०१

विश्वास-प्रस्तुतिः

अ᳘थ य᳘स्मात्पुरुषमेधो ना᳘म॥
(मे) इमे वै᳘ लोकाः पू᳘रय᳘मेव पु᳘रुषो᳘ यो ऽयम्प᳘वते᳘ सो ऽस्या᳘म्पुरि᳘ शेते त᳘स्मात्पु᳘रुषस्त᳘स्य य᳘देषु᳘ लोकेष्व᳘न्नन्त᳘दस्या᳘न्नम्मे᳘धस्तद्य᳘दस्यैतद᳘न्नम्मे᳘धस्त᳘स्मात्पुरुषमेधो᳘ ऽथो य᳘दस्मिन्मे᳘ध्यान्पुरुषानाल᳘भते[[!!]] त᳘स्माद्वेव᳘ पुरुषमेधः॥

मूलम् - श्रीधरादि

अ᳘थ य᳘स्मात्पुरुषमेधो ना᳘म॥
(मे) इमे वै᳘ लोकाः पू᳘रय᳘मेव पु᳘रुषो᳘ यो ऽयम्प᳘वते᳘ सो ऽस्या᳘म्पुरि᳘ शेते त᳘स्मात्पु᳘रुषस्त᳘स्य य᳘देषु᳘ लोकेष्व᳘न्नन्त᳘दस्या᳘न्नम्मे᳘धस्तद्य᳘दस्यैतद᳘न्नम्मे᳘धस्त᳘स्मात्पुरुषमेधो᳘ ऽथो य᳘दस्मिन्मे᳘ध्यान्पुरुषानाल᳘भते[[!!]] त᳘स्माद्वेव᳘ पुरुषमेधः॥

मूलम् - Weber

अ᳘थ य᳘स्मात्पुरुषमेधो ना᳘म॥
इमे वै᳘ लोकाः पू᳘रय᳘मेव पु᳘रुषोॗ योऽयम् प᳘वतेॗ सोऽस्या᳘म् पुरि᳘ शेते त᳘स्मात्पु᳘रुषस्त᳘स्य य᳘देषु᳘ लोकेष्व᳘न्नं त᳘दस्या᳘न्नम् मे᳘धस्तद्य᳘दस्यैतद᳘न्नम् मेधस्त᳘स्मात्पुरुषमेधो᳘ऽथो य᳘दस्मिन्मे᳘ध्यान्पु᳘रुषानाल᳘भते त᳘स्माद्वेव᳘ पुरुषमेधः॥

मूलम् - विस्वरम्

अथ यस्मात् पुरुषमेधो नाम । इमे वै लोकाः पूः । अयमेव पुरुषः । यो ऽयं पवते । सो ऽस्यां पुरि शेते । तस्मात् पुरुषः । तस्य यदेषु लोकेष्वन्नम् । तदस्यान्नं मेधः । तद्यदस्यैतदन्नं मेधः । तस्मात् पुरुषमेधः । अथो यदस्मिन्मेध्यान्पुरुषानालभते । तस्माद्वेव पुरुषमेधः ॥ १ ॥

हरिस्वामी

अथ यस्मात् । अथाधिदैविकं आधियज्ञिकं च निर्वचनं पुरुषमेधशब्दस्य क्रियते ॥ १ ॥ २ ॥

Eggeling
  1. And as to why it is called Purushamedha:–The stronghold (pur) doubtless is these worlds, and the Purusha (spirit) is he that blows here (the wind), he bides (śī) in this stronghold (pur): hence he is the Purusha. And whatever food there is in these worlds that is its ‘medha,’ its food; and inasmuch as this is its ‘medha,’ its food, therefore (it is called) Purushamedha. And inasmuch as at this (sacrifice) he seizes 1 men (purusha) meet for sacrifice (medhya), therefore also it is called Purushamedha.

०२

विश्वास-प्रस्तुतिः

(स्ता) तान्वै᳘ मध्यमे᳘ ऽहन्ना᳘लभते॥
(ते ऽन्त᳘) अन्त᳘रिक्षम्वै᳘ मध्यमम᳘हरन्त᳘रिक्षमु वै स᳘र्व्वेषाम्भूता᳘नामाय᳘तनम᳘थो ऽअ᳘न्नम्वा᳘ ऽएते᳘ पश᳘व ऽउदर᳘म्मध्यमम᳘हरुद᳘रे तद᳘न्नन्दधाति॥

मूलम् - श्रीधरादि

(स्ता) तान्वै᳘ मध्यमे᳘ ऽहन्ना᳘लभते॥
(ते ऽन्त᳘) अन्त᳘रिक्षम्वै᳘ मध्यमम᳘हरन्त᳘रिक्षमु वै स᳘र्व्वेषाम्भूता᳘नामाय᳘तनम᳘थो ऽअ᳘न्नम्वा᳘ ऽएते᳘ पश᳘व ऽउदर᳘म्मध्यमम᳘हरुद᳘रे तद᳘न्नन्दधाति॥

मूलम् - Weber

तान्वै᳘ मध्यमे᳘ऽहन्ना᳘लभते॥
अन्त᳘रिक्षम् वै᳘ मध्यमम᳘हरन्त᳘रिक्षमु वै स᳘र्वेषाम् भूता᳘नामाय᳘तनम᳘थो अ᳘न्नम् वा᳘ एते᳘ पश᳘व उदर᳘म् मध्यमम᳘हरुद᳘रे तद᳘न्नं दधाति॥

मूलम् - विस्वरम्

तान्वै मध्यमे ऽहन्नालभते । अंतरिक्षं वै मध्यममहः । अंतरिक्षमु वै सर्वेषां भूतानामायतनम् । अथो अन्नं वा एते पशवः । उदरं मध्यममहः । उदरे तदन्नं दधाति ॥ २ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. He seizes them on the central day, for the central day is the air, and the air is the abode of all beings; and, indeed, these victims are also food, and the central day is the belly: he thus puts food in the belly.

०३

विश्वास-प्रस्तुतिः

तान्वै द᳘शदशा᳘लभते॥
द᳘शाक्षरा व्विरा᳘ड्विरा᳘डु कृत्स्नम᳘न्नङ्कृत्स्न᳘स्यै᳘वान्ना᳘द्यस्या᳘वरुद्ध्यै॥

मूलम् - श्रीधरादि

तान्वै द᳘शदशा᳘लभते॥
द᳘शाक्षरा व्विरा᳘ड्विरा᳘डु कृत्स्नम᳘न्नङ्कृत्स्न᳘स्यै᳘वान्ना᳘द्यस्या᳘वरुद्ध्यै॥

मूलम् - Weber

तान्वै द᳘श-दशा᳘लभते॥
द᳘शाक्षरा विरा᳘ड्विरा᳘डु कृत्स्नम᳘न्नं कृत्स्न᳘स्यैॗवान्ना᳘द्यस्या᳘वरुद्ध्यै॥

मूलम् - विस्वरम्

तान्वै दशदशालभते । दशाक्षरा विराट् । विराडु कृत्स्नमन्नम् । कृत्स्नस्यैवान्नाद्यस्यावरुद्ध्यै ॥ ३ ॥

हरिस्वामी

दशदशेति दशार्थानुवादः, ये दशदश, एकैकस्यां कंडिकायां ब्राह्मणादयः पठ्यंते तानालभत इत्यर्थः । न पुनरयमर्थः- दशदश एकस्मिन् यूप । आलभते इति । कुतः ? “अष्टाचत्वारिंशतं मध्यमे यूप आलभते”- इति । “एकादशैकादशेतरेषु”- इत्यनेन विरोधात् ॥ ३ ॥

Eggeling
  1. He seizes them by decades 2 for the obtainment

of all food, for the Virāj consists of ten syllables, and the Virāj is all food 3.

०४

विश्वास-प्रस्तुतिः

(द्ध्या ऽए᳘) ए᳘कादश दश᳘त ऽआ᳘लभते॥
(त ऽए᳘) ए᳘कादशाक्षरा त्रिष्टुब्व᳘ज्ज्रस्त्रिष्टु᳘ब्वी᳘र्य्यं त्रिष्टुब्व᳘ज्ज्रेणै᳘वैत᳘द्वी᳘र्य्येण य᳘जमानो मध्यतः᳘ पाप्मा᳘नम᳘पहते॥

मूलम् - श्रीधरादि

(द्ध्या ऽए᳘) ए᳘कादश दश᳘त ऽआ᳘लभते॥
(त ऽए᳘) ए᳘कादशाक्षरा त्रिष्टुब्व᳘ज्ज्रस्त्रिष्टु᳘ब्वी᳘र्य्यं त्रिष्टुब्व᳘ज्ज्रेणै᳘वैत᳘द्वी᳘र्य्येण य᳘जमानो मध्यतः᳘ पाप्मा᳘नम᳘पहते॥

मूलम् - Weber

ए᳘कादश दश᳘त आ᳘लभते॥
ए᳘कादशाक्षरा त्रिष्टुब्व᳘ज्रस्त्रिष्टु᳘ब्वीर्यं᳘ त्रिष्टुब्व᳘ज्रेणैॗवैतद्वीॗर्येण य᳘जमानो मध्यतः᳘ पाप्मा᳘नम᳘पहते॥

मूलम् - विस्वरम्

एकादश दशत आलभते । एकादशाक्षरा त्रिष्टुप् । वज्रस्त्रिष्टुप् । वीर्यं त्रिष्टुप् । वज्रेणैवैतद्वीर्येण यजमानो मध्यतः पाप्मानमपहते ॥ ४ ॥

हरिस्वामी

एकादश दशत आलभते । “सरोभ्यो धैवरम्”- (वा. सं. ३० । १६) इत्येतस्याः कंडिकायाः प्राक्, या दशतः तासामयं दर्शनार्थो ऽनुवादः । एतस्यां तु (वा. सं. ३० । १६) द्वादश पुरुषाः पठ्यंते परासु (वा. सं. ३० । ५ । २१) पुनर्दशदशा अन्त्यायां तु (वा. सं. ३० । २२) अष्टौ पठिताः तेषां चायमनुवादः ॥ ४ ॥

Eggeling
  1. Eleven decades 4 he seizes;–the Trishṭubh consists of eleven syllables, and the Trishṭubh is the thunderbolt, and vigour: with the thunderbolt, with vigour, the Sacrificer thus repels evil from within him.

