुरीषमाहर्तवा आह । एतत् ह अस्याः पित्र्यमनतिरिक्तम् । अथो अघमेव तत् बद्धृ करोति । अस्मिन्नु हैके- अवांतरदेशे कर्षूं खात्वा । ततो ऽभ्याहारं कुर्वंति । परिकृषंति उ ह एके दक्षिणतः पश्चादुत्तरतः । ततो ऽभ्याहारं कुर्वंति । स यथा कामयेत । तथा कुर्यात् ॥ १० ॥

हरिस्वामी

अथ 13 प्रदरात् पुरीषमाहर्तवा आहेति । प्रकर्षेण स्वयमेव दीर्णो भूप्रदेशः प्रदरः । तस्मात् पुरीषमाहर्तव्यमिति इत्येवं प्रेष्यते च । तथैतत् प्रेष्यः कुर्यात् । तेन च पुरीषेण श्मशानं कुर्यादिति गम्यते । एतद्ध अस्याः पृथिव्याः पित्र्यं पितृदेवत्यं अनतिरिक्तं असाधारणं स्थानं यः प्रदरः । अघमेव अघचिह्नं बद्धृ आत्मनः गर्तमचलमेष करोतीत्यर्थः । अस्मिन् पूर्वदक्षिणमवान्तरदेशश्मशानमिते कर्षूं गर्तं खात्वा ततः ‘अभ्याहारं’ अभ्याहृत्याभ्याहृत्याभ्याहारं तेनाभ्याहृतेन पुरीषेण, एके श्मशानं कुर्वंति । उपहरणकालतश्चाभ्याहारं श्मशानं कुर्वंति ॥ १० ॥

Eggeling
  1. He then bids them bring some soil from a cleft in the ground, for thus the Fathers’ (share) in this (earth) is not excessive; and he also thereby makes the (dead man’s) sin to be restricted 16. And some, now, dig in that intermediate (south-eastern) quarter, and fetch it from there; and others, again, do so towards the south-west, and fetch it northwards from there: he may do as he chooses.

११

विश्वास-प्रस्तुतिः

(त्त) तद्वै न᳘ मह᳘त्कुर्य्यात्॥
(न्ने᳘) ने᳘न्मह᳘दघ᳘ङ्कर᳘वाणी᳘ति यावानु᳘द्बाहुः[[!!]] पु᳘रुषस्ता᳘वत्क्षत्रि᳘यस्य कुर्य्यान्मुखदघ्नं᳘ ब्राह्मण᳘स्योपस्थदघ्न᳘ᳫँ᳘ स्त्रिया᳘ ऽऊरुदघ्नम्वै᳘श्यस्याष्ठीवद्दघ्न᳘ᳫँ᳘ शूद्र᳘स्यैव᳘म्वीर्य्या ह्ये᳘त ऽइ᳘ति॥

मूलम् - श्रीधरादि

(त्त) तद्वै न᳘ मह᳘त्कुर्य्यात्॥
(न्ने᳘) ने᳘न्मह᳘दघ᳘ङ्कर᳘वाणी᳘ति यावानु᳘द्बाहुः[[!!]] पु᳘रुषस्ता᳘वत्क्षत्रि᳘यस्य कुर्य्यान्मुखदघ्नं᳘ ब्राह्मण᳘स्योपस्थदघ्न᳘ᳫँ᳘ स्त्रिया᳘ ऽऊरुदघ्नम्वै᳘श्यस्याष्ठीवद्दघ्न᳘ᳫँ᳘ शूद्र᳘स्यैव᳘म्वीर्य्या ह्ये᳘त ऽइ᳘ति॥

मूलम् - Weber

तद्वै न᳘ मह᳘त्कुर्यात्॥
ने᳘न्मह᳘दघ᳘म् 17 कर᳘वाणी᳘ति या᳘वानु᳘द्बाहुः पु᳘रुषस्ता᳘वत्क्षत्रि᳘यस्य कुर्यान्मुखदघ्न᳘म् ब्राह्मण᳘स्योपस्थदघ्न᳘ᳫं᳘ स्त्रिया᳘ ऊरुदघ्नम् वै᳘श्यस्याष्ठीवद्दघ्नं᳘ शूद्र᳘स्यैव᳘म्वीर्या ह्येत इ᳘ति॥

