०१
विश्वास-प्रस्तुतिः
ब्र᳘ह्म वै᳘ स्वयंभु त᳘पो ऽतप्यत॥
त᳘दैक्षत न वै त᳘पस्या᳘नन्त्यमस्ति ह᳘न्ताह᳘म्भूते᳘ष्वात्मा᳘नञ्जुह᳘वानि भूता᳘नि चात्मनी᳘ति तत्स᳘र्व्वेषु भूते᳘ष्वात्मा᳘नᳫँ᳭ हुत्वा᳘ भूता᳘नि चात्म᳘नि स᳘र्व्वेषाम्भूता᳘नाᳫँ᳭ श्रै᳘ष्ठ्यᳫँ᳭ स्वा᳘राज्यमा᳘धिपत्यम्प᳘र्य्यैत्त᳘थै᳘वैतद्य᳘जमानः सर्व्वमेधे स᳘र्व्वान्मे᳘धान्हुत्वा स᳘र्व्वेषाम्भूता᳘नाᳫँ᳭ श्रै᳘ष्ठ्यᳫँ᳭ स्वा᳘राज्यमा᳘धिपत्यम्प᳘र्य्येति॥
मूलम् - श्रीधरादि
ब्र᳘ह्म वै᳘ स्वयंभु त᳘पो ऽतप्यत॥
त᳘दैक्षत न वै त᳘पस्या᳘नन्त्यमस्ति ह᳘न्ताह᳘म्भूते᳘ष्वात्मा᳘नञ्जुह᳘वानि भूता᳘नि चात्मनी᳘ति तत्स᳘र्व्वेषु भूते᳘ष्वात्मा᳘नᳫँ᳭ हुत्वा᳘ भूता᳘नि चात्म᳘नि स᳘र्व्वेषाम्भूता᳘नाᳫँ᳭ श्रै᳘ष्ठ्यᳫँ᳭ स्वा᳘राज्यमा᳘धिपत्यम्प᳘र्य्यैत्त᳘थै᳘वैतद्य᳘जमानः सर्व्वमेधे स᳘र्व्वान्मे᳘धान्हुत्वा स᳘र्व्वेषाम्भूता᳘नाᳫँ᳭ श्रै᳘ष्ठ्यᳫँ᳭ स्वा᳘राज्यमा᳘धिपत्यम्प᳘र्य्येति॥
मूलम् - Weber
ब्र᳘ह्म वै᳘ स्वयम्भु त᳘पोऽतप्यत॥
त᳘दैक्षत न वै त᳘पस्या᳘नन्त्यमस्ति ह᳘न्ताह᳘म् भूते᳘ष्वात्मा᳘नं जुह᳘वानि भूता᳘नि चात्त्मनी᳘ति तत्स᳘र्वेषु भूते᳘ष्वात्मा᳘नᳫं हुत्वा᳘ भूता᳘नि चात्म᳘नि स᳘र्वेषाम् भूता᳘नां श्रै᳘ष्ठ्यᳫं स्वा᳘राज्यमा᳘धिपत्यम् प᳘र्यैत्त᳘थैॗवैतद्य᳘जमानः सर्वमेधे स᳘र्वान्मे᳘धान्हुत्वा स᳘र्वाणि भूता᳘नि श्रै᳘ष्ठ्यᳫं स्वा᳘राज्यमा᳘धिपत्यम् प᳘र्येति॥
मूलम् - विस्वरम्
अथ सर्वमेधः ।
ब्रह्म वै स्वयंभु तपो ऽतप्यत । तदैक्षत । न वै तपस्यानंत्यमस्ति । हंत । अहं भूतेष्वात्मानं जुहवानि । भूतानि चात्मनीति । तत्सर्वेषु भूतेष्वात्मानं हुत्वा, भूतानि चात्मनि, सर्वेषां भूतानां श्रैष्ठ्यं, स्वाराज्यम्, आधिपत्यं पर्यैत् । तथैवैतत् यजमानः सर्वमेधे सर्वान्मेध्यान् हुत्वा सर्वेषां भूतानां श्रैष्ठ्यं स्वाराज्यम्, आधिपत्यं, पर्येति ॥ १ ॥
हरिस्वामी
‘ब्रह्म वै स्वयंभु’ । यत् एतत् अधुना ब्रह्म सर्वस्वभूतानां कर्तृ स्वयंभु हिरण्यगर्भलक्षणं ततः प्रागवस्थायां तपस्तप्त्वा तपसि निमित्ते आनंत्यं द्वित्वैकलक्षणं नास्तीति अपश्यत् सर्वमेव पूर्विकया सर्वात्मकभावनया सर्वेषां भूतानां श्रैष्ठ्यं, स्वाराज्यम्, अन्यानधीनत्वं आधिपत्यं वृत्तमात्रेण प्रयोक्तृत्वं तयैवेति फलवचनम् 1 । मेध्यान् मेधार्हान् यज्ञियान् स्थावरजंगमात्मकान् अर्थान् यज्ञात्मके आत्मनि हुत्वा तदनुकारेण द्वित्वैकत्वं भावयित्वा सर्वात्मकत्वभावनया सर्वेषां भूतानां श्रेष्ठ्यादि परिगच्छतीति ॥ १ ॥
Eggeling
- Brahman Svayambhu (the self-existent, n.) was performing austerities 2. He said this much,–
‘Verily, there is no perpetuity in austerities; well, then, I will offer up mine own self in the creatures, and the creatures in mine own self.’ And, accordingly, by offering up his own self in the creatures, and the creatures in his own self, he compassed the supremacy, the sovereignty, and the lordship over all creatures; and in like manner does the Sacrificer, by thus offering all sacrificial essences 3 in the Sarvamedha, compass all beings, and supremacy, sovereignty, and lordship.
