०१
विश्वास-प्रस्तुतिः
अथा᳘तः प्प्रा᳘यश्चित्तीनाम्॥
यद्य᳘श्वो व्व᳘डवाᳫँ᳭ स्क᳘न्देद्वाय᳘व्यम्प᳘यो ऽनुनि᳘र्व्वपेद्वायुर्व्वै रे᳘तसाम्विकर्त्ता᳘ प्प्राणो वै᳘ व्वायुः᳘ प्राणो हि रे᳘तसाम्विकर्त्ता रे᳘तसै᳘वास्मिंस्तद्रे᳘तो दधाति॥
मूलम् - श्रीधरादि
अथा᳘तः प्प्रा᳘यश्चित्तीनाम्॥
यद्य᳘श्वो व्व᳘डवाᳫँ᳭ स्क᳘न्देद्वाय᳘व्यम्प᳘यो ऽनुनि᳘र्व्वपेद्वायुर्व्वै रे᳘तसाम्विकर्त्ता᳘ प्प्राणो वै᳘ व्वायुः᳘ प्राणो हि रे᳘तसाम्विकर्त्ता रे᳘तसै᳘वास्मिंस्तद्रे᳘तो दधाति॥
मूलम् - Weber
अथा᳘तः प्रा᳘यश्चित्तीनाम्॥
यद्य᳘श्वो व᳘डवाᳫं स्क᳘न्देद्वायव्य᳘म् प᳘योऽनुनि᳘र्वपेद्वायुर्वै रे᳘तसां विकर्ता᳘ प्राणो वै᳘ वायुः᳘ प्राणो हि रे᳘तसां विकर्ता रे᳘तसैॗवास्मिंस्तद्रे᳘तो दधाति॥
मूलम् - विस्वरम्
अथाश्वमेधीयप्रायश्चित्तानि ।
अथातः प्रायश्वित्तीनाम् । यद्यश्वो वडवां स्कन्देत् । वायव्यं पयो ऽनुनिर्वपेत् । वायुर्वै रेतसां विकर्ता । प्राणो वै वायुः । प्राणो हि रेतसां विकर्ता । रेतसैवास्मिंस्तद्रेतो दधाति ॥ १ ॥
हरिस्वामी
अथातः प्रायश्चित्तीनामिति 1 । वडवां स्कंदेत् । “स्कंदिर् गतिशोषणयोः”- (धा. पा. भ्वा. प. १००) । वडवां गच्छेत् । तस्यां 2 सिंचेदित्यर्थः । रेतसा वायव्येन पयसा अस्मिन्नश्वे तद्रेतो दधाति । यद्वायव्यं पयो निर्वपति ॥ १ ॥
Eggeling
- Now, then, of the expiations. If the sacrificial horse were to couple with a mare, let him in addition prepare a milk (oblation) to Vāyu;–Vāyu doubtless is the transformer of seeds, for Vāyu (the wind) is the vital air, and the vital air is the transformer
of seeds: by means of seed he thus puts seed into it.
०२
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दि स्रामो᳘ व्विन्दे᳘त्॥
(त्पौ) पौष्णं᳘ चरु᳘मनुनि᳘र्व्वपेत्पूषा वै᳘ पशूना᳘मीष्टे स य᳘स्यैव᳘ पश᳘वो यः᳘ पशूनामी᳘ष्टे त᳘मे᳘वैत᳘त्प्रीणात्यगदो᳘ हैव᳘ भवति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दि स्रामो᳘ व्विन्दे᳘त्॥
(त्पौ) पौष्णं᳘ चरु᳘मनुनि᳘र्व्वपेत्पूषा वै᳘ पशूना᳘मीष्टे स य᳘स्यैव᳘ पश᳘वो यः᳘ पशूनामी᳘ष्टे त᳘मे᳘वैत᳘त्प्रीणात्यगदो᳘ हैव᳘ भवति॥
मूलम् - Weber
अ᳘थ य᳘दि स्रामो᳘ विन्दे᳘त्॥
पौष्णं᳘ चरु᳘मनुनि᳘र्वपेत्पूषा वै᳘ पशूना᳘मीष्टे स य᳘स्यैव᳘ पश᳘वो यः᳘ पशूनामी᳘ष्टे त᳘मेॗवैत᳘त्प्रीणात्यगदो᳘ हैव᳘ भवति॥
मूलम् - विस्वरम्
अथ यदि स्रामो विंदेत् । पौष्णं चरुमनुनिर्वपेत् । पूषा वै पशूनामीष्टे । स यस्यैव पशवः । यः पशूनामीष्टे । तमेवैतत्प्रीणाति । अगदो हैव भवति ॥ २ ॥
हरिस्वामी
स्रामः प्रतिश्रयः 1 । यत् यदि प्राप्नुयात् । ‘अगदः’ । गदो रोगः । अरोगः अश्वो भवति ॥ २ ॥
Eggeling
- And if disease were to befal it, let him in addition prepare a pap to Pūshan, for Pūshan rules over beasts (cattle); and, indeed, he thereby gratifies him who owns cattle and rules over cattle; and it (the horse) thereby indeed becomes free from disease.
