०१
विश्वास-प्रस्तुतिः
अ᳘थ प्प्रातर्ग्गो᳘तमस्य॥
चतुरुत्तर स्तो᳘मो भवति त᳘स्य चतसृ᳘षु बहिष्पवमान᳘मष्टा᳘स्वष्टास्वा᳘ज्यानि द्वादश᳘सु मा᳘ध्यन्दिनः प᳘वमानः षोडश᳘सु पृष्ठा᳘नि व्विᳫँ᳭शत्यामा᳘र्भ्भवः प᳘वमानश्च᳘तुर्व्विᳫँ᳭शत्यामग्निष्टोमसाम[[!!]]॥
मूलम् - श्रीधरादि
अ᳘थ प्प्रातर्ग्गो᳘तमस्य॥
चतुरुत्तर स्तो᳘मो भवति त᳘स्य चतसृ᳘षु बहिष्पवमान᳘मष्टा᳘स्वष्टास्वा᳘ज्यानि द्वादश᳘सु मा᳘ध्यन्दिनः प᳘वमानः षोडश᳘सु पृष्ठा᳘नि व्विᳫँ᳭शत्यामा᳘र्भ्भवः प᳘वमानश्च᳘तुर्व्विᳫँ᳭शत्यामग्निष्टोमसाम[[!!]]॥
मूलम् - Weber
अ᳘थ प्रातर्गो᳘तमस्य॥
चतुरुत्तर स्तो᳘मो भवति त᳘स्य चतसृ᳘षु बहिष्पवमान᳘मष्टा᳘स्वष्टास्वा᳘ज्यानि द्वादश᳘सु मा᳘ध्यन्दिनः प᳘वमानः षोडश᳘सु पृष्ठा᳘नि विंशत्यामा᳘र्भवः प᳘वमानश्च᳘तुर्विंशत्यामग्निष्टोमसाम᳟॥
मूलम् - विस्वरम्
अथ प्रातर्गोतमस्य चतुरुत्तरः । स्तोमो भवति । तस्य चतसृषु बहिष्पवमानम् । अष्टास्वष्टास्वाज्यानि । द्वादशसु माध्यन्दिनः पवमानः । षोडशसु पृष्ठानि । विंशत्यामार्भवः पवमानः । चतुर्विंशत्यामग्निष्टोमसाम ॥ १ ॥
हरिस्वामी
अथ प्रातर्गोतमस्य 1 स एष स पूर्वापत्यः । त एवं उक्थ्यानुरूपैः सार्द्धं सह एकीभूय एव शंसेत् । तथाहि- त्रीण्यपि आध्वर्यवौद्गात्रहौत्राणि अविलक्षणानि भवन्तीत्यभिप्रायः ॥ १ ॥
Eggeling
- Then, on the morrow, there is (used) Gotama’s Stoma (form of chanting) successively increasing by four (verses) 2: the Bahishpavamāna thereof is on four, the Ājya (stotras) on eight, the Mādhyandina Pavamāna on twelve, the Pr̥shṭḥa (stotras) on
sixteen, the Ārbhava Pavamāna on twenty, and the Agnishṭoma-sāman on twenty-four (verses).
०२
विश्वास-प्रस्तुतिः
त᳘स्य है᳘के॥
(के ऽग्नि) अग्निष्टोमसाम च᳘तुःसाम कुर्व्वन्ति᳘ नाग्निष्टोमो᳘ नोक्थ्य᳘ ऽइ᳘ति व्व᳘दन्तस्तद्य᳘दि त᳘था कुर्य्युः᳘ सार्द्ध᳘ᳫँ᳘ स्तोत्रि᳘यᳫँ᳭ शस्त्वा᳘ सार्द्धम᳘नुरूपᳫँ᳭ शᳫँ᳭सेद्रथन्तर᳘म्पृष्ठᳫँ᳭ रा᳘थन्तरᳫँ᳭ शस्त्र᳘मग्निष्टोमो᳘ यज्ञस्ते᳘नेमं᳘ लोक᳘मृध्नोति॥
मूलम् - श्रीधरादि
त᳘स्य है᳘के॥
(के ऽग्नि) अग्निष्टोमसाम च᳘तुःसाम कुर्व्वन्ति᳘ नाग्निष्टोमो᳘ नोक्थ्य᳘ ऽइ᳘ति व्व᳘दन्तस्तद्य᳘दि त᳘था कुर्य्युः᳘ सार्द्ध᳘ᳫँ᳘ स्तोत्रि᳘यᳫँ᳭ शस्त्वा᳘ सार्द्धम᳘नुरूपᳫँ᳭ शᳫँ᳭सेद्रथन्तर᳘म्पृष्ठᳫँ᳭ रा᳘थन्तरᳫँ᳭ शस्त्र᳘मग्निष्टोमो᳘ यज्ञस्ते᳘नेमं᳘ लोक᳘मृध्नोति॥
मूलम् - Weber
त᳘स्य है᳘के॥
अग्निष्टोमसाम च᳘तुःसाम कुर्वन्तिॗ नाग्निष्टोमोॗ नोक्थ्य᳘ इ᳘ति व᳘दन्तस्तद्य᳘दि त᳘था कुर्युः᳘ सार्धᳫं स्तोत्रि᳘यं शस्त्वा᳘ सार्धम᳘नुरूपं शंसेद्रथन्तर᳘म् पृष्ठं रा᳘थन्तरं शस्त्र᳘मग्निष्टोमो᳘ यज्ञस्ते᳘नेमं᳘ लोक᳘मृध्नोति॥
मूलम् - विस्वरम्
तस्य हैके ऽग्निष्टोमसाम चतुःसाम कुर्वंति । नाग्निष्टोमः । नोक्थ्य इति वदंतः । तत् यदि तथा कुर्युः । सार्धं स्तोत्रियं शस्त्वा सार्द्धमनुरूपं शंसेत् रथंतरं पृष्ठम् । राथंतरं शस्त्रम् । अग्निष्टोमो यज्ञः । तेनेमं लोकमृध्नोति ॥ २ ॥
हरिस्वामी
रथंतरं पृष्ठसाधनम् । तच्च प्रथमे ऽहनि भवति न बृहत् इति नियमवचनम् । राथंतरं च शस्त्रं रथंतरपृष्ठसंबद्धं यादृशं निष्केवल्यशस्त्रं तादृशमत्र भवति । अग्निष्टोमः अग्निष्टोमसंस्थो ऽयं यज्ञो भवति । न उक्थ्यादिसंस्थः ॥ २ ॥
Eggeling
- Now, some make its Agnishṭoma-sāman a Sāman of four (verses), saying, ‘It is neither an Agnishṭoma, nor an Ukthya 3.’ If they do so, let hire (the Hotr̥),
after reciting the Stotriya 4 (strophe) together, recite the Anurūpa (strophe) together: the Rathantara Pr̥shṭḥa-sāman 5, the Śastra containing the Rathantara (text), and the Agnishṭoma sacrifice–thereby he makes sure of this world.
०३
विश्वास-प्रस्तुतिः
(त्ये᳘) ए᳘कविᳫँ᳭शतिः सवनी᳘याः पश᳘वः॥
स᳘र्व्व ऽआग्नेयास्ते᳘षाᳫँ᳭ समानङ्कर्म्मे᳘त्यु है᳘क ऽआहुर्द्वे᳘ त्वे᳘वैते᳘ ऽएकादशि᳘न्यावा᳘लभेत य᳘ ऽए᳘वैकादशिने᳘षु का᳘मस्त᳘स्य का᳘मस्या᳘प्त्यै॥
मूलम् - श्रीधरादि
(त्ये᳘) ए᳘कविᳫँ᳭शतिः सवनी᳘याः पश᳘वः॥
स᳘र्व्व ऽआग्नेयास्ते᳘षाᳫँ᳭ समानङ्कर्म्मे᳘त्यु है᳘क ऽआहुर्द्वे᳘ त्वे᳘वैते᳘ ऽएकादशि᳘न्यावा᳘लभेत य᳘ ऽए᳘वैकादशिने᳘षु का᳘मस्त᳘स्य का᳘मस्या᳘प्त्यै॥
मूलम् - Weber
ए᳘कविंशतिः सवनी᳘याः पश᳘वः॥
स᳘र्व आग्नेयास्ते᳘षाᳫं समानं कर्मे᳘त्यु है᳘क आहुर्द्वेॗ त्वेॗवैते᳘ एकादशि᳘न्यावा᳘लभेत य᳘ एॗवैकादशिने᳘षु का᳘मस्त᳘स्य का᳘मस्या᳘प्त्यै॥
मूलम् - विस्वरम्
एकविंशतिः सवनीयाः पशवः । सर्व आग्नेयाः । तेषां समानं कर्म । इति उहैक आहुः । द्वे त्वेव एते एकादशिन्यौ आलभेत । य एवैकादशिनेषु कामः । तस्य कामस्याप्त्यै ॥ ३ ॥
हरिस्वामी
एकविंशतिः सवनीयाः आग्नेयाः समानकर्माणः अत्र प्रथमे अहनि भवन्तीत्येक आहुः । न तु तथा कुर्यात् । कथं तर्हि कुर्यात् ? द्वे त्वेवैते । सहिते आश्वमेधिके । किं खिलपरिपठिते एकादशिन्यौ 6- “आग्नेयः कृष्णग्रीवः, अग्नये ऽनीकवते, रोहितांजिरनड्वान्” इत्येते (वा. सं. २९ । ५८ । ५९) आलभेत य एवैकादशिनेषु कामः आपन्नः । तस्मै काममेकादशिन्या यजेतेत्यादि । यदेकादशिनान्पशूनालभते न स्वर्गं लोकमपराध्नोति । न प्रजया पशुभिर्व्यृद्ध्यते इत्यादिश्च, तस्याप्त्यै ॥ ३ ॥
Eggeling
- ‘There are twenty-one Savanīya 7 victims, all of them sacred to Agni: for these there is one and the same performance,’ so say some; but, indeed, he should immolate two sets of eleven (victims), with the view of his obtainment of whatever desired object there may be in (victims) belonging to a set of eleven.
०४
विश्वास-प्रस्तुतिः
स᳘ᳫँ᳘स्थिते ऽग्निष्टोमे[[!!]]॥
प᳘रिहृतासु व्व᳘सतीव᳘रीष्वध्वर्य्यु᳘रन्नहोमा᳘ञ्जुहोति ते᳘षामुक्तम्ब्रा᳘ह्मणम्प्राणा᳘य स्वा᳘हा ऽपाना᳘य स्वाहे᳘ति द्वादश᳘भिरनुवाकैर्द्वा᳘दश मा᳘साः सम्वत्सरः स᳘र्व्वᳫँ᳭ सम्वत्सरः स᳘र्व्वमश्वमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै॥
मूलम् - श्रीधरादि
स᳘ᳫँ᳘स्थिते ऽग्निष्टोमे[[!!]]॥
प᳘रिहृतासु व्व᳘सतीव᳘रीष्वध्वर्य्यु᳘रन्नहोमा᳘ञ्जुहोति ते᳘षामुक्तम्ब्रा᳘ह्मणम्प्राणा᳘य स्वा᳘हा ऽपाना᳘य स्वाहे᳘ति द्वादश᳘भिरनुवाकैर्द्वा᳘दश मा᳘साः सम्वत्सरः स᳘र्व्वᳫँ᳭ सम्वत्सरः स᳘र्व्वमश्वमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै॥
मूलम् - Weber
स᳘ᳫं᳘स्थितेऽग्निष्टोमे᳟॥
प᳘रिहृतासु व᳘सतीवरीष्वध्वर्यु᳘रन्नहोमा᳘न्जुहोति ते᳘षामुक्तम् ब्रा᳘ह्मणं प्राणा᳘य स्वा᳘हापाना᳘य स्वाहे᳘ति द्वादश᳘भिरनुवाकैर्द्वा᳘दश मा᳘साः संवत्सरः स᳘र्वᳫं संवत्सरः स᳘र्वमश्वमेधः स᳘र्वस्याप्त्यै स᳘र्वस्या᳘वरुद्ध्यै॥
मूलम् - विस्वरम्
संस्थिते ऽग्निष्टोमे । परिहृतासु वसतीवरीषु । अध्वर्युरन्नहोमान् जुहोति । तेषामुक्तं ब्राह्मणम् । “प्राणाय स्वाहा ऽपानाय स्वाहा”- (वा. सं. २२ । २३) इति द्वादशभिरनुवाकैः । द्वादश मासाः संवत्सरः । सर्वं संवत्सरः । सर्वमश्वमेधः । सर्वस्याप्त्यै । सर्वस्यावरुद्ध्यै ॥ ४ ॥
हरिस्वामी
संस्थिते ऽग्निष्टोमे । क्रमार्थमिदं पुनर्वचनम् । अध्वर्युग्रहणं औद्गात्रहोत्रव्यवधानार्थम् 6 ॥ ४ ॥
Eggeling
- When the Agnishṭoma is completed, and the Vasatīvarī water carried round, the Adhvaryu performs the Annahomas 8 (oblations of food): the import of these has been explained. With twelve
Anuvākas (Vāj. S. XXII, 23-34), ‘To the in-breathing hail! To the off-breathing hail!’ (he offers)–twelve months are a year, and the year is everything, and the Aśvamedha is everything: thus it is for his obtaining and securing everything.
