०१
विश्वास-प्रस्तुतिः
अन्तर्द्धा᳘यो है᳘के नि᳘वपन्ति॥
देवाश्चा᳘सुराश्चोभ᳘ये प्प्राजापत्या᳘ ऽअस्मिं᳘ल्लो᳘के ऽस्पर्द्धन्त ते᳘ देवा ऽअ᳘सुरान्त्सप᳘त्नान्भ्रा᳘तृव्यानस्मा᳘ल्लोका᳘दनुदन्त त᳘स्माद्या दै᳘व्यः प्रजा ऽअ᳘नन्तर्हिता᳘नि ताः[[!!]] श्मशाना᳘नि कुर्व्वते᳘ ऽथ या᳘ ऽआसु᳘र्य्यः प्प्राच्या᳘स्त्वद्ये᳘ त्वदन्त᳘र्हितानि ते᳘ च᳘म्वान्त्वद्य᳘स्मिंस्त्वत्॥
मूलम् - श्रीधरादि
अन्तर्द्धा᳘यो है᳘के नि᳘वपन्ति॥
देवाश्चा᳘सुराश्चोभ᳘ये प्प्राजापत्या᳘ ऽअस्मिं᳘ल्लो᳘के ऽस्पर्द्धन्त ते᳘ देवा ऽअ᳘सुरान्त्सप᳘त्नान्भ्रा᳘तृव्यानस्मा᳘ल्लोका᳘दनुदन्त त᳘स्माद्या दै᳘व्यः प्रजा ऽअ᳘नन्तर्हिता᳘नि ताः[[!!]] श्मशाना᳘नि कुर्व्वते᳘ ऽथ या᳘ ऽआसु᳘र्य्यः प्प्राच्या᳘स्त्वद्ये᳘ त्वदन्त᳘र्हितानि ते᳘ च᳘म्वान्त्वद्य᳘स्मिंस्त्वत्॥
मूलम् - Weber
अन्तर्धा᳘वो है᳘के नि᳘वपन्ति॥
देवाश्चा᳘सुराश्चोभ᳘ये प्राजापत्या᳘ अस्मिं᳘लोॗकेऽस्पर्धन्त ते᳘ देवा अ᳘सुरान्त्सप᳘त्नान्भ्रा᳘तृव्यानस्मा᳘ल्लोका᳘दनुदन्त त᳘स्माद्या दै᳘व्यः प्रजा अ᳘नन्तर्हितानि ताः᳘ श्मशाना᳘नि कुर्वते᳘ऽथ या᳘ आसुर्यः᳘ प्राच्या᳘स्त्वद्ये᳘ त्वदन्त᳘र्हितानि ते᳘ चॗम्वां त्वद्य᳘स्मिंस्त्वत्॥
मूलम् - विस्वरम्
अंतर्द्धाय उ ह एके निवपंति । देवाश्चासुराश्च उभये प्राजापत्या अस्मिन् लोके ऽस्पर्द्धंत । ते देवा असुरान् सपत्नान् भ्रातृव्यान् अस्माल्लोकादनुदंत । तस्मात् या दैव्यः प्रजाः । अनंतर्हितानि ताः श्मशानानि कुर्वते । अथ आसुर्यः । प्राच्यास्त्वद्ये त्वदंतर्हितानि । ते चम्वां त्वद् यस्मिंस्त्वत् ॥ १ ॥
हरिस्वामी
अंतर्द्धायो हैके । पृथिव्यां किंचिद्वस्त्रैरिष्टकान्तर्द्धानमभिधाय तस्मिन्नेकस्था निनिपंति वृतवस्त्रपृथिव्यां वा कस्मिंश्चित्पर्वणि ॥ १ ॥
Eggeling
- Now, some bank up (the sepulchral mound) after covering up (the site). The gods and the Asuras, both of them sprung from Prajāpati, were contending for (the possession of) this (terrestrial) world. The gods drove out the Asuras, their rivals and enemies, from this world; whence those who
are godly people make their sepulchres so as not to be separate (from the earth), whilst those (people) who are of the Asura nature, the Easterns and others, (make their sepulchral mounds) so as to be separated (from the earth), either on a basin 1 or on some such thing.
