०१
विश्वास-प्रस्तुतिः
संवत्सरे᳘ पर्य्य᳘वेते दीक्षा᳘॥
प्राजापत्य᳘मालभ्यो᳘त्सीदन्ती᳘ष्टयः पुरो᳘हितस्याग्नि᳘षु यजेते᳘त्यु है᳘क ऽआहुः कि᳘मु दीक्षितो᳘ यजेत द्वा᳘दश दीक्षा द्वा᳘दशोपस᳘दस्तिस्रः᳘ सुत्यास्त᳘त्त्रिणव᳘मभिसम्पद्यते[[!!]] व्व᳘ज्ज्रो वै᳘ त्रिणवः᳘ क्षत्त्रम᳘श्वः क्षत्र᳘ᳫँ᳘ राज᳘न्यो व्व᳘ज्ज्रेण ख᳘लु वै᳘ क्षत्र᳘ᳫँ᳘ स्पृतन्तद्व᳘ज्ज्रेणैव᳘ क्षत्त्र᳘ᳫँ᳘ स्पृणोति॥
मूलम् - श्रीधरादि
संवत्सरे᳘ पर्य्य᳘वेते दीक्षा᳘॥
प्राजापत्य᳘मालभ्यो᳘त्सीदन्ती᳘ष्टयः पुरो᳘हितस्याग्नि᳘षु यजेते᳘त्यु है᳘क ऽआहुः कि᳘मु दीक्षितो᳘ यजेत द्वा᳘दश दीक्षा द्वा᳘दशोपस᳘दस्तिस्रः᳘ सुत्यास्त᳘त्त्रिणव᳘मभिसम्पद्यते[[!!]] व्व᳘ज्ज्रो वै᳘ त्रिणवः᳘ क्षत्त्रम᳘श्वः क्षत्र᳘ᳫँ᳘ राज᳘न्यो व्व᳘ज्ज्रेण ख᳘लु वै᳘ क्षत्र᳘ᳫँ᳘ स्पृतन्तद्व᳘ज्ज्रेणैव᳘ क्षत्त्र᳘ᳫँ᳘ स्पृणोति॥
मूलम् - Weber
संवत्सरे᳘ पर्य᳘वेते दीक्षा᳟॥
प्राजापत्य᳘मालभ्यो᳘त्सीदन्ती᳘ष्टयः पुरो᳘हितस्याग्नि᳘षु यजेते᳘त्यु है᳘क आहुः कि᳘मु दीक्षितो᳘ यजेत द्वा᳘दश दीक्षा द्वा᳘दशोपस᳘दस्तिस्रः᳘ सुत्यास्त᳘त्त्रिणव᳘मभिस᳘म्पद्यते व᳘ज्रो वै᳘ त्रिणवः᳘ क्षत्रम᳘श्वः क्षत्रं᳘ राजॗन्यो व᳘ज्रेण ख᳘लु वै᳘ क्षत्र᳘ᳫं᳘ स्पृतं तद्व᳘ज्रेणैव᳘ क्षत्र᳘ᳫं᳘ स्पृणोति॥
मूलम् - विस्वरम्
संवत्सरे पर्यवेते दीक्षा । प्राजापत्यमालभ्य, उत्सीदन्तीष्टयः । पुरोहितस्याग्निषु यजेतेत्यु हैक आहुः । किमु दीक्षितो यजेत । द्वादश दीक्षाः । द्वादशोपसदः । तिस्रः सुत्याः । तत्त्रिणवमभिसंपद्यते । वज्रो वै त्रिणवः । क्षत्त्रमश्वः । क्षत्त्रं राजन्यः । वज्रेण खलु वै क्षत्त्रं स्पृतम् । तद्वज्रेणैव क्षत्त्रं स्पृणोति ॥ १ ॥
हरिस्वामी
संवत्सरे सावने पर्यवेते समाप्ते अश्वोत्सर्गदिवसादारभ्य संवत्सरे अतिक्रांते प्राजापत्यम् इष्टकापशुम् । न वायव्यं न वा पञ्च पशून् । आलभ्य स्वकाल एव । उत्तरस्यां फाल्गुन्यां तद्बाधकारणाभावात् । दीक्षा 1 कर्तव्येति शेषः । सा च अष्टम्यां-उखां संभृत्य इष्टकाः कृत्वा उत्तरस्याममावास्यायामामावास्येनेष्ट्वा आरब्धव्या प्रतिदिनं च आग्नावैष्णवम् औद्ग्रमणानि आध्वरिकाणि चत्वारि त्रीणि आश्वमेधिकानि, कृष्णाजिनदीक्षां च कुर्वद्भिः सप्तम्यां संस्थापनीया । ततश्चैत्रकृष्णद्वितीयायां दीक्षां समाप्य चैत्रांतचतुर्दश्यामुपवसथः कार्यः, चैत्रांतामावास्यादिषु सुत्याः । ततो ब्रह्मौदनाः क्रतुपशवश्च कार्याः । उत्सीदंति नानुष्ठीयन्ते इष्टयः सावित्र्यः । संवत्सरे पर्यवेते इत्यनुवर्तते । पुरोहितस्य भूतेषु अग्निषु यजेतैव सावित्रीभिरिष्टिभिः । पूर्णे ऽपि संवत्सरे चैव । ता उत्सीदेयुरित्यन्ये शाखिन आहुः । वाजिनस्त्वाहुः किमु दीक्षितो यजेत । किं क्षेपे । उशब्दस्तुशब्दस्थाने । किंतु कस्मात् कारणात् । न कुतश्चिदपीत्यर्थः । दीक्षितः सावित्रीभिर्विशेषेण विहिताभिर्यजेत ॥ १-६ ॥
Eggeling
- When the year has expired 2, the Dīkshā (initiation) takes place. After the slaughtering of the victim sacred to Prajāpati 3, the (ishṭi) offerings 4 come to an end. Some, however, say, ‘Let him offer (them) on the fires of his Purohita (court-chaplain). But why should one who is initiated make offering? There are twelve Dīkshā (days), twelve Upasad (days) and three Sutyās (Soma-days), that amounts to the thrice-ninefold (stoma); but the thrice-ninefold, indeed, is a thunderbolt, and the horse is the nobility (kshatra), and the Rājanya is the nobility; and political power (kshatra) is won by the thunderbolt: thus he wins 5 political power by means of the thunderbolt.
