०१

विश्वास-प्रस्तुतिः

स᳘र्व्वाभ्यो वै᳘ देव᳘ताभ्यो᳘ ऽश्व ऽआ᳘लभ्यते॥
य᳘त्प्राजापत्य᳘ङ्कुर्य्याद्या᳘ देव᳘ता ऽअ᳘पिभागास्ता᳘ भागधे᳘येन᳘ व्य᳘र्द्धयेच्छा᳘दन्दद्भिर᳘वकां दन्तमूलैरित्या᳘ज्यमवदा᳘नी कृत्वा᳘ प्रत्याख्या᳘यन्देव᳘ताभ्य ऽआ᳘हुतीर्ज्जुहोति या᳘ ऽएव᳘ देव᳘ता ऽअ᳘पिभागास्ता᳘ भागधे᳘येन स᳘मर्द्धयत्यरण्ये ऽनू᳘च्यान्हुत्वा᳘ द्यावापृथि᳘व्यामुत्तमामा᳘हुतिं जुहोति द्या᳘वापृथिव्योर्वै स᳘र्व्वा देव᳘ताः प्र᳘तिष्ठितास्ता᳘ ऽए᳘वैत᳘त्प्रीणाति देवासुराः सं᳘यत्ता ऽआस᳘न्॥

मूलम् - श्रीधरादि

स᳘र्व्वाभ्यो वै᳘ देव᳘ताभ्यो᳘ ऽश्व ऽआ᳘लभ्यते॥
य᳘त्प्राजापत्य᳘ङ्कुर्य्याद्या᳘ देव᳘ता ऽअ᳘पिभागास्ता᳘ भागधे᳘येन᳘ व्य᳘र्द्धयेच्छा᳘दन्दद्भिर᳘वकां दन्तमूलैरित्या᳘ज्यमवदा᳘नी कृत्वा᳘ प्रत्याख्या᳘यन्देव᳘ताभ्य ऽआ᳘हुतीर्ज्जुहोति या᳘ ऽएव᳘ देव᳘ता ऽअ᳘पिभागास्ता᳘ भागधे᳘येन स᳘मर्द्धयत्यरण्ये ऽनू᳘च्यान्हुत्वा᳘ द्यावापृथि᳘व्यामुत्तमामा᳘हुतिं जुहोति द्या᳘वापृथिव्योर्वै स᳘र्व्वा देव᳘ताः प्र᳘तिष्ठितास्ता᳘ ऽए᳘वैत᳘त्प्रीणाति देवासुराः सं᳘यत्ता ऽआस᳘न्॥

मूलम् - Weber

स᳘र्वाभ्यो वै᳘ देव᳘ताभ्यो᳘ऽश्व आ᳘लभ्यते॥
य᳘त्प्राजापत्यं᳘ कुर्याद्या᳘ देव᳘ता अ᳘पिभागास्ता᳘ भागधे᳘येन व्य᳘र्धयेछा᳘दं दद्भिर᳘वकां दन्तमूलैरित्या᳘ज्यमवदा᳘ना 1 कृत्वा᳘ प्रत्याख्या᳘यं देव᳘ताभ्य आ᳘हुतीर्जुहोति या᳘ एव᳘ देव᳘ता अ᳘पिभागास्ता᳘ भागधे᳘येन स᳘मर्धयत्यरण्येऽनू᳘च्यान्हुत्वा᳘ द्यावापृथिॗव्यामुत्तमामा᳘हुतिं जुहोति द्या᳘वापृथिव्योर्वै स᳘र्वा देव᳘ताः प्र᳘तिष्ठितास्ता᳘ एॗवैत᳘त्प्रीणाति देवासुराः सं᳘यत्ता आसन्॥

मूलम् - विस्वरम्

सर्वाभ्यो वै देवताभ्यो ऽश्व आलभ्यते । यत् प्राजापत्यं कुर्यात् । या देवता अपिभागास्ता भागधेयेन व्यर्द्धयेत्- **“शादं दद्भिरवकां दन्तमूलैः” **- (वा. सं. २५ ।१) इत्याज्यमवदानी कृत्वा प्रत्याख्यायं देवताभ्य आहुतीर्जुहोति । या एव देवता अपिभागास्ता भागधेयेन समर्द्धयति । अरण्ये ऽनूच्यान् हुत्वा । द्यावापृथिव्यामुत्तमामाहुतिं जुहोति । द्यावापृथिव्योर्वै सर्वा देवताः प्रतिष्ठिताः । ता एवैतत्प्रीणाति । देवासुराः संयत्ता आसन् ॥ १ ॥