०२
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थैनत्परिश्रि᳘द्भिः प᳘रिश्रयति॥
या᳘ ऽए᳘वामूः᳘ परिश्रि᳘तस्ता᳘ ऽएता य᳘जुषा ताः᳘ परिश्र᳘यति तूष्णी᳘मिमा दै᳘वञ्चैव तत्पि᳘त्र्यञ्च व्व्या᳘करोत्य᳘परिमिताभिर᳘परिमितो᳘ ह्यसौ᳘[[!!]] लोकः᳘॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थैनत्परिश्रि᳘द्भिः प᳘रिश्रयति॥
या᳘ ऽए᳘वामूः᳘ परिश्रि᳘तस्ता᳘ ऽएता य᳘जुषा ताः᳘ परिश्र᳘यति तूष्णी᳘मिमा दै᳘वञ्चैव तत्पि᳘त्र्यञ्च व्व्या᳘करोत्य᳘परिमिताभिर᳘परिमितो᳘ ह्यसौ᳘[[!!]] लोकः᳘॥
मूलम् - Weber
अ᳘थैनत्परिश्रि᳘द्भिः प᳘रिश्रवति॥
या᳘ एॗवामूः᳘ परिश्रि᳘तस्ता᳘ एता य᳘जुषा ताः᳘ परिश्र᳘यति तूष्णी᳘मिमा दै᳘वं तत्पि᳘त्र्यम् च व्या᳘करोत्य᳘परिमिताभिर᳘परिमितो ह्य᳘सौ᳘ लोकः॥
मूलम् - विस्वरम्
अथैनत् परिश्रिद्भिः परिश्रयति । या एवामूः परिश्रितः । ता एताः । यजुषा ताः परिश्रयति । तूष्णीमिमाः । दैवं चैव तत्पित्र्यं च व्याकरोति । अपरिमिताभिः । अपरिमितो ह्यसौ लोकः ॥ २ ॥
हरिस्वामी
अथैनत्परिश्रिद्भिः परिश्रयति । या एवामूः परिश्रितः । यत्प्रयोजना एवामूः आग्निक्यः परिश्रितः तत्प्रयोजना एवैताः ॥ २ ॥
Eggeling
- He then encloses it by means of enclosing-stones: what those enclosing-stones (round the fire-hearths) are, that they are here 2. With a formula he sets up those, silently these: he thus keeps separate what refers to the gods and what refers to the Fathers. With (an) undefined (number of stones he encloses it), for undefined is yonder world.
०३
विश्वास-प्रस्तुतिः
(को᳘ ऽथै) अ᳘थैनत्पलाशशाख᳘या व्व्यु᳘दूहति॥
य᳘दे᳘वादो᳘ व्व्युदू᳘हनन्त᳘देतद᳘पेतो᳘ यन्तु पणयो᳘ ऽसुम्ना देवपीय᳘व ऽइ᳘ति पणी᳘ने᳘वैतद᳘सुम्नान्देवपीयू᳘नसुररक्षसा᳘न्यस्मा᳘ल्लोकाद᳘पहन्त्यस्य᳘ लोकः᳘ सुता᳘वत ऽइ᳘ति सुत᳘वान्हि य᳘ ऽईजानो द्यु᳘भिर᳘होभिरक्तु᳘भिर्व्व्यक्तमि᳘ति त᳘देनमृतु᳘भिश्चाहोरात्रै᳘श्च स᳘लोकङ्करोति॥
मूलम् - श्रीधरादि
(को᳘ ऽथै) अ᳘थैनत्पलाशशाख᳘या व्व्यु᳘दूहति॥
य᳘दे᳘वादो᳘ व्व्युदू᳘हनन्त᳘देतद᳘पेतो᳘ यन्तु पणयो᳘ ऽसुम्ना देवपीय᳘व ऽइ᳘ति पणी᳘ने᳘वैतद᳘सुम्नान्देवपीयू᳘नसुररक्षसा᳘न्यस्मा᳘ल्लोकाद᳘पहन्त्यस्य᳘ लोकः᳘ सुता᳘वत ऽइ᳘ति सुत᳘वान्हि य᳘ ऽईजानो द्यु᳘भिर᳘होभिरक्तु᳘भिर्व्व्यक्तमि᳘ति त᳘देनमृतु᳘भिश्चाहोरात्रै᳘श्च स᳘लोकङ्करोति॥
मूलम् - Weber
अ᳘थैनत्पलाशशाख᳘या व्यु᳘दूहति॥
य᳘देॗवादो᳘ व्युदू᳘हनं त᳘देतद᳘पेतो᳘ यन्तु पणयो᳘ऽसुम्ना देवपीय᳘व इ᳘ति पणी᳘नेॗवैतद᳘सुम्नान्देवपीयू᳘नसुररक्षसा᳘न्यस्मा᳘ल्लोकाद᳘पहन्त्यस्य᳘ लोकः᳘ सुता᳘वत इ᳘ति सुत᳘वान्हि य᳘ ईजानोद्यु᳘भिर᳘होभिरक्तु᳘भिर्व्य᳘क्तमि᳘ति त᳘देनमृतु᳘भिश्चाहोरात्रै᳘श्च स᳘लोकं करोति॥
मूलम् - विस्वरम्