०२
विश्वास-प्रस्तुतिः
दीक्षणी᳘यायाᳫँ᳭ स᳘ᳫँ᳘स्थितायाम्॥
(ᳫँ᳭) साय᳘म्वाचि व्वि᳘सृष्टायां व्वीणागणगि᳘न ऽउपसमे᳘ता भवन्ति ता᳘नध्वर्य्युः᳘ सम्प्रे᳘ष्यति व्वी᳘णागणगिन ऽइ᳘त्याह देवै᳘रिमं य᳘जमानᳫँ᳭ स᳘ङ्गायते᳘ति तन्ते त᳘था स᳘ङ्गायन्ति॥
मूलम् - श्रीधरादि
दीक्षणी᳘यायाᳫँ᳭ स᳘ᳫँ᳘स्थितायाम्॥
(ᳫँ᳭) साय᳘म्वाचि व्वि᳘सृष्टायां व्वीणागणगि᳘न ऽउपसमे᳘ता भवन्ति ता᳘नध्वर्य्युः᳘ सम्प्रे᳘ष्यति व्वी᳘णागणगिन ऽइ᳘त्याह देवै᳘रिमं य᳘जमानᳫँ᳭ स᳘ङ्गायते᳘ति तन्ते त᳘था स᳘ङ्गायन्ति॥
मूलम् - Weber
दीक्षणी᳘यायाᳫं स᳘ᳫं᳘स्थितायाम्॥
सायं᳘ वाचि वि᳘सृष्टायां वीणागणगि᳘न उपसमे᳘ता भवन्ति ता᳘नध्वर्युः᳘ सम्प्रे᳘ष्यति वी᳘णागणगिन इ᳘त्याह देवै᳘रिमं य᳘जमानᳫं सं᳘गायते᳘ति तं ते त᳘था सं᳘गायन्ति॥
मूलम् - विस्वरम्
दीक्षणीयायां 1 संस्थितायाम् । सायं वाचि विसृष्टायाम् । वीणागणगिन उपसमेता भवंति । तानध्वर्युः संप्रेष्यति । वीणागणगिन इत्याह- “देवैरिमं यजमानं संगायत”- इति । तं ते तथा संगायंति ॥ २ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- When the Initiation-offering has been completed, and Speech released in the evening, masters
of lute-players have come thither: these the Adhvaryu calls upon, ‘Masters of lute-players,’ he says, ‘sing ye of this Sacrificer along with the gods!’ and they accordingly sing of him in that manner–
०३
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘हरहर्व्वाचि व्वि᳘सृष्टायाम्॥
(म) अग्नीषोमी᳘याणामन्ततः᳘ सᳫँ᳭स्था᳘याम्प᳘रिहृतासु व्व᳘सतीव᳘रीषु तद्य᳘देनन्देवैः᳘ सङ्गा᳘यन्ति देवै᳘रे᳘वैनन्तत्स᳘लोकङ्कुर्व्वन्ति॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘हरहर्व्वाचि व्वि᳘सृष्टायाम्॥
(म) अग्नीषोमी᳘याणामन्ततः᳘ सᳫँ᳭स्था᳘याम्प᳘रिहृतासु व्व᳘सतीव᳘रीषु तद्य᳘देनन्देवैः᳘ सङ्गा᳘यन्ति देवै᳘रे᳘वैनन्तत्स᳘लोकङ्कुर्व्वन्ति॥
मूलम् - Weber
अ᳘हरहर्वाचि वि᳘सृष्टायाम्॥
अग्नीषोमी᳘याणामन्ततः᳘ संस्था᳘याम् प᳘रिहृतासु व᳘सतीवरीषु तद्य᳘देनं देवैः᳘ संगा᳘यन्ति देवै᳘रेॗवैनं तत्स᳘लोकं कुर्वन्ति॥
मूलम् - विस्वरम्
अहरहर्वाचि विसृष्टायाम् । अग्नीषोमीयाणामंततः संस्थायाम् । परिहृतासु वसतीवरीषु । तद्यदेनं देवैः संगायंति । देवैरेवैनं तत्सलोकं कुर्वंति ॥ ३ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- Day by day, after speech has been released, when, on the completion of the Agnīshomīya (animal sacrifices), the Vasatīvarī (water) has been carried round 6 (the sacrificial ground). The reason why they thus sing of him along with the gods is that they thereby make him share the same world with the gods.
०४
विश्वास-प्रस्तुतिः
प्रजा᳘पतिना सुत्या᳘सु॥
(स्वे) एव᳘मेवा᳘हरहः प᳘रिहृतास्वेव᳘ व्वसतीव᳘रीषूदवसानी᳘यायामन्ततः स᳘ᳫँ᳘स्थितायान्तद्य᳘देनम्प्रजा᳘पतिना सङ्गा᳘यन्ति प्प्रजा᳘पतिनै᳘वैनन्त᳘दन्ततः स᳘लोकङ्कुर्व्वन्ति॥
मूलम् - श्रीधरादि
प्रजा᳘पतिना सुत्या᳘सु॥
(स्वे) एव᳘मेवा᳘हरहः प᳘रिहृतास्वेव᳘ व्वसतीव᳘रीषूदवसानी᳘यायामन्ततः स᳘ᳫँ᳘स्थितायान्तद्य᳘देनम्प्रजा᳘पतिना सङ्गा᳘यन्ति प्प्रजा᳘पतिनै᳘वैनन्त᳘दन्ततः स᳘लोकङ्कुर्व्वन्ति॥
मूलम् - Weber
प्रजा᳘पतिना सुत्या᳘सु॥
एव᳘मेवा᳘हरहः प᳘रिहृतास्वेव᳘ वसतीव᳘रीषूदवसानी᳘यायामन्ततः स᳘ᳫं᳘स्थितायां तद्य᳘देनम् प्रजा᳘पतिना संगा᳘यन्ति प्रजा᳘पतिनैॗवैनम् त᳘दन्ततः स᳘लोकं कुर्वन्ति॥
मूलम् - विस्वरम्
प्रजापतिना सुत्यास्वेवमेव । अहरहः परिहृतास्वेव वसतीवरीषु । उदवसानीयायामंततः संस्थितायाम् । तद्यदेनं प्रजापतिना संगायन्ति । प्रजापतिनैवैनं तदन्ततः सलोकं कुर्वंति ॥ ४ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- On the Sutyā-days (they sing of him) along with Prajāpati in the same way day by day, after the Vasatīvarī (water) has been carried round 7, and the Udavasānīyā (offering) has been finally completed. The reason why they thus sing of him
along with Prajāpati is that they thereby finally make him share the same world with Prajāpati.
