०१
विश्वास-प्रस्तुतिः
अ᳘थास्मै श्मशान᳘ङ्कुर्व्वन्ति॥
गृहा᳘न्वा प्रज्ञा᳘नम्वा यो वै क᳘श्च म्रि᳘यते स श᳘वस्त᳘स्मा ऽएतद᳘न्नङ्करोति त᳘स्माच्छवान्न᳘ᳫँ᳘ शवान्न᳘ᳫँ[[!!]] ह वै त᳘च्छ्मशानमित्या᳘चक्षते परो᳘क्षᳫँ᳭ श्मशा ऽउ हैव ना᳘म पितॄणा᳘मत्ता᳘रस्ते᳘ हामु᳘ष्मिंल्लोके᳘ ऽकृतश्मशान᳘स्य साधुकृत्यामु᳘पदम्भयन्ति ते᳘भ्य ऽएतद᳘न्नङ्करोति त᳘स्माच्छ्मशान्न᳘ᳫँ᳘ श्मशान्न᳘ᳫँ᳘ ह वै त᳘च्छ्मशानमित्या᳘चक्षते परो᳘ ऽक्षम्॥
मूलम् - श्रीधरादि
अ᳘थास्मै श्मशान᳘ङ्कुर्व्वन्ति 1 ॥
गृहा᳘न्वा प्रज्ञा᳘नम्वा यो वै क᳘श्च म्रि᳘यते स श᳘वस्त᳘स्मा ऽएतद᳘न्नङ्करोति त᳘स्माच्छवान्न᳘ᳫँ᳘ शवान्न᳘ᳫँ[[!!]] ह वै त᳘च्छ्मशानमित्या᳘चक्षते परो᳘क्षᳫँ᳭ श्मशा ऽउ हैव ना᳘म पितॄणा᳘मत्ता᳘रस्ते᳘ हामु᳘ष्मिंल्लोके᳘ ऽकृतश्मशान᳘स्य साधुकृत्यामु᳘पदम्भयन्ति ते᳘भ्य ऽएतद᳘न्नङ्करोति त᳘स्माच्छ्मशान्न᳘ᳫँ᳘ श्मशान्न᳘ᳫँ᳘ ह वै त᳘च्छ्मशानमित्या᳘चक्षते परो᳘ ऽक्षम्॥
मूलम् - Weber
अ᳘थास्मै कल्याणं᳘ कुर्वन्ति 2 ॥
अ᳘थास्मै श्मशान᳘म् कुर्वन्ति॥
गृहा᳘न्वा प्रज्ञा᳘नम् वा यो वै क᳘श्च म्रि᳘यते स श᳘वस्त᳘स्मा एतद᳘न्नं करोति त᳘स्माछवान्न᳘म् श᳘वान्न᳘म् ह वै त᳘छ्मशानमित्या᳘चक्षते परो᳘क्षं श्मशा उ हैव ना᳘म पितॄणा᳘मत्ता᳘रस्ते᳘ हामु᳘ष्मिंलोके᳘ऽकृतश्मशानस्य साधुकृत्यामु᳘पदम्भयन्ति ते᳘भ्य एतद᳘न्नं करोति त᳘स्माछ्मशान्नं᳘ श्मशान्न᳘म् ह वै त᳘छ्मशानमित्या᳘चक्षते परो᳘ऽक्षम्॥
मूलम् - विस्वरम्
अथ पितृमेधः ।
अथास्मै श्मशानं कुर्वंति । गृहान्वा प्रज्ञानं वा । यो वै कश्च म्रियते । स शवः । तस्मा एतदन्नं करोति । तस्मात् शवान्नम् । शवान्नं ह वै तत् श्मशानमित्याचक्षते । परो श्मशा उ हैव नाम पितॄणां अत्तारः ते ह अमुष्मिन् लोके ऽकृतश्मशान्नस्य साधुकृत्यामुपदंभयन्ति । तेभ्य एतदन्नं करोति । तस्मात् श्मशान्नम् । श्मशान्नं ह वै तत् श्मशानमित्याचक्षते परोक्षम् ॥ १ ॥
हरिस्वामी
अथास्मै श्मशानमिति । अथशब्दः अधिकारार्थः । नानंतर्यार्थः । कुतः ? सर्वमेधेन सह श्मशानकरणस्यानंतर्यानुपपत्तेः । कथं ? सर्वमेधानंतर्ये हि गृह्यमाणे अस्मै इति सर्वमेधयाजी पराम्रष्टव्यः । न च सर्वमेधयाजी सर्वमेधानंतरं म्रियते । अथापि कथंचित् म्रियेत । तथापि “यो वै कश्च म्रियते स शवस्तस्मा एतदन्नं करोति” इति अविशेषवचनात् अनग्निचितो ऽपि श्मशानदर्शनार्थत् । क्षत्रियस्य च सर्वमेधयाजिन एवैतत् श्मशानकरणं, किं तर्हि अविशेषेण । ततश्च सर्वमेधिना सहानंतर्यं नोपपद्यते । परिशेषात्, अधिकारार्थो ऽथशब्दः । वाक्योपन्यासार्थो वा । अस्मै इति मृतः प्रतिनिर्द्दिश्यते । न सर्वमेधयाजी । यो वैश्यादेरुक्थ्यात्करणात् (?) । श्मशानं प्रसिद्धमेव । अस्थिसंरक्षणाय वा ऽस्तु । तत् कुर्वंति । य तस्य प्रेतस्य सक्थ्यतायाः (?) । किमात्मकं तत् कुर्यात् इत्यत आह- गृहान्वा । प्रेतस्य गृहान्वै तत्कुर्वंति, यथैवेह तेनास्थीनि रक्ष्यंते एवममुत्र तदपूर्वेण प्रेतो रक्ष्यते गृहैरिवेत्यभिप्रायः । प्रज्ञानं वा । अमुष्य देवदत्तादेरत्रास्थीनि गुप्तानि इत्येतत् प्रज्ञायते येन तत् प्रज्ञानं च कीर्तिवर्द्धनं करणीयमित्यभिप्रायः । यो वै कश्च म्रियते इति प्रयोजनांतरवचनं च । तस्मै एतदन्नं करोति । अस्मिन् कृते एतद्धेतुकं तस्यान्नं भवतीत्यभिप्रायः । तस्माच्च शवान्नम् । तत् शवान्नं च श्मशानमित्याचक्षते परोक्षम् । वर्णलोपागमविचारादिनेत्यर्थः । श्मशा नाम पितॄणां दंडपाशिकस्वरूपा अत्तारस्ते च अकृतश्मशानस्य अमुष्मिन् लोके पुण्यकृत्यां उपहिंसंति ॥ १ ॥
Eggeling
(to serve him) either as a house or as a monument; for when any one dies, he is a corpse (śava), and for that (corpse) food (anna) is thereby prepared, hence ‘śavanna,’ for, indeed, ‘śavanna’ is what is mystically called ‘śmaśāna.’ But ‘śmaśāḥ’ also are called the eaters amongst the Fathers, and they, indeed, destroy in yonder world the good deeds of him who has had no sepulchre prepared for him: it is for them that he prepares that food, whence it is ‘śmaśānna,’ for ‘śmaśānna’ is what is mystically called ‘śmaśāna.’
०२
विश्वास-प्रस्तुतिः
(न्त) तद्वै न᳘ क्षिप्रं᳘ कुर्य्यात्॥
(न्ने) नेन्न᳘वमघ᳘ङ्कर᳘वाणी᳘ति चिर᳘ ऽएव᳘ कुर्य्यादघ᳘मेव त᳘त्तिरः᳘ करोति य᳘त्र समा ना᳘नु चन स्म᳘रेयुर᳘श्रुतिमेव त᳘दघ᳘ङ्गमयति य᳘द्यनुस्म᳘रेयुः॥
मूलम् - श्रीधरादि
(न्त) तद्वै न᳘ क्षिप्रं᳘ कुर्य्यात्॥
(न्ने) नेन्न᳘वमघ᳘ङ्कर᳘वाणी᳘ति चिर᳘ ऽएव᳘ कुर्य्यादघ᳘मेव त᳘त्तिरः᳘ करोति य᳘त्र समा ना᳘नु चन स्म᳘रेयुर᳘श्रुतिमेव त᳘दघ᳘ङ्गमयति य᳘द्यनुस्म᳘रेयुः॥
मूलम् - Weber
तद्वै न᳘ क्षिप्रं᳘ कुर्यात् 5 ॥
नेन्न᳘वमघं᳘ कर᳘वाणी᳘ति चिर᳘ एव᳘ कुर्यादघ᳘मेव त᳘त्तिरः᳘ करोति य᳘त्र समाना᳘नु चन स्म᳘रेयुर᳘श्रुतिमेव त᳘दघं᳘ गमयति य᳘द्यनुस्म᳘रेयुः॥
मूलम् - विस्वरम्
तत् वै न क्षिप्रं कुर्यात् । नेन्नवमघं करवाणीति । चिर एव कुर्यात् । अघमेव तत्तिरः करोति । यत्र समा नानु चन स्मरेयुः । अश्रुतिमेव तदघं गमयति । यद्यनु स्मरेयुः ॥ २ ॥
हरिस्वामी
