०१

विश्वास-प्रस्तुतिः

प्प्रजा᳘पतिरकामयत॥
स᳘र्व्वान्का᳘मानाप्नुयाᳫँ᳭ स᳘र्व्वा᳘ व्व्यष्टी᳘र्व्व्यश्नुवीये᳘ति[[!!]] स᳘ ऽएत᳘मश्वमेधं᳘ त्रिरात्रं᳘ यज्ञक्रतु᳘मपश्यत्तमा᳘हरत्ते᳘नायजत ते᳘नेष्ट्वा स᳘र्व्वान्का᳘मानाप्नोत्स᳘र्व्वा᳘ व्व्यष्टी᳘र्व्व्याश्नुत[[!!]] स᳘र्व्वान्ह वै का᳘मानाप्नोति स᳘र्व्वा᳘ व्व्यष्टी᳘र्व्व्यश्नुते᳘[[!!]] यो ऽश्वमेधे᳘न य᳘जते॥

मूलम् - श्रीधरादि

प्प्रजा᳘पतिरकामयत॥
स᳘र्व्वान्का᳘मानाप्नुयाᳫँ᳭ स᳘र्व्वा᳘ व्व्यष्टी᳘र्व्व्यश्नुवीये᳘ति[[!!]] स᳘ ऽएत᳘मश्वमेधं᳘ त्रिरात्रं᳘ यज्ञक्रतु᳘मपश्यत्तमा᳘हरत्ते᳘नायजत ते᳘नेष्ट्वा स᳘र्व्वान्का᳘मानाप्नोत्स᳘र्व्वा᳘ व्व्यष्टी᳘र्व्व्याश्नुत[[!!]] स᳘र्व्वान्ह वै का᳘मानाप्नोति स᳘र्व्वा᳘ व्व्यष्टी᳘र्व्व्यश्नुते᳘[[!!]] यो ऽश्वमेधे᳘न य᳘जते॥

मूलम् - Weber

प्रजा᳘पतिरकामयत॥
स᳘र्वान्का᳘मानाप्नुयाᳫं स᳘र्वा व्य᳘ष्टीर्व्य᳘श्नुवीये᳘ति स᳘ एत᳘मश्वमेधं᳘ त्रिरात्रं᳘ यज्ञक्रतु᳘मपश्यत्तमा᳘हरत्ते᳘नायजत ते᳘नेष्ट्वा स᳘र्वान्का᳘मानाप्नोत्स᳘र्वा व्य᳘ष्टीॗर्व्याश्नुत स᳘र्वान्ह वै का᳘मानाप्नोति स᳘र्वा व्य᳘ष्टीर्व्य᳘श्नुतेॗ योऽश्वमेधे᳘न य᳘जते॥

मूलम् - विस्वरम्

अथाश्वमेधस्य फलाधिकारिकालादिकम् ।

प्रजापतिरकामयत । सर्वान्कामानाप्नुयाम् । सर्वा व्यष्टीर्व्यश्नुवीयेति । स एतमश्वमेधं त्रिरात्रं यज्ञक्रतुमपश्यत् । तमाहरत् । तेनायजत । तेनेष्ट्वा सर्वान्कामानाप्नोत् । सर्वा व्यष्टीव्यश्नुत । सर्वान् ह वै कामानाप्नोति । सर्वा व्यष्टीर्व्यश्नुते । यो ऽश्वमेधेन यजते ॥ १ ॥

हरिस्वामी

प्रजापतिरकामयत । सर्वान्कामान् जगद्गतानाप्नुयाम्, सर्वा व्यष्टीः व्याप्या अवस्थाः विभागेनाश्नुवीयेति । सर्वान् 1 ह वै कामानाप्नोति इति फलत एवाश्वमेधस्योत्पत्तिः ॥ १ ॥

Eggeling
  1. Prajāpati desired, ‘Would that I obtained all my desires! would that I attained all attainments!’ He beheld this three days’ Soma-sacrifice, the Aśvamedha, and took possession of it, and sacrificed with it: by sacrificing therewith he obtained all his desires, and attained all attainments; and, verily, whosoever performs the Aśvamedha sacrifice obtains all his desires, and attains all attainments.

०२

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
क᳘स्मिन्नृता᳘वभ्यारम्भ ऽइ᳘ति ग्ग्री᳘ष्मे ऽभ्या᳘रभेते᳘त्यु[[!!]] है᳘क ऽआहुर्ग्ग्रीष्मो वै᳘ क्षत्रि᳘यस्यर्त्तुः᳘ क्षत्रिययज्ञ᳘ ऽउ वा᳘ ऽएष य᳘दश्वमेध ऽइ᳘ति॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
क᳘स्मिन्नृता᳘वभ्यारम्भ ऽइ᳘ति ग्ग्री᳘ष्मे ऽभ्या᳘रभेते᳘त्यु[[!!]] है᳘क ऽआहुर्ग्ग्रीष्मो वै᳘ क्षत्रि᳘यस्यर्त्तुः᳘ क्षत्रिययज्ञ᳘ ऽउ वा᳘ ऽएष य᳘दश्वमेध ऽइ᳘ति॥

मूलम् - Weber

त᳘दाहुः॥
क᳘स्मिन्नृता᳘वभ्यारम्भ इ᳘ति ग्रीॗष्मेॗऽभ्यारभेते᳘त्यु है᳘क आहुर्ग्रीष्मो वै᳘ क्षत्रि᳘यस्यर्तुः᳘ क्षत्रिययज्ञ᳘ उ वा᳘ एष य᳘दश्वमेध इ᳘ति॥

मूलम् - विस्वरम्

तदाहुः- कस्मिन् ऋतौ अभ्यारंभ इति । ग्रीष्मे ऽभ्यारभेत- इत्यु हैक आहुः । ग्रीष्मो वै क्षत्रियस्यर्तुः । क्षत्रिययज्ञ उ वा एषः । यदश्वमेध इति ॥ २ ॥

हरिस्वामी

ग्रीष्मो वै क्षत्रियस्य उचितऋतुः स हि तत्राग्नी आधत्ते । ग्रीष्मवच्च करैः संतापयति । अर्थवादो ऽयम् । क्षत्रियस्य चैष यज्ञो यः अश्वमेधः । एतस्मादेव वचनात् राष्ट्री 1 अश्वमेधेन यजेत । “प्राची दिग्धोतुर्दक्षिणा” (श. प. १३ । ५ । ४ । २४) इत्यादिवचनसामर्थ्याच्च क्षत्रियस्य हि राज्यमुचितम् । राजा च राष्ट्री भवति । ननु च- अन्ये अपि महीं पालयंतो दृश्यंते । सत्यम् । न च ते वृत्तच्युताः शास्त्रेणाधिक्रियते । तच्चापदि प्रायो ऽनन्तरावृत्तिर्विहिता । सत्यम् । तावदेव तु सा । यावत् तया दीनमात्मानमुद्धरति । नित्यानि च कर्माणि करोति । काम्यस्तु अश्वमेधो महाप्रपंचश्च । न तम् आपत्कल्पचोदना क्षमते । न चान्यः अश्वमेधचोदनायां विशेषः अस्ति । “येन एषा प्रायश्चित्तचोदनैव अश्वविषये स्यात् । तस्मात् क्षत्रियस्यैवाश्वमेध इत्युपपन्नम् । अत एव कारणात् प्रायश्चित्तभूतो ऽप्येष क्षत्रियस्यैव, नान्यस्य । अवभृथस्नानप्रायश्चित्तं तु सर्ववर्णानां अविशेषात् ॥ २ ॥

Eggeling
  1. Concerning this they say, ‘In what season is the beginning (to be made)?’–‘Let him begin it in summer,’ say some, ‘for summer is the Kshatriya’s season, and truly this–to wit, the Aśvamedha–is the Kshatriya’s sacrifice.’

