०१

विश्वास-प्रस्तुतिः

अथा᳘तो व्वपा᳘नाᳫँ᳭ हो᳘मः॥
(मो) ना᳘नैव᳘ चरेयुरा᳘ व्वैश्वदेव᳘स्य व्वपा᳘यै व्वैश्वदेव᳘स्य व्वपा᳘याᳫँ᳭ हुता᳘यां तदन्वि᳘तरा जुहुयुरि᳘ति ह स्माह सत्य᳘कामो जाबालो व्वि᳘श्वे वै स᳘र्व्वे देवास्त᳘देतान्यथादेवत᳘म्प्रीणाती᳘ति॥

मूलम् - श्रीधरादि

अथा᳘तो व्वपा᳘नाᳫँ᳭ हो᳘मः॥
(मो) ना᳘नैव᳘ चरेयुरा᳘ व्वैश्वदेव᳘स्य व्वपा᳘यै व्वैश्वदेव᳘स्य व्वपा᳘याᳫँ᳭ हुता᳘यां तदन्वि᳘तरा जुहुयुरि᳘ति ह स्माह सत्य᳘कामो जाबालो व्वि᳘श्वे वै स᳘र्व्वे देवास्त᳘देतान्यथादेवत᳘म्प्रीणाती᳘ति॥

मूलम् - Weber

अथा᳘तो वपा᳘नाᳫं हो᳘मः॥
ना᳘नैव᳘ चरेयुरा᳘ वैश्वदेव᳘स्य वपा᳘यै वैश्वदेव᳘स्य वपा᳘याᳫं हुता᳘यां तदन्वि᳘तराजुहुयुरि᳘ति ह स्माह सत्य᳘कामो जाबालो वि᳘श्वे वै स᳘र्वे 1 देवास्त᳘देनान्यथादेवत᳘म् प्रीणाती᳘ति॥

मूलम् - विस्वरम्

अथ वपाप्रचरणम् ।

अथातो वपानां होमः । नानैव चरेयुः आ वैश्वदेवस्य वपायै । वैश्वदेवस्य वपायां हुतायाम् । तदनु इतरा जुहुयुः इति ह स्माह सत्यकामो जाबालः । विश्वे वै सर्वे देवाः । तदेतान् यथादेवतं प्रीणातीति ॥ १ ॥

हरिस्वामी

अथातो वपानामिति 2- आ वैश्वदेवस्य वपाया इत्यत्र “बहुरूपा वैश्वदेवाः” इत्येषः (श. प. १३ । २ । ५ । ४ ॥ १३ । ३ । २ । ७) वैश्वदेवो ऽवधिः “न शिल्पा वैश्वदेव्यः”- (वा. सं. २४ । ५) इति । कुतः ? पुंल्लिंगनिर्देशात् कायैन्द्राग्नसाहचर्यात्, अतो हि चातुर्मास्यदेवतापशुसाहचर्यात्, एषो ऽपि चातुर्मास्यदेवतापशुरेवेति गम्यते ॥ १ ॥

Eggeling
  1. Now as to the offering of the omenta. ‘They should proceed with them singly up to the omentum of the Vaiśvadeva (victim) 3; and when the omentum of the Vaiśvadeva has been offered, they should thereupon offer the others,’ said Satyakāma Jābāla; ‘for, doubtless, the All-Gods (Viśve Devāḥ) are all (sarve) the gods: it is in this way he gratifies them deity after deity.’

०२

विश्वास-प्रस्तुतिः

(त्यै) ऐन्द्राग्न᳘स्य व्वपा᳘याᳫँ᳭ हुता᳘याम्॥
(न्त) तदन्वि᳘तरा जुहुयुरि᳘ति ह स्माहतुः सौमापौ मा᳘नुतन्तव्याविन्द्राग्ग्नी वै स᳘र्व्वे देवास्त᳘दे᳘वैनान्यथादेवत᳘म्प्रीणाती᳘ति॥

मूलम् - श्रीधरादि

(त्यै) ऐन्द्राग्न᳘स्य व्वपा᳘याᳫँ᳭ हुता᳘याम्॥
(न्त) तदन्वि᳘तरा जुहुयुरि᳘ति ह स्माहतुः सौमापौ मा᳘नुतन्तव्याविन्द्राग्ग्नी वै स᳘र्व्वे देवास्त᳘दे᳘वैनान्यथादेवत᳘म्प्रीणाती᳘ति॥

मूलम् - Weber

ऐन्द्राग्न᳘स्य वदा᳘याᳫं हुता᳘याम्॥
तदन्वि᳘तरा जुहुयुरि᳘ति ह स्माहतुः सौमापौ मा᳘नुतन्तव्याविन्द्राग्नी वै स᳘र्वे देवास्त᳘देॗवैनान्यथादेवत᳘म् प्रीणाती᳘ति॥

मूलम् - विस्वरम्

ऐन्द्राग्नस्य वपायां हुतायाम् । तदनु इतरा जुहुयुः; इति ह स्माहतुः सौमापौ मानुतंतव्यौ । इन्द्राग्नी वै सर्वे देवाः । तदेवैनान् यथादेवतं प्रीणातीति ॥ २ ॥

हरिस्वामी

सौमापौ । सोमापस्य अपत्ये सौमापौ । मनुतंतोरपत्ये मानुतंतव्यौ । इंद्राग्न्योर्विश्वेषां देवानां कस्य च सर्वदेवतात्मकत्वात् तेभ्यो हुता वपा यथादेवतमेव हुता भवतीत्यभिप्रायः । पूर्वम् “एकविँशतिधा कृत्वा प्रचरेयुः” इति (४ कं.) प्रचरणवचनात् यागत्वं प्रतीयते । इह तु “तदन्वितरा जुहुयुः”- इति (२ कं.) होमत्वमिति भेदः ॥ २ ॥ ३ ॥

Eggeling
  1. ‘When the omentum of the Aindrāgna (victim) has been offered, they should thereupon offer the others,’ said the two Saumapa Mānutantavya;‘for, doubtless, Indra and Agni are all the gods: it is in this way he gratifies them deity after deity.’