०२
विश्वास-प्रस्तुतिः
स वा᳘ ऽएष᳘ सर्व्वमेधो᳘ दशरात्रो᳘ यज्ञक्रतु᳘र्भ्भवति॥
द᳘शाक्षरा व्विराड्विरा᳘डु कृत्स्नम᳘न्नङ्कृत्स्न᳘स्यै᳘वान्ना᳘द्यस्या᳘वरुद्ध्यै त᳘स्मिन्नग्नि᳘म्परार्ध्यञ्चिनोति परमो वा᳘ ऽएष᳘ यज्ञक्रतूनां य᳘त्सर्व्वमेधः᳘ परमे᳘णै᳘वैनम्परम᳘ताङ्गमयति॥
मूलम् - श्रीधरादि
स वा᳘ ऽएष᳘ सर्व्वमेधो᳘ दशरात्रो᳘ यज्ञक्रतु᳘र्भ्भवति॥
द᳘शाक्षरा व्विराड्विरा᳘डु कृत्स्नम᳘न्नङ्कृत्स्न᳘स्यै᳘वान्ना᳘द्यस्या᳘वरुद्ध्यै त᳘स्मिन्नग्नि᳘म्परार्ध्यञ्चिनोति परमो वा᳘ ऽएष᳘ यज्ञक्रतूनां य᳘त्सर्व्वमेधः᳘ परमे᳘णै᳘वैनम्परम᳘ताङ्गमयति॥
मूलम् - Weber
स वा᳘ एष᳘ सर्वमेधो᳘ दशरात्रो᳘ यज्ञक्रतु᳘र्भवति॥
द᳘शाक्षरा विराड्विराडु कृत्स्नम᳘न्नं कृत्स्न᳘स्यैॗवान्ना᳘द्यस्या᳘वरुद्ध्यै त᳘स्मिन्नग्नि᳘म् परार्ध्यं᳘ चिनोति परमो वा᳘ एष᳘ यज्ञक्रतूनां य᳘त्सर्वमेधः᳘ परमे᳘णैॗवैनम् परम᳘तां गमयति॥
मूलम् - विस्वरम्
स वा एष सर्वमेधो दशरात्रो यज्ञक्रतुर्भवति । दशाक्षरा विराट् । विराड् उ कृत्स्नमन्नम् । कृत्स्नस्यैवान्नाद्यस्यावरुद्ध्यै । तस्मिन्नग्निं परार्घ्यं चिनोति । परमो वा एष यज्ञक्रतूनाम् । यत्सर्वमेधः । परमेणैवैनं परमतां गमयति ॥ २ ॥
हरिस्वामी
स वा एष सर्वमेध इति । स वा एष इति वक्ष्यमाणसमुदायानुवादः 1 । परस्मिन्नर्द्धे भागे भवः परार्घ्यः एकशतविधः 4 अग्निः ॥ २ ॥
Eggeling
- Now this Sarvamedha is a ten-days’ (Soma-) sacrifice, for the sake of his gaining and winning every kind of food, for the Virāj consists of ten syllables, and the Virāj is all food. At this (sacrifice) he builds the greatest possible fire-altar, for this–to wit, the Sarvamedha–is supreme amongst all sacrificial performances: by means of the supreme (sacrifice) he thus causes him (the Sacrificer) to attain supremacy.
०३
विश्वास-प्रस्तुतिः
त᳘स्याग्निष्टु᳘दग्निष्टोमः᳘ प्रथमम᳘हर्भ्भवति॥
(त्य) अग्निर्व्वा᳘ ऽअग्निष्टु᳘दग्निष्टो᳘मो ऽग्नि᳘मुखा ऽउ वै स᳘र्व्वे देवाः स᳘र्व्वेषान्देवा᳘नामा᳘प्त्यै त᳘स्याग्नेया ग्ग्र᳘हा भवन्त्याग्ने᳘य्यः[[!!]] पुरोरु᳘चः स᳘र्व्वमाग्नेय᳘मसदि᳘ति॥
मूलम् - श्रीधरादि
त᳘स्याग्निष्टु᳘दग्निष्टोमः᳘ प्रथमम᳘हर्भ्भवति॥
(त्य) अग्निर्व्वा᳘ ऽअग्निष्टु᳘दग्निष्टो᳘मो ऽग्नि᳘मुखा ऽउ वै स᳘र्व्वे देवाः स᳘र्व्वेषान्देवा᳘नामा᳘प्त्यै त᳘स्याग्नेया ग्ग्र᳘हा भवन्त्याग्ने᳘य्यः[[!!]] पुरोरु᳘चः स᳘र्व्वमाग्नेय᳘मसदि᳘ति॥
मूलम् - Weber
त᳘स्याग्निष्टु᳘दग्निष्टोमः᳘ प्रथमम᳘हर्भवति॥
अग्निर्वा᳘ अग्निष्टु᳘दग्निष्टोॗमोऽग्नि᳘मुखा उ वै स᳘र्वे देवाः स᳘र्वेषां देवा᳘नामा᳘प्त्यै त᳘स्याग्नेया ग्र᳘हा भवन्त्यग्निय्यः᳘ 5 पुरोरु᳘चः स᳘र्वमाग्नेय᳘मसदि᳘ति॥
मूलम् - विस्वरम्
तस्याग्निष्टुदग्निष्टोमः प्रथममहर्भवति । अग्निर्वा अग्निष्टुदग्निष्टोमः । अग्निमुखा उ वै सर्वे देवाः । सर्वेषां देवानामाप्त्यै । तस्याग्नेया ग्रहा भवंति । आग्नेय्यः पुरोरुचः । सर्वमाग्नेयमसदिति ॥ ३ ॥
हरिस्वामी
अग्निष्टुन्नामा 6 एकाहः अग्निष्टोमसंस्थ एषः । ग्रहाः “उपयामगृहीतो ऽस्यग्नये त्वा जुष्टं गृह्णाम्येष ते योनिरग्नये त्वा” इत्येवं यजुष्टाः । आग्नेय्यः पुरोरुचः “अस्याजरासो दमामरित्राः”- (वा. सं. ३३ । १-१७) इत्यादयः । एवमुत्तरेष्वपि वाच्याः ॥ ३-६ ॥
Eggeling
- The first day thereof is an Agnishṭut Agnishṭoma 7, for the sake of his gaining and winning all the gods, for the Agnishṭut Agnishṭoma is Agni; and all the gods have Agni (the sacrificial fire) for their mouth, The cups of Soma thereat pertain to Agni, and so do the Puroruc 8 formulas pertain to Agni, in order that everything should pertain to Agni.