०५
विश्वास-प्रस्तुतिः
(द्ध्या ऽए) एकविᳫँ᳭श᳘म्मध्यमम᳘हर्भ्भवति॥
(त्य) असौ वा᳘ ऽआदित्य᳘ ऽएकविᳫँ᳭शः[[!!]] सो ऽश्वमेधः स्वे᳘नै᳘वैनᳫँ᳭ स्तो᳘मेन स्वा᳘यां देव᳘तायाम्प्र᳘तिष्ठापयति त᳘स्मादेकविᳫँ᳭शम्[[!!]]॥
मूलम् - श्रीधरादि
(द्ध्या ऽए) एकविᳫँ᳭श᳘म्मध्यमम᳘हर्भ्भवति॥
(त्य) असौ वा᳘ ऽआदित्य᳘ ऽएकविᳫँ᳭शः[[!!]] सो ऽश्वमेधः स्वे᳘नै᳘वैनᳫँ᳭ स्तो᳘मेन स्वा᳘यां देव᳘तायाम्प्र᳘तिष्ठापयति त᳘स्मादेकविᳫँ᳭शम्[[!!]]॥
मूलम् - Weber
एकविंश᳘म् मध्यमम᳘हर्भवति॥
असौ वा᳘ आदित्य᳘ एकविंॗशः सोऽश्वमेधः स्वे᳘नैॗवैनᳫं स्तो᳘मेन स्वा᳘यां देव᳘तायाम् प्र᳘तिष्ठापयति त᳘स्मादेकविंश᳘म्॥
मूलम् - विस्वरम्
एकविंशं मध्यममहर्भवति । असौ वा आदित्य एकविंशः । सो ऽश्वमेधः । स्वेनैवैनं स्तोमेन स्वायां देवतायां प्रतिष्ठापयति । तस्मादेकविंशम् ॥ ५ ॥
हरिस्वामी
एकविंशमिति । औद्गात्रमेतत् दर्शनार्थं पुनरुच्यते । नान्येन च । स्वायां देवतायां आदित्ये प्रतिष्ठापयति ॥ ५ ॥
Eggeling
- The central day is an ekaviṁśa day 9; for the twenty-one-fold is yonder sun, and he is the Aśvamedha: by means of his own Stoma he thus establishes him in his own deity,–therefore it is an ekaviṁśa day.
०६
विश्वास-प्रस्तुतिः
य᳘द्वे᳘वैकविᳫँ᳭श᳘म्[[!!]]॥
(मे) एकविᳫँ᳭शो वै पु᳘रुषो द᳘श ह᳘स्त्या ऽअङ्गु᳘लयो द᳘श पा᳘द्या ऽआ᳘त्मैकविᳫँ᳭शस्त᳘दने᳘नैकविᳫँ᳭शे᳘नात्म᳘नैत᳘स्मिन्नेकविᳫँ᳭शे᳘ प्रतिष्ठा᳘याम्प्र᳘तितिष्ठति त᳘स्मादेकविᳫँ᳭शम्[[!!]]॥
मूलम् - श्रीधरादि
य᳘द्वे᳘वैकविᳫँ᳭श᳘म्[[!!]]॥
(मे) एकविᳫँ᳭शो वै पु᳘रुषो द᳘श ह᳘स्त्या ऽअङ्गु᳘लयो द᳘श पा᳘द्या ऽआ᳘त्मैकविᳫँ᳭शस्त᳘दने᳘नैकविᳫँ᳭शे᳘नात्म᳘नैत᳘स्मिन्नेकविᳫँ᳭शे᳘ प्रतिष्ठा᳘याम्प्र᳘तितिष्ठति त᳘स्मादेकविᳫँ᳭शम्[[!!]]॥
मूलम् - Weber
य᳘द्वेवै᳘कविंश᳘म्॥
एकविंशो वै पु᳘रुषो द᳘श ह᳘स्त्या अङ्गु᳘लयो द᳘श पा᳘द्या आॗत्मैकविंशस्त᳘दने᳘नैकविंशे᳘नात्म᳘नैत᳘स्मिन्नेकविंशे᳘ प्रतिष्ठा᳘याम् प्र᳘तितिष्ठति त᳘स्मादेकविंश᳘म्॥
मूलम् - विस्वरम्
यद्वेवैकविंशम् । एकविंशो वै पुरुषः । दश हस्त्या अंगुलयः । दश पाद्याः । आत्मैकविंशः । तदनेनैकविंशेनात्मनैतस्मिन्नेकविंशे प्रतिष्ठायां प्रतितिष्ठति । तस्मादेकविंशम् ॥ ६ ॥
हरिस्वामी
यद्वेवैकविंशम् । तत् अनेन एकविंशतिविभागेन आत्मना प्राणेन तम् एतस्मिन्नादित्ये एकविंशे एव ॥ ६ ॥
Eggeling
- And, again, as to why it is an ekaviṁśa day;–man is twenty-one-fold–ten fingers, ten toes, and the body (self) as the twenty-first: by means of that twenty-one-fold self he thus establishes him in the twenty-one-fold (day) as on a firm foundation,–therefore it is an ekaviṁśa day.
०७
विश्वास-प्रस्तुतिः
य᳘द्वे᳘वैकविᳫँ᳭श᳘म्॥
(मे) एकविᳫँ᳭शो वै स्तो᳘मानाम्प्रतिष्ठा᳘ बहु ख᳘लु वा᳘ ऽएत᳘देत᳘स्मिन्न᳘हन्युच्चावच᳘मिव क᳘र्म्म क्रियते तद्य᳘देत᳘देत᳘स्मिन्न᳘हन्युच्चावच᳘म्बहु क᳘र्म्म क्रिय᳘ते त᳘देत᳘स्मिन्नेकविᳫँ᳭शे᳘ प्रतिष्ठा᳘याम्प्र᳘तिष्ठितं क्रियाता ऽइ᳘ति त᳘स्माद्वे᳘वैत᳘देकविᳫँ᳭शम᳘हः॥
मूलम् - श्रीधरादि
य᳘द्वे᳘वैकविᳫँ᳭श᳘म्॥
(मे) एकविᳫँ᳭शो वै स्तो᳘मानाम्प्रतिष्ठा᳘ बहु ख᳘लु वा᳘ ऽएत᳘देत᳘स्मिन्न᳘हन्युच्चावच᳘मिव क᳘र्म्म क्रियते तद्य᳘देत᳘देत᳘स्मिन्न᳘हन्युच्चावच᳘म्बहु क᳘र्म्म क्रिय᳘ते त᳘देत᳘स्मिन्नेकविᳫँ᳭शे᳘ प्रतिष्ठा᳘याम्प्र᳘तिष्ठितं क्रियाता ऽइ᳘ति त᳘स्माद्वे᳘वैत᳘देकविᳫँ᳭शम᳘हः॥
मूलम् - Weber
य᳘द्वेॗवैकविंश᳘म्॥
एकविंशो वै स्तो᳘मानाम् प्रतिष्ठा᳘ बहु ख᳘लु वा᳘ एत᳘देतस्मिन्न᳘हन्युच्चावच᳘मिव क᳘र्म क्रियते तद्य᳘देत᳘देतस्मिन्न᳘हन्युच्चावच᳘म् बहु क᳘र्म क्रिय᳘ते त᳘देत᳘स्मिन्नेकविंशे᳘ प्रतिष्ठा᳘याम् प्र᳘तिष्ठितं क्रियाता इ᳘ति त᳘स्माद्वेॗवैत᳘देकविंशम᳘हः॥
मूलम् - विस्वरम्
यद्वेवैकविंशम् । एकविंशो वै स्तोमानां प्रतिष्ठा । बहु खलु वा एतत् एतस्मिन्नहन्युच्चावचमिव कर्म क्रियते । तद्यदेतदेतस्मिन्नहन्युच्चावचं बहु कर्म क्रियते । तदेतस्मिन्नेकविंशे प्रतिष्ठायां प्रतिष्ठितं क्रियाता इति । तस्मात् उ एवैतदेकविंशमहः ॥ ७ ॥
हरिस्वामी
सामान्यात् प्रकृतौ च । स्तोमानाम् अन्यद्वा । यत् उच्चावचं नानारूपम् ॥ ७ ॥
Eggeling
- And, again, as to why it is an ekaviṁśa day;–the ekaviṁśa, assuredly, is the foundation of Stomas, and manifold is that ever-varying performance which takes place on this day,–and it is because he thinks that that manifold and ever-varying performance which takes place on this day, shall take place so as to be established on the ekaviṁśa as a firm foundation, that this is an ekaviṁśa day.
०८
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘स्य प्रातःसवन᳘म्॥
(म) अग्निं त᳘म्मन्ये यो व्व᳘सुरि᳘ति हो᳘ता पा᳘ङ्क्तमा᳘ज्यᳫँ᳭ शस्त्वै᳘काहिकमुपस᳘ᳫँ᳘शᳫँ᳭सति बा᳘र्हतञ्च प्र᳘ ऽउगम्माधुच्छन्दस᳘ञ्च त्रिचश᳘ ऽउभे स᳘ᳫँ᳘शᳫँ᳭सति यश्च[[!!]] बा᳘र्हते प्र᳘ ऽउगे का᳘मो य᳘ ऽउ च माधुच्छन्दसे त᳘योरुभ᳘योः का᳘मयोरा᳘प्त्यै कॢप्त᳘म्प्रातःसवनम्[[!!]]॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘स्य प्रातःसवन᳘म्॥
(म) अग्निं त᳘म्मन्ये यो व्व᳘सुरि᳘ति हो᳘ता पा᳘ङ्क्तमा᳘ज्यᳫँ᳭ शस्त्वै᳘काहिकमुपस᳘ᳫँ᳘शᳫँ᳭सति बा᳘र्हतञ्च प्र᳘ ऽउगम्माधुच्छन्दस᳘ञ्च त्रिचश᳘ ऽउभे स᳘ᳫँ᳘शᳫँ᳭सति यश्च[[!!]] बा᳘र्हते प्र᳘ ऽउगे का᳘मो य᳘ ऽउ च माधुच्छन्दसे त᳘योरुभ᳘योः का᳘मयोरा᳘प्त्यै कॢप्त᳘म्प्रातःसवनम्[[!!]]॥
मूलम् - Weber
त᳘स्य प्रातःसवन᳘म्॥
अग्निं त᳘म् मन्ये यो व᳘सुरि᳘ति हो᳘ता पा᳘ङ्क्तमा᳘ज्यं शस्त्वै᳘काहिकमुपसं᳘शंसति बा᳘र्हतं च प्र᳘उगम् माधुछन्दसं᳘ च त्रिचश᳘ उभे सं᳘शंसति य᳘श्च बा᳘र्हते प्र᳘उगे का᳘मो य᳘ उ च माधुछन्दसे त᳘योरुभ᳘योः का᳘मयोरा᳘प्त्यै कॢप्त᳘म् प्रातःसवन᳘म्॥
मूलम् - विस्वरम्
तस्य प्रातःसवनम् । “अग्निं तं मन्ये यो वसुः”- (वा. सं. १५ । ४१ ।) इति होता पाङ्क्तमाज्यं शस्त्वा ऐकाहिकमुपसंशंसति । बार्हतं च प्रउगं माधुच्छन्दसं च । त्रिचशः उभे संशंसति । यश्च बार्हते प्रउगे कामः । य उ च माधुच्छन्दसे । तयोरुभयोः कामयोराप्त्यै । क्लृप्तं प्रातःसवनम् ॥ ८ ॥
हरिस्वामी
तस्य प्रातःसवनम् । तस्य मध्यमाह्नः हौत्रे प्रातःसवनं विशेषेण कल्पयिष्ये इति शेषः । “अग्निं तं मन्ये यो वसुः” इत्येतत्सूक्तम् 10 । पांक्तं पंक्तीनां समूहः । आज्यं आज्यशास्त्रात्मकमाश्वमेधिकं शस्त्वा ऐकाहिकं 11 ज्यौतिष्टोमिकमाज्यमाज्यसूक्तं उप उपचिन्वन् स एकाहादपूर्वेण आश्वमेधिकेन शंसति एष तावत् आज्ये प्रथमे शस्त्रे विशेषः । अथ द्वितीये शस्त्रे विशेषमाह- बार्हतं च । “आ 12 नो यज्ञं दिविस्पृशं” बृहतीनां समूहः । प्रउगं शस्त्रं माधुच्छंदसं मधुच्छंदस आर्षं ज्यौतिष्टोमिकम् । प्रउगं “वायुरग्रेगाः” इत्येतत्, त्रिचशः 13 तृचं तृचं शंसति । माधुच्छंदसे हि वायवायादयः सप्त तृचाः सप्तैव बार्हताः । तेषामेकं बार्हतं एकं च माधुच्छंद सं समानेन शंसति । एवं सर्वान् । यश्च बार्हते प्रडगे कामो ब्राह्मणे पठितः । यश्च माधुच्छंदसे च । तयोरुभयोराप्त्यै । क्लृप्तं प्रातःसवनं एतवानेवात्र विशेषः नान्यो ऽस्तीयर्थः ॥ ८ ॥
Eggeling
- Now, as to the morning-service of this day. The Hotr̥, having recited as the Ājya (hymn 14) in the Paṅkti (metre) ‘Agni I think on, who is good . . .,’ recites thereto the one of a one-day’s
Soma-sacrifice 15. And the Bārhata Praüga and the Mādhuchandasa one he recites both together 16 in triplets–(this being done) for the obtainment of the objects of desire which (may be contained) both in the Bārhata and the Mādhuchandasa Praüga. The morning-service is (thus) set right.