०५

विश्वास-प्रस्तुतिः

(ते ऽष्टा᳘) अष्टा᳘चत्वारिᳫँ᳭शतम्मध्यमे यू᳘प ऽआ᳘लभते॥
(ते ऽष्टा᳘) अष्टा᳘चत्वारिᳫँ᳭शदक्षरा ज᳘गती जा᳘गताः पश᳘वो ज᳘गत्यै᳘वास्मै पशून᳘वरुन्द्धे॥

मूलम् - श्रीधरादि

(ते ऽष्टा᳘) अष्टा᳘चत्वारिᳫँ᳭शतम्मध्यमे यू᳘प ऽआ᳘लभते॥
(ते ऽष्टा᳘) अष्टा᳘चत्वारिᳫँ᳭शदक्षरा ज᳘गती जा᳘गताः पश᳘वो ज᳘गत्यै᳘वास्मै पशून᳘वरुन्द्धे॥

मूलम् - Weber

अष्टा᳘चत्वारिंशतम् मध्यमे यू᳘प आ᳘लभते॥
अष्टा᳘चत्वारिंशदक्षरा ज᳘गती जा᳘गताः पश᳘वो ज᳘गत्यैॗवास्मै पशून᳘वरुन्द्धे॥

मूलम् - विस्वरम्

अष्टाचत्वारिंशतं मध्यमे यूप आलभते । अष्टाचत्वारिंशदक्षरा जगती । जागताः पशवः । जगत्यैवास्मै पशूनवरुंधे ॥ ५ ॥

हरिस्वामी

अष्टाचत्वारिंशतम् अतिक्रमणकारणाभावात् यानेव अष्टाचत्वारिंशतं 5 मध्यमे आलभते ॥ ५ ॥

Eggeling
  1. Forty-eight he seizes at the central stake;–the Jagatī consists of forty-eight syllables, and cattle are of Jāgata (movable) nature: by means of the Jagatī he (the priest) secures cattle for him.

०६

विश्वास-प्रस्तुतिः

(न्द्ध ऽए᳘) ए᳘कादशैकादशे᳘तरेषु॥
(ष्वे᳘) ए᳘कादशाक्षरा त्रिष्टुब्व᳘ज्ज्रस्त्रिष्टुब्वी᳘र्य्यं[[!!]] त्रिष्टुब्व᳘ज्रेणै᳘वैत᳘द्वी᳘र्य्येण य᳘जमानो ऽभि᳘तः पाप्मा᳘नम᳘पहते॥

मूलम् - श्रीधरादि

(न्द्ध ऽए᳘) ए᳘कादशैकादशे᳘तरेषु॥
(ष्वे᳘) ए᳘कादशाक्षरा त्रिष्टुब्व᳘ज्ज्रस्त्रिष्टुब्वी᳘र्य्यं[[!!]] त्रिष्टुब्व᳘ज्रेणै᳘वैत᳘द्वी᳘र्य्येण य᳘जमानो ऽभि᳘तः पाप्मा᳘नम᳘पहते॥

मूलम् - Weber

ए᳘कादशैकादशे᳘तरेषु॥
ए᳘कादशाक्षरा त्रिष्टुब्व᳘ज्रस्त्रिष्टु᳘ब्वीर्यं᳘ त्रिष्टुब्व᳘ज्रेणैॗवैत᳘द्वीॗर्येण य᳘जमानोऽभि᳘तः पाप्मा᳘नम᳘पहते॥

मूलम् - विस्वरम्

एकादशैकादशेतरेषु । एकादशाक्षरा त्रिष्टुप् । वज्रस्त्रिष्टुप् । वीर्यं त्रिष्टुप् । वज्रेणैवैतद्वीर्येण यजमानो ऽभितः पाप्मानमपहते ॥ ६ ॥

हरिस्वामी

एकादश 5 एकादश इतरेषु यूपे च “वर्णायानुरुधम्” (वा. सं. ३० । ९)- इति । “अविशस्तांस्तु द्वितीयोच्छ्रिते यूपे”- इति श्रुत्यंतरात् ॥ ६ ॥

Eggeling
  1. Eleven at each of the others;–the Trishṭubh consists of eleven syllables, and the Trishṭubh is the thunderbolt, and vigour: with the thunderbolt,

with vigour, the Sacrificer thus repels evil from about him.

०७

विश्वास-प्रस्तुतिः

(ते ऽष्टा᳘) अष्टा᳘ ऽउत्तमाना᳘लभते॥
(ते ऽष्टा᳘) अष्टा᳘क्षरा गायत्री ब्र᳘ह्म गायत्री तद्ब्र᳘ह्मै᳘वैत᳘दस्य स᳘र्व्वस्योत्तमं᳘ करोति त᳘स्माद्ब्र᳘ह्मास्य स᳘र्व्वस्योत्तममि᳘त्याहुः॥

मूलम् - श्रीधरादि

(ते ऽष्टा᳘) अष्टा᳘ ऽउत्तमाना᳘लभते॥
(ते ऽष्टा᳘) अष्टा᳘क्षरा गायत्री ब्र᳘ह्म गायत्री तद्ब्र᳘ह्मै᳘वैत᳘दस्य स᳘र्व्वस्योत्तमं᳘ करोति त᳘स्माद्ब्र᳘ह्मास्य स᳘र्व्वस्योत्तममि᳘त्याहुः॥

मूलम् - Weber

अष्टा᳘ उत्तमाना᳘लभते॥
अष्टा᳘क्षरा गायत्री ब्र᳘ह्म गायत्री तद्ब्र᳘ह्मैॗवैत᳘दस्य स᳘र्वस्योत्तमं करोति त᳘स्माद्ब्र᳘ह्मास्य स᳘र्वस्योत्तममि᳘त्याहुः॥

मूलम् - विस्वरम्

अष्टा उत्तमानालभते । अष्टाक्षरा गायत्री । ब्रह्म गायत्री । तत् ब्रह्मैवैतदस्य सर्वस्योत्तमं करोति । तस्मात् ब्रह्मास्य सर्वस्योत्तममित्याहुः ॥ ७ ॥

हरिस्वामी

“अष्टौ विरूपानुत्तमानालभते” इति दर्शनार्थः अनुवादः । मागधादयस्तु पूर्वोक्ता एव गुणार्थं पुनः पठिता नापूर्वाः 6 ॥ ७ ॥

Eggeling
  1. Last of all he seizes eight;–the Gāyatrī consists of eight syllables, and the Gāyatrī is the Brahman (n.): he thus makes the Brahman to be the ultimate thing of this universe, whence they say that the Brahman is the ultimate thing of this universe.

०८

विश्वास-प्रस्तुतिः

(स्ते) ते वै᳘ प्राजापत्या᳘ भवन्ति॥
ब्र᳘ह्म वै᳘ प्रजा᳘पतिर्ब्ब्राह्मो हि᳘ प्रजा᳘पतिस्त᳘स्मात्प्राजापत्या᳘ भवन्ति॥

मूलम् - श्रीधरादि

(स्ते) ते वै᳘ प्राजापत्या᳘ भवन्ति॥
ब्र᳘ह्म वै᳘ प्रजा᳘पतिर्ब्ब्राह्मो हि᳘ प्रजा᳘पतिस्त᳘स्मात्प्राजापत्या᳘ भवन्ति॥

मूलम् - Weber

ते वै᳘ प्राजापत्या᳘ भवन्ति॥
ब्र᳘ह्म वै᳘ प्रजा᳘पतिर्ब्राह्मो हि᳘ प्रजा᳘पतिस्त᳘स्मात्प्राजापत्या᳘ भवन्ति॥

मूलम् - विस्वरम्

ते वै प्राजापत्या भवंति । ब्रह्म वै प्रजापतिः । ब्राह्मो हि प्रजापतिः । तस्मात् प्राजापत्या भवंति ॥ ८ ॥

हरिस्वामी

“ते प्राजापत्याः” (वा. सं. ३० । २२) इति मंत्रपाठात् प्राप्तानामनुवादो दर्शनार्थः ॥ ८ ॥

Eggeling
  1. These (eight) are sacred to Prajāpati, Prajāpati assuredly is the Brahman, for Prajāpati is of the nature of the Brahman 7: therefore they are sacred to Prajāpati.