०५
विश्वास-प्रस्तुतिः
(न्त्ये᳘) ए᳘कविᳫँ᳭शतिर्य्यू᳘पाः॥
स᳘र्व्व ऽए᳘कविᳫँ᳭शत्यरत्नयो रा᳘ज्जुदालो ऽग्निष्ठो भ᳘वति पै᳘तुदारवावभि᳘तः ष᳘ड्बैल्वास्त्र᳘य ऽइत्थात्त्र᳘य ऽइत्थात्ष᳘ट् खादिरास्त्र᳘य ऽए᳘वेत्थात्त्र᳘य ऽइत्थात्षट्पा᳘लाशास्त्र᳘य ऽए᳘वेत्थात्त्र᳘य ऽइत्थात्[[!!]]॥
मूलम् - श्रीधरादि
(न्त्ये᳘) ए᳘कविᳫँ᳭शतिर्य्यू᳘पाः॥
स᳘र्व्व ऽए᳘कविᳫँ᳭शत्यरत्नयो रा᳘ज्जुदालो ऽग्निष्ठो भ᳘वति पै᳘तुदारवावभि᳘तः ष᳘ड्बैल्वास्त्र᳘य ऽइत्थात्त्र᳘य ऽइत्थात्ष᳘ट् खादिरास्त्र᳘य ऽए᳘वेत्थात्त्र᳘य ऽइत्थात्षट्पा᳘लाशास्त्र᳘य ऽए᳘वेत्थात्त्र᳘य ऽइत्थात्[[!!]]॥
मूलम् - Weber
ए᳘कविंशतिर्यू᳘पाः॥
स᳘र्व ए᳘कविंशत्यरत्नयो रा᳘ज्जुदालोऽग्निष्ठो भ᳘वति पै᳘तुदारवावभि᳘तः ष᳘ड्बैल्वास्त्र᳘य इत्थात्त्र᳘य इत्थात्ष᳘ट् खादिरास्त्र᳘य एॗवेत्थात्त्र᳘य इत्थात्षट् पा᳘लाशास्त्र᳘य एॗवेत्थात्त्र᳘य इत्था᳘त्॥
मूलम् - विस्वरम्
एकविंशतिर्यूपाः 8 । सर्वे एकविंशत्यरत्नयः । रज्जुदालो ऽग्निष्ठो भवति । पैतुदारवावभितः । षड्बैल्वाः । त्रय इत्थात् त्रय इत्थात् । षट् खादिराः । त्रय एवेत्थात् । त्रय इत्थात् । षट् पालाशाः । त्रय एवेत्थात् । त्रय इत्थात् ॥ ५ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- There are twenty-one sacrificial stakes, all of them twenty-one cubits long. The central one 9 is of rajjudāla 10 wood; on both sides thereof stand two 11 pītudāru (deodar) ones, six of bilva wood (Aegle Marmelos)–three on this side, and three on that,–six of khadira (Acacia Catechu) wood–three on this side, and three on that,–six of palāśa (Butea frondosa) wood–three on this side, and three on that.
०६
विश्वास-प्रस्तुतिः
(त्त) तद्य᳘देत᳘ ऽएवं यू᳘पा भ᳘वन्ति॥
प्प्रजा᳘पतेः प्प्राणेषू᳘त्क्रान्ते᳘षु श᳘रीरᳫँ᳭ श्व᳘यितुमध्रियत त᳘स्य यः᳘ श्लेष्मा᳘ ऽऽसीत्स᳘ सार्द्ध᳘ᳫँ᳘ समवद्रु᳘त्य मध्यतो᳘ नस्त ऽउ᳘दभिनत्स᳘ ऽएष व्व᳘नस्प᳘तिरभवद्र᳘ज्जुदालस्त᳘स्मात्स᳘ श्लेष्मणः᳘ श्लेष्म᳘णो हि᳘ सम᳘भवत्ते᳘नै᳘वैनन्त᳘द्रूपेण[[!!]] स᳘मर्द्धयति तद्य᳘त्सो ऽग्निष्ठो भ᳘वति म᳘ध्यम्वा᳘ ऽएतद्यू᳘पानां य᳘दग्निष्ठो म᳘ध्यमेत᳘त्प्राणा᳘नां यन्ना᳘सिके स्व᳘ ऽए᳘वैनन्त᳘दाय᳘तने दधाति॥
मूलम् - श्रीधरादि
(त्त) तद्य᳘देत᳘ ऽएवं यू᳘पा भ᳘वन्ति॥
प्प्रजा᳘पतेः प्प्राणेषू᳘त्क्रान्ते᳘षु श᳘रीरᳫँ᳭ श्व᳘यितुमध्रियत त᳘स्य यः᳘ श्लेष्मा᳘ ऽऽसीत्स᳘ सार्द्ध᳘ᳫँ᳘ समवद्रु᳘त्य मध्यतो᳘ नस्त ऽउ᳘दभिनत्स᳘ ऽएष व्व᳘नस्प᳘तिरभवद्र᳘ज्जुदालस्त᳘स्मात्स᳘ श्लेष्मणः᳘ श्लेष्म᳘णो हि᳘ सम᳘भवत्ते᳘नै᳘वैनन्त᳘द्रूपेण[[!!]] स᳘मर्द्धयति तद्य᳘त्सो ऽग्निष्ठो भ᳘वति म᳘ध्यम्वा᳘ ऽएतद्यू᳘पानां य᳘दग्निष्ठो म᳘ध्यमेत᳘त्प्राणा᳘नां यन्ना᳘सिके स्व᳘ ऽए᳘वैनन्त᳘दाय᳘तने दधाति॥
मूलम् - Weber
तद्य᳘देत᳘ एवं यू᳘पा भ᳘वन्ति॥
प्रजा᳘पतेः प्राणेषू᳘त्क्रान्तेषु श᳘रीरं श्व᳘यितुमध्रियत त᳘स्य यः᳘ श्लेष्मा᳘सीत्स᳘ सार्ध᳘ᳫं᳘ समवद्रु᳘त्य मध्यतो᳘ नस्त उ᳘दभिनत्स᳘ एष व᳘नस्प᳘तिरभवद्र᳘ज्जुदालस्त᳘स्मात्स᳘ श्लेष्मणाः᳘ श्लेष्म᳘णो हि᳘ सम᳘भवत्ते᳘नैॗवैनं त᳘द्रूपे᳘ण स᳘मर्धयति तद्यॗत्सोऽग्निष्ठो भ᳘वति म᳘ध्यं वा᳘ एतद्यू᳘पानां 12 य᳘दग्निष्ठो म᳘ध्यमेत᳘त्प्राणा᳘नां यन्ना᳘सिके स्व᳘ एॗवैनं त᳘दाय᳘तने दधाति॥
मूलम् - विस्वरम्
तद्यदेत एवं यूपा भवंति । प्रजापतेः प्राणेषूत्क्रांतेषु शरीरं श्वयितुमध्रियत । तस्य यः श्लेष्मा ऽऽसीत् । स सार्द्धं समवद्रुत्य मध्यतो नस्त उदभिनत् । स एष वनस्पतिरभवत् रज्जुदालः । तस्मात्स श्लेष्मणः । श्लेष्मणो हि समभवत् । तेनैवैनं तद्रूपेण समर्द्धयति । तद्यत्सो ऽग्निष्ठो भवति । मध्यं वा एतद्यूपानां यदग्निष्ठः । मध्यमेतत्प्राणानां, यन्नासिके । स्वे एवैनं तदायतने दधाति ॥ ६ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- Then as to why these stakes are suchlike. When Prajāpati’s vital airs had gone out of him, his body began to swell; and what phlegm there was in it that flowed together and burst forth from inside through the nose, and it became this tree, the rajjudāla, whence it is viscid, for it originated from phlegm: with that form (quality) he thus endows it (the stake). And as to why it is the (stake) standing by the fire, it is because that one is the centre of the stakes, and that nose is the centre of the (channels of the) vital airs: he thus puts it in its own place.
