०१

विश्वास-प्रस्तुतिः

अ᳘प वा᳘ ऽएत᳘स्मात्॥
(च्छ्री᳘) श्री राष्ट्र᳘ङ्क्रामति᳘ यो ऽश्वमेधे᳘न य᳘जते॥

मूलम् - श्रीधरादि

अ᳘प वा᳘ ऽएत᳘स्मात्॥
(च्छ्री᳘) श्री राष्ट्र᳘ङ्क्रामति᳘ यो ऽश्वमेधे᳘न य᳘जते॥

मूलम् - Weber

अ᳘प वा᳘ एत᳘स्मात्॥
श्री राष्ट्रं᳘ क्रामतिॗ योऽश्वमेधे᳘न य᳘जते॥

मूलम् - विस्वरम्

अप वा एतस्माच्छ्री राष्ट्रं क्रामति । यो ऽश्वमेधेन यजते ॥ १ ॥

हरिस्वामी

अप वा एतस्मात् । “तयोः शयानयोरश्वं यजमानो ऽभिमेथत्युत्सक्थ्या अवगुदं धेहीति” (श. प. १३ । ५ । २ । ३ ।) “अथाध्वर्युः कुमारीमभिमेथति” (श. प. १३ । ५ । २ । ४) इत्यादि वक्ष्यते । तत्र यासु अभिमेथिकासु किंचिद्दर्शनं गूढमस्ति । तासु तदत्र ब्राह्मणमुच्यते । अपक्रामति वै एतस्मात् श्रीः राष्ट्रात्मिका ऋत्विग्भ्यो दीयमाना । यः अश्वमेधेन यजते । तत्प्रतिसमाधौ भार्या अनमेथिका कर्त्तव्या । तासु एतानि वचनानि संति ॥ १ ॥

Eggeling
  1. But, indeed, that glory, royal power, passes away from him who performs the Aśvamedha.

०२

विश्वास-प्रस्तुतिः

(त ऽऊ) ऊर्ध्वा᳘मेनामु᳘च्छ्रापये᳘ति॥
श्रीर्व्वै᳘ राष्ट्र᳘मश्वमेधः श्रि᳘यमे᳘वास्मै राष्ट्र᳘मूर्ध्वमु᳘च्छ्रयति॥

मूलम् - श्रीधरादि

(त ऽऊ) ऊर्ध्वा᳘मेनामु᳘च्छ्रापये᳘ति॥
श्रीर्व्वै᳘ राष्ट्र᳘मश्वमेधः श्रि᳘यमे᳘वास्मै राष्ट्र᳘मूर्ध्वमु᳘च्छ्रयति॥

मूलम् - Weber

ऊर्ध्वा᳘मेनामु᳘छ्रापये᳘ति॥
श्रीर्वै᳘ राष्ट्र᳘मश्वमेधः श्रि᳘यमेॗवास्मै राष्ट्र᳘मूर्ध्वमु᳘छ्रयति॥

मूलम् - विस्वरम्

“ऊर्ध्वामेनामुच्छ्रापय”- इति । श्रीर्वै राष्ट्रमश्वमेधः । श्रियमेवास्मै राष्ट्रमूर्ध्वमुच्छ्रयति ॥ २ ॥

हरिस्वामी

ऊर्ध्वामेनामुच्छ्रापयेत्यादि । तैश्चलं श्रियो ऽपक्रमणं चेति प्रतिसमाधीयते इति ब्राह्मणस्य समस्तस्यार्थः ऊर्ध्वामेनां योनिकां शाटिकां वा । उच्छ्रापयेति बाह्यः प्रसिद्ध एव अभिमेथिकार्थः । आंतरस्तु श्रीर्वै राष्ट्रं अश्वमेधश्रियः कारणमित्यर्थः । ततश्च श्रियमेव राष्ट्रमस्मै यजमानाय दूहता ऊर्ध्वमुच्छ्रयतो ऽवक्रवत ॥ २ ॥

Eggeling
  1. [The Udgātr̥ 1 says concerning the king’s favourite wife, Vāj. S. XXIII, 26,] ‘Raise her upwards 2,’–the Aśvamedha, doubtless, is that glory, royal power: that glory, royal power, he thus raises for him (the Sacrificer) upward.