०३

विश्वास-प्रस्तुतिः

काय᳘स्य व्वपा᳘याᳫँ᳭ हुता᳘याम्॥
(न्त) तदन्वि᳘तरा जुहुयुरि᳘ति ह स्माह[[!!]] शै᳘लालिः प्रजा᳘पतिर्व्वै कः᳘ प्रजा᳘पतिमु वा ऽअ᳘नु स᳘र्व्वे देवास्त᳘दे᳘वैनान्यथादेवत᳘म्प्रीणातीति॥

मूलम् - श्रीधरादि

काय᳘स्य व्वपा᳘याᳫँ᳭ हुता᳘याम्॥
(न्त) तदन्वि᳘तरा जुहुयुरि᳘ति ह स्माह[[!!]] शै᳘लालिः प्रजा᳘पतिर्व्वै कः᳘ प्रजा᳘पतिमु वा ऽअ᳘नु स᳘र्व्वे देवास्त᳘दे᳘वैनान्यथादेवत᳘म्प्रीणातीति॥

मूलम् - Weber

काय᳘स्य वपा᳘याᳫं हुता᳘याम्॥
तदन्वि᳘तरा जुहुयुरि᳘ति ह स्माहॗ इनान्यथादेवत᳘म् प्रीणाती᳘ति शै᳘लालिः प्रजा᳘पतिर्वै कः᳘ प्रजा᳘पतिमु वा अ᳘नु स᳘र्वे देवास्त᳘देॗवैनान्यथादेवत᳘म् प्रीणातीति॥

मूलम् - विस्वरम्

कायस्य वपायां हुतायाम् । तदनु इतरा जुहुयुः; इति ह स्माह शैलालिः । प्रजापतिर्वै कः । प्रजापतिं उ वा अनु सर्वे देवाः । तदेवैनान् यथादेवतं प्रीणातीति ॥ ३ ॥

हरिस्वामी

[व्याख्यानं द्वितीये]

Eggeling
  1. ‘When the omentum of the (victim) sacred to Ka has been offered, they should thereupon offer

the others,’ said Śailāli; ‘for, doubtless, Ka is Prajāpati, and behind Prajāpati are all the gods: it is in this way he gratifies them deity after deity.’

०४

विश्वास-प्रस्तुतिः

(त्ये᳘) ए᳘कविᳫँ᳭शतिञ्चातुर्मास्यदेवता᳘ ऽअनुद्रु᳘त्य॥
(त्यै) एकविᳫँ᳭शतिधा᳘ कृत्वा प्र᳘चरेयुरि᳘ति ह स्माह भाल्लवेय᳘ ऽएता᳘वन्तो वै स᳘र्व्वे देवा या᳘वत्यश्चातुर्म्मास्यदेवतास्त᳘दे᳘वैनान्यथादेवत᳘म्प्रीणाती᳘ति॥

मूलम् - श्रीधरादि

(त्ये᳘) ए᳘कविᳫँ᳭शतिञ्चातुर्मास्यदेवता᳘ ऽअनुद्रु᳘त्य॥
(त्यै) एकविᳫँ᳭शतिधा᳘ कृत्वा प्र᳘चरेयुरि᳘ति ह स्माह भाल्लवेय᳘ ऽएता᳘वन्तो वै स᳘र्व्वे देवा या᳘वत्यश्चातुर्म्मास्यदेवतास्त᳘दे᳘वैनान्यथादेवत᳘म्प्रीणाती᳘ति॥

मूलम् - Weber

ए᳘कविंशतिं चातुर्मास्यदेवता᳘ अनुहु᳘त्य॥
एक्विंशतिधा᳘ कृत्वा प्र᳘चरेयुरि᳘ति ह स्माह भाल्लबेय᳘ एता᳘वन्तो वै स᳘र्वे देवाया᳘वत्यश्चातुर्मास्यदेवतास्त᳘देॗवैनान्यथादेवत᳘म् प्रीणाती᳘ति॥

मूलम् - विस्वरम्

एकविंशतिं चातुर्मास्यदेवता अनुद्रुत्य, एकविंशतिधा कृत्वा प्रचरेयुः; इति ह स्माह भाल्लवेयः । एतावंतो वै सर्वे देवाः । यावत्यश्चातुर्मास्यदेवताः । तदेवैनान् यथादैवतं प्रीणातीति ॥ ४ ॥

हरिस्वामी

एकविंशतिं चातुर्मास्यदेवताः । पित्र्यत्रैयंबकपुनरुक्तवर्जिताः । कुत एतत् ? पितॄणामदेवत्वात् । त्र्यंबकस्याप्रधानदेवतात्वात् । पुनरुक्तानामनन्यदेवतात्वात् । “अनुद्रुत्य” अनुपूर्वमनुदिश्य । एकविंशतिधा कृत्वा एकविंशतिं च वपाराशीः कृत्वा । एकैकं राशिं एकैकां चातुर्मास्यदेवतां संकीर्त्य जुहुयात् । तद्यथा- सर्वमेव वपानामेकविंशतिभागम् अग्निदेवत्याग्नेययाज्याया अंते जुहुयात् । अपरं एकविंशतितमं भागं सोमोद्देशेनेत्येवं सर्वेषां राशीनां ज्ञेयम् ॥ ४ ॥

Eggeling
  1. ‘Having gone through the twenty-one deities of the Seasonal 4 (victims), let them proceed by dividing (the omenta) into twenty-one parts 5,’ said Bhāllaveya; ‘for as many as there are Seasonal deities so many are all the gods: it is in this way he gratifies them deity after deity.’