०३

विश्वास-प्रस्तुतिः

तद्वै᳘ व्वसन्त᳘ ऽए᳘वाभ्या᳘रभेत॥
व्वसन्तो वै᳘ ब्राह्मण᳘स्यर्तुर्य्य᳘ ऽउ वै क᳘श्च य᳘जते ब्राह्मणीभू᳘येवैव᳘ यजते त᳘स्माद्वसन्त᳘ ऽए᳘वाभ्या᳘रभेत॥

मूलम् - श्रीधरादि

तद्वै᳘ व्वसन्त᳘ ऽए᳘वाभ्या᳘रभेत॥
व्वसन्तो वै᳘ ब्राह्मण᳘स्यर्तुर्य्य᳘ ऽउ वै क᳘श्च य᳘जते ब्राह्मणीभू᳘येवैव᳘ यजते त᳘स्माद्वसन्त᳘ ऽए᳘वाभ्या᳘रभेत॥

मूलम् - Weber

तद्वै᳘ वसन्त᳘ एॗवाभ्या᳘रभेत॥
वसन्तो वै᳘ ब्रह्मण᳘स्यर्तुर्य᳘ उ वै क᳘श्च य᳘जते ब्राह्मणीभू᳘येवैव᳘ यजते त᳘स्माद्वसन्त᳘ एॗवाभ्या᳘रभेत॥

मूलम् - विस्वरम्

तद्वै वसंत एवाभ्यारभेत । वसंतो वै ब्राह्मणस्यर्तुः । य उ वै कश्च यजते । ब्राह्मणीभूयेवैव यजते । तस्माद्वसंत एवाभ्यारभेत ॥ ३ ॥

हरिस्वामी

तद्वै वसंते । वसंतप्रत्यासन्नः फाल्गुनीशुक्ल एवात्र वसंत उक्तः । “सा या ऽसौ फाल्गुनी”- इत्युत्तरवचनानुरोधात् । तथा च सति तत एव वचनात् ऋतुर्मासः पक्षस्तिथिरपि एतत्सर्वं विशेषतः सिद्धमित्ययं दर्शनार्थमुपन्यासः । एवं विधेरन्वारंभश्चात्र ब्रह्मौदनपाकादिरेवेत्यभिप्रायः । क्संतो वै ब्राह्मणस्यर्तुः । स हि तत्राधानोपनयनादि करोति । स स्पर्शतो दमत्वाच्च ब्राह्मण इव शांतः । य उ वै कश्च यजते । यश्च वै कश्च यजते । स दीक्षया ब्राह्मणीभूय एव यजते । तथा च “दीक्षयेद्ब्राह्मण इत्याह” इत्यत्रोक्तम् ॥ ३ ॥

Eggeling
  1. But let him rather begin it in spring; for

spring is the Brāhmaṇa’s season, and truly whosoever sacrifices, sacrifices after becoming, as it were, a Brāhmaṇa: let him therefore by all means begin it in spring.

०४

विश्वास-प्रस्तुतिः

सा᳘ या ऽसौ᳘ फाल्गुनी᳘ पौर्णमासी भ᳘वति॥
त᳘स्यै पुर᳘स्तात्षडहे᳘ वा सप्ताहे᳘ वर्त्त्वि᳘ज ऽउपसमा᳘यन्त्यध्वर्य्यु᳘श्च हो᳘ता च ब्रह्मा᳘ चोद्गाता᳘ चैतान्वा ऽअ᳘न्वन्य᳘ ऽऋत्वि᳘जः[[!!]]॥

मूलम् - श्रीधरादि

सा᳘ या ऽसौ᳘ फाल्गुनी᳘ पौर्णमासी भ᳘वति॥
त᳘स्यै पुर᳘स्तात्षडहे᳘ वा सप्ताहे᳘ वर्त्त्वि᳘ज ऽउपसमा᳘यन्त्यध्वर्य्यु᳘श्च हो᳘ता च ब्रह्मा᳘ चोद्गाता᳘ चैतान्वा ऽअ᳘न्वन्य᳘ ऽऋत्वि᳘जः[[!!]]॥

मूलम् - Weber

साॗ यासौ᳘ फाल्गुनी᳘ पौर्णमासी भ᳘वति॥
त᳘स्यै पुर᳘स्तात्षडहे᳘ वा सप्ताहे᳘ वर्त्वि᳘ज उपसमा᳘यन्त्यध्वर्यु᳘श्च हो᳘ता च ब्रह्मा᳘ चोद्गाता᳘ चैतान्वा᳘ अ᳘न्वन्य᳘ ऋत्वि᳘जः॥

मूलम् - विस्वरम्

सा या ऽसौ फाल्गुनी पौर्णमासी भवति । तस्यै पुरस्तात् षडहे वा सप्ताहे वा ऋज उपसमायंति । अध्वर्युश्च होता च ब्रह्मा चोद्गाता च । एतान्वा अन्वन्य ऋत्विजः ॥ ४ ॥

हरिस्वामी

सा 2 या ऽसौ फाल्गुनी । तस्यैतस्याः पुरस्तात्षडहे वा सप्ताहे । षडहे नवम्याम् । सप्ताहे अष्टम्याम् । एतान् अध्वर्य्वादीन् अनु अन्ये ऋत्विजस्त्रयस्त्रयः प्रतिप्रस्थात्रादयः उपसमायन्ति । तदनुगुणवचनम् । तैः समक्ष्या इत्यर्थः ॥ ४ ॥

Eggeling
  1. And six days, or seven days, before that full-moon of Phālguna, the officiating priests meet together–to wit, the Adhvaryu, the Hotr̥, the Brahman, and the Udgātr̥; for under these 3 the other priests are.

०५

विश्वास-प्रस्तुतिः

(स्ते᳘) ते᳘भ्यो ऽध्वर्य्यु᳘श्चातुष्प्राश्य᳘म्ब्रह्मौदनन्नि᳘र्व्वपति॥
त᳘स्योक्तम्ब्रा᳘ह्मणञ्चतु᳘रः पात्रां᳘श्चतु᳘रो ऽञ्जलीं᳘श्चतु᳘रः प्प्र᳘सृतान्द्वा᳘दशविधन्द्वा᳘दश मा᳘साः सम्वत्सरः स᳘र्व्वᳫँ᳭ सम्वत्सरः स᳘र्व्वमश्वमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै॥

मूलम् - श्रीधरादि

(स्ते᳘) ते᳘भ्यो ऽध्वर्य्यु᳘श्चातुष्प्राश्य᳘म्ब्रह्मौदनन्नि᳘र्व्वपति॥
त᳘स्योक्तम्ब्रा᳘ह्मणञ्चतु᳘रः पात्रां᳘श्चतु᳘रो ऽञ्जलीं᳘श्चतु᳘रः प्प्र᳘सृतान्द्वा᳘दशविधन्द्वा᳘दश मा᳘साः सम्वत्सरः स᳘र्व्वᳫँ᳭ सम्वत्सरः स᳘र्व्वमश्वमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै॥

मूलम् - Weber

ते᳘भ्योऽध्वर्यु᳘श्चातुष्प्राश्य᳘म् ब्रह्मौदनं नि᳘र्वपति॥
त᳘स्योक्तम् ब्रा᳘ह्मणं चतु᳘रः पात्रां᳘श्चतुरोऽञ्जलीं᳘श्चतु᳘रः प्र᳘सृतान्द्वा᳘दशविधं द्वा᳘दश मा᳘साः संवत्सरः स᳘र्वᳫं संवत्सरः स᳘र्वमश्वमेधः स᳘र्वस्या᳘प्त्यै स᳘र्वस्या᳘वरुद्ध्यै॥

मूलम् - विस्वरम्

तेभ्यो ऽध्वर्युश्चातुष्प्राश्यं ब्रह्मौदनं निर्वपति । तस्योक्तं ब्राह्मणम् । चतुरः पात्रांश्चतुरो ऽञ्जलींश्चतुरः प्रसृतान् द्वादशविधम् । द्वादश मासाः संवत्सरः । सर्वं संवत्सरः । सर्वमश्वमेधः । सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै ॥ ५ ॥

हरिस्वामी

तेभ्यः आध्वर्यवेभ्यः अध्वर्य्वादिभ्यश्चतुर्भ्यः अध्वर्युः चतुर्भिः प्राश्यः चतुष्प्राश्यः । स एव चातुष्प्राश्यः । स्वार्थिकस्तद्धितः । चातुर्वर्ण्यादिवत् । ब्राह्मणेभ्य ओदनो ब्रह्मौदनः 2 । तस्योक्तं ब्राह्मणम् । “रेत एव तद्धत्ते” (श. प. १३ । १ । १ । १ ।) इति चतुरः पात्रान् शेनिकान्निर्वपति ॥ ५ ॥

Eggeling
  1. The Adhvaryu prepares for them a priest’s mess of rice sufficient for four persons: the meaning of this has been explained 4. Four bowlfuls, four double handfuls, four handfuls: twelvefold this is–twelve months are a year, and the year is everything, and the Aśvamedha is everything–thus it is in order to his gaining and securing everything.

