०१
विश्वास-प्रस्तुतिः
एते᳘ ऽउक्त्वा॥
यद᳘ध्रिगोः प᳘रिशिष्टम्भ᳘वति त᳘दाह व्वा᳘सो ऽधिवासᳫँ᳭ हि᳘रण्यमित्य᳘श्वायो᳘पस्तृणन्ति त᳘स्मिन्नेनम᳘धि सं᳘ज्ञपयन्ति सं᳘ज्ञप्तेषु पशु᳘षु प᳘त्न्यः पान्ने᳘जनैरुदा᳘यन्ति च᳘तस्रश्च जायाः᳘ कुमारी᳘ पञ्चमी᳘ चत्वा᳘रि च शता᳘न्यनुचरी᳘णाम्॥
मूलम् - श्रीधरादि
एते᳘ ऽउक्त्वा॥
यद᳘ध्रिगोः प᳘रिशिष्टम्भ᳘वति त᳘दाह व्वा᳘सो ऽधिवासᳫँ᳭ हि᳘रण्यमित्य᳘श्वायो᳘पस्तृणन्ति त᳘स्मिन्नेनम᳘धि सं᳘ज्ञपयन्ति सं᳘ज्ञप्तेषु पशु᳘षु प᳘त्न्यः पान्ने᳘जनैरुदा᳘यन्ति च᳘तस्रश्च जायाः᳘ कुमारी᳘ पञ्चमी᳘ चत्वा᳘रि च शता᳘न्यनुचरी᳘णाम्॥
मूलम् - Weber
एते᳘उक्त्वा॥
यद᳘ध्रिगोः प᳘रिशिष्टम् भ᳘वति त᳘दाह वा᳘सोऽधिवासᳫं हि᳘रण्यमित्य᳘श्वायो᳘पस्तृणन्ति त᳘स्मिन्नेनम᳘धि स᳘ञ्ज्ञपयन्ति स᳘ञ्ज्ञप्तेषु पशु᳘षु प᳘त्न्यः पान्ने᳘जनैरुदा᳘यन्ति च᳘तस्रश्च जायाः᳘ कुमारी᳘ पञ्चमी᳘ चत्वा᳘रि च शता᳘न्यनुचरी᳘णाम्॥
मूलम् - विस्वरम्
एते उक्त्वा यदध्रिगोः परिशिष्टं भवति तदाह । वासो ऽधिवासं हिरण्यमित्यश्वायोपस्तृणंति । तस्मिन्नेनमधि संज्ञपयन्ति । संज्ञप्तेषु पशुषु पत्न्यः पान्नेजनैरुदायंति । चतस्रश्च जायाः । कुमारी पंचमी । चत्वारि च शतान्यनुचरीणाम् ॥ १ ॥
हरिस्वामी
एते उक्त्वा । “उप प्रागात्” इत्येते उक्त्वा अध्रिगो शमीध्वमित्येतदाह 1 ॥ १ ॥
Eggeling
- Having uttered these two (verses), he pronounces what remains of the Adhrigu. ‘A cloth, an upper cloth, and gold,’ this is what they spread out for the horse 2: thereon they ‘quiet’ (slaughter) it. When the victims have been ‘quieted,’ the (king’s) wives come up with water for washing the feet,–four wives; and a young maiden as the fifth, and four hundred female attendants.
०२
विश्वास-प्रस्तुतिः
(न्नि᳘) नि᳘ष्ठितेषु पान्ने᳘जनेषु॥
म᳘हिषीम᳘श्वायोपनि᳘पादयन्त्य᳘थैनावधिवासे᳘न सम्प्रो᳘र्ण्णुवन्ति स्व᳘र्ग्गे लोके प्रो᳘र्ण्णुवाथामि᳘त्येष वै स्वर्ग्गो᳘ लोको य᳘त्र पशु्᳘ᳫँ᳘ संज्ञप᳘यन्ति निरायत्या᳘श्वस्य शिश्नम्म᳘हिष्युप᳘स्थे[[!!]] नि᳘धत्ते व्वृ᳘षा व्वाजी᳘ रेतोधा रे᳘तो दधात्वि᳘ति मिथुन᳘स्यैव᳘ सर्व्वत्वा᳘य॥
मूलम् - श्रीधरादि
(न्नि᳘) नि᳘ष्ठितेषु पान्ने᳘जनेषु॥ 1
म᳘हिषीम᳘श्वायोपनि᳘पादयन्त्य᳘थैनावधिवासे᳘न सम्प्रो᳘र्ण्णुवन्ति स्व᳘र्ग्गे लोके प्रो᳘र्ण्णुवाथामि᳘त्येष वै स्वर्ग्गो᳘ लोको य᳘त्र पशु्᳘ᳫँ᳘ संज्ञप᳘यन्ति निरायत्या᳘श्वस्य शिश्नम्म᳘हिष्युप᳘स्थे[[!!]] नि᳘धत्ते व्वृ᳘षा व्वाजी᳘ रेतोधा रे᳘तो दधात्वि᳘ति मिथुन᳘स्यैव᳘ सर्व्वत्वा᳘य॥
मूलम् - Weber
नि᳘ष्थ्\इतेषु पान्ने᳘जनेषु॥
म᳘हिषीम᳘श्वायोपनि᳘पादयन्त्य᳘थैनावधिवासे᳘न सम्प्रो᳘र्णुवन्ति स्वर्गे᳘लोके प्रो᳘र्णुवथामि᳘त्येष वै स्वर्गो᳘ लोको य᳘त्र पशु᳘ᳫं᳘ सञ्ज्ञप᳘यन्ति निरायत्या᳘श्वस्य शिश्नम् म᳘हिष्यु᳘पस्थे नि᳘धत्ते वृ᳘षा वाजी᳘ रेतोधा रे᳘तो दधात्वि᳘ति मिथुन᳘स्यैव᳘ सर्वत्वा᳘य॥
मूलम् - विस्वरम्
निष्ठितेषु पान्नेजनेषु । महिषीमश्वायोपनिपादयंति । अथैनावधिवासेन संप्रोर्णुवंति । “स्वर्गे लोके प्रोर्णुवाथाम्”- (वा० सं० २३ । २०) इति । एष वै स्वर्गो लोकः । यत्र पशुं संज्ञपयंति । निरायत्याश्वस्य शिश्नं महिष्युपस्थे निधत्ते । “वृषा वाजी रेतोधा रेतो दधातु”- (वा० सं० २३ । २०) इति । मिथुनस्यैव सर्वत्वाय ॥ २ ॥
हरिस्वामी
निरायत्य बहिरायम्याकृष्य अश्वस्य शिश्नं महिषी 1 आत्मनः उपस्थे स्त्रीप्रजनने प्रदेशे स्थापयति ॥ २ ॥ ३ ॥
Eggeling
- When the foot-water is ready, they cause the Mahishī to lie down near the horse, and cover her up with the upper cloth, with ‘In heaven ye envelop yourselves,’–for that indeed is heaven where they immolate the victim, . . ., ‘May the vigorous male, the layer of seed, lay seed!’ she says 3 for the completeness of union.
