०१

विश्वास-प्रस्तुतिः

अ᳘श्वस्य वा ऽआ᳘लब्धस्य॥
मे᳘ध ऽउ᳘दक्रामत्त᳘दश्वस्तोमी᳘यमभवद्य᳘दश्वस्तोमी᳘यञ्जुहोत्य᳘श्वमेव मे᳘धसा स᳘मर्द्धयति॥

मूलम् - श्रीधरादि

अ᳘श्वस्य वा ऽआ᳘लब्धस्य॥
मे᳘ध ऽउ᳘दक्रामत्त᳘दश्वस्तोमी᳘यमभवद्य᳘दश्वस्तोमी᳘यञ्जुहोत्य᳘श्वमेव मे᳘धसा स᳘मर्द्धयति॥

मूलम् - Weber

अ᳘श्वस्य वा आ᳘लब्धस्य॥
मे᳘ध उ᳘दक्रामत्त᳘दश्वस्तोमी᳘यमभवद्य᳘दश्वस्तोमी᳘यं जुहोत्य᳘श्वमेव मे᳘धसा स᳘मर्धयति॥

मूलम् - विस्वरम्

अश्वस्तोमीयद्विपदाहोमब्राह्मणम् ।

अश्वस्य वा आलब्धस्य मेध उदक्रामत् । तदश्वस्तोमीयमभवत् । यदश्वस्तोमीयं जुहोति । अश्वमेव मेधसा समर्द्धयति ॥ १ ॥

हरिस्वामी

अश्वस्य वा इति- अश्वस्तोमीयद्विपदाहोमब्राह्मणमेतत् । अश्वस्य प्राजापत्यात्मकस्यालब्धस्य मेधो यज्ञसाधनभूतो रसः सार उत्क्रांतः । तत् अश्वस्तोमीयहोमः अभवत् । स मेधः अश्वस्तोमीयः प्रतिसमाधेयः अभवदित्यर्थः । तदनुकारेण यो ऽपि यदश्वस्तोमीयं जुहोति । तेन अश्वं मेधसा समर्द्धयति । अश्वस्य स्तुतिः अश्वस्तोमः, अश्वस्तोमः अस्मिन् सूक्ते अस्तीत्यश्वस्तोमीयं “मा नो मित्रः” (वा. सं. २५ । २४-३९) इति । “मतौ छः” । सूक्तसाम्नोः (पा. सू. ) संबंधात् तत्साध्यं होमजातमपि अश्वस्तोमीयम् । जुहोतीति विधिः ॥ १ ॥ २ ॥

Eggeling
  1. When the horse was slaughtered, the life-sap 1 went out of it; it became the Aśvastomīya (set of oblations 2): when he offers the Aśvastomīya (oblations) he indeed supplies the horse with life-sap.

०२

विश्वास-प्रस्तुतिः

(त्या᳘) आ᳘ज्येन जुहोति॥
मे᳘धो वा ऽआ᳘ज्यम्मे᳘धो ऽश्वस्तोमी᳘यम्मे᳘धसै᳘वास्मिंस्तन्मे᳘धो दधात्या᳘ज्येन जुहोत्येतद्वै᳘ देवा᳘नाप्प्रियन्धा᳘म यदा᳘ज्यम्प्रिये᳘णै᳘वैनान्धा᳘म्ना स᳘मर्द्धयति॥

मूलम् - श्रीधरादि

(त्या᳘) आ᳘ज्येन जुहोति॥
मे᳘धो वा ऽआ᳘ज्यम्मे᳘धो ऽश्वस्तोमी᳘यम्मे᳘धसै᳘वास्मिंस्तन्मे᳘धो दधात्या᳘ज्येन जुहोत्येतद्वै᳘ देवा᳘नाप्प्रियन्धा᳘म यदा᳘ज्यम्प्रिये᳘णै᳘वैनान्धा᳘म्ना स᳘मर्द्धयति॥