०४
विश्वास-प्रस्तुतिः
(ती) इन्द्रस्तु᳘दु᳘क्थ्यो द्विती᳘यम᳘हर्भ्भवति॥
(ती᳘) इ᳘न्द्रो वै स᳘र्व्वे देवाः स᳘र्व्वेषान्देवा᳘नामा᳘प्त्यै त᳘स्यैन्द्रा ग्ग्र᳘हा भवन्त्यैन्द्र्यः[[!!]] पुरोरु᳘चः स᳘र्व्वमैन्द्र᳘मसदि᳘ति॥
मूलम् - श्रीधरादि
(ती) इन्द्रस्तु᳘दु᳘क्थ्यो द्विती᳘यम᳘हर्भ्भवति॥
(ती᳘) इ᳘न्द्रो वै स᳘र्व्वे देवाः स᳘र्व्वेषान्देवा᳘नामा᳘प्त्यै त᳘स्यैन्द्रा ग्ग्र᳘हा भवन्त्यैन्द्र्यः[[!!]] पुरोरु᳘चः स᳘र्व्वमैन्द्र᳘मसदि᳘ति॥
मूलम् - Weber
इन्द्रस्तु᳘दुॗक्थ्यो द्विती᳘यम᳘हर्भवति॥
इ᳘न्द्रो वै स᳘र्वे देवाः स᳘र्वेषां देवा᳘नामा᳘प्त्यै त᳘स्यैन्द्रा ग्र᳘हा भवन्त्यैन्द्र्यः᳘ 9 पुरोरु᳘चः स᳘र्वमैन्द्र᳘मसदि᳘ति॥
मूलम् - विस्वरम्
इंद्रस्तुदुक्थ्यो द्वितीयमहर्भवति । इंद्रो वै सर्वे देवाः । सर्वेषां देवानामाप्त्यै । तस्यैन्द्रा ग्रहा भवंति । ऐन्द्र्यः पुरोरुचः । सर्वमैन्द्रमसदिति ॥ ४ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- The second day is an Indrastut Ukthya, for the sake of his gaining and winning all the gods, for Indra is all the gods. The cups of Soma thereat pertain to Indra, and so do the Puroruc formulas pertain to Indra, in order that everything should pertain to Indra.
०५
विश्वास-प्रस्तुतिः
सूर्य्यस्तुदु᳘क्थ्यस्तृती᳘यम᳘हर्भ्भवति[[!!]]॥
सू᳘र्य्यो वै स᳘र्व्वे देवाः स᳘र्व्वेषां देवा᳘नामा᳘प्त्यै सौर्य्या ग्ग्र᳘हा भवन्ति सौ᳘र्य्यः[[!!]] पुरोरु᳘चः स᳘र्व्वᳫँ᳭ सौर्य्य᳘मसदि᳘ति॥
मूलम् - श्रीधरादि
सूर्य्यस्तुदु᳘क्थ्यस्तृती᳘यम᳘हर्भ्भवति[[!!]]॥
सू᳘र्य्यो वै स᳘र्व्वे देवाः स᳘र्व्वेषां देवा᳘नामा᳘प्त्यै सौर्य्या ग्ग्र᳘हा भवन्ति सौ᳘र्य्यः[[!!]] पुरोरु᳘चः स᳘र्व्वᳫँ᳭ सौर्य्य᳘मसदि᳘ति॥
मूलम् - Weber
सूर्यस्तु᳘दुक्थ्य᳘स्तृती᳘यम᳘हर्भवति॥
सू᳘र्यो वै स᳘र्वे देवाः स᳘र्वेषाम् देवा᳘नामा᳘प्त्यै सौर्या ग्र᳘हा भवन्ति 10 सौर्य्यः᳘ पुरोरु᳘चः स᳘र्वᳫं सौर्य᳘मसदिति॥
मूलम् - विस्वरम्
सूर्यस्तुदुक्थ्यस्तृतीयमहर्भवति । सूर्यो वै सर्वे देवाः । सर्वेषां देवानामाप्त्यै । तस्य सौर्य्या ग्रहा भवंति । सौर्य्यः पुरोरुचः । सर्वं सौर्य्यमसदिति ॥ ५ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- The third day is a Sūryastut, Ukthya, for the sake of his gaining and winning all the gods, for Sūrya is all the gods. The cups of Soma pertain to Sūrya, and so do the Puroruc formulas pertain to Sūrya, in order that everything should pertain to Sūrya.
०६
विश्वास-प्रस्तुतिः
व्वैश्वदेव᳘श्चतुर्थम᳘हर्भवति॥
व्वि᳘श्वे वै स᳘र्व्वे देवाः स᳘र्व्वेषान्देवा᳘नामा᳘प्त्यै त᳘स्य व्वैश्वदेवा ग्ग्र᳘हा भवन्ति व्वैश्व᳘देव्यः पुरोरु᳘चः स᳘र्व्वम्वैश्वदेव᳘मसदि᳘ति॥
मूलम् - श्रीधरादि
व्वैश्वदेव᳘श्चतुर्थम᳘हर्भवति॥
व्वि᳘श्वे वै स᳘र्व्वे देवाः स᳘र्व्वेषान्देवा᳘नामा᳘प्त्यै त᳘स्य व्वैश्वदेवा ग्ग्र᳘हा भवन्ति व्वैश्व᳘देव्यः पुरोरु᳘चः स᳘र्व्वम्वैश्वदेव᳘मसदि᳘ति॥
मूलम् - Weber
वैश्वदेव᳘श्चतुर्थम᳘हर्भवति॥
वि᳘श्वे वै स᳘र्वे देवाः स᳘र्वेषां देवा᳘नामा᳘प्त्यै वैश्वदेवा ग्र᳘हा भवन्ति 11 वैश्वॗदेव्यः परोरु᳘चः स᳘र्वम् वैश्वदेव᳘मसदिति॥
मूलम् - विस्वरम्
वैश्वदेवश्चतुर्थमहर्भवति । विश्वे वै सर्वे देवाः । सर्वेषां देवानामाप्त्यै । तस्य वैश्वदेवा ग्रहा भवंति । वैश्वदेव्यः पुरोरुचः । सर्वं वैश्वदेवमसदिति ॥ ६ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- The fourth day is a Vaiśvadeva, for the sake of his gaining and winning all the gods, for the All-gods (Viśve Devāḥ) are all the gods. The cups of Soma pertain to the All-gods, and so do the Puroruc formulas pertain to the All-gods, in order that everything should pertain to the All-gods.
०७
विश्वास-प्रस्तुतिः
(त्या᳘) आ᳘श्वमेधिकं मध्यमं᳘ पञ्चमम᳘हर्भ्भवति॥
त᳘स्मिन्न᳘श्वम्मे᳘ध्यमा᳘लभते ऽश्वमेध᳘स्यैवा᳘प्त्यै॥
मूलम् - श्रीधरादि
(त्या᳘) आ᳘श्वमेधिकं मध्यमं᳘ पञ्चमम᳘हर्भ्भवति॥
त᳘स्मिन्न᳘श्वम्मे᳘ध्यमा᳘लभते ऽश्वमेध᳘स्यैवा᳘प्त्यै॥
मूलम् - Weber
आ᳘श्वमेधिकम् मध्यम᳘म् पञ्चमम᳘हर्भवति॥
त᳘स्मिन्न᳘श्वम् मे᳘ध्यमा᳘लभतेऽश्वमेध᳘स्यैवा᳘प्त्यै॥
मूलम् - विस्वरम्
आश्वमेधिकं 12 पंचममहर्भवति । तस्मिन्नश्वं मेध्यमालभते । अश्वमेधस्यैवाप्त्यै ॥ ७ ॥
हरिस्वामी
तस्मिन् अश्वं मेध्यमालभत इत्यनुवादः सर्वेषामेव मेधार्हाणां प्राप्तत्वात् । एवमेव तस्मिन्मेध्यानालभत इति ॥ ७ ॥ ८ ॥
Eggeling
- The fifth day is a central Āśvamedhika 13 one: at this (sacrifice) he seizes a horse meet for sacrifice, for the sake of his gaining the sacrificial essence of the horse.