०९
विश्वास-प्रस्तुतिः
(म) अथा᳘तो मा᳘ध्यन्दिनᳫँ᳭ स᳘वनम्॥
(म᳘) अ᳘तिच्छन्दाः प्रतिप᳘न्मरुत्वती᳘यस्य त्रि᳘कद्रुकेषु महिषो य᳘वाशिरमि᳘त्यतिष्ठा वा᳘ ऽएषा छ᳘न्दसां य᳘दतिच्छन्दा ऽअतिष्ठा᳘ ऽअश्वमेधो᳘ यज्ञा᳘नामश्वमेध᳘स्यैवा᳘प्त्यै᳘ सै᳘षैव त्रिः᳘ शस्ता᳘ त्रिचः स᳘म्पद्यते ते᳘नो तं का᳘ममाप्नोति य᳘स्त्रिच᳘ ऽइदं᳘ व्वसो सुतम᳘न्ध ऽइ᳘त्यनुचर᳘ ऽएष᳘ ऽएव नि᳘त्य ऽएकाहातान᳘ ऽइत्था हि सो᳘म ऽइन्म᳘दे ऽविता᳘सि सुन्वतो᳘ व्वृक्त᳘बर्हिष ऽइ᳘ति पङ्क्ती᳘श्च ष᳘ट्पदाश्च शस्त्वै᳘काहिके निवि᳘दन्दधाती᳘ति[[!!]] मरुत्वती᳘यम्॥
मूलम् - श्रीधरादि
(म) अथा᳘तो मा᳘ध्यन्दिनᳫँ᳭ स᳘वनम्॥
(म᳘) अ᳘तिच्छन्दाः प्रतिप᳘न्मरुत्वती᳘यस्य त्रि᳘कद्रुकेषु महिषो य᳘वाशिरमि᳘त्यतिष्ठा वा᳘ ऽएषा छ᳘न्दसां य᳘दतिच्छन्दा ऽअतिष्ठा᳘ ऽअश्वमेधो᳘ यज्ञा᳘नामश्वमेध᳘स्यैवा᳘प्त्यै᳘ सै᳘षैव त्रिः᳘ शस्ता᳘ त्रिचः स᳘म्पद्यते ते᳘नो तं का᳘ममाप्नोति य᳘स्त्रिच᳘ ऽइदं᳘ व्वसो सुतम᳘न्ध ऽइ᳘त्यनुचर᳘ ऽएष᳘ ऽएव नि᳘त्य ऽएकाहातान᳘ ऽइत्था हि सो᳘म ऽइन्म᳘दे ऽविता᳘सि सुन्वतो᳘ व्वृक्त᳘बर्हिष ऽइ᳘ति पङ्क्ती᳘श्च ष᳘ट्पदाश्च शस्त्वै᳘काहिके निवि᳘दन्दधाती᳘ति[[!!]] मरुत्वती᳘यम्॥
मूलम् - Weber
अथा᳘तो मा᳘ध्यन्दिनᳫं स᳘वनं॥
अ᳘तिछन्दाः प्रतिप᳘न्मरुत्वती᳘यस्य त्रि᳘कद्रुकेषु महिषो य᳘वाशिरमि᳘त्यतिष्ठा वा᳘ एषा छ᳘न्दसां य᳘दतिछन्दा अतिष्ठा᳘ अश्वमेधो᳘ यज्ञा᳘नामश्वमेध᳘स्यैवा᳘प्त्यैॗ सैॗषैव त्रिः᳘ शस्ता᳘ त्रिचः स᳘म्पद्यते ते᳘नो तं का᳘ममाप्नोति य᳘स्त्रिच᳘ इदं᳘ वसो सुतम᳘न्ध इ᳘त्यनुचर᳘ एष᳘ एव नि᳘त्य एकाहातान᳘ इत्था हि सो᳘म इन्म᳘देऽविता᳘सि सुन्वतो᳘ वृक्त᳘बर्हिष इ᳘ति पङ्क्ती᳘श्च ष᳘ट्पदाश्च शस्त्वै᳘काहिके नि᳘विदं दधाती᳘ति मरुत्वती᳘यम्॥
मूलम् - विस्वरम्
अथातो माध्यंदिनं सवनम् । अतिच्छंदाः प्रतिपन्मरुत्वतीयस्य । “त्रिकद्रुकेषु महिषो यवाशिरम्”- इति । अतिष्ठा वा एषा छंदसां यदतिच्छंदाः । अतिष्ठा अश्वमेधो यज्ञानाम् । अश्वमेधस्यैवाप्त्यै । सैषैव त्रिः शस्ता त्रिचः संपद्यते । तेन उ तं काममाप्नोति । यस्त्रिचे । “इदं वसो सुतमंधः”- इत्यनुचरः । एष एव नित्य एकाहातानः । “इत्था हि सोम इन्मदे अवितासि सुन्वतो वृक्तबर्हिषः”- इति पंक्तीश्च षट्पदाश्च शस्त्वा ऐकाहिके निविदं दधाति । इति मरुत्वतीयम् ॥ ९ ॥
हरिस्वामी
अथातो माध्यंदिनं सवनं, विशेषयतीति शेषः । मरुत्वतीयस्य शस्त्रस्य “त्रिकद्रुकेषु 10 महिषः” इत्येषा अतिच्छन्दाः 11 प्रतिपत्प्रथमा 12 च भवति । “इदं वसो सुतमंधः” इत्यनुचरस्तृचः 13 प्राकृत एव । एष एव नित्यः एकाहातानः । एकाहे आतानः “इंद्र नेदीयः” 17 इत्यादिः । एकाहातानादूर्ध्वम् “इत्था 18 हि सोम इन्मदे” इति पंक्तीः शंसति । ततः “अवितासि सुन्वतो 19 वृक्तबर्हिषः” इति षट्पदाः 20 । ततः “ऐकाहिकं 21 सूक्तं” शंसति । तत्र च प्रागुत्तमाया ऋचो निविदं 22 दधाति । इति मरुत्वतीयम्- इत्युपसंहारः ॥ ९ ॥
Eggeling
- Then as to the midday-service. For the obtainment of the Aśvamedha, the atichandas (verse, II, 22, 1), ‘In the three troughs the buffalo drank the barley-draught,’ is the opening verse of the Marutvatīya (śastra); for outstanding, indeed, is this atichandas (hypercatalectic verse) amongst metres, and outstanding is the Aśvamedha amongst sacrifices. This (verse), being recited thrice, amounts to a triplet, and thereby he obtains the object of desire which (may be contained) in the triplet. ‘Here, O good one, is the pressed plant’ (R̥g-veda VIII, 2, 1-3) is the ‘anucara’ (sequent triplet): this same (triplet) is the constant
connecting link of the one-day’s sacrifice 23. Having recited both the paṅkti (verses, I, 80, 1-16) ‘Here in the Soma-draught alone (the Brahman gave thee strength),’ and the six-footed ones (VIII, 36, 1-7) ‘The patron thou art of the offerer of Soma,’ he inserts the Nivid in the (hymn) of the one-day’s sacrifice. Thus as to the Marutvatīya (-śastra).
१०
विश्वास-प्रस्तुतिः
(म) अथा᳘तो नि᳘ष्केवल्यम्॥
(म्म) महा᳘नाम्न्यः पृष्ठ᳘म्भवन्ति सा᳘नुरूपाः स᳘प्प्रगाथाः शᳫँ᳭सति सर्व्वे वै का᳘मा महा᳘नाम्नीषु स᳘र्व्वे का᳘मा ऽअश्वमेधे स᳘र्व्वेषाङ्का᳘मानामा᳘प्त्या ऽइ᳘न्द्रो म᳘दाय व्वावृधे᳘ प्प्रेदम्ब्र᳘ह्म व्वृत्रतू᳘र्य्येष्वाविथे᳘ति पङ्क्ती᳘श्च ष᳘ट्पदाश्च शस्त्वै᳘काहिके निवि᳘दन्दधाति कॢप्तम्मा᳘ध्यन्दिनᳫँ᳭ स᳘वनम्॥
मूलम् - श्रीधरादि
(म) अथा᳘तो नि᳘ष्केवल्यम्॥
(म्म) महा᳘नाम्न्यः पृष्ठ᳘म्भवन्ति सा᳘नुरूपाः स᳘प्प्रगाथाः शᳫँ᳭सति सर्व्वे वै का᳘मा महा᳘नाम्नीषु स᳘र्व्वे का᳘मा ऽअश्वमेधे स᳘र्व्वेषाङ्का᳘मानामा᳘प्त्या ऽइ᳘न्द्रो म᳘दाय व्वावृधे᳘ प्प्रेदम्ब्र᳘ह्म व्वृत्रतू᳘र्य्येष्वाविथे᳘ति पङ्क्ती᳘श्च ष᳘ट्पदाश्च शस्त्वै᳘काहिके निवि᳘दन्दधाति कॢप्तम्मा᳘ध्यन्दिनᳫँ᳭ स᳘वनम्॥
मूलम् - Weber
अथा᳘तो नि᳘ष्केवल्यम्॥
महा᳘नाम्न्यः पृष्ठ᳘म् भवन्ति सा᳘नुरूपाः स᳘प्रगाथाः शंसति सर्वे वै का᳘मा महा᳘नाम्नीषु स᳘र्वे का᳘मा अश्वमेधे स᳘र्वेषां का᳘मानामा᳘प्त्याइ᳘न्द्रो म᳘दाय वावृधेॗ प्रेदम् ब्र᳘ह्म वृत्रतू᳘र्येष्वाविथे᳘ ति पङ्क्ती᳘श्च ष+\पदाश्च शस्त्वै᳘काहिके निवि᳘दं दधाति कॢप्तम् मा᳘ध्यन्दिनᳫं स᳘वनम्॥
मूलम् - विस्वरम्
अथातो निष्केवल्यम् । महानाम्न्यः पृष्ठं भवंति । सानुरूपाः सप्रगाथाः शंसति । सर्वे वै कामा महानाम्नीषु । सर्वे कामा अश्वमेधे । सर्वेषां कामानामाप्त्यै । “इन्द्रो मदाय वावृधे प्रेदं ब्रह्म वृत्रतूर्येष्वाविथ”- इति पंक्तीश्च षट्पदाश्च शस्त्वा ऐकाहिके निविदं दधाति । क्लृप्तं माध्यंदिनं सवनम् ॥ १० ॥
हरिस्वामी
अथातो निष्केवल्यमिति । निष्केवल्यं माहेंद्रशस्त्रं तत् विशेषयिष्यत इति शेषः । महानाम्न्यः 24 शक्वर्यः । सिमास्वसाक्षरस्य । ताभिः शाक्वरं 25 लक्ष्यते । शाक्वरं मध्यमे अहनि पृष्ठं भवति । पुरविवक्षयोपन्यासः । एषः अंगं तस्य ता महानाम्नीः स्तोत्रियाः । सहानुरूपेण 26 तृचेन “स्वादोः” “इत्था” “विपूवतः” इति सह च प्रगाथेन 27 होता शंसति । सर्वे कामा महानाम्नीषु । आयताः सर्वकामप्रदास्ता इत्यर्थः । “इन्द्रो मदाय” 17 इति पंक्तीः । “प्रेदं 18 ब्रह्म” इति षट्पदाः शस्त्वा ऐकाहिके “इंद्रस्य 19 नु वीर्याणि प्रवोचम्” इत्येतस्मिन् सूक्ते निविदं दधाति ॥ १० ॥
Eggeling
- Then as to the Nishkevalya (-śastra 28). The Mahānāmnī (verses) are the Pr̥shṭḥa (-stotra); and he recites them along with the anurūpa (verses) and pragātha (-strophes), for the obtainment of all the objects of his desire, for in the Mahānāmnīs, as well as in the Aśvamedha, are contained all objects of desire. Having recited the paṅkti verses (I, 81, 1-9) ‘Indra hath grown in ebriety and strength,’ and the six-footed ones (VIII, 37, 1-7) ‘This sacred work didst thou protect in
fights with Vr̥tra,’ he inserts the Nivid in the (hymn) of the one-day’s sacrifice 29. The midday-service is (thus) set right.