०६

विश्वास-प्रस्तुतिः

त᳘मेते᳘ चत्वा᳘र ऽऋत्वि᳘जः प्प्रा᳘श्नन्ति॥
ते᳘षामुक्तम्ब्रा᳘ह्मणं ते᳘भ्यश्चत्वा᳘रि सह᳘स्राणि ददाति स᳘र्व्वं वै᳘ सह᳘स्रᳫँ᳭ स᳘र्व्वमश्वमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै चत्वा᳘रि च सुव᳘र्ण्णानि शत᳘मानानि हि᳘रण्यानि त᳘स्यो ऽए᳘वोक्तम्॥

मूलम् - श्रीधरादि

त᳘मेते᳘ चत्वा᳘र ऽऋत्वि᳘जः प्प्रा᳘श्नन्ति॥
ते᳘षामुक्तम्ब्रा᳘ह्मणं ते᳘भ्यश्चत्वा᳘रि सह᳘स्राणि ददाति स᳘र्व्वं वै᳘ सह᳘स्रᳫँ᳭ स᳘र्व्वमश्वमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै चत्वा᳘रि च सुव᳘र्ण्णानि शत᳘मानानि हि᳘रण्यानि त᳘स्यो ऽए᳘वोक्तम्॥

मूलम् - Weber

त᳘मेते᳘ चत्वा᳘र ऋत्वि᳘जः प्रा᳘श्नन्ति॥
ते᳘षामुक्तम् ब्रा᳘ह्मणं ते᳘भ्यश्चत्वा᳘रि सह᳘स्राणि ददाति स᳘र्वं वै᳘ सह᳘स्रᳫं स᳘र्वमश्वमेधः स᳘र्वस्या᳘प्त्यै स᳘र्वस्या᳘वरुद्ध्यै चत्वा᳘रि च सुव᳘र्णानि शत᳘मानानि हि᳘रण्यानि त᳘स्यो एॗवोक्तम्॥

मूलम् - विस्वरम्

तमेते चत्वार ऋत्विजः प्राश्नन्ति । तेषामुक्तं ब्राह्मणम् । तेभ्यश्चत्वारि सहस्राणि ददाति । सर्वं सहस्रम् । सर्वमश्वमेधः । सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै । चत्वारि सुवर्णानि शतमानानि हिरण्यानि । तस्य उ एवोक्तम् ॥ ६ ॥

हरिस्वामी

तमेते 5 चत्वार ऋत्विजः अध्वर्य्वादयः प्राश्नन्ति । तेषामुक्तं ब्राह्मणम् । “यन्महर्त्विजो ब्रह्मौदनं प्राश्नंति महिमानमेव तद्यज्ञस्य यजमानो ऽवरुंधे” (श. प. १३ । १ । १ । ४) इति । तेभ्यः चत्वारि 6 सहस्राणि गवां ददाति । तस्यो एवोक्तं- “रेतो वा ओदनो रेतो हिरण्यम्” (श. प. १३ । १ । १ । ४) इति ॥ ६ ॥

Eggeling
  1. Those four priests eat it: the meaning of this has been explained. He (the Sacrificer) gives to them four thousand (cows) in order to his gaining and securing everything, for a thousand means everything, and the Aśvamedha is everything. And (he gives them) four gold plates weighing a hundred (grains): the meaning of this has been explained 7.

०७

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थास्मा ऽअध्वर्य्यु᳘र्न्निष्क᳘म्प्रतिमुञ्च᳘न्वाचयति॥
ते᳘जो ऽसि शुक्र᳘ममृ᳘तमि᳘ति ते᳘जो वै᳘ शुक्र᳘ममृ᳘तᳫँ᳭ हि᳘रण्यन्ते᳘ज ऽए᳘वास्मिञ्छुक्र᳘ममृ᳘तं दधात्यायुष्पा ऽआ᳘युर्म्मे पाहीत्या᳘युरे᳘वास्मिन्दधात्य᳘थैनमाह व्वा᳘चं यच्छे᳘ति व्वाग्वै᳘ यज्ञो᳘ यज्ञ᳘स्यै᳘वाभ्यारम्भा᳘य॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थास्मा ऽअध्वर्य्यु᳘र्न्निष्क᳘म्प्रतिमुञ्च᳘न्वाचयति॥
ते᳘जो ऽसि शुक्र᳘ममृ᳘तमि᳘ति ते᳘जो वै᳘ शुक्र᳘ममृ᳘तᳫँ᳭ हि᳘रण्यन्ते᳘ज ऽए᳘वास्मिञ्छुक्र᳘ममृ᳘तं दधात्यायुष्पा ऽआ᳘युर्म्मे पाहीत्या᳘युरे᳘वास्मिन्दधात्य᳘थैनमाह व्वा᳘चं यच्छे᳘ति व्वाग्वै᳘ यज्ञो᳘ यज्ञ᳘स्यै᳘वाभ्यारम्भा᳘य॥

मूलम् - Weber

अ᳘थास्मा अध्वर्यु᳘र्निष्क᳘म् प्रतिमुञ्च᳘न्वाचयति॥
ते᳘जोऽसि शुक्र᳘ममृ᳘तमि᳘ति ते᳘जो वै᳘ शुक्र᳘ममृ᳘तᳫं हि᳘रण्यं ते᳘ज एॗवास्मिञ्छुक्र᳘ममृ᳘तं दधात्यायुष्पा आ᳘युर्मे पाहीत्या᳘युरेॗवास्मिन्दधात्य᳘थैनमाह वा᳘चं यछे᳘ति वाग्वै᳘ यज्ञो᳘ यज्ञ᳘स्यैॗवाभ्यारम्भा᳘य॥

मूलम् - विस्वरम्

अथास्मै अध्वर्युर्निष्कं प्रतिमुञ्चन् वाचयति । “तेजो ऽसि शुक्रममृतम्” इति । तेजो वै शुक्रम् । अमृतं हिरण्यम् । तेज एवास्मिञ्छुक्रममृतं दधाति । “आयुष्पा आयुर्म्मे पाहि” (वा. सं. २२ । १) इति । आयुरेवास्मिन्दधाति । अथैनमाह वाचं यच्छेति । वाग्वै यज्ञः । यज्ञस्यैवाभ्यारंभाय ॥ ७ ॥

हरिस्वामी

अथास्मा अध्वर्युः । अस्मै यजमानाय अध्वर्युः निष्कं 5 सौवर्णमलंकारं प्रतिमुंचन् गले आबध्नन् वाचयति । अस्मिन् यजमाने दधाति । अथैनं यजमानं आह वाचं 6 यच्छेति ॥ ७ ॥

Eggeling
  1. The Adhvaryu then, hanging a gold ornament (nishka) round him, makes him mutter (Vāj. S. XXII, 1), ‘Fire thou art, light and immortality,’–for gold, indeed, is fire, light 8, and

immortality: fire (fiery mettle), light (brilliance), and immortality he thus bestows upon him;–‘protector of life, protect my life!’ he thereby bestows life (vital strength) upon him. With a view to commencing the sacrifice, he then says to him, ‘Restrain thy speech!’ for the sacrifice is speech.

०८

विश्वास-प्रस्तुतिः

च᳘तस्रो जाया ऽउ᳘पकॢप्ता भवन्ति॥
म᳘हिषी व्वा᳘वाता प᳘रिवृक्ता पालागली स᳘र्व्वा निष्किण्यो᳘ ऽलङ्कृता मिथुन᳘स्यैव᳘ सर्व्वत्वा᳘य ता᳘भिः स᳘हाग्न्यगारम्प्र᳘पद्यते पू᳘र्व्वया द्वारा य᳘जमानो द᳘क्षिणया प᳘त्न्यः॥

मूलम् - श्रीधरादि

च᳘तस्रो जाया ऽउ᳘पकॢप्ता भवन्ति॥
म᳘हिषी व्वा᳘वाता प᳘रिवृक्ता पालागली स᳘र्व्वा निष्किण्यो᳘ ऽलङ्कृता मिथुन᳘स्यैव᳘ सर्व्वत्वा᳘य ता᳘भिः स᳘हाग्न्यगारम्प्र᳘पद्यते पू᳘र्व्वया द्वारा य᳘जमानो द᳘क्षिणया प᳘त्न्यः॥

मूलम् - Weber

च᳘तस्रो जाया उ᳘पकॢप्ता भवन्ति॥
म᳘हिषी वा᳘वाता प᳘रिवृक्ता पालागली स᳘र्वा निष्किन्यो᳘ऽलङ्कृता मिथुन᳘स्यैव᳘ सर्वत्वा᳘य ता᳘भिः सॗहाग्न्यगारम् प्र᳘पद्यते पू᳘र्वया द्वारा य᳘जमानो द᳘क्षिणया प᳘त्न्यः॥

मूलम् - विस्वरम्

चतस्त्रो जाया उपक्लृप्ता भवति । महिषी वावाता परिवृक्ता पालागली 5 । सर्वा निष्किण्यो ऽलंकृताः । मिथुनस्यैव सर्वत्वाय । ताभिः सहाग्न्यगारं प्रपद्यते पूर्वया द्वारा यजमानः । दक्षिणया पत्न्यः ॥ ८ ॥

हरिस्वामी

चतस्रो 5 जायाः भार्याः उप समीपे क्लृप्ताः स्थिता भवन्ति । पालागली दूतदुहिता ॥ ८ ॥

Eggeling
  1. Four (of the king’s) wives are in attendance–the consecrated queen, the favourite wife, a discarded wife, and the Pālāgalī 9, all of them adorned and wearing gold ornaments (neck-plates)–with the view of the completeness of conjugal union. With them he enters the hall of the sacrificial fires–the Sacrificer by the eastern, the wives by the southern, door.

