०१

विश्वास-प्रस्तुतिः

प्प्रजा᳘पतेर᳘क्ष्यश्वयत्॥
(त्त) तत्प᳘रापतत्ततो᳘ ऽश्वः स᳘मभवद्यद᳘श्वयत्तद᳘श्वस्याश्वत्वन्त᳘द्देवा᳘ ऽअश्वमेधे᳘नैव प्प्र᳘त्यदधुरेष᳘ ह वै᳘ प्प्रजा᳘पतिᳫँ᳭ स᳘र्व्वङ्करोति᳘ यो ऽश्वमेधे᳘न य᳘जते स᳘र्व्व ऽएव᳘ भवति स᳘र्व्वस्य वा᳘ ऽएषा प्प्रा᳘यश्चित्तिः स᳘र्व्वस्य भेषजᳫँ᳭ स᳘र्व्वम्वा᳘ ऽएते᳘न पाप्मा᳘नन्देवा᳘ ऽअतरन्न᳘पि वा᳘ ऽएते᳘न ब्रह्महत्या᳘मतरंस्त᳘रति स᳘र्व्वम्पाप्मा᳘नन्त᳘रति ब्रह्महत्यां᳘ यो ऽश्वमेधे᳘न य᳘जते॥

मूलम् - श्रीधरादि

प्प्रजा᳘पतेर᳘क्ष्यश्वयत्॥
(त्त) तत्प᳘रापतत्ततो᳘ ऽश्वः स᳘मभवद्यद᳘श्वयत्तद᳘श्वस्याश्वत्वन्त᳘द्देवा᳘ ऽअश्वमेधे᳘नैव प्प्र᳘त्यदधुरेष᳘ ह वै᳘ प्प्रजा᳘पतिᳫँ᳭ स᳘र्व्वङ्करोति᳘ यो ऽश्वमेधे᳘न य᳘जते स᳘र्व्व ऽएव᳘ भवति स᳘र्व्वस्य वा᳘ ऽएषा प्प्रा᳘यश्चित्तिः स᳘र्व्वस्य भेषजᳫँ᳭ स᳘र्व्वम्वा᳘ ऽएते᳘न पाप्मा᳘नन्देवा᳘ ऽअतरन्न᳘पि वा᳘ ऽएते᳘न ब्रह्महत्या᳘मतरंस्त᳘रति स᳘र्व्वम्पाप्मा᳘नन्त᳘रति ब्रह्महत्यां᳘ यो ऽश्वमेधे᳘न य᳘जते॥

मूलम् - Weber

प्रजा᳘पतेर᳘क्ष्यश्वयत्॥
तत्प᳘रापतत्ततो᳘ऽश्वः स᳘मभवद्यद᳘श्वयत्तद᳘श्वस्याश्वत्वं त᳘द्देवा᳘ अश्वमेधे᳘नैव प्र᳘त्यदधुरेष᳘ ह वै᳘ प्रजा᳘पतिᳫं स᳘र्वं करोतिॗ योऽश्वमेधे᳘न य᳘जते स᳘र्व एव᳘ भवति स᳘र्वस्य वा᳘ एषा प्रा᳘यश्चित्तिः स᳘र्वस्य भेषजᳫं स᳘र्वं वा᳘ एते᳘न पाप्मा᳘नं देवा᳘ अतरन्न᳘पि वा᳘ एते᳘न ब्रह्महत्या᳘मतरंस्त᳘रति स᳘र्वम् पाप्मा᳘नं त᳘रति ब्रह्महत्यांॗ योऽश्वमेधे᳘न य᳘जते॥