०८
विश्वास-प्रस्तुतिः
पौ᳘रुषमेधिकम्मध्यम᳘ᳫँ᳘ षष्ठम᳘हर्भ्भवति॥
त᳘स्मिन्मे᳘ध्यान्पुरुषाना᳘लभते[[!!]] पुरुषमेध᳘स्यैवा᳘प्त्यै॥
मूलम् - श्रीधरादि
पौ᳘रुषमेधिकम्मध्यम᳘ᳫँ᳘ षष्ठम᳘हर्भ्भवति॥
त᳘स्मिन्मे᳘ध्यान्पुरुषाना᳘लभते[[!!]] पुरुषमेध᳘स्यैवा᳘प्त्यै॥
मूलम् - Weber
पौ᳘रुषमेधिकम् मध्यमं᳘ षष्ठम᳘हर्भवति॥
त᳘स्मिन्मे᳘ध्यान्पु᳘रुषाना᳘लभते पुरुषमेध᳘स्यैवा᳘प्त्यै॥
मूलम् - विस्वरम्
पौरुषमेधिकं 12 मध्यमं षष्ठमहर्भवति । तस्मिन्मेध्यान् पुरुषानालभते । पुरुषमेधस्यैवाप्त्यै ॥ ८ ॥
हरिस्वामी
[व्याख्यानं सप्तमे]
Eggeling
- The sixth day is a central Paurushamedhika 14 one: at this (sacrifice) he seizes men meet for sacrifice, for the sake of his gaining the sacrificial essence of man.
०९
विश्वास-प्रस्तुतिः
(प्त्या ऽअ) अप्तोर्य्यामः᳘ सप्तमम᳘हर्भ्भवति॥
स᳘र्व्वेषां यज्ञक्रतूनामा᳘प्त्यै त᳘स्मिन्त्स᳘र्व्वान्मे᳘ध्याना᳘लभते य᳘च्च प्राणि य᳘च्चाप्राण᳘म्वपा᳘ व्वपा᳘वताञ्जुहोति त्व᳘च ऽउत्क᳘र्त्तमवपा᳘कानाᳫँ᳭ सम्व्र᳘श्चमोषधिवनस्पतीनाम्प्र᳘किरन्ति शु᳘ष्काणाञ्चार्द्द्रा᳘णाञ्चा᳘न्नम᳘न्नञ्जुहोत्य᳘न्नस्या᳘न्नस्याप्त्यै[[!!]] स᳘र्व्वञ्जुहोति स᳘र्व्वस्मै जुहोति स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै प्रातःसवने᳘ हुता᳘सु व्वपा᳘स्वेव᳘मेव᳘ तृतीयसवने᳘ हुते᳘षु हविः᳘षु॥
मूलम् - श्रीधरादि
(प्त्या ऽअ) अप्तोर्य्यामः᳘ सप्तमम᳘हर्भ्भवति॥
स᳘र्व्वेषां यज्ञक्रतूनामा᳘प्त्यै त᳘स्मिन्त्स᳘र्व्वान्मे᳘ध्याना᳘लभते य᳘च्च प्राणि य᳘च्चाप्राण᳘म्वपा᳘ व्वपा᳘वताञ्जुहोति त्व᳘च ऽउत्क᳘र्त्तमवपा᳘कानाᳫँ᳭ सम्व्र᳘श्चमोषधिवनस्पतीनाम्प्र᳘किरन्ति शु᳘ष्काणाञ्चार्द्द्रा᳘णाञ्चा᳘न्नम᳘न्नञ्जुहोत्य᳘न्नस्या᳘न्नस्याप्त्यै[[!!]] स᳘र्व्वञ्जुहोति स᳘र्व्वस्मै जुहोति स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै प्रातःसवने᳘ हुता᳘सु व्वपा᳘स्वेव᳘मेव᳘ तृतीयसवने᳘ हुते᳘षु हविः᳘षु॥
मूलम् - Weber
अप्तोर्यामः᳘ सप्तमम᳘हर्भवति॥
स᳘र्वेषाम् यज्ञक्रतूनामा᳘प्त्यै त᳘स्मिन्त्स᳘र्वान्मे᳘ध्याना᳘लभते य᳘च्च प्राणि य᳘च्चाप्राण᳘म् वपा᳘ वपा᳘वतं जुहोति त्व᳘च उत्क᳘र्तमवपा᳘कानाᳫं सम्व्र᳘श्चमोषधिवनस्पतीनाम् प्र᳘किरन्ति शु᳘ष्काणां चार्द्रा᳘णाम् चा᳘न्नमन्नं जुहोत्य᳘न्नस्यान्नस्या᳘प्त्यै स᳘र्वम् जुहोति स᳘र्वस्मै जुहोति स᳘र्वस्या᳘प्त्यज् स᳘र्वस्या᳘वरुद्ध्यै प्रातःसवने᳘ हुता᳘सु वपा᳘स्वेव᳘मेव᳘ तृतीयसवने᳘ हुते᳘षु हविः᳘षु॥
मूलम् - विस्वरम्
अप्तोर्यामः सप्तममहर्भवति । सर्वेषां यज्ञक्रतूनामाप्त्यै । तस्मिन् सर्वान्मेध्यानालभते । यच्च प्राणि । यच्चाप्राणम् । वपा वपावतां जुहोति । त्वच उत्कर्तमवपाकानाम् । संव्रश्चमोषधिवनस्पतीनां प्रकिरंति- शुष्काणां चार्द्राणां च । अन्नमन्नं जुहोति । अन्नस्यान्नस्याप्त्यै । सर्वं जुहोति । सर्वस्मै जुहोति । सर्वस्याप्त्यै । सर्वस्यावरुद्ध्यै । प्रातःसवने हुतासु वपासु । एवमेव तृतीयसवने हुतेषु हविःषु ॥ ९ ॥
हरिस्वामी
‘अप्तोर्यामः’ । अप्तोर्यामो नाम क्रतुः यस्मिन् तिरोह्णीयेभ्यः उर्ध्वं रात्रिपर्यायः उत्तमो भवति । सर्वेषां यज्ञक्रतूनामिति । सर्वाणि अग्निष्टोमोक्थ्यषोडश्यतिरात्रप्रदानानि स्तोत्रशस्त्राणि चाप्तोर्यामे ऽन्तर्भवंतीत्यभिप्रायः । तस्मिन् सर्वान् मेध्यान् यज्ञार्हान् पदार्थान् स्थावरजंगमान् सर्वान् आलभते होमार्थमुपकल्पयति न त्वालभत इति । चोदनासामान्यात् पशुप्रकृतयो यागा एते चोद्यंते नादेवतासंबंधात् तमालभते इत्यादिवत् । ननु सर्वस्मै जुहोतीत्यस्ति देवतासंबंधः । सत्यमस्ति स तु होमे न यागे, तेन तदुक्ता होमा एव एते न यागाः । अत एव “तयेवैतद्यजमानः सर्वमेधे