०१
विश्वास-प्रस्तुतिः
परमे᳘ण वा᳘ ऽएष स्तो᳘मेन जित्वा᳘॥
चतुष्टोमे᳘न कृतेना᳘यानामु᳘त्तरे᳘ ऽहन्नेकविᳫँ᳭शे᳘ प्प्रतिष्ठा᳘याम्प्र᳘तितिष्ठत्येकविᳫँ᳭शा᳘त्प्रतिष्ठा᳘या ऽउ᳘त्तरम᳘हर्ऋतू᳘नन्वा᳘रोहत्यृत᳘वो वै᳘ पृष्ठा᳘न्यृत᳘वः सम्वत्सर᳘ ऽऋतु᳘ष्वेव᳘ सम्वत्सरे प्र᳘तितिष्ठति॥
मूलम् - श्रीधरादि
परमे᳘ण वा᳘ ऽएष स्तो᳘मेन जित्वा᳘॥
चतुष्टोमे᳘न कृतेना᳘यानामु᳘त्तरे᳘ ऽहन्नेकविᳫँ᳭शे᳘ प्प्रतिष्ठा᳘याम्प्र᳘तितिष्ठत्येकविᳫँ᳭शा᳘त्प्रतिष्ठा᳘या ऽउ᳘त्तरम᳘हर्ऋतू᳘नन्वा᳘रोहत्यृत᳘वो वै᳘ पृष्ठा᳘न्यृत᳘वः सम्वत्सर᳘ ऽऋतु᳘ष्वेव᳘ सम्वत्सरे प्र᳘तितिष्ठति॥
मूलम् - Weber
परमे᳘ण वा᳘ एष स्तो᳘मेन जित्वा᳟॥
चतुष्टोमे᳘न कृतेना᳘यानामु᳘त्तरे᳘ऽहन्नेकविंशे᳘ प्रतिष्ठा᳘याम् प्र᳘तितिष्ठत्येकविंशा᳘त्प्रतिष्ठा᳘या उ᳘त्तरम᳘हरृतू᳘नन्वा᳘रोहत्यृत᳘वो वै᳘ पृष्ठा᳘न्यृत᳘वः संवत्सर᳘ ऋतु᳘ष्वेव᳘ संवत्सरे प्र᳘तितिष्ठति॥
मूलम् - विस्वरम्
परमेण वा एष स्तोमेन जित्वा चतुष्टोमेन कृतेनायानाम् उत्तरे ऽहन्नेकविंशे प्रतिष्ठायां प्रतितिष्ठति । एकविंशात्प्रतिष्ठाया उत्तरमहर्ऋतूनन्वारोहति । ऋतवो वै पृष्ठानि । ऋतवः संवत्सरः । ऋतुष्वेव संवत्सरे प्रतितिष्ठति ॥ १ ॥
हरिस्वामी
परमेण वा इति । एष प्रकृतो यजमानः परमेण उत्कृष्टेन स्तोमेन एनं लोकं प्रथमे ऽहनि जित्वा, उत्तरे अहनि एकविंशे प्रतितिष्ठतीति संबंधः । कीदृशेन ? पुनः परमेण स्तोमेन इत्यत आह चतुष्टोमेन वक्ष्यमाणेन चतुरक्षराधिकेनेत्यर्थः । किंच-कृतेनायानाम् । अधर्मपादाः कलिद्वापरत्रेताकृताख्या द्यूतानुरूपेण जयाय पराजयाय द्यूतपरावर्ताय परिवस्थानं यंति य इति अयाः । तेषां मध्ये यश्चातुष्कात्मकः अयः । स चतुष्पादधर्मकस्य कृतयुगस्य प्रतिरूपमिति स चतुष्कसामान्यात् कृतमित्युच्यते लोके । अत्र चतुकसामान्यादेव चतुरुत्तरस्तोमः कृतमित्युक्तः । तेन कृतस्थानीयेन स्तोमेन जित्वा अधियज्ञमुत्तरे ऽहनि एकविंशे स्तोमको अधिदैवम्- “द्वादश मासाः पंचर्तवस्त्रयो लोका आदित्य एकविंशः”- (श. प. १३ । ५ । ४ । २६) इत्येतस्मिन्नेकविंशे सर्वभूतप्रतिष्ठात्मके प्रतितिष्ठति । एकविंशाद्वितीयायाः बहुप्रतिष्ठात्मकात् उत्तरं उत्तरतृतीयमहः उच्चरन् आरोहति । ऋत्वात्मके तृतीये अहन्यारोहति । कथं ? पुनस्तदृतव इत्यत आह- ‘ऋतवो वै पृष्ठानि’ पृष्ठसाधनानि रथंतरादीनि सामानि षट्सामान्यात् । ऋतवः किमित इत्यत आह- ऋतवः संवत्सरः ऋतुष्वेव संवत्सरे औद्गात्रेणानेन प्रतितिष्ठति ॥ १ ॥
Eggeling
- Now this (Sacrificer), having- conquered by means of the supreme Stoma–the Katushṭoma, the Kr̥ta among dice 1,–on the next day establishes
himself on the Ekaviṁśa 2, as a firm foundation: from the Ekaviṁśa, as a firm foundation, he subsequently ascends to the next day, the seasons; for the Pr̥shṭḥa (-stotras) are the seasons, and the seasons are the year: it is in the seasons, in the year, he establishes himself.
