०१

विश्वास-प्रस्तुतिः

पु᳓रुषो ह नाराय᳓णो ऽकामयत-

अ᳓तितिष्ठेयᳫँ᳭ स᳓र्व्वाणि भूता᳓न्य् अह᳓म् ए᳓वेदᳫँ᳭ स᳓र्व्वᳫँ᳭ स्याम्

इ᳓ति।
स᳓ एत᳓म् पुरुष-मेध᳓म् पञ्च-रात्रं᳓ यज्ञ-क्रतु᳓म् अपश्यत्
तम् आ᳓हरत्, ते᳓नायजत,
ते᳓नेष्ट्वा᳓ ऽत्यतिष्ठत् स᳓र्व्वाणि भूता᳓नि।
इदᳫँ᳭᳓ स᳓र्व्वम् अभवत्।

अ᳓तितिष्ठति स᳓र्व्वाणि भूता᳓नीदᳫँ᳭᳓ स᳓र्व्वम् भवति
य᳓ एवं᳓ विद्वा᳓न् पुरुष-मेधे᳓न य᳓जते
यो᳓ वैत᳓द् एवम् वे᳓द॥

मूलम् - श्रीधरादि

पु᳘रुषो ह नाराय᳘णो ऽकामयत॥
(ता᳘) अ᳘तितिष्ठेयᳫँ᳭ स᳘र्व्वाणि भूता᳘न्यह᳘मे᳘वेदᳫँ᳭ स᳘र्व्वᳫँ᳭ स्यामि᳘ति स᳘ ऽएत᳘म्पुरुषमेध᳘म्पञ्चरात्रं᳘ यज्ञक्रतु᳘मपश्यत्तमा᳘हरत्ते᳘नायजत ते᳘नेष्ट्वा᳘ ऽत्यतिष्ठत्स᳘र्व्वाणि भूता᳘नीदᳫँ᳭ स᳘र्व्वमभवद᳘तितिष्ठति स᳘र्व्वाणि भूता᳘नीदᳫँ᳭ स᳘र्व्वम्भवति य᳘ ऽएवं᳘ व्विद्वा᳘न्पुरुषमेधे᳘न य᳘जते यो᳘ वैत᳘देवम्वे᳘द॥

मूलम् - Weber

पु᳘रुषो ह नारायॗणोऽकामयत॥
अ᳘तितिष्ठेयᳫं स᳘र्वाणि भूता᳘न्यह᳘मेॗवेदᳫं स᳘र्वᳫं स्यामि᳘ति स᳘ एत᳘म् पुरुषमेध᳘म् पञ्चरात्र᳘म् यज्ञक्रतु᳘मपश्यत्तमा᳘हरत्ते᳘नायजत ते᳘नेष्ट्वा᳘त्यतिष्ठत्स᳘र्वाणि भूता᳘नीदᳫं स᳘र्वमभवद᳘तितिष्ठति स᳘र्वाणि भूता᳘नीदᳫं स᳘र्वम् भवति य᳘ एव᳘म् विद्वा᳘न्पुरुषमेधे᳘न य᳘जते यो᳘ वैत᳘देवम् वे᳘द॥

मूलम् - विस्वरम्

अथ पुरुषमेधः ।

पुरुषो ह नारायणो ऽकामयत । अतितिष्ठेयं सर्वाणि भूतानि । अहमेवेदं सर्वं स्यामिति । स एतं पुरुषमेधं पंचरात्रं यज्ञक्रतुमपश्यत् । तमाहरत् । तेनायजत । तेनेष्ट्वा, अत्यतिष्ठत् सर्वाणि भूतानि । इदं सर्वमभवत् । अतितिष्ठति सर्वाणि भूतानि । इदं सर्वं भवति । य एवं विद्वान् पुरुषमेधेन यजते । यो वा एतदेवं वेद ॥ १ ॥

हरिस्वामी

पुरुषो ह नारायणो ऽकामयत । अत्राध्याये पुरुषमेध उच्यते । परत्र सर्वमेधः । अधुना उपन्यस्तसंख्याकः चत्वारिंशतां रात्रीणां समूहः सह दीक्षोपसद्रात्रिभिः चत्वारिंशद्रात्रो भवति । ततस्तत्पूर्वोपन्यस्तपंचरात्रत्वेन विनिहन्यत इत्यभिप्रायः । चत्वारिंशदक्षरा विराट् यतः । तत् विराजमभिसंपद्यत इति । तत् तेन चत्वारिंशद्रात्रं विराजमुपपद्यते । संगच्छते च राजा मंत्रब्राह्मण इति सहस्रपुराणाधिमहाभाग्यः सर्गांतरे शयनावस्थायां कामितवान् । सर्वाणि भूतानि । धर्मज्ञानवैराग्यैश्वर्यप्राप्तिप्राकाम्यादिभिश्च गुणैः अतीत्य तिष्ठेयम् । कृतकर्तव्यः सन्नमेध्यस्वः स्यामित्यर्थः । अहमेव च इदं सर्वं चेतनाचेतनं स्यां भवेयम्, मम चित्तानुविधायि इदं सर्वं स्यादित्यर्थः । स एतं प्रकारे प्रमाणं पुरुषमेधाख्यं यज्ञंक्रतुं एतच्छास्त्रानुसारेणैव, नारायणत्वं प्राप्नुयाम् यं अपश्यत्, शास्त्रचक्षुषा ददर्शेत्यर्थः । तमाहरत् । तत्साधनानि उपादत्त । तेनायमयजत । तेन समीहितं फलं साधितवानित्यर्थः । किं पुनः तत् साधितवान् इत्यत आह- अत्यतिष्ठत् सर्वाणि भूतानीत्यादि । एतदितिहासेन क्रतूत्पत्तिवचनम् । अतितिष्ठति सर्वाणि भूतानीति फलवत् प्रयोगवाक्यम् । यो वा एतदेवं वेद उपास्ते इत्युपासनाफलवचनम् । त्रयोविंशतिदीक्षाणां 1 द्वादशोपसदां संख्या विधीयते । सुत्यानां तु संख्यानुवादः । विराजा समानः पुरुषमेधो भवतीत्यर्थः । विराट्संख्याभिधानेन तु संख्यासामान्यात् अभ्यस्तः पुरुषमेधः सुखमुपास्यते इत्यभिप्रायः । “ततो विराडजायत विराजो अधि पूरुषः”- इति मंत्रेणापि विराडुपासनं पुरुषमेधे दर्शितमिति मंत्रोपादानम् । एषा वै सा विराडिति या मंत्रे विराडुपात्ता । एषैव सा आधियज्ञिकी विराट् । एतस्या एव च विराजः सकाशात् यज्ञं यज्ञाभिमानिनं पुरुषं नारायणं जनयति यजमान इति ब्रुवन् एतन्मंत्रार्थं दर्शयति । ततश्च पुरुषाणां नारायणात् भाविनः विराट् आधियाज्ञिकी चत्वारिंशद्रात्रात्मिका तस्मिन् यजमानो ऽजायत विराजस्तस्या आधियाज्ञिक्याः सकाशात् तदपूर्वसंस्कृतात्मा सर्वभावावेशेषु पुरुषो नारायणः अजायतेति । यस्तु पौराणिकदृश्यो मंत्रार्थः । ततो हिरण्यगर्भाद्विराट् त्रैलोक्यशरीरः अजायत । विराजो ऽपि सकाशात् तच्छरीरार्द्धंबृगलरूपः स्वायंभुवो मनुः सर्वस्य जातिपिंडसर्गस्य प्रथमो ऽजायतेति । स तु ज्ञातत्वान्नात्राख्यातः । न प्रतिषिद्धः ॥ १ ॥ २ ॥