अथैनत्पलाशशाखया व्युदूहति । यदेवादो व्युदूहनं- तदेतत्- “अपेतो यंतु पणयो ऽसुम्ना देवपीयवः” इति । पणीनेवैतदसुम्नान्देवपीयूनसुररक्षसान्यस्माल्लोकादपहंति- “अस्य लोकः सुतावतः”- (वा. सं. ३५ । १) इति । सुतवान् हि य ईजानः । “द्युभिरहोभिरक्तुभिर्व्यक्तम्”- इति । तदेनमृतुभिश्चाहोरात्रैश्च सलोकं करोति ॥ ३ ॥
हरिस्वामी
अथैनत्पलाशशाखया व्युदूहति । यदेवादः । यत्प्रयोजनमेवाग्निकं व्युदूहनं तत्प्रयोजनमेवैतत् । पणयः “पण व्यवहारे” (धा. पा. भ्वा. उ. ४४०) व्यवहारप्रधानाः । देवपीयवः पीयनं पीयुः “पीयतिर्हिंसाकर्मा” देवानां (निंदादिति ।) हिंसाकर्तॄन् ॥ ३-९ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे काण्डे अष्टमे ऽध्याये द्वितीयं ब्राह्मणम् ॥ १३ । ८ । २ ॥
Eggeling
- He then sweeps that (site) with a palāśa (Butea frondosa) branch–what the sweeping (signified) on that occasion 3, that (it does) here–with (Vāj. S. XXXV, I), ‘Let the niggards avaunt from hence, the perverse scorners of the gods!’–he thereby expels from this world the niggards, the perverse haters of the gods, the Asura-Rakshas;–‘it is the place of this Soma-offerer,’ for he who has performed a Soma-sacrifice is a Soma-offerer;–’(an abode) distinguished by lights, by days, by nights,’–he thereby makes him to
be of the world of the seasons, the days and nights;–
०४
विश्वास-प्रस्तुतिः
यमो᳘ ददात्ववसा᳘नमस्मा ऽइ᳘ति॥
यमो᳘ ह वा᳘ ऽअस्या᳘मवसा᳘नस्येष्टे त᳘मे᳘वास्मा ऽअस्या᳘मवसा᳘नं याचति ता᳘न्दक्षिणो᳘दस्यत्युदगि᳘तरान्दै᳘वञ्चैव[[!!]] तत्पि᳘त्र्यञ्च व्व्या᳘करोति॥
मूलम् - श्रीधरादि
यमो᳘ ददात्ववसा᳘नमस्मा ऽइ᳘ति॥
यमो᳘ ह वा᳘ ऽअस्या᳘मवसा᳘नस्येष्टे त᳘मे᳘वास्मा ऽअस्या᳘मवसा᳘नं याचति ता᳘न्दक्षिणो᳘दस्यत्युदगि᳘तरान्दै᳘वञ्चैव[[!!]] तत्पि᳘त्र्यञ्च व्व्या᳘करोति॥
मूलम् - Weber
यमो᳘ ददात्ववसा᳘नमस्मा इ᳘ति॥
यमो᳘ ह वा᳘ अस्या᳘मवसा᳘नस्येष्टे त᳘मेॗवास्मा अस्या᳘मवसा᳘नं याचति तां᳘ दक्षिणो᳘दस्यत्यु᳘दगि᳘तरां दै᳘वं चैव तत्पि᳘त्र्यं च व्या᳘करोति॥
मूलम् - विस्वरम्
“यमो ददात्ववसानमस्मै”- (वा. सं. ३५ । १) इति । यमो ह वा अस्यामवसानस्येष्टे । तमेवास्मा अस्यामवसानं याचति । तां दक्षिणोदस्यति । उदगितराम् । दैवं चैव तत्पित्र्यं च व्याकरोति ॥ ४ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- ‘May Yama grant him an abode;’–for Yama has power over the abode in this (earth), and it is him he solicits for an abode therein for this (dead man). He throws out this (branch) to the right (south), the other 4 to the left (north) side: he thus keeps the divine separate from what belongs to the Fathers.
