०१
विश्वास-प्रस्तुतिः
एत᳘स्यान्ताय᳘मानायाम्॥
(म᳘) अ᳘श्वन्नि᳘क्त्वोदा᳘नयन्ति य᳘स्मिन्त्स᳘र्व्वाणि रूपा᳘णि भ᳘वन्ति यो᳘ वा जव᳘समृद्धः सह᳘स्रार्हम्पूर्व्व्यं यो द᳘क्षिणायां धु᳘र्य्यप्प्रतिधुरः[[!!]]॥
मूलम् - श्रीधरादि
एत᳘स्यान्ताय᳘मानायाम्॥
(म᳘) अ᳘श्वन्नि᳘क्त्वोदा᳘नयन्ति य᳘स्मिन्त्स᳘र्व्वाणि रूपा᳘णि भ᳘वन्ति यो᳘ वा जव᳘समृद्धः सह᳘स्रार्हम्पूर्व्व्यं यो द᳘क्षिणायां धु᳘र्य्यप्प्रतिधुरः[[!!]]॥
मूलम् - Weber
एत᳘स्यां ताय᳘मानायाम्॥
अ᳘श्वं निॗक्त्वोदा᳘नयन्ति य᳘स्मिन्त्स᳘र्वाणि रूपा᳘णि भवन्ति यो᳘ वा जव᳘समृद्धः सह᳘स्रार्हम् पूर्व्यं यो द᳘क्षिणायां धुर्य᳘प्रतिधुरः᳟॥
मूलम् - विस्वरम्
एतस्यां तायमानायामश्वं निक्त्वोदानयन्ति । यस्मिन्सर्वाणि रूपाणि भवन्ति । यो वा जवसमृद्धः। सहस्रार्हं पूर्व्यम् । यो दक्षिणायां धुर्यंप्रतिधुरः ॥ १ ॥
हरिस्वामी
एतस्यां तायमानायामिति । एतस्यां पौष्ण्यामिष्टौ तायमानायां निक्त्वा अश्वं स्नापयित्वा आनयंति यजमानपुरुषाः । यस्मिन्नश्वे सर्वाणि 1 शुक्लरक्तपीतकृष्णानि रूपाणि भवंति । यो वा जवसमृद्धः 2 । सर्वसमुच्चये वा-शब्दः । इति स्वभावेन वेगेन जवनत्वेन समृद्धः स्यादित्यवधारणं विरुध्येत । सहस्रार्हं 3 सहस्रं गवां मूल्यं यः अर्हति स सहस्रार्हः । पूर्व्यं प्रथमे वयसि वर्तमानायां प्रथमायां जातम् । दक्षिणायां धुरि अप्रतिधुरः । प्रतिधारयिता प्रतिधुरः । नास्ति प्रतिधुरो यस्येति अप्रतिधुरः । अन्येभ्यो दक्षिणधुर्येभ्य 4 उत्कृष्ट इत्यर्थः ॥ १ ॥
Eggeling
- Whilst this (offering to Pūshan) is being performed, the horse, having been cleansed, is led up–being one which is marked with all colours, or which is perfect in speed, worth a thousand (cows), in its prime, and without its match under the right-side yoke 5.
०२
विश्वास-प्रस्तुतिः
(स्त) तद्य᳘त्सर्व्व᳘रूपो भ᳘वति॥
स᳘र्व्वं वै᳘ रूपᳫँ᳭ स᳘र्व्वमश्वमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्या ऽअ᳘थ य᳘ज्जव᳘समृद्धो᳘ व्वी᳘र्य्यम्वै᳘[[!!]] जवो᳘ व्वी᳘र्य्यस्या᳘प्त्यै व्वी᳘र्य्यस्या᳘वरुद्ध्या ऽअ᳘थ य᳘त्सह᳘स्रार्हः स᳘र्व्वम्वै᳘ सह᳘स्रᳫँ᳭ स᳘र्व्वमश्वमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्या ऽअ᳘थ य᳘त्पूर्व्व्य᳘ ऽएष वा ऽअ᳘परिमितम्वी᳘र्य्यमभिव᳘र्द्धते[[!!]] य᳘त्पूर्व्व्यो᳘ ऽपरिमित᳘स्यैव᳘ व्वी᳘र्य्यस्या᳘वरुद्ध्या ऽअ᳘थ यद्द᳘क्षिणायान्धु᳘र्य्यप्प्रर्तिधुर᳘ ऽएष वा᳘ ऽएष य᳘ ऽएष त᳘पति न वा᳘ ऽएतं क᳘श्चन᳘ प्प्रतिप्प्रति᳘रेत᳘स्यैवा᳘वरुद्ध्यै॥
मूलम् - श्रीधरादि
(स्त) तद्य᳘त्सर्व्व᳘रूपो भ᳘वति॥
स᳘र्व्वं वै᳘ रूपᳫँ᳭ स᳘र्व्वमश्वमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्या ऽअ᳘थ य᳘ज्जव᳘समृद्धो᳘ व्वी᳘र्य्यम्वै᳘[[!!]] जवो᳘ व्वी᳘र्य्यस्या᳘प्त्यै व्वी᳘र्य्यस्या᳘वरुद्ध्या ऽअ᳘थ य᳘त्सह᳘स्रार्हः स᳘र्व्वम्वै᳘ सह᳘स्रᳫँ᳭ स᳘र्व्वमश्वमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्या ऽअ᳘थ य᳘त्पूर्व्व्य᳘ ऽएष वा ऽअ᳘परिमितम्वी᳘र्य्यमभिव᳘र्द्धते[[!!]] य᳘त्पूर्व्व्यो᳘ ऽपरिमित᳘स्यैव᳘ व्वी᳘र्य्यस्या᳘वरुद्ध्या ऽअ᳘थ यद्द᳘क्षिणायान्धु᳘र्य्यप्प्रर्तिधुर᳘ ऽएष वा᳘ ऽएष य᳘ ऽएष त᳘पति न वा᳘ ऽएतं क᳘श्चन᳘ प्प्रतिप्प्रति᳘रेत᳘स्यैवा᳘वरुद्ध्यै॥
मूलम् - Weber
तद्य᳘त्सर्व᳘रूपो भ᳘वति॥
स᳘र्वं वै᳘ रूपᳫं स᳘र्वमश्वमेधः स᳘र्वस्या᳘प्त्यै स᳘र्वस्या᳘वरुद्ध्या अ᳘थ य᳘ज्जव᳘समृद्धो 6 वीर्यं᳘ वै᳘ जवो᳘ वीर्यस्या᳘प्त्यै वीर्य᳘स्या᳘वरुद्ध्या अ᳘थ य᳘त्सह᳘स्रार्हः स᳘र्वं वै᳘ सह᳘स्रᳫं स᳘र्वमश्वमेधः स᳘र्वस्या᳘प्त्यै स᳘र्वस्या᳘वरुद्ध्या अ᳘थ य᳘त्पूर्व्य᳘ एष वा अ᳘परिमितं वीर्य᳘मभिव᳘र्धते य᳘त्पूर्व्यो᳘ऽपरिमितस्यैव᳘ वीर्य᳘स्या᳘वरुद्ध्या अ᳘थ यद्द᳘क्षिणायां धुर्य᳘पर्तिधुर᳘ एष वा᳘ एष य᳘ एष त᳘पति न वा᳘ एतं क᳘श्चन᳘ प्रतिप्रति᳘रेत᳘स्यैवा᳘वरुद्ध्यै॥
मूलम् - विस्वरम्
तद्यत्सर्वरूपो भवति । सर्वं वै रूपम् । सर्वमश्वमेधः । सर्वस्याप्त्यै । सर्वस्यावरुद्ध्यै । अथ यत् जवसमृद्धः । वीर्यं वै जवः । वीर्यस्याप्त्यै । वीर्यस्यावरुद्ध्यै । अथ यत्सहस्रार्हः । सर्वं वै सहस्रम् । सर्वमश्वमेधः । सर्वस्याप्त्यै । सर्वस्यावरुद्ध्यै । अथ यत् पूर्व्यः । एष वा अपरिमितं वीर्यमभिवर्धते । यत् पूर्व्यः । अपरिमितस्यैव वीर्यस्यावरुद्ध्यै । अथ यद्दक्षिणायां धुर्यप्रतिधुरः । एष वा एषः । य एष तपति । न वा एतं कश्चन प्रतिप्रतिः । एतस्यैवावरुद्ध्यै ॥ २ ॥
हरिस्वामी
य एष तपति । य एषः अश्वो मध्यः आदित्यः अधिदैवमित्यर्थः । न वा एतमादित्यं कश्चिदपि प्रतिप्रतिः (मासाभ्यः ?) समो ऽस्तीत्यर्थः ॥ २ ॥ ३ ॥
Eggeling
- And as to its being one marked with all colours, it is for the sake of his (the Sacrificer’s) obtaining and securing everything, for colour (outward appearance) is everything, and the Aśvamedha is everything. And as to its being perfect in speed, it is for the sake of his obtaining and securing vigour, for speed is vigour. And as to its being worth a thousand (cows), it is for the sake of his obtaining and securing everything, for a thousand means everything, and the Aśvamedha is everything. And as to its being in its prime, it is for the sake of his obtaining unlimited vigour, for such a one that is in the prime (of youth) increases to unlimited vigour. And as to its being without its match under the right-side yoke, it is for the sake of his obtaining yonder (sun), for that (horse) indeed is he that shines yonder, and assuredly there is no one to rival him.