हरिस्वामी

सर्वाभ्यो वै इति । सर्वाभ्यो देवताभ्यः अश्व आलभ्यते । “स्वगा त्वा देवेभ्यः” “तं बधान देवेभ्यः” “विश्वेभ्यस्त्वा देवेभ्यो जुष्टं प्रोक्षामि” “सर्वेभ्यस्त्वा देवेभ्यो जुष्टं प्रोक्षामि”- (वा. सं. २२ । ४ । ५) इति मंत्रवर्णेभ्य इत्यभिप्रायः । तं यद्यदि प्राजापत्यमेव कुर्यात् । तत्प्रदानकाले “तस्मात्प्राजापत्य एवाश्वः"- इति वचनात् । ततः याः देवता अश्वे ऽपिभागाः संसृष्टभागाः ता अपि तेन भागेन मंत्रवर्णावगतेन व्यर्द्धयेत् ऋद्ध्या वियोजयेत् । ततश्च प्राजापत्यमेवाश्वं कृत्वा उक्तदोषपरिहाराय शादं नाम देवं दद्भिर्दन्तैः अश्वस्य प्रीणामीति वाक्यशेषः । स्वाहाकारश्च प्रदानार्थः । अवका नाम देवता दंतमूलैः अश्वस्य प्रीणामि स्वाहेति । एवमन्यान्यपि मांत्रवर्णिक्यानि अवदानानि । आज्यमवदानी कृत्वा मन्त्रवचनेन ध्यानेन वा आज्यमेव अश्वांगत्वेन परिकल्प्य । ‘प्रत्याख्यायम्’ अवदानमवदानं प्रति आख्यायाख्याय देवतां शादादिकाम् । ताभ्यो देवताभ्यः आहुतीर्जुहोति आज्यमयी संकल्पिताश्वांगता वा । तथा च कुर्वन् या देवता अश्वसंसृष्टभागा मांत्रवर्णिक्यः । ताः भागधेयेन समर्द्धयति । ताश्च तावत् जुहोति । यावत् “पृथिवीं त्वचा प्रीणामि स्वाहा" (वा. सं. २५ । ९) इति । “जुंबकाय स्वाहा” (वा. सं. २५ । ९) इत्यवभृथे होष्यते । ततः अरण्ये ऽनूच्यान् अरण्ये पठितव्यान् “अग्निँ हृदयेनाशनिँ हृदयाग्रेण” इत्यादीन् “विश्वेभ्यो देवेभ्यः स्वाहा” (वा. सं. ३९ । ८-१३) इत्येवमेतान् होमान् हुत्वा । द्यावापृथिव्यामुत्तमामाहुतिं जुहोति । (वा. सं. ३९ । १३) । अत्र च शादः अवकाः शैवालानि । तेगाः गोकंटकाः इत्यादिदेवतारूपाणि निगमेभ्य अवगमयेत् । बर्स्वानि दंतपीठानि । अग्रजिह्वं जिह्वाग्रम् इत्येवमादीनि चाश्वांगानि । काश्चिच्चात्र प्रसिद्धा एव देवता आदित्यादयः । काश्चित् अप्रसिद्धाः शादादयः । काश्चित्तु अश्वांगात्मिका एव देवताः । “कर्णाभ्याँ श्रोत्रँ श्रोत्राभ्यां कर्णौ” (वा. सं. २५ । २) इत्यादयः । काश्चित्तत्र चतुर्थ्या निर्दिश्यंते । तत्र सरस्वत्यै अग्रजिह्वं ददामीति शेषः । क्वचित् षष्ठ्या अश्वांगानि निर्द्दिश्यंते । देवता द्वितीयया । तत्र विभक्तिर्द्रष्टव्या । जिह्वया उत्सादं प्रीणामीति । क्वचित् देवतायाश्च तृतीया अवक्रंदेनेति । अश्वांगे द्वितीया । ताल्विति । तत्रापि व्यत्ययः । अवक्रंदं तालुनेति । क्वचिदश्वांगमेव चतुर्थीनिर्द्दिष्टमस्ति न पृथग्देवता । “शुक्लाय स्वाहा” (वा. सं. २५ । १) “लोमभ्यः स्वाहा” (वा. सं. ३९ । १०) इत्यादौ । तत्र तदेव शुक्लादिहैरण्यगर्भदेवता चतुर्थ्या निर्द्दिष्टा । प्रकृताश्वांगं तु तदेव हविः । तादर्थ्ये चतुर्थी । शुक्लाय शुक्लं जुहोमीत्यर्थः । क्वचित् तद्धितेन देवतासंयोगः । पारदेवत्यानि पार्याणि पक्ष्माणि । संतीत्यत्र शेषः । क्वचित् षष्ठ्या देवता । प्रथमया चाङ्गम् । “अग्नेः पक्षतिः” (वा. सं. २५ । ४) अस्त्वित्यत्र शेषः । । क्वचित्तु “यमाय स्वाहा” (वा. सं. ३९ । १३) इत्यादौ आज्याहुतिः शुद्धैव हूयते । अश्वांगस्याभावात् इति द्रष्टव्यम् । देवासुराः संयत्ता इत्यादि तिसृणां लोहिताहुतीनां ब्राह्मणम् ॥ १ ॥