०२
विश्वास-प्रस्तुतिः
श᳘क्वर्य्यः पृष्ठ᳘म्भवन्ति॥
(न्त्य) अन्य᳘दन्यच्छ᳘न्दो᳘ ऽन्ये ऽन्ये वा ऽअ᳘त्र पश᳘व ऽआ᳘लभ्यन्त ऽउ᳘तेव ग्ग्राम्या᳘ ऽउ᳘तेवारण्या यच्छ᳘क्वर्य्यः पृष्ठम्भ᳘वन्त्य᳘श्वस्यैव᳘ सर्व्वत्वा᳘यान्ये᳘ पश᳘व ऽआ᳘लभ्यन्ते᳘ ऽन्ये ऽन्ये हि स्तो᳘माः क्रिय᳘न्ते॥
मूलम् - श्रीधरादि
श᳘क्वर्य्यः पृष्ठ᳘म्भवन्ति॥
(न्त्य) अन्य᳘दन्यच्छ᳘न्दो᳘ ऽन्ये ऽन्ये वा ऽअ᳘त्र पश᳘व ऽआ᳘लभ्यन्त ऽउ᳘तेव ग्ग्राम्या᳘ ऽउ᳘तेवारण्या यच्छ᳘क्वर्य्यः पृष्ठम्भ᳘वन्त्य᳘श्वस्यैव᳘ सर्व्वत्वा᳘यान्ये᳘ पश᳘व ऽआ᳘लभ्यन्ते᳘ ऽन्ये ऽन्ये हि स्तो᳘माः क्रिय᳘न्ते॥
मूलम् - Weber
श᳘क्वर्यः पृष्ठ᳘म् भवन्ति॥
अन्य᳘दन्यच्छ᳘न्दोॗऽन्येऽन्ये वा अ᳘त्र पश᳘व आ᳘लभ्यन्त उॗतेव ग्राम्या᳘ उॗतेवारण्या यछ᳘क्वर्यः पृष्ठम् भ᳘वन्त्य᳘श्वस्यैव᳘ सर्वत्वा᳘यान्ये᳘ पश᳘व आ᳘लभ्यन्तेॗऽन्येऽन्ये हि स्तो᳘माः क्रिय᳘न्ते॥
मूलम् - विस्वरम्
शक्वर्यः पृष्ठं भवन्ति । अन्यदन्यच्छन्दः । अन्ये ऽन्ये वा अत्र पशव आलभ्यन्ते । उतेव ग्राम्याः । उतेवारण्याः । यच्छक्वर्यः पृष्ठं भवन्ति । अश्वस्यैव सर्वत्वायान्ये पशव आलभ्यन्ते । अन्ये ऽन्ये हि स्तोमाः क्रियन्ते ॥ २ ॥
हरिस्वामी
शक्वय इति । शक्वर्यः, पृथक्काया महानाम्न्यः सीमा इत्येवमाख्याः “विदामघवन्"- इत्यादयः । ताभिः अत्र तत्स्थं शाक्वरं नाम साम लक्ष्यते । शक्वर्यः स्वसामप्रतीताः । पृष्ठं भवन्ति । शाक्वरं साम स्वासु ऋक्षु गीतं पृष्ठसाधनं भवतीत्यर्थः । अन्यदन्यच्छन्दः शक्वरीषु । अन्ये अन्ये वा अत्र मध्यमे अहनि पशव आलभ्यंते उत ग्राम्या उतारण्याः । तत्र यत् शक्वर्यः पृष्ठं भवंति । तत् अश्वस्य सर्वत्वाय शक्तयो हि शक्वर्यः । तासु क्रियमाणासु शक्तिमान् सकलो अश्वो भवतीत्यभिप्रायः । अन्ये पशव आलभ्यंते । कस्मादिति शेषः । अन्ये अन्ये हि स्तोमाः अश्वमेधे क्रियन्ते चतुष्टोमाः एकविंशत्रिवृदादयः । ततश्चाध्वर्यवे ऽपि पशुभिरन्यैर्भाव्यमित्यभिप्रायः ॥ २ ॥
Eggeling
- The Śakvarī 3 (verses) are the Pr̥shṭḥa (-stotra of the second day): there is a different metre for each (verse), for different kinds of animals, both domestic and wild ones, are immolated here on each (day). As to the Śakvarī (verses) being the Pr̥shṭḥa, it is for the completeness of the horse (sacrifice) 4; and different kinds of animals are immolated on different (days), because different stomas are performed on the different (days of the Aśvamedha).
०३
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
