०१
विश्वास-प्रस्तुतिः
एष वै᳘ प्प्रभूर्न्ना᳘म यज्ञः[[!!]]॥
(ज्ञो) य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते स᳘र्व्वमेव प्प्र᳘भूतम्भवति॥
मूलम् - श्रीधरादि
एष वै᳘ प्प्रभूर्न्ना᳘म यज्ञः[[!!]]॥
(ज्ञो) य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते स᳘र्व्वमेव प्प्र᳘भूतम्भवति॥
मूलम् - Weber
एष वै᳘ प्रभूर्ना᳘म यज्ञः᳟॥
य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते स᳘र्वमेव प्र᳘भूतम् भवति॥
मूलम् - विस्वरम्
अथाश्वमेधस्य यौगिकसंज्ञाद्वादशकाभिधायकं ब्राह्मणम् ।
एष वै प्रभूर्नाम यज्ञः । यत्रैतेन यज्ञेन यजंते । सर्वमेव प्रभूतं भवति ॥ १ ॥
हरिस्वामी
एष वै प्रभूर्नामेति । अत्र ब्राह्मणे अश्वमेधस्य द्वादश नामानि यौगिकानि इति दर्शनार्थं तानि प्रदर्श्यन्ते । यत्र देशे काले च एतेनाश्वमेधेन यजंते । तत्र सर्वमेव प्रभूतं बहु भवति । यदिष्टं प्राणिनामन्नपानाच्छादनं पुष्ट्यादीति शेषः ॥ १ ॥
Eggeling
- Verily, this is the sacrifice called Strengthful: wherever they worship with this sacrifice, everything indeed becomes strong.
०२
विश्वास-प्रस्तुतिः
(त्ये) एष वै᳘ व्विभूर्न्ना᳘म यज्ञः[[!!]]॥
(ज्ञो) य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते स᳘र्व्वमेव व्वि᳘भूतम्भवति॥
मूलम् - श्रीधरादि
(त्ये) एष वै᳘ व्विभूर्न्ना᳘म यज्ञः[[!!]]॥
(ज्ञो) य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते स᳘र्व्वमेव व्वि᳘भूतम्भवति॥
मूलम् - Weber
एष वै᳘ विभूर्ना᳘म यज्ञः᳟॥
य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते स᳘र्वमेव वि᳘भूतम् भवति॥
मूलम् - विस्वरम्
एष वै विभूर्नाम यज्ञः । यत्रैतेन यज्ञेन यजंते । सर्वमेव विभूतं भवति ॥ २ ॥
हरिस्वामी
विभूतं सर्वकार्येभ्यः ॥ २ ॥
Eggeling
- Verily, this is the sacrifice called Plenteous: wherever they worship with this sacrifice, everything indeed becomes plentiful.
०३
विश्वास-प्रस्तुतिः
(त्ये) एष वै व्य᳘ष्टिर्न्ना᳘म यज्ञः[[!!]]॥
(ज्ञो) य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते स᳘र्व्वमेव᳘ व्य᳘ष्टम्भवति॥
मूलम् - श्रीधरादि
(त्ये) एष वै व्य᳘ष्टिर्न्ना᳘म यज्ञः[[!!]]॥
(ज्ञो) य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते स᳘र्व्वमेव᳘ व्य᳘ष्टम्भवति॥
मूलम् - Weber
एष वै व्य᳘ष्टिर्ना᳘म यज्ञः᳟॥
य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते स᳘र्वमेव व्य᳘ष्टम् 1 भवति॥
मूलम् - विस्वरम्
एष वै व्यष्टिर्नामि यज्ञः । यत्रैतेन यज्ञेन यजंते । सर्वमेव व्यष्टं भवति ॥ ३ ॥
हरिस्वामी
व्यष्टं प्राप्तं यजमानेन ॥ ३ ॥
Eggeling
- Verily, this is the sacrifice called Obtainment: wherever they worship with this sacrifice, everything indeed becomes obtained.
