०१

विश्वास-प्रस्तुतिः

एते᳘न हेन्द्रोतो᳘ दैवापः शौ᳘नकः॥
(को) जनमेजय᳘म्पारिक्षितं᳘ याजया᳘ञ्चकार ते᳘नेष्ट्वा स᳘र्व्वाम्पापकृत्याᳫँ᳭ स᳘र्व्वाम्ब्रह्महत्याम᳘पजघान स᳘र्व्वाᳫँ᳭ ह वै᳘ पापकृत्याᳫँ᳭ स᳘र्व्वाम्ब्रह्महत्याम᳘पहन्ति᳘ यो ऽश्वमेधे᳘न य᳘जते॥

मूलम् - श्रीधरादि

एते᳘न हेन्द्रोतो᳘ दैवापः शौ᳘नकः॥
(को) जनमेजय᳘म्पारिक्षितं᳘ याजया᳘ञ्चकार ते᳘नेष्ट्वा स᳘र्व्वाम्पापकृत्याᳫँ᳭ स᳘र्व्वाम्ब्रह्महत्याम᳘पजघान स᳘र्व्वाᳫँ᳭ ह वै᳘ पापकृत्याᳫँ᳭ स᳘र्व्वाम्ब्रह्महत्याम᳘पहन्ति᳘ यो ऽश्वमेधे᳘न य᳘जते॥

मूलम् - Weber

एते᳘न हेन्द्रोतो᳘ दैवापः शौ᳘नकः॥
जनमेजय᳘म् पारिक्षितं᳘ याजया᳘म् चकार ते᳘नेष्ट्वा स᳘र्वाम् पापकृत्याᳫं स᳘र्वाम् ब्रह्महत्याम᳘पजघान स᳘र्वाᳫं ह वै᳘ पापकृत्याᳫं स᳘र्वाम् ब्रह्महत्याम᳘पहन्तिॗ योऽश्वमेधे᳘न य᳘जते॥

मूलम् - विस्वरम्

एतेन ह इन्द्रोतो दैवापः शौनको जनमेजयं पारिक्षितं याजयांचकार । तेनेष्ट्वा सर्वां पापकृत्या सर्वां ब्रह्महत्यामपजघान । सर्वां ह वै पापकृत्यां सर्वां ब्रह्महत्यामपहंति । यो ऽश्वमेधेन यजते ॥ १ ॥

हरिस्वामी

एतेन हेन्द्रोतः । इंद्रोतो नाम देवापेरपत्यं दैवापः । शुनकस्य गोत्रापत्यं शौनकः । याजितवान् ॥ १ ॥

Eggeling
  1. Now, Indrota Daivāpa Śaunaka once performed this sacrifice for Janamejaya Pārikshita, and by performing it he extinguished all evil-doing, all Brahman-slaughter; and, verily, he who performs the Aśvamedha extinguishes (the guilt incurred by) all evil-doing, all Brahman-slaughter.

०२

विश्वास-प्रस्तुतिः

त᳘देतद्गा᳘थया ऽभि᳘गीतम्॥
(मा) आसन्दी᳘वति धान्याद᳘ᳫँ᳘ रुक्मि᳘णᳫँ᳭ ह᳘रितस्रजम्। आबध्नाद᳘श्वᳫँ᳭ सारङ्ग᳘न्देवे᳘भ्यो जनमेजय ऽइ᳘ति॥

मूलम् - श्रीधरादि

त᳘देतद्गा᳘थया ऽभि᳘गीतम्॥
(मा) आसन्दी᳘वति धान्याद᳘ᳫँ᳘ रुक्मि᳘णᳫँ᳭ ह᳘रितस्रजम्। आबध्नाद᳘श्वᳫँ᳭ सारङ्ग᳘न्देवे᳘भ्यो जनमेजय ऽइ᳘ति॥

मूलम् - Weber

त᳘देतद्गा᳘थयाभि᳘गीतम्॥
आसन्दी᳘वति धान्यादं᳘ रुक्मि᳘णᳫं ह᳘रितस्रजम् अ᳘बध्नाद᳘श्वᳫं 1 सारङ्गं᳘ देवे᳘भ्यो जनमेजय इ᳘ति॥

मूलम् - विस्वरम्

तदेतत् गाथया ऽभिगीतम्- “आसंदीवति धान्यादं रुक्मिणं हरितस्रजम् । आबध्नादश्वं सारङ्गं देवेभ्यो जनमेजयः”- इति ॥ २ ॥

हरिस्वामी

तदेतद्गाथया ऽभिगीतम्- आसंदीवति नगरे । धान्यादं धान्याशनम् । बलिनम् । रुक्मिणं रुक्मललाटम् । हरितस्रजं सुवर्णमालिनम् । आबध्नात् बद्धवान् । अश्वं जनमेजयः ॥ २ ॥

Eggeling
  1. It is of this, indeed, that the Gāthā (strophe) sings,–‘In Āsandīvat 2, Janamejaya bound for the gods a black-spotted, grain-eating horse, adorned with a golden ornament and with yellow garlands.’

०३

विश्वास-प्रस्तुतिः

(त्ये) एते᳘ ऽएव पू᳘र्व्वे ऽअ᳘हनी॥
ज्यो᳘तिरतिरात्रस्ते᳘न भीम᳘सेनमेते᳘ ऽएव पूर्व्वे ऽअ᳘हनी[[!!]] गौ᳘रतिरात्रस्ते᳘नोग्ग्र᳘सेनमेते᳘ ऽएव पू᳘र्व्वे ऽअ᳘हनी ऽआ᳘युरतिरात्रस्ते᳘न श्रुत᳘सेनमि᳘त्येते᳘ पारिक्षिती᳘यास्त᳘देतद्गाथया ऽभि᳘गीतम्पारिक्षिता[[!!]] य᳘जमाना ऽअश्वमेधैः᳘ परो ऽवरम्। अ᳘जहुः कर्म्म[[!!]] पा᳘पकम्पु᳘ण्याः पुण्येन[[!!]] कर्मणेति[[!!]]॥

मूलम् - श्रीधरादि

(त्ये) एते᳘ ऽएव पू᳘र्व्वे ऽअ᳘हनी॥
ज्यो᳘तिरतिरात्रस्ते᳘न भीम᳘सेनमेते᳘ ऽएव पूर्व्वे ऽअ᳘हनी[[!!]] गौ᳘रतिरात्रस्ते᳘नोग्ग्र᳘सेनमेते᳘ ऽएव पू᳘र्व्वे ऽअ᳘हनी ऽआ᳘युरतिरात्रस्ते᳘न श्रुत᳘सेनमि᳘त्येते᳘ पारिक्षिती᳘यास्त᳘देतद्गाथया ऽभि᳘गीतम्पारिक्षिता[[!!]] य᳘जमाना ऽअश्वमेधैः᳘ परो ऽवरम्। अ᳘जहुः कर्म्म[[!!]] पा᳘पकम्पु᳘ण्याः पुण्येन[[!!]] कर्मणेति[[!!]]॥

मूलम् - Weber

एते᳘ एव पू᳘र्वे अ᳘हनी॥
ज्यो᳘तिरतिरात्रस्ते᳘न भीम᳘सेनमेते᳘ एव पू᳘र्वे अ᳘हनी गौ᳘रतिरात्रस्ते᳘नोग्र᳘सेनमेते᳘ एव पू᳘र्वे अ᳘हनी आ᳘युरतिरात्रस्ते᳘न श्रुत᳘सेनमि᳘त्येते᳘ पारिक्षिती᳘यास्त᳘देतद्गा᳘थयाभि᳘गीतम् पारिक्षिता य᳘जमाना अश्वमेधैः᳘ परोऽवरम् अ᳘जहुः क᳘र्म पा᳘पकम् पु᳘ण्याः पु᳘ण्येन क᳘र्मणे᳘ति॥

मूलम् - विस्वरम्

एते एव पूर्वे अहनी । ज्योतिरतिरात्रः । तेन भीमसेनम् । एते एव पूर्वे अहनी । गौरतिरात्रः । तेनोग्रसेनम् । एते एव पूर्वे अहनी । आयुरतिरात्रः । तेन श्रुतसेनम् । इत्येते पारिक्षितीयाः । तदेतद्गाथया ऽभिगीतम्- “पारिक्षिता यजमाना अश्वमेधैः परो ऽवरम् । अजहुः कर्म पापकं पुण्याः पुण्येन कर्मणा”- इति ॥ ३ ॥

हरिस्वामी

एते एव पूर्वे । अत आरभ्य तृतीयदिवसस्य इदानीं कल्पान्तराण्युच्यंते 3 । एते भीमसेनादयः पारिक्षितीयाः परिक्षितस्येमे भ्रातरः पारिक्षितीयाः । अश्वमेधविशेषा इत्यपरे । परो ऽवरम् । परे परे ततः अवरे ऽवरे इत्येतस्मिन्नर्थे अव्ययीभावसमासत्वमित्यर्थः । सततं यजमानाः पुण्याः भवंतः कर्म पापकम् अजहुः त्यक्तवंतः ॥ ३ ॥

Eggeling
  1. [There are] those same first two days 4, and a Jyotis 5 Atirātra: therewith (they sacrificed) for Bhīmasena;–those same first two days, and a Go Atirātra: therewith (they sacrificed) for Ugrasena;–those same first two days, and an Āyus Atirātra: therewith (they sacrificed) for Śrutasena. These are the Pārikshitīyas 6, and it is of this that the Gāthā sings,–‘The righteous Pārikshitas, performing horse-sacrifices, by their righteous work did away with sinful work one after another.’

०४

विश्वास-प्रस्तुतिः

(त्ये) एते᳘ ऽएव पू᳘र्व्वे ऽअ᳘हनी॥
(नी ऽअ) अभिजि᳘दतिरात्रस्ते᳘न ह प᳘र ऽआह्णार᳘ ऽईजे कौ᳘सल्यो रा᳘जा त᳘देतद्गा᳘थया ऽभि᳘गीतमह्णार᳘स्य प᳘रः पुत्रो᳘ ऽश्वम्मे᳘ध्यमबन्धयत्। हैरण्यनाभः कौ᳘सल्यो दि᳘शः पूर्णा᳘ ऽअमᳫँ᳭हते᳘ति॥

मूलम् - श्रीधरादि

(त्ये) एते᳘ ऽएव पू᳘र्व्वे ऽअ᳘हनी॥
(नी ऽअ) अभिजि᳘दतिरात्रस्ते᳘न ह प᳘र ऽआह्णार᳘ ऽईजे कौ᳘सल्यो रा᳘जा त᳘देतद्गा᳘थया ऽभि᳘गीतमह्णार᳘स्य प᳘रः पुत्रो᳘ ऽश्वम्मे᳘ध्यमबन्धयत्। हैरण्यनाभः कौ᳘सल्यो दि᳘शः पूर्णा᳘ ऽअमᳫँ᳭हते᳘ति॥

मूलम् - Weber

एते᳘ एव पू᳘र्वे अ᳘हनी॥
अभिजि᳘दतिरात्रस्ते᳘न ह प᳘र आट्णार᳘ ईजे कौ᳘सल्यो रा᳘जा त᳘देतद्गा᳘थयाभि᳘गीतमट्णार᳘स्य प᳘रः पुत्रो᳘ऽश्वम् मे᳘ध्यमबन्धयत् हैरण्यनाभः कौ᳘सल्यो दि᳘शः पूर्णा᳘ अमंहते᳘ति॥

मूलम् - विस्वरम्

एते एव पूर्वे अहनी । अभिजिदतिरात्रः । तेन ह पर आह्णार ईजे कौसल्यो राजा । तदेतद्गाथया ऽभिगीतम्- “अह्णारस्य परः पुत्रो ऽश्वं मेध्यमबंधयत् । हैरण्यनाभः कौसल्यो दिशः पूर्णा अमंहत”- इति ॥ ४ ॥

हरिस्वामी

परो नामतः अह्णारपुत्रः कौसल्यो गोत्रतः । हिरण्यनाभस्यापत्यं अबंधयत् । दिशः पूर्णाः ऋत्विजि योजितवान् । दिशो वित्तस्य पूर्णाः अमंहत मंहतिर्दानकर्मा ऋत्विग्भ्यो दत्तवानित्यर्थः ॥ ४ ॥

Eggeling
  1. Those same first two days, and an Abhijit 7 Atirātra,–therewith Para Āṭnāra, the Kausalya king, once sacrificed: it is of this that Gāthā sings,–‘Aṭnāra’s son, the Kausalya Para, Hairaṇyanābha, caused a horse, meet for sacrifice, to be bound, and gave away the replete regions.’