मूलम् - विस्वरम्

तद्वै न महत् कुर्यात् । नेन्महदघं करवाणीति । यावनुद्बाहुः पुरुषः । तावत् क्षत्रियस्य कुर्यात् । मुखदघ्नं ब्राह्मणस्य । उपस्थदघ्नं स्त्रियाः । ऊरुदघ्नं वैश्यस्य । अष्ठीवद्दघ्नं शूद्रस्य । एवंवीर्या ह्येत इति ॥ ११ ॥

हरिस्वामी

तद्वै न महत् । उत्सेधवचनमेतत् 18 । अष्ठीवद्दघ्नं शूद्रस्येति । यद्यपि शूद्रः अग्निचिन्नास्ति अग्निचितश्चायमधिकारः, तथापि परिमाणप्रसंगात् । अतः प्राप्तस्यामंत्रकस्य परिमाणमाह- एवंवीर्या ह्येत इति । उद्बाहुमात्रादिप्रकारं वीर्यं येषां ते एवंवीर्याः । यस्य यादृग्वीर्यं तस्य तस्य तादृगेव श्मशानं युक्तम् इत्यभिप्रायः ॥ ११ ॥

Eggeling
  1. Let him not make it (the sepulchral mound) too large, lest he make the (deceased’s) sin large. For a Kshatriya he may make it as high as a man with upstretched arms, for a Brāhmaṇa reaching up to the mouth, for a woman up to the hips, for a Vaiśya up to the thighs, for a Śūdra up to the knee; for suchlike is their vigour.

१२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘धोजानु᳘ त्वेव᳘ कुर्य्यात्॥
(त्त) तथा᳘ ऽपरस्मा ऽअवकाशन्न᳘ करोति त᳘स्य क्रिय᳘माणस्य तेजनी᳘मुत्तरतो᳘ धारयन्ति[[!!]] प्प्रजा᳘ ह सा᳘ प्प्रजा᳘मेव त᳘दुत्तरतो᳘ धारयन्ति तान्न᳘ न्यस्येद्धृत्वा᳘[[!!]] वैनामूढ्वा᳘ वा गृहेषू᳘च्छ्रयेत्प्रजा᳘मेव त᳘द्गृहेषू᳘च्छ्रयति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘धोजानु᳘ त्वेव᳘ कुर्य्यात्॥
(त्त) तथा᳘ ऽपरस्मा ऽअवकाशन्न᳘ करोति त᳘स्य क्रिय᳘माणस्य तेजनी᳘मुत्तरतो᳘ धारयन्ति[[!!]] प्प्रजा᳘ ह सा᳘ प्प्रजा᳘मेव त᳘दुत्तरतो᳘ धारयन्ति तान्न᳘ न्यस्येद्धृत्वा᳘[[!!]] वैनामूढ्वा᳘ वा गृहेषू᳘च्छ्रयेत्प्रजा᳘मेव त᳘द्गृहेषू᳘च्छ्रयति॥

मूलम् - Weber

अधोजानु᳘ त्वेव᳘ 19 कुर्यात्॥
तथा᳘परस्मा अवकाशं न᳘ करोति त᳘स्य क्रिय᳘माणस्य तेजनी᳘मुत्तरतो᳘ धार᳘यन्ति प्रजा᳘ ह सा᳘ प्रजा᳘मेव त᳘दुत्तरतो᳘ धारयन्ति तां न न्य᳘स्येद्धृत्वा᳘ वैनामूढ्वा᳘ वा गृहेषू᳘छ्रयेत्प्रजा᳘मेव त᳘द्गृहेषू᳘छ्रयति॥

मूलम् - विस्वरम्

अधोजानु त्वेव कुर्यात् । तथा ऽपरस्मा अवकाशं न करोति । तस्य क्रियमाणस्य तेजनीमुत्तरतो धारयंति । प्रजा ह सा । प्रजामेव तदुत्तरतो धारयंति । तां न न्यस्येत् । धृत्वा वैनाम् ऊढ्वा वा गृहेषूच्छ्रयेत् । प्रजामेव तत् गृहेषूच्छ्रयति ॥ १२ ॥