सर्वान्मेध्यान्हुत्वा” (श. प. १३ । ७। १ । १) इति सर्वमेध्यानां होम एवोत्पत्तिवाक्ये ऽपि श्रुतः । न तु सर्वैर्मेध्येरिष्ट्वेत्येवं यागः । ततश्च वपावतां सः । उभयोरपि सवनयोर्वपा एव होतव्याः न हृदयादीन्यवदानानि । ताश्च जुहोतिकल्पेनैव न यजतिकल्पेन याज्यानुवाक्यादिनेति । यच्च प्राणि सोच्छ्वासनिश्वासम् । संव्रश्चं ओषधिवनस्पतीनां प्रकिरंति । कीदृशीनां शुष्काणां चार्द्राणां च प्रकिरंति । अन्नमन्नं यवादि जुहोति पृथक् जुहोति न सह तानि सकलान्येव जुहोति न त्वगादीत्यर्थः । सर्वं सर्वजातीयं जुहोति सर्वासां स्थावरजंगमजातीनां एकैकां व्यक्तिं सूक्ष्माणां च धान्यानां अवदानमात्रं जुहोति । न तु सर्वा व्यक्तीः अशक्यत्वात् । धान्येन जात्यात्मना सर्वा एव व्यक्तीर्जुहोति । सर्वस्मै सर्वात्मने प्रधानपुरुषहिरण्यगर्भाय जुहोति “तदेवाग्निस्तदादित्यः” इत्यनेनाध्यायेन (वा. सं. ३२) कुतः ? सर्वमेध इति समाख्यानात् तदेव सर्वमेधो ऽध्याय इति । क्रमलिंगाच्च सर्वस्मै होतव्यं सर्वात्मानं चैषो ऽध्यायः अभिदधाति न चान्यत्र क्वचिदपि विनियुक्तः । परतश्व सार्वमेधिक्य एव पुरोरुचः पठ्यंते “अस्याजरासः” इत्यादयः (वा. सं. ३३) बैजपायनेन च अत्रैव एषः अध्यायो विनियुक्तः । एतेन च प्रातःसवने होतव्यम् हुतासु वपासु 15 एवमेव तृतीयसवने हुतेषु पाशुकेषु हविःषु जुहोति तत्तु “यज्जाग्रतः” (वा. सं. ३४) इत्यध्यायेन क्रमलिंगाभ्यां तत्र हि वह्निर्देवता अनुक्रम्यते “य इमा विश्वाः” (वा. सं. १७ । १७) “विश्वकर्मा” (वा. सं. १७ । २६ । १७ । ३२) “यो नः पिता” (वा. सं. १७ । २७) “अन्नपते ऽन्नस्य नो देहि" (वा. सं. ११ । ८३) इति सर्वात्मैव अंते विश्वकर्मा पठितः । न च एषः अन्यत्र श्रुत्या विनियुक्तः । तस्मादेवं होतव्यमिति मन्ये । कात्यायनेन 16 न तत्सूत्रितं कस्यापि हेतोः इति विद्मः ॥ ९ ॥
Eggeling
- The seventh day is an Aptoryāma, for the sake of his gaining all kinds of Soma-sacrifices: at this (sacrifice) he seizes all kinds of (victims) meet for sacrifice, both what is animate and what is
inanimate. Of those with omenta he offers the omenta, and of those without omenta they throw down pieces cut out of the skin 17, and of herbs and trees they do so after cutting them up,–every kind of food of both the dry and the fresh he offers, in order to gain every kind of food. Everything he offers; and, to every one he offers in order to gain and to win everything. The omenta having been offered at the morning-service, and in the same way the oblations at the evening-service,–
१०
विश्वास-प्रस्तुतिः
त्रिणव᳘मष्टमम᳘हर्भ्भवति॥
व्व᳘ज्ज्रो वै᳘ त्रिणवो व्व᳘ज्ज्रेण ख᳘लु वै᳘ क्षत्त्र᳘ᳫँ᳘ स्पृत न्तद्व᳘ज्ज्रेणैव᳘ क्षत्त्र᳘ᳫँ᳘ स्पृणोति॥
मूलम् - श्रीधरादि
त्रिणव᳘मष्टमम᳘हर्भ्भवति॥
व्व᳘ज्ज्रो वै᳘ त्रिणवो व्व᳘ज्ज्रेण ख᳘लु वै᳘ क्षत्त्र᳘ᳫँ᳘ स्पृत न्तद्व᳘ज्ज्रेणैव᳘ क्षत्त्र᳘ᳫँ᳘ स्पृणोति॥
मूलम् - Weber
त्रिणव᳘मष्टमम᳘हर्भवति॥
व᳘ज्रो वै᳘ त्रिणवो व᳘ज्रेण ख᳘लु वै᳘ क्षत्र᳘ᳫं᳘ स्पृतं तद्व᳘ज्रेणैव᳘ क्षत्र᳘ᳫं᳘ स्पृणोति॥
मूलम् - विस्वरम्
त्रिणवमष्टममहर्भवति । वज्रो वै त्रिणवः । वज्रेण खलु वै क्षत्त्रं स्पृतम् । तत् वज्रेणैव क्षत्रं स्पृणोति ॥ १० ॥
हरिस्वामी
त्रिणवं 15 सप्तविंशस्तोमकम् ॥ १० ॥
Eggeling
- The eighth day is a Triṇava one 18, for the Triṇava (stoma) is the thunderbolt, and by means of the thunderbolt, indeed, lordship (kshatra) is gained: by means of the thunderbolt he thus gains lordship.