मूलम् - Weber

आ᳘ज्येन जुहोति॥
मे᳘धो वा आ᳘ज्यम् मे᳘धोऽश्वस्तोमी᳘यम् मे᳘धसैॗवास्मिंस्तन्मे᳘धो दधात्या᳘ज्येन जुहोत्येतद्वै᳘ देवा᳘नाम् प्रियं धा᳘म यदा᳘ज्यम् प्रिये᳘णैॗवैनान्धा᳘म्ना स᳘मर्धयति॥

मूलम् - विस्वरम्

आज्येन जुहोति । मेधो वा आज्यम् । मेधो ऽश्वस्तोमीयम् । मेधसैवास्मिन् तन्मेधो दधाति । आज्येन जुहोति । एतद्वै देवानां प्रियं धाम- यदाज्यम् । प्रियेणैवैनान् धाम्ना समर्द्धयति ॥ २ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. He performs it with ghee; for ghee is life-sap, and the Aśvastomīya is life-sap: by means of life-sap

he thus puts life-sap into it. He performs with ghee, for that–to wit, ghee–is the favourite resource of the gods: he thus supplies them with their favourite resource.

०३

विश्वास-प्रस्तुतिः

(त्य) अश्वस्तोमी᳘यᳫँ᳭ हुत्वा द्वि᳘पदा जुहोति॥
(त्य᳘) अ᳘श्वो वा᳘ ऽअश्वस्तोमी᳘यम्पु᳘रुषो द्वि᳘पदा द्विपाद्वै पु᳘रुषो द्वि᳘प्प्रतिष्ठस्त᳘देनम्प्रतिष्ठ᳘या स᳘मर्द्धयति॥

मूलम् - श्रीधरादि

(त्य) अश्वस्तोमी᳘यᳫँ᳭ हुत्वा द्वि᳘पदा जुहोति॥
(त्य᳘) अ᳘श्वो वा᳘ ऽअश्वस्तोमी᳘यम्पु᳘रुषो द्वि᳘पदा द्विपाद्वै पु᳘रुषो द्वि᳘प्प्रतिष्ठस्त᳘देनम्प्रतिष्ठ᳘या स᳘मर्द्धयति॥

मूलम् - Weber

अश्वस्तोमी᳘यᳫं हुत्वा द्वि᳘पदा जुहोति॥
अ᳘श्वो वा᳘ अश्वस्तोमी᳘यम् पु᳘रुषो द्वि᳘पदा द्विपाद्वै पु᳘रुषो द्वि᳘प्रतिष्ठस्त᳘देनम् प्रतिष्ठ᳘या स᳘मर्धयति॥

मूलम् - विस्वरम्

अश्वस्तोमीयं हुत्वा द्विपदा जुहोति । अश्वो वा अश्वस्तोमीयम् । पुरुषो द्विपदाः । द्विपाद्वै पुरुषो द्विप्रतिष्ठः । तदेनं प्रतिष्ठया समर्द्धयति ॥ ३ ॥

हरिस्वामी

अश्वस्तोमीयं हुत्वा द्विपदा जुहोति । “इमानुकम्” इत्येता ऋचो (वा० सं० २५ । ४६ । ४७) द्विपदाः । तत्संबंधात् तत्साध्या आहुतयो ऽपि द्विपदाः । ता जुहोतीति विधिः । अश्वो वै अश्वस्तोमीयं अश्वप्रधानत्वात् । पुरुषो द्विपदाः द्विपात्त्वादेव । द्विपाच्च पुरुषो द्विप्रतिष्ठः । यदश्वस्तोमीयं हुत्वा द्विपदा जुहोति । तदेवमश्वं तदनुकारेण यजमानं प्रतिष्ठया समर्द्धयति । एताश्च पूर्वा आहुतयो मंत्रब्राह्मणपाठक्रमेण संल्लग्ना एव प्राप्नुवंति । सूत्रकारेण तु शाखांतरात् 3 क्रमांतरं लब्धम् । “विमुखाच्च परेभ्यः मा नो मित्रः" इति च प्रत्यृचमनुवाकाभ्याम्, अन्त्यां द्यावापृथिवीयाम्, स्विष्टकृदंते ऽग्निभ्यः स्विष्टकृद्भ्यः स्वाहेति लोहितं जुहोति यथावत्तम्, अश्वशफेन वा ऽनुयाजांते, “अयस्मयेन पत्नीसंयाजांते, इमानुकमिति च द्विपदाः” इति (का. श्रौ. सू. २० । ८ । १९२-१९८) ॥ ३ ॥ ४ ॥

Eggeling
  1. Having performed the Aśvastomīya (set of) oblations, he offers the Dvipadās 4; for the Aśvastomīya is the horse, and the Dvipadā is man, for man is two-footed (dvipād), supported on two (feet): he thus supplies him with a support.