०५

विश्वास-प्रस्तुतिः

(त्ये) एते᳘ ऽएव पू᳘र्व्वे ऽअ᳘हनी॥
व्विश्वजि᳘दतिरात्रस्ते᳘न ह पुरुकुत्सो᳘ दौर्ग्ग्रहे᳘णेज ऽऐक्ष्वाको रा᳘जा त᳘स्मादेतदृ᳘षिणा ऽभ्य᳘नूक्तमस्मा᳘कम᳘त्र पित᳘रस्त᳘ ऽआसन्त्सप्त ऽऋष᳘यो दौर्ग्ग्रहेण[[!!]] बध्य᳘मान ऽइ᳘ति॥

मूलम् - श्रीधरादि

(त्ये) एते᳘ ऽएव पू᳘र्व्वे ऽअ᳘हनी॥
व्विश्वजि᳘दतिरात्रस्ते᳘न ह पुरुकुत्सो᳘ दौर्ग्ग्रहे᳘णेज ऽऐक्ष्वाको रा᳘जा त᳘स्मादेतदृ᳘षिणा ऽभ्य᳘नूक्तमस्मा᳘कम᳘त्र पित᳘रस्त᳘ ऽआसन्त्सप्त ऽऋष᳘यो दौर्ग्ग्रहेण[[!!]] बध्य᳘मान ऽइ᳘ति॥

मूलम् - Weber

एते᳘ एव पू᳘र्वे अ᳘हनी॥
विश्वजि᳘दतिरात्रस्ते᳘न ह पुरुकुत्सो दौर्गहे᳘णेज ऐक्ष्वाको रा᳘जा त᳘स्मादेतदृ᳘षिणाभ्य᳘नूक्तमस्मा᳘कम᳘त्र पित᳘रस्त᳘ आसन्त्सप्त ऋष᳘यो दौर्गहे᳘ 8 बध्य᳘मान इ᳘ति॥

मूलम् - विस्वरम्

एते एव पूर्वे अहनी । विश्वजिदतिरात्रः । तेन ह पुरुकुत्सो दौर्ग्रहेणेज ऐक्ष्वाको राजा । तस्मादेतदृषिणा ऽभ्यनूक्तम्- “अस्माकमत्र 9 पितरस्त आसन् सप्त ऋषयो दौर्ग्रहे बध्यमाने”- इति ॥ ५॥

हरिस्वामी

तेन क्रतुना । पुरुकुत्सः इक्ष्वाकोरपत्यं ऐक्ष्वाकः दौर्ग्रहो नामतः दौर्ग्रहेणाश्वेन संहतेन क्रतुना ईजे । अश्वमेधेन ईजे इत्यर्थः । तस्मादेतदृषिणा मनुदृशा अभिनययुक्तमुक्तम् । ये अस्माकं पितरः पूर्वजाः गोतमादयः अत्र स्थाने आसन् । दौर्ग्रहे अश्वे बध्यमाने पुरुकुत्सेन ते आयजंत । त्रसदस्युं अस्या इन्द्रं न वृत्रतुरमर्धदेवं ते सप्तर्षय आयजंत आभिमुख्येन याजितवंतः । कं त्रसदस्युं नाम राजानम् । कीदृशं अस्याः पृथिव्या अर्धदेवम् । पूर्वदेवताभागानां देवं ईश्वरं वृत्रस्य पाप्मनः हंतारं इंद्रं न इंद्रमिव वृत्रतुरं अयाजयन् ॥ ५ ॥

Eggeling
  1. Those same first two days, and a Viśvajit 7 Atirātra,–therewith Purukutsa, the Aikshvāka king, once on a time performed a horse (daurgaha)-sacrifice, whence it is of this that the R̥shi sings (R̥g-v. IV, 42, 8),–‘These, the seven R̥shis, were then our fathers when Daurgaha 10 was bound.’

०६

विश्वास-प्रस्तुतिः

(त्ये) एते᳘ ऽएव पू᳘र्व्वे ऽअ᳘हनी॥
महाव्व्रत᳘मतिरात्रस्ते᳘न ह मरु᳘त्त ऽआविक्षित᳘ ऽईज ऽआ᳘योगवो रा᳘जा त᳘स्य ह त᳘तो मरु᳘तः परिवेष्टा᳘रो ऽग्निः᳘ क्षत्ता व्वि᳘श्वे देवाः᳘ सभास᳘दो बभूवुस्त᳘देतद्गा᳘थया ऽभि᳘गीतम्मरु᳘तः परिवेष्टा᳘रो मरु᳘त्तस्यावसन्गृहे[[!!]]। आविक्षित᳘स्याग्निः᳘ क्षत्ता व्वि᳘श्वे देवाः᳘ सभास᳘द ऽइ᳘ति मरु᳘तो ह वै त᳘स्य परिवेष्टा᳘रो ऽग्निः᳘ क्षत्ता व्वि᳘श्वे देवाः᳘ सभास᳘दो भवन्ति᳘ यो ऽश्वमेधे᳘न य᳘जते॥

मूलम् - श्रीधरादि

(त्ये) एते᳘ ऽएव पू᳘र्व्वे ऽअ᳘हनी॥
महाव्व्रत᳘मतिरात्रस्ते᳘न ह मरु᳘त्त ऽआविक्षित᳘ ऽईज ऽआ᳘योगवो रा᳘जा त᳘स्य ह त᳘तो मरु᳘तः परिवेष्टा᳘रो ऽग्निः᳘ क्षत्ता व्वि᳘श्वे देवाः᳘ सभास᳘दो बभूवुस्त᳘देतद्गा᳘थया ऽभि᳘गीतम्मरु᳘तः परिवेष्टा᳘रो मरु᳘त्तस्यावसन्गृहे[[!!]]। आविक्षित᳘स्याग्निः᳘ क्षत्ता व्वि᳘श्वे देवाः᳘ सभास᳘द ऽइ᳘ति मरु᳘तो ह वै त᳘स्य परिवेष्टा᳘रो ऽग्निः᳘ क्षत्ता व्वि᳘श्वे देवाः᳘ सभास᳘दो भवन्ति᳘ यो ऽश्वमेधे᳘न य᳘जते॥

मूलम् - Weber

एते᳘ एव पू᳘र्वे अ᳘हनी॥
महाव्रत᳘मतिरात्रस्ते᳘न ह मरु᳘त्त आविक्षित᳘ ईज आ᳘योगवो रा᳘जा त᳘स्य ह त᳘तो मरु᳘तः परिवेष्टा᳘रोऽग्निः᳘ क्षत्ता वि᳘श्वे देवाः᳘ सभास᳘दो बभूवुस्त᳘देतद्गा᳘थयाभि᳘गीतम् मरु᳘तः परिवेष्टा᳘रो मरु᳘त्तस्यावसन्गृहे᳘ 11 आविक्षित᳘स्याग्निः᳘ क्षत्ता वि᳘श्वे देवाः᳘ सभास᳘द इ᳘ति मरु᳘तो ह वै त᳘स्य परिवेष्टा᳘रोऽग्निः᳘ क्षत्ता वि᳘श्वे देवाः᳘ सभास᳘दो भवन्तिॗ योऽश्वमेधे᳘न य᳘जते॥

मूलम् - विस्वरम्

एते एव पूर्वे अहनी । महाव्रतमतिरात्रः । तेन ह मरुत्त आविक्षित ईज आयोगवो राजा । तस्य ह ततो मरुतः परिवेष्टारो ऽग्निः क्षत्ता विश्वे देवाः सभासदो बभूवुः । तदेतद्गाथया ऽभिगीतम्- “मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे । आविक्षितस्याग्निः क्षत्ता विश्वे देवाः सभासदः”- इति । मरुतो ह वै तस्य परिवेष्टारो ऽग्निः क्षत्ता विश्वे देवाः सभासदो भवन्ति । यो ऽश्वमेधेन यजते ॥ ६ ॥

हरिस्वामी

मरुत्तः मरुत्तो नाम राजा अविक्षितस्यापत्यं आविक्षितः । आयोगवो भोजयितारः । अग्निः क्षत्ता । सन्निधाता कोशाध्यक्षः । अवसन् उषिताः गृहे ॥ ६ ॥

Eggeling
  1. Those same first two days, and a Mahāvrata 12 Atirātra,–therewith Marutta Āvikshita, the Āyogava king, once performed sacrifice; whence the Maruts became his guards-men, Agni his chamberlain, and the Viśve Devāḥ his counsellors: it is of this that the Gāthā sings,–‘The Maruts dwelt as guards-men in Marutta Āvikshita’s house, Agni as his chamberlain, and the Viśve Devāḥ as his counsellors.’ And, verily, the Maruts become the guards-men, Agni the chamberlain, and the Viśve Devāḥ the counsellors of him who performs the horse-sacrifice.

०७

विश्वास-प्रस्तुतिः

(त ऽए) एते᳘ ऽएव पू᳘र्व्वे ऽअ᳘हनी॥
(नी ऽअ) अप्तोर्य्या᳘मो ऽतिरात्रस्ते᳘न हैते᳘न क्रै᳘व्य ऽईजे पा᳘ञ्चालो रा᳘जा क्रि᳘वय ऽइ᳘ति ह वै᳘ पुरा᳘ पञ्चालाना᳘चक्षते त᳘देतद्गा᳘थया ऽभि᳘गीतम᳘श्वम्मे᳘ध्यमा᳘लभते क्रि᳘वीणाम᳘तिपूरुषः। पा᳘ञ्चालः प᳘रिवक्रायाᳫँ᳭ सहस्रशत᳘दक्षिणमि᳘ति॥

मूलम् - श्रीधरादि

(त ऽए) एते᳘ ऽएव पू᳘र्व्वे ऽअ᳘हनी॥
(नी ऽअ) अप्तोर्य्या᳘मो ऽतिरात्रस्ते᳘न हैते᳘न क्रै᳘व्य ऽईजे पा᳘ञ्चालो रा᳘जा क्रि᳘वय ऽइ᳘ति ह वै᳘ पुरा᳘ पञ्चालाना᳘चक्षते त᳘देतद्गा᳘थया ऽभि᳘गीतम᳘श्वम्मे᳘ध्यमा᳘लभते क्रि᳘वीणाम᳘तिपूरुषः। पा᳘ञ्चालः प᳘रिवक्रायाᳫँ᳭ सहस्रशत᳘दक्षिणमि᳘ति॥

मूलम् - Weber

एते᳘ एव पू᳘र्वे अ᳘हनी॥
अप्तोर्याॗमोऽतिरात्रस्ते᳘न हैते᳘न क्रै᳘व्यईजे पा᳘ञ्चालो रा᳘जा क्रि᳘वय इ᳘ति ह वै᳘ पुरा᳘ पञ्चालाना᳘चक्षते त᳘देतद्गा᳘थयाभि᳘गीतम् अ᳘श्वम् मे᳘ध्यमा᳘लभत क्रि᳘वीणाम᳘तिपूरुषः पा᳘ञ्चालः प᳘रिवक्रायाᳫं 13 सहस्रशत᳘दक्षिणमि᳘ति॥

मूलम् - विस्वरम्

एते एव पूर्वे अहनी । अप्तोर्यामो ऽतिरात्रः । तेन हैतेन क्रैव्य ईजे पांचालो राजा । क्रिवय इति वै पुरा पंचालानाचक्षते । तदेतद्गाथया ऽभिगीतम्- “अश्वं मेध्यमालभते क्रिवीणामतिपूरुषः । पांचालः परिवक्रायां सहस्रशतदक्षिणम्”- इति ॥ ७ ॥

हरिस्वामी

परिवक्रायां नगर्याम् ॥ ७ ॥

Eggeling
  1. Those same first two days, and an Aptoryāma 14 Atirātra,–it was therewith that Kraivya, the Pāñcāla king, once performed sacrifice,–for Krivis they formerly called the Pañcālas: it is of this that the Gāthā sings,–‘At Parivakrā, the

Pāñcāla overlord of the Krivis seized a horse, meet for sacrifice, with offering-gifts of a hundred thousand (head of cattle).’

