०१
विश्वास-प्रस्तुतिः
य᳘त्ति᳘स्रो ऽनुष्टु᳘भो भ᳘वन्ति॥
त᳘स्माद᳘श्वस्त्रिभिस्ति᳘ष्ठंस्तिष्ठति यच्च᳘तस्रो गाय᳘त्र्यस्त᳘स्माद᳘श्वः स᳘र्व्वैः पद्भिः᳘ प्प्रतिद᳘धत्प᳘लायते परमम्वा᳘ ऽएतच्छ᳘न्दो य᳘दनुष्टु᳘प्परमो᳘ ऽश्वः पशूना᳘म्परम᳘श्चतुष्टोम स्तो᳘मानाम्परमे᳘णै᳘वैनम्परम᳘तां गमयति॥
मूलम् - श्रीधरादि
य᳘त्ति᳘स्रो ऽनुष्टु᳘भो भ᳘वन्ति॥
त᳘स्माद᳘श्वस्त्रिभिस्ति᳘ष्ठंस्तिष्ठति यच्च᳘तस्रो गाय᳘त्र्यस्त᳘स्माद᳘श्वः स᳘र्व्वैः पद्भिः᳘ प्प्रतिद᳘धत्प᳘लायते परमम्वा᳘ ऽएतच्छ᳘न्दो य᳘दनुष्टु᳘प्परमो᳘ ऽश्वः पशूना᳘म्परम᳘श्चतुष्टोम स्तो᳘मानाम्परमे᳘णै᳘वैनम्परम᳘तां गमयति॥
मूलम् - Weber
य᳘त्तिॗस्रोऽनुष्टु᳘भो भ᳘वन्ति॥
त᳘स्माद᳘श्वस्त्रिभिस्ति᳘ष्ठंस्तिष्ठति यच्च᳘तस्रो गायत्र्य᳘स्तस्माद᳘श्वः स᳘र्वैः पद्भिः᳘ प्रतिद᳘धत्प᳘लायते परमं वा᳘ एतच्छ᳘न्दो य᳘दनुष्टु᳘प्परमो᳘ऽश्वः पशूना᳘म् परम᳘श्चतुष्टोम स्तो᳘मानाम् परमे᳘णैॗवैनम् परम᳘तां गमयति॥
मूलम् - विस्वरम्
यत्तिस्रो ऽनुष्टुभो भवन्ति । तस्मादश्वस्त्रिभिस्तिष्ठंस्तिष्ठति । यच्चतस्रो गायत्र्यः । तस्मादश्वः सर्वैः पद्भिः प्रसिदधत्पलायते । परमं वा एतच्छन्दः । यदनुष्टुप् । परमो ऽश्वः पशूनाम् । परमश्चतुष्टोमः स्तोमानाम् । परमेणेवैनं परमतां गमयति ॥ १ ॥
हरिस्वामी
यत्तिस्रो ऽनुष्टुभः । चतुष्टोमः स्तोमो भवतीत्यत्रैव दर्शनांतरमुच्यते । तस्मिन् हि चतुष्टोमे चतसृषु गायत्रीषु बहिष्पवमानो भवति । याश्च तिस्रो ऽनुष्टुभो भवंति । तत्रेदमुच्यते । यस्मात् तिस्रः अनुष्टुभस्तद्बहिष्पवमानो भवति । तस्मात्तदनुकारेण अश्वस्त्रिभिः पादैस्तिष्ठति । यस्मात्तु स्वाभाविक्यश्चतस्रो गायत्र्यः । तस्मादश्वः चतुर्भिः पादैः पलायते धावति । परमं वा एतच्छंद इति दर्शनान्तरम् । वाग्वै अनुष्टुप् वाक् सर्वाणि च्छन्दांसि । इत्येवमनुष्टुप् परमं छन्दः । परमो ऽश्वः पशूनां महोपकारकत्वात् प्रजापतिकायावयवत्वाच्च । परमश्चतुष्टोमः कृतात्मकत्वात् अश्वसक्थिप्रतिसमाधानकरणत्वाच्च । परमणैवैनं एतेन त्रयेण एनं यजमानं परमतां श्रेष्ठतां गमयत्युद्गाता ॥ १ ॥
Eggeling
- Inasmuch as there are three Anushṭubh verses 1 (on the first day), therefore the horse, when standing, stands on three (feet); and inasmuch as (they are made into) four Gāyatrī verses, therefore the horse, when stepping out, scampers off on all (four) feet. For that Anushṭubh, doubtless, is the highest metre, and the horse is the highest of animals; and the Katushṭoma is the highest of Stomas: by means of what is highest he thus causes him (the Sacrificer) to reach the highest position.