११
विश्वास-प्रस्तुतिः
(म) अथा᳘तस्तृतीयसवनम्॥
(म᳘) अ᳘तिच्छन्दा ऽएव᳘ प्रतिप᳘द्वैश्वदेव᳘स्याभि त्य᳘न्देव᳘ᳫँ᳘ सविता᳘रमो᳘ण्योरि᳘ति त᳘स्या ऽएत᳘देव ब्रा᳘ह्मणं य᳘त्पूर्व्वस्या ऽअभि᳘ त्वा देव सवितरि᳘त्यनुच᳘रो ऽभिवा᳘नभि᳘भूत्यै रूपमु᳘दुष्य᳘ देवः᳘ सविता द᳘मूना ऽइ᳘ति सावित्र᳘ᳫँ᳘ शस्त्वै᳘काहिके निवि᳘दन्दधाति मही द्या᳘वापृथिवी᳘ ऽइह ज्ये᳘ष्ठे ऽइ᳘ति चतुर्ऋच᳘न्द्यावापृथिवी᳘यᳫँ᳭ शस्त्वै᳘काहिके निवि᳘दन्दधात्यृभु᳘र्व्वि᳘भ्वा व्वा᳘ज ऽइ᳘न्द्रो नो ऽअच्छेत्या᳘र्भ्भवᳫँ᳭ शस्त्वै᳘काहिके निवि᳘दन्दधाति को नु᳘ वां मित्रावरुणावृतायन्नि᳘ति व्वैश्वदेव᳘ᳫँ᳘ शस्त्वै᳘काहिके निवि᳘दन्दधाती᳘ति व्वैश्वदेवम्॥
मूलम् - श्रीधरादि
(म) अथा᳘तस्तृतीयसवनम्॥
(म᳘) अ᳘तिच्छन्दा ऽएव᳘ प्रतिप᳘द्वैश्वदेव᳘स्याभि त्य᳘न्देव᳘ᳫँ᳘ सविता᳘रमो᳘ण्योरि᳘ति त᳘स्या ऽएत᳘देव ब्रा᳘ह्मणं य᳘त्पूर्व्वस्या ऽअभि᳘ त्वा देव सवितरि᳘त्यनुच᳘रो ऽभिवा᳘नभि᳘भूत्यै रूपमु᳘दुष्य᳘ देवः᳘ सविता द᳘मूना ऽइ᳘ति सावित्र᳘ᳫँ᳘ शस्त्वै᳘काहिके निवि᳘दन्दधाति मही द्या᳘वापृथिवी᳘ ऽइह ज्ये᳘ष्ठे ऽइ᳘ति चतुर्ऋच᳘न्द्यावापृथिवी᳘यᳫँ᳭ शस्त्वै᳘काहिके निवि᳘दन्दधात्यृभु᳘र्व्वि᳘भ्वा व्वा᳘ज ऽइ᳘न्द्रो नो ऽअच्छेत्या᳘र्भ्भवᳫँ᳭ शस्त्वै᳘काहिके निवि᳘दन्दधाति को नु᳘ वां मित्रावरुणावृतायन्नि᳘ति व्वैश्वदेव᳘ᳫँ᳘ शस्त्वै᳘काहिके निवि᳘दन्दधाती᳘ति व्वैश्वदेवम्॥
मूलम् - Weber
अथा᳘तस्तृतीयसवनम्॥
अ᳘तिछन्दा एव᳘ प्रतिप᳘द्वैश्वदेव᳘स्याभित्यं᳘ देव᳘ᳫं᳘ सविता᳘रमोॗण्योरि᳘ति त᳘स्या एत᳘देव ब्रा᳘ह्मणं यत्पू᳘र्वस्या अभि᳘त्वा देव सवितरि᳘त्यनुचॗरोऽभिवा᳘न्भि᳘भूत्यै रूपमु᳘दु ष्य᳘ देवः᳘ सविता द᳘मूना इ᳘ति सावित्रं᳘ शस्त्वै᳘काहिके निवि᳘दं दधाति मही द्या᳘वापृथिवी᳘इह ज्ये᳘ष्थे इ᳘ति चतुरृचं᳘ द्यावापृथिवी᳘यं शस्त्वै᳘काहिके निवि᳘दं दधात्यृभु᳘र्विॗभ्वा वा᳘ज इ᳘न्द्रो नो अछेत्या᳘र्भवं शस्त्वै᳘काहिके निवि᳘दं दधाति को नु᳘ वाम् मित्रावरुणावृतायन्नि᳘ति वैश्वदेवं᳘ शस्त्वै᳘काहिके निवि᳘दं दधाती᳘ति वैश्वदेवम्॥
मूलम् - विस्वरम्
अथातस्तृतीयसवनम् । अतिच्छन्दा एव प्रतिपत् वैश्वदेवस्य । “अभि त्यं देवँ सवितारमोण्योः”- (वा. सं. ४ । २५) इति । तस्या एतदेव ब्राह्मणम्, यत्पूर्वस्याः । “अभि त्या देव सवितः”- इत्यनुचरः । अभिवानभिभूत्यै रूपम् । “उदुष्य देवः सवितादमूनाः”- इति सावित्रं शस्त्वा ऐकाहिके निविदं दधाति । “मही द्यावापृथिवी इह ज्येष्ठे”- इति चतुर्ऋचं द्यावापृथिवीयं शस्त्वा ऐकाहिके निविदं दधाति । “ऋभुर्विभ्वा वाज इंद्रो नो अच्छ”- इत्यार्भवं शस्त्वा ऐकाहिके निविदं दधाति । “को नु वां मित्रावरुणावृतायन्”- इति वैश्वदेवं शस्त्वा ऐकाहिके निविदं दधाति । इति वैश्वदेवम् ॥ ११ ॥
हरिस्वामी
अथातस्तृतीयसवनम् 30 । “अभि त्वा देव सवितः” इत्येषः अनुचरस्तृचः अभिवान्, शत्रूणां अभिभवस्य रूपम् । “उदुष्य देवः सविता दमूनाः” इत्यादीनि चत्वारि 31 आश्वमेधिकानि सूक्तानि ऐकाहिकानां पुरस्तात् शंसनीयान्येव । साग्निमारुतैर्द्वे इत्यादीनि त्रीणि 32 आश्वमेधिकानि ऐकाहिकेनैव 33 निविद्धानीयैः समुच्चिनोति ॥ ११ ॥ १२ ॥
Eggeling
- Then as to the evening-service. The atīchandas verse (Vāj. S. IV, 25), ‘Unto that god Savitr̥ within the two bowls (do I sing praises 34),’ is the opening verse 35 of the Vaiśvadeva(-śastra 36): the mystic import thereof is the same as of the former (atichandas verse). The Anucara 37 (R̥g-veda I, 24, 3-5), ‘Unto (abhi) thee, (the lord of treasures), O god Savitr̥, (ever helpful we come for our share . . .),’ contains (the word) ‘abhi,’ as a form (sign) of victory (abhibhūti). Having recited the Sāvitra (triplet, VI, 71, 4-6), ‘Up rose this god Savitr̥, the friend of the house . . .,’ he inserts the Nivid in the (hymn) of the one-day’s sacrifice 38. Having recited the four verses to Heaven and Earth (IV, 56, 1-4), ‘The mighty Heaven and Earth, the most glorious, here . . .,’ he inserts the Nivid in the (hymn I, 159) of the one-day’s sacrifice. Having recited the Ārbhava (hymn, IV, 34), ‘R̥bhu, Vibhvan, Indra, Vāja, come ye to this our sacrifice . . .,’
he inserts the Nivid in the (hymn, I, 111) of the one-day’s sacrifice. Having recited the (hymn, V, 41) to the All-gods, ‘Who is there righteous unto you, Mitra and Varuṇa? . . .,’ he inserts the Nivid in the (hymn, I, 89) of the one-day’s sacrifice. Thus as to the Vaiśvadeva (-śastra).
१२
विश्वास-प्रस्तुतिः
(म) अथा᳘त ऽआग्निमारुत᳘म्॥
(म्मू) मूर्द्धा᳘नन्दिवो᳘ ऽअरति᳘म्पृथिव्या ऽइ᳘ति व्वैश्वानरी᳘यᳫँ᳭ शस्त्वै᳘काहिके निवि᳘दन्दधात्या᳘ रुद्रास ऽइ᳘न्द्रवन्तः सजो᳘षस ऽइ᳘ति मारुत᳘ᳫँ᳘ शस्त्वै᳘काहिके निवि᳘दन्दधातीम᳘मूषु᳘वो ऽअ᳘तिथिमुषर्ब्बुधमि᳘ति नवर्च्च᳘ञ्जातवेदसी᳘यᳫँ᳭ शस्त्वै᳘काहिके निवि᳘दन्दधाति तद्यदै᳘काहिकानि निविद्धा᳘नानि भ᳘वन्ति प्रतिष्ठा वै ज्यो᳘तिष्तोमः प्प्रतिष्ठा᳘या ऽअ᳘प्रच्युत्यै॥
मूलम् - श्रीधरादि
(म) अथा᳘त ऽआग्निमारुत᳘म्॥
(म्मू) मूर्द्धा᳘नन्दिवो᳘ ऽअरति᳘म्पृथिव्या ऽइ᳘ति व्वैश्वानरी᳘यᳫँ᳭ शस्त्वै᳘काहिके निवि᳘दन्दधात्या᳘ रुद्रास ऽइ᳘न्द्रवन्तः सजो᳘षस ऽइ᳘ति मारुत᳘ᳫँ᳘ शस्त्वै᳘काहिके निवि᳘दन्दधातीम᳘मूषु᳘वो ऽअ᳘तिथिमुषर्ब्बुधमि᳘ति नवर्च्च᳘ञ्जातवेदसी᳘यᳫँ᳭ शस्त्वै᳘काहिके निवि᳘दन्दधाति तद्यदै᳘काहिकानि निविद्धा᳘नानि भ᳘वन्ति प्रतिष्ठा वै ज्यो᳘तिष्तोमः प्प्रतिष्ठा᳘या ऽअ᳘प्रच्युत्यै॥
मूलम् - Weber
अथा᳘त आग्निमारुत᳘म्॥
मूर्धा᳘नं दिवो᳘ अरति᳘म् पृथिव्या इ᳘ति वैश्वानरी᳘यं शस्त्वै᳘काहिके निवि᳘दं दधात्या᳘ रुद्रास इ᳘न्द्रवन्तः सजो᳘षस इ᳘ति मारुतं᳘ शस्त्वै᳘काहिके निवि᳘दं दधातीम᳘मूषु᳘ वो अ᳘तिथिमुषर्बु᳘धमि᳘ति 39 नवर्चं᳘ जातवेदसी᳘यं शस्त्वै᳘काहिके निवि᳘दं दधाति तद्यदै᳘काहिकानि निविद्धा᳘नानि भ᳘वन्ति प्रतिष्ठा वै ज्यो᳘तिष्तोमः प्रतिष्ठा᳘या अ᳘प्रच्युत्यै॥
मूलम् - विस्वरम्
अथात आग्निमारुतम् । “मूर्द्धानं दिवो अरतिं पृथिव्याः”- (वा. सं. ७ । २४) इति वैश्वानरीयं शस्त्वा ऐकाहिके निविदं दधाति । “आ रुद्रास इंद्रवंतः सजोषसः”- इति मारुतं शस्त्वा ऐकाहिके निविदं दधाति । “इममूषु वो अतिथिमुषर्बुधम्”- इति । नवर्चं जातवेदसीयं शस्त्वा ऐकाहिके निविदं दधाति । तद्यत् ऐकाहिकानि निविद्धानानि भवंति । प्रतिष्ठा वै ज्योतिष्टोमः । प्रतिष्ठाया अप्रच्युत्यै ॥ १२ ॥
हरिस्वामी
[व्याख्यानं एकादशे]
Eggeling
- Then as to the Āgnimāruta 40. Having recited the (hymn, VI, 7) to (Agni) Vaiśvānara, ‘The head of the sky, and the disposer of the earth . . .,’ he inserts the Nivid in the (hymn, III, 3) of the one-day’s sacrifice. Having recited the (hymn, V, 57) to the Maruts, ‘Hither, O Rudras, come ye united with Indra . . .,’ he inserts the Nivid in the (hymn, I, 87) of the one-day’s sacrifice. Having recited the nine verses (VI, 15, 1-9) to Jātavedas, ‘This guest of yours, the early-waking . . .,’ he inserts the Nivid in the (hymn, I, 143) of the one-day’s sacrifice. And as to why the (hymns) of the one-day’s sacrifice are used for inserting the Nivid, it is for the sake of his (the Sacrificer’s) not being deprived of a firm foundation, for the Jyotishṭoma is a foundation.