०४
विश्वास-प्रस्तुतिः
(त्ये) एष वै व्वि᳘धृतिर्न्ना᳘म यज्ञः[[!!]]॥
(ज्ञो) य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते स᳘र्व्वमेव व्वि᳘धृतम्भवति॥
मूलम् - श्रीधरादि
(त्ये) एष वै व्वि᳘धृतिर्न्ना᳘म यज्ञः[[!!]]॥
(ज्ञो) य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते स᳘र्व्वमेव व्वि᳘धृतम्भवति॥
मूलम् - Weber
एष वै वि᳘धृतिर्ना᳘म यज्ञः᳟॥
य᳘त्रैते᳘न य᳘जन्ते स᳘र्वमेव वि᳘धृतम् भवति॥
मूलम् - विस्वरम्
एष वै विधृतिर्नाम यज्ञः । यत्रैतेन यज्ञेन यजंते । सर्वमेव विधृतं भवति ॥ ४ ॥
हरिस्वामी
विधृतं स्वकर्मसु विभागेन स्थापितम् ॥ ४ ॥
Eggeling
- Verily, this is the sacrifice called Distinction: wherever they worship with this sacrifice, everything indeed becomes distinct 2.
०५
विश्वास-प्रस्तुतिः
(त्ये) एष वै व्या᳘वृत्तिर्न्ना᳘म यज्ञः[[!!]]॥
(ज्ञो) य᳘त्रैते᳘न यज्ञे᳘न यज᳘न्ते स᳘र्व्वमेव व्या᳘वृत्तम्भवति॥
मूलम् - श्रीधरादि
(त्ये) एष वै व्या᳘वृत्तिर्न्ना᳘म यज्ञः[[!!]]॥
(ज्ञो) य᳘त्रैते᳘न यज्ञे᳘न यज᳘न्ते स᳘र्व्वमेव व्या᳘वृत्तम्भवति॥
मूलम् - Weber
एष वै व्या᳘वृत्तिर्ना᳘म यज्ञः᳟॥
य᳘त्रैते᳘न यज्ञे᳘न यज᳘न्ते स᳘र्वमेव व्या᳘वृत्तम् भवति॥
मूलम् - विस्वरम्
एष वै व्यावृत्तिर्नाम यज्ञः । यत्रैतेन यज्ञेन यजंते । सर्वमेव व्यावृत्तं भवति ॥ ५ ॥
हरिस्वामी
व्यावृत्तं अकार्येभ्यः ॥ ५ ॥
Eggeling
- Verily, this is the sacrifice called Severance: wherever they worship with this sacrifice, everything indeed becomes severed 3.
०६
विश्वास-प्रस्तुतिः
(त्ये) एष वा ऊ᳘र्ज्जस्वान्ना᳘म यज्ञः[[!!]]॥
(ज्ञो) य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते स᳘र्व्वमेवो᳘र्ज्जस्वद्भवति॥
मूलम् - श्रीधरादि
(त्ये) एष वा ऊ᳘र्ज्जस्वान्ना᳘म यज्ञः[[!!]]॥
(ज्ञो) य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते स᳘र्व्वमेवो᳘र्ज्जस्वद्भवति॥
मूलम् - Weber
एष वा ऊ᳘र्जस्वान्ना᳘म यज्ञः᳟॥
य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते स᳘र्वमेवो᳘र्जस्वद्भवति॥
मूलम् - विस्वरम्
एष वा ऊर्जस्वान्नाम यज्ञः । यत्रैतेन यज्ञेन यजंते । सर्वमेवोर्जस्वद्भवति ॥ ६ ॥
हरिस्वामी
ऊर्ज्जस्वत् रसवत् । यत्संभाव्यरसमौषध्यादि ॥ ६ ॥
Eggeling
- Verily, this is the sacrifice called Food-abounding: wherever they worship with this sacrifice, everything indeed becomes abounding in food.