०३
विश्वास-प्रस्तुतिः
त᳘योः श᳘यानयोः॥ (र᳘) अ᳘श्वं य᳘जमानो ऽभि᳘मेथत्यु᳘त्सक्थ्या ऽअ᳘व गुद᳘न्धेही᳘ति तन्न क᳘श्चन᳘ प्रत्यभि᳘मेथति नेद्य᳘जमानं प्रतिप्रतिः क᳘श्चिद᳘सदिति॥
मूलम् - श्रीधरादि
त᳘योः श᳘यानयोः॥ (र᳘) अ᳘श्वं य᳘जमानो ऽभि᳘मेथत्यु᳘त्सक्थ्या ऽअ᳘व गुद᳘न्धेही᳘ति तन्न क᳘श्चन᳘ प्रत्यभि᳘मेथति नेद्य᳘जमानं प्रतिप्रतिः क᳘श्चिद᳘सदिति॥
मूलम् - Weber
त᳘योः श᳘यानयोः अ᳘श्वं य᳘जमानोऽभि᳘मेथत्यु᳘त्सक्थ्या अ᳘व गुदं᳘ धेही᳘ति तं न क᳘श्चन᳘ प्रत्यभि᳘मेथति नेद्य᳘जमानम् प्रतिप्रतिः क᳘श्चिद᳘सदिति॥
मूलम् - विस्वरम्
तयोः शयानयोः अश्वं यजमानो ऽभिमेथति । उत्सक्थ्या अव गुदं धेहि"- (वा. सं. २३ । २१) इति । तं न कश्चन प्रत्यभिमेथति । नेद्यजमानं प्रतिप्रतिः कश्चिदसदिति ॥ ३ ॥
हरिस्वामी
[व्याख्यानं द्वितीये]
Eggeling
- Whilst they are lying there, the Sacrificer addresses the horse (Vāj. S. XXIII, 21), ‘Utsakhyā ava gudaṁ dhehi!’ No one replies to him, lest there should be some one to rival the Sacrificer.
०४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थाध्वर्य्युः᳘ कुमारी᳘मभि᳘मेथति॥
कुमारि[[!!]] ह᳘येहये कु᳘मारि य᳘का ऽसकौ᳘ शकुन्तिके᳘ति त᳘ङ्कुमारी᳘ प्रत्यभि᳘मेथत्य᳘ध्वर्य्यो ह᳘येहये᳘ ऽध्वर्य्यो य᳘को ऽसकौ᳘ शकुन्तक ऽइति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थाध्वर्य्युः᳘ कुमारी᳘मभि᳘मेथति॥
कुमारि[[!!]] ह᳘येहये कु᳘मारि य᳘का ऽसकौ᳘ शकुन्तिके᳘ति त᳘ङ्कुमारी᳘ प्रत्यभि᳘मेथत्य᳘ध्वर्य्यो ह᳘येहये᳘ ऽध्वर्य्यो य᳘को ऽसकौ᳘ शकुन्तक ऽइति॥
मूलम् - Weber
अ᳘थाध्वर्युः᳘ कुमारी᳘मभि᳘मेथति॥
कु᳘मारि ह᳘ये-हये कु᳘मारि यॗकासकौ᳘ शकुन्तिके᳘ति तं᳘ कुमारी᳘ प्रत्यभि᳘मेथत्य᳘ध्वर्यो ह᳘ये-हये᳘ऽध्वर्यो यॗकोऽसकौ᳘ शकुन्तक इति॥
मूलम् - विस्वरम्
अथाध्वर्युः कुमारीमभिमेथति । कुमारि हयेहये कुमारि ! “यका ऽसकौ शकुंतिका”- (वा. सं. २३ । २२) इति । तं कुमारी प्रत्यभिमेथति । अध्वर्यो हयेहये ऽध्वर्यो “यको ऽसकौ शकुंतकः"- (वा. सं. २३ । २३) इति ॥ ४ ॥
हरिस्वामी
हयेहये 4 इति । हयेशब्दस्य अपूज्यामंत्रणार्थस्य कुत्सायां द्विर्वचनम् । मेथति आक्रोशति । मेथतिराक्रोशकर्मा ॥ ४-१५ ॥
Eggeling
- The Adhvaryu then addresses the maiden, ‘Hey hey maiden, that little bird . . .’–The maiden replies to him, ‘Adhvaryu! that little bird . . .’
०५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ ब्रह्मा म᳘हिषीमभि᳘मेथति॥
म᳘हिषि ह᳘येहये म᳘हिषि माता᳘ च ते पिता᳘ च ते᳘ ऽग्ग्रम्वृक्ष᳘स्य रोहत ऽइ᳘ति त᳘स्यै शत᳘ᳫँ᳘ राजपु᳘त्र्यो ऽनुच᳘र्य्यो भवन्ति ता᳘ ब्ब्रह्मा᳘णम्प्रत्यभि᳘मेथन्ति ब्ब्र᳘ह्मन्ह᳘येहये ब्ब्र᳘ह्मन्माता᳘ च ते पिता᳘ च ते᳘ ऽग्ग्रे व्वृक्ष᳘स्य क्रीडत ऽइति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ ब्रह्मा म᳘हिषीमभि᳘मेथति॥
म᳘हिषि ह᳘येहये म᳘हिषि माता᳘ च ते पिता᳘ च ते᳘ ऽग्ग्रम्वृक्ष᳘स्य रोहत ऽइ᳘ति त᳘स्यै शत᳘ᳫँ᳘ राजपु᳘त्र्यो ऽनुच᳘र्य्यो भवन्ति ता᳘ ब्ब्रह्मा᳘णम्प्रत्यभि᳘मेथन्ति ब्ब्र᳘ह्मन्ह᳘येहये ब्ब्र᳘ह्मन्माता᳘ च ते पिता᳘ च ते᳘ ऽग्ग्रे व्वृक्ष᳘स्य क्रीडत ऽइति॥
मूलम् - Weber
अ᳘थ ब्रह्मा म᳘हिषीमभि᳘मेथति॥
म᳘हिषि ह᳘ये-हये म᳘हिषि माता᳘ च ते पिता᳘ च ते᳘ऽग्रम् वृक्ष᳘स्य रोहत इ᳘ति त᳘स्यै शतं᳘ राजपुॗत्र्योऽनुचॗर्यो भवन्ति ता᳘ ब्रह्मा᳘णम् प्रत्यभि᳘मेथन्ति ब्र᳘ह्मन्ह᳘ये-हये ब्र᳘ह्मन्माता᳘ च ते पिता᳘ च ते᳘ऽग्रे वृक्ष᳘स्य क्रीडत इति॥
मूलम् - विस्वरम्
अथ ब्रह्मा महिषीमभिमेथति । महिषि हयेहये महिषि ! “माता च ते पिता च ते ऽग्रं वृक्षस्य रोहतः”- (वा. सं. २३ । २४) इति । तस्यै शतं राजपुत्र्यो ऽनुचर्यो 4 भवंति । ता ब्रह्माणं प्रत्यभिमेथंति । ब्रह्मन् हयेहये ब्रह्मन् ! “माता च ते पिता च ते ऽग्रे वृक्षस्य क्रीडतः”- (वा. सं. २३ । २५) इति ॥ ५ ॥
हरिस्वामी
[व्याख्यानं चतुर्थे]
Eggeling
- And the Brahman addresses the Mahishī, ‘Mahishī, hey hey Mahishī, thy mother and father mount to the top of the tree . . .’–She has a hundred daughters of kings attending upon her: these
reply to the Brahman, ‘Brahman, hey hey Brahman, thy mother and father play on the top of the tree. . .’