१३
विश्वास-प्रस्तुतिः
त᳘स्यैते᳘ पशवो[[!!]] भवन्ति॥
(न्त्य᳘) अ᳘श्वस्तूपरो᳘ गोमृग ऽइ᳘ति प᳘ञ्चदश प᳘र्य्यङ्ग्यास्ते᳘षामुक्तम्ब्रा᳘ह्मणम᳘थैत᳘ ऽआरण्या᳘ व्वसन्ता᳘य कपि᳘ञ्जलाना᳘लभते ग्ग्रीष्मा᳘य कलवि᳘ङ्कान्वर्ष्षा᳘भ्यस्तित्ति᳘रीनिति[[!!]] ते᳘षाम्वे᳘वोक्तम्॥
मूलम् - श्रीधरादि
त᳘स्यैते᳘ पशवो[[!!]] भवन्ति॥
(न्त्य᳘) अ᳘श्वस्तूपरो᳘ गोमृग ऽइ᳘ति प᳘ञ्चदश प᳘र्य्यङ्ग्यास्ते᳘षामुक्तम्ब्रा᳘ह्मणम᳘थैत᳘ ऽआरण्या᳘ व्वसन्ता᳘य कपि᳘ञ्जलाना᳘लभते ग्ग्रीष्मा᳘य कलवि᳘ङ्कान्वर्ष्षा᳘भ्यस्तित्ति᳘रीनिति[[!!]] ते᳘षाम्वे᳘वोक्तम्॥
मूलम् - Weber
त᳘स्यैते᳘ पश᳘वो भवन्ति॥
अ᳘श्वस्तूपरो᳘ गोमृग इ᳘ति पञ्चदश प᳘र्यङ्ग्यास्ते᳘षामुक्तम् ब्रा᳘ह्मणम᳘थैत᳘ आरण्या᳘ वसन्ता᳘य कपि᳘ञ्जलाना᳘लभते ग्रीष्मा᳘य कलविङ्का᳘न्वर्षा᳘भ्यस्तित्ति᳘रीनि᳘ति ते᳘षाम्वेॗवोक्तम्॥
मूलम् - विस्वरम्
तस्यैते पशवो भवंति । “अश्वः तूपरः गोमृगः”- (वा. सं. २४ । १) इति पंचदश पर्यंग्याः । तेषामुक्तं 41 ब्राह्मणम् । अथैत आरण्याः । “वसंताय कपिंजलानालभते, ग्रीष्माय कलविंकान्, वर्षाभ्यस्तित्तिरीन्"- (वा. सं. २४ । २०) इति । तेषाम् 42 उ एवोक्तम् ॥ १३ ॥
41 : “तेषामुक्तं ब्राह्मणम्” । (श. प. १३ । २ । १ । १२ ।)
हरिस्वामी
तस्यैते पशवः । तस्य मध्यमस्याह्नः एते अश्वादयः पशवो भवंति । इति कंडिकाद्वयेन एकः 41 पशुकल्पः उपन्यस्य प्रतिषिद्धः ॥ १३ ॥ १४ ॥
Eggeling
- For this (day) there are those sacrificial animals–‘A horse, a hornless he-goat, and a Gomr̥ga 43,’ fifteen ‘paryaṅgyas’: the mystic import of these has been explained. Then these wild ones–for spring he seizes (three) kapiñjalas 44, for summer sparrows, for the rainy season partridges: of these
(wild animals) also (the mystic import) has been told 45.
१४
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थैताने᳘कविᳫँ᳭शतये॥
चातुर्म्मास्यदेवता᳘भ्य ऽए᳘कविᳫँ᳭शतिमेकविᳫँ᳭शतिम्पशूना᳘लभत ऽएता᳘वन्तो वै स᳘र्व्वे देवा या᳘वत्यश्चातुर्मास्यदेवताः स᳘र्व्वे का᳘मा ऽअश्वमेधे स᳘र्व्वान्देवा᳘न्प्रीत्वा स᳘र्व्वान्का᳘मानाप्नवानी᳘ति न त᳘था कुर्य्यात्॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थैताने᳘कविᳫँ᳭शतये॥
चातुर्म्मास्यदेवता᳘भ्य ऽए᳘कविᳫँ᳭शतिमेकविᳫँ᳭शतिम्पशूना᳘लभत ऽएता᳘वन्तो वै स᳘र्व्वे देवा या᳘वत्यश्चातुर्मास्यदेवताः स᳘र्व्वे का᳘मा ऽअश्वमेधे स᳘र्व्वान्देवा᳘न्प्रीत्वा स᳘र्व्वान्का᳘मानाप्नवानी᳘ति न त᳘था कुर्य्यात्॥
मूलम् - Weber
अ᳘थैताने᳘कविंशतये॥
चातुर्मास्यदेवता᳘भ्य ए᳘क्विंशतिमेकविंशतिम् पशूना᳘लभत एता᳘वन्तो वै स᳘र्वे देवा या᳘वत्यश्चातुर्मास्यदेवताः स᳘र्वे का᳘मा अश्वमेधे स᳘र्वान्देवा᳘न्प्रीत्वा स᳘र्वान्का᳘मानाप्नवानी᳘ति न त᳘था कुर्यात्॥
मूलम् - विस्वरम्
अथैतानेकविंशतये चातुर्मास्यदेवताभ्य एकविंशतिमेकविंशतिं पशूनालभते । एतावन्तो वै सर्वे देवाः । यावत्यश्चातुर्मास्यदेवताः । सर्वे कामा अश्वमेधे । सर्वान् देवान् प्रीत्वा सर्वान् कामानाप्नवानीति । न तथा कुर्यात् ॥ १४ ॥
हरिस्वामी
[व्याख्यानं त्रयोदशे]
Eggeling
- Then those (victims) for the twenty-one (stakes). He seizes twenty-one animals for each of the (eleven) deities of the Seasonal offerings 46; for as many as there are gods of the Seasonal offerings so many are all the gods; and all objects of desire are in the Aśvamedha: ‘by gratifying all the deities I shall gain all my desires,’ so he thinks. But let him not proceed in this way.
१५
विश्वास-प्रस्तुतिः
(त्स) सप्त᳘दशैव᳘ पशू᳘न्मध्यमे यू᳘प ऽआ᳘लभेत॥
प्रजा᳘पतिः सप्तदशः स᳘र्व्वᳫँ᳭ सप्तदशः स᳘र्व्वमश्वमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै षो᳘डश षोडशे᳘तरेषु षो᳘डश कलम्वा᳘ ऽइदᳫँ᳭ स᳘र्व्वᳫँ᳭ स᳘र्व्वमश्वमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै त्र᳘योदश त्रयोदशारण्या᳘नाकाशेष्वा᳘लभते त्र᳘योदश मा᳘साः सम्वत्सरः स᳘र्व्वᳫँ᳭ सम्वत्सरः स᳘र्व्वमश्वमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै॥
मूलम् - श्रीधरादि
(त्स) सप्त᳘दशैव᳘ पशू᳘न्मध्यमे यू᳘प ऽआ᳘लभेत॥
प्रजा᳘पतिः सप्तदशः स᳘र्व्वᳫँ᳭ सप्तदशः स᳘र्व्वमश्वमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै षो᳘डश षोडशे᳘तरेषु षो᳘डश कलम्वा᳘ ऽइदᳫँ᳭ स᳘र्व्वᳫँ᳭ स᳘र्व्वमश्वमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै त्र᳘योदश त्रयोदशारण्या᳘नाकाशेष्वा᳘लभते त्र᳘योदश मा᳘साः सम्वत्सरः स᳘र्व्वᳫँ᳭ सम्वत्सरः स᳘र्व्वमश्वमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै॥
मूलम् - Weber
सप्त᳘दशैव᳘ पशू᳘न्मध्यमे यू᳘प आ᳘लभेत्॥
प्रजा᳘पतिः सप्तदशः स᳘र्वᳫं सप्तदशः स᳘र्वमश्वमेधः स᳘र्वस्या᳘प्तै स᳘र्वस्या᳘वरुध्यै षो᳘डश षोडशे᳘तरेषु षो᳘डश्कलम् वा᳘ इदᳫं स᳘र्वᳫं स᳘र्वमश्वमेधः स᳘र्वस्याप्तै स᳘र्वस्या᳘वरुध्यै त्र᳘योदश त्रयोदशारण्या᳘नाकाशेष्वा᳘लभते त्र᳘योदश मा᳘साः सम्वत्सरः स᳘र्वᳫं सम्वत्सरः स᳘र्वमश्वमेधः स᳘र्वस्या᳘प्तै स᳘र्वस्या᳘वरुध्यै॥
मूलम् - विस्वरम्
सप्तदशैव पशून्मध्यमे यूप आलभेत । प्रजापतिः सप्तदशः । सर्वं सप्तदशः । सर्वमश्वमेधः । सर्वस्याप्त्यै । सर्वस्यावरुद्ध्यै । षोडश षोडशेतरेषु । षोडशकलं वा इदं सर्वम् । सर्वमश्वमेधः । सर्वस्याप्त्यै । सर्वस्यावरुद्ध्यै । त्रयोदश त्रयोदशारण्यानाकाशेष्वालभते । त्रयोदश मासाः संवत्सरः । सर्वं संवत्सरः । सर्वमश्वमेधः । सर्वस्याप्त्यै । सर्वस्यावरुद्ध्यै ॥ १५ ॥
हरिस्वामी
सप्तदशैव पशून् इति कल्पान्तरं पूर्वोपसंहृतम् ॥ १५ ॥
Eggeling
- Let him seize seventeen victims for the central stake 47, in order that he may gain and secure every-thing,
for the seventeenfold is Prajāpati, and the seventeenfold (stoma) is everything, and the Aśvamedha is everything;–and sixteen at each of the other (stakes) in order that he may gain and secure everything, for everything here consists of sixteen parts, and the Aśvamedha is everything. Thirteen wild (beasts) he seizes for each intermediate space, in order that he may gain and secure everything, for the year consists of thirteen months, and the Aśvamedha is everything.
१६
विश्वास-प्रस्तुतिः
(द्ध्या ऽअ᳘) अ᳘थ पुरा᳘ बहिष्पवमानात्॥
(द᳘) अ᳘श्वन्नि᳘क्त्वोदा᳘नयन्ति ते᳘न प᳘वमानाय सर्प्पन्ति त᳘स्योक्तम्ब्रा᳘ह्मणᳫँ᳭ स्तुते᳘ बहिष्पवमाने᳘ ऽश्वमास्तावमा᳘क्रमयन्ति स यद्य᳘व वा जि᳘घ्रेद्वि᳘ वा व᳘र्त्तेत स᳘मृद्धो मे यज्ञ ऽइ᳘ति ह व्विद्यात्त᳘मुपाकृ᳘त्याध्वर्य्यु᳘राह हो᳘तरभि᳘ष्टुही᳘ति त᳘मेकादश᳘भिर्हो᳘ता ऽभि᳘ष्टौति॥
मूलम् - श्रीधरादि
(द्ध्या ऽअ᳘) अ᳘थ पुरा᳘ बहिष्पवमानात्॥
(द᳘) अ᳘श्वन्नि᳘क्त्वोदा᳘नयन्ति ते᳘न प᳘वमानाय सर्प्पन्ति त᳘स्योक्तम्ब्रा᳘ह्मणᳫँ᳭ स्तुते᳘ बहिष्पवमाने᳘ ऽश्वमास्तावमा᳘क्रमयन्ति स यद्य᳘व वा जि᳘घ्रेद्वि᳘ वा व᳘र्त्तेत स᳘मृद्धो मे यज्ञ ऽइ᳘ति ह व्विद्यात्त᳘मुपाकृ᳘त्याध्वर्य्यु᳘राह हो᳘तरभि᳘ष्टुही᳘ति त᳘मेकादश᳘भिर्हो᳘ता ऽभि᳘ष्टौति॥
मूलम् - Weber
अ᳘थ पुरा᳘ बहिष्पवमानात्॥
अ᳘श्वं निॗक्त्वोदा᳘नयन्ति ते᳘न पावमानाय सर्पन्ति त᳘स्योक्तम् ब्रा᳘ह्मणᳫं स्तुते᳘ बहिष्पवमाने᳘ऽश्वमास्तावमा᳘क्रमयन्ति स यद्य᳘व वा जि᳘घ्रेद्वि᳘ वा व᳘र्तेत् स᳘मृद्धो मे यज्ञ इ᳘ति ह विद्यात्त᳘मुपाकृ᳘त्याध्वर्यु᳘राह हो᳘तरभि᳘ष्टुही᳘ति त᳘मेकादश᳘भिर्हो᳘ताभि᳘ष्टौति॥
मूलम् - विस्वरम्
अथ पुरा बहिष्पवमानात् अश्वं निक्त्वोदानयन्ति । तेन पवमानाय सर्पन्ति । तस्योक्तं 48 ब्राह्मणम् । स्तुते बहिष्पवमाने ऽश्वमास्तावमाक्रमयन्ति । स यद्यव वा जिघ्रेत् । वि वा वर्तेत । समृद्धो मे यज्ञ इति ह विद्यात्, तमुपाकृत्य, अध्वर्युराह । “होतरमिष्टुहि"- इति । तमेकादशभिर्होता ऽभिष्टौति ॥ १६ ॥
हरिस्वामी
अथ पुरा बहिष्पवमानात् । अथ पुरा तेनानेनाश्वेन सह सर्पंति 48 । स्तुते बहिष्पवमाने 49 उद्गातृभिः अस्मादेव वचनात् “यदुद्गातोद्गायेत्” इत्यत्र च । उद्गातुरपरः अवजिघ्रेत् वा विवर्तेत तत्र लोठेत् । ततः समृद्धं यज्ञं विद्यात् ॥ १६ ॥
Eggeling
- Now, prior to the (chanting of the) Bahishpavamāna, they (the assistants of the Adhvaryu) bring up the horse, after cleansing it; and with it they glide along for the Pavamāna: the mystic import of this has been explained 50. When the Bahishpavamāna has been chanted, they make the horse step on the place of chanting: if it sniffs, or turns away, let him know that his sacrifice is successful. Having led up that (horse), the Adhvaryu says, ‘Hotr̥, sing praises!’ and the Hotr̥ sings its praises 51 with eleven (verses, R̥g-veda I, 163, 1-11)–
१७
विश्वास-प्रस्तुतिः
यद᳘क्रन्दः प्रथमं जा᳘यमान ऽइ᳘ति॥
त्रिः᳘ प्रथम᳘या त्रि᳘रुत्तम᳘या ताः प᳘ञ्चदश स᳘म्पद्यन्ते पञ्चदशो वै व्व᳘ज्ज्रो व्वी᳘र्य्यम्व᳘ज्ज्रो व्व᳘ज्ज्रेणै᳘वैत᳘द्वी᳘र्य्येण य᳘जमानः पुर᳘स्तात्पाप्मा᳘नम᳘पहते तद्वै य᳘जमानायैव व्व᳘ज्ज्रः प्र᳘दीयते[[!!]] यो ऽस्य तृ᳘त्यस्तᳫँ᳭ स्त᳘र्त्तव ऽउ᳘प प्रा᳘गाच्छ᳘सनम्वाज्यर्व्वो᳘प प्प्रा᳘गात्परमं य᳘त्सध᳘स्थमि᳘ति॥
मूलम् - श्रीधरादि
यद᳘क्रन्दः प्रथमं जा᳘यमान ऽइ᳘ति॥