०५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ दक्षिणतः सी᳘रं युनक्ति॥
(क्त्यु) उत्तरत ऽइ᳘त्यु है᳘क ऽआहुः स य᳘था काम᳘येत त᳘था कुर्य्याद्युङ्क्ते᳘ति सम्प्रे᳘ष्याभि᳘मन्त्रयते सविता᳘ ते श᳘रीरेभ्यः पृथिव्यां᳘ लोक᳘मिच्छत्वि᳘ति सवि᳘तै᳘वास्यैतच्छ᳘रीरेभ्यः पृथिव्यां᳘ लोक᳘मिच्छति त᳘स्मै युज्यन्तामुस्रि᳘या ऽइ᳘त्येतस्मा ऽउ हि क᳘र्म्मण ऽउस्रि᳘या युज्य᳘न्ते॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ दक्षिणतः सी᳘रं युनक्ति॥
(क्त्यु) उत्तरत ऽइ᳘त्यु है᳘क ऽआहुः स य᳘था काम᳘येत त᳘था कुर्य्याद्युङ्क्ते᳘ति सम्प्रे᳘ष्याभि᳘मन्त्रयते सविता᳘ ते श᳘रीरेभ्यः पृथिव्यां᳘ लोक᳘मिच्छत्वि᳘ति सवि᳘तै᳘वास्यैतच्छ᳘रीरेभ्यः पृथिव्यां᳘ लोक᳘मिच्छति त᳘स्मै युज्यन्तामुस्रि᳘या ऽइ᳘त्येतस्मा ऽउ हि क᳘र्म्मण ऽउस्रि᳘या युज्य᳘न्ते॥
मूलम् - Weber
अ᳘थ दक्षिणतः सी᳘रम् युनक्ति॥
उत्तरत इ᳘त्यु है᳘क आहुः स य᳘था काम᳘येत त᳘था कुर्याद्युङ्क्ते᳘ति सम्प्रे᳘ष्याभि᳘मन्त्रयते सविता᳘ ते श᳘रीरेभ्यः पृथिव्यां᳘ लोक᳘मिछत्वि᳘ति सविॗतैॗवास्यैतछ᳘रीरेभ्यः पृथिव्यां᳘ लोक᳘मिछति त᳘स्मै युज्यन्तामुस्रि᳘या इ᳘त्येतस्मा उ हि क᳘र्मण उस्रि᳘या युज्य᳘न्ते॥
मूलम् - विस्वरम्
अथ दक्षिणतः सीरं युनक्ति । उत्तरत इति उ ह एक आहुः । स यथा कामयेत तथा कुर्यात् । युंक्तेति संप्रेष्य अभिमंत्रयते- “सविता ते शरीरेभ्यः पृथिव्यां लोकमिच्छतु” इति । सवितैवास्यैतच्छरीरेभ्यः पृथिव्यां लोकमिच्छति- “तस्मै युज्यंतामुस्रियाः”- (वा. सं. ३५ । २) इति । एतस्मा उ हि कर्मण उस्रिया युज्यंते ॥ ५ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- He (the Adhvaryu) then yokes (the team) to the plough on the south side,–some say on the north side: he may do as he chooses. Having given the order, saying, ‘Yoke!’ he (the Sacrificer) utters the formula (Vāj. S. XXXV, 2), ‘May Savitr̥ vouchsafe for thy bones a place in the earth!’–Savitr̥ now indeed vouchsafes a place in the earth for his (the deceased man’s) bones;–‘Let the oxen be yoked therefore!’ for it is indeed for this work that the oxen are yoked.