०९

विश्वास-प्रस्तुतिः

सायमाहुत्या᳘ᳫँ᳘ हुता᳘याम्॥
(ञ्ज) जघ᳘नेनः गा᳘र्हपत्यमु᳘दङ्वा᳘वातया सह स᳘म्विशति त᳘देवापी᳘तराः स᳘म्विशन्ति᳘ सो ऽन्त᳘रोरू ऽअ᳘सम्वर्त्तमानः शेते ऽने᳘न त᳘पसा स्वस्ति᳘ संवत्सर᳘स्योदृ᳘चᳫँ᳭ स᳘मश्नवा ऽइ᳘ति॥

मूलम् - श्रीधरादि

सायमाहुत्या᳘ᳫँ᳘ हुता᳘याम्॥
(ञ्ज) जघ᳘नेनः गा᳘र्हपत्यमु᳘दङ्वा᳘वातया सह स᳘म्विशति त᳘देवापी᳘तराः स᳘म्विशन्ति᳘ सो ऽन्त᳘रोरू ऽअ᳘सम्वर्त्तमानः शेते ऽने᳘न त᳘पसा स्वस्ति᳘ संवत्सर᳘स्योदृ᳘चᳫँ᳭ स᳘मश्नवा ऽइ᳘ति॥

मूलम् - Weber

सायमाहुत्या᳘ᳫं᳘ हुतायाम्॥
जघ᳘नेन गा᳘र्हपत्यमु᳘दङ्वा᳘वातया सह सं᳘विशति त᳘देवापी᳘तराः सं᳘विशन्ति सोऽन्तॗरोरू अ᳘संवर्तमानः शेतेऽने᳘न त᳘पसा स्वस्ति᳘ संवत्सर᳘स्योदृ᳘चᳫं स᳘मश्नवा इ᳘ति॥

मूलम् - विस्वरम्

सायमाहुत्यां हुतायां जघनेन गार्हपत्यमुदङ् वावातया सह संविशति । तदेवापीतराः संविशंति । सो ऽतरोरू असंवर्तमानः शेते । अनेन तपसा स्वस्ति संवत्सरस्योद्ृचं समश्नवा इति ॥ ९ ॥

हरिस्वामी

सायमाहुत्यां 10 हुतायां जघनेन गार्हपत्यं पश्चाद्गार्हपत्यस्य समीपे । उदङ् उदक्शिराः । तदेव तत्रैव इतरा अपि जायाः संविशंति । ता अंतरोरू शेते । असंवर्तमानः मैथुनमनुपगच्छन् । अनेन तपसा सन्निहितप्रिया ऽनुपगमनेन स्वस्ति क्षेमेण अश्वरक्षणसंवत्सरस्य उदृचं समाप्तिं सम्यक् अश्नवै । “अशू व्याप्तौ”- (धा. पा. स्वा. आ. १८) प्राप्नुयाम् । इति प्रार्थयमानः शेते ॥ ९ ॥

Eggeling
  1. When the evening-offering 11 has been performed, he lies down with his favourite wife behind the Gārhapatya hearth, with his head towards the north. At the same place 12 the other (wives) also lie down. He lies in her lap without embracing her 13, thinking, ‘May I, by this self-restraint, reach successfully the end of the year!’

१०

विश्वास-प्रस्तुतिः

प्रातराहुत्या᳘ᳫँ᳘ हुता᳘याम्॥
(म) अध्वर्य्युः᳘ पूर्ण्णाहुति᳘ञ्ज᳘होति स᳘र्व्वम्वै᳘ पूर्ण्णᳫँ᳭ स᳘र्व्वमश्वमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै त᳘स्याम्व᳘रेण व्वा᳘चम्वि᳘सृजते व्व᳘रन्ददामि ब्रह्म᳘ण ऽइ᳘ति स᳘र्व्वम्वै व्व᳘रः स᳘र्व्वमश्वमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै॥ शतम् ६६००॥

मूलम् - श्रीधरादि

प्रातराहुत्या᳘ᳫँ᳘ हुता᳘याम्॥
(म) अध्वर्य्युः᳘ पूर्ण्णाहुति᳘ञ्ज᳘होति स᳘र्व्वम्वै᳘ पूर्ण्णᳫँ᳭ स᳘र्व्वमश्वमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै त᳘स्याम्व᳘रेण व्वा᳘चम्वि᳘सृजते व्व᳘रन्ददामि ब्रह्म᳘ण ऽइ᳘ति स᳘र्व्वम्वै व्व᳘रः स᳘र्व्वमश्वमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै॥ शतम् ६६००॥

मूलम् - Weber

प्रातराहुत्या᳘ᳫं᳘ हुता᳘यां॥
अध्वर्युः᳘ पूर्णाहुतिं᳘ जुहोति स᳘र्वं वै᳘ पूर्णᳫं स᳘र्वमश्वमेधः स᳘र्वस्या᳘प्त्यै स᳘र्वस्या᳘वरुद्ध्यै त᳘स्यां व᳘रेण वा᳘चं वि᳘सृजते व᳘रं ददामि ब्रह्म᳘ण इ᳘ति स᳘र्वं वै व᳘रः स᳘र्वमश्वमेधः स᳘र्वस्या᳘प्त्यै स᳘र्वस्या᳘वरुद्ध्यै॥

मूलम् - विस्वरम्

प्रातराहुत्यां हुतायामध्वर्युः पूर्णाहुतिं जुहोति । सर्वं वै पूर्णम् । सर्वमश्वमेधः । सर्वस्याप्त्यै । सर्वस्यावरुद्ध्यै । तस्यां वरेण वाचं विसृजते । वरं ददामि ब्रह्मण इति । सर्वं वै वरः । सर्वमश्वमेधः । सर्वस्याप्त्यै । सर्वस्यावरुद्ध्यै ॥ १० ॥

हरिस्वामी

प्रातराहुत्यां 10 हुतायाम् ॥ १० ॥ ११ ॥

Eggeling
  1. When the morning offering has been performed, the Adhvaryu performs a full-offering 14 with a view to his (the Sacrificer’s) gaining and securing everything, for the full means everything, and the Aśvamedha is everything. At this (offering) he releases speech by (bestowing) a boon,

saying, ‘I grant a boon to the Brahman (priest):’ (this he does) with a view to his gaining and securing everything, for a boon is everything, and the Aśvamedha is everything.

११

विश्वास-प्रस्तुतिः

(द्ध्या ऽअ᳘) अ᳘थ᳘ यो ऽस्य निष्कः प्प्र᳘तिमुक्तो भ᳘वति॥
त᳘मध्वर्य्य᳘वे ददात्यध्वर्य्य᳘वे द᳘ददमृ᳘तमा᳘युरात्म᳘न्द्धत्ते ऽमृ᳘तᳫँ᳭ ह्या᳘युर्हि᳘रण्यम्॥

मूलम् - श्रीधरादि

(द्ध्या ऽअ᳘) अ᳘थ᳘ यो ऽस्य निष्कः प्प्र᳘तिमुक्तो भ᳘वति॥
त᳘मध्वर्य्य᳘वे ददात्यध्वर्य्य᳘वे द᳘ददमृ᳘तमा᳘युरात्म᳘न्द्धत्ते ऽमृ᳘तᳫँ᳭ ह्या᳘युर्हि᳘रण्यम्॥

मूलम् - Weber

अ᳘थॗ योऽस्य निष्कः प्र᳘तिमुक्तो भ᳘वति॥
त᳘मध्वर्य᳘वे ददात्यध्वर्य᳘वे द᳘ददमृ᳘तमा᳘युरात्म᳘न्धत्तेऽमृ᳘तᳫं ह्या᳘युर्हि᳘रण्यम्॥

मूलम् - विस्वरम्

अथ यो ऽस्य निष्कः प्रतिमुक्तो भवति । तमध्वर्यवे ददाति । अध्वर्यवे दददमृतमायुरात्मन्धत्ते । अमृतं ह्यायुर्हिरण्यम् ॥ ११ ॥

हरिस्वामी

[व्याख्यानं दशमे]

Eggeling
  1. The gold ornament which is attached to his (neck) he then gives to the Adhvaryu: in giving it to the Adhvaryu he secures to himself immortal life, for gold means immortal life.