०४

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र) अश्वस्तोमी᳘यम्पू᳘र्व्वᳫँ᳭ होत᳘व्यां ३ द्विप᳘दा ३ ऽइ᳘ति पश᳘वो वा᳘ ऽअश्वस्तोमी᳘यम्पु᳘रुषो द्वि᳘पदा य᳘दश्वस्तोमी᳘यᳫँ᳭ हुत्वा द्वि᳘पदा जुहो᳘ति त᳘स्मात्पु᳘रुष ऽउप᳘रिष्टात्पशून᳘धितिष्ठति॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र) अश्वस्तोमी᳘यम्पू᳘र्व्वᳫँ᳭ होत᳘व्यां ३ द्विप᳘दा ३ ऽइ᳘ति पश᳘वो वा᳘ ऽअश्वस्तोमी᳘यम्पु᳘रुषो द्वि᳘पदा य᳘दश्वस्तोमी᳘यᳫँ᳭ हुत्वा द्वि᳘पदा जुहो᳘ति त᳘स्मात्पु᳘रुष ऽउप᳘रिष्टात्पशून᳘धितिष्ठति॥

मूलम् - Weber

त᳘दाहुः॥
अश्वस्तोमी᳘यम् पू᳘र्वᳫं होतव्यां३ 5 द्विप᳘दा३ इ᳘ति पश᳘वो वा᳘ अश्वस्तोमी᳘यम् पु᳘रुषो द्वि᳘पदा य᳘दश्वस्तोमी᳘यᳫं हुत्वा द्वि᳘पदा जुहो᳘ति त᳘स्मात्पु᳘रुष उप᳘रिष्टात्पशूनधितिष्ठति॥

मूलम् - विस्वरम्

तदाहुः- अश्वस्तोमीयं पूर्वं होतव्यां ३ द्विपदाः ३ इति । पशवो वा अश्वस्तोमीयम् । पुरुषो द्विपदाः । यदश्वस्तोमीयं हुत्वा द्विपदा जुहोति । तस्मात् पुरुष उपरिष्टात् पशूनधितिष्ठति ॥ ४ ॥

हरिस्वामी

[व्याख्यानं तृतीये]

Eggeling
  1. Concerning this they say, ‘Is the Aśvastomīya to be offered first, or the Dvipadā?’ The Aśvastomīya, surely, is cattle, and the Dvipadā is man: inasmuch as he performs the Dvipadās after performing the Aśvastomīya, man subsequently establishes himself amongst cattle.

०५

विश्वास-प्रस्तुतिः

षो᳘डशाश्वस्तोमी᳘या जुहोति॥
षो᳘डशकला वै᳘ पश᳘वः सा᳘ पशूनाम्मा᳘त्रा पशू᳘नेव मा᳘त्रया स᳘मर्द्धयति यत्क᳘नीयसीर्व्वा भू्यसीर्व्वा[[!!]] जुहुया᳘त्पशून्मा᳘त्रया᳘ व्य᳘र्द्धयेत्षो᳘डश जुहोति षो᳘डशकला वै᳘ पश᳘वः सा᳘ पशूनाम्मा᳘त्रा पशू᳘नेव मा᳘त्रया स᳘मर्द्धयति᳘ नान्या᳘मुत्तमामा᳘हुतिञ्जुहोति य᳘दन्या᳘मुत्तमामा᳘हुतिञ्जुहुया᳘त्प्र प्प्र᳘तिष्ठा᳘यै च्यवेत द्वि᳘पदा ऽउत्तमा᳘ जुहोति प्प्रतिष्ठा वै द्वि᳘पदाः प्प्र᳘त्येव᳘ तिष्ठति जुम्बका᳘य स्वाहे᳘त्यवभृथ᳘ ऽउत्तमामा᳘हुतिञ्जुहोति व्व᳘रुणो वै᳘ जुम्बकः᳘ साक्षा᳘देव व्व᳘रुणम᳘वयजते शुक्ल᳘स्य खलते᳘र्व्विक्लिध᳘स्य पिङ्गाक्ष᳘स्य मूर्द्ध᳘नि जुहोत्येतद्वै व्व᳘रुणस्य रूप᳘ᳫँ᳘ रूपे᳘णैव व्व᳘रुणम᳘वयजते॥