तद्वै 6 न क्षिप्रम् । क्षिप्रं अचिरमृते न कुर्यात् । नेन्नवं प्रत्यग्रम् अघं पापं करवाणि, प्रत्यये हि अघे स्मर्यमाणे महत् दुःखं भवतीत्यभिप्रायः । तिरः करोति । कालेनान्तर्वर्तते । तथाच- स्मर्यमाणानामपि महत् दुःखं भवतीति । यत्र काले समाः संवत्सरान् नानुस्मरेयुरपि । अश्रुतिमेव तदघं गमयति । न श्रुतिः श्रुत्यभावः । तत्तेन चिरकरणेन अघं पापकरणं गमयति । चिरात् श्मशानं कुर्वन् मरणं जनवादो न शृणोतीत्यर्थः । यद्यनुस्मरेयुरिति- यदि चिरादपि कुर्वतः स्मरेयुरेव समाः । ततः ॥ २ ॥
Eggeling
- Let him 7 not make it too soon (after the deceased man’s death) lest he should freshen up his sin; but let him make it a long time after, as thereby he obscures the sin;–and when people do not even remember the years (that have passed 8), as thereby one causes the sin to pass into oblivion. If they do remember 9,–
०३
विश्वास-प्रस्तुतिः
(र᳘) अ᳘युङ्गेषु सम्वत्सरे᳘षु कुर्य्यात्॥
(द) अयुङ्गᳫँ᳭[[!!]] हि᳘ पितॄणा᳘मेकनक्षत्र᳘ ऽएकनक्षत्रᳫँ᳭ हि᳘ पितॄ᳘णा᳘ममावा᳘स्यायाममावा᳘स्या वा᳘ ऽएकनक्षत्रमे᳘को हि य᳘द्वेताᳫँ᳭ रा᳘त्रिᳫँ᳭ स᳘र्व्वाणि भूता᳘नि सम्व᳘सन्ति ते᳘नो तङ्का᳘ममाप्नोति यः स᳘र्व्वेषु न᳘क्षत्रेषु॥
मूलम् - श्रीधरादि
(र᳘) अ᳘युङ्गेषु सम्वत्सरे᳘षु कुर्य्यात्॥
(द) अयुङ्गᳫँ᳭[[!!]] हि᳘ पितॄणा᳘मेकनक्षत्र᳘ ऽएकनक्षत्रᳫँ᳭ हि᳘ पितॄ᳘णा᳘ममावा᳘स्यायाममावा᳘स्या वा᳘ ऽएकनक्षत्रमे᳘को हि य᳘द्वेताᳫँ᳭ रा᳘त्रिᳫँ᳭ स᳘र्व्वाणि भूता᳘नि सम्व᳘सन्ति ते᳘नो तङ्का᳘ममाप्नोति यः स᳘र्व्वेषु न᳘क्षत्रेषु॥
मूलम् - Weber
अ᳘युङ्गेषु सम्वत्सरेषु कुर्यात्॥
अ᳘युङ्गᳫं हि᳘ पितॄणा᳘मेकनक्षत्र᳘ एकनक्षत्रᳫं हि᳘ पितॄणा᳘ममावाॗस्यायाममावाॗस्या वा᳘ एकनक्षत्रमे᳘को हि य᳘द्वेतां रा᳘त्रिᳫं स᳘र्वाणि भूता᳘नि सम्व᳘सन्ति ते᳘नो तं का᳘ममाप्नोति यः स᳘र्वेषु न᳘क्षत्रेषु॥
मूलम् - विस्वरम्
अयुंगेषु संवत्सरेषु कुर्यात् । अयुंगं हि पितॄणाम् । एकनक्षत्रे । एकनक्षत्रं हि पितॄणाम् । अमावास्यायाम् । अमावास्या वा एकनक्षत्रम् । एको हि । यत् उ एतां रात्रिं सर्वाणि भूतानि संवसंति । तेन उ तं काममाप्नोति । यः सर्वेषु नक्षत्रेषु ॥ ३ ॥
हरिस्वामी
अयुंगेषु 6 । अयुग्मेषु संवत्सरेषु । अयुंगं हि । सर्वमेवोपकरणं पिंडादि, पितॄणाम् । ते अपि हि पितृपितामहप्रपितामहाः अयुग्मा एवेति । एकनक्षत्रे 10 । एकं च नक्षत्रं च एकनक्षत्रं, पुष्यः स्वातिर्हस्त इत्यादि । यत्तु द्विवचनबहुवचनांतशब्दादिवाक्यप्रसिद्धं, पुनर्वसू विशाखे कृत्तिका भरण्यो ऽनूराधा इत्यादि तदनेकनक्षत्रम् । कथं ? पुनरमावास्या 11 एकनक्षत्रं, इत्यत आह-एको हीति । मासे एका अमावास्या भवति । न यथा प्रतिपदौ द्वितीये इत्याद्याः । अथवा एका हि सा, उभयोरपि चंद्रार्कयोरायतनं ग्रहायतनत्वसामान्यादेव नक्षत्रमित्युच्यते । ननु च श्रद्दधानांतरनिमित्ता अपि कामाः निमित्ते ऽत्र कथमापद्येरन् इत्यत आह- यद्वेतामिति । कथं पुनरेतां रात्रिं सर्वाणि भूतानि संवसंति, तत्र तत् अग्नीषोमात्मकं सर्वमेवेदं भूतम् । सूर्यश्चाग्नेयः, चन्द्रमाः सौम्यभूतः सूर्याचन्द्रमसोः संवासे सर्वाणि भूतानि संवसंतीत्युपपन्नम् ॥ ३ ॥
Eggeling
- Let him make it in uneven years, since the uneven belongs to the Fathers; and under a single Nakshatra 12, since the single Nakshatra belongs to the Fathers; and at new-moon, since the new-moon is a single Nakshatra;–for he (the Sacrificer) is a single (person); and in that all the beings dwell together during that night, thereby he obtains that object of desire which is (contained) in all Nakshatras.
०४
विश्वास-प्रस्तुतिः
शर᳘दि कुर्य्यात्॥
(त्स्व) स्वधा वै᳘ शर᳘त्स्व᳘धो वै᳘ पितॄणाम᳘न्नं त᳘देनम᳘न्ने स्वधा᳘यान्दधाति माघे᳘ वा मा᳘ नो ऽघ᳘म्भूदि᳘ति निदाघे᳘ वा नि᳘ नो ऽघं᳘ धीयाता ऽइ᳘ति॥
मूलम् - श्रीधरादि
शर᳘दि कुर्य्यात्॥
(त्स्व) स्वधा वै᳘ शर᳘त्स्व᳘धो वै᳘ पितॄणाम᳘न्नं त᳘देनम᳘न्ने स्वधा᳘यान्दधाति माघे᳘ वा मा᳘ नो ऽघ᳘म्भूदि᳘ति निदाघे᳘ वा नि᳘ नो ऽघं᳘ धीयाता ऽइ᳘ति॥
मूलम् - Weber
शर᳘दि कुर्यात्॥
स्वधा वै᳘ शर᳘त्स्वॗधो वै᳘ पितॄणाम᳘न्नं त᳘देनम᳘न्ने स्वधा᳘यां दधाति माघे᳘ वा मा᳘ नोऽघ᳘म् भूदि᳘ति निदाघे᳘ वा नि᳘ नोऽघं᳘ धीयाता इ᳘ति॥
मूलम् - विस्वरम्
शरदि कुर्यात् । स्वधा वै शरत् । स्वधा उ वै पितॄणामन्नम् । तदेनमन्ने स्वधायां दधाति । माघे वा । मा नो ऽघं भूदिति । निदाघे वा । नि नो ऽघं धीयाता इति ॥ ४ ॥
हरिस्वामी
शरदि कुर्यात् । स्वधा वै शरत् । स्वधेत्यन्ननाम । स्वधा ऋतुः शरत् । तस्यां हि ग्राम्या आरण्या ओषधयः पच्यंते । स्वधा च पितॄणामन्नम् । ततश्च स्वधान्नसामान्यात् शरदि 13 कुर्वंति । मंत्रे, अलं स्वधा मासमानः (?) । माघे वा मा नो ऽघं भूदिति मासशब्दो वैशब्देन सादृश्यमस्तीत्यभिप्रायमेतत् (?) । एवं अस्माकम् अघं वीर्ये ऽतिजीवे द्वितीये तत् स्थाप्येत मा उद्भवेत् इत्येतत्प्रार्थयमानः ॥ ४ ॥
Eggeling
- Let him make it in autumn, for the autumn is the Svadhā, and the Svadhā is the food of the Fathers: he thus places him along with food, the Svadhā;–or in (the month of) Māgha, thinking, ‘Lest (mā) sin (agha) be in us;’–or in summer (nidāgha), thinking, ‘May thereby be removed (nidhā) our sin (agha)!’