०६
विश्वास-प्रस्तुतिः
षङ्गव᳘म्भवति॥
ष᳘डृऋत᳘वः सम्वत्सर᳘ ऽऋतु᳘ष्वे᳘वैनमेत᳘त्सम्वत्सरे᳘ प्प्रतिष्ठा᳘याम्प्र᳘तिष्ठापयति त᳘दपसलवि᳘ पर्य्याहृ᳘त्योत्तरतः᳘ प्प्रती᳘चीम्प्रथमाᳫँ᳭ सी᳘ताङ्कृषति व्वायुः᳘ पुनात्वि᳘ति जघनार्द्धे᳘न दक्षि᳘णा ऽग्नेर्भ्भ्रा᳘जसे᳘ति दक्षिणार्द्धे᳘न प्प्रा᳘चीᳫँ᳭ सू᳘र्य्यस्य व्व᳘र्च्चसेत्य᳘ग्ग्रेणो᳘दीचीम्॥ शतम् ६८००॥
मूलम् - श्रीधरादि
षङ्गव᳘म्भवति॥
ष᳘डृऋत᳘वः सम्वत्सर᳘ ऽऋतु᳘ष्वे᳘वैनमेत᳘त्सम्वत्सरे᳘ प्प्रतिष्ठा᳘याम्प्र᳘तिष्ठापयति त᳘दपसलवि᳘ पर्य्याहृ᳘त्योत्तरतः᳘ प्प्रती᳘चीम्प्रथमाᳫँ᳭ सी᳘ताङ्कृषति व्वायुः᳘ पुनात्वि᳘ति जघनार्द्धे᳘न दक्षि᳘णा ऽग्नेर्भ्भ्रा᳘जसे᳘ति दक्षिणार्द्धे᳘न प्प्रा᳘चीᳫँ᳭ सू᳘र्य्यस्य व्व᳘र्च्चसेत्य᳘ग्ग्रेणो᳘दीचीम्॥ शतम् ६८००॥
मूलम् - Weber
षङ्गव᳘म् भवति॥
ष᳘डृत᳘वः सम्वत्सर᳘ ऋतु᳘ष्वेॗवैनमेत᳘त्सम्वत्वरे᳘ प्रतिष्ठा᳘याम् प्र᳘तिष्ठापयति त᳘दपसलवि᳘ पर्याहृ᳘त्योत्तरतः᳘ प्रती᳘चीम् प्रथमाᳫं सी᳘ताम् कृषति वायुः᳘ पुनात्वि᳘ति जघनार्धे᳘न दक्षिॗणाग्नेर्भ्रा᳘जसे᳘ति 5 दक्षिणार्धे᳘न प्रा᳘चीᳫं सू᳘र्यस्य व᳘र्चसेत्य᳘ग्रेणो᳘दीचीम्॥
मूलम् - विस्वरम्
षड्गवं भवति । षड् ऋतवः संवत्सरः । ऋतुष्वेवैनमेतत् संवत्सरे प्रतिष्ठायां प्रतिष्ठापयति तदपसलवि पर्याहृत्य उत्तरतः प्रतीचीं प्रथमां सीतां कृषति- “वायुः पुनातु”- इति । “सविता पुनातु”- इति जघनार्द्धेन दक्षिणा । “अग्नेर्भ्राजसा”- इति दक्षिणार्द्धेन प्राचीम् । “सूर्यस्य वर्चसा”- (वा. सं. ३५ । ३ ।) इत्यग्रेणोदीचीम् ॥ ६ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- It is (a team) of six oxen,–six seasons are a year: on the seasons, on the year, as a firm foundation, he thus establishes him. Having turned round (the plough) from right to left 6, he ploughs the first furrow with (Vāj. S. XXXV, 3), ‘May Vāyu purify!’ along the north side (along the cord) towards the west 7; with, ‘May
Savitr̥ purify!’ along the west side towards the south; with, ‘With Agni’s lustre!’ along the south side towards the east; with, ‘With Sūrya’s brilliance!’ along the front side towards the north.