Eggeling
  1. Verily, the horse is slaughtered for all the deities: were he to make it one belonging to Prajāpati (exclusively), he would deprive the deities who are co-sharers of their share. Having made ghee (to take the part of) portions (of the horse’s body) he makes oblations 2 to the deities in mentioning them one by one with (Vāj. S. XXV, 1-9), ‘The Grass (I gratify) with the teeth, the Lotus with the roots of the hair, . . . :’ the deities who are co-sharers he thus supplies with their share. When he has offered the Araṇyenūcya (oblations) 3, he offers the last oblation to

Heaven and Earth; for all the gods are established in heaven and on earth: it is them he thereby gratifies. Now the gods and the Asuras were contending together.

०२

विश्वास-प्रस्तुतिः

(सं᳘स्ते) ते ऽब्रुवन्॥
(न्न) अग्न᳘यः स्विष्टकृतो᳘ ऽश्वस्य व्वय᳘मुद्धारमु᳘द्धरामहै तेना᳘सुरानभि᳘भविष्याम ऽइ᳘ति ते लो᳘हितमु᳘दहरन्त भ्रातृव्याभिभूत्यै य᳘त्स्विष्टकृ᳘द्भ्यो लो᳘हितञ्जुहो᳘ति भ्रातृव्याभिभूत्यै भ᳘वत्यात्म᳘ना प᳘रा ऽस्य द्विषन्भ्रा᳘तृव्यो भवति य᳘ ऽएवम्वे᳘द॥

मूलम् - श्रीधरादि

(सं᳘स्ते) ते ऽब्रुवन्॥
(न्न) अग्न᳘यः स्विष्टकृतो᳘ ऽश्वस्य व्वय᳘मुद्धारमु᳘द्धरामहै तेना᳘सुरानभि᳘भविष्याम ऽइ᳘ति ते लो᳘हितमु᳘दहरन्त भ्रातृव्याभिभूत्यै य᳘त्स्विष्टकृ᳘द्भ्यो लो᳘हितञ्जुहो᳘ति भ्रातृव्याभिभूत्यै भ᳘वत्यात्म᳘ना प᳘रा ऽस्य द्विषन्भ्रा᳘तृव्यो भवति य᳘ ऽएवम्वे᳘द॥

मूलम् - Weber

तेऽब्रुवन्॥
अग्न᳘यः स्विष्टकृतो᳘ऽश्वस्य वय᳘मुद्धारमु᳘द्धरामहै तेना᳘सुरानभि᳘भविष्याम इ᳘ति ते लो᳘हितमु᳘दहरन्त भ्रातृव्याभिभूत्यै य᳘त्स्विष्टकृ᳘द्भ्यो लो᳘हितं जुहो᳘ति भ्रातृव्याभिभूत्यै भ᳘वत्यात्म᳘ना प᳘रास्य द्विषन्भ्रा᳘तृव्यो भवति य᳘ एवं वे᳘द॥