मूलम् - विस्वरम्

अथाश्वस्य प्राजापत्याक्षिप्रभवत्वं, ब्रह्महत्याप्रायश्चित्तिश्च ।

प्रजापतेरक्ष्यश्वयत् । तत्परापतत् । ततो ऽश्वः समभवत् । यदश्वयत् । तदश्वस्याश्वत्वम् । तद्देवा अश्वमेधेनैव प्रत्यदधुः । एष ह वै प्रजापतिं सर्वं करोति । यो ऽश्वमेधेन यजते । सर्व एव भवति । सर्वस्य वा एषा प्रायश्चित्तिः । सर्वस्य भेषजम् । सर्वं वा एतेन पाप्मानं देवा अतरन् । अपि वा एतेन ब्रह्महत्यामतरन् । तरति सर्वं पाप्मानम् । तरति ब्रह्महत्याम् । यो ऽश्वमेधेन यजते ॥ १ ॥

हरिस्वामी

प्रजापतेरक्षीति । “सो ऽकामयत मेध्यं म इदं स्यादात्मन्व्यनेन स्यामिति ततो ऽश्वः समभवत्” (श. प. १० । ६ । ५ । ७ ।) इति सकलप्राजापत्यकायात्मता अश्वस्य दर्शिता । “उषा वा अश्वस्य मेध्यस्य शिरः” (श. प. १० । ६ । ४ । १) इति तस्यैवावयवा दर्शिताः । तस्यैव सर्वप्राप्तिफलं वक्ष्यते । इह तु प्राजापत्याक्षिप्रभवत्वं ब्रह्महत्याप्रायश्चित्तं चोच्यते । कथं नाम ? अनेनैव दर्शनेन प्रायश्चित्तिं प्रयुञ्जीत । अश्वयत् । स्वतंत्रतया बहिः पतितं गतम् । ततः अक्ष्णः देवतामहाभाग्यात् अश्वः संबभूव । यत् अश्वशब्दनिर्वचनम् । दर्शनार्थं तत् । तत् अक्षि देवा अश्वमेधेन क्रतुना तस्मिन्प्रजापतौ प्रतीपं स्थापितवन्तः । एष एव प्रजापतिं सर्वमविकलं अधियज्ञं करोति । यो ऽश्वमेधेन क्रतुना यजते । स च तदनुकारेणाविकल एव भवति । सर्वस्य च सर्वप्रकारस्य पातकोपपातकादेः पापस्य एषा अश्वमेधात्मिका प्रायश्चित्तिः । सर्वस्य भेषजम् । सर्वस्य जन्मान्तरेकृतपापप्रभवव्याधेः एषः अश्वमेधः भेषजम् । “तरति 1 ब्रह्महत्याम्” इति प्रायश्चित्तान्तरैः सह विकल्पसिद्ध्यर्थः । इतरत् सर्वं पाप्मानमित्येव तरति ॥ १ ॥

Eggeling
  1. Prajāpati’s eye swelled; it fell out: thence the horse was produced; and inasmuch as it swelled (aśvayat), that is the origin and nature of the horse (aśva). By means of the Aśvamedha the gods restored it to its place; and verily he who performs the Aśvamedha makes Prajāpati complete, and he (himself) becomes complete; and this, indeed, is the atonement for everything, the remedy for everything. Thereby the gods redeem all sin, yea, even the slaying of a Brahman 2 they thereby redeem; and he who performs the Aśvamedha redeems all sin, he redeems the slaying of a Brahman.

०२

विश्वास-प्रस्तुतिः

(त ऽउ᳘) उ᳘त्तरम्वै त᳘त्प्रजा᳘पतेर᳘क्ष्यश्वयत्॥
(त्त᳘) त᳘स्मादुत्तरतो᳘ ऽश्वस्यावद्य᳘न्ति दक्षिण᳘तो ऽन्ये᳘षाम्पशूना᳘म्॥

मूलम् - श्रीधरादि

(त ऽउ᳘) उ᳘त्तरम्वै त᳘त्प्रजा᳘पतेर᳘क्ष्यश्वयत्॥
(त्त᳘) त᳘स्मादुत्तरतो᳘ ऽश्वस्यावद्य᳘न्ति दक्षिण᳘तो ऽन्ये᳘षाम्पशूना᳘म्॥