०२
विश्वास-प्रस्तुतिः
श᳘क्वर्य्यः पृष्ठ᳘म्भवन्ति॥
(न्त्य) अन्य᳘दन्यच्छ᳘न्दो᳘ ऽन्ये ऽन्ये हि स्तो᳘माः क्रिय᳘न्ते यच्छ᳘क्वर्य्यः पृष्ठम्भ᳘वन्त्य᳘श्वस्यैव᳘ सर्व्वत्वा᳘य॥
मूलम् - श्रीधरादि
श᳘क्वर्य्यः पृष्ठ᳘म्भवन्ति॥
(न्त्य) अन्य᳘दन्यच्छ᳘न्दो᳘ ऽन्ये ऽन्ये हि स्तो᳘माः क्रिय᳘न्ते यच्छ᳘क्वर्य्यः पृष्ठम्भ᳘वन्त्य᳘श्वस्यैव᳘ सर्व्वत्वा᳘य॥
मूलम् - Weber
श᳘क्वर्यः पृष्ठ᳘म् भवन्ति॥
अन्य᳘दन्यच्छ᳘न्दोॗऽन्येऽन्ये हि स्तो᳘माः क्रिय᳘न्ते यछ᳘क्वर्यः पृष्ठम् भ᳘वन्त्य᳘श्वस्यैव᳘ सर्वत्वा᳘य॥
मूलम् - विस्वरम्
शक्वर्यः पृष्ठं भवन्ति । अन्यदन्यच्छन्दः । अन्ये ऽन्ये हि स्तोमाः क्रियन्ते । यच्छक्वर्यः पृष्ठं भवन्ति । अश्वस्यैव सर्वत्वाय ॥ २ ॥
हरिस्वामी
शक्वर्याः पुनर्वचनं ब्राह्मणेष्वनुरूपसिद्ध्यर्थम् । नार्थांतरमाशंकनीयम् ॥ २ ॥
Eggeling
- The Śakvarī verses are the (Hotr̥’s) Pr̥shṭḥa (of the second day): there is a different metre for
each (verse), for different Stomas are performed on each (day). And as to the Śakvarī verse being the Pr̥shṭḥa (-stotra), it is for the completeness of the horse (sacrifice).
०३
विश्वास-प्रस्तुतिः
(यै) एकविᳫँ᳭श᳘म्मध्यमम᳘हर्भ्भवति॥
(त्य) असौ वा᳘ ऽआदित्य᳘ ऽएकविᳫँ᳭शः सो ऽश्वमेधः स्वे᳘नै᳘वैनᳫँ᳭ स्तो᳘मेन स्वा᳘यान्देव᳘तायाम्प्र᳘तिष्ठापयति॥
मूलम् - श्रीधरादि
(यै) एकविᳫँ᳭श᳘म्मध्यमम᳘हर्भ्भवति॥
(त्य) असौ वा᳘ ऽआदित्य᳘ ऽएकविᳫँ᳭शः सो ऽश्वमेधः स्वे᳘नै᳘वैनᳫँ᳭ स्तो᳘मेन स्वा᳘यान्देव᳘तायाम्प्र᳘तिष्ठापयति॥
मूलम् - Weber
एकविंश᳘म् मध्यमम᳘हर्भवति॥
असौ वा᳘ आदित्य᳘ एकविंॗशः सो ऽश्वमेधः स्वे᳘नैॗवैनᳫं स्तो᳘मेन स्वा᳘यां देव᳘तायाम् प्र᳘तिष्ठापयति॥
मूलम् - विस्वरम्
एकविंशं मध्यममहर्भवति । असौ वा आदित्य एकविंशः । सो ऽश्वमेधः । स्वेनैवैनं स्तोमेन स्वायां देवतायां प्रतिष्ठापयति ॥ ३ ॥
हरिस्वामी
एकविंशं एकविंशस्तोमकं मध्यममहर्भवति । सर्वाणि स्तोत्राणि एकविंशानि तस्येत्यर्थः । असौ वा आदित्य एकविंशः स्तोमसंख्यासाम्यात् (तत्तु लोकेषु हिष्वमणुलौकैकविंशति वा ?) । तस्य विभक्तं तेजः । स चासौ मेध्यः । “एष वा अश्वमेधो य एष तपति”- (श. प. १० । ६ । ५ । ८) इति दर्शनात् । स्वेनैवैनं स्तोमेन एनमश्वम् स्वायां देवतायां सूर्ये प्रतिष्ठापयति ॥ ३ ॥
Eggeling
- The central day is an Ekaviṁśa one, for the Ekaviṁśa is yonder sun, and so is the Aśvamedha by means of its own Stoma he thus establishes it in its own deity.