Eggeling
  1. Purusha Nārāyaṇa desired, ‘Would that I overpassed all beings! would that I alone were everything here (this universe)!’ He beheld this five-days’ sacrificial performance, the Purushamedha, and took it 2, and performed offering therewith; and having performed offering therewith, he overpassed all beings, and became everything here. And, verily, he who, knowing this, performs the Purushamedha, or who even knows this, overpasses all beings, and becomes everything here.
मानसतरङ्गिणीकृत्

Puruṣa Nārāyaṇa desired thus:“I should surpass all beings! I alone should be everything here (this universe)!” He saw this five-night ritual performance, the Puruṣamedha; he took it and sacrificed with it. Having sacrificed with it, he surpassed all beings. He became everything here. Verily, he who, knowing this, performs the Puruṣamedha, or even who knows this, surpasses all beings and becomes everything here.

०२

विश्वास-प्रस्तुतिः

त᳓स्य त्र᳓यो-विᳫँ᳭शतिर् दीक्षाः᳓॥
द्वा᳓दशोपस᳓दः, प᳓ञ्च सुत्याः।
स᳓ एष᳓ चत्वारिᳫँ᳭शद्-रात्रः᳓ स-दीक्षोपस᳓त्कः।
चत्वारिᳫँ᳭श᳓द्-अक्षरा व्विराट्।
त᳓द् विरा᳓जम् अभिस᳓म्पद्यते।

त᳓तो व्विरा᳓ड् अजायत,
व्विरा᳓जो ऽअ᳓धि पू᳓रुष

ऽइ᳓त्य्,
एषा᳓ वै᳓ सा᳓ व्विरा᳓ड्,
एत᳓स्या ऽए᳓वैत᳓द् विरा᳓जो यज्ञ᳓म् पु᳓रुषञ् जनयति॥

मूलम् - श्रीधरादि

त᳘स्य त्र᳘योविᳫँ᳭शतिर्दीक्षाः॥
(०) द्वा᳘दशोपस᳘दः प᳘ञ्च सुत्याः स᳘ ऽएष᳘ चत्वारिᳫँ᳭शद्रात्रः[[!!]] सदीक्षोपस᳘त्कश्चत्वारिᳫँ᳭श᳘दक्षरा व्विराट्त᳘द्विरा᳘जमभिस᳘म्पद्यते त᳘तो व्विरा᳘डजायत व्विरा᳘जो ऽअ᳘धि पू᳘रुष ऽइ᳘त्येषा वै सा᳘ व्विरा᳘डेत᳘स्या ऽए᳘वैत᳘द्विरा᳘जो यज्ञम्पुरुषञ्जनयति[[!!]]॥

मूलम् - Weber

त᳘स्य त्र᳘योविंशतिर्दीक्षाः॥
द्वा᳘दशोपस᳘दः प᳘ञ्च सुत्याः स᳘ एष᳘ चत्वारिंशद्रात्रः᳘ सदीक्षोपस᳘त्कश्चत्वारिंश᳘दक्षरा 3 विराट्त᳘द्विरा᳘जमभिस᳘म्पद्यते त᳘तो विरा᳘डजायत विरा᳘जो अ᳘धि पू᳘रुष इ᳘त्येषा वै सा᳘ विरा᳘डेत᳘स्या एॗवैत᳘द्विरा᳘जो यज्ञम् पु᳘रुषं जनयति॥

मूलम् - विस्वरम्

तस्य त्रयोविंशतिर्दीक्षाः । द्वादशोपसदः । पंच सुत्याः । स एष चत्वारिंशद्रात्रः सदीक्षोपसत्कः । चत्वारिंशदक्षरा विराट् । तद्विराजमभिसंपद्यते । “ततो विराडजायत विराजो अधि पूरुषः”- (वा. सं. ३१ । ५) इति । एषा वै सा विराट् । एतस्या एवैतद्विराजो यज्ञं पुरुषं जनयति ॥ २ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. For this (offering) there are twenty-three Dīkshās, twelve Upasads, and five Sutyās (Soma-days). This, then, being a forty-days’ (performance), including the Dīkshās and Upasads, amounts to a Virāj 4, for the Virāj consists of forty syllables: [Vāj. S. XXXI, 5.] ‘Thence 5 Virāj (f.) was born, and from out of Virāj the Pūrusha.’

This, then, is that Virāj, and from out of that Virāj he (the Sacrificer) generates the Purusha, the Sacrifice.

मानसतरङ्गिणीकृत्

Its (the Puruṣamedha’s) consecrations are twenty-three; it has twelve Upasad-s and five [Soma]-pressings. Thus, this being a ritual [of a total of] forty nights, including Dīkshā-s and Upasads, maps to a Virāj, for the Virāj consists of forty syllables. [Hence, it is recited that]:

“Thence the Virāj was born and from the Virāj, the Pūrusha.”