मूलम् - श्रीधरादि

षो᳘डशाश्वस्तोमी᳘या जुहोति॥
षो᳘डशकला वै᳘ पश᳘वः सा᳘ पशूनाम्मा᳘त्रा पशू᳘नेव मा᳘त्रया स᳘मर्द्धयति यत्क᳘नीयसीर्व्वा भू्यसीर्व्वा[[!!]] जुहुया᳘त्पशून्मा᳘त्रया᳘ व्य᳘र्द्धयेत्षो᳘डश जुहोति षो᳘डशकला वै᳘ पश᳘वः सा᳘ पशूनाम्मा᳘त्रा पशू᳘नेव मा᳘त्रया स᳘मर्द्धयति᳘ नान्या᳘मुत्तमामा᳘हुतिञ्जुहोति य᳘दन्या᳘मुत्तमामा᳘हुतिञ्जुहुया᳘त्प्र प्प्र᳘तिष्ठा᳘यै च्यवेत द्वि᳘पदा ऽउत्तमा᳘ जुहोति प्प्रतिष्ठा वै द्वि᳘पदाः प्प्र᳘त्येव᳘ तिष्ठति जुम्बका᳘य स्वाहे᳘त्यवभृथ᳘ ऽउत्तमामा᳘हुतिञ्जुहोति व्व᳘रुणो वै᳘ जुम्बकः᳘ साक्षा᳘देव व्व᳘रुणम᳘वयजते शुक्ल᳘स्य खलते᳘र्व्विक्लिध᳘स्य पिङ्गाक्ष᳘स्य मूर्द्ध᳘नि जुहोत्येतद्वै व्व᳘रुणस्य रूप᳘ᳫँ᳘ रूपे᳘णैव व्व᳘रुणम᳘वयजते॥

मूलम् - Weber

षो᳘डशाश्वस्तोमी᳘या जुहोति॥
षो᳘डशकला वै᳘ पश᳘वः सा᳘ पशूनाम् मा᳘त्रा पशू᳘नेन मा᳘त्रया स᳘मर्धयति यत्क᳘नीयसीर्वा भू᳘यसीर्वा जुहुया᳘त्पशून्मा᳘त्रया व्य᳘र्धयेत्षो᳘डश जुहोति षो᳘डशकला वै᳘ पश᳘वः सा᳘ पशूनाम् मा᳘त्रा पशू᳘नेव मा᳘त्रया स᳘मर्धयतिॗ नान्या᳘मुत्तमामा᳘हुतिं जुहोति य᳘दन्या᳘मुत्तमामा᳘हुतिं जुहुया᳘त्प्रतिष्ठा᳘यै च्यवेत द्वि᳘पदा उत्तमा᳘ जुहोति प्रतिष्ठा वै द्वि᳘पदाः प्र᳘त्येव᳘ तिष्ठति जुम्बका᳘य स्वाहे᳘त्यवभृथ᳘ उत्तमामा᳘हुतिं जुहोति व᳘रुणो वै᳘ जुम्बकः᳘ साक्षा᳘देव व᳘रुणम᳘वयजते शुक्ल᳘स्य खलते᳘र्विक्लिधस्य पिङ्गाक्ष᳘स्य मूर्ध᳘नि जुहोत्येतद्वै व᳘रुणस्य रूपं᳘ रूपे᳘णैव व᳘रुणम᳘वयजते॥