०७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दापोम᳘यन्ते᳘ज ऽआ᳘सीत्॥
(द्यो᳘) यो᳘ गन्धः स᳘ सार्द्ध᳘ᳫँ᳘ समवद्रु᳘त्य चक्षुष्ट ऽउ᳘दभिनत्स᳘ ऽएष व्व᳘नस्प᳘तिरभवत्पी᳘तुदारुस्त᳘स्मात्स᳘ सुरभि᳘र्ग्गन्धाद्धि᳘ सम᳘भवत्त᳘स्मादुज्ज्वलनस्ते᳘जसो हि᳘ सम᳘भवत्ते᳘नै᳘वैनन्त᳘द्रूपे᳘ण स᳘मर्द्धयति तद्यत्ता᳘वभि᳘तो ऽग्निष्ठम्भ᳘वतस्त᳘स्मादिमे᳘ ऽअभि᳘तो ना᳘सिकाञ्च᳘क्षुषी स्व᳘ ऽए᳘वैनौ त᳘दाय᳘तने दधाति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दापोम᳘यन्ते᳘ज ऽआ᳘सीत्॥
(द्यो᳘) यो᳘ गन्धः स᳘ सार्द्ध᳘ᳫँ᳘ समवद्रु᳘त्य चक्षुष्ट ऽउ᳘दभिनत्स᳘ ऽएष व्व᳘नस्प᳘तिरभवत्पी᳘तुदारुस्त᳘स्मात्स᳘ सुरभि᳘र्ग्गन्धाद्धि᳘ सम᳘भवत्त᳘स्मादुज्ज्वलनस्ते᳘जसो हि᳘ सम᳘भवत्ते᳘नै᳘वैनन्त᳘द्रूपे᳘ण स᳘मर्द्धयति तद्यत्ता᳘वभि᳘तो ऽग्निष्ठम्भ᳘वतस्त᳘स्मादिमे᳘ ऽअभि᳘तो ना᳘सिकाञ्च᳘क्षुषी स्व᳘ ऽए᳘वैनौ त᳘दाय᳘तने दधाति॥
मूलम् - Weber
अ᳘थ य᳘दापोम᳘यं ते᳘ज आ᳘सीत्॥
यो᳘ गन्धः स᳘ सार्ध᳘ᳫं᳘ समवद्रु᳘त्य चक्षुष्ट उ᳘दभिनत्स᳘ एष व᳘नस्प᳘तिरभवत्पो᳘तुदारुस्त᳘स्मात्स᳘ सुरभि᳘र्गन्धाद्धि᳘ सम᳘भवत्त᳘स्मादु ज्वलनस्ते᳘जसो हि᳘ सम᳘भवत्ते᳘नैॗवैनं त᳘द्रूपे᳘ण स᳘मर्धयति तद्यत्ता᳘वभि᳘तोऽग्निष्ठम् भ᳘वतस्त᳘स्मादिमे᳘ अभि᳘तो ना᳘सिकां च᳘क्षुषी स्व᳘ एॗवैनौ त᳘दाय᳘तने दधाति॥
मूलम् - विस्वरम्
अथ यदापोमयं तेज आसीत् । यो गंधः । स सार्द्धं समवद्रुत्य चक्षुष्ट उदभिनत् । स एष वनस्पतिरभवत् पीतुदारुः । तस्मात्स सुरभिः । गंधाद्धि समभवत् । तस्मादुज्वलनः । तेजसो हि समभवत् । तेनैवैनं तद्रूपेण समर्द्धयति । तद्यत्तावभितो ऽग्निष्ठं भवतः । तस्मादिमे अभितो नासिकां चक्षुषी । स्व एवैनौ तदायतने दधाति ॥ ७ ॥
हरिस्वामी
दीक्षितस्य हि यागदानहोमाः सामान्येन प्रतिषिद्धाः । अयं च इष्टकापशून् दीक्षित एवेत्यभिप्रायः । तथा ह्याह- पूर्वा दीक्षा वा एष पशुः । अहीनत्वाद्धि द्वादशैव दीक्षा उपसदश्च प्राप्ताः । सुत्याश्च तिस्र उत्पत्तावेव सिद्धाः । तत्सर्वं दीक्षादि त्रिणवं स्तोममभिसंपद्यते । स च वज्रसंस्तुतः । वज्रेण खलु वै क्षत्त्रं स्पृतम् । “स्पृ प्रीतिपालनयोः” (धा. पा. स्वा. प. १३ ।) क्षत्त्रिया आयुधैर्वज्ररूपै रक्षिताः । दीक्षणीयायाम् ॥ ७-११ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे काण्डे चतुर्थे ऽध्याये चतुर्थं ब्राह्मणम् ॥ (१३ । ४ । ४) ॥
नागस्वामिसुतो ऽवन्त्यां पाराशर्यो वसन्हरिः । श्रुत्यर्थं दर्शयामास शक्तितः पौष्करीयकः ॥ १ ॥
श्रीमतो ऽवन्तिनाथस्य विक्रमार्कस्य भूपतेः । धर्माध्यक्षो हरिस्वामी व्याख्यच्छातपथीं श्रुतिम् ॥ २ ॥
भूभर्त्रा विक्रमार्केण क्लृप्तां कनकवेदिकाम् । दानायाध्यास्य कृतवान् श्रुत्यर्थविवृतिं हरिः ॥ ३ ॥
इति श्रीसर्वविद्यानिधानकवीन्द्राचार्यसरस्वतीनां श्रीहरिस्वामिनां कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे काण्डे चतुर्थो ऽध्यायः समाप्तः ॥ १३-४ ॥
Eggeling
- And what watery (liquid) fire, and what fragrance there was, that flowed together and
burst forth from the eye, and became that tree, the pītudāru; whence that (wood) is sweet-smelling, since it originated from fragrance, and whence it is inflammable, since it originated from fire: with that quality he thus endows it. And because these two (pītudāru stakes) are on the two sides of the central one, therefore these two eyes are on the two sides of the nose: he thus puts those two in their own place.