This, then, is that Virāj, and from out of that Virāj [the ritualist] generates the Puruṣa, the sacrifice.

०३

विश्वास-प्रस्तुतिः

ता वा᳘ ऽएताः॥
च᳘तस्रो दश᳘तो भवन्ति तद्य᳘देताश्च᳘तस्रो दश᳘तो भ᳘वन्त्येषां᳘ चैव᳘ लोका᳘नामा᳘प्त्यै दिशा᳘ञ्चेम᳘मेव᳘ लोक᳘म्प्रथम᳘या दश᳘ता ऽऽप्नुवन्नन्त᳘रिक्षन्द्विती᳘यया दि᳘वन्तृती᳘यया दि᳘शश्चतुर्थ्या त᳘थै᳘वैतद्य᳘जमान ऽइम᳘मेव᳘ लोक᳘म्प्रथम᳘या दशता᳘ ऽऽप्नोत्यन्त᳘रिक्षन्द्विती᳘यया[[!!]] दि᳘वन्तृती᳘यया दि᳘शश्चतु᳘र्थ्यैता᳘वद्वा᳘ ऽइदᳫँ᳭ स᳘र्व्वं य्या᳘वादिमे᳘ च लोका दि᳘शश्च स᳘र्व्वम्पुरुषमेधः स᳘र्व्वस्या᳘प्त्यै सर्व्वस्या᳘वरुद्ध्यै॥

मूलम् - श्रीधरादि

ता वा᳘ ऽएताः॥
(श्च᳘) च᳘तस्रो दश᳘तो भवन्ति तद्य᳘देताश्च᳘तस्रो दश᳘तो भ᳘वन्त्येषां᳘ चैव᳘ लोका᳘नामा᳘प्त्यै दिशा᳘ञ्चेम᳘मेव᳘ लोक᳘म्प्रथम᳘या दश᳘ता ऽऽप्नुवन्नन्त᳘रिक्षन्द्विती᳘यया दि᳘वन्तृती᳘यया दि᳘शश्चतुर्थ्या त᳘थै᳘वैतद्य᳘जमान ऽइम᳘मेव᳘ लोक᳘म्प्रथम᳘या दशता᳘ ऽऽप्नोत्यन्त᳘रिक्षन्द्विती᳘यया[[!!]] दि᳘वन्तृती᳘यया दि᳘शश्चतु᳘र्थ्यैता᳘वद्वा᳘ ऽइदᳫँ᳭ स᳘र्व्वं य्या᳘वादिमे᳘ च लोका दि᳘शश्च स᳘र्व्वम्पुरुषमेधः स᳘र्व्वस्या᳘प्त्यै सर्व्वस्या᳘वरुद्ध्यै॥

मूलम् - Weber

ता वा᳘ एताः॥
च᳘तस्रो दश᳘तो भवन्ति तद्य᳘देताश्च᳘तस्रो दश᳘तो भ᳘वन्त्येषां᳘ चैव᳘ लोका᳘नामा᳘प्त्ये दिशां᳘ चेम᳘मेव᳘ लोक᳘म् प्रथम᳘या दश᳘ताप्नुवन्नन्त᳘रिक्षं द्विती᳘यया दि᳘वं तृती᳘यया दि᳘शश्चतुर्थ्या त᳘थैॗवैतद्य᳘जमान इम᳘मेव᳘ लोक᳘म् प्रथम᳘या दश᳘ताप्नो᳘त्यन्त᳘रिक्षं द्विती᳘यया दि᳘वं तृती᳘यया दि᳘शश्चतुॗर्थ्यैता᳘वद्वा᳘ इदᳫं स᳘र्वं या᳘वादिमे᳘ च लोका दि᳘शश्च स᳘र्वम् पुरुषमेधः स᳘र्वस्या᳘प्त्यै स्!र्वस्या᳘वरुद्ध्यै॥

मूलम् - विस्वरम्

ता वा एताः । चतस्रो दशतो भवंति । तद्यदेताश्चतस्रो दशतो भवंति । एषां चैव लोकानामाप्त्यै । दिशां च । इममेव लोकं प्रथमया दशता ऽऽप्नुवन् । अंतरिक्षं द्वितीयया । दिवं तृतीयया । दिशश्चतुर्थ्या । तथैवैतद्यजमान इममेव लोकं प्रथमया दशता ऽऽप्नोति । अंतरिक्षं द्वितीयया । दिवं तृतीयया । दिशश्चतुर्थ्या । एतावद्वा इदं सर्वम् । यावदिमे च लोका दिशश्च । सर्वं पुरुषमेधः । सर्वस्याप्त्यै । सर्वस्यावरुद्ध्यै ॥ ३ ॥

हरिस्वामी

ता वा एताश्चतस्रो दशतः । चत्वारो ऽत्र दशकवर्गाः इति आध्यात्मिका विराजः अधिदैवोपन्यासः । इममेव लोकं प्रथमया दशता ऽऽप्नुवन्निति । ते पूर्वे अपि पुरुषाः । एतयैव यज्ञविराजा इमां दैवीं विराजमाप्नुवंस्ततः तस्यापि यजमानस्य युज्यते तदर्थ उत्साह इत्यभिप्रायः । “तथैषैतद्यजमानः” इत्युपसंहारवचनम् । एतावद्वा इदं सर्वं पुरुषमेध इति सो ऽपि दिक्दशकसामान्यात् दिग्लोकात्मक एवेत्यभिप्रायः ॥ ३-५ ॥

Eggeling
  1. Now these (forty days) are four decades; and as to there being these four decades, it is for the obtainment of these worlds, as well as of the regions: by the first decade they 6 obtained even this (terrestrial) world, by the second the air, by the third the sky, and by the fourth the regions (quarters); and in like manner does the Sacrificer, by the first decade, obtain even this (terrestrial) world, by the second the air, by the third the sky, and by the fourth the regions–and, indeed, as much as these worlds and the regions are, so much is all this (universe); and the Purushamedha is everything: thus it is for the sake of his obtaining and securing everything.