०३

विश्वास-प्रस्तुतिः

गिरौ᳘ भारᳫँ᳭ ह᳘रन्निवे᳘ति॥
श्रीर्व्वै᳘ राष्ट्र᳘स्य भारः श्रि᳘यमे᳘वास्मै राष्ट्रᳫँ᳭ स᳘न्नह्यत्य᳘थो श्रि᳘यमे᳘वास्मिन्राष्ट्र᳘मधि नि᳘दधाति॥

मूलम् - श्रीधरादि

गिरौ᳘ भारᳫँ᳭ ह᳘रन्निवे᳘ति॥
श्रीर्व्वै᳘ राष्ट्र᳘स्य भारः श्रि᳘यमे᳘वास्मै राष्ट्रᳫँ᳭ स᳘न्नह्यत्य᳘थो श्रि᳘यमे᳘वास्मिन्राष्ट्र᳘मधि नि᳘दधाति॥

मूलम् - Weber

गिरौ᳘ भारᳫं ह᳘रन्निवे᳘ति॥
श्रीर्वै᳘ राष्ट्र᳘स्य भारः श्रि᳘यमेॗवास्मै राष्ट्रᳫं सं᳘नह्यत्य᳘थो श्रि᳘यमेॗवास्मिन्राष्ट्र᳘मधिनि᳘दधाति॥

मूलम् - विस्वरम्

“गिरौ भारं हरन्निव"- इति । श्रीर्वै राष्ट्रस्य भारः । श्रियमेवास्मै राष्ट्रं सन्नह्यति । अथो श्रियमेवास्मिन् राष्ट्रमधि निदधाति ॥ ३ ॥

हरिस्वामी

एवं गिरौ भारं हरन्निवेत्यादिष्वपि आंतरार्थं ब्राह्मणं व्याख्येयम् ॥ ३-९ ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे कांडे द्वितीये ऽध्याये नवमं ब्राह्मणम् ॥ १३ । २ । ९ ॥

Eggeling
  1. ‘Even as one taking a burden up a mountain,’–glory (pomp), doubtless, is the burden of royal power: that glory, royal power, he thus fastens on him (as a burden); but he also endows him with that glory, royal power.

०४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थास्यै म᳘ध्यमेधतामि᳘ति॥
श्रीर्व्वै᳘ राष्ट्र᳘स्य म᳘ध्यᳫँ᳭ श्रि᳘यमेव᳘ राष्ट्रे᳘ मध्य᳘तो ऽन्ना᳘द्यन्दधाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थास्यै म᳘ध्यमेधतामि᳘ति॥
श्रीर्व्वै᳘ राष्ट्र᳘स्य म᳘ध्यᳫँ᳭ श्रि᳘यमेव᳘ राष्ट्रे᳘ मध्य᳘तो ऽन्ना᳘द्यन्दधाति॥

मूलम् - Weber

अ᳘थास्यै म᳘ध्यमेधतामि᳘ति॥
श्रीर्वै᳘ राष्ट्र᳘स्य म᳘ध्यं श्रि᳘यमेव᳘ राष्ट्रे᳘ मध्यॗतोऽन्ना᳘द्यं दधाति॥

मूलम् - विस्वरम्

“अथास्यै मध्यमेधताम्”- इति । श्रीर्वै राष्ट्रस्य मध्यम् । श्रियमेव राष्ट्रे मध्यतो ऽन्नाद्यं दधाति ॥ ४ ॥

हरिस्वामी

[व्याख्यानं तृतीये]

Eggeling
  1. ‘And may the centre of her body prosper,’–the centre of royal power, doubtless, is glory: glory (prosperity), food, he thus lays into the very centre of royal power (or, the kingdom).