०३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘द्यक्षतामयो᳘ व्विन्दे᳘त्॥
(द्वै) व्वैश्वानरन्द्वा᳘दशकपालम्भू᳘मिकपालम्पुरोडा᳘शमनुनि᳘र्व्वपेदियम्वै᳘ वैश्वानर᳘ ऽइमा᳘मे᳘वैत᳘त्प्रीणात्यगदो᳘ हैव᳘ भवति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘द्यक्षतामयो᳘ व्विन्दे᳘त्॥
(द्वै) व्वैश्वानरन्द्वा᳘दशकपालम्भू᳘मिकपालम्पुरोडा᳘शमनुनि᳘र्व्वपेदियम्वै᳘ वैश्वानर᳘ ऽइमा᳘मे᳘वैत᳘त्प्रीणात्यगदो᳘ हैव᳘ भवति॥
मूलम् - Weber
अ᳘थ य᳘द्यक्षतामयो᳘ विन्दे᳘त्॥
वैश्वानरं द्वा᳘दशकपालम् भू᳘मिकपालम् पुरोडा᳘शमनुनि᳘र्वपेदियं वै᳘ वैश्वानर᳘ इमा᳘मेॗवैत᳘त्प्रीणात्यगदो᳘ हैव᳘ भवति॥
मूलम् - विस्वरम्
अथ यद्यक्षतामयो विंदेत् । वैश्वानरं द्वादशकपालं भूमिकपालं पुरोडाशमनुनिर्वपेत् । इयं वै वैश्वानरः । इमामेवैतत्प्रीणाति । अगदो हैव भवति ॥ ३ ॥
हरिस्वामी
अक्षतस्य 1 आमयो रोगो ज्वरादिः अक्षतामयः । स यदश्वं प्राप्नुयात् । भूमिरेव द्वादशविभागा लोष्टकपालं द्वादश कपालकार्ये यस्य स भूमिकपालः ॥ ३ ॥
Eggeling
०४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘द्यक्ष्यामयो᳘ व्विन्दे᳘त्॥
(त्सौ) सौर्य्य᳘ञ्चरु᳘मनुनि᳘र्व्वपेत्सू᳘र्य्यो वै᳘ प्प्रजा᳘नाञ्च᳘क्षुर्य्यदा᳘ ह्ये᳘वैष᳘ ऽउदेत्य᳘थैतᳫँ᳭ स᳘र्व्वञ्चरति च᳘क्षुषै᳘वास्मिंस्तच्च᳘क्षुर्द्दधाति स य᳘च्चरुर्भ्भ᳘वति च᳘क्षुषा᳘ ह्यय᳘मात्मा[[!!]] च᳘रति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘द्यक्ष्यामयो᳘ व्विन्दे᳘त्॥
(त्सौ) सौर्य्य᳘ञ्चरु᳘मनुनि᳘र्व्वपेत्सू᳘र्य्यो वै᳘ प्प्रजा᳘नाञ्च᳘क्षुर्य्यदा᳘ ह्ये᳘वैष᳘ ऽउदेत्य᳘थैतᳫँ᳭ स᳘र्व्वञ्चरति च᳘क्षुषै᳘वास्मिंस्तच्च᳘क्षुर्द्दधाति स य᳘च्चरुर्भ्भ᳘वति च᳘क्षुषा᳘ ह्यय᳘मात्मा[[!!]] च᳘रति॥
मूलम् - Weber
अ᳘थ य᳘द्यक्ष्यामयो᳘ विन्दे᳘त्॥
सौर्यं᳘ चरु᳘मनुनि᳘र्वपेत्सू᳘र्यो वै᳘ प्रजा᳘नां च᳘क्षुर्यदाॗ ह्येॗवैष᳘ उदेत्य᳘थेदᳫं स᳘र्वं चरति च᳘क्षुषैॗवास्मिंस्तच्च᳘क्षुर्दधाति स य᳘च्चरुर्भ᳘वति च᳘क्षुषा ह्य᳘य᳘मात्मा च᳘रति॥
मूलम् - विस्वरम्
अथ यद्यक्ष्यामयो विन्देत् । सौर्यं चरुमनुनिर्वपेत् । सूर्यो वै प्रजानां चक्षुः । यदा ह्येवैष उदेति । अथैतं सर्वं चरति । चक्षुषैवास्मिंस्तच्चक्षुर्दधाति । स यच्चरुर्भवति । चक्षुषा ह्ययमात्मा चरति ॥ ४ ॥
हरिस्वामी
अक्ष्णोरामयो 5 रोगः अक्ष्यामयः । स यद्यश्वमाप्नुयात् ॥ ४ ॥ ५ ॥
Eggeling
- And if an eye-disease were to befal it, let him in addition prepare a pap to Sūrya;–the Sun, doubtless, is the eye of creatures, for when he rises everything here moves: by means of the eye (of the world) he thus bestows the eye upon it. And as to why it is a pap (caru), it is because by means of the eye this self (body or mind) moves (car).