०५

विश्वास-प्रस्तुतिः

ना᳘नैव᳘ चरेयुः॥
(रि᳘) इ᳘तीन्द्रोतः शौ᳘नकः कि᳘मुत᳘ त्वरेरंस्त᳘दे᳘वैनान्यथा᳘देवतम्प्रीणाती᳘त्येतद᳘ह ते᳘षाम्व᳘चो ऽन्या᳘ त्वेवा᳘त स्थि᳘तिः॥

मूलम् - श्रीधरादि

ना᳘नैव᳘ चरेयुः॥
(रि᳘) इ᳘तीन्द्रोतः शौ᳘नकः कि᳘मुत᳘ त्वरेरंस्त᳘दे᳘वैनान्यथा᳘देवतम्प्रीणाती᳘त्येतद᳘ह ते᳘षाम्व᳘चो ऽन्या᳘ त्वेवा᳘त स्थि᳘तिः॥

मूलम् - Weber

ना᳘नैव᳘ चरेयुः॥
इ᳘तीन्द्रोतः शौनकः कि᳘मुत᳘ त्वरेरंस्त᳘देॗवैनान्यथादेवतम् प्रीणाती᳘त्येतद᳘ह ते᳘षाम् व᳘चोऽन्याॗ त्वेवा᳘त स्थि᳘तिः॥

मूलम् - विस्वरम्

नानैव चरेयुः; इतींद्रोतः शौनकः । किमुत त्वरेरन् । तदेवैनान् यथादेवतं प्रीणातीति । एतदह तेषां वचः । अन्या त्वेवातः स्थितिः ॥ ५ ॥

हरिस्वामी

नाना पृथक्पृथक् यथाप्राप्तमेव चरेयुः । किं कारणम् ? येन त्वरमाणाः संकल्पनमयथा कुर्युः । प्रकृतिवैलक्षण्यं चेति । एवमेव हि अनुप्रचरितया वृत्त्या यथादेवतं द्रव्यदेवतोच्चारणेन देवताः प्रीणातीति । इतरथा उपचारेणेत्यभिप्रायः ॥ ५ ॥

Eggeling
  1. ‘Let them proceed (with the omenta) singly and not otherwise,’ said Indrota Saunaka; ‘why, indeed, should they hasten? It is in this way he gratifies them deity after deity.’ This, then, is what these have said, but the established practice is different therefrom.

०६

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ होवाच या᳘ज्ञवल्क्यः॥
सकृ᳘देव᳘ प्राजापत्या᳘भिः प्रच᳘रेयुः सकृ᳘द्देवदेव᳘त्याभिस्त᳘दे᳘वैनान्यथादेवत᳘म्प्रीणात्य᳘ञ्जसा यज्ञ᳘स्य सᳫँ᳭स्थामु᳘पैति न᳘ ह्वलती᳘ति॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ होवाच या᳘ज्ञवल्क्यः॥
सकृ᳘देव᳘ प्राजापत्या᳘भिः प्रच᳘रेयुः सकृ᳘द्देवदेव᳘त्याभिस्त᳘दे᳘वैनान्यथादेवत᳘म्प्रीणात्य᳘ञ्जसा यज्ञ᳘स्य सᳫँ᳭स्थामु᳘पैति न᳘ ह्वलती᳘ति॥

मूलम् - Weber

अ᳘थ होवाच या᳘ज्ञवल्क्यः॥
सकृ᳘देव᳘ प्राजापत्या᳘भिः प्रच᳘रेयुः सकृ᳘द्देवदेव᳘त्याभिस्त᳘देॗवैनान्यथादेवत᳘म् प्रीणात्य᳘ञ्जसा यज्ञ᳘स्य संस्थामु᳘पैति न ह्वलतीति॥

मूलम् - विस्वरम्

अथ होवाच याज्ञवल्क्यः । सकृदेव प्राजापत्याभिः प्रचरेयुः । सकृद्देवदेवत्याभिः । तदेवैनान्यथादेवतं प्रीणाति । अंजसा यज्ञस्य संस्थामुपैति । न ह्वलतीति ॥ ६ ॥

हरिस्वामी

अथ 6 होवाच याज्ञवल्क्यः । यावत्यः प्राजापत्याः ताभिः । सकृदेव सह प्रचरेयुः । सकृदेव सहाग्न्यादिदेवताभिः, तदेव तेनैव एनान् देवान्, यथादेवतं प्रीणाति देवग्रहणेन हि ते सर्वे ऽप्यग्न्यादयः, शक्यंते ग्रहीतुमित्यर्थः । अंजसा ऋजुमार्गेण सवनकालमनतिक्रमेण यज्ञस्य समाप्तिं प्राप्नोति । न ह्वलति न चलति, कर्म कालात् । इति ब्रुवन्, हृदयाद्यंगानां प्रचारमपि एवमेव दर्शयति । तथाच प्रागुक्तम्- “प्राजापत्य एवाश्वो देवदेवत्या इतरे” इति ॥ ६ ॥

Eggeling
  1. Now Yājñavalkya said, ‘They should proceed simultaneously with the (omenta) of Prajāpati’s 7 (victims), and simultaneously with those consecrated to single gods: it is in this way that he gratifies them deity after deity, that he goes straightway to the completion of the sacrifice, and does not stumble.’