०५

विश्वास-प्रस्तुतिः

शीते व्वा᳘ते पुन᳘न्निवे᳘ति॥
क्षे᳘मो वै᳘ राष्ट्र᳘स्य शीतं क्षे᳘ममे᳘वास्मै करोति॥

मूलम् - श्रीधरादि

शीते व्वा᳘ते पुन᳘न्निवे᳘ति॥
क्षे᳘मो वै᳘ राष्ट्र᳘स्य शीतं क्षे᳘ममे᳘वास्मै करोति॥

मूलम् - Weber

शीते वा᳘ते पुन᳘न्निवे᳘ति॥
क्षे᳘मो वै᳘ राष्ट्र᳘स्य शीतं क्षे᳘ममेॗवास्मै करोति॥

मूलम् - विस्वरम्

“शीते वाते पुनन्निव”- (वा. सं. २३ । २६) इति । क्षेमो वै राष्ट्रस्य शीतम् । क्षेम मेवास्मै करोति ॥ ५ ॥

हरिस्वामी

[व्याख्यानं तृतीये]

Eggeling
  1. ‘As one winnowing in the cool breeze,’–the cool of royal power, doubtless, is security of

possession: security of possession he procures for him.

०६

विश्वास-प्रस्तुतिः

य᳘का ऽसकौ᳘ शकुंतिके᳘ति॥
व्विड्वै᳘ शकुन्ति᳘का ऽऽह᳘लगि᳘ति व्व᳘ञ्चती᳘ति व्वि᳘शो वै᳘ राष्ट्रा᳘य व्वञ्चन्त्या᳘हन्ति गभे प᳘सो नि᳘गल्गलीति धा᳘रके᳘ति व्विड्वै ग᳘भो राष्ट्रम्प᳘सो राष्ट्र᳘मेव᳘ व्विश्या᳘हन्ति त᳘स्माद्राष्ट्री व्वि᳘शङ्घातुकः[[!!]]॥

मूलम् - श्रीधरादि

य᳘का ऽसकौ᳘ शकुंतिके᳘ति॥
व्विड्वै᳘ शकुन्ति᳘का ऽऽह᳘लगि᳘ति व्व᳘ञ्चती᳘ति व्वि᳘शो वै᳘ राष्ट्रा᳘य व्वञ्चन्त्या᳘हन्ति गभे प᳘सो नि᳘गल्गलीति धा᳘रके᳘ति व्विड्वै ग᳘भो राष्ट्रम्प᳘सो राष्ट्र᳘मेव᳘ व्विश्या᳘हन्ति त᳘स्माद्राष्ट्री व्वि᳘शङ्घातुकः[[!!]]॥

मूलम् - Weber

यॗकासकौ᳘ शकुन्तिके᳘ति॥
विड्वै᳘ शकुन्तिॗकाह᳘लगि᳘ति व᳘ञ्चती᳘ति वि᳘शो वै᳘ राष्ट्रा᳘य वञ्चन्त्या᳘हन्ति गभे प᳘सो नि᳘गल्गलीति धा᳘रके᳘ति विड्वै ग᳘भो राष्ट्रम् प᳘सो राष्ट्र᳘मेव᳘ विश्या᳘हन्ति त᳘स्माद्राष्ट्रो वि᳘शं घा᳘तुकः॥

मूलम् - विस्वरम्

“यका ऽसकौ शकुन्तिका”- इति । विड्वै शकुन्तिका । “आहलगिति वञ्चति"- इति । विशो वै राष्ट्राय वञ्चन्ति । “आहन्ति गभे पसो निगल्गलीति धारका”- (वा. सं. १३ । २२) इति । विड्वै गभः । राष्ट्रं पसः । राष्ट्रमेव विश्याहन्ति । तस्माद्राष्ट्री विशं धातुकः ॥ ६ ॥

हरिस्वामी

[व्याख्यानं तृतीये]

Eggeling
  1. [The Adhvaryu addresses one of the attendant maids, Vāj. S. XXIII, 22,] ‘That little bird,’–the little bird, doubtless, is the people (or clan),–‘which bustles with (the sound) “ahalak,”’–for the people, indeed, bustle for (the behoof of) royal power,–’thrusts the “pasas” into the cleft, and the “dhārakā” devours it,’–the cleft, doubtless, is the people, and the ‘pasas’ is royal power; and royal power, indeed, presses hard on the people; whence the wielder of royal power is apt to strike down people.