०८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ द्विती᳘यया॥
सह᳘स्रमासन्नयु᳘ता शता᳘ च प᳘ञ्चविᳫँ᳭शतिः। दिक्तो᳘ दिक्तः पञ्चाला᳘नाम्ब्राह्मणा या᳘ व्विभेजिर ऽइ᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ द्विती᳘यया॥
सह᳘स्रमासन्नयु᳘ता शता᳘ च प᳘ञ्चविᳫँ᳭शतिः। दिक्तो᳘ दिक्तः पञ्चाला᳘नाम्ब्राह्मणा या᳘ व्विभेजिर ऽइ᳘ति॥

मूलम् - Weber

अ᳘थ द्विती᳘यया॥
सह᳘स्रमासन्नयु᳘ता शता᳘ च प᳘ञ्चविंशतिः दिक्तो᳘-दिक्तः पञ्चाला᳘नाम् ब्राह्मणा या᳘ विभेजिर इ᳘ति॥

मूलम् - विस्वरम्

अथ द्वितीयया- “सहस्रमासन्नयुता शता च पंचविंशतिः । दिक्तो दिक्तः पंचालानां ब्राह्मणा या विभेजिरे”- इति ॥ ८ ॥

हरिस्वामी

सहस्रमयुतानि गवां कोटीरित्यर्थः । शतानि पंचविंशतिर्गृहाणां एकैकस्याः दिशः आदृता ब्राह्मणा ऋत्विजः । यानि अयुतानि शतानि शतानि विभक्तवंतः स्वैः स्वैः पुरुषैः सह ॥ ८ ॥

Eggeling
  1. And a second (Gāthā),–‘A thousand myriads there were, and five-and-twenty hundreds, which the Brāhmaṇas of the Pañcālas from every quarter divided between them.’

०९

विश्वास-प्रस्तुतिः

त्रिवृ᳘दग्निष्टोमः᳘॥
पञ्चदश᳘ ऽउ᳘क्थ्यः[[!!]] सप्तदश᳘न्तृती᳘यम᳘हः सो᳘क्थकमेकविᳫँ᳭शः᳘ षोडशी᳘ पञ्चदशी रा᳘त्रिस्त्रिवृ᳘त्सन्धिरि᳘त्ये᳘षो ऽनुष्टु᳘प्सम्पन्नस्ते᳘न हैते᳘न ध्वसा᳘ द्वैतवन᳘ ऽईजे मात्स्यो रा᳘जा य᳘त्रैतद्द्वै᳘तवनᳫँ᳭ स᳘रस्त᳘देतद्गा᳘थया ऽभि᳘गीतञ्च᳘तुर्द्दश द्वै᳘तवनो रा᳘जा सङ्ग्रामजिद्ध᳘यान्। इ᳘न्द्राय व्वृत्र᳘घ्ने ऽबध्नात्त᳘स्माद्द्वै᳘तवनᳫँ᳭ स᳘र ऽइ᳘ति॥

मूलम् - श्रीधरादि

त्रिवृ᳘दग्निष्टोमः᳘॥
पञ्चदश᳘ ऽउ᳘क्थ्यः[[!!]] सप्तदश᳘न्तृती᳘यम᳘हः सो᳘क्थकमेकविᳫँ᳭शः᳘ षोडशी᳘ पञ्चदशी रा᳘त्रिस्त्रिवृ᳘त्सन्धिरि᳘त्ये᳘षो ऽनुष्टु᳘प्सम्पन्नस्ते᳘न हैते᳘न ध्वसा᳘ द्वैतवन᳘ ऽईजे मात्स्यो रा᳘जा य᳘त्रैतद्द्वै᳘तवनᳫँ᳭ स᳘रस्त᳘देतद्गा᳘थया ऽभि᳘गीतञ्च᳘तुर्द्दश द्वै᳘तवनो रा᳘जा सङ्ग्रामजिद्ध᳘यान्। इ᳘न्द्राय व्वृत्र᳘घ्ने ऽबध्नात्त᳘स्माद्द्वै᳘तवनᳫँ᳭ स᳘र ऽइ᳘ति॥

मूलम् - Weber

त्रिवृ᳘दग्निष्टोमः᳟॥
पञ्चदश᳘ उक्थ्यः᳘ सप्तदशं᳘ तृती᳘यम᳘हः सो᳘क्थकमेकविंशः᳘ षोडशी᳘ पञ्च्=दशी रा᳘त्रिस्त्रिवृ᳘त्सन्धिरि᳘त्येॗषोऽनुष्टु᳘प्सम्पन्नस्ते᳘न हैते᳘न ध्वसा᳘ द्वैतवन᳘ईजे मात्स्यो रा᳘जा य᳘त्रैतद्द्वै᳘तवनᳫं स᳘रस्त᳘देतद्गा᳘थयाभि᳘गीतं च᳘तुर्दश द्वैतवनो रा᳘जा सङ्ग्रामजिद्ध᳘यान् इ᳘न्द्राय वृत्र᳘घ्नेऽबध्नात्त᳘स्माद्द्वै᳘तवनᳫं स᳘र इ᳘ति॥

मूलम् - विस्वरम्

त्रिवृदग्निष्टोमः । पंचदश उक्थ्यः । सप्तदशं तृतीयमहः सोक्थकम् । एकविंशः षोडशी । पंचदशी रात्रिः । त्रिवृत्संधिः । इत्येषो ऽनुष्टुप् संपन्नः । तेन हैतेन ध्वसा द्वैतवन ईजे मात्स्यो राजा । यत्रैतत् द्वैतवनं सरः । तत् एतद्गाथया ऽभिगीतम्- “चतुर्दश द्वैतवनो राजा संग्रामजिद्धयान् । इंद्राय वृत्रघ्ने ऽबध्नात् तस्मात् द्वैतवनं सरः”- इति ॥ ९ ॥

हरिस्वामी

त्रिवृदग्निष्टोमः । अत्र त्रिष्वपि दिवसेषु स्तोमांतराणि उच्यन्ते । तच्च कल्पांतरमश्वमेधम् । सप्तदशं तृतीयमहः सोक्थकं उत्थानमित्यर्थः । षोडशिस्तोत्रं चैकविंशम् । सन्धिस्तोत्रं त्रिवृदेव । एषः अश्वमेधः स्तोत्रियाणां अनुष्टुब्भिः पंचविंशत्या संपन्नः । कथं ? अत्र हि सर्वा एव स्तोत्रियाः अपि गण्यमानाः सप्त शतानि अष्टानवत्यधिकानि (७९८) भवति । तासां तासां द्वात्रिंशता (३२) भागे अपहृते पंचविंशतिः अनुष्टुभो लभ्यन्ते । अन्या तु ततः द्वाभ्याम् ऊना अनुष्टुप् भवति । तत्रापि “नाक्षराच्छंदो व्येत्येकस्मान्न द्वाभ्यां”- (श. प. ७-१-२२२) इत्यभिप्रायः । तेन हैतेन । अनुष्टुप्संपन्नेनाश्वमेधेन च ध्वसा प्रापध्वंसनः द्वैतवनो राजा ईजे इष्टवान् । यत्र स्थाने प्रसिद्धमेव एतत् सर्वदा द्वैतवनाख्यं सरः । तत् तद्देशे हयान् द्वैतवनः द्वैतवनीयः राजा संग्रामजितः इंद्राय अबध्नात् । प्राजापत्यानेव चाबध्नात् । सोमैस्तर्पयतीति कृत्वा इंद्रायाबध्नादित्याह । तस्मात् द्वैतवनं सरः सर्वनामव्यत्ययो विभक्तिव्यत्ययश्च द्रष्टव्यः । यस्मिन् द्वैतवनं सरः तत्राबध्नादित्यर्थः ॥ ९ ॥

Eggeling
  1. The Agnishṭoma in the Trivr̥t (stoma); the Ukthya in the Pañcadaśa; and the third day, with the Uktha (stotras), in the Saptadaśa; the Shoḍaśin (stotra) in the Ekaviṁśa, the night (stotras) in the Pañcadaśa, and the Sandhi (stotra) in the Trivr̥t,–this is the (sacrifice) resulting in the Anushṭubh 15: it is therewith that sacrifice was performed by Dhvasan Dvaitavana, the king of the Matsyas, where there is the lake Dvaitavana; and it is of this that the Gāthā sings,–‘Fourteen steeds did king Dvaitavana, victorious in battle, bind for Indra Vr̥trahan, whence the lake Dvaitavana (took its name).’

१०

विश्वास-प्रस्तुतिः

चतुर्व्विᳫँ᳭शाः प᳘वमानाः॥
(स्त्रि) त्रिवृ᳘दभ्याव᳘र्त्तञ्चतुश्चत्वारिᳫँ᳭शाः प᳘वमाना ऽएकविᳫँ᳭श᳘मभ्याव᳘र्त्त᳘मष्टाचत्वारिᳫँ᳭शाः प᳘वमानास्त्रयस्त्रिᳫँ᳭श᳘मभ्याव᳘र्त्त᳘मा ऽग्निष्टोमसामा᳘द्द्वात्रिᳫँ᳭शा᳘न्युक्था᳘न्येकविᳫँ᳭शः᳘ षोडशी᳘ पञ्चदशी रा᳘त्रिस्त्रिवृ᳘त्सन्धिरि᳘ति॥

मूलम् - श्रीधरादि

चतुर्व्विᳫँ᳭शाः प᳘वमानाः॥
(स्त्रि) त्रिवृ᳘दभ्याव᳘र्त्तञ्चतुश्चत्वारिᳫँ᳭शाः प᳘वमाना ऽएकविᳫँ᳭श᳘मभ्याव᳘र्त्त᳘मष्टाचत्वारिᳫँ᳭शाः प᳘वमानास्त्रयस्त्रिᳫँ᳭श᳘मभ्याव᳘र्त्त᳘मा ऽग्निष्टोमसामा᳘द्द्वात्रिᳫँ᳭शा᳘न्युक्था᳘न्येकविᳫँ᳭शः᳘ षोडशी᳘ पञ्चदशी रा᳘त्रिस्त्रिवृ᳘त्सन्धिरि᳘ति॥

मूलम् - Weber

चतुर्विंशाः प᳘वमानाः॥
त्रिवृ᳘दभ्याव᳘र्तं चतुश्चत्वारिंशाः प᳘वमाना एकविंश᳘मभ्याव᳘र्तमष्टाचत्वारिंशाः प᳘वमानास्त्रयस्त्रिंश᳘मभ्याव᳘र्तॗमाग्निष्टोमसामा᳘द्द्यात्रिंशा᳘न्युक्था᳘न्येकविंशः᳘ षोडशी᳘ पञ्चदशी रा᳘त्रिस्त्रिवृ᳘त्सन्धिरि᳘ति॥

मूलम् - विस्वरम्

चतुर्विंशाः पवमानाः । त्रिवृदभ्यावर्तम् । चतुश्चत्वारिंशाः पवमानाः । एकविंशमभ्यावर्तम् । अष्टाचत्वारिंशाः पवमानाः । त्रयस्त्रिंशमभ्यावर्तम् । आ अग्निष्टोमसामाद् । द्वात्रिंशान्युक्थानि । एकविंशः षोडशी । पंचदशी रात्रिः । त्रिवृत् संधिरिति ॥ १० ॥