०८
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ यत्कु᳘न्तापमा᳘सीत्॥
(द्यो᳘) यो᳘ मज्जा स᳘ सार्द्ध᳘ᳫँ᳘ समवद्रु᳘त्य श्रोत्रत ऽउ᳘दभिनत्स᳘ ऽएष व्व᳘नस्प᳘तिरभवद्बि᳘ल्वस्त᳘स्मात्त᳘स्यान्तरतः स᳘र्व्वमेव फ᳘लमाद्य᳘म्भवति त᳘स्मादु हारिद्र᳘ ऽइव भवति हारिद्र᳘ ऽइव हि᳘ मज्जा ते᳘नै᳘वैनन्त᳘द्रूपे᳘ण स᳘मर्द्धयत्य᳘न्तरे पै᳘तुदारवौ भ᳘वतो बा᳘ह्ये बैल्वा ऽअ᳘न्तरे हि च᳘क्षुषी बा᳘ह्ये श्रो᳘त्रे स्व᳘ ऽए᳘वैनांस्त᳘दाय᳘तने दधाति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ यत्कु᳘न्तापमा᳘सीत्॥
(द्यो᳘) यो᳘ मज्जा स᳘ सार्द्ध᳘ᳫँ᳘ समवद्रु᳘त्य श्रोत्रत ऽउ᳘दभिनत्स᳘ ऽएष व्व᳘नस्प᳘तिरभवद्बि᳘ल्वस्त᳘स्मात्त᳘स्यान्तरतः स᳘र्व्वमेव फ᳘लमाद्य᳘म्भवति त᳘स्मादु हारिद्र᳘ ऽइव भवति हारिद्र᳘ ऽइव हि᳘ मज्जा ते᳘नै᳘वैनन्त᳘द्रूपे᳘ण स᳘मर्द्धयत्य᳘न्तरे पै᳘तुदारवौ भ᳘वतो बा᳘ह्ये बैल्वा ऽअ᳘न्तरे हि च᳘क्षुषी बा᳘ह्ये श्रो᳘त्रे स्व᳘ ऽए᳘वैनांस्त᳘दाय᳘तने दधाति॥
मूलम् - Weber
अ᳘थ यत्कु᳘न्तापमा᳘सीत्॥
यो᳘ मज्जा स᳘ सार्ध᳘ᳫं᳘ समवद्रु᳘त्य श्रोत्रत उ᳘दभिनत्स᳘ एष व᳘नस्प᳘तिरभवद्बि᳘ल्वस्त᳘स्मात्त᳘स्यान्तरतः स᳘र्वमेव फ᳘लमाद्य᳘म् भवति त᳘स्मादु हारिद्र᳘ इव भवति हारिद्र᳘ इव हि मज्जा ते᳘नैॗवैनं त᳘द्रूपे᳘ण स᳘मर्धयत्य᳘न्तरे 13 पै᳘तुदारुवौ भ᳘वतो बा᳘ह्ये बैल्वा अ᳘न्तरे हि च᳘क्षुषी बा᳘ह्ये श्रो᳘त्रे स्व᳘ एॗवैनांस्त᳘दाय᳘तने दधाति॥
मूलम् - विस्वरम्
अथ यत् कुंतापमासीत् । यो मज्जा । स सार्धं समवद्रुत्य श्रोत्रत उदभिनत् । स एष वनस्पतिरभवत् बिल्वः । तस्मात्तस्यांतरतः सर्वमेव फलमाद्यं भवति । तस्मादु हारिद्र इव भवति । हारिद्र इव हि मज्जा । तेनैवैनं तद्रूपेण समर्द्धयति । अंतरे पैतुदारवौ भवतः । बाह्ये बैल्वाः । अंतरे हि चक्षुषी । बाह्ये श्रोत्रे । स्व एवैनांस्तदायतने दधाति ॥ ८ ॥
हरिस्वामी
[व्याख्यानं सप्तमे]
Eggeling
- And what ‘kuntāpa 14,’ what marrow there was, that flowed together, and burst forth from the ear, and became that tree, the bilva; whence all the fruit of that (tree) is eatable 15 inside, and whence it (the tree, or wood) is yellowish, for marrow is yellowish: with that quality he thus endows it. The two (sets of) pītudāru (stakes) stand inside, and the bilva ones outside, for the eyes are inside, and the ears outside: he thus puts them in their own place.