१२

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थाग्नेयीमि᳘ष्टिन्नि᳘र्व्वपति॥
पथ᳘श्च का᳘माय यज्ञमुख᳘स्य चा᳘छम्बट्काराया᳘थो ऽअग्नि᳘मुखा ऽउ वै स᳘र्व्वा देव᳘ताः स᳘र्व्वे का᳘मा ऽअश्वमेधे᳘ मुखतः स᳘र्व्वान्देवा᳘न्प्रीत्वा स᳘र्व्वान्का᳘मानाप्नवानी᳘ति॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थाग्नेयीमि᳘ष्टिन्नि᳘र्व्वपति॥
पथ᳘श्च का᳘माय यज्ञमुख᳘स्य चा᳘छम्बट्काराया᳘थो ऽअग्नि᳘मुखा ऽउ वै स᳘र्व्वा देव᳘ताः स᳘र्व्वे का᳘मा ऽअश्वमेधे᳘ मुखतः स᳘र्व्वान्देवा᳘न्प्रीत्वा स᳘र्व्वान्का᳘मानाप्नवानी᳘ति॥

मूलम् - Weber

अ᳘थाग्नेयीमि᳘ष्टिं नि᳘र्वपति॥
पथ᳘श्च का᳘माय यज्ञमुख᳘स्य चा᳘छम्बट्काराया᳘थो 15 अग्नि᳘मुखा उ वै स᳘र्वा देव᳘ताः स᳘र्वे का᳘मा अश्वमेधे᳘ मुखतः स᳘र्वान्देवा᳘न्प्रीत्वा स᳘र्वान्का᳘मानाप्नवानी᳘ति॥

मूलम् - विस्वरम्

अथाग्नेयीष्टिः ।

अथाग्नेयीमिष्टिं निर्वपति । पथश्च कामाय । यज्ञमुखस्य चाछंबट्काराय । अथो अग्निमुखा उ वै सर्वा देवताः । सर्वे कामा अश्वमेधे । मुखतः सर्वान्देवान्प्रीत्वा । सर्वान्कामानाप्नवानीति ॥ १२ ॥

हरिस्वामी

अथाग्नेयीमिष्टिमिति 16 । पुरोडाशहविषम् । पथः यज्ञपथस्य कामाय प्राप्तये । न यज्ञपथादयानीति इत्येवाग्नेयः क्रियत इत्यर्थः । यज्ञमुखस्य चारंभस्य । अछंबट्काराय अनंतरा कथं हि यज्ञमुखं यज्ञशून्यं स्यादित्यर्थः ॥ १२ ॥

Eggeling
  1. For the object of (gaining) the road, and in order not to lose the mouth (mukha) of the sacrifice, he then prepares an ishṭi-offering 17 to Agni. For, indeed, all the deities have Agni for their mouth, and in the Aśvamedha are (contained) all objects of desire: ‘Having, at the outset (mukhaṭaḥ), gratified all the gods, may I obtain all my desires!’ so he thinks.

१३

विश्वास-प्रस्तुतिः

त᳘स्यै प᳘ञ्चदश सामिधे᳘न्यो भवन्ति॥
पञ्चदशो वै व्व᳘ज्ज्रो व्वी᳘र्य्यम्व᳘ज्ज्रो[[!!]] व्व᳘ज्ज्रेणै᳘वैत᳘द्वी᳘र्य्येण य᳘जमानः पुर᳘स्तात्पाप्मा᳘नम᳘पहते व्वा᳘र्त्रघ्नावा᳘ज्यभागौ पाप्मा वै᳘ व्वृत्रः᳘ पाप्मनो᳘ ऽपहत्या ऽअग्नि᳘र्म्मूर्द्धा᳘ दिवः᳘ ककुद्भु᳘वो यज्ञ᳘स्य र᳘जसश्च नेते᳘त्युपाᳫँ᳭शु᳘ हवि᳘षो याज्या ऽनुवा᳘क्ये मूर्द्धन्व᳘त्यन्या भ᳘वति स᳘द्वत्य᳘न्यैष वै᳘ मूर्द्धा य᳘ ऽएष त᳘पत्येत᳘स्यैवा᳘वरुद्ध्या ऽअ᳘थ यत्स᳘द्वती स᳘देवा᳘वरुन्द्धे व्विरा᳘जौ संया᳘ज्ये सर्व्वदेव᳘त्यम्वा᳘ ऽएतच्छ᳘न्दो य᳘द्विराट् स᳘र्व्वे का᳘मा ऽअश्वमेधे स᳘र्व्वान्देवा᳘न्प्रीत्वा स᳘र्व्वान्का᳘मानाप्नवानी᳘ति हि᳘रण्यं द᳘क्षिणा सुव᳘र्ण्णᳫँ᳭ शत᳘मानन्त᳘स्योक्तम्ब्रा᳘ह्मणम्॥

मूलम् - श्रीधरादि

त᳘स्यै प᳘ञ्चदश सामिधे᳘न्यो भवन्ति॥
पञ्चदशो वै व्व᳘ज्ज्रो व्वी᳘र्य्यम्व᳘ज्ज्रो[[!!]] व्व᳘ज्ज्रेणै᳘वैत᳘द्वी᳘र्य्येण य᳘जमानः पुर᳘स्तात्पाप्मा᳘नम᳘पहते व्वा᳘र्त्रघ्नावा᳘ज्यभागौ पाप्मा वै᳘ व्वृत्रः᳘ पाप्मनो᳘ ऽपहत्या ऽअग्नि᳘र्म्मूर्द्धा᳘ दिवः᳘ ककुद्भु᳘वो यज्ञ᳘स्य र᳘जसश्च नेते᳘त्युपाᳫँ᳭शु᳘ हवि᳘षो याज्या ऽनुवा᳘क्ये मूर्द्धन्व᳘त्यन्या भ᳘वति स᳘द्वत्य᳘न्यैष वै᳘ मूर्द्धा य᳘ ऽएष त᳘पत्येत᳘स्यैवा᳘वरुद्ध्या ऽअ᳘थ यत्स᳘द्वती स᳘देवा᳘वरुन्द्धे व्विरा᳘जौ संया᳘ज्ये सर्व्वदेव᳘त्यम्वा᳘ ऽएतच्छ᳘न्दो य᳘द्विराट् स᳘र्व्वे का᳘मा ऽअश्वमेधे स᳘र्व्वान्देवा᳘न्प्रीत्वा स᳘र्व्वान्का᳘मानाप्नवानी᳘ति हि᳘रण्यं द᳘क्षिणा सुव᳘र्ण्णᳫँ᳭ शत᳘मानन्त᳘स्योक्तम्ब्रा᳘ह्मणम्॥

मूलम् - Weber

त᳘स्यै प᳘ञ्चदश सामिधेॗन्यो भवन्ति॥
पञ्चदशो वै व᳘ज्रो वीर्यं᳘ व᳘ज्रो व᳘ज्रेणैॗवैत᳘द्वीॗर्येण य᳘जमानः पुर᳘स्तात्पाप्मा᳘नम᳘पहते वा᳘र्त्रघ्नावा᳘ज्यभागौ पाप्मा वै᳘ वृत्रः᳘ पाप्मनो᳘ऽपहत्या अग्नि᳘र्मूर्धा᳘ दिवः᳘ ककुद्भु᳘वो यज्ञ᳘स्य र᳘जसश्च नेते᳘त्युपांशु᳘ हवि᳘षो याज्यानुवाॗक्ये मूर्धन्व᳘त्यन्या भ᳘वति स᳘द्वत्यॗन्यैष 18 वै᳘ मूर्धा य᳘ एष त᳘पत्येत᳘स्यैवा᳘वरुद्ध्या अ᳘थ यत्स᳘द्वती स᳘देवा᳘वरुन्द्धे॥
विरा᳘जौ संयाॗज्ये सर्वदेव᳘त्यं वा᳘ एतच्छ᳘न्दो य᳘द्विराट् स᳘र्वे का᳘मा अश्वमेधे स᳘र्वान्देवा᳘न्प्रीत्वा स᳘र्वान्का᳘मानाप्नवानी᳘ति हि᳘रण्यं द᳘क्षिणा सुव᳘र्णं शत᳘मानं त᳘स्योक्तम् ब्रा᳘ह्मणम्॥