मूलम् - विस्वरम्

षोडशाश्वस्तोमीया जुहोति । षोडशकला वै पशवः । सा पशूनां मात्रा । पशूनेव मात्रया समर्द्धयति । यत्कनीयसीर्वा भूयसीर्वा जुहुयात् । पशून् मात्रया व्यर्द्धयेत् । षोडश जुहोति । षोडशकला वै पशवः । सा पशूनां मात्रा । पशूनेव मात्रया समर्द्धयति । नान्यामुत्तमामाहुतिं जुहोति । यदन्यामुत्तमामाहुतिं जुहुयात् । प्र प्रतिष्ठायै च्यवेत । द्विपदा उत्तमा जुहोति । प्रतिष्ठा द्विपदाः । प्रत्येव तिष्ठति । “जुंबकाय स्वाहा”- (वा० सं० २५ । ९) इत्यवभृथ उत्तमामाहुतिं जुहोति । वरुणो वै जुंबकः । साक्षादेव वरुणमवयजते । शुक्लस्य खलतेर्विक्लिधस्य पिंगाक्षस्य मूर्द्धनि जुहोति । एतद्वै वरुणस्य रूपम् । रूपेणैव वरुणमवयजते ॥ ५ ॥

हरिस्वामी

खलतेः पतितकेशस्य विक्लिधस्य 3 दंतुरस्य पुरुषस्य मूर्द्धनि जुहोति ॥ ५ ॥

Eggeling
  1. Sixteen Aśvastomīya oblations he performs, for animals (cattle) consist of sixteen parts 6: that is the measure of cattle, and he thus supplies cattle with their (right) measure; Were he to offer either less or more, he would deprive cattle of their (right) measure. Sixteen he offers, for cattle consist of sixteen parts: that is the measure of cattle, and he thus supplies cattle with their (right) measure. He offers no other as a final oblation 7: were he to offer another as a final oblation, he would lose

his support. The Dvipadās he offers last, for Dvipadās are a support: he thus finds a support (establishes himself). With, ‘To Jumbaka hail!’ he offers, at the purificatory bath, the last oblation 8; for Jumbaka is Varuṇa: by sacrifice he thus manifestly redeems himself from Varuṇa. He offers it on the head of a white-spotted 9, baldheaded (man) with protruding teeth 10 and reddish brown eyes; for that is Varuṇa’s form: by (that) form (of his) he thus redeems himself from Varuṇa.

०६

विश्वास-प्रस्तुतिः

द्वा᳘दश ब्रह्मौदना᳘नुत्था᳘य नि᳘र्व्वपति॥
द्वादश᳘भिर्व्वे᳘ष्टिभिर्य्यजते त᳘दाहुर्य्यज्ञ᳘स्य वा᳘ ऽएत᳘द्रूपं यदि᳘ष्टयो यदि᳘ष्टिभिर्य्य᳘जेतोपना᳘मुक ऽएनं यज्ञः᳘ स्यात्पा᳘पीयांस्तु᳘ स्याद्यात᳘यामानि वा᳘ ऽएत᳘दीजान᳘स्य च्छ᳘न्दाᳫँ᳭सि भवन्ति ता᳘नि कि᳘मेता᳘वदाशु प्प्र᳘युञ्जीत स᳘र्व्वा वै स᳘ᳫँ᳘स्थिते यज्ञे व्वा᳘गाप्यते सा᳘ ऽत्रा ऽऽप्ता᳘ यात᳘याम्नी भवति क्रूरी᳘कृतेव हि भ᳘वत्य᳘रुष्कृता व्वाग्वै᳘ यज्ञस्त᳘स्मान्न प्प्र᳘युञ्जीते᳘ति॥