०९

विश्वास-प्रस्तुतिः

स वै᳘ पशू᳘नुपाकरिष्य᳘न्॥
(न्ने) एता᳘स्तिस्रः᳘ सावित्रीरा᳘हुतीर्ज्जुहोति दे᳘व सवितस्त᳘त्सवितुर्व्व᳘रेण्यम्वि᳘श्वानि देव सवितरि᳘ति सविता᳘रम्प्रीणाति᳘ सो ऽस्मै प्रीत᳘ ऽएतान्पुरुषान्प्र᳘सौति[[!!]] ते᳘न प्र᳘सूताना᳘लभते॥

मूलम् - श्रीधरादि

स वै᳘ पशू᳘नुपाकरिष्य᳘न्॥
(न्ने) एता᳘स्तिस्रः᳘ सावित्रीरा᳘हुतीर्ज्जुहोति दे᳘व सवितस्त᳘त्सवितुर्व्व᳘रेण्यम्वि᳘श्वानि देव सवितरि᳘ति सविता᳘रम्प्रीणाति᳘ सो ऽस्मै प्रीत᳘ ऽएतान्पुरुषान्प्र᳘सौति[[!!]] ते᳘न प्र᳘सूताना᳘लभते॥

मूलम् - Weber

स वै᳘ पशू᳘नुपाकरिष्य᳘न्॥
एता᳘स्तिस्रः᳘ सावित्रीरा᳘हुतीर्जुहोति दे᳘व सवितस्त᳘त्सवितुर्व᳘रेण्यम् वि᳘श्वानि देव सवितरि᳘ति सविता᳘रम् प्रीणातिॗ सोऽस्मै प्रीत᳘ एतान्पु᳘रुषान्प्र᳘सौति ते᳘न प्र᳘सूतानालभते॥

मूलम् - विस्वरम्

स वै पशूनुपाकरिष्यन् एतास्तिस्रः सावित्रीराहुतीर्जुहोति । “देव सवितः । तत्सवितुर्वरेण्यम् । विश्वानि देव सवितः”- (वा. सं. ३० । १-३) इति । सवितारं प्रीणाति । सो ऽस्मै प्रीत एतान् पुरुषान् प्रसौति । तेन प्रसूतानालभते ॥ ९ ॥

हरिस्वामी

स वै पशूनुपाकरिष्यन् एतास्तिस्रः 6 सावित्रीराहुतीर्जुहोतीति । “देव सवितः, तत्सवितुर्वरेण्यं, विश्वानि देव सवितः” इति । ताश्चाज्येन जुहोतीति वक्ष्यति (११ कं.) ॥ ९ ॥

Eggeling
  1. When about to bring up the victims, he offers those three oblations to Savitr̥, with (Vāj. S. XXX, 1-3), ‘God Savitr̥, (speed the sacrifice, speed the lord of sacrifice unto his share)!’–‘May we obtain that glorious light of the God Savitr̥, (who shall inspire our prayers)!’–‘All troubles remove thou from us, O God Savitr̥: bestow unto us what is auspicious!’ He thus pleases Savitr̥, and thus pleased with him, he (Savitr̥) impels (speeds) those (sacrificial) men, and he seizes them impelled by that (Savitr̥).

१०

विश्वास-प्रस्तुतिः

ब्ब्र᳘ह्मणे ब्राह्मणमा᳘लभते॥
ब्र᳘ह्म वै᳘ ब्राह्मणो ब्र᳘ह्मैव तद्ब्र᳘ह्मणा स᳘मर्द्धयति क्षत्त्रा᳘य राज᳘न्यं[[!!]] क्षत्त्रम्वै᳘ राज᳘न्यः[[!!]] क्षत्त्र᳘मेव त᳘त्क्षत्त्रे᳘ण स᳘मर्द्धयति मरु᳘द्भ्यो व्वै᳘श्यम्वि᳘शो वै᳘ मरु᳘तो व्वि᳘शमेव त᳘द्विशा स᳘मर्द्धयति त᳘पसे शूद्रन्त᳘पो वै᳘ शूद्रस्त᳘प ऽएव तत्त᳘पसा स᳘मर्द्धयत्येव᳘मेता᳘ देव᳘ता यथारूप᳘म्पशुभिः[[!!]] स᳘मर्द्धयति ता᳘ ऽएनᳫँ᳭ स᳘मृद्धाः स᳘मर्द्धयन्ति स᳘र्व्वैः का᳘मैः॥

मूलम् - श्रीधरादि

ब्ब्र᳘ह्मणे ब्राह्मणमा᳘लभते॥
ब्र᳘ह्म वै᳘ ब्राह्मणो ब्र᳘ह्मैव तद्ब्र᳘ह्मणा स᳘मर्द्धयति क्षत्त्रा᳘य राज᳘न्यं[[!!]] क्षत्त्रम्वै᳘ राज᳘न्यः[[!!]] क्षत्त्र᳘मेव त᳘त्क्षत्त्रे᳘ण स᳘मर्द्धयति मरु᳘द्भ्यो व्वै᳘श्यम्वि᳘शो वै᳘ मरु᳘तो व्वि᳘शमेव त᳘द्विशा स᳘मर्द्धयति त᳘पसे शूद्रन्त᳘पो वै᳘ शूद्रस्त᳘प ऽएव तत्त᳘पसा स᳘मर्द्धयत्येव᳘मेता᳘ देव᳘ता यथारूप᳘म्पशुभिः[[!!]] स᳘मर्द्धयति ता᳘ ऽएनᳫँ᳭ स᳘मृद्धाः स᳘मर्द्धयन्ति स᳘र्व्वैः का᳘मैः॥

मूलम् - Weber

ब्र᳘ह्मणे ब्राह्मणमा᳘लभते॥
ब्र᳘ह्म वै᳘ ब्राह्मणो ब्र᳘ह्मेव तद्ब्र᳘ह्मणा स᳘मर्धयति क्षत्रा᳘य राजन्यं᳘ क्षत्रम् वै᳘ राजन्यः᳘ क्षत्र᳘मेव त᳘त्क्षत्रे᳘ण स᳘मर्धयति मरु᳘द्भ्यो वै᳘श्यम्म् वि᳘शो वै᳘ मरु᳘तो वि᳘शमेव त᳘द्विशा स᳘मर्धयति त᳘पसे शूद्रम् त᳘पो वै᳘ शूद्रस्त᳘प एव तत्त᳘पसा स᳘मर्धयत्येव᳘मेता᳘ देव᳘ता यथारूप᳘म् पशु᳘भिः स᳘मर्धयति ता᳘ एनᳫं स᳘मृद्धाः स᳘मर्धयन्ति स᳘र्वैः का᳘मैः॥

मूलम् - विस्वरम्

“ब्रह्मणे ब्राह्मणम्”- आलभते । ब्रह्म वै ब्राह्मणः । ब्रह्मैव तद् ब्रह्मणा समर्धयति । “क्षत्त्राय राजन्यम् । क्षत्त्रं वै राजन्यः । क्षत्त्रमेव तत्क्षत्त्रेण समर्धयति । “मरुद्भ्यो वैश्यम्” । विशो वै मरुतः । विशमेव तत् विशा समर्धयति । “तपसे शूद्रम्” (वा. सं. ३० । ४) तपो वै शूद्रः । तप एव तत्तपसा समर्धयति । एवमेता देवता यथारूपं पशुभिः समर्धयति । ता एनं समृद्धाः समर्धयंति सर्वैः कामैः ॥ १० ॥

हरिस्वामी

‘ब्रह्मणे ब्राह्मणम्’ यत् ब्रह्म दैवं ब्राह्मणजात्याधिदैवतात्मकं तदनु देवता ब्राह्मणजात्यनुगतस्तु मानुषपिंडपशुः । एवं क्षत्त्रादिष्वपि द्रष्टव्यम् । ब्रह्म वै ब्राह्मण इति । ब्रह्मजातीयो ब्राह्मण इत्यर्थः । ब्रह्मैव तत् आधिदैविकं ब्रह्मणा पशुरूपेण तद्येन समर्द्धयति स्वजातीयेन । तपो वै शूद्रः । “तप संतापे” (धा. पा. भ्वा. प. १०११) तपस्वी कर्मत्वात् नित्यं संतप्त इत्यर्थः । एवमेता देवता इति ब्रुवन् ब्राह्मणादिशरीरे अभिमानिन्यो देवता इति दर्शयति ॥ १० ॥

Eggeling
  1. For the priesthood he seizes a Brāhmaṇa, for the Brāhmaṇa is the priesthood: he thus joins priesthood to priesthood 8;–for the nobility he seizes a Rājanya, for the Rājanya is the nobility: he thus joins nobility to nobility;–for the Maruts (he seizes) a Vaiśya, for the Maruts are the clans (peasants): he thus joins peasantry to peasantry;–

for (religious) toil (he seizes) a Śūdra, for the Śūdra is toil: he thus joins toil to toil;–according to their particular form he thus supplies these divinities with victims, and, thus supplied, they supply him with all his objects of desire.

११

विश्वास-प्रस्तुतिः

(रा᳘) आ᳘ज्येन जुहोति॥
ते᳘जो वा ऽआ᳘ज्यन्ते᳘जसैवा᳘स्मिंस्तत्ते᳘जो दधात्या᳘ज्येन जुहोत्येतद्वै᳘ देवा᳘नाम्प्रियन्धा᳘म यदा᳘ज्यम्प्रिये᳘णै᳘वैनान्धा᳘म्ना स᳘मर्द्धयति त᳘ ऽएनᳫँ᳭ स᳘मृद्धाः स᳘मर्द्धयन्ति स᳘र्व्वैः का᳘मैः॥

मूलम् - श्रीधरादि

(रा᳘) आ᳘ज्येन जुहोति॥
ते᳘जो वा ऽआ᳘ज्यन्ते᳘जसैवा᳘स्मिंस्तत्ते᳘जो दधात्या᳘ज्येन जुहोत्येतद्वै᳘ देवा᳘नाम्प्रियन्धा᳘म यदा᳘ज्यम्प्रिये᳘णै᳘वैनान्धा᳘म्ना स᳘मर्द्धयति त᳘ ऽएनᳫँ᳭ स᳘मृद्धाः स᳘मर्द्धयन्ति स᳘र्व्वैः का᳘मैः॥

मूलम् - Weber

आ᳘ज्येन जुहोति॥
ते᳘जो वा आ᳘ज्यम् ते᳘जसैवा᳘स्मिंस्तत्ते᳘जो दधात्या᳘ज्येन जुहोत्येतद्वै᳘ देवा᳘नाम् प्रियं धा᳘म यदा᳘ज्यम् प्रिये᳘णैॗवैनान्धा᳘म्ना स᳘मर्धयति त᳘ एनᳫं स᳘मृद्धाः स᳘मर्धयन्ति स᳘र्वैः का᳘मैः॥

मूलम् - विस्वरम्

आज्येन जुहोति । तेजो वा आज्यम् । तेजसैवास्मिन् तत् तेजो दधाति । आज्येन जुहोति । एतद्वै देवानां प्रियं धाम- यदाज्यम् । प्रियेणैवैनान् धाम्ना समर्धयति । त एनं समृद्धाः समर्धयंति सर्वैः कामैः ॥ ११ ॥

हरिस्वामी

आज्येन जुहोति । यास्तिस्रः सावित्रीर्जुहोति ता आज्येन ॥ ११ ॥

Eggeling
  1. He makes offering with ghee, for ghee is fiery mettle: by means of fiery mettle he thus endows him (the Sacrificer) with fiery mettle. He makes offering with ghee, for that–to wit, ghee–is the dear resource of the gods: he thus supplies them with their dear resource, and, thus supplied, they supply him with all his objects of desire.