०३
विश्वास-प्रस्तुतिः
(त्य᳘) त᳘दु होवाच भाल्लवेयः॥
(यो) द्वि᳘रूप ऽए᳘वैषो᳘ ऽश्वः स्यात्कृष्ण᳘सारङ्गः प्प्रजा᳘पतेर्व्वा᳘ ए᳘षो ऽक्ष्णः स᳘मभवद्द्वि᳘रूपम्वा᳘ ऽइदञ्च᳘क्षुः शुक्ल᳘ञ्चैव᳘ कृष्ण᳘ञ्च त᳘देनᳫँ᳭ स्वे᳘न रूपे᳘ण स᳘मर्द्धयतीति[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) त᳘दु होवाच भाल्लवेयः॥
(यो) द्वि᳘रूप ऽए᳘वैषो᳘ ऽश्वः स्यात्कृष्ण᳘सारङ्गः प्प्रजा᳘पतेर्व्वा᳘ ए᳘षो ऽक्ष्णः स᳘मभवद्द्वि᳘रूपम्वा᳘ ऽइदञ्च᳘क्षुः शुक्ल᳘ञ्चैव᳘ कृष्ण᳘ञ्च त᳘देनᳫँ᳭ स्वे᳘न रूपे᳘ण स᳘मर्द्धयतीति[[!!]]॥
मूलम् - Weber
त᳘दु होवाच भाल्लबेयो᳟॥
द्वि᳘रूप एॗवैषो᳘ऽश्वः स्यात्कृष्ण᳘सारंगः प्रजा᳘पतेर्वा᳘ एॗषोऽक्ष्णः स᳘मभवद्द्वि᳘रूपं वा᳘ इदं च᳘क्षुः शुक्लं᳘ चैव᳘ कृष्णं᳘ च त᳘देनᳫं स्वे᳘न रूपे᳘ण स᳘मर्धयती᳘ति॥
मूलम् - विस्वरम्
तदु होवाच भाल्लवेयः । द्विरूप एवैषो ऽश्वः स्यात्, कृष्णसारङ्गः । प्रजापतेर्वा एषो ऽक्ष्णः समभवत् । द्विरूपं वा इदं चक्षुः- शुक्लं चैव कृष्णं च । तदेनं स्वेन रूपेण समर्धयतीति ॥ ३ ॥
हरिस्वामी
[व्याख्यानं द्वितीये]
Eggeling
- As to this, Bhāllaveya, however, said, ‘That horse should be of two colours, black-spotted 7, for that (horse) was produced from Prajāpati’s eye, and this eye is of two colours, white and black: he thus endows it with its own colour.’
०४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ होवाच सा᳘त्ययज्ञिः॥
(स्त्रि᳘) त्रि᳘रूप ऽए᳘वैषो᳘ ऽश्वः स्यात्त᳘स्य कृष्णः᳘ पूर्व्वार्द्धः᳘ शु᳘क्लो ऽपरार्द्धः कृ᳘त्तिकाञ्जिः पुर᳘स्तात्तद्य᳘त्कृष्णः᳘ पूर्व्वार्द्धो भ᳘वति य᳘दे᳘वेद᳘ङ्कृष्ण᳘मक्ष्णस्त᳘दस्य तद᳘थ य᳘च्छुक्लो ऽपरार्द्धो य᳘दे᳘वेद᳘ᳫँ᳘ शुक्ल᳘मक्ष्णस्त᳘दस्य तद᳘थ यत्कृ᳘त्तिकाञ्जिः पुर᳘स्तात्सा᳘ कनी᳘नका स᳘ ऽएव᳘ रूप᳘समृद्धो ऽतो यत᳘मो ऽस्योपक᳘ल्पेत बहुरूपो᳘ वा द्वि᳘रूपो वा त्रि᳘रूपो वा कृ᳘त्तिकाञ्जिस्तमा᳘लभेत जवे᳘न᳘ त्वेव स᳘मृद्धः स्यात्॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ होवाच सा᳘त्ययज्ञिः॥
(स्त्रि᳘) त्रि᳘रूप ऽए᳘वैषो᳘ ऽश्वः स्यात्त᳘स्य कृष्णः᳘ पूर्व्वार्द्धः᳘ शु᳘क्लो ऽपरार्द्धः कृ᳘त्तिकाञ्जिः पुर᳘स्तात्तद्य᳘त्कृष्णः᳘ पूर्व्वार्द्धो भ᳘वति य᳘दे᳘वेद᳘ङ्कृष्ण᳘मक्ष्णस्त᳘दस्य तद᳘थ य᳘च्छुक्लो ऽपरार्द्धो य᳘दे᳘वेद᳘ᳫँ᳘ शुक्ल᳘मक्ष्णस्त᳘दस्य तद᳘थ यत्कृ᳘त्तिकाञ्जिः पुर᳘स्तात्सा᳘ कनी᳘नका स᳘ ऽएव᳘ रूप᳘समृद्धो ऽतो यत᳘मो ऽस्योपक᳘ल्पेत बहुरूपो᳘ वा द्वि᳘रूपो वा त्रि᳘रूपो वा कृ᳘त्तिकाञ्जिस्तमा᳘लभेत जवे᳘न᳘ त्वेव स᳘मृद्धः स्यात्॥
मूलम् - Weber
अ᳘थ होवाच सा᳘त्ययज्ञिः॥
त्रि᳘रूप एॗवैषो᳘ऽश्वः स्यात्त᳘स्य कृष्णः᳘ पूर्वार्धः᳘ शुॗक्लोऽपरार्धः कृ᳘त्तिकाञ्जिः पुर᳘स्तात्तद्य᳘त्कृष्णः᳘ पूर्वार्धो भ᳘वति य᳘देॗवेदं᳘ कृष्ण᳘मक्ष्णस्त᳘दस्य तद᳘थ य᳘छुॗक्लोऽपरार्धो य᳘देॗवेदं᳘ शुक्ल᳘मक्ष्णस्त᳘दस्य तद᳘थ यत्कृ᳘त्तिकाञ्जिः पुर᳘स्तात्सा᳘ कनी᳘नका स᳘ एव᳘ रूप᳘समृद्धोऽतो यतॗमोऽस्योपक᳘ल्पेत बहुरूपो᳘ वा द्वि᳘रूपो वा त्रि᳘रूपो वा कृ᳘त्तिकाञ्जिस्तमा᳘लभेत जवे᳘नॗ त्वेव स᳘मृद्धः स्यात्॥
मूलम् - विस्वरम्
अथ होवाच सात्ययज्ञिः । त्रिरूप एवैषो ऽश्वः स्यात् । तस्य कृष्णः पूर्वार्धः । शुक्लो ऽपरार्द्धः । कृत्तिकांजिः पुरस्तात् । तद्यत् कृष्णः पूर्वार्द्धो भवति । यदेवेदं कृष्णमक्ष्णः । तदस्य तत् । अथ यत् शुक्लो ऽपरार्द्धः । यदेवेदं शुक्लमक्ष्णः । तदस्य तत् । अथ यत् कृत्तिकांजिः पुरस्तात् । सा कनीनका । स एव रूपसमृद्धः । अतो यतमो ऽस्योपकल्पेत । बहुरूपो वा द्विरूपो वा त्रिरूपो वा कृत्तिकांजिः । तमालभेत । जवेन त्वेव समृद्धः स्यात् ॥ ४ ॥
हरिस्वामी
कृत्तिकांजिः 8 कृत्तिका शकटं अंजि पुंड्रं यस्य सः कृत्तिकांजिः ॥ ४ ॥
Eggeling
- But Sātyayajñi said, ‘That horse should be of three colours, its forepart black, its hindpart white, with a wain for its mark in front;–when its forepart is black it is the same as this black of the eye; and when its hindpart is white it is the same as this white of the eye; and when it has a wain for its mark in front, that is the pupil: such
a one, indeed, is perfect in colour 9.’ Whichever of these, then, should be ready at hand, either a many-coloured one, or one of two colours, or one of three colours with a wain for its mark, let him slaughter it: but in speed it should certainly be perfect.