मूलम् - श्रीधरादि

द्वा᳘दश ब्रह्मौदना᳘नुत्था᳘य नि᳘र्व्वपति॥
द्वादश᳘भिर्व्वे᳘ष्टिभिर्य्यजते त᳘दाहुर्य्यज्ञ᳘स्य वा᳘ ऽएत᳘द्रूपं यदि᳘ष्टयो यदि᳘ष्टिभिर्य्य᳘जेतोपना᳘मुक ऽएनं यज्ञः᳘ स्यात्पा᳘पीयांस्तु᳘ स्याद्यात᳘यामानि वा᳘ ऽएत᳘दीजान᳘स्य च्छ᳘न्दाᳫँ᳭सि भवन्ति ता᳘नि कि᳘मेता᳘वदाशु प्प्र᳘युञ्जीत स᳘र्व्वा वै स᳘ᳫँ᳘स्थिते यज्ञे व्वा᳘गाप्यते सा᳘ ऽत्रा ऽऽप्ता᳘ यात᳘याम्नी भवति क्रूरी᳘कृतेव हि भ᳘वत्य᳘रुष्कृता व्वाग्वै᳘ यज्ञस्त᳘स्मान्न प्प्र᳘युञ्जीते᳘ति॥

मूलम् - Weber

द्वा᳘दश ब्रह्मौदना᳘नुत्था᳘य नि᳘र्वपति॥
द्वादश᳘भिर्वे᳘ष्टिभिर्यजते त᳘दाहुर्यज्ञ᳘स्य वा᳘ एत᳘द्रूपं यदि᳘ष्टयो यदि᳘ष्टिभिर्य᳘जेतोपना᳘मुक एनं यज्ञः᳘ स्यात्पा᳘पीयांस्तु᳘ स्याद्यात᳘यामानि वा᳘ एत᳘दीजान᳘स्य छ᳘न्दांसि भवन्ति ता᳘नि कि᳘मेता᳘वदाशु प्र᳘युञ्जीत स᳘र्वा वै स᳘ᳫं᳘स्थिते यज्ञे वा᳘गाप्यते सा᳘त्राप्ता यात᳘याम्नी भवति क्रूरी᳘कृतेव हि भ᳘वत्य᳘रुष्कृता वाग्वै᳘ यज्ञस्त᳘स्मान्न प्र᳘युञ्जीते᳘ति॥

मूलम् - विस्वरम्

द्वादश ब्रह्मौदनानुत्याय निर्वपति । द्वादशभिर्वेष्टिभिर्यजते । तदाहुः- यज्ञस्य वा एतद्रूपम्, यदिष्टयः । यदिष्टिभिर्यजेत । उपनामुक एनं यज्ञः स्यात् । पापीयांस्तु स्यात् । यातयामानि वा एतदीजानस्य च्छन्दांसि भवंति । तानि किमेतावदाशु प्रयुंजीत । सर्वा वै संस्थिते यज्ञे वागाप्यते । सा ऽत्रा ऽऽप्ता यातयाम्नी भवति । क्रूरीकृतेव हि भवत्यरुष्कृता । वाग्वै यज्ञः । तस्मान्न प्रयुंजीतेति ॥ ६ ॥

हरिस्वामी

द्वादश ब्रह्मौदनान् । प्रसन्ने द्वे ॥ ६ ॥ ७ ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे काण्डे तृतीये ऽध्याये षष्ठं ब्राह्मणम् ॥ १३ । ३ । ६ ॥

Eggeling
  1. Having stepped out (of the water) he prepares twelve messes of cooked rice for the priests, or performs twelve ishṭis. Concerning this they say, ‘These to wit, ishṭis–are a form of sacrifice: were he to perform ishṭis, the sacrifice would be ready to incline towards him; but he would become the worse for it, for, surely, of exhausted strength now are the metres (offering formulas) of him who has performed the Soma-sacrifice;–how could he make use of them so soon? For when the sacrifice is complete, Vāc (speech and sacred writ 11) is wholly gained, and, being gained, it now is exhausted in strength, and, as it were, wounded and mangled; but sacrifice is speech: hence he should not make use of it.’