०७

विश्वास-प्रस्तुतिः

(को) माता᳘ च ते पिता᳘ च त ऽइ᳘ति॥
(ती) इयम्वै᳘ मा᳘ता ऽसौ᳘ पि᳘ता ऽऽभ्या᳘मे᳘वैनᳫँ᳭ स्वर्ग्गं᳘ लोक᳘ङ्गमयत्य᳘ग्ग्रम्वृक्ष᳘स्य रोहत ऽइ᳘ति श्रीर्व्वै᳘ राष्ट्रस्या᳘ग्ग्रᳫँ᳭ श्रि᳘यमे᳘वैनᳫँ᳭ राष्ट्रस्या᳘ग्ग्रङ्गमयति प्प्र᳘तिलामी᳘ति ते पिता᳘ गभे᳘ मुष्टि᳘मतᳫँ᳭सयदि᳘ति व्विड्वै᳘ गभो᳘ राष्ट्रं᳘ मुष्टी᳘ राष्ट्र᳘मेव᳘ व्विश्या᳘हन्ति त᳘स्माद्राष्ट्री व्वि᳘शङ्घा᳘तुकः॥

मूलम् - श्रीधरादि

(को) माता᳘ च ते पिता᳘ च त ऽइ᳘ति॥
(ती) इयम्वै᳘ मा᳘ता ऽसौ᳘ पि᳘ता ऽऽभ्या᳘मे᳘वैनᳫँ᳭ स्वर्ग्गं᳘ लोक᳘ङ्गमयत्य᳘ग्ग्रम्वृक्ष᳘स्य रोहत ऽइ᳘ति श्रीर्व्वै᳘ राष्ट्रस्या᳘ग्ग्रᳫँ᳭ श्रि᳘यमे᳘वैनᳫँ᳭ राष्ट्रस्या᳘ग्ग्रङ्गमयति प्प्र᳘तिलामी᳘ति ते पिता᳘ गभे᳘ मुष्टि᳘मतᳫँ᳭सयदि᳘ति व्विड्वै᳘ गभो᳘ राष्ट्रं᳘ मुष्टी᳘ राष्ट्र᳘मेव᳘ व्विश्या᳘हन्ति त᳘स्माद्राष्ट्री व्वि᳘शङ्घा᳘तुकः॥

मूलम् - Weber

माता᳘ च ते पिता᳘ च त इ᳘ति॥
इयं वै᳘ माॗतासौ᳘ पिॗताभ्या᳘मेॗवैनᳫं स्वर्गं᳘ लोकं᳘ गमयत्य᳘ग्रं वृक्ष᳘स्य रोहत इ᳘ति श्रीर्वै᳘ राष्ट्रस्या᳘ग्रं श्रि᳘यमेॗवैनं राष्ट्रस्या᳘ग्रं गमयति प्र᳘तिलामी᳘ति ते पिता᳘ गभे᳘ मुष्टि᳘मतंसयदि᳘ति विड्वै᳘ गभो᳘ राष्ट्र᳘म् मुष्टी᳘ राष्ट्र᳘मेव᳘ विश्या᳘हन्ति त᳘स्माद्राष्ट्री वि᳘षं घा᳘तुकः॥

मूलम् - विस्वरम्

“माता च ते पिता च ते”- इति । इयं वै माता । असौ पिता । आभ्यामेवैनं स्वर्गं लोकं गमयति । “अग्रं वृक्षस्य रोहतः”- इति । श्रीर्वै राष्ट्रस्याग्रम् । श्रियमेवैनं राष्ट्रस्याग्रं गमयति । “प्रतिलामीति ते पिता गभे मुष्टिमतंसयत्” (वा. सं. २३ । २४) इति । विड्वै गभः । राष्ट्रं मुष्टिः । राष्ट्रमेव विश्याहन्ति । तस्मात् राष्ट्री विशं धातुकः ॥ ७ ॥