०४
विश्वास-प्रस्तुतिः
व्वामदेव्य᳘म्मैत्रावरुणसाम᳘ भवति॥
प्प्रजा᳘पतिर्व्वै᳘ व्वामदेव्य᳘म्प्राजापत्यो᳘ ऽश्वः स्व᳘यै᳘वैनन्देव᳘तया स᳘मर्द्धयति॥
मूलम् - श्रीधरादि
व्वामदेव्य᳘म्मैत्रावरुणसाम᳘ भवति॥
प्प्रजा᳘पतिर्व्वै᳘ व्वामदेव्य᳘म्प्राजापत्यो᳘ ऽश्वः स्व᳘यै᳘वैनन्देव᳘तया स᳘मर्द्धयति॥
मूलम् - Weber
वामदेव्य᳘म् मैत्रावरुणसाम᳘ भवति॥
प्रजा᳘पतिर्वै᳘ वामदेव्य᳘म् प्राजापत्यो᳘ऽश्वः स्व᳘यैॗवैनं देव᳘तया स᳘मर्धयति॥
मूलम् - विस्वरम्
वामदेव्यं मैत्रावरुणसाम भवति । प्रजापतिर्वै वामदेव्यम् । प्राजापत्यो ऽश्वः । स्वयैवैनं देवतया समर्धयति ॥ ४ ॥
हरिस्वामी
वामदेव्यं वामदेवेन दृष्टं साम “कया नश्चित्र आभुवत्”- इत्येतत् मैत्रावरुणसाम भवति माध्यंदिने सवने प्रथमे उक्थ्यविग्रहे मैत्रावरुणः शंसति । तेन स्तोत्रं व्यपदिश्यते । तत् मैत्रावरुणशस्त्रसंबद्धं स्तोत्रं वामदेव्यसामसाधनकं भवतीत्यनुवाद एव । दर्शनसंबद्धः स्वार्थप्रकृतिभाव एव प्राप्तत्वात् । प्रजापतिर्वै वामदेव्यम् । अनिरुक्तायां हि तदुत्पन्नम् । कद्वत्यां वा ॥ ४ ॥
Eggeling
- The Vāmadevya is the Maitrāvaruṇa’s Sāman 2; for the Vāmadevya is Prajāpati, and the horse is of Prajāpati’s nature: he thus supplies it with its own deity.
०५
विश्वास-प्रस्तुतिः
पार्थुरश्मं᳘ ब्रह्मसाम᳘ भवति॥
रश्मि᳘ना वा ऽअ᳘श्वो यत᳘ ऽईश्वरो वा ऽअश्वो᳘ ऽयतो᳘ ऽधृतो᳘ ऽप्प्रतिष्ठितः प᳘राम्पराव᳘तङ्ग᳘न्तोर्य्य᳘त्पार्थुरश्मं᳘ ब्रह्मसाम भ᳘वत्यश्वस्यैव धृ᳘त्यै॥
मूलम् - श्रीधरादि
पार्थुरश्मं᳘ ब्रह्मसाम᳘ भवति॥
रश्मि᳘ना वा ऽअ᳘श्वो यत᳘ ऽईश्वरो वा ऽअश्वो᳘ ऽयतो᳘ ऽधृतो᳘ ऽप्प्रतिष्ठितः प᳘राम्पराव᳘तङ्ग᳘न्तोर्य्य᳘त्पार्थुरश्मं᳘ ब्रह्मसाम भ᳘वत्यश्वस्यैव धृ᳘त्यै॥
मूलम् - Weber
पार्थुरश्म᳘म् ब्रह्मसाम᳘ भवति॥
रश्मि᳘ना वा अ᳘श्वो यत᳘ ईश्वरो वा अश्वो᳘ऽयतो᳘ऽधृतो᳘ प्रतिष्ठितः प᳘राम् पराव᳘तं ग᳘न्तोर्य᳘त्पार्थुरश्म᳘म् ब्रह्मसाम भ᳘वत्यश्वस्यैव धृ᳘त्यै॥
मूलम् - विस्वरम्
पार्थुरश्मं ब्रह्मसाम भवति । रश्मिना वा अश्वो यतः । ईश्वरो वा अश्वो ऽयतो ऽधृतो ऽप्रतिष्ठितः परां परावतं गन्तोः । यत्पार्थुरश्मं ब्रह्मसाम भवति । अश्वस्यैव धृत्यै ॥ ५ ॥
हरिस्वामी
पार्थुरश्मं ब्रह्मसाम । ब्राह्मणाच्छंस्यत्र ब्रह्मा नैकम् । नापि तत्कर्तृकं द्वितीयमुक्थ्यविग्रहशस्त्रं लक्ष्यते । नापि तत्संबद्धं स्तोत्रं व्यपदिश्यते । ब्राह्मणाच्छंसिशस्त्रसंबद्धं स्तोत्रं पार्थुरश्मसाधनकं भवतीत्यर्थः । रश्मिना वै अश्वः यतः बद्धः । सम्यक् प्रवर्तत इति शेषः । कथमित्यत आह । ईश्वरः ईशिता समर्थः दूरं गन्तुम् । अयतः अबद्धो रश्मिनेत्यर्थः । ततः किं इत्यत आह- यत् पृथुरश्मिसंबद्धं साम भवति तत् अश्वस्य धृत्यै धारणाय ॥ ५ ॥
Eggeling
०६
विश्वास-प्रस्तुतिः
स᳘ङ्कृत्यच्छावाकसाम᳘ भवति॥