हरिस्वामी

चतुर्विंशाः पवमानाः । पंचभिरेताभिः कंडिकाभिः कल्पांतरं प्रपंच्यते । तत्र प्रथमे तावदहनि त्रयो ऽपि पवमानाश्चतुर्विंशाः । यत्तु अभ्यावर्तयन्ति अभ्यावर्तं धुर्यैः स्तुवते तत् त्रिवृत् पवमानव्यतिरिक्तानि आवृत्तिस्तोत्राणि त्रिवृति भवन्तीत्यर्थः । द्वितीये त्वहनि चतुश्चत्वारिंशाः पवमानाः एकविंशमभ्यावर्तम् । तृतीये त्वहनि अष्टाचत्वारिंशाः पवमानाः त्रयस्त्रिंशमभ्यावर्तम् इत्यादि ॥ १० ॥

Eggeling
  1. The (three) Pavamāna (stotras) in the Caturviṁśa (stoma), and (those performed) by repetitions 16 in the Trivr̥t; the Pavamānas in the Katuścatvāriṁśa (44-versed stoma), and (those performed) by repetition 17 in the Ekaviṁśa; the Pavamānas in

the Ashṭācatvāriṁśa (48), and (those performed) by repetition in the Trayastriṁśa (33) up to the Agnishṭoma-sāman, the Uktha (stotras) in the Dvātriṁśa (32), the Shoḍaśin in the Ekaviṁśa, the night (stotras) in the Pañcadaśa, and the Sandhi (stotra) in the Trivr̥t

११

विश्वास-प्रस्तुतिः

(त्ये) एतद्वि᳘ष्णोः क्रान्तम्॥
(न्ते᳘) ते᳘न हैते᳘न भरतो दौः᳘षन्तिरीजे ते᳘ने᳘ष्ट्वेमां᳘ व्यष्टि᳘म्व्यानशे᳘[[!!]] येय᳘म्भरता᳘नान्त᳘देतद्गा᳘थया ऽभि᳘गीतमष्टा᳘सप्ततिम्भरतो दौः᳘षन्तिर्य्यमुनाम᳘नु। ग᳘ङ्गायाम्वृत्र᳘घ्ने ऽबध्नात्प᳘ञ्चपञ्चाशतᳫँ᳭ ह᳘यानि᳘ति॥

मूलम् - श्रीधरादि

(त्ये) एतद्वि᳘ष्णोः क्रान्तम्॥
(न्ते᳘) ते᳘न हैते᳘न भरतो दौः᳘षन्तिरीजे ते᳘ने᳘ष्ट्वेमां᳘ व्यष्टि᳘म्व्यानशे᳘[[!!]] येय᳘म्भरता᳘नान्त᳘देतद्गा᳘थया ऽभि᳘गीतमष्टा᳘सप्ततिम्भरतो दौः᳘षन्तिर्य्यमुनाम᳘नु। ग᳘ङ्गायाम्वृत्र᳘घ्ने ऽबध्नात्प᳘ञ्चपञ्चाशतᳫँ᳭ ह᳘यानि᳘ति॥

मूलम् - Weber

एतद्वि᳘ष्णोः क्रान्तम्॥
ते᳘न हैते᳘न भरतो दौः᳘षन्तिरीजे ते᳘नेॗष्ट्वेमाम् व्य᳘ष्टिॗम् व्यानशेॗ येय᳘म् भरता᳘नां त᳘देतद्गा᳘थयाभि᳘गीतमष्टा᳘सप्ततिम् भरतो दौ᳘षन्तिर्यमुनाम᳘नु ग᳘ङ्गायाम् वृत्रॗघ्नेऽबध्नात्प᳘ञ्चपञ्चाशतᳫं ह᳘यानिति॥

मूलम् - विस्वरम्

एतत् विष्णोः क्रांतम् । तेन हैतेन भरतो दौःष्यंतिरीजे । तेनेष्ट्वा, इमां व्यष्टिं व्यानशे । येयं भरतानाम् । तदेतत् गाथया ऽभिगीतम्- “अष्टासप्ततिं भरतो दौःष्यंतिर्यमुनामनु । गंगायां वृत्रघ्ने ऽबध्नात् पंचपंचाशतं हयान्”- इति ॥ ११ ॥

हरिस्वामी

एतद्विष्णोः क्रांतम् । एतत् स्थानविशेषः । क्रान्तं विक्रमणम् । विप्रकृष्टांतरत्वसामान्यात् । यथा हि विष्णोः क्रमममाणस्य महांतराणि पदानि भवंति । एवं महांतराः स्तोमाः । इमां व्यष्टिमानशे । भरतकालादारभ्य कलियुगं यावत् वशे राज्यानुवृत्तिरित्येषा भरतानामिह आनुषंगिकी व्यष्टिः । या तु द्वात्रिंशतं वै देवरथाः तत्पर्यालोक इत्यादि व्यष्टिः । सा विदुषः क्रतुफलरूपा इति द्रष्टव्यम् । अष्टासप्ततिं हयान् अश्वान् यमुनामनु यमुनातीरे अबध्नात् । भरतः दुःष्यंतपुत्रः । वृत्रघ्ने इंद्राय गंगायां तु गंगातीरे । पंचपंचाशतम् । सः अबध्नात् । स किल हिमवत्तलादारभ्य उभयोर्नर्द्योस्तीराभ्यां अश्वमेधैः यजमानः “तावंतो यावत्प्रतिष्ठामिति”- तदिदमुच्यते ॥ ११ ॥

Eggeling
  1. Suchlike is Vishṇu’s striding 18,–it was therewith that Bharata Dauḥshanti once performed sacrifice, and attained that wide sway which now belongs to the Bharatas: it is of this that the Gāthā sings,–‘Seventy-eight steeds did Bharata Dauḥshanti bind for the Vr̥tra-slayer on the Yamunā, and fifty-five near the Gaṅgā.’

१२

विश्वास-प्रस्तुतिः

(त्य) अ᳘थ द्विती᳘यया॥
त्रयस्त्रिᳫँ᳭श᳘ᳫँ᳘ शतᳫँ᳭ रा᳘जा ऽश्वान्बध्वा᳘य[[!!]] मे᳘ध्यान्। सौ᳘द्युम्निर᳘त्यष्टादन्या᳘नमाया᳘न्माय᳘वत्तर ऽइ᳘ति॥

मूलम् - श्रीधरादि

(त्य) अ᳘थ द्विती᳘यया॥
त्रयस्त्रिᳫँ᳭श᳘ᳫँ᳘ शतᳫँ᳭ रा᳘जा ऽश्वान्बध्वा᳘य[[!!]] 19 मे᳘ध्यान्। सौ᳘द्युम्निर᳘त्यष्टादन्या᳘नमाया᳘न्माय᳘वत्तर ऽइ᳘ति॥

मूलम् - Weber

अ᳘थ द्विती᳘यया॥
त्रयस्त्रिंशं᳘ शतं राजा᳘श्वान्बद्ध्वा᳘य मे᳘ध्यान् सौ᳘द्युम्निर᳘त्यष्ठादन्या᳘नमाया᳘न्माय᳘वत्तर इति॥

मूलम् - विस्वरम्

अथ द्वितीयया- “त्रयस्त्रिंशं शतं राजा ऽश्वान् बध्वाय मेध्यान् । सौद्युम्निरत्यष्टादन्यानमायान्मायवत्तरः”- इति ॥ १२ ॥

हरिस्वामी

अथ द्वितीयया । यमुनातीरे बद्धास्त उभये अपि । ये त्रयस्त्रिंशं शतं भवंति । तान् त्रयस्त्रिंशं शतं अश्वान् बध्वाय । य इत्यनर्थकः । राजा सुद्युम्नस्यापत्यम् । मायवत्तरः प्रज्ञावत्तरः । अत्यष्टान् अतीत्य स्थितः । अन्यानमायान् अप्रज्ञान् राज्ञः ॥ १२ ॥

Eggeling
  1. And a second (Gāthā),–‘Having bound a hundred and thirty-three horses, meet for sacrifice, king Saudyumni, more shifty, overcame the other shiftless ones.’

१३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ तृती᳘यया॥
शकु᳘न्तला नाडपि᳘त्यप्सरा᳘ भरत᳘न्दधे। प᳘रः सहस्रानि᳘न्द्राया᳘श्वान्मे᳘धान्य ऽआ᳘हरद्विजि᳘त्य पृथिवीᳫँ᳭ स᳘र्व्वामि᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ तृती᳘यया॥
शकु᳘न्तला नाडपि᳘त्यप्सरा᳘ भरत᳘न्दधे। प᳘रः सहस्रानि᳘न्द्राया᳘श्वान्मे᳘धान्य ऽआ᳘हरद्विजि᳘त्य पृथिवीᳫँ᳭ स᳘र्व्वामि᳘ति॥

मूलम् - Weber

अ᳘थ तृती᳘यया॥
शकु᳘न्तला नाडपि᳘त्यप्सरा᳘ भरत᳘म् दधे प᳘रःसहस्रानि᳘न्द्राया᳘श्वान्मे᳘धान्य आ᳘हरद्विजि᳘त्य पृथिवीᳫं स᳘र्वामिति॥

मूलम् - विस्वरम्

अथ तृतीयया- “शकुंतला नाडपित्यप्सरा भरतं दधे । परः सहस्रानिंद्रायाश्वान् मेध्यान् य आहरत् विजित्य पृथिवीं सर्वाम्”- इति ॥ १३ ॥

हरिस्वामी

अथ तृतीयया । शकुंतला नामाप्सराः नाडपिती । सा षडस्थाने कण्वाश्रमे भरतं पुत्रं दृष्ट्वा तं लब्ध्वा दधे धारितवती यश्चक्रवर्ती सन् सकलां पृथिवीं विजित्य मेध्यानश्वान् अष्टवारं सहस्रादधिकान् आहूतवान् यागार्थं तैरिष्टवानित्यर्थः । तत्र च त्रयस्त्रिंशं शतं गंगायमुनयोराबध्य शेषांस्त्वन्यत्रेति विरोधपरिहारः ॥ १३ ॥

Eggeling
  1. And a third,–‘At Nāḍapit 20, the Apsaras Śakuntalā conceived Bharata, who, after conquering the whole earth, brought to Indra more than a thousand horses, meet for sacrifice.’

१४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ चतुर्थ्या᳘॥
मह᳘दद्य᳘ भरत᳘स्य न पू᳘र्व्वे ना᳘परे ज᳘नाः॥
दि᳘वम्म᳘र्त्य ऽइव बाहु᳘भ्यान्नो᳘दापुः प᳘ञ्च मानवा ऽइ᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ चतुर्थ्या᳘॥
मह᳘दद्य᳘ भरत᳘स्य न पू᳘र्व्वे ना᳘परे ज᳘नाः॥
दि᳘वम्म᳘र्त्य ऽइव बाहु᳘भ्यान्नो᳘दापुः प᳘ञ्च मानवा ऽइ᳘ति॥

मूलम् - Weber

अ᳘थ चतुर्थ्या᳟॥
मह᳘दद्य᳘ भरत᳘स्य न पू᳘र्वे ना᳘परे ज᳘नाः॥
दि᳘वम् म᳘र्त्य-इव बाहु᳘भ्यां नो᳘दापुः प᳘ञ्च मानवा इ᳘ति॥

मूलम् - विस्वरम्

अथ चतुर्थ्या- “महदद्य भरतस्य न पूर्वे नापरे जनाः । दिवं मर्त्य इव बाहुभ्यां नोदापुः पंच मानवाः”- इति ॥ १४ ॥

हरिस्वामी

अथ चतुर्थ्या । महत्त्वामहत्त्वाभ्यां भरतस्याद्यापि पंच मानवाः उच्चैराहुः । कीदृशाः न पूर्वे तस्मात् भरतात् न वा परे अर्वांचः कथमापुर्दिवं इव बाहुभ्यां मर्त्यः ॥ १४ ॥

Eggeling
  1. And a fourth 21,–‘The greatness of Bharata neither the men before nor those after him attained, nor did the five (tribes of) men, even as a mortal man (does not touch) the sky with his arms.’