(र्नै) नैते स᳘र्व्वे पश᳘वो य᳘दजाव᳘यश्चारण्या᳘श्चैते वै स᳘र्व्वे पश᳘वो य᳘द्गव्या ऽइ᳘ति गव्या᳘नुत्तमे᳘ ऽहन्ना᳘लभत ऽएते वै स᳘र्व्वे पश᳘वो य᳘द्गव्याः स᳘र्व्वानेव᳘ पशूना᳘लभते व्वैश्वदेवा᳘ भवन्ति व्वैश्वदेवो वा ऽअश्वो᳘ ऽश्वस्यैव᳘ सर्व्वत्वा᳘य बहुरूपा᳘ भवन्ति त᳘स्माद्बहुरूपाः᳘ पश᳘वो ना᳘नारूपा भवन्ति त᳘स्मान्ना᳘नारूपाः पश᳘वः॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
(र्नै) नैते स᳘र्व्वे पश᳘वो य᳘दजाव᳘यश्चारण्या᳘श्चैते वै स᳘र्व्वे पश᳘वो य᳘द्गव्या ऽइ᳘ति गव्या᳘नुत्तमे᳘ ऽहन्ना᳘लभत ऽएते वै स᳘र्व्वे पश᳘वो य᳘द्गव्याः स᳘र्व्वानेव᳘ पशूना᳘लभते व्वैश्वदेवा᳘ भवन्ति व्वैश्वदेवो वा ऽअश्वो᳘ ऽश्वस्यैव᳘ सर्व्वत्वा᳘य बहुरूपा᳘ भवन्ति त᳘स्माद्बहुरूपाः᳘ पश᳘वो ना᳘नारूपा भवन्ति त᳘स्मान्ना᳘नारूपाः पश᳘वः॥
मूलम् - Weber
त᳘दाहुः॥
नैते स᳘र्वे पश᳘वो य᳘दजाव᳘यश्चारण्या᳘श्चैते वै स᳘र्वे पश᳘वो य᳘द्गव्या इ᳘ति गव्या᳘ उत्तमे᳘ऽहन्ना᳘लभत एते वै स᳘र्वे पश᳘वो य᳘द्गव्याः स᳘र्वानेव᳘ पशूना᳘लभते वैश्वदेवा᳘ भवन्ति वैश्वदेवो वा अश्वो᳘ऽश्वस्यैव᳘ सर्वत्वा᳘य बहुरूपा᳘ भवन्ति त᳘स्माद्बहुरूपाः᳘ पश᳘वो ना᳘नारूपा भवन्ति त᳘स्मान्ना᳘नारूपाः पश᳘वः॥
मूलम् - विस्वरम्
तदाहुः- नैते सर्वे पशवः । यदजा ऽवयश्च आरण्याश्च । एते वै सर्वे । पशवः । यद्गव्या इति । गव्यानुत्तमे ऽहन्नालभते । एते वै सर्वे पशवः । यद्गव्याः । सर्वानेव पशूनालभते । वैश्वदेवा भवन्ति । वैश्वदेवो वा अश्वः । अश्वस्यैव सर्वत्वाय । बहुरूपा भवन्ति । तस्माद्बहुरूपाः पशवः । नानारूपा भवन्ति । तस्मान्नानारूपाः पशवः ॥ ३ ॥
हरिस्वामी
ये पूर्वयोरह्नोरालभ्यंते अजावयः । ते न सर्वे पशवः । एते त्रयः प्रतितिष्ठाः सर्वे पशवो वै गव्याः । गाव इति प्राप्ते स्वार्थिकस्तद्धितः क्रियते । पुनस्तानालभत इति वक्ष्यति । “चतुर्विंशतिं त्वेवैतान् गव्यानालभेत द्वादशभ्यो देवताभ्यः”- (श. प. १३ । ५ । ३ । ११) इति । एकादशिन्यौ द्वे द्वौ च प्राजापत्यौ गावौ चेत्यभिप्रायः । वैश्वदेवाः ते गव्याः भवन्ति । ता एव द्वादश देवताः वैश्वदेवा इत्यनुवाद एव । वैश्वदेवो वै अश्वः । (सादोदयः । तस्मिन् या देवता नंता भक्ता इत्यभिप्रायः । ?) बहुरूपाः । यः एकैकः पशुर्बहुरूपः । नैकवर्ण इत्यर्थः । नानारूपाः यादृश एको न तादृशः अन्य इत्यर्थः ॥ ३ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे काण्डे तृतीये ऽध्याये द्वितीयं ब्राह्मणम् ॥ १३ । ३ । २ ॥
Eggeling