०६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थोद्गाता व्वा᳘वातामभि᳘मेथति॥
व्वा᳘वाते ह᳘येहये व्वा᳘वात ऽऊर्ध्वा᳘मेनामु᳘च्छ्रापये᳘ति तस्यै शत᳘ᳫँ᳘ राज᳘न्या ऽअनुच᳘र्य्यो भवन्ति ता᳘ ऽउद्गातार᳘म्प्रत्यभि᳘मेथन्त्यु᳘द्गातर्ह᳘येहय ऽउ᳘द्गातरूर्ध्व᳘मेनमु᳘च्छ्र्यतादिति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थोद्गाता व्वा᳘वातामभि᳘मेथति॥
व्वा᳘वाते ह᳘येहये व्वा᳘वात ऽऊर्ध्वा᳘मेनामु᳘च्छ्रापये᳘ति तस्यै शत᳘ᳫँ᳘ राज᳘न्या ऽअनुच᳘र्य्यो भवन्ति ता᳘ ऽउद्गातार᳘म्प्रत्यभि᳘मेथन्त्यु᳘द्गातर्ह᳘येहय ऽउ᳘द्गातरूर्ध्व᳘मेनमु᳘च्छ्र्यतादिति॥
मूलम् - Weber
अ᳘थोद्गाता वा᳘वातामभि᳘मेथति॥
वा᳘वाते ह᳘ये-हये वा᳘वात ऊर्ध्वा᳘मेनामु᳘छ्रापये᳘ति त्!स्यै शतं᳘ राजॗन्या अनुचॗर्यो भवन्ति ता᳘ उद्गातार᳘म् प्रत्यभि᳘मेथन्त्यु᳘द्गातर्ह᳘ये-हय उ᳘द्गातरूध्व᳘र्मेनमु᳘छ्रयतादिति॥
मूलम् - विस्वरम्
अथोद्गाता वावाताममिमेथति । वावाते हयेहये । वाताते ! “ऊर्ध्वामेनामुच्छ्रापय”- (वा. सं. २३ । २६) इति । तस्यै शतं राजन्या 4 अनुचर्यो भवति । ता उद्गातारं प्रत्यभिमेथंति । उद्गातर्हयेहय उद्गातः ! “ऊर्ध्वमेनमुच्छ्रयतात्”- (वा. सं. २३ । २७) इति ॥ ६ ॥
हरिस्वामी
[व्याख्यानं चतुर्थे]
Eggeling
- And the Udgātr̥ addresses the favourite, ‘Vāvātā, hey hey Vāvātā, turn upwards!’ She has a hundred noble-women (rājanyā) attending upon her: these reply to the Udgātr̥, ‘Hey hey Udgātr̥, turn upwards!’
०७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ हो᳘ता प᳘रिवृक्तामभि᳘मेथति॥
प᳘रिवृक्ते ह᳘येहये प᳘रिवृक्ते य᳘दस्या ऽअᳫँ᳭हुभे᳘द्या ऽइ᳘ति त᳘स्यै शत᳘ᳫँ᳘ सूतग्ग्राम᳘ण्यां दुहित᳘रो ऽनुच᳘र्य्यो भवन्ति ता हो᳘तारम्प्रत्यभि᳘मे᳘थन्ति हो᳘तर्ह᳘येहये हो᳘तर्य्य᳘द्देवा᳘सो लला᳘मगुमिति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ हो᳘ता प᳘रिवृक्तामभि᳘मेथति॥
प᳘रिवृक्ते ह᳘येहये प᳘रिवृक्ते य᳘दस्या ऽअᳫँ᳭हुभे᳘द्या ऽइ᳘ति त᳘स्यै शत᳘ᳫँ᳘ सूतग्ग्राम᳘ण्यां दुहित᳘रो ऽनुच᳘र्य्यो भवन्ति ता हो᳘तारम्प्रत्यभि᳘मे᳘थन्ति हो᳘तर्ह᳘येहये हो᳘तर्य्य᳘द्देवा᳘सो लला᳘मगुमिति॥
मूलम् - Weber
अ᳘थ हो᳘ता प᳘रिवृक्तामभि᳘मेथति॥
प᳘रिवृक्ते ह᳘ये-हये प᳘रिवृक्ते य᳘दस्या अंहुभे᳘द्या इ᳘ति त᳘स्यै शत᳘ᳫं᳘ सूतग्रामॗण्यां दुहित᳘रोऽनुचॗर्यो भवन्ति ता हो᳘तारम् प्रत्यभि᳘मेथन्ति हो᳘तर्ह᳘ये-हये हो᳘तर्य᳘द्देवा᳘सो लला᳘मगुमिति॥
मूलम् - विस्वरम्
अथ होता परिवृक्तामभिमेथति । परिवृक्ते हयेहये परिवृक्ते ! “यदस्या अंहुभेद्याः”- (वा. सं. २३ । २८) इति । तस्यै शतं सुतग्रामण्यां 5 दुहितरो ऽनुचर्यो भवंति । ता होतारं प्रत्यभिमेथंति । होतर्हयेहये होतः ! “यद्देवासो ललामगुम्”- (वा. सं. २३ । २९) इति ॥ ७ ॥
हरिस्वामी
[व्याख्यानं चतुर्थे]
Eggeling
- And the Hotr̥ says to the discarded wife, ‘Parivr̥ktā, hey hey Parivr̥ktā, when large meets small in this aṁhubhedī . . .’–She has a hundred daughters of heralds and head-men of villages attending upon her: these reply to the Hotr̥, ‘Hotr̥, hey hey Hotr̥, when the gods favoured the lalāmagu . . .’
०८
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ क्षत्ता᳘ पालागली᳘मभि᳘मेथति॥
पा᳘लागलि ह᳘येहये पा᳘लागलि य᳘द्धरिणो य᳘वम᳘त्ति न᳘ पुष्टं᳘ पशु म᳘न्यत ऽइ᳘ति त᳘स्यै शतं᳘ क्षात्त्रसङ्ग्रहीतॄ᳘णान्दुहित᳘रो ऽनुच᳘र्य्यो भवन्ति ताः᳘ क्षत्ता᳘रम्प्रत्यभि᳘मेथन्ति क्ष᳘त्तर्ह᳘येहये क्ष᳘त्तर्य्य᳘द्धरिणो य᳘वम᳘त्ति न᳘ पुष्ट᳘म्बहु म᳘न्यत ऽइ᳘ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ क्षत्ता᳘ पालागली᳘मभि᳘मेथति॥
पा᳘लागलि ह᳘येहये पा᳘लागलि य᳘द्धरिणो य᳘वम᳘त्ति न᳘ पुष्टं᳘ पशु म᳘न्यत ऽइ᳘ति त᳘स्यै शतं᳘ क्षात्त्रसङ्ग्रहीतॄ᳘णान्दुहित᳘रो ऽनुच᳘र्य्यो भवन्ति ताः᳘ क्षत्ता᳘रम्प्रत्यभि᳘मेथन्ति क्ष᳘त्तर्ह᳘येहये क्ष᳘त्तर्य्य᳘द्धरिणो य᳘वम᳘त्ति न᳘ पुष्ट᳘म्बहु म᳘न्यत ऽइ᳘ति॥
मूलम् - Weber
अ᳘थ क्षत्ता᳘ पालागली᳘मभि᳘मेथति॥
पा᳘लागलि ह᳘ये-हये पा᳘लागलि य᳘द्धरिणो य᳘वम᳘त्ति न᳘ पुष्ट᳘म् पशु म᳘न्यत इ᳘ति त᳘स्यै शतं᳘ क्षात्रसङ्ग्रहीतॄणां᳘ 6 दुहित᳘रोऽनुचॗर्यो भवन्ति ताः᳘ क्षत्ता᳘रम् प्रत्यभि᳘मेथन्ति क्ष᳘त्तर्ह᳘ये-हये क्ष᳘त्तर्य᳘द्धरिणो य᳘वम᳘त्ति न पुष्ट᳘म् बहु म᳘न्यत इ᳘ति॥
मूलम् - विस्वरम्
अथ क्षत्ता पालागलीमभिमेथति । पालागलि हयेहये पालागलि ! “यद्धरिणो यवमत्ति न पुष्टं पशु मन्यते”- (वा. सं. । २३ । ३०) इति । तस्यै शतं क्षात्त्रसंग्रहीतॄणां 5 दुहितरो ऽनुचर्यो भवंति । ताः क्षत्तारं प्रत्यभिमेथंति । क्षत्तर्हयेहये क्षत्तः ! “यद्धरिणो यवमत्ति न पुष्टं बहु मन्यते”- (वा. सं. २३ । ३१) इति ॥ ८ ॥
हरिस्वामी
[व्याख्यानं चतुर्थे]
Eggeling
- Then the chamberlain addresses the fourth wife, ‘Pālāgalī, hey hey Pālāgalī, when the deer eats the corn, one thinks not of the fat cattle . . .’–She has a hundred daughters of chamberlains and charioteers attending upon her: these reply to the chamberlain, ‘Chamberlain, hey hey chamberlain, when the deer eats the corn, one thinks not of the fat cattle. . .’