१५

विश्वास-प्रस्तुतिः

(त्ये) एकविᳫँ᳭श᳘स्तोमेन॥
(ऽ) ऋषभो᳘ याज्ञतुर᳘ ऽईजे श्वि᳘क्नानाᳫँ᳭ रा᳘जा त᳘देतद्गा᳘थया ऽभि᳘गीतं याज्ञतुरे य᳘जमाने ब्रह्मा᳘ण ऽऋषभे ज᳘नाः। अश्वमेधे ध᳘नं लब्ध्वा व्वि᳘भजन्ते स्म द᳘क्षिणा ऽइ᳘ति॥

मूलम् - श्रीधरादि

(त्ये) एकविᳫँ᳭श᳘स्तोमेन॥
(ऽ) ऋषभो᳘ याज्ञतुर᳘ ऽईजे श्वि᳘क्नानाᳫँ᳭ रा᳘जा त᳘देतद्गा᳘थया ऽभि᳘गीतं याज्ञतुरे य᳘जमाने ब्रह्मा᳘ण ऽऋषभे ज᳘नाः। अश्वमेधे ध᳘नं लब्ध्वा व्वि᳘भजन्ते स्म द᳘क्षिणा ऽइ᳘ति॥

मूलम् - Weber

एकविंश᳘स्तोमेन॥
ऋषभो᳘ याज्ञतुर᳘ ईजे श्वि᳘क्नानां 22 रा᳘जा त᳘देतद्गा᳘थयाभि᳘गीतं याज्ञतुरे य᳘जमाने ब्रह्मा᳘ण ऋषभे ज᳘ना अश्वमेधे ध᳘नम् लब्ध्वा वि᳘भजन्ते स्म द᳘क्षिणा इ᳘ति॥

मूलम् - विस्वरम्

एकविंशस्तोमेन ऋषभो याज्ञतुर ईजे श्विक्नानां राजा । तदेतत् गाथया ऽभिगीतम्- “याज्ञतुरे यजमाने ब्रह्माण ऋषभे जनाः। अश्वमेधे धनं लब्ध्वा विभजंते स्म दक्षिणाः”- इति ॥ १५ ॥

हरिस्वामी

एकविँशस्तोमेन । तत्र त्रिष्वपि दिवसेषु एकविंशः स्तोमो यस्य ऋतस्तेनैकविंशस्तोमेन ऋषभः इष्टवान् । याज्ञतुरे ऋषभे यजमाने ब्रह्माणो ब्राह्मणजनाः अश्वमेधे धनं लब्ध्वा विभक्तवंतो दक्षिणाः ॥ १५ ॥

Eggeling
  1. With the Ekaviṁśa-stoma 23 Rishabha Yājñatura,

king of the Śviknas, performed sacrifice: it is of this that the Gāthā sings,–‘When Rishabha Yājñatura was sacrificing, the Brahman-folk, having received wealth at the Aśvamedha, divided the offering-gifts between them.’

१६

विश्वास-प्रस्तुतिः

त्रयस्त्रिᳫँ᳭श᳘स्तोमेन॥
शो᳘णः सात्रासाह᳘ ऽईजे पा᳘ञ्चालो रा᳘जा त᳘देतद्गा᳘थया ऽभिगीतᳫँ᳭ सात्रासाहे य᳘जमाने ऽश्वमेधे᳘न तौर्व्वशाः। उ᳘दीरते त्रयस्त्रिᳫँ᳭शाः ष᳘ट्सह᳘स्राणि व्वर्म्मि᳘णामि᳘ति॥

मूलम् - श्रीधरादि

त्रयस्त्रिᳫँ᳭श᳘स्तोमेन॥
शो᳘णः सात्रासाह᳘ ऽईजे पा᳘ञ्चालो रा᳘जा त᳘देतद्गा᳘थया ऽभिगीतᳫँ᳭ सात्रासाहे य᳘जमाने ऽश्वमेधे᳘न तौर्व्वशाः। उ᳘दीरते त्रयस्त्रिᳫँ᳭शाः ष᳘ट्सह᳘स्राणि व्वर्म्मि᳘णामि᳘ति॥

मूलम् - Weber

त्रयस्त्रिंश᳘स्तोमेन॥
शो᳘णः सात्रासाह᳘ 24 ईजे पा᳘ञ्चालो रा᳘जा त᳘देतद्गा᳘थयाभिगीतᳫं सात्रासहे य᳘जमानेऽश्वमेधे᳘न तौर्वशाः उ᳘दीरते त्रयस्त्रिंशाः ष᳘ट् सह᳘स्राणि वर्मि᳘णामिति॥

मूलम् - विस्वरम्

त्रयस्त्रिंशस्तोमेन शोणः सात्रासाह ईजे पांचालो राजा । तदेतद्गाथया ऽभिगीतम्- “सात्रासाहे यजमाने ऽश्वमेधेन तौर्वशाः । उदीरते त्रयस्त्रिंशाः षट्सहस्राणि वर्मिणाम्”- इति ॥ १६ ॥

हरिस्वामी

त्रयस्त्रिंशस्तोमेन । त्रिष्वपि दिवसेषु त्रयस्त्रिंशः स्तोमः अस्येति त्रयस्त्रिंशः स्तोमः तेन सकृत् शोणो नाम सत्रासहस्यापत्यम् । पंचालाभिजन इष्टवान् । सत्रासहीशे अश्वमेधेन यजमाने उत् ईरते उद्गच्छन्ति । के ? तौर्वशाः अश्वाः । ज्येष्ठे तमपिसृज्येरन्निति । त्रयस्त्रिंशाः स्तोमा उद्गच्छंति । स हि शोणः त्रयस्त्रिंशानेव स्तोमान् त्रिष्वपि दिवसेषु प्रयुंक्ते नान्यानिति । उद्गच्छंतीत्याह- षट्ऋतुषु सहस्राणि । वर्मिणां राजपुत्राणां कवचिनां अश्वपालानां उदीरते इति वर्तते । वार्षप्राप्ता एव द्रष्टव्याः । राजपुत्राः कवचिनः शतमित्यतो ऽनियतपरिमाणा अन्य एव ॥ १६ ॥

Eggeling
  1. With the Trayastriṁśa-stoma Śoṇa Sātrāsāha, the Pāñcāla king, performed sacrifice: it is of this that the Gāthā sings,–‘When Sātrāsāha performs the horse-sacrifice, the Trayastriṁśa (stomas) come forth as (Taurvaśa) horses, and six thousand mail-clad men 25.

१७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ द्विती᳘यया॥
ष᳘ट्षट् षड्ढा᳘ सह᳘स्राणि यज्ञे᳘ कोकपितुस्त᳘व। उ᳘दीरते त्रयस्त्रिᳫँ᳭शाः ष᳘ट्सह᳘स्राणि व्वर्मि᳘णामि᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ द्विती᳘यया॥
ष᳘ट्षट् षड्ढा᳘ सह᳘स्राणि यज्ञे᳘ कोकपितुस्त᳘व। उ᳘दीरते त्रयस्त्रिᳫँ᳭शाः ष᳘ट्सह᳘स्राणि व्वर्मि᳘णामि᳘ति॥

मूलम् - Weber

अ᳘थ द्वितीयया॥
ष᳘ट्षट् षड्गा᳘ सह᳘स्राणि यज्ञे᳘ कोकपितुस्त᳘व उ᳘दीरते त्रयस्त्रिंशाः ष᳘ट् सह᳘स्राणि वर्मि᳘णामिति॥

मूलम् - विस्वरम्

अथ द्वितीयया- “षट्षट् षड्ढा सहस्राणि यज्ञे कोकपितुस्तव । उदीरते त्रयस्त्रिंशाः षट्सहस्राणि वर्मिणाम्”- इति ॥ १७ ॥

हरिस्वामी

अथ द्वितीयया । कोको नाम्नेत्यर्थः । के ते अश्वा उदीरते इति प्रथमायां गाथायामुक्तम् । तदप्यत्रानुवर्तते, तेषां तत्र परिमाणं नोक्तम् । अत्र षट्त्रिंशदश्वसहस्राणि रक्षिणां अनुचरभूतानि उद्गगच्छतीत्याह- त्रयस्त्रिंशा अश्वा उदीरते षट्सहस्राणि वर्मिणां पदानेतासु गच्छंतीति ॥ १७ ॥ १८ ॥

Eggeling
  1. And a second (Gāthā),–‘At the sacrifice of thee, Koka’s father, the Trayastriṁśa (stomas) come forth, each as six times six thousand 26 (horses), and six thousand mail-clad men.’

१८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ तृती᳘यया॥
सात्रासाहे य᳘जमाने पा᳘ञ्चाले रा᳘ज्ञि सुस्र᳘जि। अ᳘माद्यदि᳘न्द्रः सो᳘मेना᳘तृप्यन्ब्राह्मणा ध᳘नैरि᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ तृती᳘यया॥
सात्रासाहे य᳘जमाने पा᳘ञ्चाले रा᳘ज्ञि सुस्र᳘जि। अ᳘माद्यदि᳘न्द्रः सो᳘मेना᳘तृप्यन्ब्राह्मणा ध᳘नैरि᳘ति॥

मूलम् - Weber

अ᳘थ तृती᳘यया॥
सात्रासहे 27 य᳘जमाने पा᳘ञ्चाले रा᳘ज्ञि सुस्रजि अ᳘माद्यदि᳘न्द्रः सो᳘मेना᳘तृप्यन्ब्राह्मणा ध᳘नैरि᳘ति॥

मूलम् - विस्वरम्

अथ तृतीयया- “सात्रासाहे यजमाने पांचाले राज्ञि सुस्रजि । अमाद्यदिंद्रः सोमेनातृप्यन् ब्राह्मणा धनैः”- इति ॥ १८ ॥

हरिस्वामी

[व्याख्यानं सप्तदशे]

Eggeling
  1. And a third,–‘When Sātrāsāha, the Pāñcāla king, was sacrificing, wearing beautiful garlands, Indra revelled in Soma, and the Brāhmaṇas became satiated with wealth.’

१९

विश्वास-प्रस्तुतिः

गो᳘विनतेन शता᳘नीकः॥
सात्राजित᳘ ऽईजे का᳘श्यस्या᳘श्वमादा᳘य त᳘तो हैत᳘दर्व्वा᳘क्काश᳘यो ऽग्नी ऽन्ना᳘दधत आ᳘त्तसोमपीथाः स्म ऽइ᳘ति व्व᳘दन्तः॥

मूलम् - श्रीधरादि

गो᳘विनतेन शता᳘नीकः॥
सात्राजित᳘ ऽईजे का᳘श्यस्या᳘श्वमादा᳘य त᳘तो हैत᳘दर्व्वा᳘क्काश᳘यो ऽग्नी ऽन्ना᳘दधत आ᳘त्तसोमपीथाः स्म ऽइ᳘ति व्व᳘दन्तः॥

मूलम् - Weber

गो᳘विनतेन शता᳘नीकः॥
सात्राजित᳘ ईजे का᳘श्यस्या᳘श्वमादा᳘य त᳘तो हैत᳘र्दवा᳘क्काशयोऽग्नीन्ना᳘दधत आत्तसोमपीथाः स्म इ᳘ति व᳘दन्तः॥

मूलम् - विस्वरम्

गोविनतेन शतानीकः सात्राजित ईजे काश्यस्याश्वमादाय । ततो हैतदर्वाक् काशयो ऽग्नीन्नादधत । आत्तसोमपीथाः स्मः । इति वदतः ॥ १९ ॥

हरिस्वामी

गोविनतेन । गोविनतो नाम वक्ष्यमाणस्तोमविशेषः अश्वमेधः । तेन शतानीको नाम सत्राजितो ऽपत्यम् ईजे । काशेरपत्यं काश्यः काश्यस्य स्वभूतं तेनाश्वमेधार्थं कल्पितमश्वमादाय युद्धे विजित्य ततश्चारभ्य तदद्यापि काशयः काशीवास्या राजानः अग्नीन्नादधते । किम् ? आत्तः अपहृतः सोमपीथो येषां ते आत्तसोमपीथाः आत्तसोमाः स्मः भवामः । किमस्माकं अग्निभिः ये अश्वमेधे एव परतः सोमपीथाद्यः तस्मिन्नपहृते सर्व एव सोमपीथो ऽपहृत इत्यभिप्राय ॥ १९ ॥

Eggeling
  1. Śatānīka Sātrājita performed the Govinata (form of Aśvamedha), after taking away the

horse of the Kāśya (king); and since that time the Kāśis do not keep up the (sacrificial) fires, saying, ‘The Soma-drink has been taken from us.’