मूलम् - विस्वरम्

तस्यै पंचदश सामिधेन्यो भवति । पंचदशो वै वज्रः । वीर्यं वज्रः । वज्रेणैवैतद्वीर्येण यजमानः पुरस्तात्पाप्मानमपहते । वार्त्रघ्नावाज्यभागौ । पाप्मा वै वृत्रः । पाप्मनो ऽपहत्यै । “अग्निर्मूर्द्धा दिवः ककुत्”- (वा. सं. १३ । १४) “भुवो यज्ञस्य रजसश्च नेता”- (वा. सं १३ । १५) इति उपांशु हविषो याज्यानुवाक्ये । भूर्द्धन्वत्यन्या भवति । सद्वत्यन्या । एष वै मूर्द्धा । य एष तपति । एतस्यैवावरुद्ध्यै । अथ यत्सद्वती । सदेवावरुन्धे । विराजौ संयाज्ये । सर्वदेवत्यं वा एतच्छंदः । यद्विराट् । सर्वे कामा अश्वमेधे । सर्वान् देवान्प्रीत्वा । सर्वान्कामानाप्नवानीति । हिरण्यं दक्षिणा । सुवर्णं शतमानम् । तस्योक्तं ब्राह्मणम् ॥ १३ ॥

हरिस्वामी

तस्यै पंचदश । मूर्द्धन्वत्यन्या । एते हविषो याज्या ऽनुवाक्ये उपांशु 16 भवतः । मूर्द्धन्वती एव । न सद्वती । अन्या एका च प्रथमा भवति । सा सद्वती अन्या “भुवो यज्ञस्य”- इत्येषा । भुवः भवसि इत्यनेन पादसत्ता 19 भवनमुपात्तम् । भविता वा “अग्निस्तिग्मेन”- (वा. सं. १७ । ७६) सा या सद्वती एका । मूर्धन्वत्यपि तु भवत्येव सा “मूर्द्धानं दधिषे” इत्यनेन मूर्धन्वत्येव अन्या भवति । न सद्वती । इत्येवमवधृतम् । नत्वेव सर्वं धार्यते । इत्येव मूर्द्धन्वती भवति । सदेवेति ॥ १३ ॥

Eggeling
  1. For this (offering) there are fifteen kindling-verses 20; for fifteenfold is the thunderbolt, and the thunderbolt means vigour: with the thunderbolt (of) vigour the Sacrificer thus from the first repels evil. The two butter-portions relate to the slaying of Vr̥tra 21, with a view to the repelling of evil, for

Vr̥tra is evil. [The verses, Vāj. S. XIII, 14, 15,] ‘Agni, the head, the summit of the sky . . . 22,’ and ‘Be thou the leader of the sacrifice and the realm of space (whither thou strivest with auspicious teams: thy light-winning head hast thou raised to the sky, and thy tongue, O Agni, hast thou made the bearer of the offering),’ pronounced in a low voice, are the anuvākyā and yājyā of the chief oblation. The one contains (the word) head,’ the other (the verb) ’to be,’–for the head, assuredly, is he that shines yonder: thus it is in order to secure him (the Sun); and as to why (the other) contains (the verb) ’to be,’–he thereby secures that which is (the real, truly existent). The Saṁyājyās 23 are two virāj-verses 24; for that–to wit, the Virāj–is the metre

belonging to all the gods, and all objects of desire are (contained) in the Aśvamedha: ‘Having gratified all the gods, may I obtain all my desires!’ so he thinks. The sacrificial fee is gold weighing a hundred (grains): the meaning of this has been explained.

१४

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थ पौष्णीन्नि᳘र्व्वपति॥
पूषा वै᳘ पथीनाम᳘धिपतिर᳘श्वायै᳘वैत᳘त्स्वस्त्य᳘यनङ्करोत्य᳘थो ऽइयम्वै᳘ पू᳘षेमा᳘मे᳘वास्मा ऽएत᳘द्गोप्त्री᳘ङ्करोति त᳘स्य हि ना᳘र्त्तिर᳘स्ति न᳘ ह्वला य᳘मियम᳘ध्वन्गोपाय᳘तीमा᳘मे᳘वास्मा ऽएत᳘द्गोप्त्री᳘ङ्करोति॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थ पौष्णीन्नि᳘र्व्वपति॥
पूषा वै᳘ पथीनाम᳘धिपतिर᳘श्वायै᳘वैत᳘त्स्वस्त्य᳘यनङ्करोत्य᳘थो ऽइयम्वै᳘ पू᳘षेमा᳘मे᳘वास्मा ऽएत᳘द्गोप्त्री᳘ङ्करोति त᳘स्य हि ना᳘र्त्तिर᳘स्ति न᳘ ह्वला य᳘मियम᳘ध्वन्गोपाय᳘तीमा᳘मे᳘वास्मा ऽएत᳘द्गोप्त्री᳘ङ्करोति॥

मूलम् - Weber

अ᳘थ पौष्णीं नि᳘र्वपति॥
पूषा वै᳘ पथीनाम᳘धिपतिर᳘श्वायैॗवैत᳘त्स्वस्त्य᳘यनं करोत्य᳘थो इयं वै᳘ पू᳘षेमा᳘मेॗवास्मा एत᳘द्गोप्त्रीं᳘ 25 करोति त᳘स्य हि ना᳘र्तिर᳘स्ति न᳘ ह्वला य᳘मियम᳘ध्वन्गोपाय᳘तीमा᳘मेॗवास्मा एत᳘द्गोप्त्रीं᳘ करोति॥

मूलम् - विस्वरम्

अथ पौष्णीष्टिः ।

अथ पौष्णीं निर्वपति । पूषा वै पथीनामधिपतिः । अश्वायैवैतत्स्वस्त्ययनं करोति । अथो इयं वै पूषा । इमामेवास्मा एतत् गोप्त्रीं करोति । तस्य हि नार्तिरस्ति । न ह्वला । यमियमध्वन् गोपायति । इमामेवास्मा एतत् गोप्त्रीं करोति ॥ १४ ॥

हरिस्वामी

अथ पौष्णीम् । पौष्णं 26 चरुमित्यर्थः । पूषा वै पथीनां पथां यः अधिपतिः ॥ १४ ॥ १५ ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे कांडे चतुर्थे ऽध्याये प्रथमं ब्राह्मणम् ॥ १३ ॥ ४ ॥ १ ॥

Eggeling
  1. He then prepares a (pap) for Pūshan, for Pūshan is the overlord of roads: he thus secures successful progress to the horse. But Pūshan is also this (earth): he thus makes this (earth) its guardian, for neither injury nor failure befals him whom this (earth) guards on the way; and this (earth) he thus makes its guardian.