०७
विश्वास-प्रस्तुतिः
(ञ्च᳘) च᳘तस्रः सी᳘ता य᳘जुषा कृषति[[!!]]॥
तद्य᳘च्चतसृ᳘षु दिक्ष्व᳘न्नन्त᳘स्मिन्ने᳘वैनमेतत्प्र᳘तिष्ठापयति तद्वै य᳘जुषा ऽद्धा वै तद्यद्य᳘जुर᳘द्धो तद्य᳘दिमा दि᳘शः॥
मूलम् - श्रीधरादि
(ञ्च᳘) च᳘तस्रः सी᳘ता य᳘जुषा कृषति[[!!]]॥
तद्य᳘च्चतसृ᳘षु दिक्ष्व᳘न्नन्त᳘स्मिन्ने᳘वैनमेतत्प्र᳘तिष्ठापयति तद्वै य᳘जुषा ऽद्धा वै तद्यद्य᳘जुर᳘द्धो तद्य᳘दिमा दि᳘शः॥
मूलम् - Weber
च᳘तस्रः सी᳘ता य᳘जुषा कृ᳘षति॥
तद्य᳘च्चतसृ᳘षु दिक्ष्व᳘न्नं त᳘स्मिन्नेॗवैनमेतत्प्र᳘तिष्ठापयति तद्वै य᳘जुषाद्धा वै तद्यद्य᳘जुरॗद्धो तद्य᳘दिमा दि᳘शः॥
मूलम् - विस्वरम्
चतस्रः सीता यजुषा कृषति । तत् यत् चतसृषु दिक्ष्वन्नम् । तस्मिन्नेवैनमेतत् प्रतिष्ठापयति । तत् वै यजुषा । अद्धा वै तत् । यत् यजुः । अद्धा उ तत् । यत् इमा दिशः ॥ ७ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- Four furrows he ploughs with a formula: he thereby establishes him in whatever food there is in the four quarters. And (as to why it is done) with a formula,–certain, assuredly, is the sacrificial formula (yajus), and certain are these quarters.
०८
विश्वास-प्रस्तुतिः
(शो᳘ ऽथा) अ᳘थात्मा᳘नम्वि᳘कृषति॥
तद्य᳘देव᳘ सम्वत्सरे᳘ ऽन्नन्त᳘स्मिन्ने᳘वैनमेतत्प्र᳘तिष्ठापयति तूष्णीम᳘परिमिताभिर᳘परिमितो ह्यसौ᳘[[!!]] लोकः॥
मूलम् - श्रीधरादि
(शो᳘ ऽथा) अ᳘थात्मा᳘नम्वि᳘कृषति॥
तद्य᳘देव᳘ सम्वत्सरे᳘ ऽन्नन्त᳘स्मिन्ने᳘वैनमेतत्प्र᳘तिष्ठापयति तूष्णीम᳘परिमिताभिर᳘परिमितो ह्यसौ᳘[[!!]] लोकः॥
मूलम् - Weber
अ᳘थात्मा᳘नम् वि᳘कृषति॥
तद्य᳘देव᳘ सम्वत्सरे᳘ऽन्नं त᳘स्मिन्नेॗवैनमेतत्प्र᳘तिष्ठापयति तूष्णीम᳘परिमिताभिर᳘परिमितोह्य᳘सौ᳘ लोकः॥
मूलम् - विस्वरम्
अथात्मानं विकृषति । तद्यदेव संवत्सरे ऽन्नम् । तस्मिन्नेवैनमेतत् प्रतिष्ठापयति । तूष्णीमपरिमिताभिः । अपरिमितो ह्यसौ लोकः ॥ ८ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- He then ploughs across the body (of the sepulchral site)–he thereby establishes him in whatever food there is in the year 8–silently with (an) undefined (number of furrows), for undefined is yonder world.