१२

विश्वास-प्रस्तुतिः

(र्न्नि᳘) नि᳘युक्तान्पु᳘रुषान्॥
ब्रह्मा᳘ दक्षिणतः पु᳘रुषेण नारायणे᳘नाभि᳘ष्टौति[[!!]] सह᳘स्रशीर्षा पु᳘रुषः सहस्राक्षः᳘ सह᳘स्रपादि᳘त्येते᳘न षोडशर्च्चे᳘न षो᳘डशकलम्वा᳘ ऽइदᳫँ᳭ स᳘र्व्वᳫँ᳭ स᳘र्व्वम्पुरुषमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्या ऽइत्थ᳘मसीत्थ᳘मसीत्यु᳘पस्तौत्ये᳘वैनमेत᳘न्मह᳘यत्येवा᳘थो य᳘थैष त᳘थैनमेत᳘दाह तत्प᳘र्य्यग्निकृताः पश᳘वो बभूवुर᳘संज्ञप्ताः॥

मूलम् - श्रीधरादि

(र्न्नि᳘) नि᳘युक्तान्पु᳘रुषान्॥
ब्रह्मा᳘ दक्षिणतः पु᳘रुषेण नारायणे᳘नाभि᳘ष्टौति[[!!]] सह᳘स्रशीर्षा पु᳘रुषः सहस्राक्षः᳘ सह᳘स्रपादि᳘त्येते᳘न षोडशर्च्चे᳘न षो᳘डशकलम्वा᳘ ऽइदᳫँ᳭ स᳘र्व्वᳫँ᳭ स᳘र्व्वम्पुरुषमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्या ऽइत्थ᳘मसीत्थ᳘मसीत्यु᳘पस्तौत्ये᳘वैनमेत᳘न्मह᳘यत्येवा᳘थो य᳘थैष त᳘थैनमेत᳘दाह तत्प᳘र्य्यग्निकृताः पश᳘वो बभूवुर᳘संज्ञप्ताः॥

मूलम् - Weber

नि᳘युक्तान्पु᳘रुषान्॥
ब्रह्मा᳘ दक्षिणतः पु᳘रुषेण नारायणे᳘नाभिष्टौ᳘ति सह᳘स्रशीर्षा पु᳘रुषः सहस्राक्षः᳘ सह᳘स्रपादि᳘त्येते᳘न षोडशर्चे᳘न षो᳘डशकलम् वा᳘ इदᳫं स᳘र्वᳫं स᳘र्वम् पुरुषमेधः स᳘र्वस्या᳘प्त्यै स᳘र्वस्या᳘वरुद्ध्या इत्थ᳘मसीत्थ᳘मसीत्यु᳘पस्तौत्येॗवैनमेत᳘न्मह᳘यत्येवा᳘थो य᳘थैष त᳘थैनमेत᳘दाह तत्प᳘र्यग्निकृताः पश᳘वो बभूवुर᳘सञ्ज्ञप्ताः॥

मूलम् - विस्वरम्

नियुक्तान् पुरुषान् ब्रह्मा दक्षिणतः पुरुषेण नारायणेन अभिष्टौति- “सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्”- (वा. सं. ३१ । १-१६) इत्येतेन षोडशर्चेन । षोडशकलं वा इदं सर्वम् । सर्वं पुरुषमेधः । सर्वस्याप्त्यै । सर्वस्यावरुद्ध्यै । इत्थमसीत्थमसीत्युपस्तौत्येवैनमेतन्महयत्येव । अथो यथैष तथैनमेतदाह । तत्पर्यग्निकृताः पशवो बभूवुः असंज्ञप्ताः ॥ १२ ॥

हरिस्वामी

नियुक्तान् 9 पुरुषान् । नारायणेन पुरुषाः स्तोतुं शक्यते कथं ? “सहस्रशीर्षा पुरुषः " (वा. सं. ३१ । १-१६) इत्यनेन नारायणेन सूक्तेन पुरुषपशवो ऽभिष्टोतुं शक्यंते । उच्यते नारायणः एतेन सूक्तेन साक्षात् स्तूयते सर्वभावायावयवशः । तत्र च पुरुषपशूनां तादात्म्यं गम्यते । “पुरुष एवेदं सर्वं” “पशूंस्तांश्चक्रे” “ब्राह्मणो ऽस्य मुखमासीत्” इत्यादिवचनैः । ततश्च अनेन सूक्तेन नारायणाभिष्टवद्वारेणैव तदात्मानः तदभिजना वा पुरुषाः पशवः अभिष्ट्यंते इत्युपपन्नमेतत् । पुरुषेण नारायणेनाभिजनान्पुरुषानभिष्टौतीति । अन्ये तु मन्यन्ते नारायणार्थं सूक्तमेवेदं नारायणम् । ततश्चायमर्थः- “सहस्रशीर्षा पुरुषः” इत्यनेन सूक्तेन पुरुषेण नारायणेनाभिष्टौति । तत्र अपि तु दर्शने प्रकृतिभूमिमभित एव पुरुषाणामयमभिष्टव इति वाच्यम् । इत्थमसीत्थमसीत्युपस्तौत्येवैनमेतन्महयत्येव तु प्रथमव्याख्याने समर्थं भवति । इत्थमेव अभिभवसि सहस्रशिराः सहस्राक्षः भवति भूमिं सर्वतः स्पृत्वा दशांगुलमतितिष्ठसि । इत्यादि कर्म तत्तत् उपन्यस्य स्तौति नारायणं एतत् । एतेन सूक्तेन महयत्येव पूजयति । केनचित् वृत्तिसामान्येन “सिंहो देवदत्त” इत्यादिवत् गौणाः सहस्रशीर्षादिशब्दाः प्रयुज्यंते इत्यर्थः । एतत्तावत् तार्किकदृष्ट्यनुगतं सूक्तस्य संक्षेपेण व्याख्यानम् । अधुना व्युत्पादनदृष्ट्या अनुगतमाह यथैवैषः । परमार्थत एव भगवान्नारायणः “सहस्रशीर्षा” इत्यादि पशुर्वे वपनं (?) नारायणमेतदाह । यथा च यास्क आह “अपि वा संप्रत्यय एव स्यान्महाभाग्यात् देवतायाः” (निरु.) इति । ततश्चेत्थमसीति प्रत्यक्षमिव नारायणं सूक्ते अभिधेयं दर्शयति । “अत्यतिष्ठत्” इत्यादिवचनं परोक्षवदुच्यते । तत्र कथमेतत्सूक्तं सूक्तार्थवचनं स्यात् । उच्यते एतस्मादेवाविरोधात् पुरुषव्यत्ययो ऽत्र दृष्टव्यः । इत्थमसि नारायण इति । तत्पर्यग्निकृताः । यदा नारायणः पुरुषमेधेनायजत तदा पर्यग्निकृतेषु पुरुषपशुषु ॥ १२ ॥

Eggeling
  1. By means of the Purusha Nārāyaṇa (litany), the Brahman priest (seated) to the right (south) of them, praises the men bound (to the stakes) with this sixteen-versed (hymn, R̥g-v. X, 90, Vāj. S. XXXI, 1-16), ‘The thousand-headed Purusha, thousand-eyed, thousand-footed 10 . . .;’–thus (he does) for the obtainment and the securing of everything, for everything here consists of sixteen parts, and the Purushamedha is everything: in thus saying, ‘So and so thou art, so and so thou art,’ he praises and thereby indeed magnifies him (Purusha); but he also thereby speaks of him, such as he is. Now, the victims had had the fire carried round them, but they were not yet slaughtered,–

१३

विश्वास-प्रस्तुतिः

(ऽ) अ᳘थ हैनम्वा᳘ग᳘भ्युवाद॥
पु᳘रुष मा स᳘न्तिष्ठिपो य᳘दि सᳫँ᳭स्थापयिष्य᳘सि पुरुष ऽएव[[!!]] पु᳘रुषमत्स्यती᳘ति तान्प᳘र्य्यग्निकृतानेवो᳘दसृजत्तद्देव᳘त्या ऽआ᳘हुतीरजुहोत्ता᳘भिस्ता᳘ देव᳘ता ऽअप्रीणात्ता᳘ ऽएनम्प्रीता᳘ ऽअप्रीणन्त्स᳘र्व्वः का᳘मैः॥

मूलम् - श्रीधरादि

(ऽ) अ᳘थ हैनम्वा᳘ग᳘भ्युवाद॥
पु᳘रुष मा स᳘न्तिष्ठिपो य᳘दि सᳫँ᳭स्थापयिष्य᳘सि पुरुष ऽएव[[!!]] पु᳘रुषमत्स्यती᳘ति तान्प᳘र्य्यग्निकृतानेवो᳘दसृजत्तद्देव᳘त्या ऽआ᳘हुतीरजुहोत्ता᳘भिस्ता᳘ देव᳘ता ऽअप्रीणात्ता᳘ ऽएनम्प्रीता᳘ ऽअप्रीणन्त्स᳘र्व्वः का᳘मैः॥