हरिस्वामी

अधोजान्विति । अधोजानु 18 कुर्यात् सर्वेषामेव । तथा अपरस्मै प्राप्यमाणाय अवकाशं न करोति । अत्युच्चैरपि हि जानुमात्रादूर्ध्वमतः तस्यैवावकाशः स्यात् इत्यभिप्रायः । तेजनीं 20 वीरणमूलम् । प्रजा ह सा बहुप्रसवत्वात् बहुमूलत्वात् । प्रजामेव तदुत्तरतो धारयंतीति । उत्तरत एव हि पितृलोकस्य जीवलोक इति । तां तेजनीं समाप्ते कर्मणि नीचैः क्वचिदेव न क्षिपेत् । प्रजैव हि तथा क्षिप्ता स्यादित्याशयः । कथं तर्हि कुर्यात् । धृत्वा वा भूमिगतां तामाकृष्य । ऊढ्वा वा स्कंधेन । गृहेषूच्छ्रयेत् तस्मिन्नेव प्रकृते श्मशाने ॥ १२ ॥

Eggeling
  1. But let him rather make it so as to reach

below the knee: he thus leaves no room for another. While that (mound) is being made, they hold a bundle (of reed grass) to the left (north, uttarataḥ) of it,–that is offspring: they thus hold the (deceased’s) offspring upwards (uttarataḥ). Do not let him throw it down either after holding it up, or after bringing it; but let him set it up in the house 21: he thus sets up offspring in the house.

१३

विश्वास-प्रस्तुतिः

कृत्वा य᳘वान्वपति॥
(त्य) अघं᳘ मे यवयानित्य᳘वकाभिः प्र᳘च्छादयति क᳘म्मे ऽसदि᳘ति दर्भैः प्र᳘च्छादयत्यरूक्ष᳘तायै॥

मूलम् - श्रीधरादि

कृत्वा य᳘वान्वपति॥
(त्य) अघं᳘ मे यवयानित्य᳘वकाभिः प्र᳘च्छादयति क᳘म्मे ऽसदि᳘ति दर्भैः प्र᳘च्छादयत्यरूक्ष᳘तायै॥

मूलम् - Weber

कृत्वा य᳘वान्वपति॥
अघ᳘म् मे यवयानित्य᳘वकाभिः प्र᳘छादयति क᳘म् मेऽसदि᳘ति दर्भैः प्र᳘छादयत्यरूक्ष᳘तायै॥

मूलम् - विस्वरम्

कृत्वा यवान्वपति । अघं मे यवयानिति । अवकाभिः प्रच्छादयति । कं मे ऽसदिति । दर्भैः प्रच्छादयति अरूक्षतायै ॥ १३ ॥

हरिस्वामी

यवान्वपति 22 अघं मे । (कर्षनामयष्माये यूपरिति ?) । सूत्रकारस्तु- परिकर्षणपक्षे परिकृष्टे एव यवान् वपेदिति मेने । अवकाभिः [^२_१६०] कुशैश्च प्रच्छादयत्ति प्रकृतं श्मशानम् ॥ १३ ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे काण्डे अष्टमे ऽध्याये तृतीयं ब्राह्मणम् ॥ १३ । ८ । ३ ॥

Eggeling
  1. Having prepared it, he sows barley grain (yava), thinking, ‘May they ward off (yavaya) sin from me!’ He covers it over with Avakā-plants 23 in order that there may be joy (or moisture, ka) for him; and with Darbha grass (Poa cynosuroides) he covers it for the sake of softness.