०५
विश्वास-प्रस्तुतिः
(त्त᳘) त᳘स्यैते᳘ पुर᳘स्ताद्रक्षिता᳘र ऽउ᳘पकॢप्ता भवन्ति॥
राजपुत्राः᳘ कवचि᳘नः शत᳘ᳫँ᳘ राज᳘न्या निषङ्गि᳘णः शत᳘ᳫँ᳘ सूतग्राम᳘ण्याम्पुत्रा᳘ ऽइषुपर्षि᳘णः शतं᳘ क्षात्त्रसंग्रहीतॄणा᳘म्पुत्रा᳘ दण्डि᳘नः शत᳘मश्वशतन्नि᳘रष्टन्निर᳘मणं य᳘स्मिन्नेनमपिसृ᳘ज्य र᳘क्षन्ति॥
मूलम् - श्रीधरादि
(त्त᳘) त᳘स्यैते᳘ पुर᳘स्ताद्रक्षिता᳘र ऽउ᳘पकॢप्ता भवन्ति॥
राजपुत्राः᳘ कवचि᳘नः शत᳘ᳫँ᳘ राज᳘न्या निषङ्गि᳘णः शत᳘ᳫँ᳘ सूतग्राम᳘ण्याम्पुत्रा᳘ ऽइषुपर्षि᳘णः शतं᳘ क्षात्त्रसंग्रहीतॄणा᳘म्पुत्रा᳘ दण्डि᳘नः शत᳘मश्वशतन्नि᳘रष्टन्निर᳘मणं य᳘स्मिन्नेनमपिसृ᳘ज्य र᳘क्षन्ति॥
मूलम् - Weber
त᳘स्यैते᳘ पुर᳘स्ताद्रक्षिता᳘र उ᳘पकॢप्ता भवन्ति॥
राजपुत्राः᳘ कवचि᳘नः शतं᳘ राजॗन्या निषङ्गि᳘णः शत᳘ᳫं᳘ सूतग्रामॗण्याम् पुत्रा᳘ इषुपर्षि᳘णः शतं᳘ क्षात्त्रसंग्रहीतॄणा᳘म् 10 पुत्रा᳘ दण्डि᳘नः शत᳘मश्वशतं नि᳘रष्टं निर᳘मणं य᳘स्मिन्नेनमपिसृ᳘ज्य र᳘क्षन्ति॥
मूलम् - विस्वरम्
तस्यैते पुरस्तात् रक्षितार उपक्लृप्ता भवंति । राजपुत्राः कवचिनः शतम् । राजन्या निषंगिणः शतम् । सूतग्रामण्यां पुत्रा इषुपर्षिणः शतम् । क्षात्त्रसंग्रहीतॄणां पुत्रा दंडिनः शतम् । अश्वशतं निरष्टं निरमणम् । यस्मिन्नेनमपिसृज्य रक्षंति ॥ ५ ॥
हरिस्वामी
राजपुत्राः 11 अभिषिक्तपुत्राः । कवचः सन्नाहः तद्वंतः कवचिनः । राजन्याः क्षत्रियाः । निषंगिणः खड्गिनः । इषुपर्षिण “पृषु वृषु मृषु सेचने” (धा. पा. भ्वा. प. ७०६) इषून् साधु पर्षंति अस्यंतीति इषुपर्षिणः । क्षत्तारः आयव्ययाध्यक्षाः तेषां समूहः क्षात्रम् । संग्रहीतारः स्वभूताः । क्षात्रं च संग्रहीतारश्च तेषां पुत्रा दंडिनः । अश्वशतं यस्मिन्नेनमश्वं संसृज्य रक्षंति । कीदृशं तत् । निरष्टम् । अश्वस्य दंतगतानि अष्टौ वयोव्यंजनानि भवंति । तेषामेकैकं त्रीणि त्रीणि वर्षाण्यनुवर्तते । तानि अष्टौ व्यंजनानि निर्गतानि यस्मात् शतात् इति निरष्टम् । अतीतचतुर्विंशतिवर्षमित्यर्थः । पुनः कीदृशं ? निस्मणम् निर्गतं रमणं क्रीडनं वृद्धतया यस्मात् इति निरमणं गतयौवनम् ॥ ५ ॥ ६ ॥
Eggeling
- In front (of the sacrificial ground) there are those keepers of it ready at hand,–to wit, a hundred royal princes, clad in armour; a hundred warriors armed with swords; a hundred sons of heralds and headmen, bearing quivers filled with arrows 12; and a hundred sons of attendants 13 and charioteers, bearing staves;–and a hundred exhausted, worn out horses 14 amongst which, having let loose that (sacrificial horse), they guard it.
०६
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ सावित्रीमि᳘ष्टिन्नि᳘र्व्वपति॥
सवित्रे᳘ प्रसवित्रे द्वा᳘दशकपालम्पुरोडा᳘शᳫँ᳭ सविता वै᳘ प्प्रसविता᳘ सविता᳘ म ऽइमं᳘ यज्ञम्प्र᳘सुवादि᳘ति॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ सावित्रीमि᳘ष्टिन्नि᳘र्व्वपति॥
सवित्रे᳘ प्रसवित्रे द्वा᳘दशकपालम्पुरोडा᳘शᳫँ᳭ सविता वै᳘ प्प्रसविता᳘ सविता᳘ म ऽइमं᳘ यज्ञम्प्र᳘सुवादि᳘ति॥
मूलम् - Weber
अ᳘थ सावित्रीमि᳘ष्टिं नि᳘र्वपति॥
सवित्रे᳘ प्रसवित्रे द्वा᳘दशकपालम् पुरोडा᳘शᳫं सविता वै᳘ प्रसविता᳘ सविता᳘ म इमं᳘ यज्ञम् प्र᳘सुवादिति॥
मूलम् - विस्वरम्
अथ सावित्रीष्टिः ।
अथ सावित्रीमिष्टिं निर्वपति । सवित्रे प्रसवित्रे द्वादशकपालं 11 पुरोडाशम् । सविता वै प्रसविता । सविता म इमं यज्ञं प्रसुवादिति ॥ ६ ॥
हरिस्वामी
[व्याख्यानं पञ्चमे]
Eggeling
- He then prepares an (ishṭi) offering to Savitr̥ 15–a cake on twelve potsherds to Savitr̥ Prasavitr̥–thinking, May Savitr̥ impel this my sacrifice!’ for Savitr̥ (the sun), indeed, is the impeller (prasavitr̥).
०७
विश्वास-प्रस्तुतिः
त᳘स्यै प᳘ञ्चदश सामिधे᳘न्यो भवन्ति॥
व्वा᳘र्त्रघ्नावा᳘ज्यभागौ य᳘ ऽइमा व्वि᳘श्वा जातान्या᳘ देवो᳘ यातु सविता᳘ सुर᳘त्न ऽइ᳘त्युपाᳫँ᳭शु᳘ हवि᳘षो याज्या ऽनुवा᳘क्ये व्विरा᳘जौ संया᳘ज्ये हि᳘रण्यन्द᳘क्षिणा सुव᳘र्ण्णᳫँ᳘ शत᳘मानन्त᳘स्योक्तम्ब्रा᳘ह्मणम्॥
मूलम् - श्रीधरादि
त᳘स्यै प᳘ञ्चदश सामिधे᳘न्यो भवन्ति॥
व्वा᳘र्त्रघ्नावा᳘ज्यभागौ य᳘ ऽइमा व्वि᳘श्वा जातान्या᳘ देवो᳘ यातु सविता᳘ सुर᳘त्न ऽइ᳘त्युपाᳫँ᳭शु᳘ हवि᳘षो याज्या ऽनुवा᳘क्ये व्विरा᳘जौ संया᳘ज्ये हि᳘रण्यन्द᳘क्षिणा सुव᳘र्ण्णᳫँ᳘ शत᳘मानन्त᳘स्योक्तम्ब्रा᳘ह्मणम्॥
मूलम् - Weber
त᳘स्यै प᳘ञ्चदश सामिधेॗन्यो भवन्ति॥
वा᳘र्त्रघ्नावा᳘ज्यभागौ य᳘ इमा वि᳘श्वा जातान्या᳘ देवो᳘ यातु सविता᳘ सुर᳘त्न इ᳘त्युपांशु᳘ हवि᳘षो याज्यानुवाॗक्ये विरा᳘जौ संयाॗज्ये हि᳘रण्यं द᳘क्षिणा सुव᳘र्णं शत᳘मानं त᳘स्योक्तम् ब्रा᳘ह्मणम्॥
मूलम् - विस्वरम्
तस्यै पंचदश सामिधेन्यो भवंति । वार्त्रघ्नावाज्यभागौ । “य इमा विश्वा जातानि” “आदेवो यातु सविता सुरत्नः” इत्युपांशु हविषो याज्या ऽनुवाक्ये । विराजौ संयाज्ये । हिरण्यं दक्षिणा । सुवर्णं शतमानम् । तस्योक्तं ब्राह्मणम् ॥ ७ ॥
हरिस्वामी
“य इमा 11 विश्वा जातानि” “आ देवो यातु सविता सुरत्नः” इत्याद्याः तिसृष्वपीष्टिषु याज्या ऽनुवाक्याः ब्राह्मणे समाम्नाताः । तासां एषः लिंगक्रमसमाख्यानैरेव विनियोगो द्रष्टव्यः । न वाचनिकः । तथा हि सति “तत्सवितुर्वरेण्यम्” 16 (वा. सं. ३ । २) इत्यादयो गायत्र्यो मंत्रसमाम्नायपठिता याज्या ऽनुवाक्याकार्ये एतास्ताभिः सह विकल्पमाना अर्थवंत्यो भविष्यंति । इतरथा तु अनवकाशा एव स्युः ॥ ७-९ ॥
Eggeling
- For this (offering) there are fifteen kindling-verses;
and the two butter-portions relate to the slaying of Vr̥tra 17. [The verses, R̥g-veda V, 82, 9; VII, 45, 1], ‘He who calleth forth all these beings (with his call, may he, Savitr̥, quicken us)!’ and ‘May the divine Savitr̥ come hither, treasure-laden, (filling the air whilst driving with his steeds; holding in his hand many things meet for man; and laying to rest and awakening the world),’ pronounced in a low voice, are the invitatory and offering formulas of the chief oblation. Those of the Svishṭakr̥t are two virāj-verses 18. The priests’ fee is gold weighing a hundred (grains): the meaning of this has been explained.