०७

विश्वास-प्रस्तुतिः

हुता᳘सु व्वपा᳘सु॥
प्रप᳘द्याध्वर्य्यू᳘ रजते᳘न पा᳘त्रेण प्राजापत्य᳘म्महिमा᳘नमु᳘त्तरङ्ग्र᳘हङ्गृह्णाति त᳘स्य पुरोरुग्यः᳘ प्राणतो᳘ निमिषतो᳘ महित्वे᳘ति व्विप᳘र्य्यस्ते याज्या ऽनुवा᳘क्ये ऽअयातयाम᳘ताया ऽएष᳘ ऽएव᳘ प्रैषो व्व᳘षट्कृते जुहोति य᳘स्ते रा᳘त्रौ सम्वत्सरे᳘ महिमा᳘ सम्बभूवे᳘ति᳘ नानुव᳘षट्करोति त᳘स्योक्तम्ब्रा᳘ह्मणम्॥

मूलम् - श्रीधरादि

हुता᳘सु व्वपा᳘सु॥
प्रप᳘द्याध्वर्य्यू᳘ रजते᳘न पा᳘त्रेण प्राजापत्य᳘म्महिमा᳘नमु᳘त्तरङ्ग्र᳘हङ्गृह्णाति त᳘स्य पुरोरुग्यः᳘ प्राणतो᳘ निमिषतो᳘ महित्वे᳘ति व्विप᳘र्य्यस्ते याज्या ऽनुवा᳘क्ये ऽअयातयाम᳘ताया ऽएष᳘ ऽएव᳘ प्रैषो व्व᳘षट्कृते जुहोति य᳘स्ते रा᳘त्रौ सम्वत्सरे᳘ महिमा᳘ सम्बभूवे᳘ति᳘ नानुव᳘षट्करोति त᳘स्योक्तम्ब्रा᳘ह्मणम्॥

मूलम् - Weber

हुता᳘सु वपा᳘सु॥
प्रप᳘द्याध्वर्यू᳘ रजते᳘न पा᳘त्रेण प्राजापत्य᳘म् महिमा᳘नमु᳘त्तरं ग्र᳘हं गृह्णाति त᳘स्य पुरोरुग्यः᳘ प्राणतो᳘ निमिषतो᳘ महित्वे᳘ति विप᳘र्यस्ते याज्यानुवाॗक्ये अयातयाम᳘ताया एष᳘ एव᳘ प्रैषो व᳘षट्कृते जुहोति य᳘स्ते रा᳘त्रौ सम्वत्सरे᳘ महिमा᳘ सम्बभूवे᳘तिॗ नानुव᳘षट्करोति त᳘स्योक्तम् ब्रा᳘ह्मणम्॥

मूलम् - विस्वरम्

हुतासु वपासु प्रपद्याध्वर्युः रजतेन पात्रेण प्राजापत्यं महिमानमुत्तरं ग्रहं गृह्णाति । तस्य पुरोरुक्- “यः प्राणतो निमिषतो महित्वा”- (वा. सं. २३ । ३) इति । विपर्यस्ते याज्या ऽनुवाक्ये । अयातयामतायै । एष एव प्रैषः । वषट्कृते जुहोति- “यस्ते रात्रौ संवत्सरे महिमा संबभूव”- (वा. सं. २३ । ४) इति । नानुवषट्करोति । तस्योक्तं ब्राह्मणम् ॥ ७ ॥

हरिस्वामी

अथोत्तरो महिमग्रहः ।

हुतासु वपासु । रजतेन पात्रेण प्राजापत्यं महिमानमुत्तरं ग्रहं गृह्णाति । एतावत् अनुविधीयते अन्यत् लिंगादिभिरपि प्राप्तमनूद्यते । विपर्यस्ते याज्या ऽनुवाक्ये । इत्येतदपि विधीयते 8 ॥ ७ ॥

Eggeling
  1. When the omenta have been offered, the Adhvaryu enters (the Havirdhāna shed) and draws

Prajāpati’s second Mahiman cup of Soma in a silver vessel. The Puroruc thereof is (Vāj. XXIII, 3), ‘He who by his greatness hath become the one king of the breathing and blinking world, [and who here ruleth over the two-footed and the four-footed: to the god Ka (Who?) will we pay homage by offering].’ The Anuvākyā and Yājyā are interchanged so as to (ensure) unimpaired vigour 9, and the Praisha (direction to Hotr̥) is the same (as that of the first cup). As the Vashaṭ is uttered, he offers with (Vāj. S. XXIII, 4), ‘What greatness of thine there hath been in the night, and the year, [what greatness of thine there hath been in the earth and the fire; what greatness of thine there hath been in the Nakshatras and the moon, to that greatness of thine, to Prajāpati, to the gods, hail 10].’ He does not repeat the Vashaṭ: the significance of this has been explained.