मूलम् - विस्वरम्

ते ऽब्रुवन्नग्नयः स्विष्टकृतः- अश्वस्य वयमुद्धारमुद्धरामहै, तेनासुरानभिभविष्यामः, इति । ते लोहितमुदहरन्त, भ्रातृव्याभिभूत्यै । यत् स्विष्टकृद्भ्यो लोहितं जुहोति, भ्रातृव्याभिभूत्यै । भवत्यात्मना । परा ऽस्य द्विषन् भ्रातृव्यो भवति, य एवं वेद ॥ २ ॥

हरिस्वामी

उद्धारं असाधारणमतिरिक्तं भागं उत्कृष्टमुद्धरामहै । ते लोहितमुदहरंत भ्रातृव्याभिभवाय । अधुना ऽपि यत् “अग्निभ्यः स्विष्टकृद्भ्यः स्वाहा” इति लोहितं जुहोति तत् भ्रातृव्याभिभवायैव ॥ २ ॥

Eggeling
  1. They (the gods) spake, ‘We are the Agnayaḥ Svishṭakr̥taḥ 4 of the horse (sacrifice); let us take out for ourselves a special share: therewith we shall overcome the Asuras.’ They took the blood for themselves in order to overcome their rivals; when he offers the blood to the Svishṭakr̥ts, it is in order to overcome (his own) rivals; and the spiteful rival of him who knows this is undone by himself.

०३

विश्वास-प्रस्तुतिः

गोमृगकण्ठे᳘न प्प्रथमामा᳘हुतिञ्जुहोति॥
पश᳘वो वै᳘ गोमृगा᳘ रुद्रः᳘ स्विष्टकृ᳘त्पशू᳘नेव᳘ रुद्रा᳘दन्त᳘र्द्दधाति त᳘स्माद्य᳘त्रै᳘षा ऽश्वमेध ऽआ᳘हुतिर्हूय᳘ते न त᳘त्र रुद्रः᳘ पशू᳘नभि᳘मन्यते॥

मूलम् - श्रीधरादि

गोमृगकण्ठे᳘न प्प्रथमामा᳘हुतिञ्जुहोति॥
पश᳘वो वै᳘ गोमृगा᳘ रुद्रः᳘ स्विष्टकृ᳘त्पशू᳘नेव᳘ रुद्रा᳘दन्त᳘र्द्दधाति त᳘स्माद्य᳘त्रै᳘षा ऽश्वमेध ऽआ᳘हुतिर्हूय᳘ते न त᳘त्र रुद्रः᳘ पशू᳘नभि᳘मन्यते॥

मूलम् - Weber

गोमृगकण्ठे᳘न प्रथमामा᳘हुतिं जुहोति॥
पश᳘वो वै᳘ गोमृगा᳘ रुद्रः᳘ स्विष्टकृ᳘त्पशू᳘नेव᳘ रुद्रा᳘दन्त᳘र्दधाति त᳘स्माद्य᳘त्रैॗषाश्वमेध आ᳘हुतिर्हूय᳘ते न त᳘त्र रुद्रः᳘ पशू᳘नभि᳘मन्यते॥

मूलम् - विस्वरम्

गोमृगकण्ठेन प्रथमामाहुतिं जुहोति । पशवो वै गोमृगाः । रुद्रः स्विष्टकृत् । पशूनेव रुद्रादन्तर्दधाति । तस्माद्यत्रैषा ऽश्वमेध आहुतिर्हूयते । न तत्र रुद्रः पशूनभिमन्यते ॥ ३ ॥

हरिस्वामी

गोमृगस्य कंठेन पात्रेण प्रथमां लोहिताहुतिं जुहोति । पशूनेव रुद्रादंतर्दधाति । किंचित्पशुसंबद्धानेवोपयोगि रुद्रस्य चित्तं प्रसादयतीत्यर्थः । यस्मादेव पशून् रुद्रादंतर्द्धत्ते । तस्माद्यत्र राष्ट्रे काले च एषा लोहिताहुतिरश्व मेधांतर्गता हूयते । तत्र राष्ट्रे काले च रुद्रः पशून्नाभिमन्यते । अभिपूर्वो मन्यतिर्वधे वर्तते ॥ ३ ॥ ४ ॥

Eggeling
  1. The first oblation (of blood) he offers 5 in the

throat (gullet) of the Gomr̥ga 6; for Gomr̥gas are cattle, and the Svishṭakr̥t is Rudra: he thus

shields the cattle from Rudra, whence Rudra does not prowl after the cattle where this oblation is offered at the Aśvamedha.