०८
विश्वास-प्रस्तुतिः
(न्त᳘) त᳘स्यै प्प्रयाजे᳘षु ताय᳘मानेषु॥
ब्राह्मणो᳘ व्वीणागाथी᳘ दक्षिणत ऽउ᳘त्तरमन्द्रामुदाघ्नं᳘स्तिस्रः᳘ स्वयᳫँ᳭ सम्भृता[[!!]] गा᳘था गायती᳘त्ययजते᳘त्यददादि᳘ति त᳘स्योक्तम्ब्रा᳘ह्मणम्॥
मूलम् - श्रीधरादि
(न्त᳘) त᳘स्यै प्प्रयाजे᳘षु ताय᳘मानेषु॥
ब्राह्मणो᳘ व्वीणागाथी᳘ दक्षिणत ऽउ᳘त्तरमन्द्रामुदाघ्नं᳘स्तिस्रः᳘ स्वयᳫँ᳭ सम्भृता[[!!]] गा᳘था गायती᳘त्ययजते᳘त्यददादि᳘ति त᳘स्योक्तम्ब्रा᳘ह्मणम्॥
मूलम् - Weber
त᳘स्यै प्रयाजे᳘षु ताय᳘मानेषु॥
ब्राह्मणो᳘ वीणागाथी᳘ दक्षिणत उ᳘त्तरमन्द्रामुदाघ्न᳘ᳫं᳘स्तिस्रः᳘ स्वयंस᳘म्भृता गा᳘था गायती᳘त्ययजते᳘त्यददादि᳘ति त᳘स्योक्तम् ब्रा᳘ह्मणम्॥
मूलम् - विस्वरम्
तस्यै प्रयाजेषु 19 तायमानेषु ब्राह्मणो वीणागाथी दक्षिणत उत्तरमंद्रामुदाघ्नन् तिस्रः स्वयंसंभृता गाथा गायति, इत्ययजत, इत्यददादिति । तस्योक्तं ब्राह्मणम् ॥ ८ ॥
हरिस्वामी
[व्याख्यानं सप्तमे]
Eggeling
०९
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थ द्विती᳘यान्नि᳘र्व्वपति॥
सवित्र᳘ ऽआसवित्रे द्वा᳘दशकपालम्पुरोडा᳘शᳫँ᳭ सविता वा᳘ ऽआसविता᳘ सविता᳘ म ऽइमं᳘ यज्ञमा᳘सुवादि᳘ति॥ कांडस्यार्द्धम्॥२१६॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थ द्विती᳘यान्नि᳘र्व्वपति॥
सवित्र᳘ ऽआसवित्रे द्वा᳘दशकपालम्पुरोडा᳘शᳫँ᳭ सविता वा᳘ ऽआसविता᳘ सविता᳘ म ऽइमं᳘ यज्ञमा᳘सुवादि᳘ति॥ कांडस्यार्द्धम्॥२१६॥
मूलम् - Weber
अ᳘थ द्विती᳘यां नि᳘र्वपति॥
सवित्र᳘ आसवित्रे द्वा᳘दशकपालम् पुरोडा᳘शᳫं सविता वा᳘ आसविता᳘ सविता᳘ म इमं᳘ यज्ञमा᳘सुवादि᳘ति॥
मूलम् - विस्वरम्
अथ द्वितीयां निर्वपति । सवित्र आसवित्रे द्वादशकपालं पुरोडाशम् । सविता वा आसविता । सविता म इमं यज्ञमासुवादिति ॥ ९ ॥
हरिस्वामी
[व्याख्यानं सप्तमे]
Eggeling
- He then prepares a second (offering)–a cake on twelve potsherds to Savitr̥ Āsavitr̥–thinking, ‘May Savitr̥ propel this my sacrifice!’ for Savitr̥, indeed, is the propeller (āsavitr̥).
१०
विश्वास-प्रस्तुतिः
त᳘स्यै सप्त᳘दश सामिधे᳘न्यो भवन्ति॥
स᳘द्वन्तावा᳘ज्यभागौ स᳘देवा᳘वरुन्द्धे व्वि᳘श्वानि देव सवितः स᳘घा नो देवः᳘ सविता᳘ सहावे᳘त्युपाᳫँ᳭शु᳘ हवि᳘षो याज्या ऽनुवा᳘क्ये ऽअनुष्टु᳘भौ संया᳘ज्ये रजतᳫँ᳭ हि᳘रण्यन्द᳘क्षिणा नानारूप᳘ताया ऽअ᳘थो ऽउत्क्रमाया᳘नपक्रमाय शत᳘मानं भवति शता᳘युर्व्वै पु᳘रुषः शते᳘न्द्रिय ऽआ᳘युरे᳘वेन्द्रिय᳘म्वी᳘र्य्यमात्म᳘न्द्धत्ते॥
मूलम् - श्रीधरादि
त᳘स्यै सप्त᳘दश सामिधे᳘न्यो भवन्ति॥
स᳘द्वन्तावा᳘ज्यभागौ स᳘देवा᳘वरुन्द्धे व्वि᳘श्वानि देव सवितः स᳘घा नो देवः᳘ सविता᳘ सहावे᳘त्युपाᳫँ᳭शु᳘ हवि᳘षो याज्या ऽनुवा᳘क्ये ऽअनुष्टु᳘भौ संया᳘ज्ये रजतᳫँ᳭ हि᳘रण्यन्द᳘क्षिणा नानारूप᳘ताया ऽअ᳘थो ऽउत्क्रमाया᳘नपक्रमाय शत᳘मानं भवति शता᳘युर्व्वै पु᳘रुषः शते᳘न्द्रिय ऽआ᳘युरे᳘वेन्द्रिय᳘म्वी᳘र्य्यमात्म᳘न्द्धत्ते॥
मूलम् - Weber
त᳘स्यै सप्त᳘दश सामिधेॗन्यो भवन्ति॥
स᳘द्वन्तावा᳘ज्यभागौ स᳘देवा᳘वरुन्द्धे वि᳘श्वानि देव सवितः स᳘ घा नो देवः᳘ सविता᳘ सहावे᳘त्युपांशु᳘ हवि᳘षो याज्यानुवाॗक्ये अनुष्टु᳘भौ संयाॗज्ये रजतᳫं हि᳘रण्यं द᳘क्षिणा नानारूप᳘ताया अ᳘थो उत्क्रमाया᳘नपक्रमाय शत᳘मानम् भवति शता᳘युर्वै पु᳘रुषः शते᳘न्द्रिय आ᳘युरेॗवेन्द्रियं᳘ वीर्य᳘मात्म᳘न्धत्ते॥
मूलम् - विस्वरम्
तस्यै सप्तदश सामिधेन्यो भवन्ति । सद्वन्तावाज्यभागौ । सदेवावरुन्धे । “विश्वानि 19 देव सवितः” “सघा नो देवः सविता सहाव” इत्युपांशु हविषो याज्या ऽनुवाक्ये । अनुष्टुभौ संयाज्ये । रजतं हिरण्यं दक्षिणा । नानारूपतायै । अथो उत्क्रमायानपक्रमाय । शतमानं भवति । शतायुर्वै पुरुषः शतेन्द्रियः । आयुरेवेन्द्रियं वीर्यमात्मन् धत्ते ॥ १० ॥
हरिस्वामी
सद्वंतावाज्यभागौ । नानारूपतायै । मध्ये रजतं अभितः सुवर्णं, इत्येवं क्रियमाणे नानारूपास्तिस्रो ऽपीष्ट्यो भवंति । अथो उत्क्रमाय । सुवर्णं प्रथमामिष्टिमुत्क्रम्य उत्तमायां वर्तते इत्युक्तः सः किमर्थं ? अनपक्रमाय । एवं रजतान्तरितम् 23 ॥ १०-१५ ॥
Eggeling
- For this (offering) there are seventeen kindling-verses; and the two butter-portions are possessed of that which is 24: the (truly) existent he thereby obtains. [The verses, R̥g-veda V, 82, 5; VII, 45, 31 ‘All troubles, O divine Savitr̥, (keep from us, do thou send us that which is good)!’ and ‘May that mighty god Savitr̥ (the lord of treasure, send us treasure; shedding wide-spread lustre, may he bestow upon us the joys of mortal life)!’ pronounced in a low voice, are the invitatory and offering formulas of the chief oblation. Those of the Svishṭakr̥t are two anushṭubh verses 25. Silver is the priests’ fee,–for the sake of variety of colour, and also for the sake of (the horse’s) going outside 26 and not going away. It weighs a hundred (grains), for man has a life of a hundred (years), and a hundred energies: it is life, and energy, vigour, he thus secures for himself.
११
विश्वास-प्रस्तुतिः
त᳘स्यै प्प्रयाजे᳘षु ताय᳘मानेषु॥
ब्राह्मणो᳘ व्वीणागाथी᳘ दक्षिणत ऽउ᳘त्तरमन्द्रामुदाघ्नं᳘स्तिस्रः᳘ स्वयᳫँ᳭ सम्भृता[[!!]] गा᳘था गायती᳘त्ययजते᳘त्यददादि᳘ति त᳘स्योक्तम्ब्रा᳘ह्मणम् ॥
मूलम् - श्रीधरादि
त᳘स्यै प्प्रयाजे᳘षु ताय᳘मानेषु॥
ब्राह्मणो᳘ व्वीणागाथी᳘ दक्षिणत ऽउ᳘त्तरमन्द्रामुदाघ्नं᳘स्तिस्रः᳘ स्वयᳫँ᳭ सम्भृता[[!!]] गा᳘था गायती᳘त्ययजते᳘त्यददादि᳘ति त᳘स्योक्तम्ब्रा᳘ह्मणम् ॥
मूलम् - Weber
त᳘स्यै प्रयाजे᳘षु ताय᳘मानेषु॥
ब्राह्मणो᳘ वीणागाथी᳘ दक्षिणत उ᳘त्तरमन्द्रामुदाघ्न᳘ᳫं᳘स्तिस्रः᳘ स्वयंस᳘म्भृता गा᳘था गायती᳘त्ययजते᳘त्यददादि᳘ति त᳘स्योक्तम् ब्रा᳘ह्मणम् ॥
मूलम् - विस्वरम्
तस्यै प्रयाजेषु तायमानेषु । ब्राह्मणो वीणागाथी दक्षिणत उत्तरमंद्रामुदाघ्नन् तिस्रः स्वयं संभृता गाथा गायति, इत्ययजत, इत्यददादिति । तस्योक्तं ब्राह्मणम् ॥ ११ ॥
हरिस्वामी
[व्याख्यानं दशमे]
Eggeling
- Whilst the fore-offerings of this (ishṭi) are being performed, a Brāhman lute-player, striking up the uttaramandrā (tune), sings three strophes composed by himself (on topics such as), ‘Such a sacrifice he offered,–Such gifts he gave:’ the meaning of this has been explained.