०८

विश्वास-प्रस्तुतिः

(न्ना) नान्ये᳘षाम्पशूना᳘न्तेदन्या᳘ ऽअवद्य᳘न्ति॥ (न्त्य) अ᳘वद्यन्त्य᳘श्वस्य दक्षिण᳘तो ऽन्ये᳘षाम्पशूना᳘मवद्य᳘न्त्युत्तरतो᳘ ऽश्वस्य प्लक्षशाखा᳘स्वन्ये᳘षाम्पशूना᳘मवद्य᳘न्ति व्वेतसशाखास्व᳘श्वस्य॥

मूलम् - श्रीधरादि

(न्ना) नान्ये᳘षाम्पशूना᳘न्तेदन्या᳘ ऽअवद्य᳘न्ति॥ (न्त्य) अ᳘वद्यन्त्य᳘श्वस्य दक्षिण᳘तो ऽन्ये᳘षाम्पशूना᳘मवद्य᳘न्त्युत्तरतो᳘ ऽश्वस्य प्लक्षशाखा᳘स्वन्ये᳘षाम्पशूना᳘मवद्य᳘न्ति व्वेतसशाखास्व᳘श्वस्य॥

मूलम् - Weber

नान्ये᳘षाम् पशूना᳘म् तेदन्या᳘ अवद्यन्ति अ᳘वद्यन्त्य᳘श्वस्य दक्षिणॗतोऽन्ये᳘षाम् पशूना᳘मवद्य᳘न्त्युत्तरतो᳘ऽश्वस्य प्लक्षशाखा᳘स्वन्ये᳘षाम् पशूना᳘मवद्य᳘न्ति वेतसशाखास्व᳘श्वस्य॥

मूलम् - विस्वरम्

नान्येषां पशूनां तदन्या अवद्यंति । अवद्यंत्यश्वस्य । दक्षिणतो ऽन्येषां पशूनामवद्यंति । उत्तरतो ऽश्वस्य । प्लक्षशाखास्वन्येषां पशूनामवद्यंति । वेतसशाखास्वश्वस्य ॥ ८ ॥

हरिस्वामी

तेदन्या तेदनी लोहितं तस्यास्तेदन्याः एकदेशमवद्यन्ति 8 । अश्वस्येति विधिः इतरे 11 अनुवादाः ॥ ८ ॥

Eggeling
  1. Of the blood of the other victims they make no sacrificial portions; of (that of) the horse they do make portions 12. Of (the blood of) the others they make portions 13 on the south side, of (that of) the horse on the north side (of the altar); of (the blood of) the others he makes portions on (a mat of) plaksha (ficus infectoria) twigs, of (that of) the horse on rattan twigs.

०९

विश्वास-प्रस्तुतिः

त᳘दु होवाच सा᳘त्ययज्ञिः॥
(रि) इतर᳘थैव᳘ कुर्य्युः पथ᳘ ऽएव᳘ नापोदि᳘त्यमि᳘ति पू᳘र्व्वा᳘ त्वेव स्थि᳘तिरु᳘क्थ्यो यज्ञस्ते᳘नान्तरिक्षलोक᳘मृध्नोति स᳘र्व्वस्तोमो ऽतिरात्र᳘ ऽउत्तमम᳘हर्भ्भवति स᳘र्व्वम्वै स᳘र्व्वस्तोमो ऽतिरात्रः स᳘र्व्वमश्वमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै॥

मूलम् - श्रीधरादि

त᳘दु होवाच सा᳘त्ययज्ञिः॥
(रि) इतर᳘थैव᳘ कुर्य्युः पथ᳘ ऽएव᳘ नापोदि᳘त्यमि᳘ति पू᳘र्व्वा᳘ त्वेव स्थि᳘तिरु᳘क्थ्यो यज्ञस्ते᳘नान्तरिक्षलोक᳘मृध्नोति स᳘र्व्वस्तोमो ऽतिरात्र᳘ ऽउत्तमम᳘हर्भ्भवति स᳘र्व्वम्वै स᳘र्व्वस्तोमो ऽतिरात्रः स᳘र्व्वमश्वमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै॥

मूलम् - Weber

त᳘दु होवाच सा᳘त्ययज्ञिः॥
इतर᳘थैव᳘ कुर्युः पथ एवॗ नापोदि᳘त्यमि᳘ति पू᳘र्वाॗ त्वेव स्थि᳘तिरुॗक्थ्यो यज्ञस्ते᳘नान्तरिक्षलोक᳘मृध्नोति स᳘र्वस्तोमोऽतिरात्र᳘ उत्तमम᳘हर्भवति स᳘र्वम् वै स᳘र्वस्तोमोऽतिरात्रः स᳘र्वमश्वमेधः स᳘र्वस्या᳘प्तै स᳘र्वस्या᳘वरुद्ध्यै॥

मूलम् - विस्वरम्

तदु होवाच सात्ययज्ञिः । इतरथैव कुर्युः । पथ एव नापोदित्यमिति । पूर्वा त्वेव स्थितिः । उक्थ्यो यज्ञः । तेनांतरिक्षलोकमृध्नोति । सर्वस्तोमो ऽतिरात्र उत्तममहर्भवति । सर्वं वै सर्वस्तोमो ऽतिरात्रः । सर्वमश्वमेधः । सर्वस्याप्त्यै । सर्वस्यावरुद्ध्यै ॥ ९ ॥

हरिस्वामी

कल्पान्तरोपन्यासः । तदु होवाच सात्ययज्ञिः । इतरथा यथा अन्येषां पशूनां तथा कुर्युः । पश्वंतरकर्ममार्गादेव प्रसिद्धात् । ‘अपोदित्यमिति’ अप उत् इत्यम् इति । उत्कर्षेण अपक्रमितव्यम् । इण् । “एतिस्तुशास्वृदृजुषः क्यप्”- (पा. सू. ३ । १ । १०९) “ह्रस्वस्य पिति कृति तुक्”- (पा. सू. ६ । १ । ७१) इति इत्यम् । एवं च न एतव्यम् । पूर्वा त्वेव स्थितिः । पूर्वा तु स्थितिरेव सात्ययज्ञिमतम् । ततश्च आदेयमेव लोहितस्येति । उत्तरतश्च वेतसशाखास्विति कुर्युः । उक्थ्यो 14 यज्ञः । इत्येतदेकविंशं मध्यममहरुपन्यस्तम् । तदुक्थ्यसंस्थं भवतीत्यर्थः । तेन मध्यमेन अह्ना अंतरिक्षलोकमृध्नोति ॥ ९ ॥ १० ॥

Eggeling
  1. But concerning this, Sātyayajñi said, ‘They may indeed do it in either way, only one must not depart from the (right) path.’ But the former, indeed, is the established practice. The sacrifice (of the second day) is an Ukthya: thereby he causes the air-world to prosper. The last day is an Atirātra with all the Stomas, for him to obtain and secure everything, for the Atirātra with all the Stomas is everything, and the Aśvamedha is everything.