२०

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘स्य व्विधा᳘। चतुर्व्विᳫँ᳭शाः प᳘वमानास्त्रिवृ᳘दभ्याव᳘र्त्तञ्चतुश्चत्वारिᳫँ᳭शाः प᳘वमाना ऽएकविᳫँ᳭शान्या᳘ज्यानि त्रिणवा᳘न्युक्था᳘न्येकविᳫँ᳭शा᳘नि पृष्ठा᳘नि षट्त्रिᳫँ᳭शाः प᳘वमानास्त्रयस्त्रिᳫँ᳭श᳘मभ्याव᳘र्त्त᳘माग्निष्टोमसामा᳘देकविᳫँ᳭शा᳘न्युक्थान्येकविᳫँ᳭शः᳘[[!!]] षोडशी᳘ पञ्चदशी रा᳘त्रिस्त्रिवृ᳘त्सन्धिः॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘स्य व्विधा᳘। चतुर्व्विᳫँ᳭शाः प᳘वमानास्त्रिवृ᳘दभ्याव᳘र्त्तञ्चतुश्चत्वारिᳫँ᳭शाः प᳘वमाना ऽएकविᳫँ᳭शान्या᳘ज्यानि त्रिणवा᳘न्युक्था᳘न्येकविᳫँ᳭शा᳘नि पृष्ठा᳘नि षट्त्रिᳫँ᳭शाः प᳘वमानास्त्रयस्त्रिᳫँ᳭श᳘मभ्याव᳘र्त्त᳘माग्निष्टोमसामा᳘देकविᳫँ᳭शा᳘न्युक्थान्येकविᳫँ᳭शः᳘[[!!]] षोडशी᳘ पञ्चदशी रा᳘त्रिस्त्रिवृ᳘त्सन्धिः॥

मूलम् - Weber

त᳘स्य विधा᳘ चतुर्विंशाः प᳘वमानाः॥
त्रिवृ᳘दभ्याव᳘र्तम् चतुश्चत्वारिंशाः प᳘वमाना एक्विंशान्या᳘ज्यानि त्रिणवा᳘न्युक्था᳘न्येकविंशा᳘नि पृष्ठा᳘नि षट्त्रिंशाः प᳘वमानास्त्रयस्त्रिंश᳘मभ्याव᳘र्तॗमाग्निष्टोमसामा᳘देकविंशा᳘न्युक्था᳘न्येकविंशः᳘ षोडशी᳘ पञ्चदशी रा᳘त्रिस्त्रिवृ᳘त्सन्धिः॥

मूलम् - विस्वरम्

तस्य विधा । चतुर्विंशाः पवमानाः । त्रिवृदभ्यावर्तम् । चतुश्चत्वारिंशाः पवमानाः । एकविंशान्याज्यानि । त्रिणवान्युक्थानि । एकविंशानि पृष्ठानि । षट्त्रिंशाः पवमानाः । त्रयस्त्रिंशमभ्यावर्तम् । आ अग्निष्टोमसामात् । एकविंशान्युक्थानि । एकविंशः षोडशी । पंचदशी रात्रिः । त्रिवृत्संधिः ॥ २० ॥

हरिस्वामी

तस्य विधा । तस्य गोविनतस्य विधा विधानं स्तोमप्रकारो वक्ष्यत इति शेषः । चतुर्विंशाः पवमानाः । इत्यादि प्रथमे ऽहनि । चतुश्चत्वारिंशा इत्यादि द्वितीये ऽहनि । तृचान्युक्त्वा एकविंशानि पृष्ठानि इति क्रमभेदो ब्राह्मणः । स तावदपर्यनुयोज्यः । षट्त्रिंशाः पवमाना इति तृतीये ऽहनि । तथा इयम् (?) ॥ २० ॥

Eggeling
  1. The mode (of chanting) for this (Govinata form) is:–the Pavamāna (stotras) in the Caturviṁśa (stoma), and (those chanted) by repetitions in the Trivr̥t;–the Pavamānas in the Catuścatvāriṁśa, the Ājya (stotras) in the Ekaviṁśa, the Ukthas 28 In the Triṇava, the Pr̥shṭḥas in the Ekaviṁśa;–the Pavamānas in the Shaṭtriṁśa (36-versed), and (those chanted) by repetitions in the Trayastriṁśa (33) up to the Agnishṭoma-sāman, the Ukthas in the Ekaviṁśa, the Shoḍaśin in the Ekaviṁśa, the night (stotras) in the Pañcadaśa, and the Sandhi (stotra) in the Trivr̥t.

२१

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘देतद्गा᳘थया ऽभि᳘गीतम्॥
(ᳫँ᳭) शता᳘नीकः स᳘मन्तासु मे᳘ध्यᳫँ᳭ सा᳘त्राजितो ह᳘यम्। आ᳘दत्त यज्ञ᳘ङ्काशीना᳘म्भरतः᳘ सत्व᳘तामिवे᳘ति॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘देतद्गा᳘थया ऽभि᳘गीतम्॥
(ᳫँ᳭) शता᳘नीकः स᳘मन्तासु मे᳘ध्यᳫँ᳭ सा᳘त्राजितो ह᳘यम्। आ᳘दत्त यज्ञ᳘ङ्काशीना᳘म्भरतः᳘ सत्व᳘तामिवे᳘ति॥

मूलम् - Weber

त᳘देतद्गा᳘थयाभि᳘गीतम्॥
शता᳘नीकः स᳘मन्तासु मे᳘ध्यᳫं सात्राजितो ह᳘यम् आ᳘दत्त यज्ञं᳘ काशीना᳘म् भरतः᳘ सत्व᳘तामिवेति॥

मूलम् - विस्वरम्

तदेतद्गाथया ऽभिगीतम्- “शतानीकः समंतासु मेध्यं सात्राजितो हयम् । आदत्त यज्ञं काशीनां भरतः सत्वतामिव”- इति ॥ २१ ॥

हरिस्वामी

शतानीको राजा । संगच्छन्ते ऽन्ताः “सप्ताहं प्रचरंति” इति वचनात् इति समन्तास्तासु संगतान्तासु अटविषु चरंतं हयं मेध्यं यज्ञं यज्ञसाधनं काशीनां स्वभूतं कथं ? भरतः सत्वतामिव सत्वतो यथा स्वभूतमश्वं भरतः अपहृतवान् । एवम् शतानीकः काशीनां श्वेतवर्णं समंतासु अटवीषु वशं वशिनं कामिकं कामतश्चरन्तम् आदत्त आहृतवान् ॥ २१ ॥

Eggeling
  1. It is of this that the Gāthā sings,–‘Śatānīka Sātrājita seized a sacrificial horse, in the neighbourhood, the sacrifice of the Kāśis, even as Bharata (seized that) of the Satvats.’

२२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ द्विती᳘यया॥
श्वेतᳫँ᳭ स᳘मन्तासु वशञ्च᳘रन्तᳫँ᳭ शता᳘नीको ध्रृत᳘राष्ट्रस्य मे᳘ध्यम्। आदा᳘य स᳘ह्वा द᳘शमास्यम᳘श्वᳫँ᳭ शता᳘नीको गो᳘विनतेन हेज ऽइ᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ द्विती᳘यया॥
श्वेतᳫँ᳭ स᳘मन्तासु वशञ्च᳘रन्तᳫँ᳭ शता᳘नीको ध्रृत᳘राष्ट्रस्य मे᳘ध्यम्। आदा᳘य स᳘ह्वा द᳘शमास्यम᳘श्वᳫँ᳭ शता᳘नीको गो᳘विनतेन हेज ऽइ᳘ति॥

मूलम् - Weber

अ᳘थ द्विती᳘यया॥
श्वेतᳫं स᳘मन्तासु वशं च᳘रन्तं शता᳘नीको ध्रृत᳘राष्ट्रस्य मे᳘ध्यम् आदा᳘य स᳘ह्वा द᳘शमास्यम᳘श्वं शता᳘नीको गो᳘विनतेन हेज इति॥

मूलम् - विस्वरम्

अथ द्वितीयया- “श्वेतं समंतासु वशं चरंतं शतानीको धृतराष्ट्रस्य मेध्यम् । आदाय सह्वा दशमास्यमश्वं शतानीको गोविनतेन ह ईजे”- इति ॥ २२ ॥

हरिस्वामी

धृतराष्ट्रस्य स्वभूतं मेध्यं अश्वमादाय शतानीकः । सह्वा “षह मर्षणे” (धा. पा. भ्वा. आ. ८७७) इत्यस्य वनिप् । सह्वा अभिभविता परेषां दशमास्यमश्वं गोविनतेन इष्टवान् ॥ २२ ॥

Eggeling
  1. And a second,–‘The mighty Śatānīka, having seized, in the neighbourhood, Dhr̥tarāshṭra’s white sacrificial horse, roaming at will in its tenth month, Śatānīka 29 performed the Govinata-sacrifice.’

२३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ चतुर्थ्या᳘॥
मह᳘दद्य᳘ भरता᳘नान्न पू᳘र्व्वे ना᳘परे ज᳘नाः। दि᳘वं म᳘र्त्य ऽइव पक्षा᳘भ्यान्नो᳘दापुः सप्त᳘ मानवा ऽइ᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ चतुर्थ्या᳘॥
मह᳘दद्य᳘ भरता᳘नान्न पू᳘र्व्वे ना᳘परे ज᳘नाः। दि᳘वं म᳘र्त्य ऽइव पक्षा᳘भ्यान्नो᳘दापुः सप्त᳘ मानवा ऽइ᳘ति॥

मूलम् - Weber

अ᳘थ चतुर्थ्या᳟॥
मह᳘दद्य᳘ भरता᳘नां न पू᳘र्वे ना᳘परे जनाः दि᳘वम् म᳘र्त्य-इव पक्षा᳘भ्यां नो᳘दापुः सप्त᳘मा नवा इति॥

मूलम् - विस्वरम्

अथ चतुर्थ्या- “महदद्य भरतानां न पूर्वे नापरे जनाः । दिवं मर्त्य इव पक्षाभ्यां नोदापुः सप्त मानवाः”- इति ॥ २३ ॥

हरिस्वामी

अथ चतुर्थ्या । तृतीयामपठित्वा चतुर्थी इति अतिद्रष्टव्या तु तृतीया अपि ॥ २३ ॥

Eggeling
  1. And a fourth 30,–‘The greatness of the Bharatas neither the men before nor those after them attained, nor did the seven (tribes of) men, even as a mortal man (does not touch) the sky with his flanks.’