०९
विश्वास-प्रस्तुतिः
सर्व्वाप्तिर्व्वा᳘ ऽएषा᳘ व्वाचः॥
(चो) य᳘दभिमे᳘थिकाः स᳘र्व्वे का᳘मा ऽअश्वमेधे स᳘र्व्वथा व्वाचा स᳘र्व्वान्का᳘मानाप्नवामेत्यु᳘त्थापयन्ति म᳘हिषीं त᳘तस्ता᳘ यथेत᳘म्प्रतिप᳘रायन्त्यथे᳘तरे सुरभिम᳘तीमृ᳘चमन्ततो᳘ ऽन्वाहुर्दधिक्रा᳘व्णो ऽअकारिषमिति॥ अर्द्धः प्रपाठकः॥५३॥
मूलम् - श्रीधरादि
सर्व्वाप्तिर्व्वा᳘ ऽएषा᳘ व्वाचः॥
(चो) य᳘दभिमे᳘थिकाः स᳘र्व्वे का᳘मा ऽअश्वमेधे स᳘र्व्वथा व्वाचा स᳘र्व्वान्का᳘मानाप्नवामेत्यु᳘त्थापयन्ति म᳘हिषीं त᳘तस्ता᳘ यथेत᳘म्प्रतिप᳘रायन्त्यथे᳘तरे सुरभिम᳘तीमृ᳘चमन्ततो᳘ ऽन्वाहुर्दधिक्रा᳘व्णो ऽअकारिषमिति॥ अर्द्धः प्रपाठकः॥५३॥
मूलम् - Weber
सर्वाप्तिर्वा᳘एषा᳘ वाचः॥
य᳘दभिमे᳘थिकाः स᳘र्वे का᳘मा अश्वमेधे स᳘र्वया वाचा स᳘र्वान्का᳘मानाप्नवामेत्यु᳘त्थापयन्ति म᳘हिषीं त᳘तस्ता᳘ यथेत᳘म् प्रतिप्!रायन्त्यथे᳘तरे सुरभिम᳘तीमृ᳘चमन्ततो᳘ऽन्वाहुर्दधिक्रा᳘व्णोअकारिषमिति॥
मूलम् - विस्वरम्
सर्वाप्तिर्वा एषा वाचः । यदभिमेथिकाः । सर्वे कामा अश्वमेधे । सर्वया वाचा सर्वान्कामानाप्नवामेति । उत्थापयंति महिषीम् 5 । ततस्ता यथेतं प्रतिपरायंति । अथेतरे सुरभिमतीमृचमंततो ऽन्वाहुः- “दधिक्राव्णो अकारिषम्”- (वा. सं. २३ । ३२) इति ॥ ९ ॥
हरिस्वामी
[व्याख्यानं चतुर्थे]
Eggeling
- These speeches, the derisive discourses, indeed are every kind of attainment, and in the Aśvamedha all objects of desire are contained: ‘By every kind of speech may we obtain all objects of our desire’ thus thinking, they cause the Mahishī to rise, Those (women) then walk back in the same way as they had come; and the others finally utter the verse containing (the word) ‘fragrant’ (R̥g-v. IV, 39, 6), ‘To Dadhikrāvan have I sung praises. . .’
१०
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘प वा᳘ ऽएते᳘भ्य ऽआ᳘युर्देव᳘ताः क्रामन्ति॥
ये᳘ यज्ञे᳘ ऽपूताम्वा᳘चम्व᳘दन्ति व्वा᳘चमे᳘वैत᳘त्पुनते देवयज्या᳘यै देव᳘तानाम᳘नपक्रमाय या᳘ च गोमृगे᳘ व्वपा भ᳘वति या᳘ चाजे᳘ तूपरे ते ऽअ᳘श्वे प्रत्यवधा᳘याहरन्ति[[!!]] ना᳘श्वस्य व्व᳘पा ऽस्ती᳘ति व्व᳘दन्तो न त᳘था कुर्य्याद᳘श्वस्यैव᳘ प्रत्य᳘क्षम्मे᳘द ऽआ᳘हरेत्प्रज्ञाता ऽइ᳘तराः॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘प वा᳘ ऽएते᳘भ्य ऽआ᳘युर्देव᳘ताः क्रामन्ति॥
ये᳘ यज्ञे᳘ ऽपूताम्वा᳘चम्व᳘दन्ति व्वा᳘चमे᳘वैत᳘त्पुनते देवयज्या᳘यै देव᳘तानाम᳘नपक्रमाय या᳘ च गोमृगे᳘ व्वपा भ᳘वति या᳘ चाजे᳘ तूपरे ते ऽअ᳘श्वे प्रत्यवधा᳘याहरन्ति[[!!]] ना᳘श्वस्य व्व᳘पा ऽस्ती᳘ति व्व᳘दन्तो न त᳘था कुर्य्याद᳘श्वस्यैव᳘ प्रत्य᳘क्षम्मे᳘द ऽआ᳘हरेत्प्रज्ञाता ऽइ᳘तराः॥
मूलम् - Weber
अ᳘प वा᳘ एते᳘भ्य आ᳘युर्देव᳘ताः 7 क्रामन्ति॥
ये᳘ यज्ञे᳘पूताम् वा᳘ चम् व᳘दन्ति वा᳘चमेॗवैत᳘त्पुनते देवयज्या᳘यै देव᳘तानाम᳘नपक्रमाय या᳘ च गोमृगे᳘ वपा भ᳘वति या᳘ चाजे᳘तूपरे ते अ᳘श्वे प्रत्यवधाया᳘हरन्ति ना᳘श्वस्य वॗपास्ती᳘ति व᳘दन्तो न त᳘था कुर्याद᳘श्वस्यैव प्रत्य᳘क्षम् मे᳘द आ᳘हरेत्प्रज्ञाता इ᳘तराः॥
मूलम् - विस्वरम्
अप वा एतेभ्य आयुर्देवताः क्रामंति । ये यज्ञे ऽपूतां वाचं वदंति । वाचमेवैतत्पुनते । देवयज्यायै । देवतानामनपक्रमाय । या च गोमृगे वपा भवति । या चाजे । तूपरे । ते अश्वे प्रत्यवधायाहरंति । नाश्वस्य वपा ऽस्तीति वदंतः । न तथा कुर्यात् । अश्वस्यैव प्रत्यक्षं मेद आहरेत् 8 । प्रज्ञाता इतराः ॥ १० ॥
हरिस्वामी
[व्याख्यानं चतुर्थे]
Eggeling
- For, indeed, life and the deities depart from those who at the sacrifice speak impure speech: it is their speech they thereby purify so that the deities may not depart from the divine service.
Now (some) put the omentum of the Gomr̥ga and that of the hornless he-goat upon the horse and then take it (to the Āhavanīya), saying, ‘The horse has no omentum.’ Let him not do so: of the horse he should certainly take the fat; the (omenta of the) others are normal.