मूलम् - Weber

उ᳘त्तरं वै त᳘त्प्रजा᳘पतेर᳘क्ष्यश्वयत्॥
त᳘स्मादुत्तरतो᳘ऽश्वस्यावद्य᳘न्ति दक्षिणॗतोऽन्ये᳘षाम् पशूना᳘म्॥

मूलम् - विस्वरम्

उत्तरं वै तत्प्रजापतेरक्ष्यश्वयत् । तस्मादुत्तरतो ऽश्वस्यावद्यन्ति । दक्षिणतो ऽन्येषां पशूनाम् ॥ २ ॥

हरिस्वामी

उत्तरं वै । “तस्मादुत्तरतो ऽश्वस्यावद्यन्ति” इति पुनर्वचनं दर्शनसंबंधार्थम् ॥ २ ॥

Eggeling
  1. It was the left eye of Prajāpati that swelled: hence they cut off the (meat) portions from the left.

side of the horse, and from the right side of other victims.

०३

विश्वास-प्रस्तुतिः

(म्वै) व्वैतसः क᳘टो भवति॥
(त्य) अप्सु᳘योनिर्व्वा ऽअ᳘श्वो ऽप्सुजा᳘ व्वेतसः स्व᳘यै᳘वैनं यो᳘न्या स᳘मर्द्धयति॥

मूलम् - श्रीधरादि

(म्वै) व्वैतसः क᳘टो भवति॥
(त्य) अप्सु᳘योनिर्व्वा ऽअ᳘श्वो ऽप्सुजा᳘ व्वेतसः स्व᳘यै᳘वैनं यो᳘न्या स᳘मर्द्धयति॥

मूलम् - Weber

वैतसः क᳘टो भवति॥
अप्सु᳘योनिर्वा अ᳘श्वोऽप्सुजा᳘ वेतसः स्व᳘यैॗवैनं यो᳘न्या स᳘मर्धयति॥

मूलम् - विस्वरम्

वैतसः कटो भवति । अप्सुयोनिर्वा अश्वः । अप्सुजा वेतसः । स्वयैवैनं योन्या समर्द्धयति ॥ ३ ॥

हरिस्वामी

वैतसः 3 कटो भवति । अश्ववैतसावप्सुयोनी इति यत्र वदंतीत्यपि दर्शनसम्बंधार्थमेव पुनर्वचनम् ॥ ३ ॥

Eggeling
  1. There is a rattan mat, for the horse was produced from the womb of the waters, and the rattan springs from the water: he thus brings it in connection with its own (maternal) womb.

०४

विश्वास-प्रस्तुतिः

चतुष्टोम स्तो᳘मो भवति॥
सरड्वा ऽअ᳘श्वस्य सक्थ्या᳘बृहत्त᳘द्देवा᳘श्चतुष्टोमे᳘नैव स्तो᳘मेन प्प्र᳘त्यदधुर्य्य᳘च्चतुष्टोम स्तो᳘मो भ᳘वत्य᳘श्वस्यैव᳘ सर्व्वत्वा᳘य स᳘र्व्वस्तोमो ऽतिरात्र᳘ ऽउत्तमम᳘हर्भवति स᳘र्व्वम्वै स᳘र्व्वस्तोमो ऽतिरात्रः स᳘र्व्वमश्वमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै॥

मूलम् - श्रीधरादि

चतुष्टोम स्तो᳘मो भवति॥
सरड्वा ऽअ᳘श्वस्य सक्थ्या᳘बृहत्त᳘द्देवा᳘श्चतुष्टोमे᳘नैव स्तो᳘मेन प्प्र᳘त्यदधुर्य्य᳘च्चतुष्टोम स्तो᳘मो भ᳘वत्य᳘श्वस्यैव᳘ सर्व्वत्वा᳘य स᳘र्व्वस्तोमो ऽतिरात्र᳘ ऽउत्तमम᳘हर्भवति स᳘र्व्वम्वै स᳘र्व्वस्तोमो ऽतिरात्रः स᳘र्व्वमश्वमेधः स᳘र्व्वस्या᳘प्त्यै स᳘र्व्वस्या᳘वरुद्ध्यै॥