(त्यु) उत्सन्नयज्ञ᳘ ऽइव वा᳘ ऽएष य᳘दश्वमेधः कि᳘म्वा᳘ ह्येत᳘स्य क्रिय᳘ते कि᳘म्वा न यत्स᳘ङ्कृत्यच्छावाकसाम भ᳘वत्य᳘श्वस्यैव᳘ सर्व्वत्वा᳘य स᳘र्व्वस्तोमो ऽतिरात्र᳘ ऽउत्तमम᳘हर्भ्भवति स᳘र्व्वम्वै स᳘र्व्वस्तोमो ऽतिरात्रः स᳘र्व्वमश्वमेधः स᳘व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै॥
मूलम् - श्रीधरादि
स᳘ङ्कृत्यच्छावाकसाम᳘ भवति॥
(त्यु) उत्सन्नयज्ञ᳘ ऽइव वा᳘ ऽएष य᳘दश्वमेधः कि᳘म्वा᳘ ह्येत᳘स्य क्रिय᳘ते कि᳘म्वा न यत्स᳘ङ्कृत्यच्छावाकसाम भ᳘वत्य᳘श्वस्यैव᳘ सर्व्वत्वा᳘य स᳘र्व्वस्तोमो ऽतिरात्र᳘ ऽउत्तमम᳘हर्भ्भवति स᳘र्व्वम्वै स᳘र्व्वस्तोमो ऽतिरात्रः स᳘र्व्वमश्वमेधः स᳘व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै॥
मूलम् - Weber
सं᳘कृत्यछावाकसाम᳘ भवति॥
उत्सन्नयज्ञ᳘ इव वा᳘ एष य᳘दश्वमेधः किं᳘ वाॗ ह्येत᳘स्य क्रिय᳘ते किं᳘ वा न यत्सं᳘कृत्यछावाकसाम भ᳘वत्य᳘श्वस्यैव᳘ सर्वत्वा᳘य स᳘र्वस्तोमोऽतिरात्र᳘ उत्तमम᳘हर्भवति स᳘र्वं वै स᳘र्वस्तोमोऽतिरात्रः स᳘र्वमश्वमेधः स᳘र्वस्या᳘प्त्यै स᳘र्वस्या᳘वरुद्ध्यै॥
मूलम् - विस्वरम्
संकृत्यच्छावाकसाम भवति । उत्सन्नयज्ञ इव वा एष यदश्वमेधः । किं वा ह्येतस्य क्रियते । किं वा न । यत्संकृत्यच्छावाकसाम भवति । अश्वस्यैव सर्वत्वाय । सर्वस्तोमो ऽतिरात्र उत्तममहर्भवति । सर्वं वै सर्वस्तोमो ऽतिरात्रः । सर्वमश्वमेधः । सर्वस्याप्त्यै । सर्वस्यावरुद्ध्यै ॥ ६ ॥
हरिस्वामी
संकृत्यच्छावाकसाम । उच्चैः कलापग्रामादौ सिद्धस्थानं सत्रस्थिताद् ग्रन्थतः अर्थतश्च विच्छिन्नः यज्ञः उत्सन्नयज्ञः एष यः अश्वमेधः । कथमुत्सन्न इत्यत आह- किं वा हीति । यस्य धर्मापूर्वयोः युगयोस्तौ प्रयुज्येते स्म तेषां किंचित् कलौ क्रियते किंचिन्न क्रियते । ततश्च यत्संकृत्यच्छावाकसाम भवति तत् ॥ ६ ॥
Eggeling
- The Saṁkr̥ti 5 is the Achāvāka’s Sāman;–
that Aśvamedha, indeed, is, as it were, a disused sacrifice, for what is performed thereof, and what is not 6? When the Saṁkr̥ti is the Achāvāka’s Sāman, it is for (bringing about) the completeness of the horse (sacrifice). The last day is an Atirātra with all the (six) Stomas, in order to his (the Sacrificer’s) obtaining everything, for an Atirātra with all the Stomas is everything, and the Aśvamedha is everything.
०७
विश्वास-प्रस्तुतिः
(द्ध्या ऽए) एकवि᳘ᳫँ᳘शो ऽग्निर्भ्भ᳘वति॥
(त्ये) एकविᳫँ᳭श स्तो᳘म ऽए᳘कविᳫँ᳭शतिर्य्यू᳘पा य᳘था वा᳘ ऽऋषभा᳘ वा व्वृ᳘षाणो वा सᳫँ᳭स्फुरे᳘रन्नेव᳘मेते स्तो᳘माः स᳘मृच्छन्ते य᳘देकविᳫँ᳭शास्तान्य᳘त्समर्प्प᳘येदा᳘र्तिमा᳘र्च्छेद्य᳘जमानो हन्ये᳘तास्य यज्ञः᳘॥
मूलम् - श्रीधरादि
(द्ध्या ऽए) एकवि᳘ᳫँ᳘शो ऽग्निर्भ्भ᳘वति॥
(त्ये) एकविᳫँ᳭श स्तो᳘म ऽए᳘कविᳫँ᳭शतिर्य्यू᳘पा य᳘था वा᳘ ऽऋषभा᳘ वा व्वृ᳘षाणो वा सᳫँ᳭स्फुरे᳘रन्नेव᳘मेते स्तो᳘माः स᳘मृच्छन्ते य᳘देकविᳫँ᳭शास्तान्य᳘त्समर्प्प᳘येदा᳘र्तिमा᳘र्च्छेद्य᳘जमानो हन्ये᳘तास्य यज्ञः᳘॥
मूलम् - Weber
एकविंॗशोऽग्निर्भ᳘वति॥
एकविंश स्तो᳘म ए᳘कविंशतिर्यू᳘पा य᳘था वा᳘ ऋषभा᳘ वा वृ᳘षाणो वा संस्फुरे᳘रन्नेव᳘मेते स्तो᳘माः स᳘मृछन्ते य᳘देकविंशास्तान्य᳘त्समर्प᳘येदा᳘र्तिमा᳘र्छेद्य᳘जमानो हन्ये᳘तास्य यज्ञः᳟॥