१२
विश्वास-प्रस्तुतिः
(म) अथ[[!!]] तृतीयान्निर्व्वपति[[!!]]॥
सवित्रे᳘ सत्य᳘प्प्रसवाय द्वा᳘दशकपालमपुरोडा᳘शमेष᳘ ह वै᳘ सत्यः᳘ प्प्रसवो यः᳘ सवितुः᳘ सत्ये᳘न मे प्प्रसवे᳘नेमं᳘ यज्ञम्प्र᳘सुवादि᳘ति॥
मूलम् - श्रीधरादि
(म) अथ[[!!]] तृतीयान्निर्व्वपति[[!!]]॥
सवित्रे᳘ सत्य᳘प्प्रसवाय द्वा᳘दशकपालमपुरोडा᳘शमेष᳘ ह वै᳘ सत्यः᳘ प्प्रसवो यः᳘ सवितुः᳘ सत्ये᳘न मे प्प्रसवे᳘नेमं᳘ यज्ञम्प्र᳘सुवादि᳘ति॥
मूलम् - Weber
अ᳘थ तृती᳘यां नि᳘र्वपति॥
सवित्रे᳘ सत्य᳘प्रसवाय द्वा᳘दशकपालम् पुरोडा᳘शमेष ह वै᳘ सत्यः᳘ प्रसवो यः᳘ सवितुः᳘ सत्ये᳘न मे प्रसवे᳘नेमं᳘ यज्ञम् प्र᳘सुवादि᳘ति॥
मूलम् - विस्वरम्
अथ तृतीयां निर्वपति । सवित्रे सत्यप्रसवाय द्वादशकपालं पुरोडाशम् । एष ह वै सत्यः प्रसवः । यः सवितुः । सत्येन मे प्रसवेनेमं यज्ञं प्रसुवादिति ॥ १२ ॥
हरिस्वामी
[व्याख्यानं दशमे]
Eggeling
- He then prepares a third (offering)–a cake
on twelve potsherds to Savitr̥ Satyaprasava (‘of true impulse’); for that, indeed, is the true impulse which is Savitr̥’s: ‘May he impel with true impulse this my sacrifice!’ so he thinks.
१३
विश्वास-प्रस्तुतिः
त᳘स्यै सप्त᳘दशैव᳘ सामिधे᳘न्यो भवन्ति॥
रयिम᳘न्तावा᳘ज्यभागौ᳘ व्वी᳘र्य्यम्वै᳘[[!!]] रयि᳘र्व्वी᳘र्य्यस्या᳘प्त्यै व्वी᳘र्य्यस्या᳘वरुद्ध्या ऽआ᳘ विश्व᳘देवᳫँ᳭ स᳘त्पतिन्न᳘ प्प्रमि᳘ये सवितुर्द्दे᳘व्यस्य तदि᳘त्युपाᳫँ᳭शु᳘ हवि᳘षो याज्या ऽनुवा᳘क्ये नि᳘त्ये संया᳘ज्ये ने᳘द्यज्ञपथाद᳘यानी᳘ति कॢप्त᳘ ऽएव᳘ य᳘ज्ञे ऽन्ततः प्प्र᳘तितिष्ठति त्रिष्टु᳘भौ भवत ऽइन्द्रियम्वै᳘[[!!]] व्वी᳘र्य्यं त्रिष्टु᳘बिन्द्रिय᳘स्यैव᳘ व्वी᳘र्य्यस्या᳘वरुद्ध्यै हि᳘रण्यन्द᳘क्षिणा सुव᳘र्ण्णᳫँ᳭ शत᳘मानं त᳘स्योक्तम्ब्रा᳘ह्मणम्॥
मूलम् - श्रीधरादि
त᳘स्यै सप्त᳘दशैव᳘ सामिधे᳘न्यो भवन्ति॥
रयिम᳘न्तावा᳘ज्यभागौ᳘ व्वी᳘र्य्यम्वै᳘[[!!]] रयि᳘र्व्वी᳘र्य्यस्या᳘प्त्यै व्वी᳘र्य्यस्या᳘वरुद्ध्या ऽआ᳘ विश्व᳘देवᳫँ᳭ स᳘त्पतिन्न᳘ प्प्रमि᳘ये सवितुर्द्दे᳘व्यस्य तदि᳘त्युपाᳫँ᳭शु᳘ हवि᳘षो याज्या ऽनुवा᳘क्ये नि᳘त्ये संया᳘ज्ये ने᳘द्यज्ञपथाद᳘यानी᳘ति कॢप्त᳘ ऽएव᳘ य᳘ज्ञे ऽन्ततः प्प्र᳘तितिष्ठति त्रिष्टु᳘भौ भवत ऽइन्द्रियम्वै᳘[[!!]] व्वी᳘र्य्यं त्रिष्टु᳘बिन्द्रिय᳘स्यैव᳘ व्वी᳘र्य्यस्या᳘वरुद्ध्यै हि᳘रण्यन्द᳘क्षिणा सुव᳘र्ण्णᳫँ᳭ शत᳘मानं त᳘स्योक्तम्ब्रा᳘ह्मणम्॥
मूलम् - Weber
त᳘स्यै सप्त᳘दशैव᳘ सामिधेॗन्यो भवन्ति॥
रयिम᳘न्तावा᳘ज्यभागौ वीर्यं᳘ वै᳘ रयि᳘वीर्य᳘स्या᳘प्त्यै वीर्य᳘स्या᳘वरुद्ध्या आ᳘ विश्व᳘देवᳫं स᳘त्पतिं न᳘ प्रमि᳘ये सवितुर्दै᳘व्यस्य तदि᳘त्युपांशु᳘ हवि᳘षो याज्यानुवाॗक्ये नि᳘त्ये संयाॗज्ये ने᳘द्यज्ञपथाद᳘यानी᳘ति कॢप्त᳘ एव᳘ यॗज्ञेऽन्ततः प्र᳘तितिष्ठति त्रिष्टु᳘भौ भवत इ᳘न्द्रे वै᳘ वीर्यं᳘ त्रिष्टु᳘बिन्द्रिय᳘स्यैव᳘ वीर्य᳘स्या᳘वरुद्ध्यै हि᳘रण्यं द᳘क्षिणा सुव᳘र्णं शत᳘मानं त᳘स्योक्तम् ब्रा᳘ह्मणम्॥
मूलम् - विस्वरम्
तस्यै सप्तदशैव सामिधेन्यो भवंति । रयिमंतावाज्यभागौ । वीर्यं वै रयिः । वीर्यस्याप्त्यै । वीर्यस्यावरुद्ध्यै । “आ विश्वदेवं 23 सत्पतिम्” । “न प्रमिये सवितुर्दैव्यस्य तत्” इत्युपांशु हविषो याज्या ऽनुवाक्ये । नित्ये संयाज्ये । नेद्यज्ञपथादयानीति । क्लृप्त एव यज्ञे ऽन्ततः प्रतितिष्ठति । त्रिष्टुभौ भवतः । इंद्रियं वै वीर्यं त्रिष्टुप् इन्द्रियस्यैव वीर्यस्यावरुद्ध्यै । हिरण्यं दक्षिणा । सुवर्णं शतमानम् । तस्योक्तं ब्राह्मणम् 27 ॥ १३ ॥
हरिस्वामी
[व्याख्यानं दशमे]
Eggeling
- For this (ishṭi) there are again seventeen kindling-verses. The two butter-portions are possessed of ‘wealth 28,’ with a view to his obtaining and securing vigour, for wealth is vigour (strength). [The verses, R̥g-veda V, 82, 7; IV, 54, 4,] ‘The all-divine, true lord (we hope to gain this day by our hymns, Savitr̥ of true impulsion),’ and ‘Indestructible is that (work) of the divine Savitr̥, (that he will ever sustain the whole world: whatever he, the fair-fingered, bringeth forth over the extent of the earth and the expanse of the sky, that is truly his own),’ pronounced in a low voice, are the invitatory and offering formulas of the chief offering. Those of the Svishṭakr̥t (he makes) the regular ones 29, thinking, ‘Lest I should depart from the path of sacrifice:’ he thus finally establishes himself in the well-ordered sacrifice. Trishṭubh-verses they are for the sake of his gaining and securing (Indra’s) energy, vigour, for the Trishṭubh is the vigour in Indra. The priests’ fee is gold weighing a hundred (grains): the meaning of this has been explained 30.
१४
विश्वास-प्रस्तुतिः
(न्त᳘) त᳘स्यै प्रयाजे᳘षु ताय᳘मानेषु॥
ब्राह्मणो᳘ व्वीणागाथी᳘ दक्षिणत ऽउ᳘त्तरमन्द्रामुदाघ्नं᳘स्तिस्रः᳘ स्वयᳫँ᳭ सम्भृता गा᳘था गायती᳘त्ययजते᳘त्यददादि᳘ति त᳘स्योक्तम्ब्रा᳘ह्मणम् ॥
मूलम् - श्रीधरादि
(न्त᳘) त᳘स्यै प्रयाजे᳘षु ताय᳘मानेषु॥
ब्राह्मणो᳘ व्वीणागाथी᳘ दक्षिणत ऽउ᳘त्तरमन्द्रामुदाघ्नं᳘स्तिस्रः᳘ स्वयᳫँ᳭ सम्भृता गा᳘था गायती᳘त्ययजते᳘त्यददादि᳘ति त᳘स्योक्तम्ब्रा᳘ह्मणम् ॥
मूलम् - Weber
त᳘स्यै प्रयाजे᳘षु ताय᳘मानेषु॥
ब्राह्मणो᳘ वीणानेव᳘ रुद्रा᳘दन्त᳘र्दधाति त᳘स्माद्य᳘त्रैॗषाश्वमेध आ᳘हुतिर्हूय᳘ते न त᳘त्र रुद्रः᳘ पशू᳘नभि᳘मन्यते ॥
मूलम् - विस्वरम्
तस्यै प्रयाजेषु तायमानेषु ब्राह्मणो वीणागाथी दक्षिणत उत्तरमंद्रामुदाघ्नन् तिस्रः स्वयं संभृता गाथा गायति, इत्ययजत, इत्यददादिति । तस्योक्तं ब्राह्मणम् ॥ १४ ॥
हरिस्वामी
[व्याख्यानं दशमे]
Eggeling
- Whilst the fore-offerings of this (ishṭi) are
being performed, a Brāhman lute-player, striking up the uttaramandrā (tune), sings three strophes composed by himself (on topics such as), ‘Such a sacrifice he offered,–Such gifts he gave:’ the meaning of this has been explained.