- As to this they say, ‘These–to wit, goats and sheep and the wild (beasts)–are not all animals 5; but those–to wit, the bovine (victims)–are indeed all animals.’ On the last day he immolates bovine (victims), for they–to wit, bovine (victims)–are all animals: he thus immolates all animals. They are sacred to the All-gods 6, for the completeness of the horse, for the horse is sacred to the All-gods. They are many-formed (or, many-coloured), whence animals are many-formed; and they are of distinct forms (or colours), whence animals are of distinct forms.
-
330:3 For this and the other names of the dice, see part iii, p. 106, note 1. ↩︎
-
331:1 Though applying in the first place to the second day of the Aśvamedha, as an Ukthya sacrifice which is at the same time an Ekaviṁśa day, i.e. one the stotras of which are all chanted in the twenty-one-versed hymn-form, Ekaviṁśa, the twenty-first or twenty-one-fold, as is clear from XIII, 3, 3, 3, here also refers to the sun, of which it is a common epithet (cf. part iii, p. 265, note 2, also XIII, 4, 4, 11). This solar name seems to be derived from the fact that the sun is also identified with the central day of the year, the Vishuvant day, which is considered the central day of a twenty-one days’ sacrificial performance–having one pr̥shṭḥya-shaḍaha, an Abhijit (or Viśvajit day resp.) and three svarasāman days before and after it;–see p. 139, note 1; and A. Hillebrandt, Die Sonnwendfeste in Alt-Indien, p. 6 seqq. ↩︎
-
331:2 That is to say, the so-called Mahānāmnī verses (Sām. V. ed. Bibl. Ind. II, p. 371), chanted on the śākvara-sāman (see part iii, of this transl., introd. p. xx, note 2), are to be used for the Hotr̥’s Pr̥shṭḥa-stotra. For this purpose the Rathantara-sāman is ordinarily used in the Agnishṭoma, and the Br̥hat-sāman in the Ukthya, form of sacrifice. ↩︎
-
331:3 The commentator takes this as an allusion to the ‘potent’ (śakvara = śakta) nature of the verses. ↩︎
-
332:1 That is to say, they do not fitly represent all kinds of animals, as the highest kind of animals, the bovine cattle, may be said to do. The argument as to the ‘sarve paśavaḥ’ is, of course, suggested by the ‘aśvasya sarvatvāya’ of the preceding paragraph; and to bring out the parallelism, one might translate,–these . . . . are not complete animals. ↩︎
-
332:2 See XIII, 5, 3, 11. ↩︎