मूलम् - विस्वरम्
एकविंशो ऽग्निर्भवति । एकविंशः स्तोमः । एकविंशतिर्यूपाः । यथा वा ऋषभा वा वृषाणो वा संस्फुरेरन् । एवमेते स्तोमाः समृच्छन्ते । यदेकविंशाः । तान्यत्समर्पयेत् । आर्तिमाच्छेद्यजमानः । हन्येतास्य यज्ञः ॥ ७ ॥
हरिस्वामी
एकविंशः । एकविंशतिः पुरुषाः परिमाणमस्याग्नेरित्येतस्मिन्नर्थे एकविंशतिशब्दात् डप्रत्ययो ऽयं द्रष्टव्यः । ततश्चैकविंशतिविधो ऽग्निरश्वमेधे 7 स्यादित्यर्थः । ननु च अनेन वाक्येन अग्नेः परिमाणमश्वमेधे नियम्यते । नाग्निरित्ययं साग्निरश्वमेधः स्यात् । नैतदेवं, वचनांतरेण चाग्निर्नियतः । तौ एतौ अर्काश्वमेधौ । तौ पुनरेकैव देवता भवति । मृत्युरेवाग्निः। एकविंशतिपरिमाणमस्य स्तोमस्येत्येतस्मिन्नर्थे एकविंशतिशब्दादुपसंख्यानात् “स्तोमे डविधिः पंचदशाद्यर्थः” इति स्तोमस्तोत्रियसंख्या सर्वा ऽपि एकविंशस्तोमकानि मध्यमे ऽहनि भवंतीत्यर्थः । ऋषभाः प्रजननसमर्था अनुत्सृष्टाः । वृषाणः उत्सृष्टाः सेक्तारः । गोवृषाः । ते यथा परस्परविरुद्धं संस्फुरंति । एवमेते त्रय एकमुख्या एव स्तोमाः । इतरे त्वेकविंशतिसामान्याः स्तोमाः । एवं त्रयः एकविंशकाः संघा इत्यर्थः । तान् एकविंशान् यत्समर्पयेद्यजमानः । ततः आर्तिम् आर्च्छेत्प्राप्नुयात् । स्वयं यज्ञस्तु अस्य हन्येत । इत्येकविंशत्रयस्य निंदा कल्पांतरोपन्यासार्था ॥ ७ ॥
Eggeling
- The fire-altar is the twenty-one-fold one 8, the Stoma the twenty-one-fold one, and there are twenty-one sacrificial stakes; even as bulls or stallions 9 would clash together, so do these Stomas 10, the
twenty-one-versed, run counter to one another: were he to bring them together, the Sacrificer would suffer harm, and his sacrifice would be destroyed.
०८
विश्वास-प्रस्तुतिः
(ज्ञो᳘) द्वादश᳘ ऽए᳘वाग्निः᳘ स्यात्॥
(दे᳘) ए᳘कादश यू᳘पा य᳘द्द्वाद᳘शो ऽग्निर्भ्भ᳘वति द्वा᳘दश मा᳘साः सम्वत्सरः᳘ सम्वत्सर᳘मेव᳘ यज्ञ᳘माप्नोति यदे᳘कादश यू᳘पा व्विराड्वा᳘ ऽएषा स᳘म्मीयते य᳘देकादशि᳘नी त᳘स्यै य᳘ ऽएकादश स्त᳘न ऽए᳘वास्यै स᳘ दुह᳘ ऽए᳘वैनान्ते᳘न॥
मूलम् - श्रीधरादि
(ज्ञो᳘) द्वादश᳘ ऽए᳘वाग्निः᳘ स्यात्॥
(दे᳘) ए᳘कादश यू᳘पा य᳘द्द्वाद᳘शो ऽग्निर्भ्भ᳘वति द्वा᳘दश मा᳘साः सम्वत्सरः᳘ सम्वत्सर᳘मेव᳘ यज्ञ᳘माप्नोति यदे᳘कादश यू᳘पा व्विराड्वा᳘ ऽएषा स᳘म्मीयते य᳘देकादशि᳘नी त᳘स्यै य᳘ ऽएकादश स्त᳘न ऽए᳘वास्यै स᳘ दुह᳘ ऽए᳘वैनान्ते᳘न॥
मूलम् - Weber
द्वादश᳘ एॗवाग्निः᳘ स्यात्॥
ए᳘कादश यू᳘पा य᳘द्द्वादॗशोऽग्निर्भ᳘वति द्वा᳘दश मा᳘साः संवत्सरः᳘ संवत्सर᳘मेव᳘ यज्ञ᳘माप्नोति यदे᳘कादश यू᳘पा विराड्वा᳘ एषा स᳘म्मीयते य᳘देकादशि᳘नी त᳘स्यै य᳘ एकादश स्त᳘न एॗवास्यै स᳘ दुह᳘ एॗवैनां ते᳘न॥
मूलम् - विस्वरम्
द्वादश एवाग्निः स्यात् । एकादश यूपाः । यद्द्वादशो ऽग्निर्भवति । द्वादश मासाः संवत्सरः । संवत्सरमेव यज्ञमाप्नोति । यदेकादश यूपाः । विराड्वा एषा संमीयते । यदेकादशिनी । तस्यै य एकादशः । स्तन एवास्यै सः । दुह एवैनां तेन ॥ ८ ॥