११
विश्वास-प्रस्तुतिः
शृता᳘सु व्वपा᳘सु॥ स्वा᳘हाकृतिभिश्चरित्वा᳘ प्रत्य᳘ञ्चः प्रतिपरे᳘त्य स᳘दास ब्ब्रह्मो᳘द्यम्वदन्ति पू᳘र्व्वया द्वारा᳘ प्रप᳘द्य यथाधिष्ण्यम्व्यु᳘पविशन्ति॥
मूलम् - श्रीधरादि
शृता᳘सु व्वपा᳘सु॥ स्वा᳘हाकृतिभिश्चरित्वा᳘ प्रत्य᳘ञ्चः प्रतिपरे᳘त्य स᳘दास ब्ब्रह्मो᳘द्यम्वदन्ति पू᳘र्व्वया द्वारा᳘ प्रप᳘द्य यथाधिष्ण्यम्व्यु᳘पविशन्ति॥
मूलम् - Weber
शृता᳘सु वपा᳘सु स्वा᳘हाकृतिभिश्चरित्वा᳘ प्रत्य᳘ञ्चः प्रतिपरे᳘त्य स᳘दसि ब्रह्मो᳘द्यम् वदन्ति पू᳘र्वया द्वारा᳘ प्रप᳘द्य यथाधिष्ण्यम् व्यु᳘पविशन्ति॥
मूलम् - विस्वरम्
शृतासु वपासु स्वाहाकृतिभिश्चरित्वा प्रत्यंचः प्रतिपरेत्य सदसि 8 ब्रह्मोद्यं वदंति । पूर्वया द्वारा प्रपद्य यथाधिष्ण्यं व्युपविशंति ॥ ११ ॥
हरिस्वामी
[व्याख्यानं चतुर्थे]
Eggeling
१२
विश्वास-प्रस्तुतिः
स होता ऽध्वर्य्यु᳘म्पृच्छति॥
कः᳘ स्विदेकाकी᳘ चरती᳘ति तम्प्र᳘त्याह सू᳘र्य्य ऽएकाकी᳘ चरतीति॥
मूलम् - श्रीधरादि
स होता ऽध्वर्य्यु᳘म्पृच्छति॥
कः᳘ स्विदेकाकी᳘ चरती᳘ति तम्प्र᳘त्याह सू᳘र्य्य ऽएकाकी᳘ चरतीति॥
मूलम् - Weber
स होताध्वर्यु᳘म् पृछति॥
कः᳘ स्विदेकाकी᳘ चरती᳘ति तम् प्र᳘त्याह सू᳘र्य एकाकी᳘ चरतीति॥
मूलम् - विस्वरम्
अथ ब्रह्मोद्यम् ।
स होता ऽध्वर्युं पृच्छसि- “कः स्विदेकाकी चरति”- (वा. सं. २३ । ४५) इति । तं प्रत्याह- “सूर्य एकाकी चरति”- (वा. सं. २३ । ४६) इति ॥ १२ ॥
हरिस्वामी
[व्याख्यानं चतुर्थे]
Eggeling
- The Hotr̥ asks the Adhvaryu (Vāj. S. XXIII, 45), ‘Who is it that walketh singly 11?. . .’ He replies to him (ib. 46), ‘Sūrya (the sun) walketh singly. . .’
१३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थाध्वर्य्युर्हो᳘तारम्पृच्छति॥
कि᳘ᳫँ᳘ स्वित्सू᳘र्य्यसमञ्ज्यो᳘तिरि᳘ति तम्प्र᳘त्याह ब्र᳘ह्म सू᳘र्य्यसमञ्ज्यो᳘तिरिति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थाध्वर्य्युर्हो᳘तारम्पृच्छति॥
कि᳘ᳫँ᳘ स्वित्सू᳘र्य्यसमञ्ज्यो᳘तिरि᳘ति तम्प्र᳘त्याह ब्र᳘ह्म सू᳘र्य्यसमञ्ज्यो᳘तिरिति॥
मूलम् - Weber
अ᳘थाध्वर्युर्हो᳘तारम् पृछति॥
कि᳘ᳫं᳘ स्वित्सू᳘र्यसमं ज्यो᳘तिरि᳘ति तम् प्र᳘त्याह ब्र᳘ह्म सू᳘र्यसमं ज्यो᳘तिरिति॥
मूलम् - विस्वरम्
अथाध्वर्युर्होतारं पृच्छति- “किं स्वित्सूर्यसमं ज्योतिः”- (वा. सं. २३ । ४७) इति । तं प्रत्याह- “ब्रह्म सूर्यसमं ज्योतिः”- (वा. सं. २३ । ४८) इति ॥ १३ ॥
हरिस्वामी
[व्याख्यानं चतुर्थे]
Eggeling
- The Adhvaryu then asks the Hotr̥ (Vāj. S. XXIII, 47), ‘Whose light is there equal to the sun?. . .’ He replies to him (ib. 48), ‘The Brahman (n.) is the light equal to the sun. . .’
१४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ ब्र᳘ह्मोद्गाता᳘रम्पृच्छति॥
पृच्छा᳘मि त्वा चित᳘ये देवसखे᳘ति तम्प्र᳘त्याहा᳘पि ते᳘षु त्रिषु᳘ पदे᳘ष्वस्मीति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ ब्र᳘ह्मोद्गाता᳘रम्पृच्छति॥
पृच्छा᳘मि त्वा चित᳘ये देवसखे᳘ति तम्प्र᳘त्याहा᳘पि ते᳘षु त्रिषु᳘ पदे᳘ष्वस्मीति॥
मूलम् - Weber
अ᳘थ ब्रॗह्मोद्गाता᳘रम् पृछति॥
पृछा᳘मि त्वा चित᳘ये देवसखे᳘ति तम् प्र᳘त्याहा᳘पि ते᳘षु त्रिषु᳘ पदे᳘ष्वस्मीति॥
मूलम् - विस्वरम्
अथ ब्रह्मोद्गातारं पृच्छति 8- “पृच्छामि त्वा चितये देवसख”- (वा. सं. २३ । ४९) इति । तं प्रत्याह- “अपि तेषु त्रिषु पदेष्वस्मि”- (वा. सं. २३ । ५०) इति ॥ १४ ॥
हरिस्वामी
[व्याख्यानं चतुर्थे]
Eggeling
- The Brahman then asks the Udgātr̥ (Vāj. S. XXIII, 49), ‘I ask thee for the sake of knowledge, O friend of the gods [if thou hast applied thy mind thereto: hath Vishṇu entered the whole world at those three places at which offering is made unto him?]’ and he replies (ib. 50), ‘I too am at those three places [at which he entered the whole world:
daily do I, with the one body 12, go round the earth, the sky, and the back of yonder sky].’
१५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थोद्गाता᳘ ब्रह्मा᳘णमपृच्छति॥
के᳘ष्वन्तः पु᳘रुष ऽआ᳘विवेशे᳘ति तम्प्र᳘त्याह पञ्च᳘स्वन्तः पु᳘रुष ऽआ᳘विवेशे᳘ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थोद्गाता᳘ ब्रह्मा᳘णमपृच्छति॥
के᳘ष्वन्तः पु᳘रुष ऽआ᳘विवेशे᳘ति तम्प्र᳘त्याह पञ्च᳘स्वन्तः पु᳘रुष ऽआ᳘विवेशे᳘ति॥
मूलम् - Weber
अ᳘थोद्गाता᳘ ब्रह्मा᳘णम् पृछति॥
के᳘ष्वन्तः पु᳘रुष आ᳘विवेशे᳘ति तम् प्र᳘त्याह पञ्च᳘स्वन्तः पु᳘रुष आ᳘विवेशे᳘ति॥
मूलम् - विस्वरम्
अथोद्गाता ब्रह्माणं पृच्छति- “केष्वंतः पुरुष आविवेश”- (वा. सं. २३ । ५१) इति । तं प्रत्याह- “पंचस्वंतः पुरुष आविवेश”- (वा. सं. २३ । ५२) इति ॥ १५ ॥
हरिस्वामी
[व्याख्यानं चतुर्थे]
Eggeling
- The Udgātr̥ then asks the Brahman (Vāj. S. XXIII, 51), ‘Into what (things) hath the Spirit 13 entered, [and what (things) are established in the spirit? this, O Brahman, we crave of thee: what answer dost thou give unto us thereon?]’ and he replies (ib. 52), ‘Into five (things) hath the spirit entered, and they are established in the spirit: this I reply unto thee thereon; not superior in wisdom art thou (to me).’