०५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘द्युदके᳘ म्म्रिये᳘त॥
व्वारुणं᳘ यवम᳘यञ्चरु᳘मनुनि᳘र्व्वपेद्व᳘रुणो वा᳘ ऽएत᳘ङ्गृह्णाति᳘ यो ऽप्सु᳘ म्म्रि᳘य᳘ते सा᳘ यै᳘वैनन्देव᳘ता गृह्णा᳘ति ता᳘मे᳘वैत᳘त्प्रीणाति᳘ सा ऽस्मै प्प्री᳘ता ऽन्य᳘मालम्भाया᳘नुमन्यते तया᳘ ऽनुमतमा᳘लभते स य᳘द्यवम᳘यो भ᳘वति व्वरु᳘ण्या हि य᳘वाः॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘द्युदके᳘ म्म्रिये᳘त॥
व्वारुणं᳘ यवम᳘यञ्चरु᳘मनुनि᳘र्व्वपेद्व᳘रुणो वा᳘ ऽएत᳘ङ्गृह्णाति᳘ यो ऽप्सु᳘ म्म्रि᳘य᳘ते सा᳘ यै᳘वैनन्देव᳘ता गृह्णा᳘ति ता᳘मे᳘वैत᳘त्प्रीणाति᳘ सा ऽस्मै प्प्री᳘ता ऽन्य᳘मालम्भाया᳘नुमन्यते तया᳘ ऽनुमतमा᳘लभते स य᳘द्यवम᳘यो भ᳘वति व्वरु᳘ण्या हि य᳘वाः॥
मूलम् - Weber
अ᳘थ य᳘द्युदके᳘ म्रिये᳘त॥
वारुणं᳘ यवम᳘यं चरु᳘मनुनि᳘र्वपेद्व᳘रुणो वा᳘ एतं᳘ गृह्णातिॗ योऽप्सु᳘ म्रिय᳘ते साॗ यैॗवैनं देव᳘ता गृह्णा᳘ति ता᳘मेॗवैत᳘त्प्रीणातिॗ सास्मै प्रीॗतान्य᳘मालम्भाया᳘नुमन्यते तया᳘नुमतमा᳘लभते स य᳘द्यवम᳘यो भ᳘वति वरुॗण्या हि य᳘वाः॥
मूलम् - विस्वरम्
अथ यद्युदके 5 म्रियेत । वारुणं यवमयं चरुमनुनिर्वपेत् । वरुणो वा एतं गृह्णाति । यो ऽप्सु म्रियते । सा यैवैनं देवता गृह्णाति । तामेवैतत्प्रीणाति । सा ऽस्मै प्रीता ऽन्यमालंभायानुमन्यते । तया ऽनुमतमालभते । स यद्यवमयो भवति । वरुण्या हि यवाः ॥ ५ ॥
हरिस्वामी
[व्याख्यानं चतुर्थे]
Eggeling
- And if it were to die in water, let him in addition prepare a barley pap to Varuṇa, for Varuṇa seizes him who dies in water: he thereby thus gratifies that very deity who seizes it, and, thus gratified, he approves his slaughtering another (horse), and he slaughters it as one approved by that (deity). And as to why it is (prepared) of barley, it is because barley belongs to Varuṇa.