मूलम् - Weber

चतुष्टोम स्तो᳘मो भवति॥
सरड्वा अ᳘श्वस्य सक्थ्या᳘बृहत्त᳘द्देवा᳘श्चतुष्टोमे᳘नैव 4 स्तो᳘मेन प्र᳘त्यदधु᳘र्यच्चतुष्टोम स्तो᳘मो भ᳘वत्य᳘श्वस्यैव᳘ सर्वत्वा᳘य स᳘र्वस्तोमोऽतिरात्र᳘ उत्तमम᳘हर्भवति स᳘र्वं वै स᳘र्वस्तोमोऽतिरात्रः स᳘र्वमश्वमेधः स᳘र्वस्या᳘प्त्यै स᳘र्वस्या᳘वरुद्ध्यै॥

मूलम् - विस्वरम्

चतुष्टोमः स्तोमो भवति । सरड्वा अश्वस्य सक्थ्यावृहत् । तद्देवाश्चतुष्टोमेनैव स्तोमेन प्रत्यदधुः । यच्चतुष्टोमः स्तोमो भवति । अश्वस्यैव सर्वत्वाय सर्वस्तोमो ऽतिरात्र उत्तममहर्भवति । सर्वं वै सर्वस्तोमो ऽतिरात्रः । सर्वमश्वमेधः सर्वस्याप्त्यै । सर्वस्यावरुद्ध्यै ॥ ४ ॥

हरिस्वामी

चतुष्टोमः । “चतुरुत्तर स्तोमोः भवति तस्य चतसृषु बहिःपवमानमष्टास्वष्टास्वाज्यानि”- (श प. १३ । ५ । १ । १) इत्यादिश्चतुष्टोमः । उत्तरपदलोपात् । स चतुरुत्तरः स्तोमः । अश्वमेधस्य प्रथमे ऽहनि भवति । कुतः ? “एकविंशं मध्यममहः”- (श. प. १३ । ३ । ३ । ३) “सर्वस्तोमो ऽतिरात्र उत्तममहः" - (श. प. १३ । ३ । ३ । ६ ।) इत्युत्तरयोरह्नोः स्तोमांतरवचनात् । “अथ प्रातर्गोतमस्य चतुरुत्तरस्तोमो भवति”- (श. प. १३ । ५ । १ । १) इति सरट् कृकलासः । अश्वस्य सक्थि आवृहत् आवृढवान् अर्च्चनात् । सर्वं वै सर्वस्तोमो ऽतिरात्रः । स्तोमात्मनैव सर्वम् । सर्वमश्वमेधः सर्वाप्तिकारणत्वात् ॥ ४ ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे काण्डे तृतीये ऽध्याये प्रथमं ब्राह्मणम् ॥ १३ । ३ । १॥

Eggeling
  1. The Catushṭoma 5 is the form of chanting (on

the first day); for a bee tore out 6 (a piece of) the horse’s thigh, and by means of the Katushṭoma form of chanting the gods restored it: thus when there is the Katushṭoma mode of chanting, it is for the completeness of the horse. The last day is an Atirātra with all the Stomas 7–with a view to his obtaining and securing everything, for an Atirātra with all the Stomas is everything, and the Aśvamedha is everything.