  1. अश्वत्थे व इति सर्वौषधं वपति । का. श्रौ. सू. २१ । ७० । ↩︎ ↩︎

  2. 432:3 Viz. that it means food of every kind, see VII, 2, 4, 14. ↩︎

  3. 432:4 Viz. with fifteen verses (VII, 2, 4, 15 seqq.) of which the one here used formed part (part iii, p. 340, note 2, verse,). ↩︎

  4. 433:1 That is, they die of old age; just as do the herbs now sown to which the verse is, of course, addressed in the first place. Cf. Mahīdhara on Vāj. S. XII, 79. ↩︎

  5. 433:2 On burning the dead body, immediately after death, the calcined bones were carefully collected and kept in an earthen vessel; cf. p. 117, note 3. ↩︎

  6. 433:3 Or, in a place near water. The Saṁhitā adds (either before or after the dead man’s name), ‘May he (Prajāpati) burn away our sin!’ ↩︎

  7. अ᳘नवानंत्स्तृत्वा᳘ A. P. नंत्सृत्वा᳘ D. and Kâty. २१.४. ६, where explained by गत्वा. ↩︎

  8. तूष्णीमन्यः कुंभमाक्ष्णौति दक्षिणा ऽनवानन् सृत्वा । (का. श्रौ. सू. २१ । ७२ ।) ॥ ↩︎

  9. प्रत्यागते परं मृत्यविति जपति (का. श्रौ. सू. २१ । ७३ ।) ॥ ↩︎

  10. 434:1 Viz. the ‘pitr̥yāna,’ or path of the Fathers. See I, 9, 3, 2. ↩︎

  11. शं वात इति यथांगं कल्पयित्वा निदधाति मध्ये तूष्णीम् । (का. श्रौ. सू. २१ । ७४ ।) ॥ ↩︎

  12. 434:2 That is, not marked with lines, as those of the fire-altar are. As to the use of pebbles, instead of bricks, in the case of one who has not performed the Agnicayana, see XIII, 8, 4, 11. ↩︎

  13. इष्टकां मध्ये निदधाति तूष्णीम् । (का. श्रौ. सू. २१ । ७४) ॥ ↩︎ ↩︎

  14. प्रतिदिशमन्तेषु पराचीस्तिस्रस्तिस्रो ऽलक्षणाः पादमात्रीः । (का. श्रौ. सू. २१ । ७५) पराची रिति नाभ्यात्ममित्यर्थः ॥ ↩︎

  15. तद्ब᳘धृ A. द्वद्धृ P. D. ↩︎

  16. 435:1 See XIII, 8, 1, 15. ↩︎

  17. ने᳘न्मह᳘दघं A. D. ↩︎

  18. ऊर्ध्वप्रमाणमास्यं ब्राह्मणस्य । उरः क्षत्रियस्य ऊर्ध्वबाहु वा । ऊरू वैश्यस्य । उपस्थः स्त्रियाः । जानु शूद्रस्य का. श्रौ. सू. ७८-८३ । शूद्रो रथकार इति तु देवयाज्ञिकः । क्षत्रियस्योरुप्रमाण तु शाखांतरात् । ↩︎ ↩︎

  19. अ᳘धोधोजा᳘नु᳘ D. अ᳘धोजानु᳘ A. prima manu. - ibid. न्यस्येधृत्वा᳘ ABC. ↩︎

  20. ग्रामतस्तेजनीमुच्छ्रित्य न न्यस्येदगृहेषूच्छ्रयेत् । का. श्रौ. सू. २१ । ५८ । ↩︎

  21. 436:1 That is, fix it so as to stand upright, by means of a bambū stick to which it is tied. Cf. Kāty. XXI, 3, 27 comm. ↩︎

  22. परिकृष्टं चेद्यवान्वपेत् । का. श्रौ. सू. २१ । ८६ । यदि परिकृष्टात्पुरीषमाहृतं ततश्च तत्र यवानां वापः श्रुतिक्रमेणेति कर्कः अर्थात्प्रदरात्पुरीषाहरणपक्षे नेत्याशयः । ↩︎

  23. 436:2 Blyxa (or Vallisneria) octandra (Roxburghii), a grass-like plant with sword-shaped leaves (A. K. Nairne, The Flowering Plants of Western India, p, 318), growing freely on the margins of tanks. Cf. VII, 5, 1, 11; IX, 1, 2, 22 (where read ‘Avakā-plant’ instead of ’lotus-flower’). ↩︎