२४

विश्वास-प्रस्तुतिः

(त्य) अथा᳘तो द᳘क्षिणानाम्॥
(म्म᳘) म᳘ध्यम्प्र᳘तिराष्ट्रस्य[[!!]] य᳘दन्यद्भू᳘मेश्च पु᳘रुषेभ्यश्च ब्राह्मण᳘स्य च व्वित्तात्प्रा᳘ची दिग्घो᳘तुर्द्द᳘क्षिणा ब्रह्म᳘णः प्प्रती᳘च्यध्वर्य्योरु᳘दीच्युद्गातुस्त᳘देव हो᳘तृका ऽअन्वा᳘भक्ताः॥

मूलम् - श्रीधरादि

(त्य) अथा᳘तो द᳘क्षिणानाम्॥
(म्म᳘) म᳘ध्यम्प्र᳘तिराष्ट्रस्य[[!!]] य᳘दन्यद्भू᳘मेश्च पु᳘रुषेभ्यश्च ब्राह्मण᳘स्य च व्वित्तात्प्रा᳘ची दिग्घो᳘तुर्द्द᳘क्षिणा ब्रह्म᳘णः प्प्रती᳘च्यध्वर्य्योरु᳘दीच्युद्गातुस्त᳘देव हो᳘तृका ऽअन्वा᳘भक्ताः॥

मूलम् - Weber

अथा᳘तो द᳘क्षिणानाम्॥
म᳘ध्यम् प्र᳘ति राष्ट्र᳘स्य य᳘दन्यद्भू᳘मेश्च पु᳘रुषेभ्यश्च ब्राह्मण᳘स्य च वित्तात्प्रा᳘ची दिग्घो᳘तुर्द᳘क्षिणा ब्रह्म᳘णः प्रती᳘च्यध्वर्योरु᳘दीच्युद्गातुस्त᳘देव हो᳘तृका अन्वा᳘भक्ताः॥

मूलम् - विस्वरम्

अथातो दक्षिणानाम् । मध्यं प्रति राष्ट्रस्य । यदन्यत् भूमेश्च पुरुषेभ्यश्च ब्राह्मणस्य च वित्तात् । प्राची दिक् होतुः दक्षिणा ब्रह्मणः, प्रतीचीः अध्वर्योः, उदीची उद्गातुः, तदेव । होतृका अन्वाभक्ताः ॥ २४ ॥

हरिस्वामी

अथातो दक्षिणानाम् 31 । प्रति मध्यात् राष्ट्रस्य विजितस्य । ब्राह्मणे वित्तप्रतिष्ठितात् अन्येषां वित्तं दीयते इति गम्यते । प्राची दिक् होतुर्दक्षिणा ब्रह्मण इति । संवत्सरे दित्सिक्षिश्चात्र तत्स्थं वित्तं लक्ष्यते (?) तदेव तत्रैव होतृकाः महर्त्विग्भ्यो ऽन्ये पुरुषाः अन्वाभक्ताः यथा आसां द्वौ होत्रादीननु मैत्रावरुणादय आभक्ता इत्यर्थः ॥ २४-२६॥

Eggeling
  1. Now as to the sacrificial gifts. Whatever there is towards the middle of the kingdom other than the land, the men, and the property of the Brāhmaṇa, of that the eastern region belongs to the Hotr̥, the southern to the Brahman, the western to the Adhvaryu, the northern to the Udgātr̥; and the Hotr̥kas share this along with them.

२५

विश्वास-प्रस्तुतिः

(ऽ) उदयनी᳘यायाᳫँ᳭ स᳘ᳫँ᳘स्थितायाम्॥
(मे᳘) ए᳘कविᳫँ᳭शतिम्वशा᳘ ऽअनूब᳘न्ध्या ऽआ᳘लभते मैत्रावरुणी᳘र्व्वैश्वदेवी᳘र्बार्हस्पत्या᳘ ऽएता᳘सान्देव᳘तानामा᳘प्त्यै तद्य᳘द्बार्हस्पत्या ऽअन्त्या भ᳘वन्ति ब्र᳘ह्म वै बृ᳘हस्प᳘तिस्त᳘दु ब्र᳘ह्मण्ये᳘वान्ततः प्प्र᳘तितिष्ठति॥

मूलम् - श्रीधरादि

(ऽ) उदयनी᳘यायाᳫँ᳭ स᳘ᳫँ᳘स्थितायाम्॥
(मे᳘) ए᳘कविᳫँ᳭शतिम्वशा᳘ ऽअनूब᳘न्ध्या ऽआ᳘लभते मैत्रावरुणी᳘र्व्वैश्वदेवी᳘र्बार्हस्पत्या᳘ ऽएता᳘सान्देव᳘तानामा᳘प्त्यै तद्य᳘द्बार्हस्पत्या ऽअन्त्या भ᳘वन्ति ब्र᳘ह्म वै बृ᳘हस्प᳘तिस्त᳘दु ब्र᳘ह्मण्ये᳘वान्ततः प्प्र᳘तितिष्ठति॥

मूलम् - Weber

उदयनी᳘यायाᳫं स᳘म्स्थितायाम्॥
ए᳘कविंशतिम् वशा᳘ अनूब᳘न्ध्या आ᳘लभते मैत्रावरुणी᳘र्वैश्वदेवी᳘र्बार्हस्पत्या᳘ एता᳘सां देव᳘तानामा᳘प्त्यै तद्य᳘द्बार्हस्पत्यान्त्या भ᳘वन्ति ब्र᳘ह्म वै बृ᳘हस्प᳘तिस्त᳘दु ब्र᳘ह्मण्येॗवान्ततः प्र᳘तितिष्ठति॥

मूलम् - विस्वरम्

उदयनीयायां संस्थितायाम्, एकविंशतिं 32 वशा अनूबन्ध्या आलभते । मैत्रावरुणीः, वैश्वदेवीः, बार्हस्पत्याः । एतासां देवतानामाप्त्यै । तद्यत् बार्हस्पत्या अंत्या भवंति । ब्रह्म वै बृहस्पतिः । तदु ब्रह्मण्येवांततः प्रतितिष्ठति ॥ २५ ॥

हरिस्वामी

[व्याख्यानं चतुर्विंशतितमे]

Eggeling
  1. When the Udayanīyā (completing offering) is finished, he seizes twenty-one barren cows, sacred to Mitra-Varuṇa, the Viśve Devāḥ, and Br̥haspati, with the view of his gaining those deities. And the reason why those sacred to Br̥haspati come last is that Br̥haspati is the Brahman (n.), and he thus establishes himself finally in the Brahman.

२६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ यदे᳘कविᳫँ᳭शतिर्भ्भ᳘वन्ति॥
(न्त्ये) एकविᳫँ᳭शो वा᳘ ऽएष य᳘ ऽएष त᳘पति द्वा᳘दश मा᳘साः प᳘ञ्चर्त्त᳘वस्त्र᳘य ऽइमे᳘ लोका᳘ ऽअसा᳘वादित्य᳘ ऽएकविᳫँ᳭श᳘ ऽएता᳘मभिसम्प᳘दम्॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ यदे᳘कविᳫँ᳭शतिर्भ्भ᳘वन्ति॥
(न्त्ये) एकविᳫँ᳭शो वा᳘ ऽएष य᳘ ऽएष त᳘पति द्वा᳘दश मा᳘साः प᳘ञ्चर्त्त᳘वस्त्र᳘य ऽइमे᳘ लोका᳘ ऽअसा᳘वादित्य᳘ ऽएकविᳫँ᳭श᳘ ऽएता᳘मभिसम्प᳘दम्॥

मूलम् - Weber

अ᳘थ यदे᳘कविंशतिर्भवन्ति॥
एकविंशो वा᳘ एष य᳘ एष त᳘पति द्वा᳘दश मा᳘साः प᳘ञ्चर्त᳘वस्त्र᳘य इमे᳘ लोका᳘ असा᳘वादित्य᳟॥
एकविंश एता᳘मभिसम्प᳘दम्॥

मूलम् - विस्वरम्

अथ यदेकविंशतिर्भवंति । एकविंशो वा एषः । य एष तपति । द्वादश मासाः । पंचर्तवः । त्रय इमे लोकाः । असावादित्य एकविंशः । एतामभिसंपदम् ॥ २६ ॥

हरिस्वामी

[व्याख्यानं चतुर्विंशतितमे]

Eggeling
  1. And as to their being twenty-one of them,–the twenty-one-fold is he who shines yonder: twelve months, five seasons, these three worlds, and yonder sun as the twenty-first–this consummation (he thereby obtains).

२७

विश्वास-प्रस्तुतिः

(मु) उदवसा᳘नीयायाᳫँ᳭ स᳘ᳫँ᳘स्थितायाम्॥
(ञ्च᳘) च᳘तस्रश्च जायाः᳘ कुमारी᳘म्पञ्चमी᳘ञ्चत्वा᳘रि च शता᳘न्यनुचरी᳘णां यथासमुदितन्द᳘क्षिणान्ददाति॥

मूलम् - श्रीधरादि

(मु) उदवसा᳘नीयायाᳫँ᳭ स᳘ᳫँ᳘स्थितायाम्॥
(ञ्च᳘) च᳘तस्रश्च जायाः᳘ कुमारी᳘म्पञ्चमी᳘ञ्चत्वा᳘रि च शता᳘न्यनुचरी᳘णां यथासमुदितन्द᳘क्षिणान्ददाति॥

मूलम् - Weber

उदवसा᳘नीयायाᳫं स᳘ᳫं᳘स्थितायाम्॥
च᳘तस्रश्च जायाः᳘ कुमारी᳘म् पञ्चमीं᳘ चत्वा᳘रि च शता᳘न्यनुचरी᳘णां यथासमुदितम् द᳘क्षिणाम् ददति 33

मूलम् - विस्वरम्

उदवसानीयायां संस्थितायाम्, चतस्रश्च जायाः, कुमारीं पंचमीम्, चत्वारि च शतान्यनुचरीणां यथासमुदितम् । दक्षिणां ददाति ॥ २७ ॥

हरिस्वामी

जाया महिष्यादिकाः । यथासमुदितम् । येन सह यया अभिमेथिकः कामुकसंवादः कृतः तास्तेभ्य इत्यस्मिन्नर्थे यथासमुदितमिति अव्ययीभावसमासः । वचनाच्च 34 भार्याणां सानुचरीणां दानम् । पालागली तु क्षत्तुः प्राप्ता, वचनांतरेण अध्वर्यवे दीयते ॥ २७ ॥ २८॥

इति श्रीमदाचार्यहारस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे काण्डे पञ्चमे ऽध्याये चतुर्थं ब्राह्मणम् ॥ (१३ । ५ । ४)॥

नागस्वामिसुतो ऽवन्त्यां पाराशर्यो वसन्हरिः । श्रुत्यर्थं दर्शयामास शक्तितः पौष्करीयकः ॥ १ ॥

श्रीमतो ऽवन्तिनाथस्य विक्रमार्कस्य भूपतेः । धर्माध्यक्षो हरिस्वामी व्याख्यच्छातपथीं श्रुतिम् ॥ २ ॥

भूभर्त्रा विक्रमार्केण क्लृप्तां कनकवेदिकाम् । दानायाध्यास्य कृतवान् श्रुत्यर्थविवृतिं हरिः ॥ ३ ॥

इति श्रीसर्वविद्यानिधानकवीन्द्राचार्यसरस्वतीनां श्रीहरिस्वामिनां कृतौ माध्यन्दिनीयशतपथ ब्राह्मणभाष्ये त्रयोदशे काण्डे पञ्चमो ऽध्यायः समाप्तः ॥ १३-५ ॥

Eggeling
  1. When the Udavasānīyā (closing offering) is completed, they give, for a sacrificial gift, four women, with a maiden as the fifth, and four hundred female attendants according to agreement.