०५
विश्वास-प्रस्तुतिः
च᳘तुःस्रक्ति॥
देवाश्चा᳘सुराश्चोभ᳘ये प्प्राजापत्या᳘ दि᳘क्ष्वस्पर्द्धन्त[[!!]] ते᳘ देवा ऽअ᳘सुरान्त्सप᳘त्नान्भ्रा᳘तृव्यान्दि᳘ग्भ्यो ऽनुदन्त᳘ ते ऽदि᳘क्काः प᳘राभवंस्त᳘स्माद्या दै᳘व्यः प्रजाश्च᳘तुःस्रक्तीनि ताः श्मशाना᳘नि कुर्व्वेते᳘ ऽथ या᳘ ऽआसु᳘र्य्यः प्राच्या᳘स्त्वद्ये᳘ त्वत्परिमण्डला᳘नि ते᳘ ऽनुदन्त᳘ ह्येनान्दिग्भ्य᳘ ऽउभे दि᳘शाव᳘न्तरेण व्वि᳘दधाति प्रा᳘चीञ्च द᳘क्षिणाञ्चैत᳘स्याᳫँ᳭ ह दिशि᳘ पितृलोक᳘स्य द्वा᳘रं द्वा᳘रै᳘वैनम्पितृलोकम्प्र᳘पादयति स्रक्ति᳘भिर्द्दिक्षु᳘ प्रतिति᳘ष्ठती᳘तरेणात्म᳘ना ऽवान्तरदि᳘क्षु त᳘देनᳫँ᳭ स᳘र्व्वासु दिक्षु प्र᳘तिष्ठापयति॥
मूलम् - श्रीधरादि
च᳘तुःस्रक्ति॥
देवाश्चा᳘सुराश्चोभ᳘ये प्प्राजापत्या᳘ दि᳘क्ष्वस्पर्द्धन्त[[!!]] ते᳘ देवा ऽअ᳘सुरान्त्सप᳘त्नान्भ्रा᳘तृव्यान्दि᳘ग्भ्यो ऽनुदन्त᳘ ते ऽदि᳘क्काः प᳘राभवंस्त᳘स्माद्या दै᳘व्यः प्रजाश्च᳘तुःस्रक्तीनि ताः श्मशाना᳘नि कुर्व्वेते᳘ ऽथ या᳘ ऽआसु᳘र्य्यः प्राच्या᳘स्त्वद्ये᳘ त्वत्परिमण्डला᳘नि ते᳘ ऽनुदन्त᳘ ह्येनान्दिग्भ्य᳘ ऽउभे दि᳘शाव᳘न्तरेण व्वि᳘दधाति प्रा᳘चीञ्च द᳘क्षिणाञ्चैत᳘स्याᳫँ᳭ ह दिशि᳘ पितृलोक᳘स्य द्वा᳘रं द्वा᳘रै᳘वैनम्पितृलोकम्प्र᳘पादयति स्रक्ति᳘भिर्द्दिक्षु᳘ प्रतिति᳘ष्ठती᳘तरेणात्म᳘ना ऽवान्तरदि᳘क्षु त᳘देनᳫँ᳭ स᳘र्व्वासु दिक्षु प्र᳘तिष्ठापयति॥
मूलम् - Weber
च᳘तुःस्रक्ति॥
देवाश्चा᳘सुराश्चोभ᳘ये प्राजापत्या᳘ दिक्ष्व᳘स्पर्धन्त ते᳘ देवाअ᳘सुरान्त्सप᳘त्नान्भ्रा᳘तृव्यान्दिॗग्भ्योऽनुदन्तॗ तेऽदि᳘क्काः प᳘राभवंस्त᳘स्माद्या दै᳘व्यः प्रजाश्च᳘तुःस्रक्तीनि ताः श्मशाना᳘नि कुर्वते᳘ऽथ या आसुर्यः᳘ प्राच्या᳘स्त्वद्ये᳘ त्वत्परिमण्डला᳘नि ते᳘ऽनुदन्तॗ ह्येनान्दिग्भ्य᳘ उभे दि᳘शाव᳘न्तरेण वि᳘दधाति प्रा᳘चीं च द᳘क्षिणां चैत᳘स्याᳫं ह दिशि᳘ पितृलोक᳘स्य द्वा᳘रं द्वाॗरैॗवैनम् 14 पितृलोकम् प्र᳘पादयति स्रक्ति᳘भिर्दिक्षु प्रतिति᳘ष्ठती᳘तरेणात्म᳘नावन्तरदि᳘क्षु त᳘देनᳫं स᳘र्वासु दिक्षु प्र᳘तिष्ठापयति॥
मूलम् - विस्वरम्
चतुःस्रक्ति । देवाश्चासुराश्च उभये प्राजापत्या दिक्ष्वस्पर्द्धंत । ते देवा असुरान् सपत्नान् भ्रातृव्यान् दिग्भ्यो ऽनुदंत । ते ऽदिक्काः पराभवन् । तस्मात् या दैव्यः प्रजाः । चतुःस्रक्तीनि ताः श्मशानानि कुर्वते । अथ या आसुर्यः । प्राच्यास्त्वद्ये त्वत्परिमंडलानि । ते ऽनुदंत ह्येनान् दिग्भ्यः । उभे दिशावंतरेण विदधाति । प्राचीं च दक्षिणां च । एतस्यां हि दिशि पितृलोकस्य द्वारम् । द्वारैवैनं पितृलोकं प्रपादयति । स्रक्तिभिर्दिक्षु प्रतितिष्ठति । इतरेणात्मना ऽवांतरदिक्षु । तदेनं सर्वासु दिक्षु प्रतिष्ठापयति ॥ ५ ॥
हरिस्वामी
चतुःस्रक्ति । चतुरस्रं 13 श्मशानं कुर्यादिति वर्तते । दिग्भ्यो ऽनुदंत दिगाधिपत्यादेव । असुराः अदिक्काः दिगाधिपत्यरहिताः परभूताः । तस्माच्च अद्यापि तदनुकारेण या दैव्यः प्रजा देवा भक्तिर्यासां त्रैविद्यालक्षणाः ताः चतुःस्रक्तीनि कुर्वते । अथशब्दः विशेषणार्थः । आसुर्यः । असुरभक्तयः देववेदयज्ञविप्रविद्वेषिण्यः पाखंडागमहेतुवादकुशलाः । प्राच्याश्च जनपदाः ये चान्ये उदीच्यादयः ते परिमंडलानि स्तूपाख्यानि कुर्वते । यस्मात्ते देवा एनानसुरान्द्रिग्भ्यो ऽनुदन्त दिक्षु भागरहितानेव चक्रुः । तदनुकारेण च तद्भक्तयः प्रजाः कुर्वंति । उभे दिशावंतरेण । ग्रामाद्दक्षिणपूर्वस्यां दिशीत्यर्थः । स्रक्तिभिर्दिक्षु प्रतितिष्ठति । यथा श्मशानं तथा कार्यम् । एवं कुर्वता तेन प्रेतं सर्वासु दिक्षु प्रतिष्ठापयति ॥ ५ ॥
Eggeling
- Four-cornered (is the sepulchral mound). Now the gods and the Asuras, both of them sprung from Prajāpati, were contending in the (four) regions (quarters). The gods drove out the Asuras, their rivals and enemies, from the regions, and, being regionless, they were overcome. Wherefore the people who are godly make their burial-places four-cornered, whilst those who are of the Asura nature, the Easterns and others 15, (make them)
round, for they (the gods) drove them out from the regions. He arranges it so as to lie between the two regions, the eastern and the southern 16, for in that region assuredly is the door to the world of the Fathers: through the above he thus causes him to enter the world of the Fathers; and by means of the (four) corners he (the deceased) establishes himself in the regions, and by means of the other body 17 (of the tomb) in the intermediate regions: he thus establishes him in all the regions.
०६
विश्वास-प्रस्तुतिः
(त्य) अथा᳘तो भूमिजोषण᳘स्य॥
(स्यो) उदीची᳘नप्रवणे करोत्यु᳘दीची वै᳘ मनु᳘ष्याणान्दिक्त᳘देनं मनुष्यलोक ऽआ᳘भजत्येत᳘द्ध वै᳘ पित᳘रो मनुष्यलोक ऽआ᳘भक्ता भवन्ति य᳘देषाम्प्रजा भ᳘वति प्प्रजा᳘ हास्य श्रे᳘यसी भवति॥
मूलम् - श्रीधरादि
(त्य) अथा᳘तो भूमिजोषण᳘स्य॥
(स्यो) उदीची᳘नप्रवणे करोत्यु᳘दीची वै᳘ मनु᳘ष्याणान्दिक्त᳘देनं मनुष्यलोक ऽआ᳘भजत्येत᳘द्ध वै᳘ पित᳘रो मनुष्यलोक ऽआ᳘भक्ता भवन्ति य᳘देषाम्प्रजा भ᳘वति प्प्रजा᳘ हास्य श्रे᳘यसी भवति॥
मूलम् - Weber
अथा᳘तो भूमिजोषण᳘स्य॥
उदीची᳘नप्रवणे करोत्यु᳘दीची वै᳘ मनुॗष्याणाम् दिक्त᳘देनम् मनुष्यलोक आ᳘भजत्येत᳘द्ध वै᳘ पित᳘रो मनुष्यलोक आ᳘भक्ता भवन्ति य᳘देषाम् प्रजा भ᳘वति प्रजा᳘ हास्स्य श्रेयसी भवति॥
मूलम् - विस्वरम्
अथातो भूमिजोषणस्य । उदीचीनप्रवणे करोति । उदीची वै मनुष्याणां दिक् । तदेनं मनुष्यलोक आभजति । एतत् ह वै पितरो मनुष्यलोक आभक्ता भवंति । यदेषां प्रजा भवति । प्रजा ह आस्य श्रेयसी भवति ॥ ६ ॥
हरिस्वामी
अथातो भूमिजोषणस्य । प्रजा ह अस्य प्रेतस्य श्रेयसी भवति ॥ ६ ॥
Eggeling
- Now as to the choosing of the ground. He makes it on ground inclining towards the north, for the north is the region of men: he thus gives him (the deceased) a share in the world of men; and in that respect, indeed, the Fathers share in the world of men that they have offspring; and his (the deceased man’s) offspring will, indeed, be more prosperous.
०७
विश्वास-प्रस्तुतिः
दक्षिणा᳘प्रवणे कुर्य्यादि᳘त्याहुः॥
(र्द्द) दक्षिणा᳘प्रवणो वै᳘ पितृलोकस्त᳘देनम्पितृलोक ऽआ᳘भजती᳘ति न त᳘था कुर्य्यादामी᳘वद्ध ना᳘म त᳘च्छ्मशानकरणं᳘ क्षिप्रे᳘ हैषाम᳘परो ऽनुप्रै᳘ति॥
मूलम् - श्रीधरादि
दक्षिणा᳘प्रवणे कुर्य्यादि᳘त्याहुः॥
(र्द्द) दक्षिणा᳘प्रवणो वै᳘ पितृलोकस्त᳘देनम्पितृलोक ऽआ᳘भजती᳘ति न त᳘था कुर्य्यादामी᳘वद्ध ना᳘म त᳘च्छ्मशानकरणं᳘ क्षिप्रे᳘ हैषाम᳘परो ऽनुप्रै᳘ति॥
मूलम् - Weber
दक्षिणा᳘प्रवणे कुर्यादि᳘त्याहुः॥
दक्षिणा᳘प्रवणो वै᳘ पितृलोकस्त᳘देनम् पितृलोक आ᳘भजती᳘ति न त᳘था कुर्यादामी᳘वद्ध ना᳘म त᳘छ्मशानकरणं᳘ क्षिप्रे᳘ हैषाम᳘परोऽनुप्रै᳘ति॥
मूलम् - विस्वरम्
दक्षिणाप्रवणे कुर्यादित्याहुः । दक्षिणाप्रवणो वै पितृलोकः । तदेनं पितृलोक आभजतीति । न तथा कुर्यात् । आमीवत् ह नाम तत् श्मशानकरणम् । क्षिप्रे ह एषामपरो ऽनुप्रैति ॥ ७ ॥
हरिस्वामी
दक्षिणाप्रवणे 18 । आमीवत् । आङ् आभिमुख्ये “मीङ् हिंसायाम्”- (धा. पा. दि. आ. ३१) तस्मात् भावे क्विप् । अभिमुखगामि मयनं मरणम् आशीतने ह्यस्य कार्यतया ऽस्ति तत् आमीवत्, तस्मिन् कृते क्षिप्रमेव एषां कर्तॄणामपि कश्चित् अनुप्रैति परलोकम् ॥ ७ ॥
Eggeling
- ‘Let him make it on ground inclining towards the south,’ they say, ‘for the world of the Fathers inclines towards the south: he thus gives him a share in the world of the Fathers.’ Let him not do so, however, for, indeed, such a one is an opening tomb, and certainly another of these (members of the dead man’s family) quickly follows him in death.