०९
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘स्थिभ्य ऽए᳘वास्य खदिरः स᳘मभवत्॥
(त्त᳘) त᳘स्मात्स᳘ दारुणो᳘ बहुसारो᳘ दारुण᳘मिव ह्य᳘स्थि ते᳘नै᳘वैनन्त᳘द्रूपे᳘ण स᳘मर्द्धयत्य᳘न्तरे बैल्वा भ᳘वन्ति बा᳘ह्ये खादिरा ऽअ᳘न्तरे हि᳘ मज्जा᳘नो बा᳘ह्यान्य᳘स्थीनि स्व᳘ ऽए᳘वैनांस्त᳘दाय᳘तने दधाति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘स्थिभ्य ऽए᳘वास्य खदिरः स᳘मभवत्॥
(त्त᳘) त᳘स्मात्स᳘ दारुणो᳘ बहुसारो᳘ दारुण᳘मिव ह्य᳘स्थि ते᳘नै᳘वैनन्त᳘द्रूपे᳘ण स᳘मर्द्धयत्य᳘न्तरे बैल्वा भ᳘वन्ति बा᳘ह्ये खादिरा ऽअ᳘न्तरे हि᳘ मज्जा᳘नो बा᳘ह्यान्य᳘स्थीनि स्व᳘ ऽए᳘वैनांस्त᳘दाय᳘तने दधाति॥
मूलम् - Weber
अ᳘स्थिभ्य एॗवास्य खदिरः स᳘मभवत्॥
त᳘स्मात्स᳘ दारुणो᳘ बहुसारो᳘ दारुण᳘मिव ह्य᳘स्थि ते᳘नैॗवैनं त᳘द्रूपे᳘ण स᳘मर्धयत्य᳘न्तरे बैल्वा भ᳘वन्ति बा᳘ह्ये खादिरा अ᳘न्तरे हि᳘ मज्जा᳘नो बा᳘ह्यान्य᳘स्थीनि स्व᳘ एॗवैनांस्त᳘दाय᳘तने दधाति॥
मूलम् - विस्वरम्
अस्थिभ्य एवास्य खदिरः समभवत् । तस्मात् स दारुणो बहुसारः । दारुणमिव ह्यस्थि । तेनैवैनं तद्रूपेण समर्द्धयति । अंतरे बैल्वा भवन्ति । बाह्ये खादिराः । अंतरे हि मज्जानः । बाह्यान्यस्थीनि । स्व एवैनांस्तदायतने दधाति ॥ ९ ॥
हरिस्वामी
[व्याख्यानं सप्तमे]
Eggeling
- From his (Prajāpati’s) bones the khadira, was produced, whence that (tree) is hard and of great strength 16, for hard, as it were, is bone: with that quality he thus endows it. The bilva (stakes) are
inside, and the khadira ones outside, for inside is the marrow, and outside the bones: he thus puts them in their own place.
१०
विश्वास-प्रस्तुतिः
माᳫँ᳭से᳘भ्य ऽए᳘वास्य पलाशः स᳘मभवत्॥
(त्त᳘) त᳘स्मात्स᳘ बहुरसो लो᳘हितरसो लो᳘हितमिव हि᳘ माᳫँ᳭सन्ते᳘नै᳘वैनं त᳘द्रूपे᳘ण स᳘मर्द्धयत्य᳘न्तरे खादिरा भ᳘वन्ति बा᳘ह्ये पा᳘लाशा ऽअ᳘न्तराणि ह्य᳘स्थीनि बा᳘ह्यानि माᳫँ᳭सा᳘नि स्व᳘ ऽए᳘वैनांस्त᳘दाय᳘तने दधाति॥
मूलम् - श्रीधरादि
माᳫँ᳭से᳘भ्य ऽए᳘वास्य पलाशः स᳘मभवत्॥
(त्त᳘) त᳘स्मात्स᳘ बहुरसो लो᳘हितरसो लो᳘हितमिव हि᳘ माᳫँ᳭सन्ते᳘नै᳘वैनं त᳘द्रूपे᳘ण स᳘मर्द्धयत्य᳘न्तरे खादिरा भ᳘वन्ति बा᳘ह्ये पा᳘लाशा ऽअ᳘न्तराणि ह्य᳘स्थीनि बा᳘ह्यानि माᳫँ᳭सा᳘नि स्व᳘ ऽए᳘वैनांस्त᳘दाय᳘तने दधाति॥
मूलम् - Weber
मांसे᳘भ्य एॗवास्य पलाशः स᳘मभवत्॥
त᳘स्मात्स᳘ बहुरसो लो᳘हितरसो लो᳘हितमिव हि᳘ मांसं ते᳘नैॗवैनं त᳘द्रूपे᳘ण स᳘मर्धयत्य᳘न्तरे खादिरा भ᳘वन्ति बा᳘ह्ये पा᳘लाश अ᳘न्तराणि ह्य᳘स्थीनि बा᳘ह्यानि मांसा᳘नि स्व᳘ एॗवैनांस्त᳘दाय᳘तने दधाति॥
मूलम् - विस्वरम्
मांसेभ्य एवास्य पलाशः समभवत् । तस्मात् स बहुरसो लोहितरसः । लोहितमिव हि मांसम् । तेनैवैनं तद्रूपेण समर्द्धयति । अंतरे खादिरा भवन्ति । बाह्ये पालाशाः । अंतराणि ह्यस्थीनि । बाह्यानि मांसानि । स्व एवैनांस्तदायतने दधाति ॥ १० ॥
हरिस्वामी
[व्याख्यानं सप्तमे]
Eggeling
- From his flesh the palāśa was produced, whence that (tree) has much juice, and (that) red juice 17, for red, as it were, is flesh: with that quality he thus endows it. The khadira (stakes) are inside, and the palāśa ones outside, for inside are the bones, and outside is the flesh: he thus puts them in their own place.