त्रिः᳘ प्रथम᳘या त्रि᳘रुत्तम᳘या ताः प᳘ञ्चदश स᳘म्पद्यन्ते पञ्चदशो वै व्व᳘ज्ज्रो व्वी᳘र्य्यम्व᳘ज्ज्रो व्व᳘ज्ज्रेणै᳘वैत᳘द्वी᳘र्य्येण य᳘जमानः पुर᳘स्तात्पाप्मा᳘नम᳘पहते तद्वै य᳘जमानायैव व्व᳘ज्ज्रः प्र᳘दीयते[[!!]] यो ऽस्य तृ᳘त्यस्तᳫँ᳭ स्त᳘र्त्तव ऽउ᳘प प्रा᳘गाच्छ᳘सनम्वाज्यर्व्वो᳘प प्प्रा᳘गात्परमं य᳘त्सध᳘स्थमि᳘ति॥
मूलम् - Weber
यद᳘क्रन्दः प्रथमं जा᳘यमान इ᳘ति॥
त्रिः᳘ प्रथम᳘या त्रि᳘रुत्तम᳘या ताः प᳘ञ्चदश स᳘म्पद्यन्ते पञ्चदशो वै व᳘ज्रो वीर्य᳘म् व᳘ज्रो व᳘ज्रेणैॗवैत᳘द्वीॗर्येण य᳘जमानः पुर᳘स्तात्पाप्मा᳘՚म् व᳘ज्रो व᳘ज्रेणैॗवैत᳘द्वीॗर्येण य᳘जमानः पुर᳘स्तात्पाप्मा᳘नम᳘पहते तद्वै य᳘जमानायैव व᳘ज्रः प्र᳘दीयतेॗ योऽस्य स्तृ᳘त्यस्तᳫं स्त᳘र्तव उ᳘प प्रा᳘गाछ᳘सनम् वाज्यर्वो᳘प प्रा᳘गात्परमंय᳘त्सध᳘स्थमि᳘ति॥
मूलम् - विस्वरम्
“यदक्रंदः प्रथमं जायमानः”- (वा. सं. २९ । १२ । २२) इति त्रिः प्रथमया, त्रिरुत्तमया, ताः पंचदश संपद्यन्ते । पंचदशो वै वज्रः । वीर्यं वज्रः । वज्रेणैवैतद्वीर्येण यजमानः पुरस्तात्पाप्मानमपहते । तद्वै यजमानायैव वज्रः प्रदीयते । यो ऽस्य स्तृत्यः । तं स्तर्तवे । “उप प्रागाच्छसनं वाज्यर्वा, उप प्रागात्परमं यत्सधस्थम्”- (वा. सं. २९ । २३ । २४) इति ॥ १७ ॥
हरिस्वामी
तद्वै यजमानायैव । तद्वै इत्यत्र स वै इति लिंगव्यत्ययः । पंचदशो वज्रः यजमानायैव प्रदीयते । किमर्थं ? यः अस्य यजमानस्य स्तृत्यः । “स्तृ हिंसायाम्”- (धा. पा. स्वा. प. ६) हिंसनीयः शत्रुः सन् वर्तते । तुमर्थे तवेङ् प्रत्ययः । तं स्तर्तुं स्तरीतुं हंतुमित्यर्थः । “उप प्रागात्” इत्येते उद्धृत्य अश्वसूक्तात् । “यदक्रंदः” इत्येतत् एकादशभिरयं होता अभिष्टौति इति संबंध ॥ १७ ॥
Eggeling
- ‘When, first born, thou didst neigh . . .’–thrice (he praises) with the first, and thrice with the last (verse), these amount to fifteen,–fifteenfold is the thunderbolt, and the thunderbolt means vigour: with that thunderbolt, vigour, the Sacrificer thus from the very first repels evil: thus 52, indeed, it is to the Sacrificer that the thunderbolt is given in
order to smite for him whoever is to be smitten.–[R̥g-veda I, 163, 12. 13], The swift racer hath gone forward to the slaying. . . .’–‘The racer hath gone forward to the highest place. . .’–
१८
विश्वास-प्रस्तुतिः
(त्ये) एते᳘ ऽउद्धृ᳘त्य॥
मा᳘ नो मित्रो व्व᳘रुणो ऽअय्य᳘र्मा ऽऽयुरि᳘त्येत᳘त्सूक्तम᳘ध्रिगावा᳘वपति च᳘तुस्त्रिᳫँ᳭शद्वाजि᳘नो देव᳘बन्धोरि᳘त्युहै᳘क ऽएताम्व᳘ङ्क्रीणाम्पुर᳘स्ताद्दधति नेद᳘नायतने प्रणवन्द᳘धामेत्य᳘थो ने᳘देकवचने᳘न बहुवचन᳘म्व्यवा᳘यामे᳘ति न त᳘था कुर्य्यात्सार्द्ध᳘मेव᳘ सूक्तमा᳘वपेदु᳘प प्रा᳘गाच्छ᳘सनं वाज्यर्व्वो᳘प प्रा᳘गात्परमं य᳘त्सध᳘स्थमि᳘ति॥
मूलम् - श्रीधरादि
(त्ये) एते᳘ ऽउद्धृ᳘त्य॥
मा᳘ नो मित्रो व्व᳘रुणो ऽअय्य᳘र्मा ऽऽयुरि᳘त्येत᳘त्सूक्तम᳘ध्रिगावा᳘वपति च᳘तुस्त्रिᳫँ᳭शद्वाजि᳘नो देव᳘बन्धोरि᳘त्युहै᳘क ऽएताम्व᳘ङ्क्रीणाम्पुर᳘स्ताद्दधति नेद᳘नायतने प्रणवन्द᳘धामेत्य᳘थो ने᳘देकवचने᳘न बहुवचन᳘म्व्यवा᳘यामे᳘ति न त᳘था कुर्य्यात्सार्द्ध᳘मेव᳘ सूक्तमा᳘वपेदु᳘प प्रा᳘गाच्छ᳘सनं वाज्यर्व्वो᳘प प्रा᳘गात्परमं य᳘त्सध᳘स्थमि᳘ति॥
मूलम् - Weber
एते᳘ उद्धृ᳘त्य॥
मा᳘ नो मित्रो व᳘रुणो अर्यॗमायुरि᳘त्येत᳘त्सूक्तम᳘ध्रिगावा᳘वपति च᳘तुस्त्रिंशद्वाजि᳘नो देव᳘बन्धोरि᳘त्यु है᳘क एताम् व᳘ङ्क्रीणाम् पुर᳘स्ताद्दधति नेद᳘नायतने प्रणवं द᳘धामेत्य᳘थो ने᳘देकवचने᳘न बहुवचन᳘म् व्यवा᳘यामे᳘ति न त᳘था कुर्यात्सार्ध᳘मेष᳘ सूक्तमा᳘वपेदु᳘प प्रा᳘गाछ᳘सनम् वाज्यर्वो᳘प प्रा᳘गात्परमंय᳘त्सध᳘स्थमि᳘ति॥
मूलम् - विस्वरम्
एते उद्धृत्य । “मा नो मित्रो वरुणो अर्यमा ऽऽयुः”- (वा. सं. २५ । २४-४०) इत्येतत्सूक्तमध्रिगावावपति । “चतुस्त्रिंशद्वाजिनो देवबंधोः”- (वा. सं. २५ । ४१) इति उ हैके । एतां वंक्रीणां पुरस्ताद्दधति । नेदनायतने प्रणवं दधामेति । अथो नेत् एकवचनेन बहुवचनं व्यवायामेति । न तथा कुर्यात् । सार्द्धमेव सूक्तमावपेत् । “उप प्रागाच्छसनं वाज्यर्वा, उप प्रागात्परमं यत्सधस्थम्”- (वा. सं. २९ । २३ । २४ ।) इति ॥ १८ ॥
हरिस्वामी
एते उद्धृत्य । “मा नो मित्रः” इत्येतत्सूक्तं 53 होता वाचयति “अध्रिगो शमीध्वं” इत्येतस्मात् प्राक् । अत्र सूक्ते उच्यमाने “चतुस्त्रिंशद्वाजिनः” 54 इत्येतामृचं स्वस्थानादपनीय वंक्रीणां पुरस्तात् आवपति । “षड्विँशतिरस्य 55 वंक्रयस्ता अनुष्ठ्योच्च्यावयतात्" इत्येतस्य वंक्रीवचनस्य पुरस्ताद्दधाति । वंक्रीभिः अत्र तदर्थं वचनं लक्ष्यते । कुतः ? वंक्रीणां पुरस्ताद्देशे पुरस्तात् काले वा ऋचो धातुमशक्यत्वात्केन पुनरभिप्रायेण तामृचं वंक्रीवचनस्य पुरस्तात् दधाति इत्यत आह- तत्रानायतने अस्थाने प्रणवं दधाम इत्यनेनाभिप्रायेण । यदि किल एषा स्वक्रम एव सूक्तांतर्गता पुरस्तात्कृता । ततः प्रणवः अस्या अंते कृतेन प्रणवेनार्द्धर्चशः संदध्यादिति । तस्य च प्रणवस्यानायतनमस्थानमेषा । कुतः ? प्रैषात्मिका ह्येषा । कथं ह्येवं ह्यत्र शमितारः अनुशिष्यंति हि शमितारः । अश्वस्य चतुःस्त्रिंशद्वंक्रीस्वधिविच्छन्दः संप्राप्नोति । न पश्वंतराणां एष तावत् विशंसति । एतद्विदित्वा अच्छिद्रे अखंडे गात्रे पार्श्वे वयुना प्रज्ञया कुरुत । एकैकं पार्श्वं सप्तदशपर्शुकं पूरणीयमिति परुःपरुः पर्व पर्व पशूनामनुघुष्यात् । “घुषिरविशब्दने”- (धा. पा. चु. प. १९३) अनुपूर्वं विशब्दा गणयित्वा विशस्ति । एवं स्वे यथा अन्यानि प्रैषवचनानि प्रणवस्यानायतनम् । एवमेषामपीत्यभिप्रायः । अथो अपि । नेत् एकवचनेन एकस्याश्वस्य वंक्रीवचनं एकवचनम् । चतुस्त्रिंशद्वाजिन इत्येतत् । नैकवचनेन बहूनां पशूनां वंक्रीवचनं बहुवचनं षड्विंशतिः षड्विंशतिरित्येषा बहवस्ता अनुष्ठ्योच्च्यावयतादिति । एतत् तन्मा एतत्रंता (?) वंक्रीः व्यवायाम व्यवहितं विच्छिन्नं करवाम । वंक्रीयताप्रकाशनमेकदेशमयुक्तम् । तथैकमेकदेशं भवति । यदि एषा ऋक् वंक्रीवचनस्य पुरस्ताद्धीयते । तद्विप्रकृतौ कृतदेशमेषा नु ऋगपूर्वा अकृतस्थाना । तस्यास्तत्तद्देशता युक्ता न विपर्यय इत्यभिप्रायः । न तथा कुर्यात् । चतुस्त्रिंशद्वाजिन इत्येतां न सूक्तात् अपनयेत् । न च वंक्रीणां पुरस्ताद्दध्यादित्यर्थः । कथं कुर्यात् । सार्धमेव सूक्तं सकलमेव सूक्तं सह तया ऋचा आवपेत् । आवापस्थाने प्रसिद्धे धीयन्ते इत्यर्थः । अत्र प्रैषरूपा एषा ऋक् आयतनं प्रणवस्येति । ऋक्त्वादायतनं प्रवोकजात (?) इति वचनादभविष्यत् । यदप्युक्तं वंक्रीप्रकाशनं समानदेशयुक्तमिति तदपि वचनात् भिन्नदेशं भविष्यतीति श्रुतेरभिप्रायः । एतच्च “मा नो मित्रः” इति सूक्तं परिसमाप्य “उप प्रागात्” इत्येवैते च तत्रैवाध्रिगावावपेत् ॥ १८ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे काण्डे पंचमे ऽध्याये प्रथमं ब्राह्मणम् ॥ (१३ । ५ । १) ॥
Eggeling
- Having omitted these two (verses), he inserts the hymn (I, 162), ‘Never (shall forget us) Mitra, Varuṇa, Aryaman, Āyu . . .,’ in the Adhrigu 56 (litany). Some, however, insert this verse (I, 162, 18), ‘Thirty-four (ribs) of the steed, akin to the gods, (doth the knife hit) . . .,’ before the (passage,–’twenty-six are its) ribs,’ thinking lest they should place the holy syllable ‘om’ in the wrong place 57, or lest they should suggest the plural by a singular 58. Let him not proceed thus, but let him insert the hymn as a whole.–‘The swift racer hath gone forward to the slaying . . .’–The racer hath gone forward to the highest place . . .’–
-
प्रातरग्निष्टोमः । का. श्रौ. सू. २० । १०३ । ↩︎
-
375:3 Regarding the Catushṭoma, see p. 329, note 1. ↩︎
-
376:1 According to the practice here referred to, the Agnishṭomasāman would not consist merely of the one triplet (usually Sāmav. II, 53-4 i.e. the so-called yajñāyajñīya triplet) ordinarily used for it, but of four different Sāmans, inasmuch as three of the triplets which may be used for the Uktha-stotras (of the Ukthya and other sacrifices) are added to that yajñāyajñīya triplet. In that case, however, the latter is not chanted to its own ‘yajñāyajñīya’ tune, but the Vāravantīya tune is used for all the four triplets. This practice is somewhat vaguely referred to in Tāṇḍya-Br. XIX, 5, 10-11. ‘One Sāman (tune), many metres (texts): therefore one (man) feeds many creatures. Verily, the Agnishṭoma (sāman) is the self, and the metres (hymn-texts) are cattle: he thus secures cattle for his own self. It is neither an Ukthya nor an Agnishṭoma (sacrifice), for cattle are neither (entirely) domestic nor wild (viz. because though kept “in the village,” they also freely graze “in the forest”).’ Here the passage ‘One Sāman, many metres,’ according to the commentary, refers to the Vāravantīya tune as being employed, on this occasion, for the texts of the Yajñāyajñīya, the Sākamaśva (II, 55-57, here the Calc. ed., by mistake, calls the second tune figured for chanting, like the first, Sākamaśva, instead of Vāravantīya), the Saubhara (II, 230-2, where the Calc. ed., by mistake, omits the name Vāravantīya), and the Tairaśca (II, 233-5; curiously enough, the Tairaśca is not mentioned, in Lāṭy. Sr. VIII, 9-10, amongst the Sāmans that may be used for the third–or the Acchāvāka’s–Uktha, but Sāyaṇa, on Sāmav. II, 233, states distinctly, ’tairaścaṁ tr̥tīyam uktham’). Whilst, as Uktha-stotras, the last three texts would usually he chanted in the ekaviṁśa, or twenty-one-versed form, in the present instance, as part of the catushṭoma, they would be chanted (along with the Yajñāyajñīya) in the twenty-four-versed form. Thus, though an Agnishṭoma sacrifice, inasmuch as it has twelve stotras, yet it is not a regular one; neither is it an Ukthya, because the Ukthas are not chanted as so many Stotras, followed by the recitation of separate Sastras. In the Āśv. Śr. X, 6, different alternatives are proposed for the chanting of the Agnishṭoma-sāman in the ‘Gotamastoma (i.e. Catushṭoma) antarukthya’ and the corresponding Sastra, including apparently the employment of the Yajñāyajñīya-sāman either for all the four triplets, or for the Yajñāyajñīya triplet alone with the respective Sāmans used for the other triplets; different modes of recitation being thereby implied with regard to the Stotriya and Anurūpa pragāthas. ↩︎