०४

विश्वास-प्रस्तुतिः

(ते ऽश्व) अश्वशफे᳘न द्विती᳘यामा᳘हुतिञ्जुहोति॥
पश᳘वो वा ऽए᳘कशफा रुद्रः᳘ स्विष्टकृ᳘त्पशू᳘नेव᳘ रुद्रा᳘दन्त᳘र्द्दधाति त᳘स्माद्य᳘त्रै᳘षा ऽश्वमेध ऽआ᳘हुतिर्हूय᳘ते न त᳘त्र रुद्रः᳘ पशू᳘नभि᳘मन्यते ॥

मूलम् - श्रीधरादि

(ते ऽश्व) अश्वशफे᳘न द्विती᳘यामा᳘हुतिञ्जुहोति॥
पश᳘वो वा ऽए᳘कशफा रुद्रः᳘ स्विष्टकृ᳘त्पशू᳘नेव᳘ रुद्रा᳘दन्त᳘र्द्दधाति त᳘स्माद्य᳘त्रै᳘षा ऽश्वमेध ऽआ᳘हुतिर्हूय᳘ते न त᳘त्र रुद्रः᳘ पशू᳘नभि᳘मन्यते ॥

मूलम् - Weber

अश्वशफे᳘न द्विती᳘यामा᳘हुतिं जुहोति॥
पश᳘वो वा ए᳘कशफा रुद्रः᳘ स्विष्टकृ᳘त्पशू᳘नेव᳘ रुद्रा᳘दन्त᳘र्दधाति त᳘स्माद्य᳘त्रैॗषाश्वमेध आ᳘हुतिर्हूय᳘ते न त᳘त्र रुद्रः᳘ पशू᳘नभि᳘मन्यते ॥

मूलम् - विस्वरम्

अश्वशफेन द्वितीयामाहुतिं जुहोति । पशवो वा एकशफाः । रुद्रः स्विष्टकृत् । पशूनेव रुद्रादन्तर्दधाति । तस्माद्यत्रैषा ऽश्वमेध आहुतिर्हूयते । न तत्र रुद्रः पशूनभिमन्यते ॥ ४ ॥

हरिस्वामी

[व्याख्यानं तृतीये]

Eggeling
  1. The second oblation 7 he offers on a horse-hoof; for the one-hoofed (animals) are cattle, and the Svishṭakr̥t is Rudra: he thus shields the cattle from Rudra, whence Rudra does not prowl after the cattle where this oblation is offered at the Aśvamedha.

०५

विश्वास-प्रस्तुतिः

(ते ऽय) अयस्म᳘येन चरु᳘णा तृती᳘यामा᳘हुतिञ्जुहोति॥
(त्या) आय᳘स्यो वै᳘ प्प्रजा᳘ रुद्रः᳘ स्विष्टकृ᳘त्प्रजा᳘ ऽएव᳘ रुद्रा᳘दन्त᳘र्द्दधाति त᳘स्माद्य᳘त्रै᳘षा ऽश्वमेध ऽआ᳘हुतिर्हूय᳘ते न त᳘त्र रुद्रः᳘ प्प्रजा᳘ ऽअभि᳘मन्यते॥

मूलम् - श्रीधरादि

(ते ऽय) अयस्म᳘येन चरु᳘णा तृती᳘यामा᳘हुतिञ्जुहोति॥
(त्या) आय᳘स्यो वै᳘ प्प्रजा᳘ रुद्रः᳘ स्विष्टकृ᳘त्प्रजा᳘ ऽएव᳘ रुद्रा᳘दन्त᳘र्द्दधाति त᳘स्माद्य᳘त्रै᳘षा ऽश्वमेध ऽआ᳘हुतिर्हूय᳘ते न त᳘त्र रुद्रः᳘ प्प्रजा᳘ ऽअभि᳘मन्यते॥