मूलम् - Weber

अ᳘थ हैनम् वा᳘गॗभ्युवाद॥
पु᳘रुष मा स᳘न्तिष्ठिपो य᳘दि संस्थापयिष्य᳘सि पु᳘रुष एव पु᳘रुषमत्स्यती᳘ति तान्प᳘र्यग्निकृतानेवो᳘दसृजत्तद्देव᳘त्या आ᳘हुतीरजुहोत्ता᳘भिस्ता᳘ देव᳘ता अप्रीणात्ता᳘ एनम् प्रीता᳘ अप्रीणन्त्स᳘र्वैः का᳘मैः॥

मूलम् - विस्वरम्

अथ हैनं वागभ्युवाद । पुरुष मा सन्तिष्ठिपः । यदि संस्थापयिष्यसि । पुरुष एव पुरुषमत्स्यतीति । तान् पर्यग्निकृतानेवोदसृजत् । तद्देवत्या आहुतीरजुहोत् । ताभिस्ता देवता अप्रीणात् । ता एनं प्रीता अप्रीणन् सर्वैः कामैः ॥ १३ ॥

हरिस्वामी

एनं नारायणं अशरीरा वाक् उक्तवती पुरुष ! एतान् पुरुषपशून् मा संतिष्ठिपः उदङ्निनयनादिकान्यंगानि एषां मा कृथा इत्यर्थः । यदि संस्थापयिष्यसि । ततः शेषभक्षानुकारेण लोके ऽपि पुरुषः पुरुषं भक्षयिष्यति । तच्चायुक्तमित्यभिप्रायः । तान्पर्यग्निकृतानेवोदसृजदित्यादि एवमुपसंहर्तव्यम् । तानेतान् पर्यग्निकृतानेवोत्सृजति 11 । तद्देवत्या 12 आहुतीर्जुहोति इत्यादि याश्च तद्देवत्या आहुतयः ताः आज्येन जुहोति स्विष्टकृद्वनस्पत्यंतरे जुहोतीत्येवं तु वचनांतरात् ॥ १३ ॥ १४ ॥

Eggeling
  1. Then a voice 13 said to him, ‘Purusha, do not

consummate (these human victims 14): if thou wert to consummate them, man (purusha) would eat man.’ Accordingly, as soon as fire had been carried round them, he set them free, and offered oblations to the same divinities 15, and thereby gratified those divinities, and, thus gratified, they, gratified him with all objects of desire.

१४

विश्वास-प्रस्तुतिः

(रा᳘) आ᳘ज्येन जुहोति॥
ते᳘जो वा ऽआ᳘ज्यन्ते᳘जसै᳘वास्मिंस्तत्ते᳘जो दधाति॥

मूलम् - श्रीधरादि

(रा᳘) आ᳘ज्येन जुहोति॥
ते᳘जो वा ऽआ᳘ज्यन्ते᳘जसै᳘वास्मिंस्तत्ते᳘जो दधाति॥

मूलम् - Weber

आ᳘ज्येन जुहोति॥
ते᳘जो वा आ᳘ज्यं ते᳘जसैॗवास्मिंस्तत्ते᳘जो दधाति॥

मूलम् - विस्वरम्

आज्येन जुहोति । तेजो वा आज्यम् । तेजसैवास्मिन् तत्तेजो दधाति ॥ १४ ॥

हरिस्वामी

[व्याख्यानं त्रयोदशे]

Eggeling
  1. He makes offering with ghee, for ghee is fiery mettle: with fiery mettle he thus bestows fiery mettle upon him.

१५

विश्वास-प्रस्तुतिः

(त्यै᳘) एकादशिनैः स᳘ᳫँ᳘स्थापयति॥
(त्ये᳘) ए᳘कादशाक्षरा त्रिष्टुब्व᳘ज्ज्रस्त्रिष्टु᳘ब्वीर्य्यन्त्रिष्टुब्ञ्ज्ज्रेणै᳘वैत᳘द्वी᳘र्य्येण य᳘जमानः पाप्मा᳘नम᳘पहते॥

मूलम् - श्रीधरादि

(त्यै᳘) एकादशिनैः स᳘ᳫँ᳘स्थापयति॥
(त्ये᳘) ए᳘कादशाक्षरा त्रिष्टुब्व᳘ज्ज्रस्त्रिष्टु᳘ब्वीर्य्यन्त्रिष्टुब्ञ्ज्ज्रेणै᳘वैत᳘द्वी᳘र्य्येण य᳘जमानः पाप्मा᳘नम᳘पहते॥

मूलम् - Weber

एकादशिनैः स᳘ᳫं᳘स्थापयति॥
ए᳘कादशाक्षरा त्रिष्टुब्व᳘ज्रस्त्रिष्टु᳘ब्वीर्यं᳘ त्रिष्टुब्व᳘ज्रेणैॗवैत᳘द्वीॗर्येण य᳘जमानो मध्यतः᳘ पाप्मा᳘नम᳘पहते॥

मूलम् - विस्वरम्

ऐकादशिनैः संस्थापयति । एकादशाक्षरा त्रिष्टुप् । वज्रस्त्रिष्टुप् । वीर्यं त्रिष्टुप् । वज्रेणैवैतद्वीर्येण यजमानः पाप्मानमपहते ॥ १५ ॥

हरिस्वामी

ऐकादशिनैः पशुभिः यथाप्रकृति पाशुकं कर्म समापयतीत्यनुवादः । तत्र पर्यग्निकरणांतः अयं विध्यभावात् ॥ १५ ॥

Eggeling
  1. He concludes with those of the set of eleven (stakes),–the Trishṭubh consists of eleven syllables, and the Trishṭubh is the thunderbolt, and vigour: with the thunderbolt, with vigour, the Sacrificer thus repels evil from within.

१६

विश्वास-प्रस्तुतिः

(त ऽउ) उदयनी᳘यायाᳫँ᳭ स᳘ᳫँ᳘स्थितायाम्॥
(मे᳘) ए᳘कादश व्वशा᳘ ऽअनूब᳘न्ध्या ऽआ᳘लभते मैत्रावरुणी᳘र्व्वैश्वदेवी᳘र्बार्हस्पत्या᳘ ऽएता᳘सान्देव᳘तानामा᳘प्त्यै तद्य᳘द्बार्हस्पत्या ऽअ᳘न्त्या भ᳘वन्ति ब्र᳘ह्म वै बृ᳘हस्प᳘तिस्त᳘दु ब्र᳘ह्मण्ये᳘वान्ततः प्र᳘तितिष्ठति॥

मूलम् - श्रीधरादि

(त ऽउ) उदयनी᳘यायाᳫँ᳭ स᳘ᳫँ᳘स्थितायाम्॥
(मे᳘) ए᳘कादश व्वशा᳘ ऽअनूब᳘न्ध्या ऽआ᳘लभते मैत्रावरुणी᳘र्व्वैश्वदेवी᳘र्बार्हस्पत्या᳘ ऽएता᳘सान्देव᳘तानामा᳘प्त्यै तद्य᳘द्बार्हस्पत्या ऽअ᳘न्त्या भ᳘वन्ति ब्र᳘ह्म वै बृ᳘हस्प᳘तिस्त᳘दु ब्र᳘ह्मण्ये᳘वान्ततः प्र᳘तितिष्ठति॥

मूलम् - Weber

उदयनी᳘यायाᳫं स᳘ᳫं᳘स्थितायाम्॥
ए᳘कादश वशा᳘ अनूब᳘न्ध्या आ᳘लभते मैत्रावरुणी᳘र्वैश्वदेवी᳘र्बार्हस्पत्या᳘ एता᳘सां देव् अ᳘तानामा᳘प्त्यै तद्य᳘द्बार्हस्पत्या अ᳘न्त्या भ᳘वन्ति ब्र᳘ह्म वै बृ᳘हस्प᳘तिस्त᳘दु ब्र᳘ह्मण्येॗवान्ततः प्र᳘तितिष्ठति॥

मूलम् - विस्वरम्

उदयनीयायां संस्थितायाम्, एकादश वशा अनूबंध्या आलभते- मैत्रावरुणीः, वैश्वदेवीः, बार्हस्पत्याः । एतासां देवतानामाप्त्यै । तत् यत् बार्हस्पत्या अंत्या भवंति । ब्रह्म वै बृहस्पतिः । तत् उ ब्रह्मण्येवांततः प्रतितिष्ठति ॥ १६ ॥

हरिस्वामी

उदयनीयायां संस्थितायां प्रतिदैवतं 11 तिस्रस्तिस्र इति पूर्वयोः समो विभागः । उत्तमायां तु पंच ॥ १६ ॥

Eggeling
  1. The Udayanīyā (concluding oblation) having been completed, he seizes eleven barren cows, sacred to Mitra-Varuṇa, the Viśve Devāḥ, and Br̥haspati 16, with the view of winning these deities. And as to those of Br̥haspati being last,–Br̥haspati truly is the Brahman (n.), and thus he finally establishes himself in the Brahman.