०६
विश्वास-प्रस्तुतिः
(वा ऽअ᳘) अ᳘थ य᳘दि न᳘श्येत्॥
(त्रि᳘) त्रि᳘हविषमि᳘ष्टिमनुनि᳘र्व्वपेद्द्यावापृथि᳘व्यमे᳘ककपालम्पुरोडा᳘शम्वाय᳘व्यम्प᳘यः[[!!]] सौर्य्य᳘ञ्चरुं यद्वै कि᳘ञ्च न᳘श्यत्यन्त᳘रैव तद्द्या᳘वापृथिवी᳘ नश्यति त᳘द्वायुरु᳘पवात्यादि᳘त्यो ऽभि᳘तपति᳘ नैता᳘भ्यो देव᳘ताभ्य ऽऋते कि᳘ञ्चन[[!!]] नश्यति᳘ सैषा पृ᳘थगेव᳘ नष्टवे᳘दनी स य᳘द्यस्या᳘प्यन्यन्न᳘श्येदेत᳘यैव᳘ यजेता᳘नु है᳘वैनद्विन्दत्य᳘थ य᳘द्यमि᳘त्रा ऽअ᳘श्वम्विन्दे᳘रन्यदि[[!!]] वा म्म्रिये᳘त य᳘दि वा᳘ ऽप्स्वन्य᳘मानी᳘य[[!!]] प्प्रो᳘क्षेयुः सैव त᳘त्र प्प्रा᳘यश्चित्तिः॥
मूलम् - श्रीधरादि
(वा ऽअ᳘) अ᳘थ य᳘दि न᳘श्येत्॥
(त्रि᳘) त्रि᳘हविषमि᳘ष्टिमनुनि᳘र्व्वपेद्द्यावापृथि᳘व्यमे᳘ककपालम्पुरोडा᳘शम्वाय᳘व्यम्प᳘यः[[!!]] सौर्य्य᳘ञ्चरुं यद्वै कि᳘ञ्च न᳘श्यत्यन्त᳘रैव तद्द्या᳘वापृथिवी᳘ नश्यति त᳘द्वायुरु᳘पवात्यादि᳘त्यो ऽभि᳘तपति᳘ नैता᳘भ्यो देव᳘ताभ्य ऽऋते कि᳘ञ्चन[[!!]] नश्यति᳘ सैषा पृ᳘थगेव᳘ नष्टवे᳘दनी स य᳘द्यस्या᳘प्यन्यन्न᳘श्येदेत᳘यैव᳘ यजेता᳘नु है᳘वैनद्विन्दत्य᳘थ य᳘द्यमि᳘त्रा ऽअ᳘श्वम्विन्दे᳘रन्यदि[[!!]] वा म्म्रिये᳘त य᳘दि वा᳘ ऽप्स्वन्य᳘मानी᳘य[[!!]] प्प्रो᳘क्षेयुः सैव त᳘त्र प्प्रा᳘यश्चित्तिः॥
मूलम् - Weber
अ᳘थ य᳘दि न᳘श्येत्॥
त्रि᳘हविषमि᳘ष्टिमनुनि᳘र्वपेद्द्यावापृथिव्य᳘मे᳘ककपालम् पुरोडा᳘शं वायव्य᳘म् प᳘यः सौर्यं᳘ चरुं यद्वै किं᳘ च न᳘श्यत्यन्तॗरैव तद्द्या᳘वापृथिवी᳘ नश्यति त᳘द्वायुरु᳘पवात्यादिॗत्योऽभि᳘तपतिॗ नैता᳘भ्यो देव᳘ताभ्य ऋते किं᳘ चन᳘ नश्यतिॗ सैषा पृ᳘थगेव᳘ नष्टवे᳘दनी स य᳘द्यस्या᳘प्यन्यन्न᳘श्येदेत᳘यैव᳘ यजेता᳘नु हैॗवैनद्विन्दत्य᳘थ य᳘द्यमि᳘त्रा अ᳘श्वं विन्देरन्य᳘दि 6 वा म्रिये᳘त य᳘दि वाप्स्व᳘न्य᳘मानी᳘य प्रो᳘क्षेयुः सैव त᳘त्र प्रा᳘यश्चित्तिः॥
मूलम् - विस्वरम्
अथ प्रायश्चित्तीया त्रिहविषेष्टिः ।
अथ यदि नश्येत् । त्रिहविषमिष्टिमनुनिर्वपेत् । द्यावापृथिव्यमेककपालं 5 पुरोडाशम् । वायव्यं पयः । सौर्यं चरुम् । यद्वै किंचन नश्यति । अंतरैव तद् द्यावापृथिवी नश्यति । तद्वायुरुपवाति । आदित्यो ऽभितपति । नैताभ्यो देवताभ्य ऋते किंचन नश्यति । सैषा पृथगेव नष्टवेदनी । स यद्यस्याप्यन्यन्नश्येत् । एतयैव यजेत । अनु हैवैनद्विन्दति । अथ यद्यमित्रा अश्वं विन्देरन् । यदि म्रियेत । यदि वा ऽप्सु अन्यमानीय प्रोक्षेयुः । सैव तत्र प्रायश्चित्तिः ॥ ६ ॥
हरिस्वामी