०७

विश्वास-प्रस्तुतिः

द्वा᳘दशैव᳘ ब्रह्मौदना᳘नुत्था᳘य नि᳘र्व्वपेत्॥
(त्प्र) प्प्रजा᳘पतिर्व्वा᳘ ऽओदनः᳘ प्प्रजा᳘पतिः सम्वत्सरः᳘ प्प्रजा᳘पतिर्य्यज्ञः᳘ सम्वत्सर᳘मेव᳘ यज्ञ᳘माप्नोत्युपना᳘मुक ऽएनं यज्ञो᳘ भवति न पा᳘पीयान्भवति॥

मूलम् - श्रीधरादि

द्वा᳘दशैव᳘ ब्रह्मौदना᳘नुत्था᳘य नि᳘र्व्वपेत्॥
(त्प्र) प्प्रजा᳘पतिर्व्वा᳘ ऽओदनः᳘ प्प्रजा᳘पतिः सम्वत्सरः᳘ प्प्रजा᳘पतिर्य्यज्ञः᳘ सम्वत्सर᳘मेव᳘ यज्ञ᳘माप्नोत्युपना᳘मुक ऽएनं यज्ञो᳘ भवति न पा᳘पीयान्भवति॥

मूलम् - Weber

द्वा᳘दशैव᳘ ब्रह्मौदना᳘नुत्था᳘य नि᳘र्वपेत्॥
प्रजा᳘पतिर्वा᳘ ओदनः᳘ प्रजा᳘पतिः संवत्सरः᳘ प्रजा᳘पतिर्यज्ञः᳘ संवत्सर᳘मेव᳘ यज्ञ᳘माप्नोत्युपना᳘मुक एनं यज्ञो᳘ भवति न पा᳘पीयान्भवति॥

मूलम् - विस्वरम्

द्वादशैव ब्रह्मौदनानुत्थाय निर्वपेत् । प्रजापतिर्वा ओदनः । प्रजापतिः संवत्सरः । प्रजापतिर्यज्ञः । संवत्सरमेव यज्ञमाप्नोति । उपनामुक एनं यज्ञो भवति । न पापीयान् भवति ॥ ७ ॥

हरिस्वामी

[व्याख्यानं षष्ठे]

Eggeling
  1. Having stepped out (of the water) he should certainly prepare twelve messes of rice for the priests; for cooked rice is Prajāpati, and Prajāpati is the year, Prajāpati is the sacrifice: it is the year, the sacrifice, he thus gains, and the sacrifice becomes ready to incline towards him, and he does not become the worse for it.

  1. 341:4 Or, sacrificial essence. ↩︎

  2. 341:5 See p. 336, note 2. ↩︎

  3. शाखान्तरं चात्र माध्यन्दिनव्यतिरिक्कं कण्वादिशुक्लयजुःपंचदशशाखा वान्तरशाखात्मकं विज्ञेयम् । न त्वन्यदृगादिरूपमिति ॥ ↩︎ ↩︎

  4. 342:1 The formulas of the six dvipādās–i.e. (verses) consisting of two pādas–are found Vāj. S. XXV, 46-47. ↩︎

  5. होत᳘व्यां३ AP. ↩︎

  6. 342:2 See XII, 8, 3, 13; for a highly artificial explanation of the sixteen parts of the man Prajāpati, probably intended here, X, 4, 1, 17. Elsewhere those of animals are explained as including head, neck, trunk, tail, the four legs and eight claws; see Weber, Ind. Stud. IX, p. 111, note. ↩︎

  7. 342:3 This would seem to be directed against the practice of performing the oblation to Heaven and Earth immediately after the Aśvastomīyās, see p. 336, note 2. ↩︎

  8. 343:1 See p. 336, note 1. ↩︎

  9. 343:2 ? Or, pale. Sāyaṇa, on Taitt. Br. III, 9, 15, 3, explains ‘śukla’ by ‘citrin’ (? having white spots, or affected with white leprosy). Harisvāmin does not explain the word. ↩︎

  10. 343:3 Harisvāmin explains ‘viklidha’ by ‘dantura,’ i.e. one who has projecting teeth; whilst Sāyaṇa, l.c., explains it by either ‘given to perspiring (svedanaśīlaśarīra),’ or ‘moist-bodied (? leprous, or, old, in bodily decay, viklinnadeha).’ ↩︎

  11. 343:4 Cf. V, 5, 5, 12 ’that triple Veda is the thousandfold progeny of Vāc.’ ↩︎