११
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ यदे᳘कविᳫँ᳭शतिर्भ᳘वन्ति॥
(न्त्ये᳘) ए᳘कविᳫँ᳭शत्यरत्नय᳘ ऽएकविᳫँ᳭शो वा᳘ ऽएष य᳘ ऽएष त᳘पति द्वा᳘दश मा᳘साः प᳘ञ्चर्त्त᳘वस्त्र᳘य ऽइमे᳘ लोका᳘ ऽअसा᳘वादित्य᳘ ऽएकविᳫँ᳭शः सो ऽश्वमेध᳘ ऽएष᳘ प्प्रजा᳘पतिरेव᳘मेत᳘म्प्रजा᳘पतिं यज्ञ᳘ङ्कृत्स्न᳘ᳫँ᳘ सᳫँ᳭स्कृ᳘त्य त᳘स्मिन्ने᳘कविᳫँ᳭शतिमग्नीषोमी᳘यान्पशूना᳘लभते ते᳘षाᳫँ᳭ समानङ्कर्म्मे᳘त्येत᳘त्पूर्व्वेद्युः क᳘र्म्म॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ यदे᳘कविᳫँ᳭शतिर्भ᳘वन्ति॥
(न्त्ये᳘) ए᳘कविᳫँ᳭शत्यरत्नय᳘ ऽएकविᳫँ᳭शो वा᳘ ऽएष य᳘ ऽएष त᳘पति द्वा᳘दश मा᳘साः प᳘ञ्चर्त्त᳘वस्त्र᳘य ऽइमे᳘ लोका᳘ ऽअसा᳘वादित्य᳘ ऽएकविᳫँ᳭शः सो ऽश्वमेध᳘ ऽएष᳘ प्प्रजा᳘पतिरेव᳘मेत᳘म्प्रजा᳘पतिं यज्ञ᳘ङ्कृत्स्न᳘ᳫँ᳘ सᳫँ᳭स्कृ᳘त्य त᳘स्मिन्ने᳘कविᳫँ᳭शतिमग्नीषोमी᳘यान्पशूना᳘लभते ते᳘षाᳫँ᳭ समानङ्कर्म्मे᳘त्येत᳘त्पूर्व्वेद्युः क᳘र्म्म॥
मूलम् - Weber
अ᳘थ यदे᳘कविंशतिर्भ᳘वन्ति॥
ए᳘कविंशत्यरत्नय 18 एकविंशो वा᳘ एष त᳘पति द्वा᳘दश मा᳘साः प᳘ञ्चर्त᳘वस्त्र᳘य इमे᳘ लोका᳘ असा᳘वादित्य᳘ एकविंॗशः सोऽश्वमेध᳘ एष᳘ प्रजा᳘पतिरेव᳘मेत᳘म् प्रजा᳘पतिं यज्ञं᳘ कृत्स्न᳘ᳫं᳘ संस्कृ᳘त्य त᳘स्मिन्ने᳘कविंशतिमग्नीषोमी᳘यान्पशूना᳘लभते ते᳘षाᳫं समानं कर्मे᳘त्येत᳘त्पूर्वेद्युः क᳘र्म॥
मूलम् - विस्वरम्
अथ यदेकविंशतिर्भवंति । एकविंशत्यरत्नयः । एकविंशो वा एषः । य एष तपति । द्वादश मासाः । पंच ऋतवः । त्रय इमे लोकाः । असावादित्य एकविंशः । सो ऽश्वमेधः । एष प्रजापतिः । एवमेतं प्रजापतिं यज्ञं कृत्स्नं संस्कृत्य तस्मिन्नेकविंशतिमग्नीषोमीयान्पशूनालभते । तेषां समानं कर्म । इत्येतत्पूर्वेद्युः कर्म ॥ ११ ॥
हरिस्वामी
[व्याख्यानं सप्तमे]
Eggeling
- And as to why there are twenty-one (stakes), twenty-one cubits long,–twenty-one-fold, indeed, is he that shines yonder 19–there are twelve months, five seasons, these three worlds, and yonder sun is the twenty-first, and he is the Aśvamedha, and this Prajāpati. Having thus completely restored this Prajāpati, the sacrifice, he therein seizes twenty-one Agnīshomīya victims: for these there is one and the same performance, and this is the performance of the day before (the first Sutyā).
-
पश्वालंभनाद्याध्वरदीक्षणीयायाः कृत्वा चत्वार्यौद्ग्रभणानि जुहोत्याध्वरिकाणि । (का. श्रौ. सू. २० । ८३ ।) कर्कमतं त्वत्र च,- चैत्र्यां पौर्णमास्यां पश्वालंभनादि चैत्रकृष्णाष्टभ्यां सप्तमी दोक्षणीया ततः प्रभृति द्वादश दीक्षाः ततो वैशाखशुक्लतृतीयायां त्रयः वैशाखशुक्लचतुर्दश्यामग्नीषोमीयः वैशाख्यां च प्रथमा सुत्येति । काय स्वाहेति चाश्वमेधिकानि त्रीणि का. श्रौ. सू. २० । ८४ । अत्र ब्राह्मणम्- “अन्वहं जुहोति” “सप्त जुहोति” “काय स्वाहा कस्मै स्वाहा कतमस्मै स्वाहेत्यादि” श. प. १३ । १ । ७ । ८ । १-४ । १-८ । ९ कृष्णाजिनदीक्षा ऽतः । का. श्रौ. सू. २० । ८५ । अत औद्ग्रभणहोमानंतरं दीक्षा तत्रोपवेशनांता । अध्वरदीक्षणीयायाश्चत्वारि त्रीणि त्रीणि चाश्वमेधिकानि । का. श्रौ. सू. २० । ८६ । सप्ताहं प्रचरंतीति श्रुतेः श. प. १३ । १ । ७ । २ । सप्ताहं दीक्षणीया तत्र प्रत्यहं एवमौद्ग्रभणहोमः । कृष्णाजिनांतमन्वहं का. श्रौ. सू. २० । ८६ । दक्षिणीयेष्ट्यादिकं प्रत्यहं षट्स्वपि दीक्षणीयासु इत्यर्थः । “प्राकृतव्रतो ऽकृतत्वात्”- (का. श्रौ. सू. २० । ८७) प्राकृतव्रतः प्राकृतभोजनः इष्टाश्येव । न पयोव्रतीत्यर्थः । सप्तम्यां दीक्षणीयायां विशेषः । “आग्निके च सप्तम्यां निर्वपति ।" का. श्रौ. सू. २० । ८८ । आग्निके हविषी “वैश्वानरो द्वादशकपालो घृते चरुरादित्येभ्यः” । इति का. श्रौ. सू. १६ । १२८-१२९ । चकारात् आध्वरिक आग्नावैष्णवश्च सप्तम्यामपरो विशेषः । अभ्यंजनप्रभृति करोति का. श्रौ. सू. २० । ८९ । सप्तम्यामभ्यंजनविधानापूर्वासु षट्सु नवनीतेनाभ्यंजनं नेति निष्कर्षः । सप्तम्यामेव विशेषः । षडाग्निकानि चतुःस्थाने । दशमं विश्वो देवस्येति । का. श्रौ. सू. २० । ९० । ९१ । चतुर्णामाध्वरिकाणामौद्ग्रभणानां स्थाने षडाग्निकान्यौद्ग्रभणानि आकूतिमग्निमित्यादीनि त्रीणि चाश्वमेधिकानि एवं नव दशमं विश्वो देवस्येतीत्यर्थः । दीक्षा द्वादशोपसदश्च का. श्रौ. सू. २० । ९४ । सुत्याश्च तिस्रः तथा च श्रुतिः- “द्वादश दीक्षा द्वादशोपसदस्तिस्रः सुत्या इति” । श. प. १३ । ४ । १ । ↩︎ ↩︎
-
371:1 Viz. from the day of the setting free the horse, not from that of the mess of rice cooked for the four priests. ↩︎
-
371:2 That is, according to the comm., the he-goat offered to Prajāpati (along with one, or five, to Vāyu) in connection with the building of the fire-altar (which is required for the Aśvamedha), see part iii, pp. 165 seqq., 171 seqq. The building of the altar, generally occupying the space of a year, is apparently compressed on this occasion within the time of the Dīkshā and Upasads. ↩︎