२८

विश्वास-प्रस्तुतिः

(त्य) अथो᳘त्तरᳫँ᳭ सम्वत्सर᳘मृतुपशु᳘भिर्य्यजते॥
षड्भि᳘राग्ग्नेयै᳘र्व्वसन्ते᳘ षड्भि᳘रैन्द्रै᳘र्ग्ग्रीष्मे᳘ षड्भिः᳘ पार्ज्जन्यै᳘र्व्वा मारुतै᳘र्व्वा व्वर्षा᳘सु षड्भि᳘र्म्मैत्रावरुणैः᳘ शर᳘दि षड्भि᳘रैन्द्रावैष्णवै᳘र्हेमन्ते᳘ षड्भि᳘रैन्द्राबार्हस्पत्यैः शि᳘शिरे ष᳘डृत᳘वः सम्वत्सर᳘ ऽऋतु᳘ष्वेव᳘ सम्वत्सरे प्प्र᳘तितिष्ठति ष᳘ट्त्रिᳫँ᳭शदेते᳘ पश᳘वो भवन्ति षट्त्रिᳫँ᳭शदक्षरा बृहती᳘ बृहत्याम᳘धि स्वर्ग्गो᳘ लोकः प्प्र᳘तिष्ठितस्त᳘द्वन्ततो᳘ बृह᳘त्यैव च्छ᳘न्दसा स्वर्ग्गे᳘ लोके प्प्र᳘तितिष्ठति॥

मूलम् - श्रीधरादि

(त्य) अथो᳘त्तरᳫँ᳭ सम्वत्सर᳘मृतुपशु᳘भिर्य्यजते॥
षड्भि᳘राग्ग्नेयै᳘र्व्वसन्ते᳘ षड्भि᳘रैन्द्रै᳘र्ग्ग्रीष्मे᳘ षड्भिः᳘ पार्ज्जन्यै᳘र्व्वा मारुतै᳘र्व्वा व्वर्षा᳘सु षड्भि᳘र्म्मैत्रावरुणैः᳘ शर᳘दि षड्भि᳘रैन्द्रावैष्णवै᳘र्हेमन्ते᳘ षड्भि᳘रैन्द्राबार्हस्पत्यैः शि᳘शिरे ष᳘डृत᳘वः सम्वत्सर᳘ ऽऋतु᳘ष्वेव᳘ सम्वत्सरे प्प्र᳘तितिष्ठति ष᳘ट्त्रिᳫँ᳭शदेते᳘ पश᳘वो भवन्ति षट्त्रिᳫँ᳭शदक्षरा बृहती᳘ बृहत्याम᳘धि स्वर्ग्गो᳘ लोकः प्प्र᳘तिष्ठितस्त᳘द्वन्ततो᳘ बृह᳘त्यैव च्छ᳘न्दसा स्वर्ग्गे᳘ लोके प्प्र᳘तितिष्ठति॥

मूलम् - Weber

अथो᳘त्तरᳫं सम्वत्सर᳘मृतुपशु᳘भिर्यजते॥
षड्भि᳘राग्नेयै᳘र्वसन्ते᳘ षड्भि᳘रैन्द्रै᳘र्ग्रीष्मे षड्भिः᳘ पार्जन्यै᳘र्वा मारुतै᳘र्वा वर्षा᳘सु षड्भि᳘र्मैत्रावरुणैः᳘ शर᳘दि षड्भि᳘रैन्द्रावैष्णवै᳘र्हेमन्ते᳘ षड्भि᳘रैन्द्राबार्हस्पत्यैः शि᳘शिरे ष᳘डृत᳘वः सम्वत्सरः᳘ ऋतु᳘ष्वेव सम्वत्सरे प्र᳘तितिष्ठति ष᳘ट्त्रिंशदेते᳘ पश᳘वो भवन्ति षट्त्रिंशदक्षरा बृहती᳘ बृहत्याम᳘धि स्वर्गो᳘ लोकः प्र᳘तिष्ठितस्त᳘द्वन्ततो᳘ बृहॗत्यैव छ᳘न्दसा स्वर्गे᳘ लोके प्र᳘तितिष्ठति॥

मूलम् - विस्वरम्

अथोत्तरं संवत्सरमृतुपशुभिर्यजते 32 । षड्भिराग्नेयैर्वसंते । षड्भिरैन्द्रैर्ग्रीष्मे । षड्भिः पार्जन्यैर्वा मारुतैर्वा वर्षासु । षड्भिर्मैत्रावरुणैः शरदि । षड्भिरैन्द्रावैष्णवैर्हैमन्ते । षड्भिरैन्द्राबार्हस्पत्यैः शिशिरे । षट् ऋतवः संवत्सरः । ऋतुष्वेव संवत्सरे प्रतितिष्ठति । षट्त्रिंशदेते पशवो भवंति । षट्त्रिंशदक्षरा बृहती । बृहत्यामधि स्वर्गो लोकः प्रतिष्ठितः । तद्वंततो बृहत्यैव च्छंदसा स्वर्गे लोके प्रतितिष्ठति ॥ २८ ॥

हरिस्वामी

[व्याख्यानं सप्तविंशतितमे]

Eggeling
  1. And during the following year he performs the animal sacrifices of the seasons,–six (victims) sacred to Agni in the spring, six to Indra in the summer, six to Parjanya, or to the Maruts, in the rainy season, six to Mitra and Varuṇa in the autumn, six to Indra and Vishṇu in the winter, and six to Indra and Br̥haspati in the dewy season,–six seasons are a year: in the seasons, in the year, he thus establishes himself. These amount to thirty-six animals,–the Br̥hatī (metre) consists of thirty-six syllables, and the heavenly world is established

upon the Br̥hatī: and thus he finally establishes himself, by means of the Br̥hatī metre, in the heavenly world.


  1. अबध्ना A. P. ↩︎

  2. 396:1 Lit., (in the city, nagare, Harisvāmin) possessed of a throne. Cf. Ait. Br. VIII, 2 1. ↩︎

  3. अतिरात्र उत्तमः । सर्वस्तोमो ज्योतिर्गौरायुरभिजिद्विश्वजिन्महाव्रतमप्तोर्यामो वा । का. श्रौ. सू. २० । १९९ । २०० । (उत्तमस्तृतीयमहरतिरात्रसंस्थं भवतीत्यर्थः, अतिरात्रसंस्थस्य तृतीयस्याह्न अष्टौ विकल्पा इत्यर्थश्च ।) ↩︎

  4. 396:2 Viz., as stated before, an Agnishṭoma and an Ukthya. ↩︎

  5. 396:3 As to the difference between the Jyotis, Go, and Āyus forms of the Agnishṭoma sacrifice, see part iv, p. 287, note 2. ↩︎

  6. 396:4 That is, according to Harisvāmin (and the Gāthā), the brothers of (Janamejaya) Pārikshita, though one would rather have thought of his sons, the grandsons of Parikshit. ↩︎

  7. 397:1 Regarding the Abhijit and Viśvajit, see part iv, p. 320, note 2. ↩︎ ↩︎

  8. दौर्ग्रहेण Harisv. ↩︎

  9. अत्र उत्तरार्धं न दृश्यते । भाष्ये अर्थाधिक्यवर्णनं दृश्यते अतश्च विचारणीयमिदम् । ↩︎

  10. 397:2 Sāyaṇa, differently from our Brāhmaṇa, takes Daurgaha as the patronymic of Purukutsa (son of Durgaha). ↩︎

  11. न्गृहे᳘ ABCP. ↩︎

  12. 397:3 See part iv, p. 282, note 5. ↩︎

  13. परिचक्रा Harisv. ↩︎

  14. 397:4 See part iii, introd. p. xx. ↩︎

  15. 398:1 Viz. inasmuch as, according to Harisvāmin, all the Stotras amount together to 798 verses, which make twenty-five anushṭubh verses (of 32 syllables each) or thereabouts. ↩︎

  16. 398:2 That is to say, all the remaining nine stotras of this, the Agnishṭoma, day, the so-called Dhuryas, viz. the Ājya-stotras, the Pr̥shṭḥa-stotras, and the Agnishṭoma-sāman, in all of which the respective Stoma is obtained by repetitions of the three stotriyā-verses. ↩︎

  17. 398:3 In this, the Ukthya, day, this includes also the three Uktha-stotras, as being, as it were, the Dhuryas of the Hotr̥’s assistants (cf. part iii, introd. p. xiv seqq.); whilst in the directions regarding the next day they are not included, as requiring a different Stoma. ↩︎

  18. 399:1 Just as there are here wide intervals between the Stomas, so Vishṇu, in his three strides, passes over wide distances, comm. ↩︎

  19. ऐतरेय ब्राह्मणे तु “बध्वा ऽयम्” इति पाठः । ऐ. ब्रा. ३९ । ९ । ४ । इत्यत्र ॥ मूलोक्तपाठे तु “क्त्वो यक्” (पा. सू. ७ । १ । ४७) इति यगागमः । “सौभाग्यमस्यै दत्त्वाय” इत्यत्रेव । ↩︎

  20. 399:2 This, according to Harisvāmin, is the name of Kaṇva’s hermitage. Cf. Leumann, Zeitsch. d. D. M. G., XLVIII, p. 81. ↩︎

  21. 399:3 Cf. Ait. Br. VIII, 23; Weber, Ind. Stud. I, p. 202. ↩︎

  22. श्वि᳘त्कानाᳫ A. prima m. ↩︎

  23. 399:4 That is, using the 21-versed form throughout the three days. ↩︎

  24. सात्रासाहे. ↩︎

  25. 400:1 This seems to be Harisvāmin’s interpretation of the verse:–torvaśā aśvā jyeshṭḥe tam api sr̥gyeran iti (?) trayastriṁśā stomā udgacchanti, sa hi Śoṇas trayastriṁśān eva stomān trishv api divaseshu prayuṅkte nānyān iti to udgacchantīty āha, shaṭ tu sahasrāṇi varmiṇāṁ rājaputrāṇāṁ kavacinām aśvapālānām udīrata iti vartate varshe prāptā eva drashṭavyāḥ. The St. Petersb. Dict., on the other hand, construes ’trayastriṁśāḥ’ along with ‘shaṭ sahasrāṇi’ = 6033 (? horses of mail-clad men). This interpretation seems to me to involve serious difficulties. The use of those Stomas doubtless is supposed to result in the advantages here enumerated. ↩︎

  26. 400:2 Koko nāma nāthaḥ, ke te aśvā udīrata iti prathamāyāṁ gāthāyām uktaṁ tad atrāpy anuvartate; teshāṁ tatra parimāṇaṁ noktam atra shaṭtriṁsad aśvasahasrāṇi rakshiṇām anucarabhntāny udgacchantīty āha; trayastriṁśāś codīrate shaḍ ḍḥi(?) varmiṇāṁ padānetāsu (?) gacchantīti. Harisvāmin. ↩︎

  27. सात्रासाहे. ↩︎

  28. 401:1 Why these are here put before the Pr̥shṭḥas, is not clear. ↩︎

  29. 401:2 Perhaps we ought here to read ‘Sātrājita.’ ↩︎

  30. 401:3 Unless the Gāthā in the preceding paragraph (being in the Trishṭubh metre) is really counted as two, the author seems here purposely to have omitted a verse. Possibly, however, it may mean, ’the fourth,’ viz. referring to paragraph 14. ↩︎

  31. विजयमध्याद्धोतुः प्राची दिक् दक्षिणा ब्रह्मणः, अध्वर्योः प्रतीची, उद्गातुरुदीची तृतीयं तृतीयमन्वहं ददाति भूमिपुरुषब्राह्मणः स्ववर्ज्यम् । (का. श्रौ. सू. २० । १०८ । १०९ ।) (ब्राह्मणस्वं यद्दंडादुत्पन्नं तन्न देयम् । तस्य हि ब्राह्मणेष्वेव विनियोगस्मृतौ विहित इति कर्कः ।) ↩︎

  32. एकविँशतिरनूबंध्या ऽअतः । (का. श्रौ. सू. २० । २१० ।) सप्त मैत्रावरुण्यः सप्त वैश्वदेव्यः सप्त बार्हस्पत्या एवमेकविंशतिः ॥ ↩︎ ↩︎

  33. ददाति. ↩︎

  34. उदवसानीयांते भार्या ददाति यथासंवादँ सानुचरीः । (का. श्रौ. सू. २० । २११ ।) (उदवसानीया त्रैधातवी ।) कुमारीं पालागलीं चाध्वर्यवे । अनुचरीर्वा फलाधिकारादितरासाम् । अनारभ्यत्वाच्च (का. श्रौ. सू. २० । २१२-११४ ।) अत्र कर्कभाष्यम्- वाशब्दः पक्षव्यावृत्तौ । न भार्या ददाति । अनुचरीरेव दद्यात् । कुत एतत् ? फलाधिकाराद्भार्याणाम् । यजमानतुल्या एवैता इति । माध्यमिकं हि यजमानस्य पत्नीनां च द्रव्यं साधारणत्वाच्चोत्सर्गः सहैव भवति नान्यथेति । तत्कथं तर्हि वेदवाक्यं नेयम् । चतस्रश्च जाया यजमानश्च चत्वारि च शतान्यनुचरीणां कुमारीं पंचमीं यथासंवादं दक्षिणां ददाति इति । अपि च यथा पत्न्यो यजमानदानं असमर्थाः एवं यजमानो ऽपि पत्नीनाम् । तस्मादनारभ्यो ऽयमर्थ इति कर्केभाष्यम् । देवयाज्ञिकभाष्यमप्येवमेव । ↩︎