१७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ यदे᳘कादश भ᳘वन्ति॥
(न्त्ये᳘) ए᳘कादशाक्षरा त्रिष्टुब्व᳘ज्ज्रस्त्रिष्टुब्वीर्य्यन्त्रिष्टुब्व᳘ज्ज्रेणै᳘वैत᳘द्वी᳘र्य्येण[[!!]] य᳘जमानो᳘ न्त᳘तः पाप्मा᳘नम᳘पहते त्रैधात᳘व्युदवसानी᳘या ऽसा᳘वेव ब᳘न्धुः॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ यदे᳘कादश भ᳘वन्ति॥
(न्त्ये᳘) ए᳘कादशाक्षरा त्रिष्टुब्व᳘ज्ज्रस्त्रिष्टुब्वीर्य्यन्त्रिष्टुब्व᳘ज्ज्रेणै᳘वैत᳘द्वी᳘र्य्येण[[!!]] य᳘जमानो᳘ न्त᳘तः पाप्मा᳘नम᳘पहते त्रैधात᳘व्युदवसानी᳘या ऽसा᳘वेव ब᳘न्धुः॥

मूलम् - Weber

अ᳘थ वदे᳘कादश भ᳘वन्ति॥
ए᳘कादशाक्षरा त्रिष्टुब्व᳘ज्रस्त्रिष्टु᳘ब्वीर्यं᳘ त्रिष्टुब्व᳘ज्रेणैॗवैत᳘द्वीॗर्येण य᳘जमानो मध्यतः᳘ पाप्मा᳘नम᳘पहते त्रैधातॗव्युदवसानी᳘यासा᳘वेव ब᳘न्धुः॥

मूलम् - विस्वरम्

अथ यदेकादश भवंति । एकादशाक्षरा त्रिष्टुप् । वज्रस्त्रिष्टुप् । वीर्यं त्रिष्टुप् । वज्रेणैवैतद्वीर्येण यजमानो ऽन्ततः पाप्मानमपहते । त्रैधातव्युदवसानीया । असावेव बंधुः ॥ १७ ॥

हरिस्वामी

एकादशसंख्यापूरणार्थः ॥ १७-१९ ॥

Eggeling
  1. And as to why there are eleven of them,–the Trishṭubh consists of eleven syllables, and the Trishṭubh is the thunderbolt, and vigour: with the thunderbolt, with vigour, the Sacrificer thus repels evil from within. The Traidhātavī is the final offering (Udavasānīyā): the mystic import is the same (as before 17).

१८

विश्वास-प्रस्तुतिः

(र) अथा᳘तो द᳘क्षिणानाम्॥
(म्म᳘) म᳘ध्यम्प्र᳘ति रा᳘ष्ट्रस्य[[!!]] य᳘दन्यद्भू᳘मेश्च ब्राह्मण᳘स्य च वित्तात्स᳘त्पुरुषम्प्रा᳘ची दिग्घो᳘तुर्द्द᳘क्षिणा ब्रह्म᳘णः प्रती᳘च्यध्वर्य्योरु᳘दीच्युद्गातुस्त᳘देव हो᳘तृका ऽअन्वा᳘भक्ताः॥

मूलम् - श्रीधरादि

(र) अथा᳘तो द᳘क्षिणानाम्॥
(म्म᳘) म᳘ध्यम्प्र᳘ति रा᳘ष्ट्रस्य[[!!]] य᳘दन्यद्भू᳘मेश्च ब्राह्मण᳘स्य च वित्तात्स᳘त्पुरुषम्प्रा᳘ची दिग्घो᳘तुर्द्द᳘क्षिणा ब्रह्म᳘णः प्रती᳘च्यध्वर्य्योरु᳘दीच्युद्गातुस्त᳘देव हो᳘तृका ऽअन्वा᳘भक्ताः॥

मूलम् - Weber

अथा᳘तो द᳘क्षिणानाम्॥
म᳘ध्यम् प्र᳘ति राष्ट्र᳘स्य य᳘दन्यद्भू᳘मेश्च ब्राह्मण᳘स्य च वित्तात्स᳘त्पुरुषम् प्रा᳘ची दिग्घो᳘र्तुद᳘क्षिणा ब्रह्म᳘णः प्रती᳘च्यध्वर्योरु᳘दीच्युद्गातुस्तदेव हो᳘तृका अन्वा᳘भक्ताः॥

मूलम् - विस्वरम्

अथातो दक्षिणानाम् 18 । मध्यं प्रति राष्ट्रस्य । यदन्यत् भूमेश्च, ब्राह्मणस्य च वित्तात्, सपुरुषम् । प्राची दिग् होतुः दक्षिणा ब्रह्मणः । प्रतीच्यध्वर्योः । उदीच्युद्गातुः । तदेव होतृका अन्वाभक्ताः ॥ १८ ॥

हरिस्वामी

[व्याख्यानं सप्तदशे]

Eggeling
  1. Now as to the sacrificial fees. What there is towards the middle of the kingdom other than the land and the property of the Brāhmaṇa, but including the men, of that the eastern quarter belongs to the Hotr̥, the southern to the Brahman, the western to the Adhvaryu, and the northern to the Udgātr̥; and the Hotr̥kas share this along with them.

१९

विश्वास-प्रस्तुतिः

(ऽ) अ᳘थ य᳘दि ब्राह्मणो य᳘जेत॥
सर्व्ववेदस᳘न्दद्यात्स᳘र्व्वम्वै᳘ ब्राह्मणः स᳘र्व्वᳫँ᳭ सर्व्ववेदसᳫँ᳭ स᳘र्व्वम्पुरुषमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै॥

मूलम् - श्रीधरादि

(ऽ) अ᳘थ य᳘दि ब्राह्मणो य᳘जेत॥
सर्व्ववेदस᳘न्दद्यात्स᳘र्व्वम्वै᳘ ब्राह्मणः स᳘र्व्वᳫँ᳭ सर्व्ववेदसᳫँ᳭ स᳘र्व्वम्पुरुषमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै॥

मूलम् - Weber

अ᳘थ य᳘दि ब्राह्मणो य᳘जेत्॥
सर्ववेदसं᳘ दद्यात्स᳘र्वम् वै᳘ ब्राह्मणः स᳘र्वᳫं सर्ववेदसᳫं स᳘र्वम् पुरुषमेधः स᳘र्वस्या᳘प्त्यै स᳘र्वस्या᳘वरुद्ध्यै॥

मूलम् - विस्वरम्

अथ यदि ब्राह्मणो यजेत । सर्ववेदसं 18 दद्यात् । सर्वं वै ब्राह्मणः । सर्वं सर्ववेदसम् । सर्वं पुरुषमेधः । सर्वस्याप्त्यै । सर्वस्यावरुद्ध्यै ॥ १९ ॥

हरिस्वामी

[व्याख्यानं सप्तदशे]

Eggeling
  1. And if a Brāhmaṇa performs the sacrifice, he should bestow all his property in order to obtain and secure everything, for the Brāhmaṇa is everything, and all one’s property is everything, and the Purushamedha is everything.

२०

विश्वास-प्रस्तुतिः

(द्ध्या ऽअ᳘) अ᳘थात्म᳘न्नग्नी᳘ समारो᳘ह्य॥
(ह्यो) उत्तरनारायणे᳘नादित्य᳘मुपस्थाया᳘नपेक्षमाणो᳘ ऽरण्यमभिप्रे᳘यात्त᳘देव᳘ मनु᳘ष्येभ्यस्तिरो᳘भवति य᳘द्यु ग्रामे[[!!]] व्वि᳘वत्सेदर᳘ण्योरग्नी᳘ समारो᳘ह्योत्तरनारायणे᳘नै᳘वादित्य᳘मुपस्था᳘य गृहे᳘षु प्रत्य᳘वस्येद᳘थ ता᳘न्यज्ञक्रतूना᳘हरेत या᳘नभ्याप्नुयात्स वा᳘ ऽएष न स᳘र्व्वस्मा ऽअनुवक्त᳘व्यः स᳘र्व्वᳫँ᳭ हि᳘ पुरुषमेधो नेत्स᳘र्व्वस्मा ऽइव स᳘र्व्वम्ब्र᳘वाणी᳘ति यो᳘ ऽन्वेव᳘ ज्ञातस्त᳘स्मै ब्रूयाद᳘थ᳘ यो ऽनूचानो᳘ ऽथ᳘ यो ऽस्य प्रियः स्यान्नै᳘त्त्वेव स᳘र्व्वस्मा ऽइव॥

मूलम् - श्रीधरादि

(द्ध्या ऽअ᳘) अ᳘थात्म᳘न्नग्नी᳘ समारो᳘ह्य॥
(ह्यो) उत्तरनारायणे᳘नादित्य᳘मुपस्थाया᳘नपेक्षमाणो᳘ ऽरण्यमभिप्रे᳘यात्त᳘देव᳘ मनु᳘ष्येभ्यस्तिरो᳘भवति य᳘द्यु ग्रामे[[!!]] व्वि᳘वत्सेदर᳘ण्योरग्नी᳘ समारो᳘ह्योत्तरनारायणे᳘नै᳘वादित्य᳘मुपस्था᳘य गृहे᳘षु प्रत्य᳘वस्येद᳘थ ता᳘न्यज्ञक्रतूना᳘हरेत या᳘नभ्याप्नुयात्स वा᳘ ऽएष न स᳘र्व्वस्मा ऽअनुवक्त᳘व्यः स᳘र्व्वᳫँ᳭ हि᳘ पुरुषमेधो नेत्स᳘र्व्वस्मा ऽइव स᳘र्व्वम्ब्र᳘वाणी᳘ति यो᳘ ऽन्वेव᳘ ज्ञातस्त᳘स्मै ब्रूयाद᳘थ᳘ यो ऽनूचानो᳘ ऽथ᳘ यो ऽस्य प्रियः स्यान्नै᳘त्त्वेव स᳘र्व्वस्मा ऽइव॥

मूलम् - Weber

अ᳘थात्म᳘न्नग्नी᳘ समारो᳘ह्य ॥
उत्तरनारायणे᳘नादित्य᳘मुदस्थाया᳘नपेक्षमाणो᳘ऽरण्यमभिप्रे᳘यात्त᳘देव᳘ मनुॗष्येभ्यस्तिरो᳘ भवति य᳘द्यु ग्रा᳘मे वि᳘वत्सेदर᳘ण्योरग्नी᳘ समारो᳘ह्योत्तरनारायणे᳘नैॗवादित्य᳘मुपस्था᳘य 19 गृहे᳘षु प्रत्य᳘वस्येद᳘थ ता᳘न्यज्ञक्रतूना᳘हरेत या᳘नभ्याप्नुयात्स वा᳘ एष न स᳘र्वस्मा अनुवक्त᳘व्यः स᳘र्वᳫं हि᳘ पुरुषमेधो नेत्स᳘र्वस्माऽइव स᳘र्वम् ब्र᳘वाणी᳘ति योॗ न्वेव᳘ ज्ञातस्त᳘स्मै ब्रूयाद᳘थॗ योऽनूचानो᳘ऽथॗ योऽस्य प्रियः स्यान्नैॗत्त्वेव स᳘र्वस्मा इव॥