१०

विश्वास-प्रस्तुतिः

त᳘स्य त्रिवृ᳘द्बहिष्पवमान᳘म्॥
(म्प) पञ्चदशान्या᳘ज्यानि सप्तदशो मा᳘ध्यन्दिनः प᳘वमान ऽएकविᳫँ᳭शा᳘नि पृष्ठानि त्रिणव᳘स्तृती᳘यः प᳘वमानस्त्र᳘यस्त्रिᳫँ᳭शमग्निष्टोमसा᳘मैकविᳫँ᳭शा᳘न्युक्था᳘न्येकविᳫँ᳭शः᳘ षोडशी᳘ पञ्चदशी रा᳘त्रिस्त्रिवृ᳘त्सन्धिर्य्य᳘द्द्विती᳘यस्या᳘ह्नः पृष्ठ्य᳘स्य षडह᳘स्य त᳘च्छस्त्र᳘मतिरात्रो᳘ यज्ञस्ते᳘नामुं᳘ लोक᳘मृध्नोति॥

मूलम् - श्रीधरादि

त᳘स्य त्रिवृ᳘द्बहिष्पवमान᳘म्॥
(म्प) पञ्चदशान्या᳘ज्यानि सप्तदशो मा᳘ध्यन्दिनः प᳘वमान ऽएकविᳫँ᳭शा᳘नि पृष्ठानि त्रिणव᳘स्तृती᳘यः प᳘वमानस्त्र᳘यस्त्रिᳫँ᳭शमग्निष्टोमसा᳘मैकविᳫँ᳭शा᳘न्युक्था᳘न्येकविᳫँ᳭शः᳘ षोडशी᳘ पञ्चदशी रा᳘त्रिस्त्रिवृ᳘त्सन्धिर्य्य᳘द्द्विती᳘यस्या᳘ह्नः पृष्ठ्य᳘स्य षडह᳘स्य त᳘च्छस्त्र᳘मतिरात्रो᳘ यज्ञस्ते᳘नामुं᳘ लोक᳘मृध्नोति॥

मूलम् - Weber

त᳘स्य त्रिवृ᳘द्बहिष्पवमान᳘म्॥
पञ्चदशान्या᳘ज्यानि सप्तदशो मा᳘ध्यन्दिनः प᳘वमान एकविंशा᳘नि पृष्थ्\आ᳘नि त्रिणव᳘स्तृती᳘यः प᳘वमानस्त्र᳘यस्त्रिंशमग्निष्टोमसाॗमैकविंशा᳘न्युक्था᳘न्येकविंशः᳘ षोडशी᳘ पञ्चदशी रा᳘त्रिस्त्रिवृ᳘त्सन्धिर्य᳘द्द्विती᳘यस्या᳘ह्नः पृष्थ्\य᳘स्य षडह᳘स्य त᳘छस्त्र᳘मतिरात्रो᳘ यज्ञस्ते᳘नामुं᳘ लोक᳘मृध्नोति॥

मूलम् - विस्वरम्

तस्य त्रिवृद्बहिष्पवमानम् । पंचदशान्याज्यानि । सप्तदशो माध्यंदिनः पवमानः । एकविंशानि पृष्ठानि । त्रिणवस्तृतीयः पवमानः । त्रयस्त्रिंशमग्निष्टोमसाम । एकविंशान्युक्थानि । एकविंशः षोडशी । पंचदशी रात्रिः । त्रिवृत्संधिः । यत् द्वितीयस्याह्नः पृष्ठ्यस्य षडहस्य तच्छस्त्रम् । अतिरात्रो यज्ञः । तेनामुं लोकमृध्नोति ॥ १० ॥

हरिस्वामी

[व्याख्यानं नवमे]

Eggeling
  1. Its Bahishpavamāna (stotra) is in the Trivr̥t (9-versed Stoma), the Ājya (stotras) in the Pañcadaśa (15-versed), the Mādhyandina-pavamāna in the Saptadaśa (17), the Pr̥shṭḥas in the Ekaviṁśa (21), the Tr̥tīya Pavamāna in the Triṇava (27), the Agnishṭoma-sāman in the Trayastriṁśa (33), the Ukthas in the Ekaviṁśa (21), the Shoḍaśin in the Ekaviṁśa, the night (chants) in the Pañcadaśa, the Sandhi (twilight chant) in the Trivr̥t (9). Whatever Śastra is (recited) for the second day of the Pr̥shṭḥya Shaḍaha that is (used at) the Atirātra sacrifice 15; thereby he causes yonder (heavenly) world to prosper.