हरिस्वामी
द्वादश एवाग्निः । अग्नौ यूपेषु कल्पांतरोपन्यासो यस्तस्य च प्रशंसा निंदा च । पूर्वकल्पप्रशंसेत्यर्थः । द्वादशपुरुषपरिमाणो द्वादशः । एकविंशतिविधादारभ्य द्वादशानां पूरणो द्वादशः । सवविध एतद्भवति । एकविंशे एव वाच्यम् । विराड्रूपा एषा अविर्यूपं संमीयते । एकत्र देशे यूपैकादशिनी । ननु च- दशात्मिका विराट् दशभिरेव यूपैः संपद्यते । किं तत्रैकादशिन्या ? इत्यत आह- तस्याः एकादशिन्याः य एकादशो यूपः । सः स्तनः एवास्या विराजः । दुहे दुग्धे एनां विराजं तेन स्तनेन यजमान इति ॥ ८ ॥
Eggeling
- There may, indeed, be a twelvefold altar, and eleven stakes. When the altar is a twelvefold one–twelve months being a year–it is the year, the sacrifice, he obtains. When there are eleven stakes, then that Virāj (metre), the Ekādaśinī 11, is contrived; and that which is its eleventh (stake) is its teat: thereby he milks it.
०९
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
(र्य्य᳘) य᳘द्द्वाद᳘शो ऽग्निः स्यादे᳘कादश यू᳘पा य᳘था स्थू᳘रिणा याया᳘त्तादृक्तदि᳘त्येकविᳫँ᳭श᳘ ऽए᳘वाग्निर्भ्भ᳘वत्येकविᳫँ᳭श स्तो᳘म ऽए᳘कविᳫँ᳭शतिर्य्यू᳘पास्तद्य᳘था प्प्र᳘ष्टिभिर्य्याया᳘त्तादृक्तत्[[!!]]॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
(र्य्य᳘) य᳘द्द्वाद᳘शो ऽग्निः स्यादे᳘कादश यू᳘पा य᳘था स्थू᳘रिणा याया᳘त्तादृक्तदि᳘त्येकविᳫँ᳭श᳘ ऽए᳘वाग्निर्भ्भ᳘वत्येकविᳫँ᳭श स्तो᳘म ऽए᳘कविᳫँ᳭शतिर्य्यू᳘पास्तद्य᳘था प्प्र᳘ष्टिभिर्य्याया᳘त्तादृक्तत्[[!!]]॥
मूलम् - Weber
त᳘दाहुः॥
य᳘द्द्वादॗशोऽग्निः स्यादे᳘कादश यू᳘पा य᳘था स्थू᳘रिणा याया᳘त्तादृक्तदि᳘त्येकविंश᳘ एॗवाग्निर्भ᳘वत्येकविंश स्तो᳘म ए᳘कविंशतिर्यू᳘पास्तद्य᳘था प्र᳘ष्टिभिर्याया᳘त्तादृक्त᳘त्॥
मूलम् - विस्वरम्
तदाहुः- यद्द्वादशो ऽग्निः स्यात् । एकादश यूपाः । यथा स्थूरिणा यायात् । तादृक्तत् । इत्येकविंश एवाग्निर्भवति । एकविंशः स्तोमः । एकविंशतिर्यूपाः । तद्यथा प्रष्टिभिर्यायात् । तादृक्तत् ॥ ९ ॥
हरिस्वामी
‘तदाहुर्यत्’ । यत् यदि । द्वादशो ऽग्निः स्यात् एकादश च यूपाः । तत एव एकविंशस्य अनेन चैकेन यथा कश्चित् स्थूरिणा । (नु सहाये । मीयते अनेन दुहा वा दुःखं ?) गच्छेत् । तादृक् तत्स्यात् । इत्येवमाहुः । कथं हि न दोष इत्यत आह- एकविंशतिर्यूपाः । तच्च यथा कश्चित्प्रष्टिभिः अपि अक्लेशेन यायात् । तादृक्तत् । बहवो हि तदा एकविंशतिर्भवंति । ते चालं धुर्यतायै इत्यभिप्रायः ॥ ९ ॥
Eggeling
- As to this they say, ‘If there were a twelvefold altar, and eleven stakes, it would be as if one were to drive on a cart drawn by one beast.’ There are the twenty-one-fold altar, the twenty-one-fold Stoma, and twenty-one stakes: that is as when one drives with side-horses.