सा एषा त्रिहविरिष्टिः पृथगेव अश्वमेधात्पृथगपि बहिरपि भवति । एवशब्दः अपिशब्दस्यार्थे । कुत एतत् ? । “स यद्यस्याप्यन्यन्नश्येत्” ततः “एतयैव यजेत” इत्युत्तरत्र अपिशब्दश्रवणात् । नष्टं विन्दते अनयेति नष्टवेदनी । स यदि अस्याहिताग्नेः अन्यत् अपि अश्वाद्धिरण्यादि किंचित्पुरुषार्थं नश्येत् । तत एतयैव त्रिहविषा यजेत । अनुविन्दत्येव तन्नष्टं लभत एव । इति पुरुषार्थो विधिः पृथक् वचनादर्थवत्त्वात् । यदि तु आश्वमेधिके एव अन्यस्मिन्नपि नष्टे विधीयते सा । तेनैषा अश्वमेधात्पृथक् स्यात् 5 ॥ ६ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे कापडे तृतीये ऽध्याये अष्टमं ब्राह्मणम् ॥ १३ । ३ । ८ ॥
नागस्वामिसुतो ऽवन्त्यां पाराशर्यो वसन्हरिः । श्रुत्यर्थं दर्शयामास शक्तितः पौष्करीयकः ॥ १ ॥
श्रीमतो ऽवन्तिनाथस्य विक्रमार्कस्य भूपतेः । धर्माध्यक्षो हरिस्वामी व्याख्यच्छातपथीं श्रुतिम् ॥ २ ॥
भूभर्त्रा विक्रमार्केण क्लृप्तां कनकवेदिकाम् । दानायाध्यास्य कृतवान् श्रुत्यर्थविवृतिं हरिः ॥ ३ ॥
इति श्रीसर्वविद्यानिधानकवीन्द्राचार्यसरस्वतीनां श्रीहरिस्वामिनां कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे काण्डे तृतीयो ऽध्यायः समाप्तः ॥ (१३-३) ॥
Eggeling
- And if it were to get lost, let him in addition
perform an ishṭi with three sacrificial dishes–a cake on one potsherd for Heaven and Earth, a milk (oblation) for Vāyu, and a pap for Sūrya;–for whatsoever is lost, is lost within heaven and earth; and the wind blows upon it, and the sun shines upon it; and nothing whatever is lost out of (the reach of) these deities. And even by itself 7 this (ishṭi) is the recoverer of what is lost; and even if any other thing of his were to get lost let him perform this very offering, and he verily finds it. And if enemies were to obtain the horse, or if it were to die (either in any other way) or in water 8, let them bring another (horse) and consecrate it by sprinkling: this, indeed, is the expiation in that case.
-
अश्वापदीज्याचरुभिः सावित्र्यन्ते । का. श्रौ. सू. २० । ७३ । ↩︎ ↩︎ ↩︎
-
प्रजाते वायव्यम् । का. श्रौ. सू. २० । ८१ । प्रजातो वडवायां कृतरेतःस्कन्दनः इति देवयाज्ञिकः ॥ ↩︎
-
346:1 Viz. such as fever, comm. ↩︎
-
346:2 That is, spreading them on the earth, or on clods of earth, comm. ↩︎
-
विदे᳘रन्य᳘दि A. ↩︎
-
347:1 That is, even independently of the horse-sacrifice. ↩︎
-
347:2 That is to say, if it were to die by getting drowned, or in any other way. ↩︎