१५
विश्वास-प्रस्तुतिः
(मे) एत᳘स्याᳫँ᳭ स᳘ᳫँ᳘स्थितायाम्॥
(मु) उपोत्था᳘याध्वर्य्यु᳘श्च य᳘जमानश्चा᳘श्वस्य द᳘क्षिणे क᳘र्ण्ण ऽआ᳘जपतो व्विभू᳘र्म्मात्रा᳘ प्प्रभूः᳘ पित्रे᳘ति त᳘स्योक्तम्ब्रा᳘ह्मणम᳘थैनमु᳘दञ्चम्प्रा᳘ञ्चम्प्र᳘सृजत ऽएषा᳘ होभ᳘येषान्देवमनुष्या᳘णां दिग्यदु᳘दीची प्रा᳘ची स्वा᳘यामे᳘वैनं त᳘द्दिशि᳘ धत्तो न वै स्व᳘ ऽआय᳘तने प्प्र᳘तिष्ठितो रिष्यत्य᳘रिष्ट्यै॥
मूलम् - श्रीधरादि
(मे) एत᳘स्याᳫँ᳭ स᳘ᳫँ᳘स्थितायाम्॥
(मु) उपोत्था᳘याध्वर्य्यु᳘श्च य᳘जमानश्चा᳘श्वस्य द᳘क्षिणे क᳘र्ण्ण ऽआ᳘जपतो व्विभू᳘र्म्मात्रा᳘ प्प्रभूः᳘ पित्रे᳘ति त᳘स्योक्तम्ब्रा᳘ह्मणम᳘थैनमु᳘दञ्चम्प्रा᳘ञ्चम्प्र᳘सृजत ऽएषा᳘ होभ᳘येषान्देवमनुष्या᳘णां दिग्यदु᳘दीची प्रा᳘ची स्वा᳘यामे᳘वैनं त᳘द्दिशि᳘ धत्तो न वै स्व᳘ ऽआय᳘तने प्प्र᳘तिष्ठितो रिष्यत्य᳘रिष्ट्यै॥
मूलम् - Weber
एत᳘स्याᳫं स᳘ᳫं᳘स्थितायाम्॥
उपोत्था᳘याध्वर्यु᳘श्च य᳘जमानश्चा᳘श्वस्य द᳘क्षिणे क᳘र्ण आ᳘जपतो विभू᳘र्मात्रा᳘ प्रभूः᳘ पित्रे᳘ति त᳘स्योक्तम् ब्रा᳘ह्मणम᳘थैनमु᳘दञ्चम् प्रा᳘ञ्चम् प्र᳘सृजत एषा᳘ होभ᳘येषां देवमनुष्या᳘णां दिग्यदु᳘दीची प्रा᳘ची स्वा᳘यामेॗवैनं त᳘द्दिषि᳘ धत्तो न वै स्व᳘ आय᳘तने प्र᳘तिष्ठितो रिष्यत्य᳘रिष्ट्यै॥
मूलम् - विस्वरम्
एतस्यां संस्थितायाम्, उपोत्थायाध्वर्युश्च यजमानश्च अश्वस्य दक्षिणे कर्ण आजपतः 31 । “विभूर्मात्रा प्रभूः पित्रा"- (वा. सं. २२ । १९) इति । तस्योक्तं ब्राह्मणम् । अथैनमुदंचं प्रांचं प्रसृजतः । एषा ह उभयेषां देवमनुष्याणां दिक् । यदुदीची प्राची । स्वायामेवैनं तद्दिशि धत्तः । न वै स्व आयतने प्रतिष्ठितो रिष्यत्यरिष्ट्यै ॥ १५ ॥
हरिस्वामी
[व्याख्यानं दशमे]
Eggeling
- When this (offering) is completed, the Adhvaryu and the Sacrificer rise, and whisper in the horse’s right ear (Vāj. S. XXII, 19), ‘Plenteous by thy mother, strengthful by dry father . . .!’ the meaning of this has been explained 32. They then set it free towards the north-east, for that–to wit, the north-east–is the region of both gods and men: they thus consign it to its own region, in order to its suffering no injury, for one who is established in his own home suffers no injury.
१६
विश्वास-प्रस्तुतिः
स᳘ ऽआह दे᳘वा ऽआशापालाः॥
(ऽ) एत᳘न्देवेभ्यो᳘ ऽश्वम्मे᳘धाय प्प्रो᳘क्षितᳫँ᳭ रक्षते᳘त्युक्ता᳘ मानुषा᳘ ऽआशापाला ऽअ᳘थैते दे᳘वा ऽआप्याः᳘ साध्या᳘ ऽअन्वाध्या᳘ मरु᳘तस्त᳘मेत᳘ ऽउभ᳘ये देवमनुष्याः᳘ सम्विदाना ऽअ᳘प्प्रत्यावर्त्तयन्तः सम्वत्सर᳘ᳫँ᳘ रक्षन्ति तद्यन्न᳘ प्प्रत्यावर्त्त᳘यन्त्येष वा᳘ ऽएष त᳘पति क᳘ ऽउ᳘ ह्येतम᳘र्हति प्प्रत्या᳘वर्त्तयितुं य᳘द्ध्येनम्प्रत्यावर्त्त᳘येयुः प᳘रागे᳘वेदᳫँ᳭ स᳘र्व्वᳫँ᳭ स्यात्त᳘स्माद᳘प्रत्यावर्त्तᳫँ᳭ रक्षन्ति॥
मूलम् - श्रीधरादि
स᳘ ऽआह दे᳘वा ऽआशापालाः॥
(ऽ) एत᳘न्देवेभ्यो᳘ ऽश्वम्मे᳘धाय प्प्रो᳘क्षितᳫँ᳭ रक्षते᳘त्युक्ता᳘ मानुषा᳘ ऽआशापाला ऽअ᳘थैते दे᳘वा ऽआप्याः᳘ साध्या᳘ ऽअन्वाध्या᳘ मरु᳘तस्त᳘मेत᳘ ऽउभ᳘ये देवमनुष्याः᳘ सम्विदाना ऽअ᳘प्प्रत्यावर्त्तयन्तः सम्वत्सर᳘ᳫँ᳘ रक्षन्ति तद्यन्न᳘ प्प्रत्यावर्त्त᳘यन्त्येष वा᳘ ऽएष त᳘पति क᳘ ऽउ᳘ ह्येतम᳘र्हति प्प्रत्या᳘वर्त्तयितुं य᳘द्ध्येनम्प्रत्यावर्त्त᳘येयुः प᳘रागे᳘वेदᳫँ᳭ स᳘र्व्वᳫँ᳭ स्यात्त᳘स्माद᳘प्रत्यावर्त्तᳫँ᳭ रक्षन्ति॥
मूलम् - Weber
स᳘ आह दे᳘वा आशापालाः॥
एतं᳘ देवेभ्यो᳘ऽश्वम् मे᳘धाय प्रो᳘क्षितं रक्षते᳘त्युक्ता᳘ मानुषा आशापाला अथैते दै᳘वा आप्याः᳘ साध्या᳘ अन्वाध्या᳘ मरु᳘तस्त᳘मेत᳘ उभ᳘ये देवमनुष्याः᳘ संविदाना अ᳘प्रत्यावर्तयन्तः संवत्सरं᳘ रक्षन्ति तद्यं न᳘ प्रत्यावर्त᳘यन्त्येष वा᳘ एष त᳘पति क᳘ उॗ ह्येतम᳘र्हति प्रत्या !वयितुं यॗद्येनम् प्रत्यावर्त᳘येयुः प᳘रागेॗवेदᳫं स᳘र्वᳫं स्यात्त᳘स्माद᳘प्रत्यावर्तयन्तो रक्षन्ति॥
मूलम् - विस्वरम्
स आह 31- “देवा आशापाला एतं देवेभ्यो ऽश्वं मेधाय प्रोक्षितं रक्षत”- (वा. सं. २२ । १९) इति उक्ता मानुषा आशापालाः । अथो ते देवा आप्याः साध्या अन्वाध्या मरुतः । तमेत उभये देवमनुष्याः संविदाना अप्रत्यावर्तयंतः संवत्सरं रक्षंति । तद्यन्न प्रत्यावर्तयंति । एष वा एषः । य एष तपति । क उ ह्येतमर्हति प्रत्यावर्तयितुम् । यद्ध्येनं प्रत्यावर्तयेयुः । परागेवेदं सर्वं स्यात् । तस्मादप्रत्यावर्तं रक्षंति ॥ १६ ॥
हरिस्वामी
मानुषा दिक्पालाः राजपुत्राः कवचिन इत्यादयः । अथ एते वक्ष्यमाणाः देवा दिक्पालाः । आप्याः साध्या इत्यादयः ॥ १६ ॥
Eggeling
- He says, ‘O ye gods, guardians of the regions, guard ye this horse, consecrated for offering unto the gods!’ The (four kinds of) human guardians of the (four) regions have been told, and these now are the divine ones, to wit, the Āpyas, Sādhyas, Anvādhyas 33 and Maruts; and both of these, gods and men, of one mind, guard it for a year without turning (driving) it back. The reason why they do not turn it back, is that it is he that shines yonder,–and who, forsooth, is able to turn him back? But were they to turn it back, everything here assuredly would go backward (go to ruin): therefore they guard it without turning it back.