१०
विश्वास-प्रस्तुतिः
(च्छि᳘) शि᳘रो वा᳘ ऽएत᳘द्यज्ञ᳘स्य य᳘देकविᳫँ᳭शः[[!!]]॥
(शो) यो वा᳘ ऽअश्वमेधे त्री᳘णि शीर्षा᳘णि व्वे᳘द शि᳘रो ह रा᳘ज्ञाम्भवत्येकवि᳘ᳫँ᳘शो ऽग्निर्भ्भ᳘वत्येकविᳫँ᳭श स्तो᳘म ऽए᳘कविᳫँ᳭शतिर्य्यू᳘पा ऽएता᳘नि वा᳘ ऽअश्वमेधे त्री᳘णि शीर्षा᳘णि ता᳘नि य᳘ ऽएवम्वे᳘द शि᳘रो ह रा᳘ज्ञाम्भवति यो वा᳘ ऽअश्वमेधे᳘ तिस्रः᳘ ककु᳘दो व्वे᳘द ककु᳘द्ध रा᳘ज्ञां भवत्येकवि᳘ᳫँ᳘शो ऽग्निर्भ्भ᳘वत्येकविᳫँ᳭श स्तो᳘म ऽए᳘कविᳫँ᳭शतिर्य्यू᳘पा ऽएता ऽअश्वमेधे᳘ तिस्रः᳘ ककु᳘दस्ता य᳘ ऽएवम्वे᳘द ककु᳘द्ध रा᳘ज्ञां भवति॥
मूलम् - श्रीधरादि
(च्छि᳘) शि᳘रो वा᳘ ऽएत᳘द्यज्ञ᳘स्य य᳘देकविᳫँ᳭शः[[!!]]॥
(शो) यो वा᳘ ऽअश्वमेधे त्री᳘णि शीर्षा᳘णि व्वे᳘द शि᳘रो ह रा᳘ज्ञाम्भवत्येकवि᳘ᳫँ᳘शो ऽग्निर्भ्भ᳘वत्येकविᳫँ᳭श स्तो᳘म ऽए᳘कविᳫँ᳭शतिर्य्यू᳘पा ऽएता᳘नि वा᳘ ऽअश्वमेधे त्री᳘णि शीर्षा᳘णि ता᳘नि य᳘ ऽएवम्वे᳘द शि᳘रो ह रा᳘ज्ञाम्भवति यो वा᳘ ऽअश्वमेधे᳘ तिस्रः᳘ ककु᳘दो व्वे᳘द ककु᳘द्ध रा᳘ज्ञां भवत्येकवि᳘ᳫँ᳘शो ऽग्निर्भ्भ᳘वत्येकविᳫँ᳭श स्तो᳘म ऽए᳘कविᳫँ᳭शतिर्य्यू᳘पा ऽएता ऽअश्वमेधे᳘ तिस्रः᳘ ककु᳘दस्ता य᳘ ऽएवम्वे᳘द ककु᳘द्ध रा᳘ज्ञां भवति॥
मूलम् - Weber
शि᳘रो वा᳘ एत᳘द्यज्ञ᳘स्य य᳘देकविंशः᳟॥
यो वा᳘ अश्वमेधे त्री᳘णि शीर्षा᳘णि वे᳘द शि᳘रो ह रा᳘ज्ञाम् भवत्येकविंॗशोऽग्निर्भ᳘वत्येकविंश स्तो᳘म ए᳘कविंशतिर्यू᳘पा एता᳘नि वा᳘ अश्वमेधे त्री᳘णि शीर्षा᳘णि ता᳘नि य᳘ एवं वे᳘द शि᳘रो ह रा᳘ज्ञाम् भवति यो वा᳘ अश्वमेधे᳘ तिस्रः᳘ ककु᳘दो वे᳘द ककु᳘द्ध रा᳘ज्ञाम् भवत्येकविंॗशोऽग्निर्भ᳘वत्येकविंश स्तो᳘म ए᳘कविंशतिर्यू᳘पा एता अश्वमेधे᳘ तिस्रः᳘ ककु᳘दस्ता य᳘ एवं वे᳘द ककु᳘द्ध रा᳘ज्ञाम् भवति॥
मूलम् - विस्वरम्
शिरो वा एतद्यज्ञस्य यदेकविंशः । यो वा अश्वमेधे त्रीणि शीर्षाणि वेद । शिरो ह राज्ञां भवति । एकविंशो ऽग्निर्भवति । एकविंशः स्तोमः । एकविंशतिर्यूपाः । एतानि वा अश्वमेधे त्रीणि शीर्षाणि । तानि य एवं वेद । शिरो ह राज्ञां भवति । यो वा अश्वमेधे तिस्रः ककुदो वेद । ककुद्ध राज्ञां भवति । एकविंशो ऽग्निर्भवति । एकविंशः स्तोमः । एकविंशतिर्यूपाः । एता वा अश्वमेधे तिस्रः ककुदः । ता य एवं वेद । ककुद्ध राज्ञां भवति ॥ १० ॥
हरिस्वामी
शिरो वा एतत् । एतेष्वेकविंशेषु शिरसां दर्शनं ककुदां दर्शनं चात्रोच्यते । शिर एकविंशो यज्ञस्य प्रकृतौ यज्ञायज्ञियम् । तेन त्रिवृदादीनां चतुर्णां मध्ये महत्त्वात् । एतानि वा अश्वमेधे त्रीणि शीर्षाणीति । एकविंशस्तोमतुल्यत्वात् । इतरे अपि शिरसी इत्यभिप्रायः । एता वा अश्वमेधे तिस्रः ककुद इति । उत्तुंगत्वात् मध्यमाहर्वर्तित्वाच्च । ककुद इव ककुदः ॥ १० ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे कांडे तृतीये ऽध्याये तृतीयं ब्राह्मणम् ॥ १३ । ३ । ३॥
Eggeling
- That twenty-one-fold one, indeed, is the head of the sacrifice; and, verily, he who knows three heads on the Aśvamedha, becomes the head of kings. There are the twenty-one-fold altar, the twenty-one-fold Stoma, and twenty-one stakes: these are the three heads on the Aśvamedha; and, verily, he who thus knows them becomes the head of kings. And, indeed, he who knows the three tops on the Aśvamedha, becomes the top of kings;–there are the twenty-one-fold altar, the twenty-one-fold Stoma, and twenty-one stakes: these, indeed, are the three tops on the Aśvamedha; and, verily, he who thus knows them becomes the top of kings.