०९
विश्वास-प्रस्तुतिः
(को᳘ ऽथै) अ᳘थैनद्वि᳘मुञ्चति॥
कृत्वा तत्क᳘र्म्म य᳘स्मै क᳘र्म्मण ऽएनद्यु᳘ङ्क्ते व्वि᳘मुच्यन्तामुस्रि᳘या ऽइ᳘त्येत᳘स्मा ऽउ हि क᳘र्म्मण ऽउस्रि᳘या युज्य᳘न्ते त᳘द्दक्षिणो᳘दस्यत्यु᳘दगि᳘तरद्दै᳘वञ्चैव तत्पि᳘त्र्यञ्च व्व्या᳘करोति॥
मूलम् - श्रीधरादि
(को᳘ ऽथै) अ᳘थैनद्वि᳘मुञ्चति॥
कृत्वा तत्क᳘र्म्म य᳘स्मै क᳘र्म्मण ऽएनद्यु᳘ङ्क्ते व्वि᳘मुच्यन्तामुस्रि᳘या ऽइ᳘त्येत᳘स्मा ऽउ हि क᳘र्म्मण ऽउस्रि᳘या युज्य᳘न्ते त᳘द्दक्षिणो᳘दस्यत्यु᳘दगि᳘तरद्दै᳘वञ्चैव तत्पि᳘त्र्यञ्च व्व्या᳘करोति॥
मूलम् - Weber
अ᳘थैनद्वि᳘मुञ्चति॥
कृत्वा तत्क᳘र्म य᳘स्मै क᳘र्मण एनद्यु᳘ङ्क्ते वि᳘मुच्यन्तामुस्रि᳘या इ᳘त्येत᳘स्मा उ हि क᳘र्मण उस्रि᳘या युज्य᳘न्ते त᳘द्दक्षिणो᳘दस्यत्यु᳘दगि᳘तरद्दै᳘वं चैव तत्पि᳘त्र्यम् च व्या᳘करोति॥
मूलम् - विस्वरम्
अथैनत् विमुञ्चति । कृत्वा तत्कर्म । यस्मै कर्मण एनत् युंक्ते- “विमुच्यंतामुस्रियाः” (वा. सं. ३५ । ३) इति । एतस्मा उ हि कर्मण उस्रिया युज्यंते । तद्दक्षिणोदस्यति । उदगितरत् । दैवं चैव तत्पित्र्यं च व्याकरोति ॥ ९ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- Having performed the work for which he has put the team to that (plough), he now unfastens it: ‘Let the oxen be unyoked!’ he says, for it is for that work that the oxen were yoked. To the right (south) side 9 he removes this (plough and team), to the left (side) arty other: he thus keeps the divine separate from what’ belongs to the Fathers.
-
430:1 I take the ‘camū’ to be a shallow stone basin or trough, either solid or consisting of masonry (bricks) in the manner of our stone-lined graves. ↩︎
-
430:2 Cf. VII, 1, 1, 12 seq. ‘The enclosing-stones are the womb: he thus encloses the seed here sown in a womb. . . And, again, the Gārhapatya hearth is this (terrestrial) world, and the enclosing-stones are the waters: he thus surrounds this world with water.’ ↩︎
-
430:3 Viz. in building the Gārhapatya hearth (VII, 1, 1, 11 seqq.); no such sweeping taking place in preparing the site for the Āhavanīya (VII, 3, 1, 7). ↩︎
-
431:1 Viz. that used in sweeping the Gārhapatya, VII, 7, 1, 5. ↩︎
-
दक्षिणामग्नेर्भ्रा महीधर at Vâj. S. ३५. २. ↩︎
-
431:2 That is, having driven the plough round from the south side to the north, in the non-sunwise direction (i.e. keeping the sepulchral site on the left hand side). ↩︎
-
431:3 In ploughing the site of the fire-altar, the first furrow was drawn along the south side from west to east; and then, in sunwise fashion, from the south-west corner round along the west, north, and east sides; see VII, 2, 2, 9 seqq. ↩︎
-
432:1 The Sacrificer’s body (trunk) or self, like that of Prajāpati, is as usual identified with the year (Father Time). ↩︎
-
432:2 Or rather to the south-west side, whilst at the Agnicayana (VII, 2, 2, 21) it was done towards the north-east. ↩︎