०८
विश्वास-प्रस्तुतिः
दक्षिणा᳘प्रवणस्य प्रत्यर्षे᳘ कुर्य्यादि᳘त्यु है᳘क ऽआहुः॥
(स्त) त᳘त्प्रत्यु᳘च्छ्रितमघ᳘म्भवती᳘ति᳘ नो ऽएव तथा कुर्य्याद्यद्वा᳘ ऽउदीची᳘नप्रवणे करो᳘ति त᳘देव᳘ प्रत्यु᳘च्छ्रितमघ᳘म्भवति॥
मूलम् - श्रीधरादि
दक्षिणा᳘प्रवणस्य प्रत्यर्षे᳘ कुर्य्यादि᳘त्यु है᳘क ऽआहुः॥
(स्त) त᳘त्प्रत्यु᳘च्छ्रितमघ᳘म्भवती᳘ति᳘ नो ऽएव तथा कुर्य्याद्यद्वा᳘ ऽउदीची᳘नप्रवणे करो᳘ति त᳘देव᳘ प्रत्यु᳘च्छ्रितमघ᳘म्भवति॥
मूलम् - Weber
दक्षिणा᳘प्रवणस्य प्रत्यर्षे᳘ कुर्यादि᳘त्यु है᳘क आहुः॥
त᳘त्प्रत्यु᳘छ्रितमघ᳘म् भवती᳘तिॗ नो एव त्!था कुर्याद्यद्वा᳘ उदीची᳘नप्रवणे करो᳘ति त᳘देव᳘ प्रत्यु᳘छ्रितमघ᳘म् भवति॥
मूलम् - विस्वरम्
दक्षिणा प्रवणस्य प्रत्यर्षे कुर्यादिति उ ह एक आहुः । तत् प्रत्युच्छ्रितमघं भवतीति । नो एव तथा कुर्यात् । यद्वा उदीचीनप्रवणे करोति । तदेव प्रत्युच्छ्रितमघं भवति ॥ ८ ॥
हरिस्वामी
दक्षिणाप्रवणस्य ‘प्रत्यर्षे’ प्रतिः समीपे । “ऋषी गती”- (धा. पा. तु. प. ७) समीपं गतं प्रत्यासन्नमित्यर्थः । तस्मिन् दक्षिणासन्ने कुर्यात् । तत्प्रत्युच्छ्रितम् उच्छ्रितेन प्रतीतं प्रत्युच्छ्रितम् । उच्छ्रिते नष्टे चेत्युभयमघसरणं दिड्निमित्तं भवति च्छन्नं च । तद्युक्तं अनिष्टचिह्नत्वात् इत्यभिप्रायः । यद्वै उदीचीनप्रवणेन 18 क्रियमाणं दक्षिणेनोच्छ्रितेन देशेन क्रियत एवेत्यभिप्रायः ॥ ८ ॥
Eggeling
०९
विश्वास-प्रस्तुतिः
य᳘स्यैव᳘ सम᳘स्य सतः᳘॥
(तो᳘) दक्षिणतः᳘ पुर᳘स्तादा᳘प ऽए᳘त्य सᳫँ᳭स्थाया᳘प्रघ्नत्य ऽएतान्दि᳘शमभिनिष्प᳘द्याक्षय्या᳘ ऽअ᳘पो ऽपिप᳘द्येरंस्त᳘त्कुर्य्याद᳘न्नम्वा ऽआ᳘पो ऽन्ना᳘द्यमेवा᳘स्मा ऽएत᳘त्पुर᳘स्तात्प्रत्य᳘ग्दधात्यमृ᳘तमु वा ऽआ᳘प ऽए᳘षो ह जीवा᳘नां दिग᳘न्तरेण सप्तर्षीणा᳘ञ्चोद᳘यनमादित्य᳘स्य चास्तम᳘यनममृ᳘तमेव त᳘ज्जीवे᳘षु दधाति त᳘द्धैत᳘त्प्रतिमी᳘वन्ना᳘म श्मशानकरणं᳘ जीवे᳘भ्यो हितं यद्वाव᳘ जीवे᳘भ्यो हितन्त᳘त्पितृ᳘भ्यः॥
मूलम् - श्रीधरादि
य᳘स्यैव᳘ सम᳘स्य सतः᳘॥
(तो᳘) दक्षिणतः᳘ पुर᳘स्तादा᳘प ऽए᳘त्य सᳫँ᳭स्थाया᳘प्रघ्नत्य ऽएतान्दि᳘शमभिनिष्प᳘द्याक्षय्या᳘ ऽअ᳘पो ऽपिप᳘द्येरंस्त᳘त्कुर्य्याद᳘न्नम्वा ऽआ᳘पो ऽन्ना᳘द्यमेवा᳘स्मा ऽएत᳘त्पुर᳘स्तात्प्रत्य᳘ग्दधात्यमृ᳘तमु वा ऽआ᳘प ऽए᳘षो ह जीवा᳘नां दिग᳘न्तरेण सप्तर्षीणा᳘ञ्चोद᳘यनमादित्य᳘स्य चास्तम᳘यनममृ᳘तमेव त᳘ज्जीवे᳘षु दधाति त᳘द्धैत᳘त्प्रतिमी᳘वन्ना᳘म श्मशानकरणं᳘ जीवे᳘भ्यो हितं यद्वाव᳘ जीवे᳘भ्यो हितन्त᳘त्पितृ᳘भ्यः॥
मूलम् - Weber
य᳘स्यैव᳘ सम᳘स्य सतः᳟॥
दक्षिणत᳘ह् पुर᳘स्तादा᳘प ए᳘त्य संस्थाया᳘प्रघ्नत्य 21 एतां दि᳘शमभिनिष्प᳘द्याक्षय्या᳘ अॗपोऽपिप᳘द्येरंस्त᳘त्कुर्याद᳘न्नम् वाऽआ᳘पोऽन्ना᳘द्यमेवा᳘स्माऽएत᳘त्पुर᳘स्तात्प्रत्य᳘ग्दधात्यमृ᳘तमु वा आ᳘प एॗषो ह जीवा᳘नाम् दिग᳘न्तरेण सप्तर्षीणां᳘ चोद᳘यनमादित्य᳘स्यचास्तम᳘यनममृ᳘तमेव त᳘ज्जीवे᳘षु दधाति त᳘द्धैत᳘त्प्रतिमी᳘वन्ना᳘म श्मशानकरण᳘म् जीवे᳘भ्यो हितं यद्वाव᳘ जीवे᳘भ्यो हितम् त᳘त्पितृ᳘भ्यः॥
मूलम् - विस्वरम्
यस्यैव समस्य सतो दक्षिणतः पुरस्तादाप एत्य । संस्थाय । अप्रघ्नत्यः । एतां दिशमभिनिष्पद्य । अक्षय्या आपो ऽपिपद्येरन् । तत् कुर्यात् । अन्नं वा आपः । अन्नाद्यमेवास्मै एतत् पुरस्तात् प्रत्यग्दधाति । अमृतम् उ वा आपः । एषा उ ह जीवानां दिगंतरेण । सप्तर्षीणां चोदयनम् । आदित्यस्य चास्तमयनम् । अमृतमेव तज्जीवेषु दधाति । तद्धैतत् प्रतिमीवन्नाम स्मशानकरणं जीवेभ्यो हितम् । यद्वाव जीवेभ्यो हितम् तत्पितृभ्यः ॥ ९ ॥
हरिस्वामी
यस्यैव समस्य सतः । यस्य देशस्य दक्षिणपार्श्वादादः पुरस्तादागत्य तत्रैव संस्थाय । अप्रघ्नत्यः । भूमिम् अप्रविशत्यः । शनैः पश्चिमोत्तरां दिशं प्रतिपन्नया दिशा निष्पद्य निर्गम्य अक्षय्याः अनावृष्टावपि या न क्षीयंते आपः ता अपः अपिपद्येरन् प्राप्नुयुः संगच्छेयुः । तत्कुर्यात् 22 । एवं कुर्वन्नन्नाद्यमेवास्मै प्रेताय ताभिः एतत् पुरस्तात् प्रत्यक् प्रति संभोक्तुरभिमुखं दधाति । एषा उ ह । एषा च जीवानां जीवतां हि हिता दिक् पश्चिमा । (ईश्वरः तस्यां हि प्रायणमयात् कायात् चिरायुषः समृद्धाश्च मनुष्या हूणादयो भवंति ?) । तद्धैतत् प्रतिमीवन्नाम । प्रतिगतं समीपभागमवपन्नं तथा, आगामि प्रतिमीतं यस्य कार्यतया तत् प्रतिमीवत् । ईदृशं च जीवेभ्यो हि हितं जीवहितं च पितृभ्यो हितम् । जीवो ऽपि जीवित्वात् पितॄणाम् ॥ ९ ॥
Eggeling
- On any level (ground) where the waters, flowing thither from a south-easterly direction 23, and coming to a stand-still, will, on reaching that (north-westerly) quarter, without pressing forward 24, join imperishable water 25, on that (ground) one may make (the tomb); for, water being food, one thereby offers food to him from the front towards the back; and, water being the drink of immortality, and that region between the rising of the seven R̥shis 26 and the setting of the sun being the quarter of the living, one thereby bestows the drink of immortality upon the living:–and such a one, indeed, is a closing tomb; and verily what is good for the living that is also good for the Fathers.
१०
विश्वास-प्रस्तुतिः
क᳘म्वति कुर्य्यात्॥
(त्क᳘) क᳘म्मे ऽसदित्य᳘थो श᳘म्वति श᳘म्मे ऽसदि᳘ति᳘ नाधिपथ᳘ङ्कुर्य्या᳘न्नाकाशे ने᳘दावि᳘रघ᳘ङ्करवाणी᳘ति॥
मूलम् - श्रीधरादि
क᳘म्वति कुर्य्यात्॥
(त्क᳘) क᳘म्मे ऽसदित्य᳘थो श᳘म्वति श᳘म्मे ऽसदि᳘ति᳘ नाधिपथ᳘ङ्कुर्य्या᳘न्नाकाशे ने᳘दावि᳘रघ᳘ङ्करवाणी᳘ति॥
मूलम् - Weber
क᳘म्वति कुर्यात्॥
क᳘म् मेऽसदित्य᳘थो श᳘म्वति श᳘म् मेऽसदि᳘तिॗ नाधिपथं᳘ कुर्याॗन्नाकाशे ने᳘दावि᳘रघं᳘ करवाणी᳘ति॥
मूलम् - विस्वरम्
कंवति कुर्यात् । कं मे ऽसदिति । अथो शंवति । शंमे ऽसदिति । नाधिपथं कुर्यात् । नाकाशे । नेदाविरघं करवाणीति ॥ १० ॥
हरिस्वामी
कंवति । करीषवति। शंवति सुखवति वा । यत्र तिष्ठति सुखं भवति समीवति मनुरागतानां दुःखस्यान्येति (?) नाधिपथम् 22 । षष्ठीविभक्त्यर्थे अधिशब्दः पथिशब्देन च समस्यते । अव्ययीभावश्च समासो भवति । आकाशे वृक्षगुल्मादिभी रहिते । नेत् आविः सर्वलोकप्रकाशं अघं अप्सु चिह्नं करवाणीति ॥ १० ॥
Eggeling
- Let him make it in a pleasant (spot), in order that there should be pleasure for him; and in a peaceful (spot), in order that there should be peace for him. He must not make it either on a path, or in an open space, lest he should make his (the deceased’s) sin manifest.