११
विश्वास-प्रस्तुतिः
त्रयस्त्रिᳫँ᳭श᳘न्नवमम᳘हर्भ्भवति॥ प्रतिष्ठा वै᳘ त्रयस्त्रिᳫँ᳭शः प्र᳘तिष्ठित्यै॥
मूलम् - श्रीधरादि
त्रयस्त्रिᳫँ᳭श᳘न्नवमम᳘हर्भ्भवति॥ प्रतिष्ठा वै᳘ त्रयस्त्रिᳫँ᳭शः प्र᳘तिष्ठित्यै॥
मूलम् - Weber
त्रयस्त्रिंशं᳘ नवमम᳘हर्भवति प्रतिष्ठा वै त्रवस्त्रिंशः प्र᳘तिष्ठित्यै॥
मूलम् - विस्वरम्
त्रयस्त्रिंशं नवममहर्भवति । प्रतिष्ठा वै त्रयस्त्रिंशः । प्रतिष्ठित्यै ॥ ११ ॥
हरिस्वामी
त्रयस्त्रिंशं नवममहर्भवति ॥ ११ ॥
Eggeling
- The ninth day is a Trayastriṁśa one 19, for the sake of his gaining a foothold, for the Trayastriṁśa (stoma) is a foothold.
१२
विश्वास-प्रस्तुतिः
व्विश्वजित्स᳘र्व्वपृष्ठो ऽतिरात्रो᳘ दशमम᳘हर्भ्भवति॥
स᳘र्व्वम्वै᳘ व्विश्वजित्स᳘र्व्वपृष्ठो ऽतिरात्रः स᳘र्व्वᳫँ᳭ सर्व्वमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै॥
मूलम् - श्रीधरादि
व्विश्वजित्स᳘र्व्वपृष्ठो ऽतिरात्रो᳘ दशमम᳘हर्भ्भवति॥
स᳘र्व्वम्वै᳘ व्विश्वजित्स᳘र्व्वपृष्ठो ऽतिरात्रः स᳘र्व्वᳫँ᳭ सर्व्वमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै॥
मूलम् - Weber
विश्वजित्स᳘र्वपृष्ठोऽतिरात्रो दशमम᳘हर्भवति॥
स᳘र्वम् वै᳘ विश्वजित्स᳘र्वपृष्ठोऽतिरात्रः स᳘र्वᳫं सर्वमेधः स᳘र्वस्या᳘प्त्यै स᳘र्वस्या᳘वरुद्ध्यै॥
मूलम् - विस्वरम्
विश्वजित् सर्वपृष्ठो ऽतिरात्रो दशममहर्भवति । सर्वं वै विश्वजित् सर्वपृष्ठो ऽतिरात्रः । सर्वं सर्वमेधः । सर्वस्याप्त्यै । सर्वस्यावरुद्ध्यै ॥ १२ ॥
हरिस्वामी
विश्वजिन्नाम 20 एकाहः । सर्वाणि पृष्ठसाधनानि रथंतरादीनि यस्य संति स सर्वपृष्ठः । तेषां तु पवमाने रथंतरं कुर्वन्ति आर्भवे बृहत् मध्ये इतराणि ॥ १२ ॥
Eggeling
- The tenth day is a Viśvajit Atirātra with all the Pr̥shṭḥas 21, for the sake of his gaining and winning everything, for the Viśvajit Atirātra with all the Pr̥shṭḥas is everything, and the Sarvamedha is everything.
१३
विश्वास-प्रस्तुतिः
(द्ध्या ऽअ) अथा᳘तो द᳘क्षिणानाम्॥
(म्म᳘) म᳘ध्यम्प्र᳘ति राष्ट्र᳘स्य य᳘दन्य᳘द्ब्राह्मण᳘स्य व्वित्तात्स᳘भूमि स᳘पुरुषम्प्रा᳘ची दिग्घो᳘तुर्द्द᳘क्षिणा ब्रह्म᳘णः प्रती᳘च्यध्वर्य्योरु᳘दीच्युद्गातुस्त᳘देव हो᳘तृका ऽअन्वा᳘भक्ताः॥
मूलम् - श्रीधरादि
(द्ध्या ऽअ) अथा᳘तो द᳘क्षिणानाम्॥
(म्म᳘) म᳘ध्यम्प्र᳘ति राष्ट्र᳘स्य य᳘दन्य᳘द्ब्राह्मण᳘स्य व्वित्तात्स᳘भूमि स᳘पुरुषम्प्रा᳘ची दिग्घो᳘तुर्द्द᳘क्षिणा ब्रह्म᳘णः प्रती᳘च्यध्वर्य्योरु᳘दीच्युद्गातुस्त᳘देव हो᳘तृका ऽअन्वा᳘भक्ताः॥
मूलम् - Weber
अथा᳘तो द᳘क्षिणानाम्॥
म᳘ध्यम् प्र᳘ति राष्ट्र᳘स्य य᳘दन्य᳘द्ब्राह्मण᳘स्य वित्तात्स᳘भूमि स᳘पुरुषम् प्रा᳘ची दिग्घो᳘तुर्द᳘क्षिणा ब्रह्म᳘णः प्रती᳘च्यध्वर्योरु᳘दीच्युद्गातुस्त᳘देव हो᳘तृका अन्वा᳘भक्ताः॥
मूलम् - विस्वरम्
अथातो दक्षिणानाम् । मध्यं प्रति राष्ट्रस्य । यदन्यत् ब्राह्मणस्य वित्तात् । सभूमि । सपुरुषम् । प्राची दिग् होतुः दक्षिणा ब्रह्मणः । प्रतीच्यध्वर्योः । उदीच्युद्गातुः । तदेव होतृका अन्वाभक्ताः ॥ १३ ॥
हरिस्वामी
सपुरुषमिति 20 । दासाः पुरुषाः । तेषां दानसंभवात् ॥ १३ ॥
Eggeling
- Now as to the sacrificial fees: whatever there is towards the middle of the kingdom other than the property of the Brāhmaṇa, but including land and
men, of that the eastern quarter belongs to the Hotr̥, the southern to the Brahman, the western to the Adhvaryu, and the northern to the Udgātr̥; and the Hotr̥kas share this along with them.