०४

विश्वास-प्रस्तुतिः

(द्ध्या ऽए᳘) ए᳘कादशाग्ग्नीषोमी᳘याः पश᳘व ऽउपवसथे॥
ते᳘षाᳫँ᳭ समानं कर्मै᳘कादश यू᳘पा ऽए᳘कादशाक्षरा त्रिष्टुब्व᳘ज्ज्रस्त्रिष्टुब्वी᳘र्य्यं[[!!]] त्रिष्टुब्व᳘ज्ज्रेणै᳘वैत᳘द्वी᳘र्य्येण य᳘जमानः᳘ पुर᳘स्तात्पाप्मा᳘नम᳘पहते॥

मूलम् - श्रीधरादि

(द्ध्या ऽए᳘) ए᳘कादशाग्ग्नीषोमी᳘याः पश᳘व ऽउपवसथे॥
ते᳘षाᳫँ᳭ समानं कर्मै᳘कादश यू᳘पा ऽए᳘कादशाक्षरा त्रिष्टुब्व᳘ज्ज्रस्त्रिष्टुब्वी᳘र्य्यं[[!!]] त्रिष्टुब्व᳘ज्ज्रेणै᳘वैत᳘द्वी᳘र्य्येण य᳘जमानः᳘ पुर᳘स्तात्पाप्मा᳘नम᳘पहते॥

मूलम् - Weber

ए᳘कादशाग्निषोमी᳘याः पश᳘व उपवसथे॥
ते᳘षाᳫं समानं कर्मै᳘कादश यू᳘पा ए᳘कादशाक्षरा त्रिष्टुब्व᳘ज्रस्त्रिष्टुब्वीर्यं᳘ त्रिष्टुब्व᳘ज्रेणैॗवैत᳘द्वीॗर्येण य᳘जमानः᳘ पुर᳘स्तात्पाप्मा᳘नम᳘पहते॥

मूलम् - विस्वरम्

एकादशाग्नीषोमीयाः पशव उपवसथे । तेषां समानं कर्म । एकादश यूपाः । एकादशाक्षरा त्रिष्टुप् । वज्रस्त्रिष्टुप् । वीर्यं त्रिष्टुप् । वज्रेणैवैतद्वीर्येण यजमानः पुरस्तात्पाप्मानमपहते ॥ ४ ॥

हरिस्वामी

[व्याख्यानं तृतीये]

Eggeling
  1. On the Upavasatha 7 (day) there are eleven victims sacred to Agni and Soma: the performance for these is one and the same. There are eleven stakes,–the Trishṭubh (verse) consists of eleven syllables, and the Trishṭubh is a thunderbolt, and the Trishṭubh is vigour: with the thunderbolt, with vigour, the Sacrificer thus from the first repels evil.

०५

विश्वास-प्रस्तुतिः

(त ऽऐ) ऐकादशिनाः᳘ सुत्या᳘सु पश᳘वो भवन्ति॥
ए᳘कादशाक्षरा त्रिष्टुब्व᳘ज्ज्रस्त्रिष्टु᳘ब्वीर्य्यन्त्रिष्टुब्व᳘ज्ज्रेणै᳘वैत᳘द्वी᳘र्य्येण य᳘जमानः पुरस्तात्पाप्मा᳘नम᳘पहते[[!!]]॥

मूलम् - श्रीधरादि

(त ऽऐ) ऐकादशिनाः᳘ सुत्या᳘सु पश᳘वो भवन्ति॥
ए᳘कादशाक्षरा त्रिष्टुब्व᳘ज्ज्रस्त्रिष्टु᳘ब्वीर्य्यन्त्रिष्टुब्व᳘ज्ज्रेणै᳘वैत᳘द्वी᳘र्य्येण य᳘जमानः पुरस्तात्पाप्मा᳘नम᳘पहते[[!!]]॥

मूलम् - Weber

एकादशिनाः᳘ सुत्या᳘सु पश᳘वो भवन्ति॥
ए᳘कादशाक्षरा त्रिष्टुब्व᳘ज्रस्त्रिष्टु᳘ब्वीर्यं᳘ त्रिष्टुब्व᳘ज्रेणैॗवैत᳘द्वीॗर्येण य᳘जमानः पुर᳘स्तात्पाप्मा᳘नम᳘पहते॥

मूलम् - विस्वरम्

ऐकादशिनाः सुत्यासु पशवो भवंति । एकादशाक्षरा त्रिष्टुप् । वज्रस्त्रिष्टुप् । वीर्यं त्रिष्टुप् । वज्रेणैवैतद्वीर्येण । यजमानः पाप्मानमपहते 8 ॥ ५ ॥

हरिस्वामी

[व्याख्यानं तृतीये]

Eggeling
  1. On the Sutyā (days) there are the (Savanīya) victims of the set of eleven 9 (stakes),–the Trishṭubh consists of eleven syllables, and the Trishṭubh is a thunderbolt, and the Trishṭubh is vigour: with the thunderbolt, with vigour, the Sacrificer thus from the first repels evil.

०६

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वैकादशिना भ᳘वन्ति॥
(न्त्ये) एकादशि᳘नी वा᳘ ऽइदᳫँ᳭ स᳘र्व्वं प्रजा᳘पति᳘र्ह्येकादशि᳘नी[[!!]] स᳘र्व्वᳫँ᳭ हि᳘ प्प्रजा᳘पतिः स᳘र्व्वं पुरुषमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वैकादशिना भ᳘वन्ति॥
(न्त्ये) एकादशि᳘नी वा᳘ ऽइदᳫँ᳭ स᳘र्व्वं प्रजा᳘पति᳘र्ह्येकादशि᳘नी[[!!]] स᳘र्व्वᳫँ᳭ हि᳘ प्प्रजा᳘पतिः स᳘र्व्वं पुरुषमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै॥

मूलम् - Weber

य᳘द्वेॗवैकादशिना भ᳘वन्ति॥
एकादशि᳘नी वा᳘ इदᳫं स᳘र्वम् प्रजा᳘पतिर्ह्ये᳘कादशि᳘नी स᳘र्वᳫं हि᳘ प्रजा᳘पतिः स᳘र्वम् पुरुषमेधः स᳘र्वस्या᳘प्त्यै स᳘र्वस्या᳘वरुद्ध्यै॥

मूलम् - विस्वरम्

यद्वेवैकादशिना भवंति । एकादशिनी वा इदं सर्वम् । प्रजापतिर्ह्येकादशिनी । सर्वं हि प्रजापतिः । सर्वे पुरुषमेधः । सर्वस्याप्त्यै । सर्वस्यावरुद्ध्यै ॥ ६ ॥

हरिस्वामी

प्रथममंत्रवाचनीयं सर्वं भवतीति तस्यैवायमुपसंहारः । न तु फलांतरं इति दर्शयति- सर्वं पुरुषमेध इति । सो ऽपि दशकक्रतुचतुष्टयसमाप्त्या दिगध्यात्मक एवेत्यभिप्रायः ॥ ६ ॥

Eggeling
  1. And, again, as to why there are (the victims) of the set of eleven (stakes): it is for the sake of his obtaining and securing everything, for the set of eleven (stakes) is everything, since the set of eleven (stakes) is Prajāpati, and Prajāpati is everything, and the Purushamedha is everything.