१६
विश्वास-प्रस्तुतिः
(त्ये) एत᳘स्यामुक्ता᳘यामुत्था᳘य॥
सदसो᳘ ऽधि प्रा᳘ञ्चो य᳘जमानमभ्या᳘यन्त्य᳘ग्ग्रेण हविर्द्धा᳘ने ऽआ᳘सीनमे᳘त्य यथायतन᳘म्पर्य्यु᳘पविशन्ति॥
मूलम् - श्रीधरादि
(त्ये) एत᳘स्यामुक्ता᳘यामुत्था᳘य॥
सदसो᳘ ऽधि प्रा᳘ञ्चो य᳘जमानमभ्या᳘यन्त्य᳘ग्ग्रेण हविर्द्धा᳘ने ऽआ᳘सीनमे᳘त्य यथायतन᳘म्पर्य्यु᳘पविशन्ति॥
मूलम् - Weber
एत᳘स्यामुक्ता᳘यामुत्था᳘य॥
स्!दसो᳘ऽधि प्रा᳘ञ्चो य᳘जमानमभ्या᳘यन्त्य᳘ग्रेण हविर्धा᳘ने आ᳘सीनमे᳘त्य यथायतन᳘म् पर्यु᳘पविशन्ति॥
मूलम् - विस्वरम्
एतस्यामुक्तायां उत्थाय सदसो अधि प्रांचो यजमानमभ्यायंति । अग्रेण हविर्द्धाने आसीनमेत्य, यथायतनं पर्युपविशंति ॥ १६ ॥
हरिस्वामी
एतस्यां वाचि उक्त यां सदस उत्थाय प्रांचः अग्रेण हविर्द्धाने आसीनं यजमानं अभिश्रयन्ति । एत्य च यथायतनं यत् यस्यायतनं स तत्रोपविशति । न चात्र देशे पूर्वकल्पितानि आयतनानि संतीति यथार्थमत एव वचनात् कल्पनीयानि ॥ १६-२३ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिमीयशतपथब्राह्मणभाष्ये त्रयोदशे काण्डे पञ्चमे ऽध्याये द्वितीयं ब्राह्मणम् ॥ १३ । ५ । २ ॥
Eggeling
- When this (verse) has been uttered, they rise and betake themselves from the Sadas eastwards to the Sacrificer. Haying come to him, seated in front of the Havirdhāna 14 (shed), they sit down in their several places.
१७
विश्वास-प्रस्तुतिः
स हो᳘ता ऽध्वर्य्यु᳘म्पृच्छति॥
का᳘ स्विदासीत्पूर्व्व᳘चित्तिरि᳘ति तम्प्र᳘त्याह द्यौ᳘रासीत्पूर्व्व᳘चित्तिरिति॥
मूलम् - श्रीधरादि
स हो᳘ता ऽध्वर्य्यु᳘म्पृच्छति॥
का᳘ स्विदासीत्पूर्व्व᳘चित्तिरि᳘ति तम्प्र᳘त्याह द्यौ᳘रासीत्पूर्व्व᳘चित्तिरिति॥
मूलम् - Weber
स हो᳘ताध्वर्यु᳘म् पृछति॥
का᳘ स्विदासीत्पूर्व᳘चित्तिरि᳘ति तम् प्र᳘त्याह द्यौ᳘रासीत्पूर्व᳘चित्तिरिति॥
मूलम् - विस्वरम्
स होता ऽध्वर्युं पृच्छति 15- “का स्विदासीत्पूर्वचित्तिः”- (वा. सं. २३ । ५३) इति । तं प्रत्याह- “द्यौरासीत्पूर्वचित्तिः”- (वा. सं. २३ । ५४) इति ॥ १७ ॥
हरिस्वामी
[व्याख्यानं षोडशे]
Eggeling
- The Hotr̥ then asks the Adhvaryu (Vāj. S. XXIII, 53), ‘What was the first conception 16?. . .’ and he replies (ib. 54), ‘The sky was the first conception. . .’
१८
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थाध्वर्य्युर्हो᳘तारम्पृच्छति॥
क᳘ ऽईमरे पिशङ्गिले᳘ति तम्प्र᳘त्याहा᳘जा ऽरे पिशङ्गिलेति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थाध्वर्य्युर्हो᳘तारम्पृच्छति॥
क᳘ ऽईमरे पिशङ्गिले᳘ति तम्प्र᳘त्याहा᳘जा ऽरे पिशङ्गिलेति॥
मूलम् - Weber
अ᳘थाध्वर्युर्हो᳘तारम् पृछति॥
क᳘ ईमरे पिशङ्गिले᳘ति तम् प्र᳘त्याहाॗजारे पिशञ्गिलेति॥
मूलम् - विस्वरम्
अथाध्वर्युर्होतारं पृच्छति- “का ईमरे पिशंगिला”- (वा. सं. २३ । ५५) इति । तं प्रत्याह- “अजा ऽरे पिशंगिला”- (वा. सं. २३ । ५६) इति ॥ १८ ॥
हरिस्वामी
[व्याख्यानं षोडशे]
Eggeling
- The Adhvaryu then asks the Hotr̥ (ib. 55), ‘Who, pray, is the tawny one (piśaṅgilā)? [who is the kurupiśaṅgilā? who moveth in leaps? who creepeth along the path?]’ and he replies (ib. 56), ‘The tawny one is the uncreated (night) 17; [the kurupiśaṅgilā is the porcupine; the hare
moveth in leaps; the snake creepeth along the path].’
१९
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ ब्र᳘ह्मोद्गाता᳘रम्पृच्छति॥
क᳘त्यस्य व्विष्ठाः क᳘त्यक्ष᳘राणी᳘ति तम्प्र᳘त्याह ष᳘डस्य व्विष्ठाः᳘ शत᳘मक्ष᳘राणीति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ ब्र᳘ह्मोद्गाता᳘रम्पृच्छति॥
क᳘त्यस्य व्विष्ठाः क᳘त्यक्ष᳘राणी᳘ति तम्प्र᳘त्याह ष᳘डस्य व्विष्ठाः᳘ शत᳘मक्ष᳘राणीति॥
मूलम् - Weber
अ᳘थ ब्रॗह्मोद्गाता᳘रम् पृछति॥
क᳘त्यस्य विष्ठाः क᳘त्यक्ष᳘राणी᳘ति तम् प्र᳘त्याह ष᳘डस्य विष्थ्\आः᳘ शत᳘मक्ष᳘राणीति॥
मूलम् - विस्वरम्
अथ ब्रह्मोद्गातारं पृच्छति 15- “कत्यस्य विष्ठाः कत्यक्षराणि”- (वा. सं. २३ । ५७) इति । तं प्रत्याह- “षडस्य विष्ठाः शतमक्षराणि”- (वा. सं. २३ । ५८) इति ॥ १९ ॥
हरिस्वामी
[व्याख्यानं षोडशे]
Eggeling
- The Brahman then asks the Udgātr̥ (Vāj. S. XXIII, 57), ‘How many kinds are thereof this (sacrifice), how many syllables?–[how many oblations? how often is (the fire) enkindled? The ordinances of sacrifice have I now asked of thee: how many priests offer in due form?]’ and he replies (ib. 58), ‘Six kinds there are of this (sacrifice), a hundred syllables, [eighty oblations, and three kindling-sticks; the ordinances of sacrifice do I declare unto thee: seven priests offer in due form].’