१७
विश्वास-प्रस्तुतिः
स᳘ ऽआहा᳘शापालाः॥
(०) ये वा᳘ ऽएत᳘स्योदृ᳘चङ्गमिष्य᳘न्ति राष्ट्रन्ते᳘ भविष्यन्ति रा᳘जानो भविष्यन्त्यभिषेचनी᳘या ऽअ᳘थ य᳘ ऽएत᳘स्योदृ᳘चन्न᳘ गमिष्यन्त्य᳘राष्ट्रन्ते᳘ भविष्यन्त्य᳘राजानो भविष्यन्ति राज᳘न्या व्वि᳘शो ऽनभिषेचनीयास्त᳘स्मान्मा[[!!]] प्प्र᳘मदत स्ना᳘त्वाच्चै᳘वैनमुदका᳘न्निरुन्धीध्वम्व᳘डवाभ्यश्च ते य᳘द्यद्ब्राह्मणजात᳘मुपनिग᳘च्छेत त᳘त्तत्पृच्छेत ब्रा᳘ह्मणाः कि᳘यद्यूय᳘मश्वमेध᳘स्य व्वित्थे᳘ति ते ये न᳘ व्विद्यु᳘र्ज्जिनीया᳘त तान्त्स᳘र्व्वं वा᳘ ऽअश्वमेधः स᳘र्व्वस्यैष न᳘ वेद यो᳘ ब्राह्मणः स᳘न्नश्वमेध᳘स्य न व्वे᳘द सो᳘ ऽब्राह्मणो ज्ये᳘य ऽएव स पा᳘नङ्करवाथ खादन्नि᳘वपाथा᳘थ यत्कि᳘ञ्च जनपदे᳘ ऽकृतान्नᳫँ᳭ स᳘र्व्वं वस्त᳘त्सुतन्ते᳘षाᳫँ᳭ रथकारकुल᳘ ऽएव᳘ वो व्वसतिस्तद्ध्य᳘श्वस्याय᳘तनमि᳘ति॥
मूलम् - श्रीधरादि
स᳘ ऽआहा᳘शापालाः॥
(०) ये वा᳘ ऽएत᳘स्योदृ᳘चङ्गमिष्य᳘न्ति राष्ट्रन्ते᳘ भविष्यन्ति रा᳘जानो भविष्यन्त्यभिषेचनी᳘या ऽअ᳘थ य᳘ ऽएत᳘स्योदृ᳘चन्न᳘ गमिष्यन्त्य᳘राष्ट्रन्ते᳘ भविष्यन्त्य᳘राजानो भविष्यन्ति राज᳘न्या व्वि᳘शो ऽनभिषेचनीयास्त᳘स्मान्मा[[!!]] प्प्र᳘मदत स्ना᳘त्वाच्चै᳘वैनमुदका᳘न्निरुन्धीध्वम्व᳘डवाभ्यश्च ते य᳘द्यद्ब्राह्मणजात᳘मुपनिग᳘च्छेत त᳘त्तत्पृच्छेत ब्रा᳘ह्मणाः कि᳘यद्यूय᳘मश्वमेध᳘स्य व्वित्थे᳘ति ते ये न᳘ व्विद्यु᳘र्ज्जिनीया᳘त तान्त्स᳘र्व्वं वा᳘ ऽअश्वमेधः स᳘र्व्वस्यैष न᳘ वेद यो᳘ ब्राह्मणः स᳘न्नश्वमेध᳘स्य न व्वे᳘द सो᳘ ऽब्राह्मणो ज्ये᳘य ऽएव स पा᳘नङ्करवाथ खादन्नि᳘वपाथा᳘थ यत्कि᳘ञ्च जनपदे᳘ ऽकृतान्नᳫँ᳭ स᳘र्व्वं वस्त᳘त्सुतन्ते᳘षाᳫँ᳭ रथकारकुल᳘ ऽएव᳘ वो व्वसतिस्तद्ध्य᳘श्वस्याय᳘तनमि᳘ति॥
मूलम् - Weber
स᳘ आहा᳘शापालाः॥
ये वा᳘ 34 एत᳘स्योदृ᳘चं गमिष्य᳘न्ति राष्ट्रं ते᳘ भविष्यन्ति रा᳘जानो भविष्यन्त्यभिषेचनी᳘या अ᳘थ य᳘ एत᳘स्योदृ᳘चं न᳘ गमिष्यन्त्य᳘राष्ट्रं ते᳘ भविष्यन्त्य᳘राजानो भविष्यन्ति राजॗन्या वि᳘शोऽनभिषेचनी᳘यास्त᳘स्मान्मा प्र᳘मदत स्ना᳘त्वाच्चैॗवैनमुदका᳘न्निरुन्धीध्वं व᳘डवाभ्यश्च ते य᳘द्यद्ब्राह्मणजात᳘मुपनिग᳘छेत त᳘त्तत्पृछेत ब्रा᳘ह्मणाः कि᳘यद्यूय᳘मश्वमेध᳘स्य वित्थे᳘ति ते ये न᳘ विद्यु᳘र्जिनीया᳘त तान्त्स᳘र्वं वा᳘ अश्वमेधः स᳘र्वस्यैष न वेद यो᳘ ब्राह्मणः स᳘न्नश्वमेध᳘स्य न वे᳘द सो᳘ऽब्राह्मणो ज्ये᳘य एव स पा᳘नं करवाथ खादं नि᳘वपाथा᳘थ यत्किं᳘ च जनपदे᳘ कृतान्नᳫं स᳘र्वं वस्त᳘त्सुतं ते᳘षां रथकारकुल᳘ एव᳘ वो वसतिस्तद्ध्य᳘श्वस्याय᳘तनमि᳘ति॥
मूलम् - विस्वरम्
स आह- आशापाला ये वा एतस्योदृचं गमिष्यंति । राष्ट्रं ते भविष्यंति । राजानो भविष्यंत्यभिषेचनीयाः । अथ य एतस्योदृचं न गमिष्यंति । अराष्ट्रं ते भविष्यंति । अराजानो भविष्यन्ति । राजन्या विशो ऽनभिषेचनीयाः । तस्मान्मा प्रमदत । स्नात्वाच्चैवैनमुदकान्निरुंधीध्वम् । वडवाभ्यश्च । ते यद्यत् ब्राह्मणजातमुपनिगच्छेत । तत्तत्पृच्छेत । ब्राह्मणाः कियद्यूयमश्वमेधस्य वित्थेति । ते ये न विद्युः । जिनीयात तान् । सर्वं वा अश्वमेधः । सर्वस्यैष न वेद । यो ब्राह्मणः सन्नश्वमेधस्य न वेद । सो ऽब्रह्मणः । ज्येय एव सः । पानं करवाथ । खादं न्निवपाथ । अथ यत्किंच जनपदे । अकृतान्नम् । सर्वं वस्तत्सुतम् । तेषां रथकारकुल एव वो वसतिः । तद्ध्यश्वस्यायतनमिति ॥ १७ ॥
हरिस्वामी
सो ऽध्वर्युराह । हे आशापालाः ! युष्माकं मध्ये एतस्य कर्मणः उदृचं समाप्तिं ये गमिष्यंति ते राष्ट्रवंतो भविष्यंति राजानश्च । अराजानः अनीश्वराः । राजन्याः संतो विशः कुटुंबिनः अनभिषेकार्हा भविष्यंति । यस्मादेवं तस्मात्प्रमादं मा कृढ्वम् । स्नात्वाच्चैवैनम् 35 । स्नात्वात् स्नानार्हात्प्रस्नेयादुदकात् एनमश्वं निरुन्धीध्वम् । वडवाभ्यश्चैनं 36 निरुन्धीध्वम् । ब्राह्मणजातं ब्राह्मणसमूहं तत्तत्र ये ब्राह्मणाः अश्वमेधस्य न किंचिदपि आध्वर्यवं हौत्रं औद्गात्रं वा तदेकदेशं वा किंचिन्न विद्युः न जानीयुः । किं कारणं ? यस्मादश्वमेधः सर्वं सर्वाण्येव ऐष्टिकपाशुकसौमिकदार्विहौमिकानि कर्माणि तत्रांतर्गतानि तन्मंत्रब्राह्मणानि चेत्यर्थः । ततश्चांततः सावित्री तत्र विद्यते । तामपि यो न वेद । स ब्राह्मणो न । ब्राह्मणः सन्नपि अब्राह्मणः व्रात्यः पतितसावित्रीकः सः । यथा पुत्रः कार्यहीनः पुत्रो ऽपि अपुत्र उच्यते । एवं स ब्राह्मणः अब्राह्मण उच्यते । ततश्च ज्येय एव सः । “ज्या वयोहानौ”- (धा. पा. क्र्या. प. २८) हानिमात्रे वर्तते । वित्तमानादिना वैश्यवत् हापनीयः । सर्वप्रकारमुपजीव्य 37 इत्यर्थः । पानमुदकं करवाथ कुर्वीत । यूयं अश्वाय खादम् । खाद्यत इति खादः यवसादिः । तं नीचैरश्वाय वपाथ । लिङर्थे लेट् । निवपाथ निक्षिपतेत्यर्थः । यत्किंच, 38 यत्किंचित् जनपदे अकृतान्नं असंस्कृतमन्नं सक्तुतंडुलादि । तत्सर्वं युष्मभ्यं सुतं संस्तुतं तदपि भवदुपयोज्यमित्यर्थः । तेषां यजमानानां मध्ये रथकारो 39 यः । तस्य गृहे युष्माकं वसतिः । तद्ध्यश्वस्यायतनमिति । तद्धि (अश्वस्य स्थानस्तरादत्वं वसंतो रिनिसृतं तो रथकारवदिति निगमो भवति ?) ॥ १७ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे काण्डे चतुर्थे ऽध्याये द्वितीयं ब्राह्मणम् ॥ १३ ॥ ४ ॥ २ ॥
Eggeling
- He says, ‘Ye guardians of the quarters, those who go on to the end of this (horse-sacrifice) will
become (sharers of) the royal power, they will become kings worthy of being consecrated; but those who do not go on to the end of this (sacrifice) will be excluded from royal power, they will not become kings, but nobles and peasants, unworthy of being consecrated: do not ye therefore be heedless, and keep it (the horse) from water suitable for bathing and from mares! And whenever ye meet with any kind of Brāhmaṇas, ask ye them, “O Brāhmaṇas, how much know ye of the Aśvamedha?” and those who know naught thereof ye may despoil; for the Aśvamedha is everything, and he who, whilst being a Brāhmaṇa, knows naught of the Aśvamedha, knows naught of anything, he is not a Brāhmaṇa, and as such liable to be despoiled. Ye shall give it drink, and throw down fodder for it; and whatever prepared food there is in the country all that shall be prepared for you. Your abode shall be in the house of a carpenter of these (sacrificers 40), for there is the horse’s resting-place.’