०७

विश्वास-प्रस्तुतिः

स वा ऽएष᳘ पुरुषमेधः᳘॥ पञ्चरात्रो᳘ यज्ञक्रतु᳘र्भ्भवति पा᳘ङ्क्तो यज्ञः पा᳘ङ्क्तः पशुः प᳘ञ्चर्त्त᳘वः सम्वत्सरो यत्कि᳘ञ्च पञ्च᳘विधमधिदेवत᳘मध्यात्मन्त᳘देनेन स᳘र्व्वमाप्नोति॥

मूलम् - श्रीधरादि

स वा ऽएष᳘ पुरुषमेधः᳘॥ पञ्चरात्रो᳘ यज्ञक्रतु᳘र्भ्भवति पा᳘ङ्क्तो यज्ञः पा᳘ङ्क्तः पशुः प᳘ञ्चर्त्त᳘वः सम्वत्सरो यत्कि᳘ञ्च पञ्च᳘विधमधिदेवत᳘मध्यात्मन्त᳘देनेन स᳘र्व्वमाप्नोति॥

मूलम् - Weber

स वा एष᳘ पुरुषमेधः᳘ पञ्चरात्रो᳘ यज्ञक्रतु᳘र्भवति॥
पा᳘ङ्क्तो यज्ञः पा᳘ङ्क्तः पशुः प᳘ञ्चर्तवः सम्वत्सरो यत्किं᳘ च पञ्च᳘विधमधिदेवत᳘मध्यात्मं त᳘देनेन स᳘र्वमाप्नोति॥

मूलम् - विस्वरम्

स वा एष पुरुषमेधः पंचरात्रो यज्ञक्रतुर्भवति । पांक्तो यज्ञः । पांक्तः पशुः । पंचर्तवः संवत्सरः । यत्किंच पंचविधमधिदेवतमध्यात्मम् । तदेनेन सर्वमाप्नोति ॥ ७ ॥

हरिस्वामी

स वा एष पुरुषमेधः । अत्र सफलाकांक्षत्वोपासना उच्यते ॥ ७ ॥

Eggeling
  1. Now this Purushamedha is a five-days’ sacrificial performance–the sacrifice is fivefold, the victim is fivefold, and five seasons are a year: whatsoever of five kinds there is, either concerning the deity or the self (body), all that he thereby obtains.

०८

विश्वास-प्रस्तुतिः

त᳘स्याग्निष्टोमः᳘ प्रथमम᳘हर्भ्भवति॥
(त्य᳘) अ᳘थोक्थ्यो᳘ ऽथातिरात्रो᳘ ऽथोक्थ्यो᳘ ऽथाग्निष्टोमः स वा᳘ ऽएष᳘ ऽउभय᳘तोज्योतिरुभय᳘त ऽउक्थ्यः॥

मूलम् - श्रीधरादि

त᳘स्याग्निष्टोमः᳘ प्रथमम᳘हर्भ्भवति॥
(त्य᳘) अ᳘थोक्थ्यो᳘ ऽथातिरात्रो᳘ ऽथोक्थ्यो᳘ ऽथाग्निष्टोमः स वा᳘ ऽएष᳘ ऽउभय᳘तोज्योतिरुभय᳘त ऽउक्थ्यः॥

मूलम् - Weber

त᳘स्याग्निष्टोमः᳘ प्रथमम᳘हर्भवति॥
अ᳘थोक्थ्यो᳘ऽथातिरात्रो᳘ऽथोक्थ्यो᳘ऽथाग्निष्टोमः स वा एष᳘ उभय᳘तोज्योतिरुभय᳘तौक्थ्यः॥

मूलम् - विस्वरम्

तस्याग्निष्टोमः प्रथममहर्भवति । अथोक्थ्यः । अथातिरात्रः । अथोक्थ्यः । अथाग्निष्टोमः । स वा एष उभयतोज्योतिः । उभयतउक्थ्यः ॥ ८ ॥

हरिस्वामी

तस्याग्निष्टोमः 8 । अत्र कंडिकाद्वये अह्नां संस्था आध्यात्माधिदैवोपासना उच्यंते । उभयतोज्योतिरिति । अग्निसंबंधादग्निष्टोमो ज्योतिरित्यभिप्रायः । उभयतउक्थ्य इति । मध्यापेक्षया उभयत उक्थ्यौ इत्याशयः ॥ ८ ॥

Eggeling
  1. The first day thereof is an Agnishṭoma; then (follows) an Ukthya, then an Atirātra, then an Ukthya, then an Agnishṭoma: this (sacrifice) thus has light (jyotis 10) on both sides, and an Ukthya on both sides (of the central Atirātra).