१४
विश्वास-प्रस्तुतिः
(स्ते᳘) ते᳘न हैते᳘न विश्व᳘कर्मा भौवन᳘ ऽईजे॥
ते᳘नेष्ट्वा᳘ ऽत्यतिष्ठत्स᳘र्व्वाणि भूता᳘नीदᳫँ᳭ स᳘र्व्वमभवद᳘तितिष्ठति स᳘र्व्वाणि भूता᳘नीदᳫँ᳭ स᳘र्व्वम्भवति य᳘ ऽएव᳘म्विद्वा᳘न्त्सर्व्वमेधे᳘न य᳘जते यो᳘ वैत᳘देवम्वे᳘द॥
मूलम् - श्रीधरादि
(स्ते᳘) ते᳘न हैते᳘न विश्व᳘कर्मा भौवन᳘ ऽईजे॥
ते᳘नेष्ट्वा᳘ ऽत्यतिष्ठत्स᳘र्व्वाणि भूता᳘नीदᳫँ᳭ स᳘र्व्वमभवद᳘तितिष्ठति स᳘र्व्वाणि भूता᳘नीदᳫँ᳭ स᳘र्व्वम्भवति य᳘ ऽएव᳘म्विद्वा᳘न्त्सर्व्वमेधे᳘न य᳘जते यो᳘ वैत᳘देवम्वे᳘द॥
मूलम् - Weber
ते᳘न हैते᳘न विश्व᳘कर्मा भौवन᳘ ईजे॥
ते᳘नेष्ट्वा᳘त्यतिष्ठत्स᳘र्वाणि भूता᳘नीदᳫं स᳘र्वमभवद᳘तितिष्ठति स᳘र्वाणि भूता᳘नीदᳫं स᳘र्वम् भवति य एव᳘म् विद्वा᳘न्त्सर्वमेधे᳘न य᳘जते यो᳘ वैत᳘देवम् वे᳘द॥
मूलम् - विस्वरम्
तेन हैतेन विश्वकर्मा भौवन ईजे । तेनेष्ट्वा अत्यतिष्ठत् सर्वाणि भूतानि । इदं सर्वमभवत् । अतितिष्ठति सर्वाणि भूतानि । इदं सर्वं भवति । य एवं विद्वान् सर्वमेधेन यजते । यो वा एतदेवं वेद ॥ १४ ॥
हरिस्वामी
तेन हैतेन । विश्वकर्मा नाम्ना राजा । भुवनस्यापत्यम् । हिरण्यगर्भो वा विश्वकर्मा । भुवनेषु भूतेषु सर्वावेशी स प्रागवस्थायाम् एतेन सर्वमेधेन ईजे ॥ १४ ॥
Eggeling
- Viśvakarman Bhauvana once performed this sacrifice, and having performed it he overpassed all beings, and became everything here; and verily he who, knowing this, performs the Sarvamedha, or who even knows this, overpasses all beings, and becomes everything here.
१५
विश्वास-प्रस्तुतिः
त᳘ᳫँ᳘ ह कश्य᳘पो याजया᳘ञ्चकार॥
तद᳘पि भू᳘मिः श्लो᳘कं जगौ न᳘ मा म᳘र्त्यः क᳘श्चन दा᳘तुमर्हति व्वि᳘श्वकर्मन्भौवन मन्द᳘ ऽआसिथ। उ᳘पमङ्क्ष्यति स्या᳘ सलिल᳘स्य म᳘ध्ये मृ᳘षैष᳘ ते सङ्गरः᳘ कश्य᳘पाये᳘ति॥
मूलम् - श्रीधरादि
त᳘ᳫँ᳘ ह कश्य᳘पो याजया᳘ञ्चकार॥
तद᳘पि भू᳘मिः श्लो᳘कं जगौ न᳘ मा म᳘र्त्यः क᳘श्चन दा᳘तुमर्हति व्वि᳘श्वकर्मन्भौवन मन्द᳘ ऽआसिथ। उ᳘पमङ्क्ष्यति स्या᳘ सलिल᳘स्य म᳘ध्ये मृ᳘षैष᳘ ते सङ्गरः᳘ कश्य᳘पाये᳘ति॥
मूलम् - Weber
त᳘ᳫं᳘ ह कश्य᳘पो याजयां᳘ चकार॥
तद᳘पि भू᳘मिः श्लो᳘कं जगौ न᳘ मा म᳘र्त्यः क᳘श्चन दा᳘तुमर्हति वि᳘श्वकर्मन्भौवन मन्द᳘ आसिथ उ᳘पमञ्घ्यति स्या᳘ 22 सलिल᳘स्य म᳘ध्ये मृ᳘षैष᳘ ते सङ्गरः᳘ कश्य᳘पाये᳘ति॥
मूलम् - विस्वरम्
तं ह कश्यपो याजयांचकार । तदपि भूमिः श्लोकं जगौ- “न मा मर्त्यः कश्चन दातुमर्हति विश्वकर्मन् भौवन मंद आसिथ । उपमंक्ष्यति स्या सलिलस्य मध्ये मृषैष ते संगरः कश्यपाय”- इति ॥ १५ ॥
हरिस्वामी
तं ह कश्यप ऋषिः याजितवान् । अस्मै च विश्वकर्मा भूमिं दातुं इयेष । तत्र च काले भूमिरपि इमं श्लोकं गीतवती । न मां मर्त्यो मनुष्यः कश्चिदपि सकलां दातुमर्हति । हे विश्वकर्मन् ! भौवन ! त्वं तु मंदः मंदमतिर्जनः आसिथ बभूविथ जात इत्यर्थः । अस्तेर्भूरादेशः खलु न कृतः लिटः अनार्द्धधातुकत्वाश्रवणात् । इडागमस्तु आर्धधातुकत्वात् छन्दस्युभयथेति । कथं स मंद इत्यत आह- उपमंक्ष्यति स्या । उपशब्दो निशब्दस्यार्थे । स्या सा त्वया दित्सिता ऽहं सलिलस्य मध्ये निमग्ना भवितुमिच्छामि, ततश्च ते एष संगरः प्रतिज्ञा मृषा अशक्य इत्यर्थः । यश्च अशक्यं प्रतिजानीते स कथं न मन्दः इत्यभिप्रायः ॥ १५ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे काण्डे सप्तमे ऽध्याये प्रथमं ब्राह्मणम् ॥ १३ ॥ ७ ॥ १ ॥
नागस्वामिसुतो ऽवन्त्यां पाराशर्यो वसन्हरिः । श्रुत्यर्थं दर्शयामास शक्तितः पौष्करीयकः ॥ १ ॥
श्रीमतो ऽवन्तिनाथस्य विक्रमार्कस्य भूपतेः । धर्माध्यक्षो हरिस्वामी व्याख्यच्छातपथीं श्रुतिम् ॥ २ ॥
भूभर्त्रा विक्रमार्केण क्लृप्तां कनकवेदिकाम् । दानायाध्यास्य कृतवान् श्रुत्यर्थविवृतिं हरिः ॥ ३ ॥
इति श्रीसर्वविद्यानिधानकवीन्द्राचार्यसरस्वतीनां श्रीहरिस्वामिनां कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे काण्डे सप्तमो ऽध्यायः समाप्तः ॥ १३-७ ॥
Eggeling
- It was Kaśyapa who officiated in his sacrifice, and it was concerning this that the Earth 23 also sang the stanza;–‘No mortal must give me away; thou wast foolish, Viśvakarman Bhauvana: she (the earth) will sink into the midst of the water; vain is this thy promise unto Kaśyapa.’