-
332:3 That is, for the Bahishpavamāna-stotra of the Catushṭoma, see p. 329, note. ↩︎
-
333:1 That is, the hymn-tune of the second Pr̥shṭḥa-stotra chanted for the Maitrāvaruṇa (who responds thereto by the recitation of the second Nishkevalya-śastra): the Mahā-Vāmadevya on the text ‘kayā naś citra bhuvat’ (S. V. II, 32-34; figured for chanting in Bibl. Ind. ed. III, p. 89) is ordinarily used for this stotra both in the Agnishṭoma, and in the Ukthya, form of sacrifice. ↩︎
-
333:2 That is, the tune of the third, or Brāhmaṇāchaṁsin’s, Pr̥shṭḥastotra. For the sāmans commonly used for this stotra see part ii, p. 434, note 1. The Pārthuraśma-sāman may be chanted on either of the texts Sāmav. II, 352-4 (figured ed. Bibl. Ind. vol. V, p. 395) or II, 355-7 (figured vol. V, p. 483). It is the latter text which is to be used on the present occasion. On the legendary origin of this sāman (which is said to represent ‘strength,’ and therefore to be appropriate to a Rājanya) see Tāṇḍya-Br. XIII, 4, 17. ↩︎
-
333:3 Or, is fastened by means of a rope. ↩︎
-
333:4 The Saṁkr̥ti-sāman is used with the texts Sāmav. II, 663-4 (figured ed. Bibl. Ind. V, p. 407), II, 669-70 (ib. p. 482, wrongly called Saṁgati), and II, 679-82 (ib. p. 515). It is probably the second of these texts that is to be used here, as it is also used for the same stotra on the second day of the Garga-trirātra. ↩︎
-
334:1 Cp. the corresponding passage, Taitt. S. V, 4, 12, 3, ’that Aśvamedha, indeed, is a disused sacrifice, for, say they, who knows if the whole of it is performed or not?’ Perhaps, however, ‘utsanna-yajña’ rather means ‘a decayed sacrifice,’ i.e. one which has lost (or in the usual performance is apt to lose) some of its original elements; whence the ‘Saṁkr̥ti’ tune is to be used for the purpose of ‘making up’ the lost parts. Part of the commentary in this passage is not clear to me:–ukcaiḥkalāpagrāmādau siddhasthāne satrasthito granthatorthataś ca yat yajña utsannayajña esha yaḥ aśvamedhaḥ katham utsanna ity ata āha, kiṁ vā hīti, yasya dharmāḥ pūrvayonau (? pūrvayuge) prayujyante teshāṁ kimcit kalau kriyate kiṁcin na kriyate, tataś ca saṁkr̥tir achāvākasāma bhavati. ↩︎
-
नित्योदकं देवयजनं पुरस्तात् । का. श्रौ. सू. २० । ९५ । (तत्र देवयजने अग्निप्रमाणम् आह ।) आद्यो ऽग्निर्द्विगुणस्त्रिगुण एकविँशतिविधो वा । का. श्रौ. सू. २० । ९६ । (द्विगुणस्त्रिगुणो वेति विकल्पः शाखांतरादिति कर्कः ।) (द्विगुणत्रिगुणैकविंशतिविधानां कॢप्तिप्रकारः शुल्बे पंचम्यां कंडिकायां कात्यायनेनाभिहितः ।) ↩︎
-
334:2 That is, an altar measuring twenty-one man’s lengths on each of the four sides of its body. ↩︎
-
334:3 The commentary seems to take both ‘r̥shabha’ and ‘vr̥shan’ here in the sense of ‘bulls,’ but cp. Taitt. Br. III, 8, 22, 1, ‘yathā vā aśvā varshabhā vā vr̥shāṇaḥ śaṁ sphureraṇ’–’even as if male horses or bulls were to clash together.’ ↩︎
-
334:4 That is, not only the twenty-one-fold Stoma, but also the other two twenty-one-fold objects, looked upon as Stomas (lit. ‘means of praise’). ↩︎
-
335:1 Viz. the set of eleven (stakes), here represented as a cow; but in order to assimilate it to the Virāj, or metre consisting of ten syllables, the eleventh stake is made the teat or udder of the cow. ↩︎