११

विश्वास-प्रस्तुतिः

(त्ये᳘) ए᳘कविᳫँ᳭शतिः सवनी᳘याः पश᳘वः॥
स᳘र्व्व ऽआग्नेयास्ते᳘षाᳫँ᳭ समानं कर्मे᳘त्यु है᳘क ऽआहुश्च᳘तुर्व्विᳫँ᳭शति᳘न्त्वे᳘वैता᳘न्गव्याना᳘लभेत द्वादश᳘भ्यो देव᳘ताभ्यो द्वा᳘दश मा᳘साः संवत्सरः स᳘र्व्वᳫँ᳭ संवत्सरः स᳘र्व्वमश्वमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै॥

मूलम् - श्रीधरादि

(त्ये᳘) ए᳘कविᳫँ᳭शतिः सवनी᳘याः पश᳘वः॥
स᳘र्व्व ऽआग्नेयास्ते᳘षाᳫँ᳭ समानं कर्मे᳘त्यु है᳘क ऽआहुश्च᳘तुर्व्विᳫँ᳭शति᳘न्त्वे᳘वैता᳘न्गव्याना᳘लभेत द्वादश᳘भ्यो देव᳘ताभ्यो द्वा᳘दश मा᳘साः संवत्सरः स᳘र्व्वᳫँ᳭ संवत्सरः स᳘र्व्वमश्वमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै॥

मूलम् - Weber

ए᳘कविंशतिः सवनी᳘याः पश᳘वः॥
स᳘र्व आग्नेयास्ते᳘षाᳫं समानंकर्मे᳘त्यु है᳘क आहुश्चतुर्विंशतिॗम् त्वेॗवैता᳘न्गव्याना᳘लभेत् द्वादश᳘भ्यो देवताभ्यो द्वा᳘दश मा᳘साः सम्वत्सरः स᳘र्वᳫं सम्वत्सरः स᳘र्वमश्वमेधः स᳘र्वस्या᳘प्तै स᳘र्वस्या᳘वरुद्ध्यै॥

मूलम् - विस्वरम्

एकविंशतिः सवनीयाः पशवः । सर्व आग्नेयाः । तेषां समानं कर्म । इति उ हैक आहुः । चतुर्विंशतिं त्वेवैतान् गव्यानालभेत द्वादशभ्यो देवताभ्यः । द्वादश मासाः संवत्सरः । सर्वं संवत्सरः । सर्वमश्वमेधः । सर्वस्याप्त्यै । सर्वस्यावरुद्ध्यै ॥ ११ ॥

हरिस्वामी

चतुर्विंशतिं त्ववैतान् गव्यानालभेत । एतान् “आग्नेयः कृष्णग्रीवः” इत्यादीन् द्वाविंशतिं च द्वौ च प्राजापत्यौ इति श्रुत्यन्तरात् गव्यान् गोमयात्मकानालभते द्वादशभ्यो देवताभ्यः । एकादशिनी देवता एकादश द्वादशी प्रजापतिः इत्येताभ्यः ॥ ११ ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे काण्डे पंचमे ऽध्याये तृतीयं ब्राह्मणम् ॥ १३ । ५ । ३ ॥

Eggeling
  1. ‘There are twenty-one Savanīya victims, all of them consecrated to Agni, and there is one and the same performance for them,’ so say some; but let him rather immolate those twenty-four bovine (victims 16) for twelve deities,–twelve months are a year, and the year is everything, and the Aśvamedha

is everything: thus it is for the sake of his obtaining and securing everything.


  1. जाबालो म᳘नो वै स᳘र्वे A prima m. ↩︎

  2. वपाभिश्चरति । का. श्रौ. सू. २० । १७७ । प्रथमं एकादशिन्योः पशूनां वपाभिः । ततः अश्वतूपरगोमृगानां वपाभिस्तंत्रेण । ततः क्रमेण पृथक् पृथक् “कृष्णग्रीव आग्नेयो रराटे” इत्यादीनां “श्वेताः सौर्याः” इत्यंतानां वपाभिः । तत्रापि समानदेवत्यानां तिसृणां तिसृणां वपानां प्रचारस्तंत्रेण । अयं प्रकारः “नानैव चरेयुरिति” अग्रिमपंचमकंडिकानुसारी बोध्यः । अयमेको वपाप्रचारपक्षः ॥ ऐंद्राग्नवैश्वदेवकायानेके । (का. श्रौ. सू. २० । १८२ ।) ऐंद्राग्नो वारुणप्रघासिकः । वैश्वदेवो वैश्वदेवपर्वसंबंधी । कायश्च वारुणप्रघासिकः । अयमभिप्रायः- आदित आरभ्य वारुणप्रघासिकैन्द्राग्नपर्यंतं क्रमेण पृथक् पृथक् वपाप्रचारं कृत्वा ऐंद्राग्नस्य वपायां हुतायां अवशिष्टाः सर्वा वपाः अनुहोतव्याः । अयं द्वितीयो वपाप्रचारपक्षः । एवं वैश्वदेवकाययोः । इमौ तृतीयचतुर्थौ वपाप्रचारपक्षौ ॥ एकविँशतिप्रदानानेके ऽन्वक् चातुर्मास्यदेवताः पित्र्यत्रैयंबकपुनरुक्तवर्जम् । का. श्रौ. सू. २० । ८१ । अयं पंचमो वपाप्रचारपक्षः । ↩︎