०९

विश्वास-प्रस्तुतिः

(क्थ्यो) य᳘वमध्यः पञ्चरात्रो᳘ भवति॥
(ती) इमे वै᳘ लोकाः᳘ पुरुषमेध᳘ ऽउभय᳘तोज्योतिषो वा᳘ ऽइमे᳘ लोका᳘ ऽअग्नि᳘नेत᳘ ऽआदित्ये᳘नामु᳘तस्त᳘स्मादुभय᳘तोज्योतिर᳘न्नमु᳘क्थ्य ऽआ᳘त्मा ऽतिरात्रस्तद्य᳘देता᳘ ऽउ᳘क्थ्यावतिरात्र᳘मभि᳘तो[[!!]] भ᳘वतस्त᳘स्मादय᳘मात्मा᳘ ऽन्नेन प᳘रिवृढो᳘ ऽथ य᳘देष व्व᳘र्षिष्ठो ऽतिरात्रो᳘ ऽह्नाᳫँ᳭ स म᳘ध्ये त᳘स्माद्य᳘वमध्यो युते᳘ ह वै᳘ द्विष᳘न्तम्भ्रा᳘त्रृव्यमय᳘मे᳘वास्ति᳘ नास्य द्विषन्भ्रा᳘तृव्य ऽइ᳘त्याहुर्य्य᳘ ऽएवम्वे᳘द॥

मूलम् - श्रीधरादि

(क्थ्यो) य᳘वमध्यः पञ्चरात्रो᳘ भवति॥
(ती) इमे वै᳘ लोकाः᳘ पुरुषमेध᳘ ऽउभय᳘तोज्योतिषो वा᳘ ऽइमे᳘ लोका᳘ ऽअग्नि᳘नेत᳘ ऽआदित्ये᳘नामु᳘तस्त᳘स्मादुभय᳘तोज्योतिर᳘न्नमु᳘क्थ्य ऽआ᳘त्मा ऽतिरात्रस्तद्य᳘देता᳘ ऽउ᳘क्थ्यावतिरात्र᳘मभि᳘तो[[!!]] भ᳘वतस्त᳘स्मादय᳘मात्मा᳘ ऽन्नेन प᳘रिवृढो᳘ ऽथ य᳘देष व्व᳘र्षिष्ठो ऽतिरात्रो᳘ ऽह्नाᳫँ᳭ स म᳘ध्ये त᳘स्माद्य᳘वमध्यो युते᳘ ह वै᳘ द्विष᳘न्तम्भ्रा᳘त्रृव्यमय᳘मे᳘वास्ति᳘ नास्य द्विषन्भ्रा᳘तृव्य ऽइ᳘त्याहुर्य्य᳘ ऽएवम्वे᳘द॥

मूलम् - Weber

य᳘वमध्यः पञ्चरात्रो᳘ भवति॥
इमे वै᳘ लोकाः᳘ पुरुषमेध᳘ उभय᳘तोज्योतिषो वा᳘ इमे᳘ लोका᳘ अग्नि᳘नेत᳘ आदित्ये᳘नामु᳘तस्त᳘स्मादुभय᳘तोज्योतिर᳘न्नमुक्थ्य᳘ आॗत्मातिरात्रस्तद्य᳘देता᳘ उॗक्थ्यावतिरात्र᳘मभि᳘तो भ᳘वतस्त᳘स्मादय᳘मात्मा᳘न्नेन प᳘रिवृढो᳘ऽथ य᳘देष व᳘र्षिष्टोऽतिरात्रो᳘ऽह्नाᳫं स म᳘ध्ये त᳘स्माद्य᳘वमध्यो युते᳘ ह वै᳘ द्विष᳘न्तम् भ्रा᳘त्रृव्यमय᳘मेॗवास्तिॗ नास्य द्विषन्भ्रा᳘तृव्य इ᳘त्याहुर्य᳘ एवम् वे᳘द॥

मूलम् - विस्वरम्

यवमध्यः पंचरात्रो भवति । इमे वै लोकाः पुरुषमेधः । उभयतोज्योतिषो वा इमे लोकाः । अग्निनेतः । आदित्येनामुतः । तस्मादुभयतोज्योतिः । अन्नमुक्थ्यः । आत्मा ऽतिरात्रः । तद्यदेता उक्थ्यावतिरात्रमभितो भवतः । तस्मादयमात्मा ऽन्नेन परिवृढः । अथ यदेव वर्षिष्ठो ऽतिरात्रः । अह्नां स मध्ये । तस्माद्यवमध्यः । युते ह वै द्विषंतं भ्रातृव्यम् । अयमेवास्ति । नास्य द्विषन् भ्रातृव्य इत्याहुः । य एवं वेद ॥ ९ ॥

हरिस्वामी

‘यवमध्यः’ । यवस्येव गुरुर्मध्यो ऽस्येतीति, इमे वै लोकाः पुरुषमेध इति विधिमात्र इत्यधिदैववचनम् । अन्नमुक्थ्यः, आत्मा ऽतिरात्र इत्याध्यात्मवचनम् । अन्नमुक्थ्यः परिबृंहणभूतत्वात् । आत्मा अतिरात्रः मध्यत्वात् महत्वाच्च अग्ने अन्यो ऽन्येन । अथ यदेव वर्षिष्ठ इति यवमध्यशब्दनिर्वचनम् । युते ह वै इत्युपासनाफलवचनम् । युते आत्मना मिश्रयति स्वीयं करोति भ्रातृव्यम् अयमेवोपासको ऽस्ति । त्रिवर्गसंपन्नः । अस्य द्विषन् भ्रातृव्यो नास्ति त्रिवर्गहीनत्वात् । इत्येवमन्ये आहुः ॥ ९-११ ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे काण्डे षष्ठे ऽध्याये प्रथमं ब्राह्मणम् ॥ १३ । ६ । १ ।

Eggeling
  1. It is a five-days’ (sacrifice), like a barley-corn in the middle 11; for the Purushamedha is these worlds, and these worlds have light on both sides–through Agni (the sacrificial fire) on this side, and through Āditya (the Sun) on the other: therefore it has light on both sides. And the Ukthya is food, and the Atirātra the body (self); and because there are these Ukthyas on both sides of the Atirātra, therefore this body is surrounded by food. And that Atirātra which is the largest of them is in. the middle, it is thereby that it (the body, or sacrifice) is like a barley-corn (yava) in the middle; and, verily,

whosoever knows this repels (yu) his hateful enemy: ‘He alone exists, not his hateful enemy,’ thus they say of him.