११
विश्वास-प्रस्तुतिः
गु᳘हा स᳘दवतापि᳘ स्यात्॥
(त्त) तद्यद्गु᳘हा भ᳘वत्यघ᳘मेव तद्गु᳘हा करोत्य᳘थ य᳘दवता᳘प्यसौ[[!!]] वा᳘ ऽआदित्यः᳘ पाप्म᳘नो ऽपहन्ता स᳘ ऽए᳘वास्मात्पा᳘प्मानम᳘पहन्त्य᳘थो ऽआदित्य᳘ज्योतिषमे᳘वैनङ्करोति[[!!]]॥
मूलम् - श्रीधरादि
गु᳘हा स᳘दवतापि᳘ स्यात्॥
(त्त) तद्यद्गु᳘हा भ᳘वत्यघ᳘मेव तद्गु᳘हा करोत्य᳘थ य᳘दवता᳘प्यसौ[[!!]] वा᳘ ऽआदित्यः᳘ पाप्म᳘नो ऽपहन्ता स᳘ ऽए᳘वास्मात्पा᳘प्मानम᳘पहन्त्य᳘थो ऽआदित्य᳘ज्योतिषमे᳘वैनङ्करोति[[!!]]॥
मूलम् - Weber
गु᳘हा स᳘दवतापि᳘ स्यात्॥
तद्यद्गु᳘हा भ᳘वत्यघ᳘मेव तद्गु᳘हा करोत्य᳘थ य᳘दवताप्य᳘सौ वा᳘ आदित्यः᳘ पाप्म᳘नोऽपहन्ता स᳘ एॗवास्मात्पाप्मा᳘नम᳘पहन्त्य᳘थो आदित्य᳘ज्योतिषमेॗवैनं करोति॥
मूलम् - विस्वरम्
गुहा सदवतापि स्यात् । तद्यत् गुहा भवति । अघमेव तत् गुहा करोति । अथ यदवतापि । असौ वा आदित्यः पाप्मनो ऽपहंता । स एवास्मात्पाप्मानमपहंति । अथो आदित्यज्योतिषमेवैनं करोति ॥ ११ ॥
हरिस्वामी
गुहा सत् । गुहाग्रं वृक्षगुल्मादिसंवृतं सत् अवतापि 27 स्यात् अधोतापि स्यात् । गहनप्रदेशमपि अतीत्य तताप अतः सः अस्मिन् विद्यत इति अवतापि । तस्मिन् कुर्यात् ॥ ११ ॥
Eggeling
- Whilst being secluded it should have the sun shining on it from above 28: in that it is secluded one hides his sin; and in that it has the sun shining on it from above—yonder sun being the remover of evil–he, indeed, removes the evil from him, and he also causes him to be endowed with the radiance of the sun.
१२
विश्वास-प्रस्तुतिः
न त᳘स्मिन्कुर्य्यात्॥
(द्य᳘) य᳘स्येत्था᳘दनूकाशः स्या᳘द्याचमान᳘ᳫँ᳘ ह ना᳘म त᳘त्क्षिप्रे᳘ हैषाम᳘परो ऽनुप्रै᳘ति॥
मूलम् - श्रीधरादि
न त᳘स्मिन्कुर्य्यात्॥
(द्य᳘) य᳘स्येत्था᳘दनूकाशः स्या᳘द्याचमान᳘ᳫँ᳘ ह ना᳘म त᳘त्क्षिप्रे᳘ हैषाम᳘परो ऽनुप्रै᳘ति॥
मूलम् - Weber
न त᳘स्मिन्कुर्यात्॥
य᳘स्येत्था᳘दनूकाशः स्या᳘द्याचमान᳘ᳫं᳘ ह ना᳘म त᳘त्क्षिप्रे᳘ हैषाम᳘परोऽनुप्रै᳘ति॥
मूलम् - विस्वरम्
न तस्मिन् कुर्यात् । यस्येत्थादनूकाशः स्यात् । याचमानं ह नाम तत् । क्षिप्रे ह ए षामपरो ऽनुप्रैति ॥ १२ ॥
हरिस्वामी
इत्थात्पार्श्वतः यस्य श्मशानस्य अनूकाशः अवकाशः स्यात् । तस्मिन् कुर्यात् ॥ १२ ॥
Eggeling
- Let him not make it where it would be visible from here 29, for assuredly it is beckoning, and another of these (members of his family) quickly follows (the deceased) in death.
१३
विश्वास-प्रस्तुतिः
चित्रं᳘ पश्चा᳘त्स्यात्॥
(त्प्र) प्प्रजा वै᳘ चित्रं᳘ चित्र᳘ᳫँ᳘ हास्य प्प्रजा᳘ भवति य᳘दि चित्रन्न स्यादा᳘पः पश्चा᳘द्वोत्तरतो᳘ वा स्युरा᳘पो᳘ ह्येव᳘ चित्र᳘ञ्चित्र᳘ᳫँ᳘ है᳘वास्य प्प्रजा᳘ भवति॥
मूलम् - श्रीधरादि
चित्रं᳘ पश्चा᳘त्स्यात्॥
(त्प्र) प्प्रजा वै᳘ चित्रं᳘ चित्र᳘ᳫँ᳘ हास्य प्प्रजा᳘ भवति य᳘दि चित्रन्न स्यादा᳘पः पश्चा᳘द्वोत्तरतो᳘ वा स्युरा᳘पो᳘ ह्येव᳘ चित्र᳘ञ्चित्र᳘ᳫँ᳘ है᳘वास्य प्प्रजा᳘ भवति॥
मूलम् - Weber
चित्र᳘म् पश्चा᳘त्स्यात्॥
प्रजा वै᳘ चित्रं᳘ चित्र᳘ᳫं᳘ हास्य प्रजा᳘ भवति य᳘दि चित्रम् न स्यादा᳘पः पश्चा᳘द्वोत्तरतो᳘ वा स्युरा᳘पोॗह्येव᳘ चित्र्!ᳫं हैॗवास्य प्रजा᳘ भवति॥
मूलम् - विस्वरम्
चित्रं पश्चात् स्यात् । प्रजा वै चित्रम् । चित्रं ह अस्य प्रजा भवति । यदि चित्रं न स्यात् आपः पश्चाद्वोत्तरतो वा स्युः । आपो ह्येव चित्रम् । चित्रं हैवास्य प्रजा भवति ॥ १३ ॥
हरिस्वामी
चित्रं 27 दर्शनीयं वनगिरिदेवगृहादि । प्रजा वै चित्रं दर्शनीयत्वसामान्यात् ॥ १३ ॥
Eggeling
- Let there be beautiful objects 30 at the back,–for beautiful objects mean offspring: beautiful objects, offspring, will thus accrue to him. If there be no beautiful objects, let there be water either at the back or on the left (north) side, for water is indeed a beautiful object; and beautiful objects, offspring, will indeed accrue to him.
१४
विश्वास-प्रस्तुतिः
(त्यू) ऊषरे᳘ करोति॥
रे᳘तो वा ऽऊ᳘षाः प्प्रज᳘ननन्त᳘देनम्प्रज᳘नन ऽआ᳘भजत्येत᳘द्ध वै᳘ पित᳘रः प्प्रज᳘नन ऽआ᳘भक्ता भवन्ति य᳘देषाम्प्रजा भ᳘वति प्प्रजा᳘ हास्य श्रे᳘यसी भवति॥
मूलम् - श्रीधरादि
(त्यू) ऊषरे᳘ करोति॥
रे᳘तो वा ऽऊ᳘षाः प्प्रज᳘ननन्त᳘देनम्प्रज᳘नन ऽआ᳘भजत्येत᳘द्ध वै᳘ पित᳘रः प्प्रज᳘नन ऽआ᳘भक्ता भवन्ति य᳘देषाम्प्रजा भ᳘वति प्प्रजा᳘ हास्य श्रे᳘यसी भवति॥
मूलम् - Weber
ऊषरे᳘ करोति॥
रे᳘तो वा ऊ᳘षाः प्रज᳘ननं त᳘देनम् प्रज᳘नन आ᳘भजत्येत᳘द्ध वै᳘ पित᳘रः प्रज᳘नन आ᳘भक्ता भवन्ति य᳘देषाम् प्रजा भ᳘वति प्रजा᳘ हास्य श्रे᳘यसी भवति॥
मूलम् - विस्वरम्
ऊषरे करोति । रेतो वा ऊषाः प्रजननम् । तदेनं प्रजनन आभजति । एतत् ह वै पितरः प्रजनन आभक्ता भवंति । यदेषां प्रजा भवति । प्रजा ह अस्य श्रेयसी भवति ॥ १४ ॥
हरिस्वामी
(ततो) मन्वच्चीयः ऊषरे 27 ऊषाः क्षारमृत्तिकाः संति यत्र तत् ऊषरम् । रेतः रेतसः कारणं वै ऊषाः । ऊषैर्हि पशवः पुष्यंति । पुष्टानां रेतो भवति तच्च प्रजननम् ॥ १४ ॥
Eggeling
- He makes it on salt (barren) soil, for salt means seed; the productive thus makes him partake in productiveness, and in that respect, indeed, the
Fathers partake in productiveness that they have offspring: his offspring assuredly will be more prosperous.