-
377:1 For the Āgnimāruta-śastra, recited by the Hotr̥ after the chanting of the Agnishṭoma-sāman, and containing, amongst various hymns and detached verses, the triplet which forms the text of the Stotra, i.e. the ‘Stotriya pragātha,’ as well as a corresponding antistrophe, the ‘Anurūpa pragātha,’ see part ii, p. 369 note. On the present occasion, however, this constituent element of the Sastra would have to include the triplets of all the four Sāmans, as well as four ‘antistrophes’ which are thus ‘recited together.’ ↩︎
-
377:2 Or, Pr̥shṭḥa-stotra, viz. the first stotra of that name at the midday-service, for which that Sāman is used in the Agnishṭoma sacrifice (part ii, p. 339, note 2). ↩︎
-
एकादशिन्यौ सवनीयाः पशवो भवंति । का. श्रौ. सू. २० । १०४ । (द्वे एकादशिन्यौ, खिलपरिपठिते, इति हरिस्वामिनः । खिलपरिपठिता प्रथमैवैकादशिनी द्विरावृत्ता भवतीति कर्कसंप्रदायकारौ ।) उत्तरयोश्च । का. श्रौ. सू. २० । १०६ । (उत्तरयोर्द्वितीय-तृतीययोरह्नोर्द्वे द्वे एकादशिन्यौ खिलपरिपठिते सवनीयाः पशवो भवतीत्यर्थः ।) उत्तमे गावो बहुरूपाः । का. श्रौ. सू. २० । १०७ । (उत्तमे ऽहनि सर्वस्तोमातिरात्रे गावो गोजातीयाः बहुरूपा विचित्रवर्णाः एकादशिन्यः पशवो भवंतीत्यर्थः । तत्र च द्वयोरेकादशिन्योर्द्वाविंशतिर्द्वौ च प्राजापत्यौ एवं चतुर्विंशतिपशवः । मध्यम आग्नेयौ । का. श्रौ. सू. २० । १०५ । इति सवनीयानां यूपेषु नियोजनक्रमः । स चेत्थं- मध्यमे अग्निष्ठे यूपे द्वावाग्नेयौ, दक्षिणोत्तरयोर्द्वौ सारस्वतौ चतुर्थपंचमयोर्द्वौ सौम्यौ षष्ठसप्तमयोर्द्वौ पौष्णौ अष्टमनवमयोर्द्वौ बार्हस्पत्यौ दशमैकादशयोर्द्वौ वैश्वदेवौ द्वादशत्रयोदशयोर्द्वावैन्द्रौ चतुर्दशपंचदशयोर्द्वौ मारुतौ षोडशसप्तदशयोर्द्वावैंद्राग्नौ अष्टादशैकोनविंशयोर्द्वौ सावित्रौ विंशैकविंशयोर्द्वौ वारुणौ । इति एकविंशितियूपेषु द्वाविंशतिपशुनां नियोगक्रमः । अथ प्रत्यभिज्ञानार्थं सवनीयानां वर्णाः । तत्र प्रथमैकादशनीपशुवर्णाः । १ अग्नये = कृष्णवर्णकंठःछागः, २ सरस्वत्यै मेषी, ३ सोमाय बभ्रुः कपिलवर्णश्छागः, ४ पूष्णे श्यामः कृष्णलोमश्छागः, ५ बृहस्पतये शितिपृष्ठः श्यामपृष्ठश्छागः, ६ विश्वेभ्यो देवेभ्यः शिल्पः विचित्रवर्णश्छागः, ७ इंद्राय अरुणः व्यक्तरक्तवर्णश्छागः, ८ मरुद्भ्यः कल्माषः कर्बुरश्छागः, ९ इंद्राग्निभ्य संहितः दृढांगश्छागः, १० सवित्रे अधोरामः अधोदेशे श्वेतश्छागः, ११ वरुणाय कृष्णः एकशितिपात् पेत्वः एकपदे श्वेतः अन्येषु त्रिषु पदेषु कृष्णः पेत्वः पतनशीलो वेगवान् छागः, इति प्रथमैकादशिनीपशुवर्णाः । अथ द्वितीयैकादशिनी । १ अग्नये ऽनीकवते रोहितांजिः रक्तपुंड्रो ऽनड्वान्, २ सवित्रे अधोरामौ अधोदेशे श्वेतौ छागौ, २ पूष्णे रजतनाभी रजतवर्णनाभी छागौ, २ विश्वेभ्यो देवेभ्यः पिशंगौ पीतवर्णौ तूपरौ श्रृंगहीनौ छागौ, १ मरुद्भ्यः कल्माषः विचित्रवर्णश्छागः, १ अग्नये कृष्णः कृष्णवर्णः अजो मेषः, १ सरस्वत्यै मेषी, १ वरुणाय पेत्वः पीतवर्णः छागः । इति द्वितीयैकादशिनी । उत्तमे ऽहनि सर्वस्तोमातिरात्रे तु, सर्वे सवनीयाः पशवः गोजातीया एव बहुरूपा विचित्रवर्णा एवेति । ↩︎ ↩︎
-
377:3 That is, victims sacrificed on the Sutyās, or Soma-days. Two complete sets of eleven such victims are, however, required on each of the three days, see p. 309, note 2. ↩︎
-
377:4 See XIII, 2, 1, 1 seqq., and p. 297, note 1. ↩︎
-
378:1 That is one on which all Stotras are chanted in the ’ekaviṁśa’ Stoma, or twenty-one-versed hymn-form. ↩︎
-
शांखायनीयं दशर्चम् । अग्निं तं मन्ये १ सो अग्निर्यो २ अग्निर्हि वाजिनं ३ आ ते अग्न इधीमहि ४ आ ते अग्न ऋचा हविः ५ प्रोत्ये अग्नयो ६ तवत्ये अग्ने ७ नवानो अग्न आ भर ८ उभे सुश्चंद्र ९ एवां अग्निर्मनुः १० इति । आश्वलायनीयं दशर्चं चेदमेव । ↩︎ ↩︎
-
शांखायनीयं सप्तर्चम् । प्र वो देवायामग्नये १ ऋतावा यस्य २ स यंता विप्र ३ स नः शर्माणि ४ दीदिवांसं ५ उत नो ब्रह्मन् ६ नूनो रास्व ७ इति । आश्वलायनीयं च सप्तर्चं चेदमेव । आ. श्रौ. सू. उ. ष. ६ । ४ । १० । अग्निं तम्मन्य इत्याज्यं तस्यैकाहिकमुपरिष्टादिति । ↩︎ ↩︎
-
आ नो यज्ञं दिविस्पृशमिति द्वे आ नो वायो महेतन इत्येका रथेन पृथुपाजसा बहवः सूर चक्षस इमा उ वां दिविष्टयः । पिबासुतरस्य रसिनो देवदेवं वो ऽवसे देवंदेवं बृहदु गायिषे वच इति बार्हतं प्रउगमिति । आ. श्रौ. सू. उ. ष. ६ । १ ।२ ॥ ↩︎ ↩︎
-
तृचाः प्रउगे सर्वाः । इति आ. श्रौ. सू. उ. ष. ६ । १ । १ ॥ ↩︎ ↩︎
-
378:2 Viz. R̥g-veda V, 6, forming the special feature of the Ājyaśastra at the Aśvamedha. ↩︎
-
379:1 Viz. the Ājya-sūkta, R̥g-veda III, 13, forming the chief part of the Hotr̥’s Ājya-śastra, or first Śastra of the Agnishṭoma, for which see part ii, p. 327 note. ↩︎
-
379:2 The Bārhata Praüga, or Praüga-śastra in the Br̥hatī metre,–being the one recited on the fifth day of the Pr̥shṭḥya-shaḍaha (Āśv. Śr. VII, 12, 7), and consisting of the seven different triplets, addressed to as many different deities,–is to be recited also on this occasion; and along with it (or rather, intertwined with it, triplet by triplet) the ordinary Praüga-śastra of the Agnishṭoma, made up of the two hymns Rig-veda I, 2 and 3 which are ascribed to Madhuchandas, and consist of nine and twelve verses, or together seven triplets. I do not understand why Harisvāmin mentions ‘Vāyur agregāḥ’ (? Vāj. S. XXVII, 31) as being the first triplet of the Mādhuchandasa Praüga, instead of I, 2, 1-3 ‘vāyav ā yāhi darśata.’ The Praüga is the Hotr̥’s second Śastra of the morning-service, being preceded by the chanting of the first Ājya-stotra; see part ii, p. 325. ↩︎
-
“इंद्र नेदीयः” ऋ. सं. मं. ८ सू. ५३ ऋ. ५ । आतानः, पुनरपि विस्तारः । ↩︎ ↩︎
-
“इत्या हि सोम इन्मदे” ऋ. सं. मं. १ सू. ८ ऋ. १ पंक्तिच्छंदस्केयमृक् । पंक्तीः पंक्तिच्छंदस्काः ॥ ↩︎ ↩︎
-
षट्पदाः महापंक्तिच्छंदस्काः । तथा च का. सर्वा. अ. ५ कं. ८ “अष्टकौ सप्तकः षट्को दशको नवकश्च षडष्टका महापंक्तिः” इति । तत्रैव भाष्ये- “आदावष्टाक्षरौ यस्याः सप्तको ऽथ षडक्षरः । दशाक्षरो ऽथ नवकः सा महापंक्तिरुच्यते । अष्टाक्षरा वा यस्याः षट् सा महापंक्तिरेवहि” । इति । पादा इति शेषः । अष्टाचत्वारिंशदक्षरेति यावत् । ↩︎
-
ऐकाहिकं सूक्तं “जनिष्ठा उग्रः सहसे तुरायेति” इत्यादिकमेकादशर्चं सूक्तं एकाहे मूलप्रकृतिरूपे अग्निष्टोमे समुत्पन्नमिति ऐकाहिकमित्युच्यते । ऋ. सं. मं. १० सू. ७३ ऋ. १ । ↩︎
-
मूलप्रकृतिरूपे अग्निष्टोमे षण्णामृचां शंसनं कृत्वा तत ऊर्ध्वं “इंद्रो मरुत्वान्” इत्यादीनि निवित्पदानि सूक्तमध्ये धीयंते तस्मादेतत् ऐकाहिकं निविद्धानमित्यप्युच्यते । अत्र तु तानि निवित्पदानि सूक्तस्य उत्तमाया “मन्योरियायः” इत्यस्या ऋचः प्राक् निवित्पदानि धीयंते इति विशेषः । ९ । ↩︎
-
380:1 See part ii, p. 337, where the same triplet forms the anucara of this Sastra at the Agnishṭoma. It is followed there by the Pragāthas VIII, 53, 5-6; I, 40, 5-6 (read thus! each two counting as one triplet); three Dhāyyā verses, and the Marutvatīya Pragāthas VIII, 89, 3-4 (!), These are to be followed up, on the present occasion, by the two hymns I, 80, and VIII, 36, after which the Indra hymn X, 73, the chief part of the normal Marutvatīya Sastra, is to be recited, with the Nivid formula inserted after the sixth verse. ↩︎
-
महानाम्न्यः विदामघवान्” इत्याद्या नव ऋचः । ऐतरेयारण्यके ४ । १ । १ । ताः शक्वर्यः शाक्वरपृष्ठसंबंधिन्यः न तु शक्वरीच्छंदस्काः । ↩︎
-
शाक्वरं शाक्वरनाम्नः साम्नः पृष्ठस्तोत्रं तस्य महानाम्न्यः स्तोत्रियाः । ↩︎
-