१०

विश्वास-प्रस्तुतिः

त᳘स्याय᳘मेव᳘ लोकः᳘ प्रथमम᳘हः॥
(र) अय᳘मस्य लोको᳘ व्वसन्त᳘ ऽऋतुर्य्य᳘दूर्ध्व᳘मस्मा᳘ल्लोका᳘दर्व्वाची᳘नमन्त᳘रिक्षात्त᳘द्द्विती᳘यम᳘हस्त᳘द्वस्य ग्रीष्म᳘ ऽऋतुरन्त᳘रिक्षमे᳘वास्य[[!!]] मध्यमम᳘हरन्त᳘रिक्षमस्य व्वर्षाशर᳘दावृतू य᳘दूर्ध्व᳘मन्त᳘रिक्षादर्व्वाची᳘नन्दिवस्त᳘च्चतुर्थम᳘हस्त᳘द्वस्य हेमन्त᳘ ऽऋतुर्द्यौ᳘रे᳘वास्य पञ्चमम᳘हर्द्यौ᳘रस्य शि᳘शिर ऽऋतुरि᳘त्यधिदेवतम्॥

मूलम् - श्रीधरादि

त᳘स्याय᳘मेव᳘ लोकः᳘ प्रथमम᳘हः॥
(र) अय᳘मस्य लोको᳘ व्वसन्त᳘ ऽऋतुर्य्य᳘दूर्ध्व᳘मस्मा᳘ल्लोका᳘दर्व्वाची᳘नमन्त᳘रिक्षात्त᳘द्द्विती᳘यम᳘हस्त᳘द्वस्य ग्रीष्म᳘ ऽऋतुरन्त᳘रिक्षमे᳘वास्य[[!!]] मध्यमम᳘हरन्त᳘रिक्षमस्य व्वर्षाशर᳘दावृतू य᳘दूर्ध्व᳘मन्त᳘रिक्षादर्व्वाची᳘नन्दिवस्त᳘च्चतुर्थम᳘हस्त᳘द्वस्य हेमन्त᳘ ऽऋतुर्द्यौ᳘रे᳘वास्य पञ्चमम᳘हर्द्यौ᳘रस्य शि᳘शिर ऽऋतुरि᳘त्यधिदेवतम्॥

मूलम् - Weber

त᳘स्यास्य᳘मेव᳘ लोकः᳘ प्रथमम᳘हः॥
अय᳘मस्य लोको᳘ वसन्त᳘ ऋतुर्य᳘दूर्ध्व᳘मस्मा᳘ल्लोका᳘दर्वाची᳘नमन्त᳘रिक्षात्त᳘द्द्विती᳘यम᳘हस्त᳘द्वस्याग्रीष्म᳘ ऋतु᳘रन्त᳘रिक्षमेॗवास्य मध्यमम᳘हरन्त᳘रिक्षमस्य वर्षाशर᳘दावृतू य᳘दूर्ध्व᳘म्न्त᳘रिक्षादर्वाची᳘नं दिवस्त᳘च्चतुर्थम᳘हस्त᳘द्वस्य हेमन्त᳘ ऋतुर्द्यौ᳘रेॗवास्य पञ्चमम᳘हर्द्यौ᳘रस्य शि᳘शिर ऋतुरि᳘त्यधिदेवतम्॥

मूलम् - विस्वरम्

तस्यायमेव लोकः प्रथममहः । अयमस्य लोको वसंत ऋतुः । यदूर्ध्वमस्माल्लोकादर्वाचीनमंतरिक्षात् । तत् द्वितीयमहः । तद्वस्य ग्रीष्म ऋतुः । अंतरिक्षमेवास्य मध्यममहः । अंतरिक्षमस्य वर्षाशरदावृतू । यदूर्ध्वमन्तरिक्षादर्वाचीनं दिवः । तच्चतुर्थमहः । तद्वस्य हेमंत ऋतुः । द्यौरेवास्य पंचममहः । द्यौरस्य शिशिर ऋतुः । इत्यधिदेवतम् ॥ १० ॥

हरिस्वामी

[व्याख्यानं नवमे]

Eggeling
  1. The first day is for it this same (terrestrial) world, and the spring season 12 also is this its (terrestrial) world; and the second day is what there is above this (terrestrial) world and below the air, and the summer season also is that (part) of it; and the central day is its air, and the rainy and autumn seasons also are its air; and the fourth day is what is above the air, and below the sky, and the winter season also is that (part) of it; and its fifth day is the sky, and the dewy season also is its sky: thus as to the deities.

११

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थाध्यात्म᳘म्॥
(म्प्र) प्प्रति᳘ष्ठै᳘वास्य प्प्रथमम᳘हः प्रति᳘ष्ठो ऽअस्य व्वसन्त᳘ ऽऋतुर्य्य᳘दूर्ध्व᳘म्प्रतिष्ठा᳘या ऽअवा᳘ची᳘नम्म᳘ध्यात्त᳘द्द्विती᳘यम᳘हस्त᳘द्वस्य ग्ग्रीष्म᳘ ऽऋतुर्म्म᳘ध्यमे᳘वास्य मध्यमम᳘हर्म्म᳘ध्यमस्य व्वर्षाशर᳘दावृतू य᳘दूर्ध्वं म᳘ध्यादवाची᳘नᳫँ᳭ शीर्ष्णस्त᳘च्चतुर्थ्थम᳘हस्त᳘द्वस्य हेमन्त᳘ ऽऋतुः शि᳘र ऽए᳘वास्य पञ्चमम᳘हः शि᳘रो ऽस्य शि᳘शिर ऽऋतु᳘रेव᳘मिमे᳘ च लोकाः᳘ सम्वत्सर᳘श्चात्मा᳘ च पुरुषमेध᳘मभिस᳘म्पद्यन्ते स᳘र्व्वम्वा᳘ ऽइमे᳘ लोकाः स᳘र्व्वᳫँ᳭ सम्वत्सरः स᳘र्व्वमात्मा स᳘र्व्वम्पुरुषमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थाध्यात्म᳘म्॥
(म्प्र) प्प्रति᳘ष्ठै᳘वास्य प्प्रथमम᳘हः प्रति᳘ष्ठो ऽअस्य व्वसन्त᳘ ऽऋतुर्य्य᳘दूर्ध्व᳘म्प्रतिष्ठा᳘या ऽअवा᳘ची᳘नम्म᳘ध्यात्त᳘द्द्विती᳘यम᳘हस्त᳘द्वस्य ग्ग्रीष्म᳘ ऽऋतुर्म्म᳘ध्यमे᳘वास्य मध्यमम᳘हर्म्म᳘ध्यमस्य व्वर्षाशर᳘दावृतू य᳘दूर्ध्वं म᳘ध्यादवाची᳘नᳫँ᳭ शीर्ष्णस्त᳘च्चतुर्थ्थम᳘हस्त᳘द्वस्य हेमन्त᳘ ऽऋतुः शि᳘र ऽए᳘वास्य पञ्चमम᳘हः शि᳘रो ऽस्य शि᳘शिर ऽऋतु᳘रेव᳘मिमे᳘ च लोकाः᳘ सम्वत्सर᳘श्चात्मा᳘ च पुरुषमेध᳘मभिस᳘म्पद्यन्ते स᳘र्व्वम्वा᳘ ऽइमे᳘ लोकाः स᳘र्व्वᳫँ᳭ सम्वत्सरः स᳘र्व्वमात्मा स᳘र्व्वम्पुरुषमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै॥