हरिस्वामी

[व्याख्यानं तृतीये]

Eggeling
  1. [The Brahman addresses the queen consort, Vāj. S. XXIII, 24,] ‘Thy mother and father,’–the mother, doubtless, is this (earth), and the father yonder (sky): by means of these two he causes him to go to heaven;–‘mount to the top of the tree,’–the top of royal power, doubtless, is glory: the top of royal power, glory, he thus causes him to attain;–‘saying, “I pass along,” thy father passed his fist to and fro in the cleft,’–the cleft, doubtless, is the people; and the fist is royal power; and royal power, indeed, presses hard on the people; whence he who wields royal power is apt to strike down people 3.

०८

विश्वास-प्रस्तुतिः

(को) य᳘द्धरिणो य᳘वमत्ती᳘ति॥
व्विड्वै य᳘वो राष्ट्र᳘ᳫँ᳘ हरिणो व्वि᳘शमेव᳘ राष्ट्रा᳘या᳘द्याङ्करोति त᳘स्माद्राष्ट्री᳘ व्विमत्ति[[!!]] न᳘ पुष्ट᳘म्पशु म᳘न्यत ऽइ᳘ति त᳘स्माद्रा᳘जा पशून्न᳘ पुष्यति शूद्रा यद᳘र्य्यजारा न पो᳘षाय धनायती᳘ति त᳘स्माद्वैशीपु᳘त्रन्नाभि᳘षिञ्चति॥

मूलम् - श्रीधरादि

(को) य᳘द्धरिणो य᳘वमत्ती᳘ति॥
व्विड्वै य᳘वो राष्ट्र᳘ᳫँ᳘ हरिणो व्वि᳘शमेव᳘ राष्ट्रा᳘या᳘द्याङ्करोति त᳘स्माद्राष्ट्री᳘ व्विमत्ति[[!!]] न᳘ पुष्ट᳘म्पशु म᳘न्यत ऽइ᳘ति त᳘स्माद्रा᳘जा पशून्न᳘ पुष्यति शूद्रा यद᳘र्य्यजारा न पो᳘षाय धनायती᳘ति त᳘स्माद्वैशीपु᳘त्रन्नाभि᳘षिञ्चति॥

मूलम् - Weber

य᳘द्धरिणो य᳘वमत्ती᳘ति॥
विड्वै य᳘वो राष्ट्र᳘ᳫं᳘ हरिणो वि᳘शमेव᳘ राष्ट्रा᳘याॗद्यां करोति त᳘स्माद्राष्ट्रो वि᳘शमत्ति न᳘ पुष्ट᳘म् पशु म᳘न्यत इ᳘ति त᳘स्माद्रा᳘जा पशून्न᳘ पुष्यति शूद्रा यद᳘र्यजारा न पो᳘षाय न᳘ धनायती᳘ति त᳘स्माद्वैशीपुॗत्रं नाभिषिञ्चति॥

मूलम् - विस्वरम्

“यद्धरिणो यवमत्ति”- इति । विड् वै यवः । राष्ट्रं हरिणः । विशमेव राष्ट्रायाद्यां करोति । तस्माद्राष्ट्री विशमत्ति । “न पुष्टं पशु मन्यते”- इति । तस्मात् राजा पशून्न पुष्यति । “शूद्रा यदर्यजारा न पोषाय धनायति”- (वा. सं. २३ । ३०) इति तस्माद्वैशीपुत्रं नाभिषिञ्चति ॥ ८ ॥

हरिस्वामी

[व्याख्यानं तृतीये]

Eggeling
  1. [The chamberlain addresses the king’s fourth wife, Vāj. S. XXIII, 30,] ‘When the deer eats the corn,’–the grain (growing in the field), doubtless, is the people, and the deer is royal power: he

thus makes the people to be food for the royal power, whence the wielder of royal power feeds on the people;–‘it thinks not of the fat cattle,’–whence the king does not rear cattle;–‘when the Śūdra woman is the Arya’s mistress, he seeks not riches that he may thrive 4,’–hence he does not anoint the son of a Vaiśya woman.