  3. 392:1 Whilst there are amongst the victims immolated on the second day, several others consecrated to the Viśve Devāḥ, Indra and Agni, and Ka,–the Vaiśvadeva, Aindrāgna, and Kāya victims, referred to in this and the following two paragraphs, belong to the Kāturmāsya, or Seasonal victims, being amongst those tied to the fourteenth and sixteenth stakes. Though the text speaks only of one Vaiśvadeva &c. victim, there are really three such victims in each case. According to the views referred to in these paragraphs (cf. comm. on Kāty. XX, 7, 23), the omenta of all the preceding victims (from the ‘paryaṅgya’ onwards) up to the beginning of the Kāturmāsyas, would be offered together after (or along with) the vapās of those of the respective victims (Vaiśvadeva &c.) specified in these paragraphs; and along therewith the vapās of all the subsequent Seasonal victims. The deities to which this heap of omenta would be offered, would thus be either the Viśve Devāḥ, or Indra and Agni, or Ka, as representing all the deities. Āśv. S. X, 9, 7, assigns the omenta of all the victims, except the three Prājāpatya ones, to the Viśve Devāḥ. ↩︎

  4. 393:1 See p. 309, note 2. ↩︎

  5. 393:2 According to this view, the omenta of all the victims after the three first (Prājāpatya) ones,–i.e. beginning from the ‘paryaṅgya’ animals (see p. 299, note 2) up to the end of the Cāturmāsya, or Seasonal victims, which are the last of the domesticated animals–would be put together in one heap and divided into twenty-one portions, which would then be offered to the first twenty-one deities of the Seasonal offerings, that is to say, to those of the Vaiśvadeva, Varuṇapraghāsa, Sākamedha, and Mahāhavis offerings, thus omitting the deities of the Pitryeshṭi and the Śunāsīriya offerings. ↩︎

  6. देवता तंत्रेण तु । (का. श्रौ. सू. २० । १८३) विश्वेभ्यो देवेभ्य इत्येवं सर्वासां देवतानां तंत्रेणोच्चारणं कृत्वा सर्ववपानां सकृदेव प्रचारः सहैव कर्तव्यः । अयं षष्ठः सर्ववपानां सह प्रचारपक्षः । अयं षष्ठः पक्षः पक्षांतरेभ्यो विशिष्टः स्वश्रुतिसंमतश्चेति तुना बोध्यते । अस्मिन्नपि पक्षे एकादशिन्योः पशूनां कृष्णग्रीवादिभिः सह एकतन्त्रेण प्रचारो न भवति । तत्कारणमाह कात्यायनः- न कालभेदात् । (का. श्रौ. सू. २० । १८४) कालभेदश्च अश्वादिदेवतांतरव्यवधानरूपः । अत एकादशिन्योर्वपानां प्रथमं पृथक् पृथक् प्रचारः । तेषामपि मध्ये द्वयोर्द्वयोरेकदेवत्ययोस्तंत्रेण प्रचारः । ततो ऽश्वतूपरगोमृगाणां, ततः कृष्णग्रीवादीनां सर्वेषां तन्त्रेण । ↩︎

  7. 393:3 That is the first three victims, viz. the horse, the hornless he-goat, and the Gomr̥ga. ↩︎

  8. व्वपांते द्वितीयेन पूर्ववद्यस्ते रात्राविति जुहोति । (का. श्रौ. सू. २० । १८५) द्वितीयेन राजतेन महिम्ना ग्रहेण । पूर्ववदिति सर्वहुतेन अत्र वा ग्रहणमित्याद्यतिदिश्यते । यस्ते रात्राविति राजतेन “यः प्राणतः" इति पुरोरुक् । विपर्यस्ते याज्या ऽनुवाक्ये प्रथमस्य महिम्नो या याज्या “प्रजापते न त्वदेतान्यन्यः” इति । सा द्वितीयस्य महिम्नः पुरो ऽनुवाक्या । या प्रथमस्य पुरो ऽनुवाक्या “सुभूः स्वयंभूः प्रथमम्” इति । सा द्वितीयस्य याज्येत्यर्थः । प्रैषस्तु प्रथममहिम्नः संबंधी “होता यक्षत्प्रजापतिमिति” तस्योक्तं ब्राह्मणम् (श. प १३ । २ । ११ । १-३) आश्वलायनस्तु उभयोर्महिम्नोर्याज्यानुवाक्ये प्रैषं च समानमाह । महिम्ना पुरस्तादुपरिष्टाच्च वपानां चरंति सुभूः स्वयंभूः प्रथममंतर्महत्यर्णवे ॥ दधे ह गर्भमृत्वियं यतो जातः प्रजापतिः ॥ होता यक्षत्प्रजापतिं महिम्नो जुषतां वेतु पिबतु सोमं होतर्यजेति प्रैषस्तवेमे लोकाः प्रदिशो दिशश्चेति याज्या । आश्व. श्रौ. सू. उ. ष. ६ । ४ । ९ । ↩︎ ↩︎

  9. 394:1 By simple repetition this would be impaired. ↩︎

  10. 394:2 See XIII, 2, 11, 2 with note. ↩︎

  11. “वेतसशाखाषु प्राजापत्यानाम्” । “अश्वस्य वा” । (का. श्रौ. सू. २० । १८९ । १९०) वाशब्दो ऽवधारणे । वेतसशाखा वेतसकटः ॥ ↩︎

  12. 394:3 See XIII, 3, 4, 2-5. ↩︎

  13. 394:4 This would be an alternative view. According to the scholl. on Katy. XX, 8, 1-3, this would seem to refer to the other Prājāpatya victims, in which case one would, however, expect the dual here, as there are only two of them besides the horse. ↩︎

  14. प्रातरुक्थ्यः । का. श्रौ. सू. २० । ११६ । ↩︎

  15. 395:1 In the same way Āśv. S. X, 4, 8 lays down the rule that the Śastras of the second day are those of the fifth day of the Vyūḍḥa Pr̥shṭḥya-shaḍaha; cf. above, XIII, 5, 1, 7 seqq. ↩︎

  16. 395:2 See XIII, 3, 2, 3. ↩︎