१५
विश्वास-प्रस्तुतिः
स᳘मूले॥
स᳘मूमᳫँ᳭ हि᳘ पितॄणा᳘म्वीरिणमिश्र᳘ ऽएत᳘द्धास्याः पि᳘त्र्यम᳘नतिरिक्तम᳘थो ऽअघ᳘मेव त᳘द्बद्धृ᳘[[!!]] करोति॥
मूलम् - श्रीधरादि
स᳘मूले॥
स᳘मूमᳫँ᳭ हि᳘ पितॄणा᳘म्वीरिणमिश्र᳘ ऽएत᳘द्धास्याः पि᳘त्र्यम᳘नतिरिक्तम᳘थो ऽअघ᳘मेव त᳘द्बद्धृ᳘[[!!]] करोति॥
मूलम् - Weber
स᳘मूले॥
स᳘मूलᳫं हि᳘ पितॄणा᳘म् वीरिणमिश्र᳘मेत᳘द्धास्याः 31 पि᳘त्र्यम᳘नतिरिक्तम᳘थो अघ᳘मेव तद्ब᳘द्धृ करोति॥
मूलम् - विस्वरम्
समूले । समूलं हि पितॄणाम् । वीरिणमिश्रे । एतत् ह अस्याः पित्र्यमनतिरिक्तम् । अथो अघमेव तत् वद्धृ करोति ॥ १५ ॥
हरिस्वामी
‘समूले’ सन्ति यत्रौषधीनां मूलानि तत् समूलम् । (हि योग्यमित्यागः ?) । पित्र्यं पितृदेवत्यम् । अनतिरिक्तं अन्यस्यासाधारणं, पितॄणामित्यर्थः । बद्धृ साधु । भूमिं वीरिणवत् 32 बध्नातीति बद्धृ च्छिरमसवारीत्यर्थः (?) ॥ १५ ॥
Eggeling
१६
विश्वास-प्रस्तुतिः
न᳘ भूमिपाश᳘मभिवि᳘दध्यात्॥
(न्न᳘) न᳘ शरन्ना᳘श्मगन्धान्ना᳘ध्याण्डान्न᳘ पृश्निपर्ण्णी᳘न्नाश्वत्थ᳘स्यान्तिक᳘ङ्कुर्य्यान्न᳘ बिभी᳘तकस्य न ति᳘ल्वकस्य न स्फू᳘र्ज्जकस्य न᳘ हरि᳘द्रोर्न्न᳘ न्यग्रो᳘धस्य ये᳘ चान्ये᳘ पाप᳘नामानो मङ्गलोपेप्स᳘या ना᳘म्नामेव प᳘रिहाराय॥
मूलम् - श्रीधरादि
न᳘ भूमिपाश᳘मभिवि᳘दध्यात्॥
(न्न᳘) न᳘ शरन्ना᳘श्मगन्धान्ना᳘ध्याण्डान्न᳘ पृश्निपर्ण्णी᳘न्नाश्वत्थ᳘स्यान्तिक᳘ङ्कुर्य्यान्न᳘ बिभी᳘तकस्य न ति᳘ल्वकस्य न स्फू᳘र्ज्जकस्य न᳘ हरि᳘द्रोर्न्न᳘ न्यग्रो᳘धस्य ये᳘ चान्ये᳘ पाप᳘नामानो मङ्गलोपेप्स᳘या ना᳘म्नामेव प᳘रिहाराय॥
मूलम् - Weber
न᳘ भूमिपाश᳘मभिवि᳘दध्यात्॥
न᳘ शरं ना᳘श्मगन्धां ना᳘ध्याण्डां 35 न᳘ पृश्निपर्णीॗ नाश्वत्थ᳘स्यान्तिकं᳘ कुर्यान्न᳘ विभी᳘तकस्य न ति᳘ल्वकस्य न स्फू᳘र्जकस्य न᳘ हरि᳘द्रोर्न᳘ न्यग्रोधस्य ये᳘ चान्ये᳘ पाप᳘नामानो मङ्गलोपेप्स᳘या ना᳘म्नामेव प᳘रिहाराय॥
मूलम् - विस्वरम्
न भूमिपाशमभिविदध्यात् । न शरत् । नाश्मगन्धान् । नाध्यांडान् । न पृश्निपर्णीन् । नाश्वत्थस्यांतिकं कुर्यात् । न बिभीतकस्य । न तिल्वकस्य । न स्फूर्जकस्य । न हरिद्रोः । न न्यग्रोधस्य । ये चान्ये पापनामानः । मंगलोपेप्सया नाम्नामेव परिहाराय ॥ १६ ॥
हरिस्वामी
न भूमिपाशम् । पूर्ववत् भूमौ विशेषः । तमति न विद्यात् । तद्वति देशे न कुर्यात् । आध्यांडाशने 32 सदृशफलो गुच्छः । पापनामानः । एते श्लेष्मातककोविदारादयः [^२_१५०] । मंगलानां प्राप्तीच्छया । नामान्यपि अमंगलानि परिहर्तुं एतेषामंतिकं न कुर्यात् ॥ १६ ॥
Eggeling
- Let him not put it near (where grows) Bhūmipāśa 36, or reeds, or Aśmagandhā 37, or Adhyāṇḍā, or Pr̥śniparṇī (‘speckled-leaf,’ Hemionitis cordifolia); nor let him make it near either an Aśvattha (Ficus religiosa), or a Vibhītaka (Terminalia bellerica), or a Tilvaka (Symplocos racemosa), or a Sphūrjaka (Diospyros embryopteris), or a Haridru (Pinus deodora), or a Nyagrodha (Ficus indica), or
any other (trees) of evil name 38, so as to avoid (such) names from a desire of good luck.
१७
विश्वास-प्रस्तुतिः
(याथा᳘) अथा᳘त ऽआवृ᳘दे᳘व॥
(वा) अग्निविध᳘या ऽग्निचि᳘तः श्मशान᳘ङ्करोति यद्वै य᳘जमानो ऽग्नि᳘ञ्चिनु᳘ते ऽमु᳘ष्मै त᳘ल्लोका᳘य यज्ञे᳘नात्मा᳘नᳫँ᳭ स᳘ᳫँ᳘स्कुरुत᳘ ऽएतदु[[!!]] ह यज्ञि᳘यङ्कर्मा᳘सᳫँ᳭स्थितमा᳘ श्मशानकरणात्तद्य᳘दग्निविध᳘या ऽग्निचि᳘तः श्मशान᳘ङ्करो᳘त्यग्निचित्या᳘मेव तत्स᳘ᳫँ᳘स्थापयति॥
मूलम् - श्रीधरादि
(याथा᳘) अथा᳘त ऽआवृ᳘दे᳘व॥
(वा) अग्निविध᳘या ऽग्निचि᳘तः श्मशान᳘ङ्करोति यद्वै य᳘जमानो ऽग्नि᳘ञ्चिनु᳘ते ऽमु᳘ष्मै त᳘ल्लोका᳘य यज्ञे᳘नात्मा᳘नᳫँ᳭ स᳘ᳫँ᳘स्कुरुत᳘ ऽएतदु[[!!]] ह यज्ञि᳘यङ्कर्मा᳘सᳫँ᳭स्थितमा᳘ श्मशानकरणात्तद्य᳘दग्निविध᳘या ऽग्निचि᳘तः श्मशान᳘ङ्करो᳘त्यग्निचित्या᳘मेव तत्स᳘ᳫँ᳘स्थापयति॥
मूलम् - Weber
अथा᳘त आवृ᳘देव॥
अग्निविध᳘याग्निचि᳘तः श्मशानं᳘ करोति यद्वै य᳘जमानोऽग्निं᳘ चिनुॗतेऽमु᳘ष्मै त᳘ल्लोका᳘य यज्ञे᳘नात्मा᳘नᳫं स᳘ᳫं᳘स्कुरुत एत᳘दु ह यज्ञि᳘यं कर्मा᳘संस्थितमा᳘ श्मशानकरणात्तद्य᳘दग्निविध᳘याग्निचि᳘तः श्मशानं᳘ करो᳘त्यग्निचित्या᳘मेव तत्स᳘ᳫं᳘स्थापयति॥
मूलम् - विस्वरम्
अथात आवृदेव । अग्निविधया ऽग्निचितः श्मशानं करोति । यत् वै यजमानो ऽग्निं चिनुते । अमुष्मै तल्लोकाय यज्ञेनात्मानं संस्कुरुते । एतत् उ ह यज्ञियं कर्म असंस्थि तम् आ श्मशानकरणात् । तत् यदग्निविधया ऽग्निचितः श्मशानं करोति । अग्निचित्यामेव तत् संस्थापयति ॥ १७ ॥
हरिस्वामी
अथात आवृदेव । अग्निविधयेति । अस्याग्नेर्विधा प्रकारः तया अग्निचितः श्मशानं करोति वक्ष्यमाणं आग्नेयाग्निविधानं कर्षणपरिश्रित्परिश्रयणसर्वौषधवपनेष्टकोरेधानादीनां अग्निविधानां अग्निचिद्विषयत्ववचनं नान्यस्य अग्निविधाप्रापणार्थं हि एक एवार्थो विधीयत इति तथा अग्निचित इति वा । अग्निविधयेति वा अर्थद्वयं विधीयते । साप्तविध्यादीनां वा । अत्र बहूनामग्निकर्मणामसंभव इति । अग्निचित इति च प्रकृतस्यैव प्रकारस्याग्निचिद्विषयत्वं उपसंहरिष्यति । यज्ञियं यज्ञसंबद्धं कर्म । कर्मसमूहः अपरिसमाप्तः इति ब्रुवन् प्रेतार्थमेवेदमिति दर्शयति । ननु च असंस्थितवचनानीति कर्मांगमेवेदमिति विज्ञायेत । नैतदेवं न हि उत्पत्तिवाक्ये श्मशानकरणे येन वा शेषात्कर्मांगता तस्येति । किंतु “तस्मै एतदन्नं करोति” (कं. १) इत्यवगम्यते प्रयोजनम् । प्रयोगांगेषु च समाप्तेषु कर्मसु यदसंस्थितवचनं यथा “अग्निचित्यामेव तत् संस्थापयति” इति संस्थापनवचनं तत् संस्थासादृश्यात् भाक्तमिति गम्यते ॥ १७ ॥
Eggeling
- Now as to the order of procedure. For an Agnicit (builder of a fire-altar) one makes the tomb after the manner of the fire-altar; for when a Sacrificer builds a fire-altar he thereby constructs for himself by sacrifice a (new) body for yonder world; but that sacrificial performance is not complete until the making of a tomb; and when he makes the tomb of the Agnicit after the manner of the fire-altar, it is thereby he completes the Agnicityā.