०९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘प वा᳘ ऽएते᳘भ्यः प्राणाः᳘ क्रामन्ति॥
ये᳘ यज्ञे᳘ पूताम्वा᳘चं व्व᳘दन्ति दधिक्रा᳘व्णो ऽअकारिषमि᳘ति सुरभिम᳘तीमृ᳘चमन्ततो᳘ ऽन्वाहुर्व्वा᳘चमेव᳘ पुनते᳘ नैभ्यः प्राणा ऽअ᳘पक्रामन्ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘प वा᳘ ऽएते᳘भ्यः प्राणाः᳘ क्रामन्ति॥
ये᳘ यज्ञे᳘ पूताम्वा᳘चं व्व᳘दन्ति दधिक्रा᳘व्णो ऽअकारिषमि᳘ति सुरभिम᳘तीमृ᳘चमन्ततो᳘ ऽन्वाहुर्व्वा᳘चमेव᳘ पुनते᳘ नैभ्यः प्राणा ऽअ᳘पक्रामन्ति॥

मूलम् - Weber

अ᳘प वा᳘ एते᳘भ्यः प्राणाः᳘ क्रामन्ति॥
ये᳘ यज्ञे᳘ऽपूतां वा᳘चं व᳘दन्ति दधिक्रा᳘व्णो अकारिषमि᳘ति सुरभिम᳘तीमृ᳘चमन्ततो᳘ऽन्वाहुर्वा᳘चमेव᳘ पुनतेॗ नैभ्यः प्राणा अ᳘पक्रामन्ति॥

मूलम् - विस्वरम्

अप वा एतेभ्यः प्राणाः क्रामन्ति । ये यज्ञे पूतां वाचं वदन्ति । “दधिक्राव्णो अकारिषम्”- (वा. सं. २३ । ३२) इति सुरभिमतीमृचमन्ततो ऽन्वाहुः । वाचमेव पुनते । नैभ्यः प्राणा अपक्रामन्ति ॥ ९ ॥

हरिस्वामी

[व्याख्यानं तृतीये]

Eggeling
  1. But, indeed, the vital airs pass from those who speak impure speech at the sacrifice. [The queen consort having been made to rise by her attendants, the priests and chamberlain say, Vāj. S. XXIII, 32, R̥g-v. S. IV, 39, 6,] ‘The praises of Dadhikrāvan have I sung, (the victorious, powerful horse: may he make fragrant our mouths, and prolong our lives!),’–thus they finally utter a verse containing the word ‘fragrant’: it is (their own) speech they purify 5, and the vital airs do not pass from them.

  1. 324:1 The colloquy between the men and women, referred to in paragraphs 1-8, would seem to go on simultaneously. The verse addressed by the Hotr̥ to the king’s discarded wife, Vāj. S. XXIII, 28, is omitted by the Brāhmaṇa, as are also the verses spoken in reply by the women (with their attendants), and closely resembling those of the men in tone and wording. According to some authorities it is the attendant women alone who reply, not the king’s wives. Katy. XX, 6, 20. ↩︎

  2. 324:2 Mahīdhara takes the objective pronoun to refer to the Vāvātā, whilst Harisvāmin, on the other hand, supplies some such word as ‘śāṭikaṁ.’ ↩︎

  3. 325:1 The Mahishī: Thy mother and father are playing on the top of the tree like thy mouth when thou wilt talk: do not talk so much, Brahman! ↩︎

  4. 326:1 Mahīdhara interprets,–then he (her husband), the Śūdra, does not wish for wealth, but is unhappy. ↩︎

  5. 326:2 That is to say, they make amends for any breaches of decorum committed in the preceding colloquy. ↩︎