मूलम् - विस्वरम्

अथात्मन्नग्नी समारोह्य, उत्तरनारायणेनादित्यमुपस्थाय, अनपेक्षमाणो ऽरण्यमभिप्रेयात् । तदेव मनुष्येभ्यस्तिरोभवति । यद्यु ग्रामे विवत्सेत् । अरण्योरग्नी समारोह्य उत्तरनारायणेनैवादित्यमुपस्थाय । गृहेषु प्रत्यवस्येत् । अथ तान् यज्ञक्रतूनाहरेत । यानभ्याप्नुयात् । स वा एष न सर्वस्मा अनुवक्तव्यः । सर्वं हि पुरुषमेधः । नेत् सर्वस्मा इव सर्वं ब्रवाणीति । यो ऽन्वेव ज्ञातः । तस्मै ब्रूयात् । अथ यो ऽनूचानः । अथ यो ऽस्य प्रियः स्यात् । नेत्त्वेव सर्वस्मा इव ॥ २० ॥

इति पुरुषमेधः ।

हरिस्वामी

अथात्मन्नग्नी 18 समारोह्य आत्मनि शरीरे, अग्नी समारोप्य “अयं ते योनिः”- (वा. सं. ३ । १४) इति मंत्रेण ऊष्माणं आस्ये, कोष्ठे वा आवेश्य । उत्तरनारायणेन नारायणार्थः “अद्भ्यः संभृतः” (वा. सं. ३१ । १७-२२) इत्यनुवाको नारायणः । स पूर्वस्मान्नारायणादुत्तर इत्युत्तरनारायणः । तेनादित्यमुपस्थाय अनपेक्षमाणः अरण्यं गच्छेत् । तदेव तत्रैव मनुष्येभ्यस्तिरोभवति अंतर्द्धीयते । ग्रामं 20 न पुनः प्रविशति । वन एव वैखानसवृत्तेन वर्तत इत्यर्थः । स वा एष न सर्वस्मै । ज्ञातप्रियानूचानेभ्य एव पुरुषमेधो ग्रंथतश्चार्थतश्चानुवक्तव्यो हिरण्यगर्भलक्षणः । ततः प्रागवस्थाभ्यः पुरुषार्थः अयं प्रतिषेधः ॥ २० ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे काण्डे षष्ठे ऽध्याये द्वितीयं ब्राह्मणम् ॥ (१३ । ६ । २) ॥

नागस्वामिसुतो ऽवन्त्यां पाराशर्यो वसन्हरिः । श्रुत्यर्थं दर्शयामास शक्तितः पौष्करीयकः ॥ १ ॥

श्रीमतो ऽवन्तिनाथस्य विक्रमार्कस्य भूपतेः । धर्माध्यक्षो हरिस्वामी व्याख्यच्छातपथीं श्रुतिम् ॥ २ ॥

भूभर्त्रा विक्रमार्केण क्लृप्तां कनकवेदिकाम् । दानायाध्यास्य कृतवान् श्रुत्यर्थविवृतिं हरिः ॥ ३ ॥

इति श्रीसर्वविद्यानिधानकवीन्द्राचार्यसरस्वतीनां श्रीहरिस्वामिनां कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे काण्डे षष्ठो ऽध्यायः समाप्तः ॥ (१३-६) ॥

Eggeling
  1. And having taken up the two fires within his own self 21, and worshipped the sun with the Uttara-Nārāyaṇa (litany, viz. Vāj. S. XXXI, 17-22), let him betake himself to the forest without looking round; and that (place), indeed, is apart from men. But should he wish to live in the village, let him take up again the two fires in the churning-sticks, and having worshipped the sun with the Uttara-Nārāyaṇa (litany) let him dwell at his home, and let him offer such sacrifices as he may

be able to afford. But, indeed, this (sacrifice) is not to be imparted to any and every one, lest one should impart everything to any and every one, for the Purushamedha is everything; but one may only impart it to one who is known to him, and who is versed in sacred writ, and who may be dear to him, but not to any and every one.

II. 1. To colour a devoted adherent–2. To strength a giver of gifts–3. To excrescences 22 hunchback–4. To merriment a dwarf–5. To the doors a lame one 23–6. To sleep a blind one–7. To injustice a deaf one–8. To the means of purification (? purging) a physician–9. To knowledge a star-gazer–10. To desire of learning one who asks questions–11. To the desire of adding to one’s knowledge one given to ask questions about (everything).

III. 1. To the bounds (of land or propriety) an arbitrator–2. To ruins an elephant-keeper–3. To speed a groom–4. To thrift a cowherd–5. To vigour a shepherd–6. To fiery mettle a goatherd–7. To refreshment (? food) a cultivator of the soil–8. To the sweet beverage (? nectar) the distiller of liquor–9. To happiness the guardian of a house–10. To prosperity a possessor of wealth–11. To superintendence an assistant doorkeeper 24.

IV. 1. To the light a gatherer of fire-wood–2: To brilliance

V. 1. To manslaughter an informer–2. To discrimination a doorkeeper–3. To oversight an assistant doorkeeper 25–4. To strength (cf. II, 2) an attendant–5. To plenty a servant–6. To the pleasant one speaking pleasantly–7. To security one mounted on a horse–8. To heaven (svarga loka) a dealer out of portions (cf. IV, 5)–9. To the highest heaven a distributer (of portions; cf. IV, 4)–10. To wrath one who makes iron red-hot–11. To anger an absconder (? a yielder, coward).

VI. 1. To application a yoker–2. To grief one ready to attack–3. To peaceful dwelling an unyoker–4. To up-hills and down-hills one standing on three legs (of firm character)–5. To bodily form a haughty one (?)–6. To virtue a woman who prepares unguents–7. To calamity (cf. I, 44) a woman who makes scabbards–8. To Yama (the god of death) a barren woman–9. To Yama 26 one who bears twins–10. To Atharvan one who has miscarried–11. To the saṁvatsara (the first year of the five years’ cycle) one in her courses.

VII. 1. To the parivatsara (the second year) tine who has not yet borne children–2. To the idāvatsara (the third year) one who transgresses (the matrimonial bonds)–3. To the idvatsara (the fourth year) one who oversteps (the bounds of propriety)–4. To the vatsara (the fifth year) one who is worn out–5. To the year a gray-haired one–6. To the R̥bhus a furrier–7. To the Sādhyas a tanner–8. To the lakes a fisherman (dhaivara)–9. To stagnant (waters) a boatsman–10. To pools a Bainda 27–11. To reed-marshes one living on dried meat (or fish).

IX. 1. To the latter part of the evening one exhausted–2. To all beings (spirits) a leper (sidhmala)–3. To good fortune a wakeful one–4. To ill-fortune a sleepy one–5. To trouble (cf. I, 43) a newsmonger–6. To adversity a spiritless one–7. To collapse a waster 28–8. To the king of dice a gambler (cf. I, 37)–9. To the Kr̥ta (-die) one who takes advantage of mistakes in the game 29–10. To the Tretā (-die) one who plays on a (regular) plan 30–11. To the Dvāpara (-die) one who plans to over-reach 30 (his fellow-player).

X. 1. To the Āskanda 31 (-die) a post of the gaming-room 32–2. (cf. I, 29) one who ‘approaches’ a cow–3. To the end (antaka, cf. I, 30) a cow-slayer–4. To hunger one who goes begging of one cutting up a cow–5. To evil-doing a Caraka-teacher–6. To evil (cf. I, 7) a robber–7. To the echo a reviler–8. To the noise a

XI. 1. To festive joy a lute-player–2. To the cry a flute-player–3. To the confused (noise) a conch-blower–4. To the forest a forester–5. To broken woodlands one who watches woods on fire–6. To fun (narma I, 15) a harlot (I, 9)–7. To laughter an artizan (I, 16)–8. To the sea-monster (?) a mottled woman 33 (?)–9-11. To power a village-headman, an astrologer, and a herald (? abhikrośaka).

XII. (Added to those at the second post):–1-3. To dancing (I, 11) a lute-player (XI, I), a hand-clapper, and a flute-player (XI, 2)–4. To pleasure (I, 17) a musician–5. To fire a fat man–6. To the earth a cripple–7. To the wind a Cāṇḍāla (outcast)–8. To the air a staff-dancer 34–9. To the sky a bald-headed one-to. To the sun a yellow-eyed one-11. To the stars one of variegated colour–12. To the moon a leprous one (kilāsa, cf. IX, 2)–13. To the day a light-coloured one with yellow eyes–14. To the night a black one with yellow eyes.–He then seizes these eight misshapen ones–15. One who is too tall–16. One too short–17. One too stout–18. One too lean–19. One too light-coloured–20. One too black–21. One too bald–22. One with too much hair:–these (are to be) neither Sūdras nor Brāhmaṇas, and are sacred to Prajāpati;–23. A minstrel (māgadha, I, 10)–24. A harlot (puṁścalī, cf. I, 9)–25. A gambler (I, 37)–26. A eunuch (I, 7):–these (also are to be) neither Sūdras nor Brāhmaṇas, and are sacred to Prajāpati.