मूलम् - Weber

अयस्म᳘येन चरु᳘णा तृती᳘यामा᳘हुतिं जुहोति॥
आयॗस्यो वै᳘ प्रजा᳘ रुद्रः᳘ स्विष्टकृ᳘त्प्रजा᳘ एव᳘ रुद्रा᳘दन्त᳘र्दधाति त᳘स्माद्य᳘त्रैॗषाश्वमेध आ᳘हुतिर्हूय᳘ते न त᳘त्र रुद्रः᳘ प्रजा᳘ अभि᳘मन्यते॥

मूलम् - विस्वरम्

अयस्मयेन चरुणा तृतीयामाहुतिं जुहोति । आयास्या वै प्रजाः । रुद्रः स्विष्टकृत् । प्रजा एव रुद्रादन्तर्दधाति । तस्माद्यत्रैषा ऽश्वमेध आहुतिर्हूयते । न तत्र रुद्रः प्रजा अभिमन्यते ॥ ५ ॥

हरिस्वामी

‘अयस्मयेन’ । आयास्याः प्रजाः । अयास्यो मध्यमः प्राणः, तन्मय्यः, तदात्मिकाः प्रजाः, शब्दसारूप्याच्च अयः अपि आयास्य एव इति कृत्वा एतेन संबंधेनैव अयस्मयचरू रुद्रस्योपयुंक्ते । रुद्रः प्रजापतावन्तर्हितः । तेनोपचारेण भवति । एताश्च शाखांतरवचनात् स्विष्टकृदंते होतव्याः । स्विष्टकृदवदानसामान्याद्वा प्राधान्यात् रुद्रत्वे सिद्धे आगन्तुत्वात् स्विष्टकृत ऊर्ध्वं भविष्यति ॥ ५ ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे काण्डे तृतीये ऽध्याये चतुर्थं ब्राह्मणम् ॥ (१३ । ३ । ४) ॥

Eggeling
  1. The third oblation he offers in an iron bowl; for the people (subjects) are of iron 8, and the Svishṭakr̥t is Rudra: he thus shields the people from Rudra, whence Rudra does not prowl after the cattle where this oblation is offered at the Aśvamedha.

  1. मवदा᳘नाय कृत्वा᳘ A prima manu. अवदानानि Harisv., but see Pâṇ. ५.४.६५-६७, where however a different accent (डाच्) is postulated. ↩︎

  2. 336:1 These oblations of ghee, apparently amounting to 132, are made, after the principal flesh-portions have been offered, viz. in the interval between the ghee oblation to Vanaspati (the lord of the forest, or the plant, Soma) and the Svishṭakr̥t oblation, for which see part ii, pp. 208-9; each formula, as a rule, containing the name of some divinity, and that of some part of the body of the horse supposed to be represented by the ghee (by four ladlings of which the offering spoon is filled each time). Mahīdhara, apparently in accordance with the Brāhmaṇa, supplies ‘priṇāmi (I gratify)’ with each (complete) formula which then concludes with ‘svāhā (hail)!’ According to other authorities, however, these formulas are each to be divided into two separate dedicatory formulas:–‘To the Grass hail! To the Teeth hail!’ &c.–The last of the 132 oblations (with the formula, To Jumbaka, hail!’) is, however, withheld for the present to be offered (or perhaps the formula alone is to be muttered) at the end of the purificatory bath (avabhr̥tha) towards the end of the sacrifice on the third day. ↩︎

  3. 336:2 The term ‘araṇyenūcya’ (’to be recited in the forest’) we met before (IX, 3, 1, 24) as applying to the last of seven cakes offered to the Maruts immediately after the installation of Agni (the sacred fire) on the newly-built altar The formula used for that cake is the so-called Vimukha-verse, Vāj. S. XXXIX, 7. This verse is followed in the Saṁhitā by a series of twenty formulas (ib. 8-9) of a similar nature to those referred to in the preceding note (i.e. consisting each of a deity and a part of the body of the horse–‘Agni I gratify with the heart,’ &c.), and these again by forty-two expiatory formulas (‘To the hair, hail!’ &c., ib. 10-13), ending with, ‘To Yama, hail! To Antaka (the Ender), hail! To Death, hail! To (the) Brahman, hail! To Brahman-slaying, hail! To the All-gods, hail! To Heaven and Earth, hail!’ These sixty-two formulas are used with as many ghee-oblations, which are to be performed immediately after the 131st of the previous set of oblations. Prior, however, again to the last of the forty-two expiatory oblations, (viz. the one made with ‘To Heaven and Earth, hail!’) there is another set of sixteen oblations (XIII, 3, 6, 1 seqq.), the so-called ‘Aśvastomīyā āhutayaḥ’ or ‘oblations relating to the Stomas of the horse (sacrifice),’ each of which has a complete couplet for its offering-formula (Vāj. S. XXV, 24-39). At the end of the three sets of oblations the term ‘araṇyenūcya’ is here extended by the author. At the end of the third set this succession of ghee-oblations is concluded with the last expiatory oblation, that to Heaven. and Earth; whereupon the ordinary flesh-oblation to Agni Svishṭakr̥t is performed. ↩︎