१५

विश्वास-प्रस्तुतिः

त᳘स्यै सप्त᳘दश सामिधे᳘न्यो भवन्ति॥
सप्तदशो वै᳘ प्प्रजा᳘पतिः प्प्रजा᳘पतिरश्वमे᳘धो ऽश्वमेध᳘स्यैवा᳘प्त्यै वृ᳘धन्वन्तावाज्यभागौ[[!!]] य᳘जमानस्यैव व्वृ᳘द्ध्यै पू᳘षँस्त᳘व व्व्रते᳘ व्वय᳘म्पथ᳘स्पथः प᳘रिपतिम्वचस्ये᳘त्युपाᳫँ᳭शु᳘ हवि᳘षो याज्या ऽनुवा᳘क्ये व्व्रत᳘वत्यन्या भ᳘वति प᳘थन्व᳘त्यन्या᳘ व्वी᳘र्य्यम्वै᳘ व्व्रत᳘न्वीर्य्यस्या᳘प्त्यै व्वी᳘र्य्यस्या᳘वरुद्ध्या ऽअ᳘थ यत्प᳘थन्वत्य᳘श्वायै᳘वैत᳘त्स्वस्त्य᳘यनङ्करोत्यनुष्टु᳘भौ संया᳘ज्ये व्वाग्वा᳘ ऽअनुष्टुब्वाग्वै᳘ प्प्रजा᳘पतिः प्प्रजा᳘पतिरश्वमे᳘धो ऽश्वमेध᳘स्यैवा᳘प्त्यै व्वासःशतन्द᳘क्षिणा रूपम्वा᳘ ऽएतत्पु᳘रुषस्य यद्वा᳘सस्त᳘स्माद्य᳘मेव क᳘ञ्च सुवा᳘ससमाहुः को᳘ न्वयमि᳘ति[[!!]] रूपस᳘मृद्धो[[!!]] हि भ᳘वति रूपे᳘णै᳘वैनᳫँ᳭ स᳘मर्द्धयति शत᳘म्भवति शता᳘युर्व्वै पुरुषः[[!!]] शते᳘न्द्रिय ऽआ᳘युरे᳘वेन्द्रिय᳘म्वीर्य्यमात्म᳘न्द्धत्ते॥

मूलम् - श्रीधरादि

त᳘स्यै सप्त᳘दश सामिधे᳘न्यो भवन्ति॥
सप्तदशो वै᳘ प्प्रजा᳘पतिः प्प्रजा᳘पतिरश्वमे᳘धो ऽश्वमेध᳘स्यैवा᳘प्त्यै वृ᳘धन्वन्तावाज्यभागौ[[!!]] य᳘जमानस्यैव व्वृ᳘द्ध्यै पू᳘षँस्त᳘व व्व्रते᳘ व्वय᳘म्पथ᳘स्पथः प᳘रिपतिम्वचस्ये᳘त्युपाᳫँ᳭शु᳘ हवि᳘षो याज्या ऽनुवा᳘क्ये व्व्रत᳘वत्यन्या भ᳘वति प᳘थन्व᳘त्यन्या᳘ व्वी᳘र्य्यम्वै᳘ व्व्रत᳘न्वीर्य्यस्या᳘प्त्यै व्वी᳘र्य्यस्या᳘वरुद्ध्या ऽअ᳘थ यत्प᳘थन्वत्य᳘श्वायै᳘वैत᳘त्स्वस्त्य᳘यनङ्करोत्यनुष्टु᳘भौ संया᳘ज्ये व्वाग्वा᳘ ऽअनुष्टुब्वाग्वै᳘ प्प्रजा᳘पतिः प्प्रजा᳘पतिरश्वमे᳘धो ऽश्वमेध᳘स्यैवा᳘प्त्यै व्वासःशतन्द᳘क्षिणा रूपम्वा᳘ ऽएतत्पु᳘रुषस्य यद्वा᳘सस्त᳘स्माद्य᳘मेव क᳘ञ्च सुवा᳘ससमाहुः को᳘ न्वयमि᳘ति[[!!]] रूपस᳘मृद्धो[[!!]] हि भ᳘वति रूपे᳘णै᳘वैनᳫँ᳭ स᳘मर्द्धयति शत᳘म्भवति शता᳘युर्व्वै पुरुषः[[!!]] शते᳘न्द्रिय ऽआ᳘युरे᳘वेन्द्रिय᳘म्वीर्य्यमात्म᳘न्द्धत्ते॥

मूलम् - Weber

त᳘स्यै सप्त᳘दश सामिधेॗन्यो भवन्ति॥
सप्तदशो वै᳘ प्रजा᳘पतिः प्रजा᳘पतिरश्वमेॗधोऽश्वमेध᳘स्यैवा᳘प्त्यै वृ᳘धन्वन्तावा᳘ज्यभागौ य᳘जमानस्यैव वृ᳘द्ध्यै पू᳘षंस्तव व्रते वय᳘म् पथ᳘स्पथः प᳘रिपतिं वचस्ये᳘त्युपांशु᳘ हवि᳘षो याज्यानुवाॗक्ये व्रत᳘वत्यन्या भ᳘वति प᳘थन्वत्यन्या᳘ 27 वीर्यं᳘ वै᳘ व्रतं᳘ वीर्य᳘स्या᳘प्त्यै वीर्य᳘स्या᳘वरुद्ध्या अ᳘थ यत्प᳘थन्वत्य᳘श्वायैॗवैत᳘त्स्वस्त्य᳘यनं करोत्यनुष्टु᳘भौ संयाॗज्ये वाग्वा᳘ अनुष्टुब्वाग्वै᳘ प्रजा᳘पतिः प्रजा᳘पतिरश्वमेॗधोऽश्वमेध᳘स्यैवा᳘प्त्यै वासःशतं द᳘क्षिणा रूपं वा᳘ एतत्पु᳘रुषस्य यद्वा᳘सस्त᳘स्माद्य᳘मेव कं᳘ च सुवा᳘ससमाहुः को न्व᳘यमि᳘ति रूप᳘समृद्धो हि भ᳘वति रूपे᳘णैॗवैनᳫं स᳘मर्धयति शत᳘म् भवति शता᳘युर्वै पु᳘रुषः शते᳘न्द्रिय आ᳘युरेॗवेन्द्रियं᳘ वीर्य᳘मात्म᳘न्धत्ते॥

मूलम् - विस्वरम्

तस्य सप्तदश सामिधेन्यो भवन्ति । सप्तदशो वै प्रजापतिः । प्रजापतिरश्वमेधः । अश्वमेधस्यैवाप्त्यै । वृधन्वन्तावाज्यभागौ । यजमानस्यैव वृद्ध्यै । “पूषस्तव व्रते वयम्”“पथस्पथः परिपतिं वचस्या”- (वा. सं. ३४ । ४१ । ४२) इत्युपांशु हविषो याज्या ऽनुवाकं व्रतवत्यन्या भवति । पथन्वत्यन्या । वीर्यं वै व्रतम् । वीर्यस्याप्त्यै । वीर्यस्यावरुद्ध्यै । अथ यत्पथन्वती । अश्वायैवैतत्स्वस्त्ययनं करोति । अनुष्टुभौ संयाज्ये । वाग्वा अनुष्टुप् । वाग्वै प्रजापतिः । प्रजापतिरश्वमेधः । अश्वमेधस्यैवाप्त्यै । वासःशतं दक्षिणा । रूपं वा एतत्पुरुषस्य- यद्वा तस्माद्यमेव कं च सुवाससमाहुः । को न्वयमिति । रूपसमृद्धो हि भवति । रूपेणैवैनं समर्द्धयति । शतं भवति । शतायुर्वै पुरुषः शतेन्द्रियः । आसुरेवेन्द्रियं वीर्यमात्मन्धत्ते ॥ १५ ॥

हरिस्वामी

[व्याख्यानं चतुर्दशे]

Eggeling
  1. For this (offering) there are seventeen kindling-verses 28, for the obtainment of the Aśvamedha, for Prajāpati is seventeenfold, and the Aśvamedha is Prajāpati. The two butter-portions are possessed of ‘growth 29,’ even for the growth of the Sacrificer. [The verses, Vāj. S. XXXIV, 41, 42,] ‘Pūshan, in thy sway we [shall never suffer harm, we (who) here are singers of thy praises],’ and ‘The hymn (?) lovingly composed by desire of praise hath reached

the guardian of every path: (may he, Pūshan, grant unto us draughts of light (?), and fulfil our every prayer!’), pronounced in a low voice, are the anuvākyā and yājyā of the chief oblation. The one contains (the word) ‘sway,’ the other (the word) ‘path’; for sway is vigour: (thus it is) in order to his gaining and securing vigour; and as to why (the other) contains (the word) ‘path,’ he thereby secures successful progress to the horse. The invitatory and offering formulas of the Svishṭakr̥t are two anushṭubh verses 30; for the Anushṭubh is speech, and Prajāpati is speech, and the Aśvamedha is Prajāpati: thus it is for the obtainment of the Aśvamedha. The priests’ fee consists of a hundred garments, for that–to wit, the garment–is man’s outward appearance, whence people (on seeing) Any well-clad man, ask, ‘Who can this be? for he is perfect in his outward appearance: with outward appearance he thus endows him. There are a hundred of them, for man has a life of a hundred (years), and a hundred energies: life, and energy, vigour, he thus gains for himself.