२०
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थोद्गाता᳘ ब्रह्मा᳘णम्पृच्छति॥
को᳘ ऽअस्य᳘ व्वेद भु᳘वनस्य ना᳘भिमि᳘ति तम्प्र᳘त्याह व्वे᳘दाह᳘मस्य भु᳘वनस्य ना᳘भिमिति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थोद्गाता᳘ ब्रह्मा᳘णम्पृच्छति॥
को᳘ ऽअस्य᳘ व्वेद भु᳘वनस्य ना᳘भिमि᳘ति तम्प्र᳘त्याह व्वे᳘दाह᳘मस्य भु᳘वनस्य ना᳘भिमिति॥
मूलम् - Weber
अ᳘थोद्गाता᳘ ब्रह्मा᳘णम् पृछति॥
को᳘ अस्य᳘ वेद भु᳘वनस्य ना᳘भिमिति तम् प्र᳘त्याह वे᳘दाह᳘मस्य भु᳘वनस्य ना᳘भिमिति॥
मूलम् - विस्वरम्
अथोद्गाता ब्रह्माणं पृच्छति- “को अस्य वेद भुवनस्य नाभिम्”- (वा. सं. २३ । ५९) इति । तं प्रत्याह- “वेदाहमस्य भुवनस्य नाभिम्”- (वा. सं. २३ । ६०) इति ॥ २० ॥
हरिस्वामी
[व्याख्यानं षोडशे]
Eggeling
- The Udgātr̥ then asks the Brahman (Vāj. S. XXIII, 59), ‘Who knoweth the navel of this world? [who heaven and earth and the air? who knoweth the birth-place of the great Sun? who knoweth the Moon, whence it was born?]’ and he replies (ib. 60), ‘I know the navel of this world, [I know heaven and earth and the air; I know the birth-place of the great Sun, and I know the Moon, whence it was born]’
२१
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थाध्वर्य्युं य᳘जमानः प्पृच्छति॥
पृच्छा᳘मि त्वा प᳘रम᳘न्तम्पृथिव्या ऽइ᳘ति तम्प्र᳘त्याहेयम्वे᳘दिः प᳘रो ऽअ᳘न्तः प्पृथिव्या ऽइ᳘ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थाध्वर्य्युं य᳘जमानः प्पृच्छति॥
पृच्छा᳘मि त्वा प᳘रम᳘न्तम्पृथिव्या ऽइ᳘ति तम्प्र᳘त्याहेयम्वे᳘दिः प᳘रो ऽअ᳘न्तः प्पृथिव्या ऽइ᳘ति॥
मूलम् - Weber
अ᳘थाध्वर्युं य᳘जमानः पृछति॥
पृछा᳘मि त्वा प᳘रम᳘न्तम् पृथिव्या इ᳘ति तम् प्र᳘त्याहेयम् वे᳘दिः प᳘रो अ᳘न्तः पृथिव्या इ᳘ति॥
मूलम् - विस्वरम्
अथाध्वर्युं यजमानः पृच्छति 15- “पृच्छामि त्वा परमन्तं पृथिव्याः” (वा. सं. २३ । ६१) इति । तं प्रत्याह- “इयं वेदिः परो अंतः पृथिव्याः”- (वा. सं. २३ । ६२) इति ॥ २१ ॥
हरिस्वामी
[व्याख्यानं षोडशे]
Eggeling
- The Sacrificer then asks the Adhvaryu (Vāj. S. XXIII, 61), ‘I ask thee about the farthest end of the earth, [I ask where is the navel of the world; I ask thee about the seed of the vigorous steed; I ask thee about the highest seat of speech];’ and he replies (ib. 62), ‘This altar-ground is the farthest end of the earth; [this sacrifice is the navel of the world; this Soma-juice is the seed of the vigorous
steed; this Brahman (priest) is the highest seat of speech].’
२२
विश्वास-प्रस्तुतिः
सर्व्वाप्तिर्व्वा᳘ ऽएषा᳘ व्वाचः॥
(चो) य᳘द्ब्रह्मो᳘द्यᳫँ᳭ स᳘र्व्वे का᳘मा ऽअश्वमेधे स᳘र्व्वया व्वाचा स᳘र्व्वान्का᳘मानाप्नवामे᳘ति॥
मूलम् - श्रीधरादि
सर्व्वाप्तिर्व्वा᳘ ऽएषा᳘ व्वाचः॥
(चो) य᳘द्ब्रह्मो᳘द्यᳫँ᳭ स᳘र्व्वे का᳘मा ऽअश्वमेधे स᳘र्व्वया व्वाचा स᳘र्व्वान्का᳘मानाप्नवामे᳘ति॥
मूलम् - Weber
सर्वाप्तिर्वा एषा᳘ वाचः॥
य᳘द्ब्रह्मो᳘द्यᳫं स᳘र्वे का᳘मा अश्वमेधे स᳘र्वया वाचा स᳘र्वान्का᳘मानाप्नवामे᳘ति॥
मूलम् - विस्वरम्
सर्वाप्तिर्वा एषा वाचः । यत् ब्रह्मोद्यम् । सर्वे कामा अश्वमेधे । सर्वया वाचा । सर्वान् कामानाप्नवामेति ॥ २२ ॥
हरिस्वामी
[व्याख्यानं षोडशे]
Eggeling
- Verily, this is the complete attainment of speech, to wit the Brahmodya, and in the Aśvamedha all desires are contained: ‘By means of all speech may we obtain all our desires!’ so (they think).
२३
विश्वास-प्रस्तुतिः
(त्यु) उदिते᳘ ब्रह्मो᳘द्ये॥
प्रप᳘द्याध्वर्य्यु᳘र्हिरण्म᳘येन पा᳘त्रेण प्राजापत्य᳘म्महिमा᳘नङ्ग्र᳘हं गृह्णाति त᳘स्य पुरोरु᳘ग्घिरण्यगर्भ्भः स᳘मवर्त्तता᳘ग्ग्र ऽइत्य᳘थास्य पुरो ऽनुवा᳘क्या सुभूः᳘ स्वयम्भूः᳘ प्प्रथम ऽइ᳘ति हो᳘ता यक्षत्प्रजा᳘पतिमि᳘ति प्रैषः प्र᳘जापते न त्व᳘देता᳘न्यन्य ऽइ᳘ति हो᳘ता यजति व्व᳘षट्कृते जुहोति यस्ते᳘ ऽहन्त्सम्वत्सरे᳘ महिमा᳘ सम्बभूवे᳘ति᳘ नानुव᳘षट्करोति सर्व्वहुतᳫँ᳭[[!!]] हि᳘ जुहोति॥
मूलम् - श्रीधरादि
(त्यु) उदिते᳘ ब्रह्मो᳘द्ये॥
प्रप᳘द्याध्वर्य्यु᳘र्हिरण्म᳘येन पा᳘त्रेण प्राजापत्य᳘म्महिमा᳘नङ्ग्र᳘हं गृह्णाति त᳘स्य पुरोरु᳘ग्घिरण्यगर्भ्भः स᳘मवर्त्तता᳘ग्ग्र ऽइत्य᳘थास्य पुरो ऽनुवा᳘क्या सुभूः᳘ स्वयम्भूः᳘ प्प्रथम ऽइ᳘ति हो᳘ता यक्षत्प्रजा᳘पतिमि᳘ति प्रैषः प्र᳘जापते न त्व᳘देता᳘न्यन्य ऽइ᳘ति हो᳘ता यजति व्व᳘षट्कृते जुहोति यस्ते᳘ ऽहन्त्सम्वत्सरे᳘ महिमा᳘ सम्बभूवे᳘ति᳘ नानुव᳘षट्करोति सर्व्वहुतᳫँ᳭[[!!]] हि᳘ जुहोति॥
मूलम् - Weber
उदिते᳘ ब्रह्मो᳘द्ये॥
प्रप᳘द्याध्वर्यु᳘र्हिरण्म᳘येने पा᳘त्रेण प्राजापत्य᳘म् महिमा᳘नं ग्र᳘हं गृह्णाति त᳘स्य पुरोरु᳘ग्घिरण्यगर्भः स᳘मवर्तता᳘ग्र इत्य᳘थास्य पुरोऽनुवाॗक्या सुभूः᳘ स्वयम्भूः᳘ प्रथम इ᳘ति हो᳘ता यक्षत्प्रजा᳘पतिमि᳘ति प्रैषः प्र᳘जापते न त्व᳘देता᳘न्यन्य इ᳘ति हो᳘ता यजति व᳘षट्कृते जुहोति यस्ते᳘ऽहन्त्सम्वत्सरे᳘ महिमा᳘ सम्बभूवे᳘तिॗ नानुव᳘षट्करोति सर्वहु᳘तᳫं हि᳘ जुहोति॥
मूलम् - विस्वरम्
अथ पूर्वोमहिमग्रहः ।