१८
विश्वास-प्रस्तुतिः
तद्वै न᳘ मह᳘त्कुर्य्यात्॥
(न्ने᳘) ने᳘न्मह᳘दघ᳘ङ्कर᳘वाणी᳘ति यावानपक्षपु᳘च्छो ऽग्निस्ता᳘वत्कुर्य्यादि᳘त्यु[[!!]] है᳘क ऽआहुः समानो᳘ ह्य᳘स्यैष᳘ ऽआत्मा य᳘थै᳘वाग्नेस्तथे᳘ति॥
मूलम् - श्रीधरादि
तद्वै न᳘ मह᳘त्कुर्य्यात्॥
(न्ने᳘) ने᳘न्मह᳘दघ᳘ङ्कर᳘वाणी᳘ति यावानपक्षपु᳘च्छो ऽग्निस्ता᳘वत्कुर्य्यादि᳘त्यु[[!!]] है᳘क ऽआहुः समानो᳘ ह्य᳘स्यैष᳘ ऽआत्मा य᳘थै᳘वाग्नेस्तथे᳘ति॥
मूलम् - Weber
तद्वै न᳘ मह᳘त्जुर्यात्॥
ने᳘न्मह᳘दघ᳘म् 39 कर᳘वाणी᳘ति या᳘वानपक्षपुॗछोऽग्निस्ता᳘वत्जुर्यादि᳘त्यु है᳘क आहुः समानो ह्य᳘स्यैष᳘ आत्मा य᳘थैॗवाग्नेस्तथे᳘ति॥
मूलम् - विस्वरम्
तद्वै न महत् कुर्यात् । नेन्महदघं करवाणीति । यावानपक्षपुच्छो ऽग्निः । तावत् कुर्यादिति उ ह एक आहुः । समानो ह्यस्यैष आत्मा यथैवाग्नेस्तथेति ॥ १८ ॥
हरिस्वामी
तद्वै न महत् । अर्थप्राप्तस्य महत्त्वस्य प्रतिषेधानुवादः । उत्तरविध्युपन्यासार्थः ॥ १८ ॥
Eggeling
- One must not make it (too) large lest he should make the sin (of the deceased) large. ‘Let him make it as large as the fire-altar without wings and tail,’ say some, ‘for like that of the fire-altar is this his (the Sacrificer’s) body.’
१९
विश्वास-प्रस्तुतिः
पुरुषमात्रं᳘[[!!]] त्वेव᳘ कुर्य्यात्॥
(त्त) तथा᳘ ऽपरस्मा ऽअवकाशन्न᳘ करोति पश्चाद्व᳘रीयः प्प्रजा वै᳘ पश्चा᳘त्प्रजा᳘मेव तद्व᳘रीयसीङ्कुरुत ऽउत्तरतो व्व᳘र्षीयः प्प्रजा वा ऽउ᳘त्तरा प्प्रजा᳘मेव तद्व᳘र्षीयसीङ्कुरुते त᳘द्विधा᳘यापसलवि सृष्टा᳘भि स्प᳘न्द्याभिः पर्य्या᳘तनोत्यपसलवि पि᳘त्र्यᳫँ᳭ हि म्क᳘र्म॥
मूलम् - श्रीधरादि
पुरुषमात्रं᳘[[!!]] त्वेव᳘ कुर्य्यात्॥
(त्त) तथा᳘ ऽपरस्मा ऽअवकाशन्न᳘ करोति पश्चाद्व᳘रीयः प्प्रजा वै᳘ पश्चा᳘त्प्रजा᳘मेव तद्व᳘रीयसीङ्कुरुत ऽउत्तरतो व्व᳘र्षीयः प्प्रजा वा ऽउ᳘त्तरा प्प्रजा᳘मेव तद्व᳘र्षीयसीङ्कुरुते त᳘द्विधा᳘यापसलवि सृष्टा᳘भि स्प᳘न्द्याभिः पर्य्या᳘तनोत्यपसलवि पि᳘त्र्यᳫँ᳭ हि म्क᳘र्म॥
मूलम् - Weber
पुरुषमाॗत्रं त्वेव᳘ कुर्यात्॥
तथा᳘परस्मा अवकाशं न᳘ करोति पश्चाद्व᳘रीयः प्रजा वै᳘ पश्चा᳘त्प्रजा᳘मेव तद्व᳘रीयसीं कुरुत उत्तरतो व᳘र्षीयः प्रजा वा उ᳘त्तरा प्रजा᳘मेव तद्व᳘र्षीयसीं कुरुते त᳘द्विधा᳘यापसलविसृष्टा᳘भि स्प᳘न्द्याभिः पर्या᳘तनोत्यपसलवि पि᳘त्र्यᳫं हि कर्म॥
मूलम् - विस्वरम्
पुरुषमात्रं त्वेव कुर्यात् । तथा ऽपरस्मा अवकाशं न करोति । पश्चाद्वरीयः । प्रजा वै पश्चात् । प्रजामेव तद्वरीयसीं कुरुते । उत्तरतो वर्षीयः । प्रजा वा उत्तरा । प्रजामेव तद्वर्षीयसीं कुरुते । तद्विधाय, अपसलवि सृष्टाभिः स्पंद्याभिः पर्यातनोत्यपसलवि पित्र्यं हि कर्म ॥ १९ ॥
हरिस्वामी
पश्चाद्वरीयः । उरुतरं पृथुतरं करोतीति । उत्तरतो वर्षीयः । वृद्धतरं दीर्घतरं कुर्यात् । तद्विधाय, पुरुषमात्रं 40 स्थानं दिक्स्रक्ति कल्पयित्वा । अपसलवि सृष्टाभिर्हि ताभिः स्पंद्याभिः रज्जुभिः पर्यातनोति परिवेष्टयति कथं अपसलवि अप्रदक्षिणं पर्यातनोति कस्मात् पित्र्यमिदं कर्म ॥ १९ ॥
Eggeling
- But let him rather make it just of man’s size: he thus leaves no room for another;–broader (varīyas) behind 41, for what is (left) behind is offspring: he thus makes the (dead man’s) offspring more excellent 42 (varīyas);–and broader on the left (north 43 or higher, uttara) side, for the later (uttara)
are offspring: he thus makes the offspring more excellent. Having attended to this, he encloses it with cords twisted (and extended) in the non-sunwise way 44; for the (sacrificial) performance connected with the Fathers is done in the non-sunwise way.
२०
विश्वास-प्रस्तुतिः
(र्म्मा) अथो᳘द्धन्तवा᳘ ऽआह॥
स या᳘वत्येव᳘ निव᳘प्स्यन्त्स्यात्ता᳘वदु᳘द्धन्यात्पुरुषमा᳘त्रं त्वेवो᳘द्धन्यात्तथा᳘ ऽपरस्मा ऽअवकाशन्न[[!!]] क᳘रोत्य᳘थो ऽओ᳘षधिलोको वै᳘ पित᳘र ऽओ᳘षधीनाᳫँ᳭ ह मू᳘लान्यु᳘पसर्प्पन्त्य᳘थो ने᳘दस्या᳘ ऽअन्त᳘र्हितो᳘ ऽसदि᳘ति॥
मूलम् - श्रीधरादि
(र्म्मा) अथो᳘द्धन्तवा᳘ ऽआह॥
स या᳘वत्येव᳘ निव᳘प्स्यन्त्स्यात्ता᳘वदु᳘द्धन्यात्पुरुषमा᳘त्रं त्वेवो᳘द्धन्यात्तथा᳘ ऽपरस्मा ऽअवकाशन्न[[!!]] क᳘रोत्य᳘थो ऽओ᳘षधिलोको वै᳘ पित᳘र ऽओ᳘षधीनाᳫँ᳭ ह मू᳘लान्यु᳘पसर्प्पन्त्य᳘थो ने᳘दस्या᳘ ऽअन्त᳘र्हितो᳘ ऽसदि᳘ति॥
मूलम् - Weber
अथो᳘द्धन्तवा᳘ आह॥
स या᳘वत्येव᳘ निव᳘प्स्यन्त्स्यात्ता᳘वदु᳘द्धन्यात्पुरुषमाॗत्रं त्वेवो᳘द्धन्यात्तथा᳘परस्मा अवकाशं न᳘ करोत्य᳘थो ओ᳘षधिलोको वै᳘ पितव्र ओ᳘षधीनाᳫं ह मू᳘लान्यु᳘पसर्पन्त्य᳘थो ने᳘दस्या᳘ अन्त᳘र्हितो᳘ऽसदि᳘ति॥
मूलम् - विस्वरम्
अथोद्धंतवा आह । स यावत्येव निवप्स्यन् स्यात् । तावदुद्धन्यात् । पुरुषमात्रं त्वेवोद्धन्यात् । तथा ऽपरस्मा अवकाशन्न करोति । अथो ओषधिलोको वै पितरः । ओषधीनां ह मूलान्युपसर्पंति । अथो नेदस्या अंतर्हितो ऽसदिति ॥ २० ॥
हरिस्वामी
अथोद्धंतवै । तदूर्ध्वं हंतवै हंतव्यं श्मशानस्थानं आह ब्रूयात् । स यावति एतद्देशे महति वा अपक्षपुच्छकाग्निमात्रे वा अस्थीनि निवप्स्यन् स्यात् तावदुद्धन्यात् । लांगलेन कृषेदिति हेयकल्पोपन्यासः । पुरुषमात्रं त्वबोद्धन्यात् । यावत्येव हि निवपति तावदेव च करोतीति स्थितकल्पः । तथा ऽपरस्मै अपरस्मै प्रेताय अवकाशं न करोति । यदि कुर्यात् । ततः कृतावकाशो ऽन्यो ऽपि प्रेयादित्यभिप्रायः । अथो ओषधिलोको वै पितर इति । उद्धननार्थवादः । ओषधिस्थानाः पितरः । कथं ? ओषधीनां हि लाभे उपगच्छंति पितरः । कथं ? ते हि धूमादिक्रमेण चंद्रं प्राप्य प्रत्यावृत्ता आकाशवायुवृष्टिक्रमेण पृथिवीं प्राप्य स्थावरजंगमरूपेण वर्तमाना ओषधीनां मूलान्युपसर्पंति । तेभ्यो ऽपि मूलेभ्यस्ताः प्ररोहन्ति अपि तु शीघ्रमेव पुष्यंति । वेवपतः प्ररोहंतीत्यभिप्रायः (?) । ततश्च ओषधिमूले शरीरात्पूर्वावस्थितान् पितॄन् तस्मात् स्थानादधीतीयत्तत्रान्यन्विवेशयतीत्यभिप्रायः (?) । यथोक्तं- “तद्यद्व्युदूहत्यवसितानेव तद्व्युदूहति नेदवसितानध्यवस्यानीति” (श. प. ७ । १ । १ । १) इति । अथो नेदस्याः । अस्याः पृथिव्याः ओषधीभिः अंतर्हितो ऽयं प्रेतः नेत् असदिति । अतो वै द्रववत्या एव विकर्षणार्थो ऽर्थवादः । (अतो ऽन्ये वेद किंचिदुव्ददमन्नस्य विधानात्) । अस्य वचनस्यान्यपरत्वात् ॥ २० ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे काण्डे अष्टमे ऽध्याये प्रथमं ब्राह्मणम् ॥ १३ । ८ । १ ॥
Eggeling
- He then bids them cut out (the earth). He should cut it out to whatever extent he intends to raise (the sepulchral mound), but let him rather cut it out so as to be just of man’s size: he thus leaves no room for another. For, on the one hand 45, the Fathers are the world of plants, and amongst the roots of plants they (are wont to) hide; and, on the other 45, (he does so) lest he (the deceased) should be separated from this (earth).