  1. 407:1 That is, he (symbolically) immolates them. ↩︎

  2. 407:2 The statement in paragraphs 3 and 4, according to which there are eleven decades of human victims, does not refer to the actual distribution of victims over the eleven stakes, but it is apparently made purely for symbolical reasons (viz. with reference to the Virāj and Trishṭubh metres), and is probably based on the way in which the victims are enumerated in the Vājasaneyi-saṁhitā, XXX, 5-22 (see the Translation at the end of this chapter, where they are, however, numbered according to the stakes). There the first eleven Kaṇḍikās (5-15) are made up of the names and deities of ten victims each, hence together of eleven decades; whilst of the subsequent Kaṇḍikās–k. 16 consists of twelve, ks. 17-22 of ten each, and k. 22 of twelve victims. The actual mode of distribution over the several stakes is that referred to in paragraphs 5-8, viz. the first forty-eight victims are tied to the central stake, after which eleven victims are tied to each of the other ten stakes. After these, amounting to 258 victims, the Saṁhitā enumerates twenty-six additional victims, which, according to Mahīdhara (cf. Kāty. XXI, 1, so), are to be added to the eleven victims of the second stake,–viz. fourteen victims dedicated to various so-called deities; eight victims, sacred to Prajāpati and belonging neither to the Śūdra nor to the Brāhmaṇa castes; and finally four more victims, characterised in exactly the same way as the eight preceding ones. It will be seen that of these twenty-six victims only the first set of (eight) Prājāpatya victims are referred to in the Brāhmaṇa, and that as the victims seized last of all. This circumstance clearly characterises the last four victims of the Saṁhitā as not recognised by the Brāhmaṇa; and seeing that all four of these are such as have already occurred amongst the previously enumerated victims (though there assigned to different divinities) they must be considered (as they are by Prof. Weber, Ind. Streifen, I, p. 68) as having been added to the list of the Saṁhitā subsequently to the composition of the Brāhmaṇa. A similar inference will probably apply to the fourteen victims preceding the eight Prājāpatya ones, though all that can be urged against them is that they are not referred to in the Brāhmaṇa. ↩︎

  3. 408:1 Hardly,–and all food is virāj (widely ruling or shining). In double clauses with a middle term, such as this, the position of subject and predicate seems often reversed in the second clause (cf. for instance, XIII, 8, 1, 4), ↩︎

  4. 408:2 See note 2 on p. 407. ↩︎

  5. नियोजनकाले ऽष्टाचत्वारिँ शतमाद्याग्निष्ठे । (का. श्रौ. सू. २१ । ८) “आद्यान् ब्रह्मणे ब्राह्मणम्” इत्यादीन् प्रकामोद्यायोपसदम्” इत्यंतान् ४८ । अतः कात्यायन इतः प्राक् सूत्रयामास- ऐकादशिनानुपाकृत्य ब्राह्मणादींश्चेति (का. श्रौ. सू. २१ । ७) । उपाकरोतीत्यर्थः । ब्रह्मणे ब्राह्मणमित्यादीन् आ अध्यायांतम् ॥ ↩︎ ↩︎

  6. अत्र याज्ञिकानां सिद्धांतः । याज्ञिकैस्तु- मागधादयो ऽपि अपूर्वा एव विधीयन्ते । अतिदीर्घादयो ऽष्टौ प्राजापत्याः शूद्रब्राह्मणव्यतिरिक्ताः । मागधादयो ऽप्येवंविधः प्राजापत्या एव चत्वारः । एवं षड्विंशतिः शेषाः । पूर्वोक्तैरेकादशभिः सह सप्तत्रिंशत् द्वितीयोच्छ्रिते भवति । युक्ततरं चेदम् । प्राजापत्या इति पुनर्देवतासंबंधात् । पूर्वविहितेष्वेव मागधादिगुणविधानेनैवैतच्चोपपद्यते । तेषां देवतासंबंधस्य पूर्वमेव विहितत्वादित्याहुः । मिलित्वा ४८-११०-२६-१८४ । ↩︎ ↩︎

  7. 409:1 That is, of the divine spirit, the world-soul, of which Prajāpati is, as it were, the personification, or phenomenal representative. ↩︎

  8. 409:2 Or, he perfects, completes, the priesthood by (adding to it a member of) the priesthood. ↩︎

  9. नियुक्तान् ब्रह्मा ऽभिष्टौति होतृवदनुवाकेन सहस्रशीर्षेति । का. श्रौ. सू. २१ । ११ । (होतृवत् त्रिः प्रथमां त्रिरुत्तमां ऋगंते प्रणवः इत्यादि शस्त्रधर्मवदित्यर्थः ।) ↩︎

  10. 410:1 For a complete translation of this hymn, the Purusha-sūkta, see J. Muir, Orig. Sanskrit Texts, vol. i, p. 9 seqq. Cp. also part iv, introduction, p. xiv. ↩︎

  11. कपिञ्जलादिवदुत्सृजंति ब्राह्मणादीन् । का. श्रौ. सू. २० । १२ । ↩︎ ↩︎

  12. स्विष्टकृद्वनस्पत्यंतरे पुरुषदेवताभ्यो जुहोति । का. श्रौ. सू. २० । १३ । आज्येनेति शेषः । “आज्येन जुहोति” इति अत्रैव चतुर्दश्यां कंडिकायां श्रुतेः । ↩︎

  13. 410:2 ‘A bodiless voice,’ comm.; cf. XI, 4, 2, 16 where likewise ‘an invisible voice’ is introduced censuring the priest who burns the oblations. Perhaps, however, Vāc may be intended from whom Prajāpati, in the beginning, produced the waters; cf. VI, 1, 1, 9. ↩︎

  14. 411:1 Thus (i.e. do not go through with this human sacrifice) the commentator, probably correctly, interprets ‘saṁsthāpaya’ (instead of ‘do not kill,’ St. Petersb. Dict., though, practically, it would, of course, come to the same thing),–Purusha, etān purushapaśūn mā saṁtishṭipaḥ, udaṅnayādikāny aṅgāny eshāṁ mā kr̥thā ityarthaḥ; yadi saṁsthāpayishyasi tataḥ śeshabhakshānukāreṇa lokepi purushaḥ purusham bhakshayishyati tac cāyuktam ity abhiprāyaḥ. In the same way the verse ought accordingly to have been translated in III, 7, 2, 8. ↩︎

  15. 411:2 That is, he offers with the formulas ‘To the Brahman, hail! to the Kshatra, hail! &c., running through the whole series of so-called divinities of the released victims. ↩︎

  16. 411:3 Viz. three for each of the first two deities, and five for Br̥haspati. ↩︎

  17. 412:1 Viz. as set forth V, 5, 5, 6 seqq. ↩︎

  18. सपुरुषमश्वमेधवद्दक्षिणा । (का. श्रौ. सू. २१ । १४ ।) राज्ञो ऽयं दक्षिणादानविधिः । अश्वमेधे भूमिपुरुषब्राह्मणस्ववर्जम् (का. श्रौ. सू. २० । १०९) इत्युक्तम् । अत्र तु भूमिब्राह्मणस्ववर्जं पुरुषा अपि दीयंते । तथा अश्वमेधे अह्नां त्रिसंख्यत्वात्तृतीयं तृतीयमित्युक्तम् । अत्र तु अह्नां पंचसंख्यत्वात् प्रत्यहं प्राच्यादिदिगुत्पन्नद्रव्यस्य पंचमं पंचममंशं ददातीति विशेषः । ↩︎ ↩︎ ↩︎

  19. समारोप्य Harisv. - ibid. स्यान्ने᳘त्वेव AP. ↩︎

  20. अत्र देवयाज्ञिकाः- चतुर्थाश्रमे हि भिक्षार्थी ग्रामं प्रविशेदिति विहितत्वात् न प्रत्येयादिति विरुध्यते । अतः पाक्षिकस्तृतीयाश्रमपरिग्रह एवायम् । म चतुर्थस्येति । ग्रामे वा विवत्सन्नरण्योः । का. श्रौ. सू. २१ । १८ । ↩︎

  21. 412:2 Viz. by thrice inhaling the heat (or smoke) emitted by the fires, Cf. Mānava-Dh. VI, 38; Baudhāyana-Dharmas. II, 17, 26. ↩︎

  22. 414:4 The meaning of ‘utsāda’ is doubtful; it might be ‘removal,’ only the etymological meaning of ‘ut-sad’ having probably suggested the combination. ↩︎

  23. 414:5 Mahīdhara takes ‘srāma’ in the sense of one affected with ophthalmia (cf. srāva): in both senses the association of ideas is intelligible, though apparently (as in other cases) of a jocular nature. ↩︎

  24. 414:6 Or, the assistant of a charioteer, according to Mah. and Sāy. (cf. V, 3). ↩︎

  25. 415:4 Thus also Mahīdhara; charioteer, Sāy.; cf. III, 11. ↩︎

  26. 415:5 Yamī, Taitt. Br. ↩︎

  27. 415:6 According to Mahīdhara, a wild tribesman (inhabitant of the jungle); ‘one living by the net,’ Sāy. ↩︎

  28. 416:7 Lit. a cutter away (? a spendthrift). ↩︎

  29. 416:8 Thus Mahīdhara explains ‘ādinavadarśa’; ‘one who works for his fellow-player’s ruin,’ St. Petersb. Dict. ↩︎

  30. 416:9 The terms ‘kalpin’ and ‘adhikalpin’ are of doubtful meaning–‘arranger’ and ‘head-arranger,’ Weber. ↩︎ ↩︎

  31. 416:10 Lit. ’the assailer,’ apparently another name for the die usually called Kali. On these dice see part iii, p. 106, note 1. ↩︎

  32. 416:11 Explained as a jocular expression for the habitual frequenter of the gambling-house. ↩︎

  33. 417:1 St. Petersb. Dict. conjectures ‘To lust a sportive woman (? dancer or singer).’ ↩︎

  34. 417:2 ‘Vaṁśanartin’ explained by Mahīdhara as one who practises dancing by means of a bamboo-staff (vaṁśena nartanaśīla); by Sāy. as one who makes his living by dancing on the top of a bamboo-staff (vaṁśāgranr̥ttajīvin); hardly a ‘family-dancer,’ Monier-Williams. ↩︎