०७
विश्वास-प्रस्तुतिः
(त्ये) एष वै᳘ पयस्वान्ना᳘म[[!!]] यज्ञः[[!!]]॥
(ज्ञो) य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते स᳘र्व्वमेव प᳘यस्वद्भवति॥
मूलम् - श्रीधरादि
(त्ये) एष वै᳘ पयस्वान्ना᳘म[[!!]] यज्ञः[[!!]]॥
(ज्ञो) य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते स᳘र्व्वमेव प᳘यस्वद्भवति॥
मूलम् - Weber
एष वै प᳘यस्वान्ना᳘म यज्ञः᳟॥
य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते स᳘र्वमेव प᳘यस्वद्भवति॥
मूलम् - विस्वरम्
एष वै पयस्वान्नाम यज्ञः । यत्रैतेन यज्ञेन यजंते । सर्वमेव पयस्वद्भवति ॥ ७ ॥
हरिस्वामी
पयस्वत् । प्यायत्ववत् संभाव्यवर्द्धनम् ॥ ७ ॥
Eggeling
- Verily, this is the sacrifice called Sapful:
wherever they worship with this sacrifice, everything indeed becomes rich in sap (or drink).
०८
विश्वास-प्रस्तुतिः
(त्ये) एष वै᳘ ब्रह्मवर्च्चसी ना᳘म यज्ञः[[!!]]॥
(ज्ञो) य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्त ऽआ᳘ ब्राह्मणो᳘ ब्रह्मवर्च्चसी᳘ जायते॥
मूलम् - श्रीधरादि
(त्ये) एष वै᳘ ब्रह्मवर्च्चसी ना᳘म यज्ञः[[!!]]॥
(ज्ञो) य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्त ऽआ᳘ ब्राह्मणो᳘ ब्रह्मवर्च्चसी᳘ जायते॥
मूलम् - Weber
एष वै᳘ ब्रह्मवर्चसी ना᳘म यज्ञः᳟॥
य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्त आ᳘ ब्राह्मणो᳘ ब्रह्मवर्चसी᳘ जायते॥
मूलम् - विस्वरम्
एष वै ब्रह्मवर्चसी नाम यज्ञः । यत्रैतेन यज्ञेन यजंते । आ ब्राह्मणो ब्रह्मवर्चसी जायते ॥ ८ ॥
हरिस्वामी
आजायते ॥ ८ ॥ ९ ॥
Eggeling
- Verily, this is the sacrifice called Abounding in holiness: wherever they worship with this sacrifice, the Brāhmaṇa is born as one rich in holiness.
०९
विश्वास-प्रस्तुतिः
(त ऽए) एष वा᳘ ऽअतिव्याधी ना᳘म यज्ञः[[!!]]॥
(ज्ञो) य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्त ऽआ᳘ राज᳘न्यो ऽतिव्याधी᳘ जायते॥
मूलम् - श्रीधरादि
(त ऽए) एष वा᳘ ऽअतिव्याधी ना᳘म यज्ञः[[!!]]॥
(ज्ञो) य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्त ऽआ᳘ राज᳘न्यो ऽतिव्याधी᳘ जायते॥
मूलम् - Weber
एष वा᳘ अतिव्याधी ना᳘म यज्ञः᳟॥
य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्त आ᳘ राजॗन्योऽतिव्याधी᳘ जायते॥
मूलम् - विस्वरम्
एष वा अतिव्याधी नाम यज्ञः । यत्रैतेन यज्ञेन यजंते । आ राजन्यो ऽतिव्याधी जायते ॥ ९ ॥
हरिस्वामी
[व्याख्यानं अष्टमे]
Eggeling
- Verily, this is the sacrifice called Excelling in hitting: wherever they worship with this sacrifice, the Rājanya is born as one excelling in hitting (the mark).