  4. 337:1 I.e. the (three) fires, the makers of good offering. ↩︎

  5. 337:2 The formula for each of these three special blood-oblations– offered immediately after the ordinary Svishṭakr̥t oblation, and being, in fact, the special Svishṭakr̥t of the Aśvamedha–is ‘Agnibhyaḥ svishṭakr̥dbhyaḥ svāhā, i.e. to the (three) Agnis, the makers of good offering, hail!’ ↩︎

  6. 338:1 ‘Gomr̥ga’ is usually taken by the commentators, and in our dictionaries, as another name of the ‘Gavaya,’ variously called Gayāl, Bos Gavaeus, Bos frontalis, or Bos cavifrons, a species of wild cattle found in various mountain districts of India (especially on the eastern boundaries of Bengal, and in Malabar, as also in Ceylon), and frequently domesticated amongst the hill-tribes, by whom it is valued for its flesh and milk (cf. Colebrooke’s paper, As. Res. VIII, p. 511 seqq.). The Gavaya itself is, however, as Colebrooke remarks, confounded by some Sanskrit writers with the ‘R̥śya,’ which he takes to be the buck of the painted, or white-footed (or slate-coloured) Antelope, the Portax pictus (or Antelope picta), also called by the vernacular names of Nīlgau or (Mahr.) Nīlgāy, whilst the female is called ‘rohit’ in Sanskrit. All these three animals occur amongst the wild animals to be used as quasi-victims, but ultimately released on the second day of the Aśvamedha; and I am inclined to think that they are three different animals. To show that the Riśya and the Gavaya cannot be the same animals, Colebrooke already refers to the fact that three R̥śyas (consecrated to the Vasus) and three Gavayas (to Br̥haspati) occur as victims side by side in Vājasaneyi-saṁhitā XXIV (27 and 28); and in the same way a Gomr̥ga, sacred to Prajāpati and Vāyu, is mentioned immediately after, ib. 30; whilst another, sacred to Prajāpati, was, as we saw, one of the two animals tied along with the horse to the central stake (see XIII, 2, 2, 2). Taitt. S. II, 1, 10, 2, treating of the sacrifice of a Gomr̥ga to Vāyu, remarks that it is neither a domestic animal (or cattle, paśu) nor a wild one; and Sāyaṇa explains it as a cross between a female deer (or antelope, mr̥gī) and a hull that has gone with his cows to graze in the forest; whilst, on Taitt. Br. III, 8, 20, 5, he leaves one to choose between its being a vicious bull (dhūrto balīvardaḥ), dangerous to men, or an animal ‘of mixed breed, sprung from a cow and a male gazelle or antelope (gohariṇayoḥ, or possibly, from parent beasts of the bovine and antelope species).’ In this latter passage, the editor of the Brāhmaṇa (in the list of contents, p. 53) takes it to mean ‘wild cattle (Nīlagāo gomr̥ga, erroneously explained as a cross between a deer and a cow),’ which would be a probable enough explanation, if the Riśya were not the Nīlgau; whilst otherwise the animal might belong to some other species of bovine antelopes no longer found in India. ↩︎

  7. 339:1 Whilst the first of these oblations must take place immediately after the ordinary Svishṭakr̥t of the animal sacrifice, the second may be postponed till after the ‘after-offerings’; and the third till after the ‘Patnīsaṁyājas.’ See also XIII, 5, 3, 8 seq. ↩︎

  8. 339:2 That is, their value–as compared with that of the king or nobles, and the Brāhmaṇas–is that of iron, compared with that of gold and silver; cp. XIII, 2, 2, 19. ↩︎