उदिते ब्रह्मोद्ये । प्रपद्याध्वर्युः । हिरण्मयेन पात्रेण प्राजापत्यं महिमानं ग्रहं गृह्णाति 18 । तस्य पुरोरुक्- “हिरण्यगर्भः समवर्तताग्रे”- (वा. सं. २३ । १) इति । अथास्य पुरो ऽनुवाक्या- “सुभूः स्वयंभूः प्रथमः”- (वा. सं. २३ । ६३) इति । “होता यक्षत्प्रजापतिम्”- (वा. सं. २३ । ६४) इति प्रैषः । “प्रजापते न त्वदेतान्यन्यः”- (वा. सं. २३ । ६५) इति होता यजति । वषट्कृते जुहोति- “यस्ते ऽहन्संवत्सरे महिमा संबभूव”- (वा. सं. २३ । २) इति । नानुवषट्करोति । सर्वहुतं हि जुहोति ॥ २३ ॥
हरिस्वामी
[व्याख्यानं षोडशे]
Eggeling
- When the colloquy has been held, the Adhvaryu enters the (Havirdhāna), and draws Prajāpati’s (first) Mahiman cup (of Soma) in a gold vessel. The Puroruc formula 19 thereof is (Vāj. S. XXIII, 1; Rig-v. X, 121, 1), ‘The golden germ was first produced . . .’ And its Puronuvākyā is (Vāj. S. XXIII, 63), ‘Of good nature, self-existent at first (within the great ocean: I verily place the right germ whence is born Prajāpati).’–‘May the Hotr̥ offer to Prajāpati: [of the Mahiman Soma (cup); may he relish, may he drink the Soma! Hotr̥, utter the offering-formula!]’ is the Praisha (ib. 64). The Hotr̥ utters the offering-formula (ib. 65), ‘O Prajāpati, none other than thee hath encompassed all these forms 20 . . . ;’ and as the Vashaṭ is pronounced, he (the Adhvaryu) offers with (Vāj. S. XXIII, 2), ‘What greatness of thine there hath been in the day, and the year, [what greatness of thine there hath been in the wind and the air; what greatness of thine there hath been in the heavens and the sun, to that greatness of thine, to Prajāpati, hail, to the gods 21!]’ He does not repeat the Vashaṭ, for he offers the cup of Soma all at once.
-
386:1 See XIII, 2, 8, 1. ↩︎
-
386:2 Nirāyatyāśvasya śiśnaṁ mahishy upasthe nidhatte ‘vr̥shā vājī retodhā reto dadhātv’ iti mithunasyaiva sarvatvāya. ↩︎
-
अध्वर्युब्रह्मोद्गातृहोतृक्षत्तारः कुमारीपत्नीभिः संवदन्ते यका ऽसकाविति दशर्चस्य द्वाभ्यां द्वाभ्याँ हयेहये ऽसावित्यामंत्र्यामंत्र्य । सानुचर्यः प्रत्याहुः । अनुचर्य एकेषाम् । का. श्रौ. सू. २० । १५६-१५८ । अत्र ब्राह्मणम् । (श० प० १३ । २ । ९ । १-८) तत्र प्रत्यभिमेथने सानुचर्यः प्रत्याहुरिति पक्षः शाखान्तरीयः । तथाहि- “सा होतारं प्रत्यभिमेथत्यनुचर्यश्च शतं राजपुत्र्यः” इति (आश्व. श्रौ. सू. उ. ष. ६ । ४ । ८ ।) अनुचर्य एकेषामिति पक्षस्तु स्वश्रुतिसमतः “तस्यै शतँ राजपुत्र्यो ऽनुचर्यो भवंति ता ब्रह्माणं प्रत्यभिमेथन्ति” इत्येवंविधस्यैव अत्रैव ब्राह्मणे तत्र तत्र (५-६-७-८) कंडिकासु दृष्टत्वादिति देवयाज्ञिकः । कर्कस्तु विकल्प इत्याह ॥ ↩︎ ↩︎ ↩︎
-
क्षात्रसंग्र ABCP. ↩︎
-
आ᳘युर्देव᳘ताः, see आ᳘युः प्रमा᳘युको य᳘जमानः स्यात् १४. २. २. ४५. ↩︎
-
“मेदो ऽस्योद्धरंति वपार्थे” का० श्रौ० सू० २० । १६६ । मेदो नाम घनीभूतं घृतसदृशमुदरमध्यवर्ति श्वेतं मांसम् । ↩︎ ↩︎ ↩︎
-
388:1 See III, 8, 2, 21-23. ↩︎
-
388:2 For a similar discussion between the Brahman and Hotr̥, prior to the binding of the victims to the stakes, see XIII, 2, 6, 9 seqq. ↩︎
-
388:3 For the complete verse, comprising four questions, see XIII, 2, 6, 10-13; the answers being given there in the form of explanations. ↩︎
-
389:1 Or, with the one limb (ekenāṅgena) which Mahīdhara takes to mean ‘with the mind, in mind.’ Possibly ‘asya’ may have to be taken together with it–‘with the one body of his (Vishṇu’s).’ ↩︎
-
389:2 Or, man (purusha). The five things, according to Mahīdhara, are the vital airs, or breathings. ↩︎
-
389:3 That is, behind the uttaravedi, according to Kāty. XX, 7, 22. ↩︎
-
पुनः पूर्वावपरेणोत्तरवेदिं का स्विदासीदिति । का. श्रौ. सू. २० । १७१ । (पूर्वौ होत्रध्वर्यू) ↩︎ ↩︎ ↩︎
-
389:4 See XIII, 2, 6, 14 seqq. ↩︎
-
389:5 Mahīdhara takes ‘ajā’ (the eternal) here as meaning either the night, or Māyā; cf. XIII, 2, 6, 17. Perhaps, however, ‘ajā’ may mean ‘goat’ here. ↩︎
-
“सर्वहुतेन महिम्ना चरति यस्ते ऽहन्निति जुहोति” । “अत्र वा ग्रहणम्” । का. श्रौ. सू. २० । १७५ । १७६ । (वाशब्दो ऽवधारणे) “महिमानौ गृह्णाति सौवर्णेन पूर्वं हिरण्यगर्भ इति द्वितीयं राजतेन यः प्राणत इति" । (का. श्रौ. सू. २० । १७७ ।) “सुभूः स्वयंभूः प्रथमः" इति प्रथमस्य महिम्नो ग्रहस्य पुरो ऽनुवाक्या । “होता यक्षत्प्रजापतिमिति” । मैत्रावरुणप्रैषः । “प्रजापते न त्वदेतान्यन्यः” इति प्रथमस्य महिम्नो ग्रहस्य याज्या । आश्वलायनस्तु- “तवेमे लोकाः प्रदिशो दिशश्चेति याज्या” । आ. श्रौ. सू. उ. ष. ६ । ४ । ९ । इत्याह ॥ ↩︎
-
391:1 That is, the preliminary formula, or formulas, preceding the upayāma’ (‘Thou art taken with a support . . .’). ↩︎
-
391:2 See V, 4, 2, 9. ↩︎
-
391:3 See XIII, 2, 11, 2 with note. ↩︎