-
सर्वमेधः सर्वकामस्य । (का. श्रौ. सू. २१ । १९ ।) सर्वकामस्य मुक्तिमिच्छोः । ↩︎ ↩︎
-
417:3 Cf. J. Muir, Orig. Sanskrit Texts, vol. v, p. 372. ↩︎
-
418:1 Or, all kinds of victims (medha). ↩︎
-
अग्निरुत्तमः । (का. श्रौ. सू. २१ । २१) उत्तमः एकशतविधो ऽग्निरत्रेत्यर्थः । ↩︎
-
We expect ग्र᳘हा भ᳘व, but the mss. agree in reading भव. ↩︎
-
अग्निष्टुत् त्रय उक्थ्या इंद्रस्तुत्सूर्यस्तुद्वैश्वदेवस्तुद्व्रमं वाजपेयो ऽप्तोर्यामः सर्वमस्मिन्नालभते । (का. श्रौ. सू. २१ । २२) अग्निष्टुन्नामा एकाहः । इंद्रस्तुत् सूर्यस्तुत् वैश्वदेवस्तुत् इतीमे त्रय उक्थ्या उक्थ्यसंस्थाः । व्रतं महाव्रतं तच्च “महाव्रतमग्निष्टोमः” “प्राजापत्य उपालंभ्यः” (का. श्रौ. सू. १३ । २९ । ३०) इत्यादिना “मार्जालीये पूर्णान्निदधाति” इत्यंतं का. श्रौ. सू. १३ । ५९ । गवामयने उक्तम् । वाजपेयः “वाजपेयः शरदि” इत्यादिनोक्तः । का. श्रौ. सू. १४ । १ । अप्तोर्यामः अस्मिंस्तिरोह्णीयेभ्य ऊर्ध्वं रात्रिपर्याय उत्तमो भवति सः अप्तोर्यामः । ↩︎
-
418:2 That is, a one-day’s Soma-sacrifice (ekāha) of the Agnishṭoma order, arranged so as specially to promote the praise of Agni, In the same way the next three ekāhas are intended to honour special deities. ↩︎
-
418:3 That is, the formulas preceding the ‘upayāma’ (‘Thou art taken with a support, &c.,’ cf. part ii, p. 259, note s) or formula with which the cup of Soma is drawn. ↩︎
-
We expect ग्र᳘हा भ᳘व, but the mss. agree in reading भव. ↩︎
-
We expect ग्र᳘हा भ᳘व, but the mss. agree in reading भव. ↩︎
-
We expect ग्र᳘हा भ᳘व, but the mss. agree in reading भव. ↩︎
-
419:1 That is, an Ukthya sacrifice, cf. p. 259, note 2; XIII, 5, 1, 5 seqq. ↩︎
-
419:2 That is, an Atirātra, cf. XIII, 6, 1, 9. ↩︎
-
अवपाकानां त्वचो जुहोति । ओषधिवनस्पतीनाँ संव्रश्चम् । अन्नमन्नं जुहोति । वपांते । तृतीयसवने च हुतेषु हविःषु (का. श्रौ. सू. २१ । २३-२६) । ↩︎ ↩︎
-
अस्मिन् विषये “अप्तोर्यामः सर्वमस्मिन्नालभते" (का. श्रौ. सू. २१ । २२) इति सूत्रव्याख्यान कर्कसिद्धांतस्तु- अस्मिन्नप्तोर्यामे सर्वमालभ्यते “तस्मिन् सर्वान्मेध्यानालभते” इति श्रुतेः (श. प. १३ । ७ । १ । ९) अशक्यार्थोपदेश इति चेत् । न हि निरवग्रहः सर्वालंभः शक्यते कर्तुम् एवं चेत् । येषामेवोपालंभो दृष्टः । तेषां सर्वता उच्यते । ते च- “पुरुषो ऽश्वो गौरविरजः” इति प्रकृत्य एतावन्तो वै सर्वे पशवः । तस्मात्सर्वशब्देन पंचपश्वालंभ उच्यते । अतिरात्रविकारत्वाच्चाप्तोर्यामे तत्स्तोमायनदेवताभ्य आलभ्यंते । एकैकस्यै देवतायै पंचपंच पशव आलभ्यंते विभागाभावात् । लिंगाच्च । अवपाकानां त्वचो जुहोतीति (का. श्रौ. सू. २१ । २३) । यदि पंचैते पशव एते स्युः । ततो ऽवपाकानां त्वचो जुहोतीति बहुवचनमुपपन्नम् । तस्मात्प्रतिदेवतं पंच पंच पशवः । सर्वे चैते यूपे नियुज्यंते । स्तोमायनं ह्येतदिति सर्वत्र चात्र स्तोमायनम् । नह्येकादशिनी विहृता संभवति । न चैन्द्राग्नः क्वचित्प्रत्यक्षविधानादिति कर्कभाष्यम् । अस्मिन्नेव विषये देवयाज्ञिकाः स्वाशयमाहुः- सर्वस्मिन्नालभत इत्यादिसूत्राणां कर्कादिकृतस्य व्याख्यानस्याभिप्रायं कर्कादय एव विदुः । अस्मत्कृतं व्याख्यानं श्रुत्यनुसारि हरिस्वामिसंमतं चेति सूक्ष्मार्थदर्शिनः स्वयमेव ज्ञास्यंतीति । ↩︎
-
420:1 Lit., ‘after cutting (pieces) out of the skin they throw down.’ ↩︎
-
420:2 That is, one on which the Triṇava (thrice-nine-versed) Stoma is used in chanting. ↩︎
-
420:3 That is, one on which the thirty-three-versed hymn-form is used. ↩︎
-
अतिरात्रो विश्वजित् । (का. श्रौ. सू. २१ । ३०) स विश्वजित् सर्वपृष्ठो ऽतिरात्रः । ↩︎ ↩︎
-
420:4 For a Soma-sacrifice with all the Pr̥shṭḥa-sāmans, see part iii, introd. p. xx seqq. On the two kinds of Viśvajit ekāhas, the Agnishṭoma and the Atirātra Viśvajit, see part iv, p. 320, note 2. ↩︎
-
मँक्ष्यति P. मंक्षति स्पा᳘ B. मंक्ष्यति तस्या᳘ C. ↩︎
-
421:1 Or, the ground, which Viśvakarman Bhauvana gave away as sacrificial fee. On this legend cp. Ait. Br. VIII, 21; J. Muir, Orig. Sanskrit Texts, vol. i, p. 456; vol. iv, p. 369. ↩︎