  1. उत्क्रांते यजमाने पापकृतो ऽभ्यवयंत्यचरित्वा व्रतानि । अश्वमेधपूताख्यास्ते । का. श्रौ. सू. २० । २०४ । २०५ ॥ ↩︎

  2. 328:1 See XIII, 3, 5, 3 seq. ↩︎

  3. वेतसशाखासु प्राजापत्यानाम् । अश्वस्य वा । का. श्रौ. सू. २० । १८९ । १९० ॥ (वा ऽवधारणे, अश्वस्यैवावद्यतीत्यर्थः । न प्राजापत्यानामिति सूत्रार्थः ।) ↩︎

  4. सक्थ्नि Harisvâmin. ↩︎

  5. 329:1 The term Katushṭoma originally apparently means a sacrificial performance, or succession of chants, in which four different Stomas, or hymn-forms, are used. Hence, in Tāṇḍya-Br. VI, 3, 16, the name is applied to the ordinary Agnishṭoma, for its twelve Stotras, or chants, require the first four normal Stomas (Trivr̥t, Pañcadaśa, Saptadaśa, Ekaviṁśa). The term has, however, assumed the special meaning of a hymnic performance, the different Stomas of which (begin with the four-versed one, and) successively increase by four verses (cf. XIII, 5, 1, 1). In this sense, two different forms of Catushṭoma are in use, one being applicable to an Agnishṭoma, the other to a Shoḍaśin, sacrifice. Whilst this latter form requires only four different Stomas (of 4, 8, 12, 16 verses resp.) and thus combines the original meaning of ‘catushṭoma’ with its special meaning, the Agnishṭoma form, used on the first of the three days of the Aśvamedha, requires six Stomas, ascending from the four-versed up to the twenty-four-versed one. In regard to this latter occasion, Sāyaṇa on Tāṇḍya-Br. XXI, 4, 1, curiously enough, seems to take ‘katushṭoma’ in its original senses, since he speaks of this first day of the Aśvamedha as an Agnishṭoma with four Stomas, beginning with Trivr̥t; whilst on ib. XIX, 5, 1 seq. he gives the correct explanation. As to the distribution of the six Stomas over the chants of the first day, see XIII, 5, 1, 1. The catushṭoma has, however, another peculiarity, which, in Lāṭy. S. VI, 8, 1 (or at least by the commentator Agnisvāmin thereon), is taken as that which has given its name to this form of chanting, viz. that each stotra performed in it is chanted in four, instead of the ordinary three, paryāyas or turns of verses (see part ii, p. 350 note). The Bahishpavamāna-stotra is to be performed on three anushṭubh verses (consisting each of four octosyllabic pādas) which, however, by taking each time three pādas to make up a verse, are transformed into four verses, constituting at the same time the four paryāyas of the Stotra. As regards the exact text to be used there seems to be some doubt, Sāmav. S. II, 366-8 (pavasva vājasātaye) being mentioned by Sāyaṇa on Tāṇḍya-Br. XXI, 4, 5; whilst on XIX, 5, 2 he gives S. V. II, 168-70 (ayam pūshā rayir bhagaḥ) as the text to be used–but apparently only when the performance is that of an ekāha (one day’s sacrifice) proper, instead of one of the days of an āhīna sacrifice, as is the case in the three days’ Aśvamedha. As regards the Ājya-stotras to be chanted on the eight-versed Stoma, the text of each of them consists of three gāyatrī-verses: these are to be chanted in four turns (paryāya) of two verses each, viz. either 1 and 2, 2 and 3, 1 and 2, 2 and 3;–or 1 and 1, 1 and 2, 2 and 2, 3 and 3;–(or 1 and 1, 1 and 1, 2 and 2, 3 and 3;–or 1 and 1, 2 and 2, 2 and 2, 3 and 3). By similar manipulations the subsequent Stomas are formed. ↩︎

  6. 330:1 Or, wounded, as Sāyaṇa takes ‘ā br̥hat,’ on Tāṇḍya-Br. XXI, 4, 4 (vraṇaṁ cakāra). ↩︎

  7. 330:2 The Atirātra sarvastoma is arranged in such a way that the six principal Stomas are used successively first in the ascending, and then again in the descending, or reversed, order as is explained in XIII, 5, 3, 10. ↩︎