अनुरूपः एकं साम तृचे गीयते तत् तृचं स्तोत्रियम् । स प्रथमस्तृचस्तोत्रियः शस्त्रस्यादौ प्रयोक्तव्यः । तत् तृचमनुपश्चात् रूप्यते पठ्यते यो द्वितीयस्तृचः स अनुरूप इत्युच्यते एवं च द्वावेतौ तृचौ शस्त्रस्यादौ पठेदित्यर्थः । स्वादोः स्वादीयः स्वादुना । ऋ. सं. मं. १० सू. १२ ऋ. ३ “इत्था हि सोम” ऋ. सं. मं. सू. ८० ऋ. १ विषुवत् । ↩︎
-
प्रगाथः अनुरूपमनुपठ्यमानः द्व्यर्थः प्रगाथः । ↩︎
-
380:2 That is, the Śastra succeeding the chanting of the first, or Hotr̥’s, Pr̥shṭḥa-stotra (see part ii, p. 339). Whilst, however, in the one-day’s sacrifice, the Rathantara (or the Br̥hat) sāman is used for that stotra, the Mahānāmni verses (see part iii, introd. p. xx, note 2), with the Sākvara tune, are to be used as the Stotriyās on this occasion, and are therefore likewise to be recited by the Hotr̥ as Stotriya-pragāthas (cf. Āśv. VII, 12, 10 seqq.), to be followed up by the antistrophe (anurūpa)–here consisting of the triplets I, 84, 10-12; VIII, 93, 31-3; I, 11, 1-3–and the Sāma-pragātha, VIII, 3, 1-2. ↩︎
-
381:1 Viz. after the eighth verse of the hymn R̥g-veda I, 32, the chief part of the normal Nishkevalya-śastra. ↩︎
-
“अभि त्यँ सावित्र्यष्टिः” इति सर्वानुक्रमे कात्यायनः । अभित्यं देवँ सवितारमोण्योः इति ऋक् सप्तस्वतिच्छंदस्सु चतुःषष्ट्यक्षरा अष्टिर्नाम्नी अतिच्छंदस्केयं प्रतिपदभिधेया भवति । ↩︎
-
उदुष्य देवः सविता दमूनाः । ५ । १ । १५ । ४ । इति सावित्रम् । (१) मही द्यावापृथिवी इह ज्येष्ठे० । ३ । ८ । ८ । १ । इति चतुर्ऋचं द्यावापृथिवीयम् । (२) ऋभुर्विभ्वा वाज इंद्रो नो अच्छ ० । ३ । ७ । ३ । १ । इत्यार्भवम् । (३) को नु वां मित्रावरुणावृतायन्० । ४ । २ । १२ । १ । इति वैश्वदेवम् । (४) । ↩︎
-
साग्निमारुतैर्द्वे इत्यादीनि । त्रीणि सूक्तानि । (५) ↩︎
-
“वैश्वदेवस्य” इत्युपक्रम्य सूक्तेषु च ऐकाहिकान्युपसंशस्य तेषु निविदो दध्यात् । आश्व. श्रौ. सू. उ. ष. ६ । ४ । १० । ↩︎
-
381:2 For the complete verse see III, 3, 2, 1 2. ↩︎
-
381:3 This verse is again recited thrice, and thus takes the place of the ordinary opening triplet. ↩︎
-
381:4 For this Śastra, recited after the Ārbhava-Pavamāna-stotra, see part ii, p. 361. ↩︎
-
381:5 Āśv. Śr. X, 10, 6 prescribes the ordinary anucara V, 82, 4-7; whence Sāyaṇa on I, 24, 3 (-5) offers no indication of the ritualistic use of that triplet on this occasion. ↩︎
-
381:6 Viz. IV, 54, before the last verse of which the Nivid is inserted. ↩︎
-
मुखर्बुधमि᳘ति A. ↩︎
-
382:1 Viz. the final Sastra of the evening-service, preceded by the chanting of the Agnishṭoma-sāman; see part ii, p. 369. ↩︎
-
आरण्यकः पशुकल्पः । पर्यग्निकरणांतं संस्कुर्यात् । ततस्तेषां नालंभः । किंतूत्सर्गः । तथा च कात्यायनः- कपिंजलादीनुत्सृजंति पर्यग्निकृतानिति । का. श्रौ. सू. २० । १४७ । ↩︎ ↩︎ ↩︎
-
तेषाम्वेवोक्तम् । ब्राह्मणमिति शेषः । (श. प. १३ । २ । ४ । १-४ ।) ↩︎
-
382:2 See p. 298, note 4; p. 338, note 1. ↩︎
-
382:3 The ‘Kapiñjala’ is a kind of wildfowl, apparently of the quail or partridge species–a hazel-cock, or francoline partridge. Some of the later authorities, however, identify it with the ‘cātaka’ (‘cuculus melanoleucus’). With regard to some of the wild animals referred to in the corresponding section of the Vāj. S., the commentator Mahīdhara significantly remarks (Vāj. S. XXIV, 29; cf. Kāty. XX, 6, 6 scholl.) that the meaning of such names as are not understood must be made out with the help of quotations (nigama), Vedic vocabularies (nighaṇṭu) and their comments (nirukta), grammar (vyākaraṇa), the Unādivr̥tti, and dictionaries. ↩︎
-
383:1 Viz. XIII, 2, 4, 1 seqq. It is not easy to see why the text should break off abruptly with the birds representing the rainy season. For autumn there are to be (three) quails, for winter ‘kakara,’ and for the dewy season ‘vikakara.’ Then follow, to the end of the 260 wild animals, a long series of divinities to each of which (or sometimes to allied deities) three animals are consigned. Thirteen of these wild animals are placed on each of the twenty spaces between the twenty-one stakes. ↩︎
-
383:2 Or, perhaps, for the (eleven) deities of the Seasonal offerings he seizes twenty-one animals for each (stake); which would certainly simplify the distribution of those animals. Regarding the victims actually consecrated to the deities of the Cāturmāsya offerings, see p. 309, note 2. ↩︎
-
383:3 This does not include the twelve ‘paryaṅgyas’ tied to the horse’s limbs, but only the horse and two other victims sacred to Prajāpati, and twelve of a long series of beasts, of which three are dedicated to each successive deity (or allied group of deities). To these are afterwards added Agni’s two victims belonging to the two sets of eleven victims (of the other twenty of which one is assigned to each of the other stakes). ↩︎
-
अश्वेनाक्रामयंत्यास्तावम् । (का. श्रौ. सू. २० । १२२ ।) आस्तावो बहिष्पवमानस्तवनप्रदेशः । ऐकादशिनानुपाकृत्याश्वादींश्च । होतरश्वमभिष्टुहीति प्रेष्यति । (का. श्रौ. सू. २० । १२३ । १२४) “तमेकादशभिरिति” अग्रिमकंडिकायां वक्ष्यमाणाभिः “यदक्रंदः प्रथमं जायमानः” इत्याद्याभिः “तव शरीरं पतयिष्णु” (वा. सं. २९ । १२-२२ । इत्यंताभिः एकादशभिर्ऋग्भिः । तथा च सर्वानुक्रमण्यां कात्यायनः- “यदक्रंदस्त्रयोदशाश्वस्तुतिस्त्रिष्टुभो भार्गवो जमदग्निर्ददर्श दीर्घतमाश्चेति” । अश्वसूक्ते त्रयोदशर्चे ऽपि “उप प्रागाच्छसनम्वाज्यर्वोप प्रागात्परमं यत्सधस्थम्” (वा. सं. २९ । २३ । २४) इत्येते उद्धृत्येति अग्रिमकंडिकोक्तश्रुतेर्द्वयोर्द्वादशीत्रयोदश्योर्ऋचोरश्वसूक्तादुद्धृतयोः सत्योरेकादशभिरेवेत्यर्थः । ↩︎
-
384:1 XIII, 2, 3, 1. ↩︎
-
384:2 The mode of recitation is similar to that of the kindling-verses (likewise eleven, brought up, by repetitions of the first and last, to fifteen), viz. by making a pause after each half-verse, but without adding the syllable ‘om’ thereto. Āśv. Śr. X, 8, 5. ↩︎
-
384:3 Harisvāmin explains ’tad vai’ as standing for ‘sa vai’ (liṅgavyatyayena)–viz. that fifteenfold thunderbolt. ↩︎
-
सर्वानुक्रमण्यां कात्यायनः- मा नो ऽश्वस्तोमीयं दीर्घतमास्त्रैष्टुभं द्वाविँशत्यृचमश्वस्तुतिरिति । (वा० सं० २५ । २४-४५) अध्रिगो शमीध्वमिति होतुर्वचनम् । ↩︎
-
चतुस्त्रिंशद्वाजिनः । (वा० सं० २५ । ४१) मा नो मित्रो वरुण इत्येतत्सूक्तांतर्गतैवर्क् । ↩︎
-
षड्विंशतिरस्य वंक्रय इति होतुर्वचनम् । आश्वलायनः- तमवस्थितमुपाकरणाय यदक्रंद इत्येकादशभिः स्तौत्यप्रणुवन्ननुस्वाध्यायमित्येके ऽध्रिगो शमीध्वमिति शिष्ट्वा षड्विंशतिरस्य वंक्रय इति वा मा नो मित्र इत्यावपेतोप प्रागाच्छसनं वाज्यर्वेति चेति । आ. श्रौ. सू. उ. ष. ६ । ४ । ८ । ↩︎
-
385:1 On this recitation, consisting of a lengthy set of formulas, addressed to the slaughterers, see part ii, p, 188, note 2. The whole of the formulas are given Ait. Br. II, 6-7. The hymn, according to Āśv. X, 8, 7; is to be inserted either before the last formula of the litany, or somewhat further back–viz. before the formula ‘shaḍviṁśatir asya vaṅkrayas,’ ’twenty-six are its ribs’–whilst our Brāhmaṇa rather allows the alternative of the eighteenth verse of I, 162 being inserted at the latter place,–unless, indeed, the insertion in that case is to be made immediately before the word ‘vaṅkrayaḥ’ which is scarcely likely. ↩︎
-
385:2 Harisvāmin seems to take this to mean that as this verse is of the same nature as the formulas of the Adhrigu litany, he is to treat it as such, as otherwise, in reciting he would have to pronounce ‘om’ after that verse, which is not done after those formulas. ↩︎
-
385:3 Or, the plurality by the individual. Owing to the corrupt state of the MS., the commentator’s explanation of this passage is not clear. He seems, however, at any rate, to take the ‘plural’ to refer to the formula ‘shaḍviṁśatir asya vaṅkrayas,’ where apparently ’eshām’ has to be substituted for ‘asya’ on this occasion, as many victims are immolated, and the ribs of a plurality of beasts are thus indicated, whilst in verse eighteen of the hymn, on the contrary, only the ribs of one horse (thus forming a kind of unit) are referred to; and if that verse were recited, along with the whole hymn, before the final formula which refers to all the victims, the necessary connection would be interrupted. ↩︎