-
371:3 Viz. the three ishṭis to Savitr̥ performed daily throughout the year. ↩︎
-
371:4 One would expect here the middle (spr̥ṇute) instead of the active (spr̥ṇoti); cf. Delbrück, Altind. Syntax, p. 259. ↩︎
-
372:1 See part ii, p. 222 seqq. Whilst there the offering of a he-goat to Agni and Soma took place on the Upavasatha, or day before the Sutyā or Soma-day, on the present occasion these preliminary animal sacrifices would also seem to be performed on each day from the completion of the Dīkshā up to the Upavasatha day inclusive (? i.e. on the Upasad days, cf. Kāty. Śr. XX. 3, 9; 4, 21). Moreover, though technically called Agnīshomīya, the sacrifice–on the Upavasatha day, at all events (XIII, 4, 4, 11)–is not one of a single he-goat sacred to Agni and Soma, but a set of eleven victims distributed over the central eleven stakes (of which twenty-one are required on the Soma-days) in the manner explained in III, 9, 1, 1 seqq. ↩︎
-
372:2 That is, at the end of each of the three Soma-sacrifices, see part ii, p. 454. The Udavasānīyā (completing offering) takes place before the carrying round of the sacred water (ib. p. 389 seqq.). According to Kāty. XX, 3, 10-11, however, this singing of the Sacrificer’s praises along with those of Prajāpati is to take place not only at the juncture specified in the text, but also at the beginning of the animal sacrifice of the Soma-days, that is, as would seem, prior to the slaying of the victims, at the morning pressing. The wording of our text seems hardly to admit of this interpretation. ↩︎
-
एकादशिनीवदेकविँ शतिर्यूपाः । का. श्रौ. सू. २० । ९७ । सर्वे । एकविंशत्यरत्नयः । तथाह कात्यायनः- “एकविँ शतिरश्वमेधे । का. श्रौ. सू. ६ । ३१ पूर्वसूत्रात् अरत्निपदमनुवर्तते एकादशिनीवदित्यतिदेशेन रथाक्षमात्राण्यंतराणि पूर्वार्द्धं वा समं विभज्य पक्षसम्मितावा ऽग्नौ यूपाहुत्ययभ्र्यादानादि यथाखातमुच्छ्रयतीत्यंतमतिदिश्यते । का. श्रौ. सू. ८ । २१२ । २१३ । रज्जुदालो मध्ये । का. श्रौ. सू. २० । ९८ । रज्जुदालः श्लेष्मातकः । अभितः पैतुदारवौ । २० । ४ । १८ । पीतुदारुर्द्देवदारुः । षट्षट्बैल्वखादिरपालाशाः का. श्रौ. सू. २० । १०० । त्रयस्त्रयो ऽभितः । का. श्रौ. सू. २० । १०१ । ↩︎
-
373:1 That is, the so-called ‘agnishṭḥa,’ ‘standing by (or opposite) the (Āhavanīya) fire.’ Cp. p. 301, note 1. ↩︎
-
373:2 The rajjudāla (or rājjudāla, Sāy. on Taitt. Br. III, 8, 19, 1) or ‘sleshmātaka’ is the Cordia Myxa or C. latifolia, from the bark of which (according to Stewart and Brandis, Forest Flora of N.W. and Centr. India) ropes (rajju) are made, whence doubtless the above, as well as its scientific name, is derived; whilst ’the adhesive viscid pulp is used as bird-lime.’ ↩︎
-
373:3 That is, one on each side, right and left. ↩︎
-
एत᳘द्रूपा᳘णां A prima manu. ↩︎
-
त्य᳘न्तरे (plur.) पै᳘तुदारवौ भ᳘वतो (dual.)! ↩︎
-
374:1 See p. 264, note 1. It would certainly seem to be something connected with the spinal cord. ↩︎
-
374:2 According to Stewart and Brandis, the Aegle Marmelos is cultivated throughout India, and valued for its fruit, which is ‘globose, oblong, or pyriform, 2 to 5 in. diam., with a smooth, grey or yellow rind, and a thick, orange-coloured, sweet aromatic pulp.’ The flowers are stated to be greenish white, and ’the wood light-coloured, mottled with darker wavy lines and small light-coloured dots.’ ↩︎
-
374:3 The wood of Acacia Catechu is described as dark red, and extremely hard and durable, and hence not liable to be attacked by white ants, and not touched by Teredo navalis; being much used for pestles, seed-crushers, cotton-rollers, wheel-wright’s work, ploughs, bows, spear and sword-handles. ↩︎
-
‘From natural fissures and incisions made in the bark (of Butea frondosa) issues during the hot season a red juice, which soon hardens into a ruby-colourcd, brittle, astringent gum, similar to kino, and sold as Bengal kino.’ Stewart and Brandis. ↩︎
-
एकविंᳫशत्यरत्नय᳘ A. P. ↩︎
-
See p. 331, note 1. ↩︎