मूलम् - Weber

अ᳘थाध्यात्म᳘म्॥
प्रतिॗष्थैॗवास्य प्रथमम᳘हः प्रतिॗष्ठो अस्य वसन्त᳘ ऋतुर्य᳘दूर्ध्व᳘म् प्रतिष्ठा᳘या अवाची᳘नम् म᳘द्ध्यात्त᳘द्द्विती᳘यम᳘हस्त᳘द्वस्य ग्रीष्म᳘ ऋतुर्म᳘ध्यमेॗवास्य मध्यमम᳘हर्म᳘ध्यमस्य वर्षाशर᳘दावृतू य᳘दूर्ध्वम् म᳘ध्यादवाची᳘नम् शीर्ष्णस्त᳘च्चतुर्थम᳘हस्त᳘द्वस्य हेमन्त᳘ ऋतुः शि᳘र एॗवास्य पञ्चमम᳘हः शि᳘रोऽस्य शि᳘शिर ऋतु᳘रेव᳘मिमे᳘ च लोका᳘ सम्वत्सर᳘श्चात्मा᳘ च पुरुषमेध᳘मभिस᳘म्पद्यन्ते स᳘र्वम् वा᳘ इमे᳘ लोकाः स᳘र्वᳫं सम्वत्सरः स᳘र्वमात्मा स᳘र्वम् पुरुषमेधः स᳘र्वस्या᳘प्त्यै स᳘र्वस्या᳘वरुद्ध्यै॥

मूलम् - विस्वरम्

अथाध्यात्मम् । प्रतिष्ठैवास्य प्रथममहः । प्रतिष्ठो अस्य वसंत ऋतुः । यदूर्ध्वं प्रतिष्ठाया अवाचीनं मध्यात् । तत् द्वितीयमहः । तद्वस्य ग्रीष्म ऋतुः । मध्यमेवास्य मध्यममहः । मध्यमस्य वर्षाशरदावृतू । यदूर्ध्वं मध्यादवाचीनं शीर्ष्णः । तच्चतुर्थमहः । तद्वस्य हेमन्त ऋतुः । शिशिर एवास्य पंचममहः । शिरो ऽस्य शिशिर ऋतुः । एवमिमे च लोकाः संवत्सरश्च आत्मा च पुरुषमेधमभिसंपद्यंते । सर्वं वा इमे लोकाः । सर्वं संवत्सरः । सर्वमात्मा । सर्वं पुरुषमेधः । सर्वस्याप्त्यै । सर्वस्यावरुद्ध्यै ॥ ११ ॥

हरिस्वामी

[व्याख्यानं नवमे]

Eggeling
  1. Then as to the body 13. The first day is its feet, and the spring season also is its feet; and the second day is what is above the feet, and below the waist, and the summer season also is that (part) of it; and the central day is its waist, and the rainy and autumn seasons also are its waist; the fourth day is what is above the waist and below the head, and the winter season also is that (part) of it; and the fifth day is its head, and the dewy season also is its head:–thus these worlds, as well as the year and the (sacrificer’s) self, pass into the Purushamedha for the obtainment and securing of everything, for, indeed, these worlds are everything, and the year is everything, and the self is everything, and the Purushamedha is everything.

  1. पुरुषमेधस्त्रयोविँशतिदीक्षो ऽतिष्ठाकामस्य । का. श्रौ. सू. २१ । १ । सर्वाण्यतिक्रम्यावस्थानमतिष्ठा । ↩︎

  2. 403:1 That is, according to Harisvāmin, he brought its powers into play, and accomplished all his desires:–tatsādhanāny upāpādayat, tenāyaṁ yajanena samīhitaṁ sakalaṁ sādhitavān ity arthaḥ. ↩︎

  3. द्रात्रः स᳘ दीक्षोपस᳘त्कश्च A. ↩︎

  4. 403:2 The Virāj-verse consists of decasyllabic pādas, the most common form of the verse being one of three pādas (or thirty syllables), whilst here the one consisting of four pādas is alluded to, and Virāj-verses of one and two pādas likewise occur. There is also a parallel form of the Virāj-metre consisting of (usually three) hendeca-syllabic pādas. ↩︎

  5. 403:3 That is, from the Purusha; cf. Rig-v. S. X, 90, 5. ↩︎

  6. 404:1 Harisvāmin supplies ‘pūrve purushāḥ’ (? former men, or the first seven purushāḥ, the seven R̥shis). ↩︎

  7. 404:2 That is, the day before the Soma-sacrifice. ↩︎

  8. “यजमानः पाप्मानम्” इत्यनयोः पदयोर्मध्ये “पुरस्तात्” इति पदं जर्मनदेशीयमुद्रितपुस्तके ऽधिकं वर्तते अस्मदुपलब्धयावल्लिखितादर्शपुस्तकेषु तु नास्ति । अतस्तच्चिन्त्यम् । ↩︎ ↩︎

  9. 404:3 See III, 7, 2, 1 seqq. ↩︎

  10. 405:1 Viz. an Agnishṭoma form of the Gyotishṭoma order of sacrifice. Cf. part iv, p. 287, note 2. ↩︎

  11. 405:2 That is, becoming larger towards the middle, inasmuch as the Ukthya is–as far as Stotras and Sastras, and cups of Soma are concerned–a larger sacrifice than the Agnishṭoma; and the Atirātra is the largest form of all. ↩︎

  12. 406:1 It should be borne in mind here that the sacrifice (Prajāpati) is identical with the Sacrificer on the one hand, and with the year on the other. ↩︎

  13. 406:2 Or, as to the self, viz. of Prajāpati (and the Sacrificer), which the sacrifice is supposed to reproduce. ↩︎