१०
विश्वास-प्रस्तुतिः
(त ऽए) एष वै᳘ दीर्घो ना᳘म यज्ञः[[!!]]॥
(ज्ञो) य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्त ऽआ᳘ दीर्घारण्य᳘ञ्जायते॥
मूलम् - श्रीधरादि
(त ऽए) एष वै᳘ दीर्घो ना᳘म यज्ञः[[!!]]॥
(ज्ञो) य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्त ऽआ᳘ दीर्घारण्य᳘ञ्जायते॥
मूलम् - Weber
एष वै᳘ दीर्घो ना᳘म यज्ञः᳟॥
य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्त आ᳘ दीर्घारण्यं᳘ जायते॥
मूलम् - विस्वरम्
एष वै दीर्घो नाम यज्ञः । यत्रैतेन यज्ञेन यजंते । आ दीर्घारण्यं जायते ॥ १० ॥
हरिस्वामी
दीर्घारण्यम् उत्तरकालमिति शेषः । कुत एतत्, प्रभूतं भवतीत्यादिविधानात् ॥ १० ॥
Eggeling
- Verily, this is the sacrifice called the Long (wide) one: wherever they worship with this sacrifice, a wide tract of forest-land will be provided 4.
११
विश्वास-प्रस्तुतिः
(त ऽए) एष वै᳘ कॢप्तिर्न्ना᳘म यज्ञः[[!!]]॥
(ज्ञो) य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते स᳘र्व्वमेव᳘ कॢप्त᳘म्भवति॥
मूलम् - श्रीधरादि
(त ऽए) एष वै᳘ कॢप्तिर्न्ना᳘म यज्ञः[[!!]]॥
(ज्ञो) य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते स᳘र्व्वमेव᳘ कॢप्त᳘म्भवति॥
मूलम् - Weber
एष वै᳘ कॢप्तिर्ना᳘म यज्ञः᳟॥
य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते स᳘र्वमेव᳘ कॢप्त᳘म् भवति॥
मूलम् - विस्वरम्
एष वै क्लृप्तिर्नाम यज्ञः । यत्रैतेन यज्ञेन यजंते । सर्वमेव क्लृप्तं भवति ॥ ११ ॥
हरिस्वामी
क्लृप्तं सज्जनभोग्यम् ॥ ११ ॥
Eggeling
- Verily, this is the sacrifice called Fitness: wherever they worship with this sacrifice, everything indeed becomes fit and proper.
१२
विश्वास-प्रस्तुतिः
(त्ये) एष वै᳘ प्प्रतिष्ठा ना᳘म यज्ञः[[!!]]॥
(ज्ञो) य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते स᳘र्व्वमेव प्प्र᳘तिष्ठितम्भवति॥
मूलम् - श्रीधरादि
(त्ये) एष वै᳘ प्प्रतिष्ठा ना᳘म यज्ञः[[!!]]॥
(ज्ञो) य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते स᳘र्व्वमेव प्प्र᳘तिष्ठितम्भवति॥
मूलम् - Weber
एष वै᳘ प्रतिष्ठा ना᳘म यज्ञः᳟॥
य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते स᳘र्वमेव प्र᳘तिष्ठितम् भवति॥
मूलम् - विस्वरम्
एष वै प्रतिष्ठा नाम यज्ञः । यत्रैतेन यज्ञेन यजंते । सर्वमेव प्रतिष्ठितं भवति ॥ १२ ॥
हरिस्वामी
भोगेभ्यः प्रतिष्ठितं स्वायतने ॥ १२ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे काण्डे तृतीये ऽध्याये सप्तमं ब्राह्मणम् ॥ १३ । ३ । ७ ॥
Eggeling
- Verily, this is the sacrifice called Support (foundation): wherever they worship with this sacrifice, everything indeed becomes supported (firmly established).
-
व्यष्टं᳘ A. P. ↩︎
-
344:1 Svakarmasu bhāgena sthāpitam (? confined respectively to its own functions), comm. ↩︎
-
344:2 Harisvāmin supplies ‘akāryebhyaḥ’–is kept away from what it is forbidden to do, or from what is not one’s business. ↩︎
-
345:1 That is, as would seem, either as a protection from neighbouring countries, or as room for spreading, and as pasture-land. Cf., however, XIII, 2-4, 2, 4, where, as in Ait. Br. III, 44; VI, 23, such a belt of jungle is referred to as a source of danger to the inhabitants of a country. ↩︎