-
अत्र “श्मशानम्” इत्यस्य स्थाने “कल्याणं” इति उत्सर्गोपाकर्मादौ परिपठंति याज्ञिक गणाः । तत्तेषामज्ञानं यतस्ते गृहे श्मशानशब्दो नो वाच्य इति हेतुनैव “कल्याणं” इति पठंति । परं चेयं भावना श्रुतेः परिवर्तते नालम् अतो मूले स्थापितः “श्मशानम्” इत्येव वैदिकः पाठ साधीयान् । इति मन्तव्यम् ॥ ↩︎
-
अ᳘थास्मै कल्याणं᳘ कुर्वन्ति is wanting in BCD. P., but is given in A prima and tertia manu (obliterated sec. m.) and in the ऋषितर्पण (as the beginning of this adhyâya): from the latter also the accents have been taken, as they are wanting in A. लोके᳘ कृतश्मशान᳘स्य Codd. - ibid. त᳘स्मात्स्मशा A. secunda manu, त᳘स्मास्मशा prima manu. ↩︎
-
421:2 The commentator is at pains to show that ‘atha’ here has not the force of ’thereupon’–that is after the performance of the Sarvamedha–but that of introducing a new topic (‘Now, they do . . .’); and that therefore the directions about to be given are by no means intended to apply only to one who has performed the Sarvamedha, or even to the Agnicit, or builder of a fire-altar, but also to others. ↩︎
-
421:3 Yāska (Nir. III, 5) resolves this word into ‘śman’ (body) + ‘śayana’ (couch); whilst Prof. Weber, Ind. Stud. I, p. 189, proposes ‘aśman’ (stone) + ‘śayana’ (couch). The śmaśāna; or burial-place, sepulchre, is constructed in the form of a tumulus, or grave-mound. ↩︎
-
कुर्यात् । here the accentuation stops in P. समा is everywhere else paroxytonon. ↩︎
-
422:1 Viz. the Sacrificer, the performer of the funeral rites, being the next of kin. ↩︎
-
422:2 This is the way in which the scholiasts interpret the corresponding rule, Kāty. Sr. XXI, 3, 1 (pitr̥mdhaḥ saṁvatsarāsmr̥tau), instead of ‘when they do not remember it (even once) for years, he brings it about that the sin is forgotten, even in case they should remember it,’ as Prof. Delbrück, Altind. Syntax, p. 351 translates the passage. For the subject of the verb ’they remember it,’ Prof. Delbrück supplies ‘pitaraḥ,’ i.e. the dead man’s deceased ancestors, instead of the living people, which seems rather improbable. The comment is very corrupt, but it makes at least some allusion to ‘people’s talk’:–na śrutiḥ śrutyabhāvas (taṁ) tena cirakaraṇena aghaṁ pāpakaraṇaṁ gamayati, cirāt śmaśānaṁ kurvaśraraṇaṁ (? kurvataḥ śravaṇaṁ) janavādopi na śr̥ṇotīty (!) arthaḥ. ↩︎
-
422:3 In this way Harisvāmin, as well as the scholiasts on Kāty. XXI, 3, 2, construes the clause with the next paragraph, and it is difficult to see how otherwise any satisfactory sense could be extracted from it. At the same time, it can evidently only qualify the first specification of time, as the others will apply in any case. ↩︎
-
एकनक्षत्रे । का. श्रौ. सू. २१ । ३४ । ↩︎
-
अमावास्यायां वा । का. श्रौ. सू. २१ । ३५ ॥ ↩︎
-
423:1 That is, a lunar mansion consisting of a single star, such as Citrā and Pushya (in contradistinction to such in the dual, as Punarvasū and Viśākhe, and to those in the plural number, as the Kr̥ttikās). As regards the symbolic connection of the uneven number with the deceased ancestors, the commentator reminds us of the fact that it is the father, grandfather, and great-grandfather who represent the Fathers.–The only available MS. of the commentary (Ind. Off. 149) terminates at this place. ↩︎
-
द्वा᳘रे᳘वैनं D. ↩︎
-
423:2 Yā āsuryaḥ prācyās tvad ye tvat parimaṇḍalāni (śmaśānāni kurvate),–Prof. Weber, Ind. Stud. I, p. 189, takes this in the sense of ‘part of the prācya, the āsuryaḥ prajāḥ of them (hence probably the non-Āryan portion of them), have round śmaśāna.’ J. Muir, Orig. Sansk. Texts, vol. ii, p. 485, takes no account of the words ’tvad ye tvat.’ For our rendering of these words, cp. V, 3, 2, 2 śūdrāṁs tvad yāṁs tvat, ‘Śūdras and others,’ or ‘Śūdras and suchlike people.’ ↩︎
-
424:1 That is to say, its front side is towards the south-east. Cp. p. 428, note 4. ↩︎
-
424:2 That is, by means of the sides of the grave which are to face the intermediate points of the compass. ↩︎
-
425:1 This is meant as a literal rendering of ‘pratyarsha.’ What is intended thereby would seem to be either a cutting made into southward sloping ground, in such a way as to make the cut piece of ground rise towards the south, or perhaps such a part of the southward inclined ground as naturally rises towards the south. The St. Petersburg Dict. suggests ‘steep bank (escarpment), or side (of a hill).’ Kāty. XXI, 3, 15 (kakshe) seems also to imply some kind of hollow ground, surrounded by bushes and trees. ↩︎
-
425:2 That is, apparently, lightened, or improving, sin. ↩︎
-
सᳫस्थाया᳘प्रघ्नत्य᳘ ADP. ↩︎
-
425:3 It might also mean, in a south-easterly direction, but the comparison with food introduced into the mouth from the front (east) and the specification of the opposite direction evidently point to the above meaning. ↩︎
-
425:4 That is, without urging forward the standing water which they join, but quickly flowing into it. ↩︎
-
425:5 That is, apparently, such a lake as never dries up. ↩︎
-
425:6 That is, Urśa ṁajor, the Great Bear, or Charles’s Wain. ↩︎
-
426:1 That is, it should be in a place where at midday the rays of the sun do not fall obliquely on it, Kāty. XXI, 3, 15 comm. ↩︎
-
426:2 That is, from the village, cf. Kāty. XXI, 3, 18. ↩︎
-
426:3 Or, beautiful ground (citra). According to the comments on Kāty. XXI, 3, 23 this means that the site of the grave should be so chosen that there are at the back (or west) of it, either woods of various kinds, or ground diversified by woods, hills, temples (!) &c. ↩︎
-
बीरिणमि· A. - ibid. तद्बं᳘द्धृ P. द्ब᳘धृ A. prima manu द्बत्धृ A. secunda manu. द्व᳘द्धृ BC. द्व᳘द्धृ D. ↩︎
-
427:1 Whilst their share would have been excessive, if all the ground covered with vegetation were assigned to them. It is also worthy of note that Kāty. Sr. XXV, 7, 17, in enumerating the plants which are to be removed from the site of the funeral pile, mentions (apparently in the place of our Bhūmipāśā) the Viśākha, explained by the commentator as identical with ‘dūrvā’; and Sir H. M. Elliott, Races of the N. W. Province of India, II, p. 303, remarks, on the Dūb grass (Agrestis linearis, or Cynodon dactylon), that ‘its tenacity whenever it once fixes its roots has caused it to be used in a common simile when the attachment of Zamiṅdārs to their native soil is spoken of.’ ↩︎
-
427:2 Apparently lit. ‘binding (itself),’? i.e. either restricted in quantity, or limited to his own person, not transmitted to his son. Cf. XIII, 8, 3, 10. It can hardly be taken in the sense of ‘binding the sin.’ ↩︎
-
ना᳘श्मगंधान्ना᳘ D. P. - ibid. बिभी᳘त P. ↩︎
-
427:3 Literally, ‘Earth-net,’ apparently some troublesome creeping plant corresponding to our rest-harrow (Ononis arvensis or spinosa), or couch-grass (Triticum repens), but of tropical dimensions. ↩︎
-
427:4 Lit. ‘rock-smell,’ perhaps identical with Aśvagandhā (lit. ‘horse-smell,’ Physalis flexuosa). ↩︎
-
428:1 The commentator, on Kāty. XXI, 3, 20, and Vāj. S. XXXV, 1, instances the śleshmāntaka (‘antiphlegmatic,’ i.e. Cordia latifolia or myxa) and the kovidāra (‘bad for splitting,’ Bauhinia variegata; which, according to Stewart and Brandis, shows vertical cracks in the bark). ↩︎
-
नेन्म᳘हदघं᳘ AD. ↩︎
-
दिक्स्रक्ति पुरुषमात्रं मिमीते । उत्तरतः पृथु पश्चाच्च । (का. श्रौ. सू. २१ । ५९ । ६० ।) अत्रोत्तरपश्चाच्छब्दौ ईशानवायव्यपार्श्वयोर्लक्षकौ । क्षेत्रस्य दिक्कोणत्वात् प्राणभृदुपधानवत् । यथा अथ पश्चादिति विहिताः प्राणभृतो वायव्यकोण उपधीयन्ते । अथोत्तरत इति विहिताश्चैशानकोणे । एवमत्रापीत्यर्थः । इति देवयाज्ञिकभाष्यम् । ↩︎
-
428:2 The grave being constructed in such a way that the four corners lie in the direction of the four quarters, the back, or west side of the grave would really mean the side facing the north-west. ↩︎
-
428:3 Or, perhaps, more extended, more numerous or prosperous. ↩︎
-
428:4 In reality, the north means here the side facing the north-east. The side of the tumulus is to form a quadrilateral, of which the two sides intersecting each other at the north corner, are to be longer than the two which intersect at the south corner; viz. each of the former is to measure one man’s length plus 9¼ aṅgulas (thumb’s breadths), and each of the latter one man’s length minus 9¼ aṅgulas. See comm. on Vāj. S. XXXV, 1. ↩︎
-
429:1 That is, by twisting or spinning the strands from right to left, or contrary to the sun’s course. The cord is extended round the grave from right to left (east, north, west, south) by means of pegs driven into the ground at the four corners; see XIII, 8, 4, 1. ↩︎
-
429:2 I do not see how the usual force of ‘atho’–viz. that of introducing a new element or argument either analogous, or not quite conformable, to what precedes (cf. Delbrück, Altind. Syntax, p. 513)–can apply to this double use of the particle. The two ‘atho’ seem to introduce the reasons for his digging up the ground, and for his not digging up more than a man’s size. ↩︎ ↩︎