  1. राजयज्ञो ऽश्वमेधः सर्वकामस्य का. श्रौ. सू. २० । १ । (सर्वकामस्येति, सर्वकामावाप्तिश्च परमात्मा??यप्राप्तिमन्तरेण न भवति, यावच्छरीरकालभाविनो हि कामा इति तेन सर्वकामस्येति मुमुक्षोरित्येतदुक्तं भवतीत्यत्र कर्कः ।) ↩︎ ↩︎

  2. अष्टम्यां नवम्यां वा फाल्गुनीशुक्लस्य ग्रीष्म एके । का. श्रौ. सू. २० । २ । ३ । ग्रीष्मे ऽभ्यारमेतेत्यु हैक आहुर्ग्रीष्मो वै क्षत्रियस्यर्तुः (श. प. १३ । ४ । १ । २) इति श्रुतेः ॥ ↩︎ ↩︎

  3. 348:1 Or, along with these, included in them (are the assistant priests). ↩︎

  4. 348:2 See XIII; 1, 1, 1; 4 (cf. II, 1, 4, 4). ↩︎

  5. अक्त्वेनमाद्यर्त्विभ्यः प्रयच्छति । का. श्रौ. सू. २० । ५ । ↩︎ ↩︎ ↩︎ ↩︎

  6. तेभ्यश्चत्वारि सहस्राणि ददाति शतमानांश्च तावतः । का. श्रौ. सू. २० । ६ । तावतः तावत्संख्यान् हिरण्यस्य शतमानांश्चेत्यर्थः, ब्रह्मौदने सुवर्णँ हिरण्यं ददाति शतमानं भवतीति च श्रुतेः । श. प. १३ । १ । १ । ४ । सुवर्णरक्तिकाशतानि शतमानं इति कर्कः ॥ ↩︎ ↩︎

  7. 348:3 XII, 7, 2, 13. ↩︎

  8. 348:4 Perhaps Mahīdhara is right in taking ‘śukram’ here in the sense of ‘seed’ (Agner vīrvam); cf. II, 1, 1, 5; XIII, 1, 1, 4. ↩︎

  9. 349:1 See p. 323, note 2. ↩︎

  10. अग्न्याधेयवत्प्रविश्य हुते ऽग्निहोत्रे ऽपरेण गार्हपत्यमुदक्शिराः संविशति । ऊर्वन्तरे वावाताया ब्रह्मचारी । इतराश्चान्वक् इति च । का. श्रौ. सू. २० । १७-१९ । ↩︎ ↩︎

  11. 349:2 That is the evening performance of the Agnihotra. ↩︎

  12. 349:3 Tad eva tatraiva, comm. ↩︎

  13. 349:4 Sontarorū asaṁvartamānaḥ śete. ↩︎

  14. 349:5 For particulars regarding the ‘pūrṇāhuti,’ or oblation of a spoonful of ghee, see part i, p. 302, note 2. ↩︎

  15. चा᳘त्संबट्काराय P., see ११.५. ६.९ ↩︎

  16. पुरोडाशो ऽग्नये पथिकृते । का. श्रौ. सू. २० । २२ । ↩︎ ↩︎

  17. 350:1 Viz. a cake (on eight kapālas) to Agni Pathikr̥t, ’the path-maker’–or, according to Āśv. Śr. X, 6, 3, to Agni Mūrdhanvat (‘forming the head,’ so called from the formulas used containing the word ‘head).’ For a similar special offering to the same deity see XII, 4, 4, 1 (cf. XI, 1, 5, 5). ↩︎

  18. The word सद्वती is a most remarkable one, as it implies for the time of its formation the then existence of the grammatical identification of the roots भू and अस्, for the verse is called सद्वती on account of its containing the word भुवस्, as if it were formed from ←अस् ! ↩︎

  19. पादसत्ताभवनमुपात्तम् । एकादशाक्षरात्मकपादचतुष्केण चतुश्चत्वारिंशदक्षरायाश्चतुष्पदाया भुवो यज्ञस्येति त्रिष्टुभः प्रथमे पादे ‘भवसि’ ‘भविता’ वा इत्यस्य स्थाने ‘भुवः’ इति एकाक्षरसंकोचात्मकपदविन्यासेन, एकादशाक्षरात्मकपादन्यासस्थितिसंपादनमिति भावः ॥ ↩︎

  20. 350:2 See part i, p. 95 seqq. (especially I, 3, 5, 5-7). ↩︎

  21. 350:3 The two Ājyabhāgas, or butter-portions to Agni and Soma, are said to be ‘Vr̥tra-slaying’ (vārtraghna), or to relate to the slaying of Vr̥tra, when their anuvākyās, or invitatory formulas, are the two verses R̥g-veda VI, 16, 34 (agnir vr̥trāṇi gaṅghanat, ‘May Agni slay the Vr̥tras’), and I, 91, 5 (tvaṁ soṁāsi satpatis tvaṁ rājota vr̥trahā, ‘Thou, O Soma, art the true lord, thou art the king and the slayer of Vr̥tra,’ &c.). This is the case at the Full-moon sacrifice, whilst at the New-moon sacrifice the two butter-portions are said to be ‘vr̥dhanvant,’ or ‘relating to growth,’ because the anuvākyās used on that occasion are two verses containing forms of the root vr̥dh, ’to grow,’ viz. VIII, 44, 12 (agniḥ pratnena manmanā . . . kavir vipreṇa vāvr̥dhe, ‘Agni has grown strong by the old hymn,–as the wise one by the priest’) and I, 91, 11 (Soma gīrbhish ṭvā vayaṁ vardhayāmo vacovidaḥ . . ., ‘O Soma, we magnify thee (make thee grow) by our songs, skilful in speech’). In the same way the one or the other form is used in different ishṭis. At I, 6, 2, 12, the translation, ’the two butter-portions should be offered to the Vr̥tra-slayer (Indra)’ should therefore be altered to ’the two butter-portions relate to the slaying of Vr̥tra’ (or, ‘are Vr̥tra-slaying’). ↩︎

  22. 351:1 See VII, 4, 1, 41. ↩︎

  23. 351:2 That is, the two formulas used with the oblation to Agni Svishṭakr̥t. ↩︎

  24. 351:3 Whilst the normal performance of an ishṭi requires two trishṭubh-verses (R̥g-veda X, 2, I; VI, 15, 14; cf. part i, p. 202, notes 2 and 3) for the invitatory and offering formulas of the oblations to Agni Svishṭakr̥t, two virāj-verses are frequently prescribed, certain verses of the Virāj-hymn R̥g-veda VII, 1, being chiefly used for this purpose; e. g. v. 3 as the anuvākyā, and v. 18 as the yājyā for the Svishṭakr̥t of the oblation to Aditi at the Ādhāna (see part i, p. 307, note 3). and the Dīkshaṇīyeshṭi; and vv. 14, 15 as yājyā and anuvākyā of the Svishṭakr̥t of the Prāyaṇīyeshṭi. It is doubtless the two former verses, commonly employed at special ishṭis (cf. part i, p. 164, note 3), which are to be used on the present occasion. ↩︎

  25. द्गोत्रीं᳘ करोति B. C. P. प्त्रीन्क A. ↩︎

  26. पौष्णं चरुं निर्व्वपति व्वासःशतं दक्षिणा का. श्रौ. सू. २० । २५ । (अयमप्युपांश्वेव) तथा ऽस्यां कंडिकायां श्रुतिः “पूषंस्तव व्व्रते व्वयं पथस्पथः परिपतिं वचस्येति उपांशु हविषो याज्या ऽनुवाक्ये व्रतवत्यन्या भवति पथन्वत्यन्येति । व्रतवर्ती पूषंस्तव व्व्रते व्वयमिति वा. सं. ३४-४१ । पथन्वती पथस्पथः परिपतिं व्वचस्येति वा. सं. ३४-४२ ॥ ↩︎

  27. प᳘थन्व᳘त्यन्या᳘ ABC. P. ↩︎

  28. 352:1 See part i, p. 112, note 1. ↩︎

  29. 352:2 That is, they are performed with two invitatory formulas containing the verb ’to grow,’ see p. 350, note 3. Whilst our Brāhmaṇa thus prescribes the two invitatory formulas used for the butter-portions of the New-moon sacrifice, Āśvalāyana (Śr. X, 6, 6) prescribes two verses containing the verb ‘as’ (or ‘bhū’), viz. R̥g-veda V, 13, 4, tvam agne saprathā asi; and I, 92, 9, soma yās to mayobhuva ūtayaḥ santi dāśushe tābhir novitā bhava. ↩︎

  30. Viz. according to Āśv. Śr. X, 6, 7, — r̥g-veda I, 45, 6 (tvāṁ citraśravastama) and V, 25, 7 (yad vāsiṣṭhaṁ yad agnaye). ↩︎