-
सर्वरूपं वा । का. श्रौ. सू. २० । २७ । ↩︎
-
शीघ्रम् । का. श्रौ. सू. २० । २८ । ↩︎
-
साहस्रम् । का. श्रौ. सू. २० । ३० ↩︎
-
दक्षिणाधुर्यसमम् । का. श्रौ. सू. २० । २९ ॥ ↩︎
-
353:2 Thus Harisvāmin,–‘anyebhyo dakshiṇadhuryebhya utkr̥shṭaḥ;’ hardly ‘one which finds no (worthy) yoke-fellow’ (St. Petersb. Dict.). ↩︎
-
य᳘ज्जव᳘समृद्धो᳘ वी᳘र्यं AB. P. द्धो᳘ वी C. ↩︎
-
354:1 Or, black with some other colour. ↩︎
-
त्रिरूपं वा ललामम् । कृत्तिकांजि वा । पूर्वकायकृष्णँ शुक्लापरम् कृष्णसारंगं वा । का. श्रौ. सू. २० । २७ ३२-३५ ॥ ↩︎
-
355:1 One would expect an ‘iti’ here. ↩︎
-
छात्रसंग्रही A. क्षात्रसं BCP. ↩︎
-
देवा आशापाला इति रक्षिणो ऽस्यादिशत्यनुचरीजातीयांस्तावतस्तावतः । कवचिनिषंगिकलापिदंडिनो यथासंख्यम् । का. श्रौ. सू. २० । ५० । अनुचरीजातयस्तु “राजदुहितरः प्रथमायाः” । “राजन्यानां द्वितीयायाः” । “सूतग्रामण्यां तृतीयायाः” । “क्षात्रसंग्रहीतॄणां चतुर्थ्याः” । का. श्रौ. सू. २० । १३-१६। तावतस्तावतः शतं शतमित्यर्थः ॥ ↩︎ ↩︎ ↩︎
-
355:2 Or, furnished with bundles of arrows,–ishuparshiṇaḥ, for which Kāty. XX, 2, 11, has ‘kalāpinaḥ’ (=śarāvapanabhastrāvantaḥ schol.). Harisvāmin explains it as if it were equivalent to ‘ishuvarshiṇaḥ,’ ‘showering arrows.’ ↩︎
-
355:3 Harisvāmin takes ‘kshāttra’ as the body of revenue-officers (tax-gatherers, &c.), ‘āyavyayādhyakshasamūhaḥ.’ ↩︎
-
355:4 That is, according to Harisvāmin, over twenty-four years old; his explanation being based on the etymology of ’nirashṭam’ as ‘outside the eight’ (viz. characteristics of age in horses, each of which is supposed to hold good for three years). ↩︎
-
355:5 The three ishṭis to Savitr̥, treated of in paragraphs 6-17, as well as the proceedings subsequent thereto, are repeated every day during the twelvemonth during which the sacred horse is allowed to roam about. ↩︎
-
वा. सं. २२ । ९ । १४ । तत्सवितुः हिरण्यपा देवस्यचे सुष्टुतिम् रातिँ स० देवस्य स० ६ । ↩︎
-
356:1 See p. 350, note 3. ↩︎
-
356:2 See p. 351, note 3. ↩︎
-
प्रयाजेषु दक्षिणतो ब्राह्मणो यजमानस्य यज्ञदानयुक्ताः स्वयं कृतास्तिस्रो गाथा गायत्युत्तरमंद्रायाम् । का. श्रौ. सू. २० । २ । ७ । ब्राह्मणग्रहणात् ऋत्विग्व्यतिरिक्तो ब्राह्मणः, उत्तरमन्द्रा गायनप्रसिद्धा उत्तरमंद्रानाम्नी वीणा, तस्योक्तं ब्राह्मणम् । श. प. १३ । १ । ५ । १-६ । ↩︎ ↩︎
-
356:3 Or, touching the uttaramandrā lute,–literally, the ‘upper deep’ one, i.e. perhaps one the chords of which are pitched in the upper notes of the lower key. Cf. Scholl. on Katy. XX, 2, 8 uttaramandrā ca gāyanaprasiddhā;–uttaramandrā-saṁjñāyāṁ vīṇāyām. Harisvāmin does not explain the term. ↩︎
-
356:4 Taitt. Br. III, 9, 14, 3 mentions three topics–one for each stanza,–viz. ‘ṭḥuś (such and such gifts) thou gavest, ṭḥuś (by such and such sacrifices) thou didst sacrifice, ṭḥuś thou didst cook (i.e. with such and such food thou didst regale the priests).’ ↩︎
-
356:5 See XIII, 1, 5, 6. ↩︎
-
राजतं शतमानं, देवयाज्ञिकभाष्ये । द्वे कृष्णले समधृते विज्ञेयो रूप्यमाषकः ॥ तैः षोडशभिर्धरणम् । धरणानि दशैव स्यात् शतमानं तु राजतमिति ॥ ↩︎ ↩︎
-
357:1 That is, their anuvākyās contain forms of the root ‘as’ (or ‘bhū’), to be; cf. p. 352, note 2. ↩︎
-
357:2 See XIII, 4, 1, 15, p. 353, note 1. ↩︎
-
357:3 Viz. going outside the sacrificial ground, and yet not running away from its keepers,–this, according to the text, would be symbolically expressed by the gold (which was given as the priests’ fee for the first offering) giving place to silver at the second offering, but coming in again at the third. ↩︎
-
तस्योक्तं ब्राह्मणम् श. प. १३ । १ । १ । ३ । ४ ॥ १३ । १ । ५ । ६ । आ. श्रौ. सू. उ. ष. ६ । ४ । ६ । “य इमा विश्वा जातानि” “आ देवो यातु सविता सुरत्नः” इति । १ । ५ । ४ । १२ । ३ । सघा नो देवः सविता सहावेति द्वे, इत्येवं सावित्रीष्टीनां याज्यापुरो ऽनुवाक्याः ॥ २ ॥ ऋग्वे० । ५ । ४ । १२ । ४ । इमा गिरः सवितारं सुजिह्वं पूर्णगमस्तिमीळते सुपाणिम् ॥ चित्रं नमो बृहदस्मे दधातु यूयं पात स्वस्तिभिः सदा नः । २ । इति सघा नो देव इत्यस्या द्वितीया ऋक् ॥ ↩︎
-
358:1 That is, their invitatory formulas contain the word ‘rayi’ (wealth). What particular verses are intended here, I do not know. ↩︎
-
358:2 Viz. the trishṭubh-verses R̥g-veda X, 2, 1; VI, 15, 14; see p. 351, note . ↩︎
-
358:3 XII, 7, 2, 13. ↩︎
-
अध्वर्युयजमानौ दक्षिणे ऽश्वकर्णे जपतो व्विभूर्मात्रेति । का. श्रौ. सू. १० । ४८ । व्विभूर्मात्रा (वा. सं. २२ । १९) तस्योक्तं ब्राह्मणम् (श. प. १३ । १ । ६ । १ । २ ।) पशुवदुत्सर्जनं निरष्टे ऽश्वशते । का. श्रौ. सू. १० । ४१ । पशुवदिति उत्तरपूर्वा दिक् । ↩︎ ↩︎
-
359:1 See XIII, 1, 6, 1 seqq., 3, 7. 1-2 seqq. ↩︎
-
359:2 On these divine beings see Weber, Ind. Stud. IX, p. 6, note. ↩︎
-
I should prefer to read ये᳘ व (वः), supported by the explanation of Harisv. युष्माकं मध्ये, but the mss. agree in reading ये वा᳘ऽएत᳘स्यो. - ibid. अकृतान्नं (?) and स्तुतं (?) Harisv. ↩︎
-
प्रस्नेयाच्चोदकात् । का. श्रौ. सू. २० । ५२ । पूर्वसूत्रात् वारणमित्यनुवर्तते तदश्वस्येत्यार्थिकम् । यत् स्नानार्हं तोयं ततो ऽपि प्रकृष्टं मञ्जनपर्याप्तं यत्तोयं तत्प्रस्नेयमुच्यते इति देवयाज्ञिकाः । ↩︎
-
वडवाभ्यो वारणम् । का. श्रौ. सू. २० । ५१ । अश्वस्येत्यार्थिकम् । ↩︎
-
ब्राह्मणो ऽश्वमेधा ऽविद्वान् वृत्तिः सवः । का. श्रौ. सू. २० । ५३ । वृत्तिर्जीविकोपायः । ↩︎
-
पक्वान्नं च सर्वेषु । का. श्रौ. सू. २० । ५४ । ↩︎
-
रथकारगृहवासाश्च । अभिषेक्या भविष्यत समाप्नुवंतमित्याह राजपुत्रान् । का. श्रौ. सू. २० । ५५ । ५६ । ↩︎
-
360:1 Thus Harisvāmin,–teshāṁ ca yajamānānāṁ madhye rathakāro yas tasya gr̥he yushmākaṁ vasataḥ. The plural is probably meant as including the subjects of the king (cf. XI, 8, 4, 1), and the villages within reach of which the horse will roam. ↩︎